32 प्रमिताधिकरणम्

(1.03.6) प्रमिताधिकरणम्पूर्वस्मिन्नधिकरणे आकाशशब्दवाच्यस्य परस्य दहरत्वमुक्तम् । तच्चहृदयावच्छिन्नत्वरूपं अल्पपरिमाणवत्वम् । विभोः कथं तदल्पपरिणामवत्वमितिशंकायां तथा भावनार्थमुपासकस्येति सिद्धान्तितम् । एवं तर्हि अंगुष्ठमात्रत्वेनप्रतीतस्य जीवत्वं भवतु इति शंका । नन्विदमपि उपासनार्थमिति कथंजीवत्वशंका इति चेत् । अन्यत्र जीवस्यांङ्गुष्ठप्रमितत्वेनोक्तत्वात्तस्यैव झटिति बुद्धिस्थत्वमित्याशयात् । ननु अधिकपरिमाणवतः अल्पपरिमाणवत्वंबुध्यर्थमिति वक्तुं शक्यम् । अल्पपरिमाणवतः अधिकपरिमाणवत्वं बुध्यर्थमपिन वक्तुं शक्यंजीवस्य “आराग्रमात्रः” इत्यल्पपरिमाणश्रुतेः । नीवारशतभागस्य इतिततोप्यल्पपरिमाणश्रुतेश्च । अतस्ततोप्यधिकपरिमाणवत्वरूपाङ्गुष्ठप्रमितत्वं कथं इति चेत् । उच्यते - भागो जीवः इति अत्यन्ताल्पपरिमाणवत्वेनोक्तस्यजीवस्य कथं आरा ग्रमात्रः इति ततोप्यधिक परिमाणवत्वबोधनम् । एवमेवांङ्गुष्ठप्रमितत्व रूपाधिकपरिमाणवत्वमपि बोधयितुं शक्यम् । स्वरूपगुणेनाल्पपरिमाणवत्वेपि बुद्धिगुणेनाधिकपरिमाणवत्वबोधनसंभवात् ।। एकया रीत्याल्पस्यैवान्ययारीत्या महत्वसंभवस्य लोकदृष्टत्व संभवाच्च । मध्य आत्मनि = उपासकस्यशरीरे मध्ये । अंगुष्ठमात्रः = अंगुष्ठस्येव मात्रा परिमाणः यस्येतिततः = भूतभव्यस्येशानत्वादेव ।। न विजुगुप्सते = वात्सल्यातिशयात्देहमध्ये वर्तमानोपि देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः ।जीवकर्मफलभोग्यार्थत्वात् सर्वस्य, जीव बुध्या दुष्टत्वेपि स्त्रष्टुःईश्वरस्य इष्टत्वमेवेति । अतः - अनुकूलं सर्वं मुक्तस्येव । अतो विग्रहरूपेणहृदये वर्तमानोऽपि तत्तद्दुष्टांशस्पर्शः नास्य संभवति । “नस्थानतोपिइत्यादिसूत्र सिद्धमिदम् । अन्तः कलेवरमिदं सुषिरं सुसूक्ष्मं जातंकरीश कथमादरणास्पदं ते’ दहरकुहरे देवस्तिष्ठन् इत्यादिकं तु जीवात्मनिवर्तमानाभिमानवशात् दुष्टमपि तत् तस्य भोग्यमिति तदिष्टमिति वर्णनीयं"ज्योतिरिवाधूमकः = शुष्केन्धनानलवत् प्रकाशमानः इत्यर्थः । अद्य= अद्यतनपदार्थजातम् । स एव = तदात्मकम् । उ - अवधारणे । श्वः=श्वस्तनपदार्थजातमपिस एव । भूतपदार्थजातमपि स एव इत्यस्याप्युपलक्षणम् । तं स्वादिति।। तं=जनानां अन्तरात्मानं परमात्मानं स्वात् शरीरात्= तच्छरीरभूतात्=चेतनात् - प्रवृहेत्=विविच्यजानीयात् । जुष्टं यदा पश्यत्यन्यमीशम् । इतिरीत्या धारकत्व नियन्तृत्वशेषित्वादिना विलक्षणं जानीयादिति यावत् । देवदत्तः स्वात् शरीरात्विलक्षणः इत्युक्ते तत्र स्वशब्दः समभिव्याहृत देवदत्तसंबन्धि परामर्शीतथाऽत्रापि ।