33 देवताधिकरणम्

(1.03.7) एतद्गर्भे देवताधिकरणम्प्रमिताधिकरणे सूत्रचतुष्टयम् । सूत्रद्वयानन्तरं प्रसंगसंगत्याअधिकरणत्रयं संप्रवृत्तम् ।पश्चात् सूत्रद्वयम् । पूर्वतन्त्रेपिइन्द्रपीताद्यधिकरणं प्रासंगिकं प्रवृत्तम् । एवमेव गर्भाधिकरणतयाप्रासंगिकमधिकरणत्रयमत्रापि ।। “तदुपर्यपि” इति अमनुष्याणां सामान्यतोऽधिकारःस्थाप्यते “मध्वादिष्विति” स्थलविशेषेऽधिकारः । “शुगस्य” इति मनुष्यान्तर्गतानामपिकेषांचिदनधिकारात् मनुष्यविशेषेष्वनधिकारः इति क्रमेण स्थाप्यतेनच ब्रह्मविद्याधिकारानधिकारादि तृतीयाध्याये तुरीयपादे विचार्यतेकिमर्थमत्र । तद्विचारःइति वाच्यम्तार्तीयैरधिकरणैः नाधिकारविचारः । परं तु भक्ति योगतदङ्गविचारःतत्तद्वर्णाश्रमाधिकारिणां विहितानामंगत्वमस्तिवा न वेत्यादिकमेवविचार्यते । इतिकर्तव्यताख्यांगकलापविचारः तत्र क्रियते । सचनात्रविचार्यते । मनुष्याधिकारत्वादिति मनुष्यशब्दश्रवणात् तन्मूलक प्रश्नस्यप्रवृत्तत्वात् विद्याधिकारविचारोऽत्र प्रस्तुतः ।।अत्रायं पूर्वपक्षः - उपासनस्य मनुष्याधिकारत्वादित्युक्त्या अमनुष्याणामनधिकारःइति फलितम् । अतः तिरश्चां देवतानामपि नाधिकारः । तिरश्चां शरीरसत्वेपिसामर्थ्याभावात् नाधिकारः । देवानां शरीराभावेन अर्थित्वसामर्थ्ययोरुभयोरप्यभावेननाधिकारः । अर्थित्वं पलापेक्षा । सामर्थ्यं त्रिरूपम् । उपायविषयकज्ञानं,अनुष्ठानशक्तिः शास्त्रानुमतत्वम् । “अर्थित्वेन समर्थता त्रिकतनुःइति रहस्यत्रयसारे । देवानां शरीराभावात् तत्प्रयुक्त तापत्रयाभावात्तत एव फलापेक्षाभावाच्च नाधिकार कल्पनं युक्तम् । नच देवतोद्देशेनद्रव्यत्यागादेरेव यागरूपत्वात् देवतानंगीकारे कथं यागादिसंपत्तिरितिवाच्यंदेवता स्वरूपस्य निषेधाभावेन तदुपपत्तेः । नहि वयं देवतास्वरूपमेवनिषेधामः । करचरणादेरेव निषेधात् । तत्तच्छब्दरूपत्वस्यानिषेधात्तत्र तत्र श्रूयमाणः अग्न्यादिशब्द एव देवता अर्थादर्शनात् ।यदि देवता अर्थरूपा स्यात् । तदा अग्निशब्दवाच्यः पावकशब्दवाच्यश्चदेवतारूपोऽर्थः एक एव स्यात् । अग्नये स्वाहा इति स्थाने पावकायस्वाहा इत्यपि होमः कर्तुुं शक्येत । न चैतत् स्वीक्रियते । विधिवाक्यश्रुतस्यैवशब्दस्योच्चारणेन होमादीनां कर्तव्यत्वस्य निश्चितत्वात् । नचैवंसति अग्निना दहति, पचतीत्यादौ कथं शब्दस्य दाहकत्वादिअर्थरूपदेवतायाः अनंगीकारात्, इति वाच्यम् । लोकव्यवहारानुसारेणउष्णस्पर्शवद्द्रव्यस्यार्थस्य प्रतीयमानस्य देवतारूपत्वांगीकारेणदोषाभावात् । न हि करचरणाद्याकृतिमत्वं स्वीकरणीयम् । अतस्संभवस्थलेलौकिकार्थविशिष्ट शब्दरूपः देवता, अ संभवस्थले केवलशब्दरूपा इतिन देवतानामधिकारः । शरीराभावेपि उद्देश्यत्व संभवेन द्रव्यत्यागात्मकयागाद्युपपत्तेश्च ।। “शब्दात्मा लौकिकार्थाकृतिरथवा देवताऽतोन तस्याः” इति सारावलिः ।।