(1.03.8) मध्वधिकरणम्एतदधिकरणविचारः अस्मदीये ब्रह्मसूत्रविमर्शे सविस्तरं प्रतिपादितः । तत्रैवद्रष्टव्यः । अथापि किंचिदत्रोच्यते - मधुविद्या छान्दोग्ये मोक्षार्था पठिता ।इयमेव मोक्षफलार्थं प्रथमं तत्र निर्दिष्टा । आदित्ये मधुत्वदृष्टिरुच्यते ।वस्वादिदेवानामामोदहेतुत्वात् आदित्य एव मधुत्वेन रूप्यते । मध्वपूपं वृक्षेलग्नं लंबते । एवं द्युलोकवृक्षे लग्नमन्तरिक्षरूपं मध्वपूपं लम्बते । भ्रमराःपुण्येभ्यः मधु आदाय तत्र संयोजयन्ति । तद्वत् वेद पुष्पगतं वैदिकमन्त्ररूपभ्रमराः स्वेच्चारण पूर्वक क्रियमाणयागादिजन्यं यशस्तेजः इन्द्रियवीर्यरूप फलात्मकं रसं सूर्यमण्डले एकैकभागे संयोजयन्ति ।अत्रत्यमनुष्या इव वसु रुद्र आदित्य मरुत् साध्यगणाः तत्तद्दिशिलग्नं मधु उपरि स्थित्वा दृष्ट्वा तृप्यन्ति ।। एवं मधुभूतादित्यध्यानेन सहतदन्तर्यामि परमात्मनो ध्याने प्रथमं वसुरुद्रादिभोगमनुभूय पश्चात्मोक्षं च प्राप्नुवन्ति । तथाच “आदित्यस्य मधुत्वं आदित्यरश्मीनांमधुनाडीत्वं वेदानां पुष्पत्वं वेदमन्त्राणां भ्रमरत्वं यागान्वितद्रव्याणांपुष्परसत्वं चात्र रूपितम् । हूयमानानि द्रव्याणि रश्मिद्वारा आदित्यंप्राप्नुवन्ति । “अग्नौ प्रास्ताऽऽहुतिः संयगादित्यमुपतिष्ठते” इतिचात्र प्रमाणम् । अत्र शिष्यस्य जैमिनेः पूर्वपक्षः ।आचार्यस्य व्यासस्य सिद्धान्तः । उपासनविशेषेषु देवतानां नाधिकारःइति पूर्वपक्षकरणात् देवतादिरूपवस्त्वादीनां शरीरवत्त्वं जैमिन्यभिमतमितिस्फुटं ज्ञायते । अतो विग्रहाद्यभावप्रयुक्तानधिकारपक्षः न जैमिन्यभिमतः ।अर्वाचीन मीमांसककृतः सः पूर्वपक्षः इति चात्र व्यक्तम् ।।पूर्वपक्षिणो जैमिनेरयमाशयः । मधुविद्या न ब्रह्मविद्या यतस्तत्रार्वाचीनमेवफलं श्रूयते - “तद्यत्प्रथमममृतं तद्वसवः उपजीवन्ति…….स च एतदेवामृतंवेद वसूनामेवैको भूत्वा अग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यन्ति” इति ।अस्यां च वस्वादीनां नास्त्यधिकारः । अर्थित्वेन समर्थतात्रिकतनुः संपिण्डिताऽधिक्रिया’ इतिन्यायेन ज्ञान शक्ति शास्त्रानुमतत्वरूपत्रिवपुषः सामर्थ्यस्य शरीरवतामेषां सत्वेपि फलाभिलाषित्व रूपार्थित्वस्यासंभवात्स्वपदप्राप्तिरूप फलस्य पूर्वं प्राप्तत्वात् । वस्वादिभिन्नानांतु तत्पद प्राप्ति कामनया इन्द्रपदप्राप्त्यर्थमन्येनोपायानुष्ठानसंभवेपिएतेषां न फलप्राप्ति कामनाइच्छा विषयसिध्या निवर्तते । वस्वादीनां पूर्वमेव पदं प्राप्तानांविषयसिद्धेः नेच्छोदयसंभवः ।। नचेन्द्रपदवीप्राप्तस्यैव जन्मान्तरेतत्प्राप्यर्थमुपायानुष्ठानं संभवति ।। “चतुर्युग सहस्राणि विष्णुम् आराध्यपद्मभूः । पुनस्त्रैलोक्य धातृत्वं प्राप्तवानिति शुश्रुम” इतिप्रमाणबलेन ब्रह्मणोपि पुनस्तत्पदवीप्राप्तिकामना युज्यते । एवंब्राह्मणस्य सत एव पुनः ब्राह्मण्यजन्म कामना । धनिकस्य पुनरपिधनिकत्व प्राप्तिकामना योयुज्यते । एवमेव वसुपदं प्राप्तस्य पुनर्वसुपदवीकामनेतिकथं फलार्थित्वासंभवः इति वाच्यम् । यतः अस्यां श्रुतौ जन्मान्तरेवस्वादिपदवीप्राप्तिरूपं न बोध्यते ।परं तु तत्स्थान प्राप्ति पूर्वक तद्भोगसाम्यमेव । अन्यथा मधुविद्यानिष्ठानांप्रायणान्ते वस्वादिभावप्राप्तौ अष्टौ वसवः “इत्यादि सिद्धाष्टत्वसंख्या विरोधात् । वैष्णवं वामनं आलभेत स्पर्धमानः इत्यत्र विष्णुरेवभूत्वेमान् लोकानभिजयतीत्यर्थवादस्य यथा विष्णुवत् लोकजेतृत्वमात्रपरता,एवमेवात्रापि तद्भोगसाम्यमात्रपरत्वस्यावश्कतया तद्भोगस्य प्राप्तत्वेनतदभिलाषाऽसंभवात् । मधुविद्यानिष्ठानां मनुष्याणामपि तत्पदप्राप्तिपूर्वक तद्भोगसाम्यस्यैवोक्तेः अष्टौ वसवः इत्यस्यापि न व्याकोपःस्वोपासनेन स्वस्यैव प्रीतिः स्वस्यैव प्रीणयितृत्वं प्रीणनीयत्वमित्यर्थस्यकर्मकर्तृभावविरोधेनासंभवाच्च ।स्वेन स्वयमेवाराधितः स्वपदफलं स्वयं लभते इत्यस्यानुपपत्तेः ।यद्यपि ब्रह्मविद्यायां जीवचिन्तनस्यांगत्वं श्रुतम् । तत्र स्वस्यैवोपास्यत्वंस्वेन । तथापि स्वस्य प्रीणयितृत्वेपि प्रीणनीयत्वं भगवतः इति तस्यैवपरस्य फलप्रदत्वं इत्यदोषात् । भूमविद्याऽन्तर्गत प्राणविद्यायामप्ययमेवन्यायःअतः स्वोपास्यत्वासंभवात् कर्मकर्तृ विरोधात् फल प्रदत्वासंभवाच्चवस्वादीनां स्वोपासने नाधिकारः। किंचोपासनं नाम भक्तिः साचोत्कृष्टवस्तुविषयिणीनहि कामीनीध्यानं भक्तिः । भक्तौ स्वात्मचिन्तनस्यांगत्वेपि,निकृष्टः स्वयं जीवः शुद्धस्वरूपात्मकोत्कृष्टवस्तूपासनं करोतिअत्र वस्वादेः वस्वादि विग्रहविशिष्टअमुमेवाशयमाविष्करोति - नह्यादित्यवस्वादिइत्यादिना । मधुविद्याप्रतिपाद्यार्थं संग्रहेण प्रतिपादयति - मधुविद्यायामितिअयं पूर्वपक्षः प्रतर्दनविद्यायां अथर्वशिरो विद्यायां च न संभवतितयोः ब्रह्मविद्यात्वेन इन्द्ररुद्रादीनां विशेषणतयैवोपास्यत्वात्ब्रह्मणः विशेष्यतयोपास्यत्वमित्य विरोधात् ।। आदित्यस्य प्राक्दक्षिण-प्रत्यक्उत्तर-ऊर्ध्वभागाः पञ्च, तेषु - ऋग्यजुस्सामाथर्वमन्त्र आदेशात्मकभ्रमराः ऋग्यजुस्सामाथर्व-ब्रह्मभागात्मकपुष्पेभ्यः रसं यशस्तेजइन्द्रिय वीर्यादिरूपेण परिणतं प्रक्षिपन्ति ।ते रसाः रोहित-शुक्ल-कृष्ण-अतिशयित प्रस्फुरद्भागरूपपंचांशात्मनाअवतिष्ठन्ते ।
