31 दहराधिकरणम्

(1.03.5) दहराधिकरणम् ।दहरविद्या प्रस्तूयते । अस्मच्छरीरमेव ब्रह्मपुरम् । तत्र पुण्डरीकसदृशंअल्पं हृदयं वर्तते । तत्राप्यल्पः आकाशः । तत्रविद्यमानः पदार्थःउपास्यः । अत्यल्पभूते आकाशे किं स्यात् इति न मन्तव्यम् । बाह्याकाशसदशःसः आकाशः महान् । अधः उपरि च लोकाः अग्निः वायुः सूर्यः चन्द्रःइत्येते सर्वे पदार्थाः तत्राकाशे वर्तन्ते । हृदयपुण्डरीकमध्यवर्तीआकाशशब्दनिर्दिष्टः भूताकाशवत् विपुलः । भोग्य भोगस्थान भोगोपकरणभोक्तृवर्गाः सर्वेपि तदाश्रिताः । उपासकस्य इहलोके यद्भोग्यजातंयच्चेह अलब्धं मनोरथमात्रगोचर भूतं सर्वमपि भोग्यजातं अस्मिन्दहराकाशेसमाहितंतथा च निरतिशयभोग्यत्वं दहराकाशस्योक्तं भवति । न च शरीरस्य ब्रह्मपुरत्वेअनित्यस्य शरीरस्य विनाशे तत्रस्थस्य हृदयस्यापि नाशावश्यंभावात्तदाघारकस्याकाशशब्दवाच्यस्य वस्तुनो ब्रह्मणोपि नाशः स्यात् इतिवाच्यम् । शरीरनाशेपि हृदयपुण्डरीकनाशेपि च तत्रस्थाकाशस्य निर्विकारत्वेनविनाशाभावात् । वस्तुतोऽस्माकं प्रबोधनार्थं हृदयस्य शरीरस्य चआकाशाधारत्वमुक्तम् । परामर्शेतु अयमेवाकाशः सर्वाधारभूतः हृदयस्यशरीरस्याप्यधारभूतः इति न दोषः । अतो ब्रह्मैव सर्वस्यापि पुरम्अस्मिन्नाकाशे अन्तः विद्यमानाः पदार्थाः कामाः कल्याण गुणाःतेचाष्टौ । एतद्गुणाष्टक विशिष्टत्वात् अपहतमात्मा विजरो विमृत्युःविशोकः विजिघत्सः अपिपासः । सत्यकामः सत्यसंकल्पः सः प्रोच्यतेपाप जरा मरण दुःख क्षुत् पिपासारहितः स्थिरभोग्यजातवान् अप्रतिहतसंकल्पाश्रयःसः इत्युक्तं भवति । लोके प्रभुनिषेवणात् अभिमतसिद्धिं लभन्ते ।एवमेव वेदोक्तकर्मकरणेन पुण्यफलं भवति । एतत्सर्वं नश्वरम् । परंतुपूवोक्ताकाशशब्दवाच्यं वस्तु तद्गतगुणांश्चविदित्वा कर्मकरणे यथेष्टंप्राणितुं शक्यम् । आकाशतद्गतगुणोपासनकर्तुः सर्वफलसिद्धिः । मोक्षंच लभते । तत्र यथेष्टं माता पितृ सहोदर स्त्री वृत्तगीतादि सर्वफलमपिस्वसंकल्पादेव भजतेअनादिपापवशात् वयं एतद्गुणविशिष्टपरमात्मानं अस्माकं हृदये स्थितमपिन जानीमः । यथा अक्षेत्रज्ञाः उपर्युपरि संचरन्तोपि न हिरण्यनिधिंजानन्ति न लभन्तेच । हृदये विद्यमानत्वात् अस्यैव हृदयमिति नामहदि +अयं=हृदयम् । हृद+अयं=हृदयं प्राप्तः) इति वा हृदयमिति नामउपासकः शरीरात् वहिर्गत्वा परंज्योतिः प्राप्नोति । तच्च ज्योतिःअयमेवाकाशः । अस्य ध्वंसो भयंवा सर्वमपि नास्ति । अत एव सत्यमितिनामधेयम् । सत् - ति - यं चेतनाचेतनसर्वनियन्तृत्वं सत्यशब्दार्थः ।