मुञ्जादिवेति । यथा तृणविशेषात् तन्मध्यवर्ति तृणविशेषं - धैर्येण= ज्ञानसामर्थ्यात् प्रवृहेत् । तथेत्यर्थः ।।ननु पूर्वत्राधिकरणे अत्र च परमात्मनः उक्तम् अल्पपरिमाणवत्त्वंन स्वरूपकृतं परं तूपाधिकृतम् । तत्रापि महतः आकाशस्य घटाद्युपाधिभिरिवन परिच्छिन्नत्वम् । परं तु विग्रह द्वारा उपासकानुग्रर्हार्थंविग्रहमादाय ह्रदयान्तस्थत्वरूपमेव । नीलतोयदमध्यस्था इत्यादि प्रमाणानुसाराच्चएवं चान्तर्याम्यवताररूपमेवतत् । तथा चांगुष्ठपरिमाणदिव्यमंगलविग्रहमादाय पुण्डरीकमध्ये “एकस्मिन् हृदयेशये” इतिरीत्या वर्ततेइति निश्चेयम् । एतादृशमंगुष्ठप्रमितत्वंच तत्तन्मनुष्यशरीरावृत्तितत्तदंगुष्ठप्रमितत्व मादायोपपादनीयम् । मनुष्याणामपि अंगुष्ठंनैकरूपं इति परमात्मानोपि अन्तर्याम्यवतारः परिमाणे नैकरूपःतथा शरीरस्योपचयापचययोः तदा तदा सत्त्वात् मनुष्यशरीरवर्ती देवोपिस्वशरीरे परिमाणे नैकरूपः स्यात् । अंगुष्ठस्य च्छेदे परस्यापिच्छेदः आपद्येत । कर्मवशेनांगुष्ठं विना कस्य चिच्जनने तत्र तस्यकथमंगुष्ठ प्रमितत्वं च । इति चेत् । शरीरस्योपच्यापचययोस्सत्वेनतन्मूलं अंगुष्ठस्योपचचापचयोः संभवेपि तन्मूलं हृदयस्योपचयापचययोःअनावश्यकत्वात् । संभवेपि रामकृष्णशरीरादिष्विवात्रापि तत्स्वीकारेपिदोषाभावात् । अंगुष्ठस्यच्छेदेपि विग्रहस्यान्तस्थितस्य छेदानंगीकारात्जननकालेऽ भावेपि अंगुष्ठसत्वे यादृशं परिमाणं तत् स्यात् तादृशपरिमाणस्यहृदयस्य सत्वेन तदवच्छिन्नपरिमाणविग्रहस्य स्वीकर्तुं शक्यत्वाच्चन दोषः ।ननु खरगजतुरगभुजंगादीनां अंगुष्ठाभावात् कथं तत्रांगुष्ठप्रमितत्वं?नच तेषां हृदयमेव नास्ति । तत्र चान्तर्याम्यवतार एवच नास्तीतिवक्तुं शक्यं तेषां मपि प्रपन्नत्वे मनसि करणग्रामं पुरुषे च तंइतिरीत्या स्वस्मिन् घटनासंभवात् । नच तेषामुपासनमेवच नास्तीतिवक्तुं शक्यम् । जडभरतस्य मृगावस्थायामावश्यकत्वात् । उपासनानधिकारिस्त्रीशूद्रादीनामपि तथैव किं नस्यात् इति शंकायाः अपरिहरात् । प्रपत्तेःस्त्रीशूद्राणामिव भुजगादीनां स्थावराणामपि संभवात् । “अपि वृक्षाःपरिम्लानाः सपुष्पांकुरकोरकाः “इति रामवियोगजनितवेदनानुभवस्य तेषामपिसत्त्वात्इति चेत् - सत्यं - न वयं तेषां हृदयमेव नास्तीति वा अन्तर्यामीतेषु न विद्यत इति वा ब्रूमः । परं तु तेषां हृदयानां अंगुष्ठप्रमितत्वंअंगुष्ठाभावात् इत्येवेति न दोषः ।। अत एव भाष्ये मनुष्य हृदयस्यतत्तदंगुष्ठ प्रमितत्वात् खरतुरगभुजगादीनां अनंगुष्ठ प्रमितत्वेपिइति भाषितम् । अत्र तेषां न हृदयादि निषेधः कृतः इत्यवसेयम् ।।