ननु देवमनुष्यादि चतुः प्रकारक सृष्टौ देवतासृष्टेरप्यन्यतमत्वात्मनुष्यादिसृष्टौ शरीरस्वीकारवत् देवसृष्टावपि शरीरस्यावश्यकत्वेनकथमत्र देवानां शरीराभावप्रयुक्तानधिकारित्वशंका । युक्तं चैतत्"वज्रहस्तःपुरुदरः, “इन्द्रो वृत्राय वज्रमुदयच्छत् “इत्यादौ शरीरवत्वबोधनमप्युपपद्यते । मन्त्राणा मनुष्ठेयार्थस्मारकत्वेन प्रतीयमानेऽर्थेतात्पर्यावश्यकत्वात् “अर्थवादवाक्यानां स्तुतौतात्पर्यात् प्रतीयमानदेवतासद्भावेऔचित्यात् । क्षणध्वंसिनां कर्मणां कालान्तर भाविस्वर्गसाधनत्वासंभवेनद्वारापेक्षायां “तृप्त एवैनमिन्द्रः प्रजया पशुभिः तर्पयतीति इतिअर्थवादतः प्रतीतस्य देवताप्रसादस्य द्वारत्वावश्यकत्वेन देवतायाःसद्भावावगमात्न चापूर्वस्य द्वारस्य स्वीकारेण देवता प्रसादस्यानावश्यकता । प्रतीतस्यप्रसादस्योपेक्षायां प्रमाणाभावात् । कल्पनस्य गौरवाच्च । “यज देवपूजायामिति"प्रमाणबलेन यागस्य देवताराधन रूपत्वात् तदाराधन भूतानां यागानांभूपाद्याराधनवत् आराधनीयदेवताद्वारा फलसिद्धिरिति देवताविग्रहादिसिद्धेः । “इन्द्रो हवै देवानां अभिप्रबब्राज विरोचनोऽसुराणांइति ब्रह्मकाण्डगतारव्यायिकाबलेन च देवतादिविग्रहादेः सिध्यावश्यकत्वात्अतः कथ मियं शंका? इति चेदुच्यते - मन्त्राणा मनुष्टेयार्थस्मारकत्वेपितेषां तत्र तात्पर्याभावात् । सता असताच स्तुतिदर्शनेन स्तुत्यर्थंअर्थसद्भावानपेक्षणात्लौकिकराजादिस्तुतिषु काव्यादिनिबन्धनस्तुति निन्दादिषु च असदर्थमादायाप्युपपत्तेःअर्थ सद्भावानावश्यकत्वात् । स्वतः पुरुषार्थ पर्यवसायिनामेवार्थवादानांप्रयोजनपर्यवसानस्य स्थापितत्वात् । कर्मणां नश्वरत्वेपि अपूर्वस्यद्वारत्वकल्पनेनैवोपपत्तेः । देवतारहितेषु दानादिषु देवताप्रसादस्याभावेनापूर्वकल्पनस्यावश्यकत्वात् । सर्वत्र तस्यैवानुयायित्वात् । चेतनाचेतनविभागमन्तरायागहोमेषु दानादिषु सर्वत्रापूर्वस्यैव फलजनकत्व व्याप्तेः । पित्रुद्देश्यकेषुश्राद्धादिषु मुक्तानां तिर्यग्भूतानां वा पितृणां फलप्रदानसामर्थ्याभावात्अश्वमेधे हि मेध्यस्याश्वस्य गुणं क्रियां अंगानि चोद्दिश्य होमःक्रियते । “कृष्णाय स्वाहा, श्वेताय स्वाहा, यन्मेहसि तस्मै स्वाहा,यच्छकृत् करोषि तस्मै स्वाहा, दद्भ्यः स्वाह, हनूभ्यां स्वाहा इत्यादयोमन्त्राः दृश्यन्ते ।। नात्रहोमेषु चेतना देवताऽस्ति । देवतानामपिसृष्टिप्रलयाभ्युपगमात् कल्पावसानानुष्टितकर्मणां भाविकल्पे एवफलावशयकत्वात् आराधितानां देवतानामभावात् फलासिद्धिप्रसंगाच्च ।