अयमेव सेतुः । सर्ववस्तुधारकः तत्तद्वस्तुगतस्वभावानां यथां सांकर्यंन स्यात् तथाकरणशक्तिमान् असंकीर्णस्वभावतया तत्तद्वस्तु नियमयतिएतत्प्राप्तौ अन्धोपि अनन्धो भवति । रोगी च स्वस्थः । सर्वोपि तापत्रयात्विमुक्तो भवति । पश्चात् न कदापि विनश्यति । सर्वमपि अस्योपासकस्यदिवा ।। ब्रह्मचर्येणैव एतस्य ब्रह्मणः प्राप्तिः ।समुद्रं ऐरंमदीयतटाकंसोमसवननामकाश्वत्थवृक्षंचगत्वा ब्रह्मराजधानीभूते अपराजितनामकेप्रविश्य भगवदवासस्थलं प्रभुविमितनामकं गत्वा ब्रह्मानुभवं प्राप्नोतिमुक्तः । अस्मद्ध्रदये ब्रह्व्यो नाड्यः । सर्वासामपि सूर्यकिरणसंबन्धःतासु शताधिक ब्रह्मनाडीं प्रविश्य शिरोभेदन पूर्वकं सूर्यकिरणमवलम्ब्यमनोवेगेन परमपदं गन्तुः पूर्वोक्तं सर्वमपि फलं सेत्स्यतिअस्याः ब्रह्मविद्यायाः अंगभूता प्रजापतिविद्या उपरि उपदिष्टा ।।यद्यपि “यच्चास्येहास्ती"त्यादिभिः उपासकभोग्यवस्त्वाधारत्वमेवप्रतीयते नतु दहराकाशस्य निरतिशयभोग्यत्वं तथापि ब्रह्मप्राप्तिमात्रकामनावतःउपासकस्य स्वर्गपश्वादीनां भोग्यत्वाभावात् “यच्चस्येहास्ती’त्यादिवाक्येदहराकाशस्य निरतिशयभोग्यत्वप्रतिपादनं संभवति । मुक्तस्य सत्यसंकल्पत्वादिनापित्रादिभोग्यवस्तुसृष्टावपि तेषामपि भगवद्भोग्यत्वमन्तरा भोग्यत्वासंभवात्मुक्तस्य भगवत्येव निरतिशयभोग्यत्वमिति नानुपपन्नम् । एवं निरतिशयभोग्यत्वसूचनायैवविजिज्ञासितव्यमिति सन् प्रत्ययः ।। “दहरोऽस्मिन्नन्तर आकाशः"इत्यत्र यः इत्यध्याहार्यम्तस्मिन् यदन्तः इत्यत्रान्तश्शब्दः अन्तर्वृत्तिपरः । चशब्दश्चाध्याहर्तव्यःतथाच अस्मिन् हृदयपुण्डरीके यो दहर आकाशः तदन्तर्वर्ति च यत्तदुभयमन्वेष्टण्यं इत्यर्थः । तद् इति नपुसकलिंगनिर्देशः लिंग सामान्यविवक्षयायच्छब्दाध्याहारं विनापि अर्थवर्णनं सुशकम् । अस्मिन् दहराकाशःतदन्तर्वर्ति च यत् इत्यत्र यच्छब्देनैवोभय परामर्शसंभवात् । सचतच्च=तत् एकशेषवद्भावः । नपुंसकमनपुंसकेन इति शास्त्रात् । महाभाष्ये"शुक्लश्च कम्बलः शुक्लाच बृहतिका, शुक्लंच वस्त्रं, तदिदं शुक्लंतानीमानि शुक्लानि इति उदाहरणं भाषितंएवमेव शुक्लश्च शुक्ला च शुक्लं च शुक्लं वर्तते इति क्रियापदेच एकवचनं दृश्यते । एवं सर्वनाम्न्यपि भवितु मर्हति ।।