अंगुष्ठमात्र प्रमितः प्रत्यगात्मा इति भाष्ये प्रमितः इति न परिणामसूचकम् । मात्रपदेनैव तदर्थलाभात् । अंगुष्ठमात्रश्चासौ प्रमितश्चइति समासः । प्रमितः ज्ञातः इत्यर्थः, श्रुतः इति यावत् ।अत्रायं पूर्वपक्षसारः - वाक्यत्रयेपि अंगुष्ठमात्रो जीव एव न परःश्वेताश्वतरोपनिषदि जीवस्यां गुष्ठप्रमितत्वोक्तेः । गुणान्वयोयः फलकर्मकर्ता कृतस्य तस्यैव सचोपभोक्ता । सविश्वरूपःत्रिगुणःत्रिवर्त्मा प्राणाधिपः संचरति………इत्यादि तत्र वाक्यम् ।अत्र हि प्राणाधिपत्व स्वकीयकर्माधीन संचारवत्व फलभोक्तृत्वादिप्रतिपादनात् जीव विषयकत्वं स्पष्टम् ।। एवं भारते ।। “अथ सत्यवतःकायात् पाशबन्धवशंगतम् । अंगुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्"इति सावित्रीभर्तुः सत्यवतः कायात् यमेनाकृष्यमाणत्वदशायां अंगष्ठमात्रत्वंप्रसिद्धंइदं च जीवस्य । अतोऽत्रांगुष्ठ मात्रः जीव एव । न च परमात्मनोपिपूर्वोक्त युक्त्योपासनार्थमल्प परिमाणस्योक्तत्वात् स एवात्रापिभवितु मर्हतीति वाच्यम् । अल्परिमाणस्योपासनार्थत्वेनोक्तावपि - अंगुष्ठप्रमितत्वस्योपासनार्थ तयापि अन्यत्राश्रवणात् । नच दहरावच्छिन्नत्वंअंगुष्ठ प्रमितत्वं एकरूपम् । परस्याल्पपरिमाणपरिच्छेद संभवेपिअंगुष्ठ प्रमितत्व प्रसिद्धिर्न विद्यते । नच “ईशानो भूतभव्यस्ये"इति त्रिकाल वर्तिपदार्थं प्रति ईशितृत्वं जीवस्य कथं संभवेदितिवाच्यम् । उपक्रमगतांगुष्ठमात्रत्वानुसारेण भूत भण्येशानत्वस्यस्व देहेन्द्रियादिनियन्तृत्व रूपत्वाभ्युपगमेन निर्वाहात्अंगुष्ठ प्रमितस्सर्वोपि जीवः स्वस्वदेहेन्द्रियादि नियमनकर्ताइत्यत्र नैव हि विवादः । नह्येकस्यैव तथात्वं वर्णनीयमिति निर्बन्धःनच “श्वेताश्वतरोपनिषद्येव’ अंगुष्ठमात्रः पुरुषोऽन्तरात्मासदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाभिक्लृप्तः य एतद्विदुरमृतास्तेभवन्तीति परमात्मनोपि अंगुष्ठप्रमितत्वं श्रुतम् । इदं च वाक्यंन जीवविषयकम् । अन्तरात्मत्व, जनसमूह हृदय सन्निविष्टत्व मनोध्येयत्व,अमृतफलप्रापकत्वादीनां श्रवणेन परविषयकत्वावश्यकत्वात् । पूर्वंपश्चाच्च पुरुषसूक्त प्रत्यभिज्ञानाच्चेति वाच्यंयतः अत्र ज्ञानयोग गृहीतजीवात्मविषयकत्वस्य विवक्षितत्वात् न परमात्मविषयकमिदम्ध्यानयोगात्पूर्वं जीवविषयकध्यानस्यांगत्वेनावश्यकत्वात् तादृशजीवप्रकारकपरमात्मवेदनस्यामृतत्व प्राप्तिहेतुत्व बोधनार्थं प्रवृत्तत्वादस्यवाक्यस्य । अत एव अभिक्लृप्तः इति भूतकालनिर्देशः । न चास्य वाक्यस्यान्यथासिद्धत्वेपि"अंगुष्ठमात्रः पुरुषः अंगुष्ठं च समाश्रितः । ईशः