ज्योतिषि भावाच्च - अनेन सूत्रेण मधुविद्यायाः अब्रह्मविद्यात्वमेवेतिपूर्वपक्ष्याशयो व्यज्यते । ज्योतिषां ज्योतिः=चन्द्र सूर्यादिज्योतिषामपिप्रकाशकं ज्योतिः ब्रह्म । तमेव भान्तमनुभाति सर्वे इत्यादि प्रमाणात्अत्र सर्वं वाक्यं सावधारणमिति न्यायेन अवधारणं फलति । स उ श्रेयान्भवतिजायमानः इत्यत्र यथा उशब्द बोधितमवधारणं सर्वत्रान्वेति तथाऽत्रापिअन्वयो वक्तव्यः । देवा एवज्योतिः उपासते । इत्यर्थे मनुष्याणामुपासनाधिकारःनस्यात् । देवाः ज्योति रूपासत एव इत्यर्थे अनुपासकदेवानामभाव प्रसंगःज्योतिरेवोपासत इत्युक्तौ देवानां ब्रह्मेतरवस्वादि देवताविषयकोपासनंन युक्तमिति लभ्यतेतस्मात् अब्रह्मविद्यायां नाधिकारो देवानाम् ।सिद्धान्तमाह - एवं प्राप्त इति । य एता मेवं ब्रह्मोपनिषदं वेद इत्युपसंहारेकृत्स्नाया अस्या ब्रह्मविद्यात्वोक्तेः इयं ब्रह्मविद्यैव (सकृद्दिवाहैवास्मैभवति इति उपासकस्य फलोक्तेः । संसृतिकालरात्रि निवृत्तिपूर्वकं सर्वदा प्रकाशमानत्वसिद्धेः मोक्षरूपमपि फलमत्रैव श्रुतम्अतस्तेषामपि स्वान्तर्यामितया प्रतर्दनविद्यायामिव उपासनसंभवात्पूर्वोक्तानां सर्वेषामपि परिहारः । भावि वस्वादित्व प्राप्ति पूर्वकब्रह्मप्रेप्सासंभवात् अर्थित्वरूपाधिकारोपि युक्तः । कल्पान्तरेवस्त्वादिपद प्राप्तेः अष्टौ वसवः इति सिद्धान्तस्यापि न विरोधःवसूनामेवैको भूत्वा इत्यस्य “विष्णुरेव भूत्वा’ इति अर्थ वर्णनस्यनावश्यकता च । असति बाधके एव सर्वं वाक्यं साधरणमिति न्यायस्यावकाशइति नात्रावधारणावश्यकता । अवधारणाभ्युपगमेपि अयोगव्यवच्छेदकत्वार्थस्वीकारेन दोषश्च ।।
स्वावस्थ ब्रह्मोपासनेन = वस्वादि शरीरक ब्रह्मोपासनेन । ब्रह्मप्रेत्सासंभवः=ब्रह्मप्राप्तीच्छासंभवःतत्र प्राप्तौ वस्वादित्यप्राप्ति पूर्वकत्वस्यान्वयः ।। प्रकरणेब्रह्मप्राप्तिरूपफल विवक्षणमावश्यकमित्येतदर्थं - अत्रहीत्यादिकमुक्तम्विधीयते इत्यत्र वाक्यसमाप्तिः । “असौ वा आदित्य….इत्यारभ्य - उपास्यमुपदिश्यतेइत्यन्तं एकं वाक्यम् । “अथ तत” इत्यारभ्य उपास्यमुपदिश्यते इत्यन्तमपरंवाक्यम् । दिवारात्रिविभागो नास्ति । अस्मै उपासकाय सकृत् दिवाभवति । आविर्भूतज्ञानस्य न कदापि विनाशः । एवं देवानामधिकारनिर्णयेनसर्वदेवताष्ट्रत्वं देवतोपास्यत्वं देवतानुग्राहकत्वादिच (महिमा)परमात्मनः उक्तं भवति । इति मध्वधिकरणम् ।।