तो दहराकाशस्यतदन्तर्वृत्तिनश्चोभ यस्यान्वेष्टव्यत्वं अत्र सिध्दम् ।।इदं विषयवाक्यमधिकृत्यात्र विचारः । पूर्वं पुरिशयं पुरुषमीक्षतेइति पुरिशयस्य परमात्मत्वं निर्णीतम् । अत्रापि ब्रह्मपुरशब्दोदितशरीरान्तर्वर्तिहृदयपुण्डरीकमध्यवर्तिनः परमात्मत्वं स्थाप्यते इति संगतिः ।। पूर्वाधिकरणेब्रह्मलोकशब्दः परमात्मस्थानपरः । अत्र ब्रह्मलोकशब्दः ब्रह्मपुरशब्दश्चन परमात्मस्थानपरः । किं तु ब्रह्मैव लोकः ब्रह्मैव पुरं इत्यर्थवाचकः।।उतप्रत्यगात्मेति। जीवः इत्यर्थः । यद्यपि आकाशशब्दः भूताकाशे परमात्मनिच प्रसिध्द इति आकाशो वा परो वा इति संशयोत्थितिर्युक्ता । जीववाचकतयाआकाशशब्दः न क्वचित् प्रसिध्द इति संशयो कोटौ जीवनिक्षेपो न युक्तःतथापि परमात्मपरत्वे आकाशते इति योग व्युत्पत्तेराश्रयणीयतया तादृशार्थस्यजीवेपि स्वयं प्रकाशे संभवात् तस्यापि संशयकोटौ निक्षेपः संभवतीत्यभिप्रायःहृदयपुण्डरीकमध्यवर्तित्वेनोक्तत्वात् । हृदि ह्यमात्मा इति जीवस्यहृदयस्थत्वात् संशयोत्थितिः । उपरि “तस्मिन् यदन्तः तस्मिन्काःमासमाहिताः” इत्यादिना अपहतपाप्मत्वादीनां गुणानामुक्तेः प्रजापतिवाक्येतेषां गुणानां जीववृत्तित्वनिश्चयाच्च तदधार भूतः हृदयस्थः स्वयंप्रकाशःजीवात्मा भवितु मर्हतीत्याशयाच्च ।। पूर्वपक्षे प्रसिद्धिप्रकर्षः, भूताकाशस्य आकाशशब्दवाच्यत्वे हेतुःपरमात्मन एवोपास्यत्वात् तदन्यस्यानुपास्यत्वात् “तस्मिन् यदन्तःइति आकाशशब्दवाच्य वस्तुवृत्तिनः उपास्यत्वोक्तिः आकाशशब्दस्य परमात्मावाचकत्वेहेतुः । विभोः परस्य सर्ववृत्तित्वात् परिच्छिन्नाकाशोपमेयत्वमपिन संभवतीति सोपि परमात्मावाचकत्वे हेतुः ।। यद्यपि प्रसिध्दकाशस्यप्रसिध्दकाशोपमेयत्व मनुपपन्नमिव भायात् । तथापि “गगनं गगनाकारइतिवदनन्वयालंकारवत् अभेदेऽपि उपपत्तिः सुवचा । व्यापके परमात्मनिदहरत्वं चानुपपन्नम् । स्वयमन्वेष्टव्यस्य परमात्मनः अन्वेष्टव्यान्तराघारत्वमप्यनुपपन्नम् । ननु आकाशशब्दस्य भूताकाशपरत्वे तदन्तर्वर्त्तिनःकस्योपास्यत्वं इति चेत्? आकाशान्तर्वर्तिनः परमात्मन एवोपस्यत्वंयद्याकाशशब्दः परमात्मपरः तदा तदन्तर्वर्तिनः