सर्वस्य जगतःप्रभुः प्रीणाति विश्व भुक् इति तैत्तिरीयमन्त्रे परमात्मनोऽङ्गुष्ठप्रमितत्वंश्रूयते । इदं चानन्यथासिद्धं इति वाच्यम् । अत्र चकार श्रवणात्अंगुष्ठमात्र इत्यनेन जीवस्य अंगुष्ठं च समाश्रितः च इत्यनेनपरस्य चविवक्षाऽऽवश्यकत्वेनान्यथा सिद्धत्वात् । अंगुष्ठं समाश्रितःइत्यपि न परस्य अंगुष्ठ मात्रत्वसाधकम् । अंगुष्ठमात्रजीवाश्रितत्वस्यैवतेन बोधनात् । अन्यथा पौनरुक्यापत्तेः ।अत एव भवतामपि अंगुष्ठमात्रःइति जीववाचकत्वांगीकारः आवश्यकः । अतोऽङ्गुष्ठमात्रत्वं प्रसिद्धिःन परस्मिन् । जीव एवेति ।।सिद्धान्तस्तु - “आराग्रमात्रः”, “वालाग्रशतभागस्य” इत्यादिभिःअति सूक्ष्मस्यात्यन्ताणोः जीवस्यापि अंगुष्ठप्रमितत्वं न सूपपदम्औपाधिकमेव तदिति वाच्यम् । विभोः परस्यापि औपाधिकमेव तत् । “हृदयंपुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः” इत्यादिभिः औपाधिकत्वेनाणुत्वस्यस्थापितत्वात् तस्यैवांगुष्ठ प्रमितत्वस्यापि स्वरसतः सिद्धेः ।कठवल्यामपि तस्यैव प्रतीतिः इत्येव स्वरसम् । ईशानो भूतभव्यस्यइत्यपि न संकोचनीयम् औपाधिकांगुष्ठ परिमाणवत्वस्य जीवपरमात्मनोःउभयोरपि साधारणत्वात् न तन्निर्णायकम् । भूतभव्येशितृत्वस्यासंकुचितस्यान्तर्यामिब्राह्मणादिषुपरमात्मासाधारणत्वेन श्रुतस्य परमात्मसाधकत्वाच्चभवतां मते अंगुष्ठप्रमितत्वस्य “ईशानो भूतभव्यस्य” इत्युक्तसर्वेशितृत्वस्यच संकोचः । अस्माकं तु अंगुष्ठप्रमितत्वमात्रस्य” । उपक्रमगतलिंगस्योभयसाधारणस्यानिर्णायकत्वात्न तत्प्रबलम् । अतो वाक्यात् समाधानं न बाधकम् । श्रुतिलिंगवाक्यादिषुअनन्यथासिद्धस्यैव लिंगस्य प्राबल्यम् । अतः =शब्दान्=वाक्यरूपप्रमाणात् इत्यर्थ वर्णनेपि न दोषः । अत एव एवकार प्रयुक्तः। अत्रशरीरमध्ये तिष्ठन् ईशानः इति, ज्योतिरिवाद्यूमकः…स एवाद्य सउश्वःइति । अन्तरात्मा जनानां हृदये विद्यात् शुक्रममृतं इति अत्र विद्यमानशब्दादेवअंगुष्ठ प्रमितत्वं परस्यैवेति निर्णीयते इति च शब्दादेव इति प्रयुञ्जानस्यभावः “आत्मनि तिष्ठन् इत्यन्तर्यामि ब्राह्मणस्य तं ज्योतिषां ज्योतिःइति वाक्यस्य, अन्तः प्रविष्टः शास्ता जनानां इति वाक्यस्यच परमात्मत्वैकसाधकस्यचैतद्वाक्यश्रवणे स्वरसतः प्रतीतेःअपि च “ईशानो भूतभव्यस्य” इति पदसंघातरूपस्यापि श्रुतित्वं संभवतियत्र पदे रुढि शक्तिः यत्रच योगार्थः तत्र यथा श्रुतित्वं एवमेवपदसंघातस्यापि विवक्षितार्थ प्रतिपादकस्य श्रुतित्वमिष्यते” ईशानोभूतभव्यस्य इत्येतत् स्वरसतः निरूपाधिककालत्रवर्लिसर्वपदार्थेशानत्वरूपपरब्रह्मासाधरणधर्मबोधकः इति श्रुतिरूपशब्द एवेत्यपि बोध्यम् ।।