पितृमातृ गुरुभर्त्रतिथि विद्यावृद्धाना मुपचारेण पूजितानामपि फलप्रदातृत्वाभावात्ज्योतिष्टोमे पयोन्ननिवेदनेन सत्कृतायाः सोमलतायाः अचेतनायाःफलप्रदातृत्वासंभवात्यदि राजकुमारादि पूजा राजपूजेति राज्ञः फलप्रदत्वमिव एतेषां पूजापिअन्तर्यामि भूतसर्वेश्वरपूजेति तस्यैव फलप्रदत्वमिष्यते तर्हि सर्वत्रआराधिनात् भगवत एव फलसिद्धिरिति न देवतास्वीकारस्यावश्यकता । “इष्टापूर्तंबहुधाजातं….नाभिः"इति भगवत - एव फलप्रदातृत्वं श्रूयते । ब्रह्मकाण्डगताख्यायिकानामपिपारिप्लवाधिकरणन्यायात् ब्रह्मविद्याशेषत्वमेव । यथा कर्मकाण्डगतविश्वरूपाद्यारव्यानानां अग्नीषोमीय यागादि विधि शेषत्वम् । अतोन तैः अर्थवादैः अर्थ सिद्धिः । तस्मात् देवताविग्रहासिध्या ब्रह्मविद्योपासनंन तेषां संभवतीतिन च देवताया एवानंगीकर्तुः ब्रह्मरूपदेवताया अप्यभावात् कथमत्रैवंशंका उपास्य स्यैवाभावादिति वाच्यम् । कर्ममीमांसाभ्युपगतदेवतानिषेधंस्वीकर्तुः शास्त्रयोनित्वाधि करणस्थापितेश्वराभ्युपगन्तुरत्र पूर्वपक्षित्वात्नत्वत्र जैमिनिः पूर्वपक्षी । अत एवोत्तराधिकरणे “अनधिकारं जैमिनि"इति नामनिर्देशं चकार ।।सिद्धान्ते - संभवादित्यत्र अर्थित्व सामर्थ्ययोः इति योजितम् ।अर्थित्वं तावदित्यनेन प्रथममुपपादितम् । सामर्थ्यमपि इत्यनेन द्वितीयस्योपपादनम्उभयोपपादक शरीरत्वोपपादनं देहेन्द्रियादिमत्वंच इत्यनेन । न चेत्यादिना - मन्त्रार्थवादेषु प्रतीयमानार्थविवक्षा आवश्यकी इत्युपपाद्यते । नच निर्विशेषेत्यादिनाअन्यपरत्व निषेधः ।सृष्टिप्रकरणेषु इन्द्रो वरुणः सोमो रुद्रः इत्यादिवाक्यैः सृष्टिप्रतिपादनात्,इन्द्रादिस्थानानां कर्मविशेषफलत्व प्रतिपादनात् इन्द्रादेः त्रैलोक्यधिपतित्वादिश्रवणात्वसूना मेवोको भूत्वाग्निनैव मुखेन दृष्ट्वा तृप्यन्ति इति वसु रुद्रआदित्य मरुत् साध्याख्यगण देवता प्राप्तेः मधुविद्याफलत्व प्रतिपादनात्इन्द्रादिदेवतावशीकरणस्यास्मदादिकर्मफलत्वश्रवणात् ।। सहस्त्राक्षोगोत्रभित् वस्त्र बाहुः अस्मासु देवो द्रविणं ददातु । चत्वारि शृंगाःत्रैयो अस्य पादाः द्वे शीर्षे सप्त हस्तासोऽस्य