गुणजातस्यैवोपास्यत्वापत्त्यागुणिनोऽनुपास्यत्व प्रंसगश्च । प्रसिध्दाकाशवर्तिनः परमात्मनःउपास्यत्वसिध्दौतु “तस्मिन् यदन्तः इति निर्दिष्टे परमात्मनि गुणानामन्वयःस्वयमेव सिध्यति । ननु आकाशान्तर्वर्तिनः परमात्मनोऽन्यस्याभावात्परमात्मन एवोपास्यत्वसिध्या उपरिच वक्ष्यमाणानां गुणानां परस्मिन्ऽन्वयस्यस्वतः प्राप्तत्वेन च गुणविशिष्टपरमात्मन एवोपास्यत्वं, दहरविद्यायाःब्रह्मविद्यात्वंच स्वतः सिध्दमिति पूर्वपक्षे सिध्दान्ते च किंवैष्म्यमिति, अत्रैवंविचार एवाजागलस्तनतुल्यः इति चेत्सत्यम् । पक्षद्वयेपि ब्रह्मविद्यात्वस्य वा गुणब्रह्मोपासनस्यवा नैव हानिः । परं तु “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणाविपश्चिता” इत्यादाविव सिध्दान्त्यभिमतस्य गुणप्राधान्यस्य सिध्दिःन पूर्वपक्षे इति विशेषः ।। नन्वेवं सति “अस्मिन् कामाः एतांश्चसत्यान् कामान्” इत्युक्तगुणानां प्राधान्यविवक्षायां “अपहतपाप्मत्वंविजरत्व मित्यादि निर्देशं विहाय कथं धर्मिपर्यन्तनिर्देशः क्रियतेइति चेत्? धर्मिनिर्देशमन्तरा धर्माणां गुणानामुपसंहारो नस्यादितितथानिर्देशौचित्यात् ।। “प्रदानवदेव तदुक्तं” इत्यत्र विवरिष्यतेचेदम् ।सूत्रे विचारविषयाकाशशब्दं विहाय दहर शब्दोपादानं दहरोऽस्मिन्नन्तरआकाशः इत्यत्राकाशशब्दं ममसि निघाय । अन्यथा “यावानयमाकाश” इतिआकाशशब्दव्युदासो नस्यादिति मन्तव्यम् । यद्यपि यावान्वाऽयमाकाशःइत्यत्राकाशस्योपमानभूतत्वात् उपमेयभूताकाशे एव चर्चा स्वरसा ।अथापि उपमेयभूताकाशविशेषणाल्पत्ववाचि दहरोपादानं वाक्यस्य संशयग्रस्तत्वद्योतकमित्याशयः ।।अत्रान्यदपि पूर्वपक्षिणो हृद्गतम् - “स वा एष महानजः आत्मा योऽयंविज्ञानमयः य एषोऽन्तर्हृदय आकाशः तस्मिन् शेते सर्वस्य वशी इत्यादिकंबृहदाण्यके दहरविद्यायां श्रूयते । अत्राकाशपदं प्रसिध्दाकाशवाचकमितिसर्वसंप्रतिपन्नम् । योऽयं विज्ञानमयः परमात्मा, सः, अन्तर्हृदयेय एष आकाशः तस्मिन् शेते इत्यर्थः । अत्रविज्ञानमयशब्दः परमात्मवाचकःजीववाचकत्वेपि न दोषः । योऽयं जीवः यश्चाकाशे, तस्मिन् उभयस्मिन्भगवान् शेते इत्यर्थः । तस्मिन्निति उभयपरामर्शी । तदन्वेष्टव्यमित्यत्रेवसमाहारैकवद्भावः । यद्वा योऽयं विज्ञानमयो जीवः यश्चाकाशः इतिउभयस्य प्रत्येकं तस्मिन्शेते