उत्तरसूत्रे - हृदि - अपेक्षया = वर्तमानत्वापेक्षयेति योज्यम्"हृदि ह्ययमात्मा = प्राणेषु हृद्यन्तर्ज्योतिः” इति श्रुतिःएतेन जीवस्यापि अंगुष्ठमात्रत्वमौपाधिकम् इति सूचितम् । सूत्रेतुकारः प्रकारान्तरेणांगुष्ठमात्रत्व व्यवच्छेदकःपरमात्मनः कथमिति शंकाव्यावर्तको वा । एतस्यैवोपपादकं जीवस्यापीतिमनुष्याणामेवेति । अत्रेदं चिन्त्यम् - सर्वान्तर्यामिदिव्यात्मस्वरूपमन्यत् । दिव्यमंगलविशिष्टहार्दरूपमन्यत् । पूर्वं “यःपृथिव्यांतिष्ठन् अन्तर्बहिश्चतत्सर्वं” इत्यादिश्रुति सिद्धम् । परंतु एषमे अन्तर्हुदये दहरोऽस्मिन्नन्तर आकाशः इत्यादिश्रुतिप्रतिपन्नम्।। “निराकारो निरंगश्च स्मर्तव्यो ब्रह्मलक्षणः । तत्प्राप्त्युपायेप्रथमे यागहोमादिके तु वै । साकारं संस्मरेत् सांगं” इति निराकारब्रह्मप्राप्त्युपायविषये साकारभूत दिव्यमंगलविशिष्टहार्दस्मरणमुपायःअष्टांगयोग युक्तानां हृद्यागनिरतात्मनाम् । योगिनामधिकारः स्यात्एकस्मिन् हृदयेशये” इति चात्रानुसन्धेयम् । श्रीमति रहस्यत्रयसारे"सर्वरुडैयवुं"इत्युक्त्या तिर्यगादिहृदये नान्तर्याम्यवतारः इतिकेचित् “हृद्यपेक्षया तु मनुष्याधिकारत्वात्’ इति सूत्रस्वारस्याच्चनहि तिर्यगादीनामुपासनाधिकारः इति भावं वर्णयन्ति । अन्येतु - त्रिवर्गस्त्रां - शूद्रादीनामप्यनधिकारात्तेषां हृदयेऽपि अन्तर्याम्यवतारः एवंचेत् न स्यात् । अतस्सर्वत्रवैषम्यं विना अन्तर्याम्यवतारः इति वदन्ति । “त्रैवर्णिकधिकारत्वात्"इति न सूत्रितंअतस्सर्वमनुष्यविषयेऽपि अन्तर्याम्यवतारस्यावश्यकता । वस्तुतोभक्त्यनधिकारिणामपि प्रपत्तियोग्यानां फलभक्तेः सत्वात् उपायत्वबुद्धिंविना भगवन्तं फलत्वेनोपासनं कर्तुं शक्यम् । “कुरुकाधीशनाथाद्याःप्रागप्यन्वभवन् प्रभुं” इत्याचार्यवर्य श्रीसूक्तिः । साकारभूतान्तर्याम्युपासनंभवेन्नाम ।।मानसपूजायां “सौवर्णे स्थालिवर्ये’ इति सर्वेषामधिकारः । अन्नभक्ष्यादेःअन्तर्यामिनिवेदनमपि स्वतसिद्धम् । प्रपन्नाधिकारिणि सर्वस्मिन्नपिअवतारस्य सद्भावः आवश्यकः । “हार्दानुगृहीतः शताधिकया” इति सूत्रमप्यमुमर्थंदृढीकरोति । हार्दस्य प्रपन्नविश्रमस्थामत्वमप्यभ्युपेतम् । तिरश्चामपिप्रपन्नानां अंगुष्ठाभावेपि केषांचित् तद्धृदयस्य तत्प्रमितत्वाभावेपिअन्तर्यामिण आवश्यकता । विश्रमस्थानत्वात् । “मनसि करण ग्रामं…पुरुषेचतं, स्वविदविदुषोः’इति सारशास्त्र श्रीसूक्तिरपि तेषां हृदये अन्तर्याम्यवतारंगमयति । सर्वेषामपि सुषुप्तौ ब्रह्मणः पर्यंकस्थानत्वादपि अवतारसद्भावंज्ञापयति"प्राज्ञेनात्मना