इत्यादिभिः सहस्राक्षत्वसप्तहस्तत्वादिविशिष्टविग्रह विशेषस्योक्तेश्चन चैतेषु विग्रहविशेषप्रतिपादनं न संभवतीति शंक्यम् । “यां देवतांवषट्करिष्यन् स्यात् तां मनसा ध्यायेत्” इति ध्यानस्य विहितत्वेनध्यानस्य ध्यातव्याकारविशेषापेक्षत्वाच्च विग्रहसिद्धेः । नच निराकारादेवता ध्याने विषयो भवेत् । नचासताऽर्थेन विनेकिनां प्ररोचना संभवतिअतो द्वारभूतार्थसत्ताऽस्तीति निश्चीयते । अपिचार्थवादे इन्द्रवृत्रादिशब्देषुविभक्तिदर्शनादपि इन्द्रादिशब्दानामर्थवत्वं निश्चीयते । तेषामर्थाभावेप्रतिपादिकत्वमेव नस्यात् । कथं च विभक्त्युत्पत्तिः ।। इन्द्रस्यगौतमपन्नीसंगम, अफलत्वशापमेषवृषणत्वादिकं उक्तं विग्रहाभावे कथंसंगच्छेत ।न चार्थवादानां प्ररोचकत्वात् नार्थसत्तानियमः इति वाच्यम् । अर्थासद्भावेस्तुति त्वस्यैवापगमात् । वालोपच्छन्दनवाक्येष्वपि हि अर्थ सद्भावेऽनिश्चितेतेषामपि प्रवृत्त्यदर्शनात् । वस्तुतः स्तुतिः स्वगुणमुखी परगुणमुखी इति द्विविधा । प्रथमा तु यथावस्थितवाच्यार्थवतीति वाच्यार्थस्वीकारः आवश्यकः । द्वितीयातु सर्वथैवासंबद्धकथनरूपा न भवति ।तत्र स्थितअल्पः बहुक्रियते । अयमिन्द्रः चन्द्रः कुबेरः कर्णःइतिः अंशः । स्तुतावपि स्तुत्ये पुरुषे पूर्णगुणायोगेपि अल्पांशस्यसत्वमेषितव्यम् । तत्र वाच्यार्थस्य पूर्णस्य बाधात् लक्षणा स्वीक्रियतेनहि वाच्यार्थं सर्वं विहाय “प्रशस्तमिदं’ इति लक्षणा कल्पयितुंशक्यते । प्रशंसारूपार्थन्तर लक्षणायामपि नियामकः शक्यार्थ संबन्धएव । अतश्शक्यार्थस्य नैव परित्यागः सुवचः ।नन्वन्यत्र स्थितस्य गुणस्यारोप एव व स्तुतिः । न तु स्थितस्य गुणस्यएकदेशस्य वा कथनम् । इदमेव सर्वेष्टम् । भूतार्थे का स्तुतिः स्यात्इति भरतमुनिभिरप्युक्तम् । अतो विद्यमानगुणकथनं स्तुतिः नभवति ।अत एवेश्वरवर्ण स्यास्तुतिरूपत्वम् । तस्य सर्वगुणाधारत्वात् ।अतोऽसद्गुणकथनस्यैव स्तुतिरूपत्वमिति देवताविग्रहसद्भावे नार्थवादवाक्यानांतात्पर्यमिति चेत् । शृणु । “भूतार्थे का स्तुतिः” स्यात् “भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः” इत्यादिकं वास्तवार्थकथनस्यस्तुतिरूपत्वेनिषेधार्थं न प्रवृत्तम् । गुणारोपस्य स्तुतिः भगवतिन संभवति इति प्रदर्शनार्थमेव प्रवृत्तंअन्यथा अगुणे गुणारोपस्यैव स्तुतित्वे वास्तवगुणकथनस्य स्तुतिरूपत्वंभज्येत । नचेष्टापत्तिः, गुणि निष्टगुणाभिधानस्य मीमांसकैः स्तुतित्वाभ्युपगमात्लोकेपि तथा दर्शनात् । अन्यथा जलगतस्य सेचनगुणस्व वह्नावारोप्यबहिना सिंचतीति वह्नेः स्तोत्रकरण प्रसक्तेः ।। पुराणादिषु मुनिभिःकृतस्य स्तोत्रस्य भगवति स्तुतिरूपत्वाभावप्रसंगात् ।। अतो वस्तुसद्भावेन विरोधः । यत्र तु विरोधः तत्रासदर्थावलम्बनमस्तु । यत्र न विरोधःतत्रोत्सर्ग सिद्धस्वतः प्रामाण्यवशात् अर्थसत्ता स्वीकार्या ।