इत्यत्रान्वयःहृदयाकाशे इव जीवात्मन्यपि परस्य सत्त्वात् । य आत्मनि तिष्ठन्इति श्रुतेः । सर्वथाऽऽकाशशब्दः भूताकाशपर एव । तैत्तिरीये दहरविद्या - दह्रंविपात्मं…गगनं विशोकः इत्यादि । इदंच छान्दोग्यदहरविद्याच्छायानुसारिअत्र गगनपदम् । छान्दोग्ये आकाशपदम् । आकाशपदस्य कथं चित् योगेनपरमात्मपरत्वसंभवेपि गगनपदस्य परमात्मपरत्वं न संभवति अतः यथा बृहदारण्यकेआकाशपदं भूताकाशवाचकं तथा सर्वत्रापि भूताकाशवाचकमेव तत्पदं भवतुछान्दोग्ये तैत्तिरीये च गगन - आकाशपदयोः एकार्थत्वं सिध्दान्तिनोऽप्यभिमतम्गगनशब्दस्य परमात्मनि श्रौती प्रसिध्दिरपि नास्तिअतः श्रुतित्रयैकरस्यं गगनपदस्वारस्यं आकाश शब्द प्रसिद्धिस्वारस्यंचास्माकं मते - इति ।। अयमंशः अधिकरण साराबल्यामुक्तः ।।सिद्धान्ते - उत्तरेभ्यः इति विशेषणवाचकं पदम् । अतः हेतुभ्यः इत्यध्याहृतम्वाक्येभ्यः इत्यध्याहारे - श्रुतिलिंगवाक्य इत्यत्र लिंगापेक्षयावाक्यस्य पश्चाद्भावित्वात् ततापि प्रमाणभूतलिंगविवक्षा युक्ताइत्याशयेन हेतुभ्यः इत्युक्तम् । पर्यवसानं तु उत्तरगतवाक्यगतेभ्योहेतुभ्यः इत्येव । निरुपाधिकमिति प्रजापति वाक्य व्यावृत्त्यर्थम्जीवस्यापि सर्वलोकसंचरण सत्यसंकल्पत्वादि प्राप्तिः दहराकाशवेदित्वप्रयुक्तम् । अतोऽत्राकाशशब्दः न भूताकाशपरः यथा न जीवपरः । नह्यचेतनवेदने चेतनस्यैवं प्राप्तिरूपा सिद्धिर्भवितु मर्हतिआत्मानमनुविद्य इत्यात्मशब्दप्रयोगादपि नाकाशशब्दः भूताकाशपरः इत्याद्यर्थसूचनाय - अथय इह इत्यादिश्रुत्युदाहरणम् ।।ननु “एष आत्माऽपहतपाप्मा” “य इहात्मानमनुविद्य” इत्येतत्सर्वंपरमात्मपरमेव । अयं च परमात्मा “तस्मिन् यदन्तः इति यच्छब्देन निर्दिष्टःतस्याधारभूतः आकाशः प्रसिद्धः दहराकाशः इति पूर्वपक्षस्य किं समाधानमुक्तमित्यत्रउपमानोपमेयभावविरोधः इत्याह - यावान्वाइति । रामरावणयोः युद्धं इतिवत्अनन्वयालंकाररूपत्वमपि न युक्तं - तथासति - योऽयं स एषः इति वक्तव्यंस्यात् । अत्रतु यावान् तावान् इत्युक्तम् । भूताकाशत्व हार्दाकाशत्वरूपोपमानोपमेयतावच्छेदक धर्मभेदसत्वात् अन्वयालंकारस्यासंभवात्उपमानोपमेयतावच्छेदकधर्मैक्ये सत्येवानन्वयालंकारःगगनं गगनाकारमित्यादौ तथैव दृष्टम् । सर्वाश्रयत्वं नोपपद्यतइति । यावान् वा…“अन्तर्हृदय आकाशः..