संपरिष्वक्तः” इतीदं न मनुष्यमात्रविषयम् । अन्यथाभक्त्यनधिकारित्रैवर्णिक प्रपन्नहृदयेपि तस्यासिद्धिप्रसंगः । “अधोनिष्ट्यावितस्त्यां तु नाभ्या मुपरि तिष्टती “त्यादिकं सर्वविषयकमेव । “वाचिकैःपक्षिमृगतां मानसै रन्त्यजातिताम् । शरीरजैः कर्मदोषैः याति स्थावरतांनरः” इति प्रमाण बलेन सर्वेषामपि स्वस्वकृतकर्मफलानुभवार्थमेव तत्तच्छरीरसृष्टेःतत्तच्छरीरस्थितानां सर्वेषामपि हृदये अन्तर्याम्यवतारसद्भावोक्तौकिमित्यसूया । तेषां हृदयमेव नास्तीति चेत् - तर्हि “हृदिह्ययं आत्मा"इत्यस्य का गतिःअतो भगवान् तत्तत्कर्मानुसारेण सृष्ट्वा तच्छरीरे हृदयं तत्सदृशंवा कंचन भागं परिकल्प्य तत्रस्वयमपि हार्द रूपेण स्थित्वा तत्त्तत्कालेऽनुगृह्नातिगानप्रकर्ष बलसिद्धप्रहर्षवशात् स्थावराण्यपि फलन्ति इति च शुश्रुमःनन्वस्मत्सिद्धान्ते सर्वे शब्दाः अपर्यवसानवृत्त्या परमात्मानमेवबोधयन्ति । घटशब्दः घटशरीरकजीवशरीरकपरमानं अभिदधाति । देवदत्तोमुक्तः इति वत् घटो मुक्तः इत्यपि व्यवहर्तुं शक्यते देवदत्त शरीरकात्मनइवात्रापि घटशरीरकता प्रतीयते । नरकान्तकं भगवन्तमस्मरद्भिः पीयमानंभुज्यमानं च पयोऽन्नादिकं केवलपापकृतं इति च विष्णुचित्तैः गीयतेदधिभाण्डपुरुषस्येव भाण्डस्यापि मोक्षप्रदानात् तस्यजीवस्यापि मोक्षःआवश्यकःएवं सति तच्छरीरे हृदयमपि नास्ति, अन्तर्याम्यवतारोपि नास्ति ।तत्रकथं “मनसि करणग्रामं, स्वविदविदुषोः इत्यादिमुपपद्यते इति चेत्अत्र ब्रूमः ।घटादिशरीरकजीवानामपि भोक्षावश्यकत्वात् तत्र हृदयस्येवनाडीनामप्यभावात् कथं तस्य ब्रह्मनाडीद्वारा गमनं इति चोद्ये कःपरिहारः उच्यते । स एव परिहारोऽत्रापि । देवानां मनुष्याणांतिरश्चांस्थावराणांच बहुवैलक्षण्यसत्वेपि येन केनापि मार्गेण सर्वं निर्वाह्यम्यत् यत् यादृशेन पथा निर्वोदुं शक्यं तत्रतत्र तत्तन्मार्गावलम्बनेनैवोपपाद्यम्संभवस्थल मार्गानुसरणं असंभावितस्थले अशक्यो पपादनमिति संभावितस्थलेपितन्मार्गपरित्यागः अयुक्तःक्वचित् क्वचित् स्थले भगवान् कांचन नियतिं परिकल्पयति । तस्याःसर्वत्रापादनं नहृद्यम् । पांचाल्याः पंच पत्नीत्वमिव ।।

प्रमिताधिकरणशेषः । अंगुष्ठमात्रः पुरुषः मध्य आत्मनि, इति, अंगुष्ठमात्रःपुरुषोऽन्तरात्मा” इत्यनयोर्मन्त्रयोर्मध्ये “यदिदं किंच जगत्सर्वंइति मन्त्रः पठ्यते । यदिदं जगत् तत्सर्वं प्राणे = प्राणशरीरकपरमात्मनिप्रतिष्ठितम् । प्राणात् परमात्मनो निस्सृतम् । उद्यतात् वज्रायुधादिवप्राणात् = परमात्मनः महतो भयात्, एजते = कंपते । कृत्स्नमपि जगत् परमात्मनःशासनातिवृत्तौ किं वा भवेदिति भीत्या कंपते । “भयादस्याग्निस्तपति"इत्युत्तरमन्त्रोपि एतद्विवरणरूपः । अत एव वज्रमुद्यतं इत्यत्रपंचम्यर्थत्वस्वीकारः । भगवच्छासनातिवृत्तौ प्रत्यवायो भविष्यतीतिभयात् स्वस्वकार्येषु प्रवर्तते ।