अपि चार्थापेक्षायास्सत्त्वादपि तात्पर्यं स्वीकार्यम् ।“स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान् अन्यत्र त्वसतोऽधिरोप्यफणितिः सा तर्हि वन्ध्या त्वयि ।।संयक् सत्यगुणाभिवर्णनमयो ब्रूयुः कथं तादृशी वाक् वाचस्पतिनापिशक्यरचना त्वत्सद्गुणार्णोनिधौ ।।इति श्रीवत्सांकमिश्रैरनु गृहीत श्रीस्तवश्लोकोऽत्रानुसन्धेयः।।ननु मन्त्राणां देवतास्मारकत्वमेव, अर्थवादानां प्ररोचकत्वमात्रमेवन तु गुणादिविषय प्रमिति जनकत्वम् । ज्ञातविषये अनधिगतार्थबोधकत्वायोगात्बाधितस्यले च बोधस्यैवायोगादितिचेत् तत्राह - तत्र प्रमाणान्तराप्राप्तानितिअप्राप्तत्वे प्रमापकत्वं प्राप्तत्वेऽनुवादरूपत्वम् । यत्र"आदित्यो यूपः इत्यादौ बाधः तत्रापि तच्छब्दानां अविरुद्धगुणलक्षकत्वम्सर्वथापि बोध्यमानगुणविशिष्ट बोधकत्वं गुणविशिष्ट देवतारूपगुणविशिष्टकर्म बोधकत्वं मन्त्राणामस्त्येव ।

विरोधः कर्मणीति - कर्मसु आगमन हविर्ग्रहण प्रतिपादकवाक्यानां विरोधःइन्द्रादिदेवतानां संबन्धासंभवो वा । “विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदानं च देवतानां न विद्यते” इति मीमासकैरुक्तम्इदमेव संयक् । यतः विग्रहवतो देवस्येन्द्रस्य युगपदनेकैः यागकरणेगमनाद्यसंभवः । यत्र तु देवानामाह्वानं नास्ति, हविर्दानं च क्रियतेतत्राग्निरेव हविः ऊद्वा संप्रयच्छति । तत्रापि एकस्याग्नेः सशरीरस्ययुगदनुष्ठानकाले गमनाद्यंसंभवः हविर्वहनासंवभवश्च । अतोऽत्रैकस्येन्द्रस्ययुगपदनेक यज्ञदेशागमनं न घटतेसिद्धान्ते सौभरिवृत्तान्तः प्रसिद्धः । योगिनामेवात्रत्यानां पश्चात्संभावितशक्तिमतामनेक परिग्रहस्य स्वीकारे आजानसिद्धानां अतिशयितशक्तियुक्तानांदेवानां विषये किमु वक्तव्यम् । नच कस्य वा ह देवस्य इति श्रुतेःका गतिः । अनेक शरीर परिग्रहशक्ति स्तेषां नास्तीति हि तस्याः श्रुतेःतात्पर्यमिति वाच्यम् । तस्याः श्रुतेः युगपदनुष्ठानकालिकागमनपरत्वासंभवात्यस्तु पूर्वमाह्नयति तत्र गमन परत्वे बोधन तात्पर्यात् ।। अनेकप्रतिपत्तिःअनेकशरीरपरिग्रहः । यद्वा अनेकाः प्रतिपत्तयः । प्रतिपत्त्यै नानाप्रकारत्वंनानाशरीराणि परिगृह्णामि, यो यो यागादि करोति तत्र तत्र गत्वा हविःगृह्नामि, स्वयमेवगत्वा गृह्नामि, भृत्यमुखेन गृह्णामि तस्मैतस्मैतत्रत्फलं तदा तदा दास्यामिइत्येवंरूपः । अस्मदपेक्षया सर्वशक्ति सर्वज्ञत्व फलप्रदत्वादीनांसत्वात् तत्तदनुगुण प्रतिपत्तिः तासां देवतानाम् ।।