उभेऽस्मिन् द्यावापृथिवी..विद्युन्नक्षत्राणि"इत्यादिभिः हृदयावच्छिन्नस्य सर्वाधारत्वमुक्तं तन्नोपपद्यत इतिभावः । ननु विशिष्टाद्वैतिमते जीवब्रह्मणोः स्वरूपतो भेदः । विशिष्टवेषेणाभेदश्चेष्यतेअत एव पृथगात्मानं प्रेरितारं च मत्वा इत्यादिकं तत्त्वमसि अयमात्माब्रह्म इत्यादिकं चोपपद्यते । सर्वगत्वादनन्तस्य स एवाहमवस्थितःइति प्रह्लादशरीरकब्रह्मणः कथं सर्वकारणत्वं सूपपादम् । अतो यथेदमुपपाद्यतेतथैव हृदयावच्छिन्नाकाशस्य सर्वाश्रयत्वं इति न विरोध इति चेत् - उच्यते - यदिस्वरूपतः एवाकाशस्य सर्वाश्रयत्वं स्यात् तर्हि हृदयावच्छिन्नस्यतस्य तदुपपादयितुं शक्यं"उभावग्निश्च वायुश्च” इत्यादिभिः दहराकाशस्य सर्वजगदाधारत्वमभिधीयमानंकथं प्रसिद्धाकाशे संभवना मर्हति । इत्यभिप्रायात् । उपरि च । यच्चास्येहास्ति - इत्यादिभिरुच्यमानंनिरतिशय योग्यत्वं न सर्वात्मना संभवतीति च ।। इषुवत् इति । क्षिप्तेषुरिवसर्पति । इति विष्णुपुराणम् ।।तस्मिन् यदन्तः, एष आत्मा .. आत्मानमनुविद्य, अस्मिन् कामाः, नास्य,एतत् सत्यं ब्रह्मपुरं, इत्यादिषु सर्वत्र दहराकाशतया प्रतीयमानःआत्मा पर एवेति एकार्थत्वं दर्शयति उपरिभाष्येण ।। निषादस्थपतिन्यायेनब्रह्म पुरं इत्येतत् समानाधिकरणम् । नात्र कर्मधारयः । उपरि फलश्रुतिरपिदहराकाशस्य परमात्मत्वं स्थापयति । तदन्वेष्टव्यमित्यत्र सच तच्च=तत्इत्येकशेषसमासः स्वीकार्यः । “तद्य इह आत्मानमनुविद्य व्रजन्तिएतांश्च सत्यान् कामान्” इति परमात्मतद्गुणो भयोपासनस्यानूदितत्वात्अतो दहराकाशस्य परमात्मपरत्वमेव । प्रसिद्धाकाशपरत्वे तस्मिन्यदन्तः इत्यत्र यच्छब्देन परमात्मनः ग्रहणं संभवतिआकाशस्य परमात्माधारत्वाभावात् । कामान् इत्यस्याप्यन्वयानुपपत्तेःप्रसिद्धाकाशस्य कामाधारत्वासंभवाच्च । अतो दहराकाशः परं ब्रह्म,तदन्तर्वर्ति च गुणजातमित्येव स्वीकार्यम् । आकाशो हवै नामरूपयोर्निर्वहिता इति परमात्मन्यपि आकाशशब्दस्य प्रसिध्यतिशयोऽस्तीति