सर्वप्रशासितृत्वरूपमैश्वर्यं श्रूयमाणं भगवत एव । एतस्य वा अक्षरस्य,भीषाऽस्मात् वातः पवते इत्यादि श्रुतिसिद्धम् । अयमर्थः कंपनात्इत्यनेनोक्तः । यद्यपि विषयवाक्ये कंपनवाचकपदं न श्रूयते । “एजति’इति पदस्यार्थमभिवीक्ष्य एवंसूत्रितम् ।। प्रमिताधिकरणशेषत्वात्"कंपनाच्च’ इति चकारघटितत्वेन सूत्रप्रणयनं कार्यम् । अथापि अपशूद्राधिकरणस्यपूर्ववृत्तत्वेनास्य सूत्रस्य तच्छेषत्वमतिव्युदासः कार्यः इत्यभिप्रायेणचकारः अनुक्तः ।

ज्योतिर्दर्शनात् । इतश्चेति । अंगुष्ठप्रमितस्य परमात्मत्वे अन्यायुक्तिः प्रदर्श्यते । सूत्रे चकारानुक्तावपि योज्यम् इति भावः ।न तत्र सूर्यो भाति । इति विषयवाक्यम् । अत्र परमात्मासाधारणं सर्वतेजसांछादकं तेषां कारणभूतं अनुग्राहकं च अंगुष्ठमात्रपुरुषस्य ज्योतिःउच्यते । अनेन दिव्यमंगल विग्रहः प्रोक्तः । कोटिसूर्य प्रकाशस्यपरमात्मदिव्यमंगलविग्रहस्य पुरतः सूर्यादिः न प्रकाशते यथा सूर्यस्यपुरतश्चन्द्रः । “मोहान्धकारविनिवर्तन जागरूके दोषादिवापि निरवग्रहमेधमाने ।त्वत्तेजसि द्विरदशैलपते विमृष्टे श्लाघ्येत संतमसपर्व सहस्रभानोः” । इतिश्लोकोऽनुसंन्धेयः । किं च परमात्मनः चक्षुषः एव सूर्यादीनामुत्पत्तेरपिपरमात्मनः सर्वप्रकाशकत्वं स्फुटम् । अत्र तद्भानानुभानवत्वोक्तेःसर्वतेजः कारणत्वम् । “न तत्र सूर्यो भाति इत्यादिना सर्व तेजसःआच्छादकत्वम् । भासा सर्वमिदं विभातीत्युक्त्या सर्वतेजोऽनुग्राहकत्वम् ।एतत्सर्वं परमात्मासाधारणम् । तं देवाः ज्योतिषां ज्योतिः यस्यादित्योभामुपजीव्य भाति “इत्यादि श्रुत्यन्तरे प्रसिद्धम् । आथर्वणे चायंमन्त्रः परमात्मविषयतया पठितः । अतः कठवल्लयां पञ्चमवल्ल्यन्तेश्रुतस्यास्य मन्त्रस्य जीवपरत्वं न संभावनार्हम् । यतः एतदनुसारेणतेषां मन्त्राणां जीव विषयत्वशंका नोदेतुमर्हतिअत्रापि ज्योतिरिवाघूमकः इति श्रुतम् । ज्योतिश्शब्दः परविग्रहविशिष्टपरमात्मपरःइति सर्वाविगीतम् । परं ज्योतिरूपसंपद्य, ज्योतिषां ज्योतिः “इत्यादौ”।। यद्यपि विषयवाक्ये ज्योतिः पदं नदृश्यते ।अथापि एतद्वाक्याक्षिप्तंभवतीति सूत्रे ज्योतिश्शब्दः प्रयुक्तः । अनेनैतद्वाक्य सूचितंज्योतिः परमात्मैवेत्युपपादकज्योतिश्शब्दघटित वाक्यस्फोरणं ज्ञापितम्दर्शनादिति खण्डः “परंज्योतिः’ ज्योतिषां ज्योतिः इति वाक्य प्रदर्शनार्थः ।