शब्द इति चेत् - पूर्वसूत्रात् विरोध इत्यस्यानुषंगः । कर्मद्वारकविरोधपरिहारेपिशब्दद्वारकविरोधः न परिहर्तुं शक्यते । शरीरस्वीकारे तस्यानित्यत्वमेष्टव्यम्नहि नित्यशरीरिणीः देवता । तथा सति सृज्यत्वाभावेन चतुर्विध सृष्टिविषयत्वंन संभवेत् । नित्यशरीरवत्वेन तस्य नाशासंभवात् फलान्तरार्थित्वस्याभावेन सर्वथा ब्रह्मोपासनाधिकारो न संभवति । अतोऽनित्यत्वावश्यंभावात्शरीरविशिष्ट वाचकानां इन्द्रादिशब्दानां तदुत्पत्तेः पूर्वं पश्चाच्चार्थशून्यत्वं स्वीकरणीयम् । तदा इन्द्र आगच्छ इत्यादीनां कथमुपपत्तिःतदा यज्ञाद्यनुष्टातृणां कथं यागपूर्तिःयद्यपि डित्थडवित्थादिसांकेतिकशब्दानामिव कादाचित्केनाप्यर्थेनार्थवत्त्वंसूपपादम् । तथापि पूर्वापरकालाह्वानागमनादिकस्य कथमुपपत्तिः । इतिपूर्वपक्षः । अस्योत्तरं अतः प्रभवात् इति । अतः इति पदं इन्द्रादिशब्दपरम्इन्द्रादिशब्दात् इन्द्रादेः उत्पत्तिरित्यर्थः । यथा घटादिशब्दःघटत्वादिजातिवाची । तच्च घटत्वं प्रवाहानादिघटव्यक्तिपरंपरागतम्तथैव इन्द्रादिपदमपि इन्द्रत्वादि जाति वाचकम् । इन्द्रत्वं चप्रवाहानादि भूतेन्द्र व्यक्ति परंपरागतम् । यथाच शिल्पी तत्तदाकारंस्मृत्वा प्रतिमां करोति । तथा प्रजापतिरपि वेदावगत पूर्वपूर्वेन्द्राद्याकारंस्मृत्वा तत्तदाकारविशिष्टं इन्द्रं सृजतिशिल्पिनः शिल्पशास्त्रात् इन्द्राद्याकारावगमः । प्रजापतेः वेदादवगमःप्रत्यक्षं=श्रुतिः । अनुमानं=स्मृतिः । वेदः श्रावणप्रत्यक्षग्राह्यःअतः प्रत्यक्षपदं तदर्थकम् । स्मृतिः समानार्थक श्रुत्यनुमापकम्अतोऽनुमानपदं स्मृत्यर्थकम् । वेदेन=वेदनेन अनुसन्धानेन । तत्तद्वस्तुप्रतिपादकवेदभागतदर्थानुसन्धानेन । इति यावत् । सतासती रूपे=चेतनाचेतने वस्तुनीव्याकरोत् व्यष्टिरूपेण ससर्ज ।