गतिशब्दाभ्यामिति । गतिः शब्दश्च आकाशशब्दस्य परमात्मपरत्वे प्रमाणम्गतिः = गमनं अहरहर्गच्छन्त्यः इत्यनेनोक्तम् । इदं च गमनं सुषुप्तिकालीनम्एवमेव खलु…संपद्य न विदुः इति श्रुतेः। दृष्टमिति खण्डस्य व्याख्यानावसरेप्रदर्श्यमानत्वात् ।। अथवा इति योजनान्तरे गमनं सार्वकालिकम् ।तदा दृष्टं इतिखण्डस्य “य आत्मनि तिष्ठन्…न वेद - दृष्टा इत्यादिकंविवक्षितम् । पूर्वयोजनायां दृष्टान्ते एव “उपर्युपरि"इत्यस्यान्वयःअत्र तु दार्ष्टान्तिकेपि । एवं उत्तरयोजनायां दहराकाशस्य अन्तरात्मनश्चधर्मिणः ऐकत्वमवलंब्योपपादनं कार्यम्शब्दशब्दः ब्रह्मलोकशब्दपरः । तत्रापि “तथाहि दृष्टं इत्यस्यान्वयःस्वारस्यात् । तदा निषादस्थापतिशब्द दृष्टान्तः । “एष ब्रह्मलोकःसम्राडिति” होवाच इत्युक्त ब्रह्मलोकशब्दो दृष्टान्तः । हे सम्राड्हे राजन् ।। तथाच सुषुप्तिकालीन सार्वकालीनरूपकालद्वय गति विवक्षायामपितथा हि दृष्टमित्यस्यान्वयः । शब्देपि - तथाहि दृष्टमित्यस्यान्वयःयद्वा गति शब्दः गति आगतिरूपोभयशब्दपरः । “सति संपद्य” इति गतिःसतः आगम्य । इत्यागतिश्च विवक्षिता । अहरहर्गच्छन्त्यः इत्यत्राप्युभयंविवक्षितम् । अहरहर्गमनस्योभयरूपत्वात् ।तथा च “अत्र ह्यस्यैते सत्याः कामाः” इति कामाधारत्वेनाकाशशब्देननिर्दिष्टः हिरण्यनिध्युपमेयभूतः ब्रह्मलोकशब्दनिर्दिष्टश्च परमात्मैवगतिवचनं गतिपरश्रुत्यन्तरस्वारस्यं ब्रह्मलोकपदे निषादस्थपतिन्यायेनकर्मधारयौचित्यं च समाधाने साधकम् । निषादस्थपतिं याजयेदित्यत्रपूर्वपदे लक्षणाभिया तत्पुरुषं विहाय कर्मधारयः स्वीकृतः । निषादरूपःस्थपतिः इति । स्थपतिः=राजा शिल्पीच । परमपुरुषार्थभूतस्योपरीत्यादिनापुरुषार्थत्वानुरूपस्थितिः प्राप्तिश्च विवक्षिता । पूर्वयोजनायांगतिशब्दः गमनक्रियापरः । अद्य पुरुषार्थत्वानुरूपः प्राप्तिपरःनिधिदृष्टान्तस्वारस्यात्सुषुप्तिकाले सर्वासां प्रजानां दहराकाशेऽवस्थानं इति यत् तदेवपर्याप्तं लिंगं दहराकाशस्य परब्रह्मत्वे । द्वितीययोजनायां निधिदृष्टान्तावगतपरमापुरुषार्थत्वंअजानतीनां प्रजानां गतिश्च परब्रह्मत्वे साधकम् लिङ्गम् ।।

“स वा एष आत्मा हृदि” इत्यारभ्य हृदयशब्दनिर्वचनं विरचय्य परस्यब्रह्मणः हृदयाधारकत्व मुक्तम् । “पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तरआकाशः’ इत्यत्रापि हृदयाधारकत्वम् । अतः आकाशः परमात्मा इति सिद्धम्तमेव विनिर्दिश्य “स से तु"रित्यादिना सेतुत्वं तस्य व्यपदिष्टम्अतः सेतुत्वादिगुण योगात् दहराकाशः परमात्मा । अस्य=परमात्मनोमहिमा=घृत्यादिः । एष सर्वेश्वरः सेतुर्विधरणः"इत्यादिषु