अत एव च नित्यत्वं = कर्मद्वारकविरोधः अर्थद्वारक विरोधश्च परिहृतःसंप्रति शब्दद्वारक विरोधः परिह्रियते । मन्त्रकृतः, विश्वामित्रस्यसूक्तं इत्यादिवचनात् वेदस्य पुरुषकृतत्वं निश्चीयते । संहिताकार,पदकार - सूत्रकार ब्राह्मणकारका इत्युच्यमानत्वात् वेदस्य पौरुषेयत्वंसिध्यति । कर्तुः पुरुषस्यचानित्यत्वात् तदभावे वेदोत्पत्य संभवात्इन्द्रादि शब्दानामप्यभावात् तत्कथं इन्द्रादिशब्द स्मरणपूर्वकतत्तत्पदार्थ सृष्टिः इति शंका । प्रजापतिः इदमपि वेदशब्देश्य एवज्ञात्वा सृजति । विश्वामित्रस्य सूक्तं भवति । इत्यादिवेदशब्देभ्यःविश्वामित्रादीन् तत्तत्सूक्तविशेषदर्शनादिरूप कृत्यविशेषान् नामरूपाणिचानुसन्धायतान् सृजतितेच तत्तत्सूक्तादीननधीत्यैव द्रष्टुं समर्थाः । पूर्वकल्पानुष्ठितपुण्यविशेषवन्तश्चप्रजापतिरपि तादृश एव । इत्थंच तेषां मन्त्रकृत्वं नाम अनघीत्यैवतत्तत्सूक्तादिदर्शन सामर्थ्य रूपम् ।।

समाननामरूपत्वाच्चेति - ननु चतुर्मुखस्यापि आयुः परिसमाप्तौ कथंनिर्वाहः । नहि ब्रह्मा नित्यायुष्कः । प्राकृतप्रलये विनाशात्"चतुर्युगसहस्त्राणि ब्रह्मणो दिनमुच्यते” इति रीत्या तदीयवर्षशतावसाने प्राकृत सर्वपदार्थ नाशात् वेदस्यापि शब्दरूपस्याहंकारिकस्यनाशावश्यकत्वात् कथं वेदनित्यत्वम् । कथंच शब्दपूर्विका सृष्टिःइति पूर्वपक्षः ।। अस्योत्तरम् । छन्दांसि जज्ञिरे तस्मात् ।यजुस्तस्मादजायत इत्यादिना वेदस्याप्युत्पत्ति दर्शनात् अनित्यत्वमिष्टमेववेदस्य नाशस्वीकारेपि - समानानुपूर्वोकत्वं तु न त्यज्यतेसर्वेषु कल्पेष्वपि वेदस्यानुपूर्वी एकरूपैव । तस्मिन् तस्मिन्कल्पेवेदस्यानुपूर्वीतु न भिन्ना । “यो ब्रह्माणं विदघाति पूर्वं योवै वेदांश्च प्रहिणोति तस्मै इतिः श्रवणात् । महाकल्पादौ ब्रह्मसृष्टिःतदनन्तरं तस्मै वेदप्रदानम् । प्रजापतिना पूर्वपूर्वकल्पेन्द्रादिनामरूप व्याकरणमित्यादिक मुपपद्यते” । शब्द नित्यत्ववादिनां मीमांसकानांमते सुलभः समाधिः । वेदस्य पौरुषेयत्वं वदतां नैयायिकानां मते पिसुलभस्समाधिः । यतस्तैः सर्वज्ञेनेश्वरणेच्चरितत्व मिष्यते । शब्दानित्यत्ववादिनांवेदान्तिनां मते तु वेदस्य नित्यत्वं अपौरुषयत्वं चान्यादृशम् - पूर्वंयादृश स्वरवर्णआनुपूर्वोविशिष्टतया वेदराशिः स्थितः तादृश स्वरवर्णानुपूर्वीविशिष्टतया स्मृत्वास्वसृष्ट प्रजापतये उपादिश्यमानत्वमेवयथा भगवतः अवताराः प्रवाहनित्याः, यथा च प्रजापतिः, यथा च वसिष्ठविश्वामित्रादयःअस्रवलितवर्णस्वरानुपूर्वोविष्टितया वेदस्मरणं भगवतः कथं इतिन शंक्यम् । संस्कारानपेक्षमेव भगवतः तत्समरणसंभवात् । यथाचोपाध्यायःरात्रौ सुप्तान् प्रातः प्रबोध्य पूर्वसंस्थान संस्थितमेव वेदमध्यापयतितथा भगवानपि हिरण्यगर्भाय ।“संस्कारं प्रतिसंचरेषु विदधत् सर्गेषु तत्स्मारितं रूपं नाम चतत्तर्दहनिवहे व्याकृत्य रंगास्पद ।सुप्तोद्बुद्ध विरिञ्च पूर्व जनतामध्याप्य तत्तद्धितं शासन्नस्मृतकर्तृकान्वहसि यत् वेदाः प्रमाणं ततः ।“इति श्रीरंगराजस्तत्रे उत्तरशतके भट्ट पराशरपादैः अनुगृहीतमत्रस्मर्तव्यम् ।।ननु समानानुपूर्वीकत्वमादाय नित्यत्वमस्तु । कथमपौरुषेयत्वम् ।भगवता परमपुरुषेणोच्चरितत्वादिति चेत् । शृणु । - पौरुषेयत्वं नामपुरुषोच्चारितत्वमात्रं न भवति । अद्यतनशिष्याचार्याद्युच्चारणसत्वेनवेदस्य पौरुषेयत्वापत्तेः । परं तु अपूर्वक्रमविशिष्टोच्चारण विषयत्वम्कालिदासादिग्रन्थेषु अपूर्वतया क्रमविशेषमवलंब्य तैः काव्यकरणात्उक्तपौरुषेयत्व मस्ति । इदं च वेदे नास्तीति । ईश्वस्य,पूर्वसृष्टौप्रचारपथमागतस्य वेदस्य तथैवोपस्थित्या अपूर्वनिर्माणाभावात् पूर्वसंस्थानक्रमसंस्थितत्व विशिष्ठवेषेणैवोच्चार्यमाणत्वमिति पौरुषेयत्वा भावसिद्धिःनहि भगवतः पूर्वसृष्टिविषय वेदस्योपस्थितिः नास्तीति वक्तुं शक्यतेअतः अपौरुषयत्वं नित्यत्वं च सिध्यति । ननु “प्रतिमन्वन्तरं चैषाश्रुतिरन्या विधीयते । इतिरीत्या वेदानां ईश्वर बुध्या क्रमनियमहानिरंगीकार्या । अतस्तेषु तेषु कल्पेष्वन्यथा क्रमोभवतीति चेत् न । क्रमनियमभंगस्यानंगीकारात्लौकिक कार्येषु वैदिक कार्येषुवा न कुत्रापि क्रमनियमस्य भंगोदृष्टः । नहिकल्पभेदेन कुलालघट तन्तुवायपटादीनां कार्यकारणभावोऽन्यथाभवति । वेदेपि ब्रीहिभिः यजेत, सोमेन यजेत इत्यादिषु न क्रमस्यभंगो वर्तते । अतस्सर्व कल्पेष्वपि तत्तत्कार्य हेतुभूतानां मन्त्राणामन्यथाकरणं न घटतेएवमेव विध्यर्थवादयोरपि नान्यथाकरणम् । नच देवतानां शरीरवत्त्वेकुतो नोपलम्भः हविरादानकाले इति वाच्यम् । अनुपलब्धिकारणानां बहूनांसत्वेनोपलब्ध्यभावात् । अतिदूरात् सामीप्यादिति सांख्यग्रन्थे अनुपलब्धिकरणानिपठितानि । तथा चोक्तं सारावल्यां - सौक्ष्म्यात् तुल्याभिघातात्….जननतयोयोग मन्त्रौषधिभ्यः इति । यद्यपि ऐकशास्त्र्यवादिनामस्माकं वेदनित्यत्वापौरुषयत्वमन्त्रकृत्त्वादेः वसिष्ठादीनामाकृति वाचित्वस्य च पूर्वतन्त्र एवसिद्धत्वात् पुनरुक्तता । तथापि नित्यत्वापौरुषेयत्व प्रकारस्यान्यादृशत्वात्शब्दानित्यत्ववादिनामस्माकं मते अन्यथैव निर्वाह्यमिदं सर्वमितिअत्रायं विचारः कृतः ।यद्यपि समन्वयाधिकरणन्यायेनार्थवादानां स्वार्थे तात्पर्य सिद्ध्याविग्रहवत्त्व प्रसिद्धिः वक्तुं शक्या । अथापि निरुक्ताक्षेप, निरुक्तसिद्धान्तानांतत्रासिध्या अधिकरणारंभः इति ध्येयम् । इति देवताधिकरणम् ।।