श्रुतःसचास्मिन्दहराकाशेश्रूयत इतिहेतोः’ इति सूत्रार्थः । विधृतिः=विधरणकर्तासूत्रे घृतिः=घरणम् । बृहदारण्यके य एषोऽन्तर्हृदय आकाशः, तस्मिन्शेते सर्वस्य वशी……एष सेतुर्विधरणः इत्यत्राकाशशयाननिष्टत्वेनघृतिः उक्ताअत्र तु आकाशनिष्ठत्वेन । यद्यपि “धृतेश्च’ इत्येव सूत्रं पर्याप्तम्अम्बरान्तधृतेः इतिवत् । अथापि, अस्याः धृतेः परमात्ममहित्वबोधनेनासाधारणधर्मत्वप्रतिपादनायेवमुक्त म् । बृहदारण्यके अत्रापि धृत्याधारत्वेनोक्तस्याकाशस्यपरमात्मत्वांगीकरणमेवोचितमिति सूचनाय चाधिकनिर्देशः ।

प्रसिद्धेश्च । यद्यप्याकाशशब्दः परमात्मनि प्रसिद्धः इत्यत्र पूर्वपक्षिणोन विवादः । परं तु प्रसिध्यतिशयः भूतकाशे इति स एवात्र वाच्यः इतितत्खण्डनार्थं सूत्रमिदम् । समाधानं तु गुणसनाथा इत्यादिना प्रतिपादितम्"श्रौतीच स्यात् प्रसिद्धिःभगवति बलिनी लिंगवर्गैःसनाथा” इत्यधिकरणसारबलिः । अतो रुढिस्त्याज्या । योगार्थ एव स्वीकार्य=सिंहो माणवकःइत्यादाविव गौणार्थ कल्पनमपि न युक्तम् । सकृत् विभातो ह्येषु ब्रह्मलोकःइति, उपरि विभात शब्द प्रयोगादपि अवयवार्थः आकाशशब्दस्याविष्कृतःननु किमर्थमिदमधिकरणं लिंगवर्ग सनाथायाः प्रसिद्धेः परमात्मपरत्वस्थापनस्यआकाशाधिकरणे एव निर्णीतत्वात् । इति चेत् सत्यं “तस्मिन् तदन्तःतदन्वेष्टव्य"मिति अधिकस्याभावे पूर्वशिक्षितन्यायेनैवार्थनिश्चयःसंभवेदेव । तदन्तर्वर्तिनोऽन्यस्योपास्यत्वोक्तेः संदेहानिराकरणात्अपहतपाप्मत्वादिकमपि आकाशान्तर्वर्तिन एवाभ्युपगम्यतां इत्याक्षेपपरिहारासंभवाच्च

ननु दहर उत्तरेभ्यः इति सूत्रे बहुवचनश्रवणात् तेनैव सर्वेषामप्युत्तरत्रप्रतिपाद्यमानधर्माणां ग्रहणसंभवेन उत्तरसूत्राणां व्यर्थतैवेतिचेत् सत्यम् । दहरवाक्यप्रतिपाद्यमानाः धर्माः केके, कथं च तेषांपरमात्मन्येव वर्तमानता इत्यादीनां स्वरसतो ज्ञापनाय सूत्रान्तराणांप्रवृत्तेः । जीवपरत्वशंकापरिहारासंभवाच्चेति ध्येयम् ।।जीवत्वशंकानिराकरणपराणि उत्तरसूत्राणि । प्रजापतिवाक्यप्रस्तावात्पूर्वं “एष संप्रसाद” इति दहरविद्यायां श्रवणात् संप्रसादशब्दस्यजीववाचकत्वे संदेहाभावाच्च इयं विद्या जीवविषयिण्येव । एष आत्मेतिइत्यादिकमपि जीवविषयकमेवेति पूर्वपक्ष्याशयः । अथ य एष संप्रसादःइति जीवस्योक्तत्वात् एष आत्मेति होवाच इति तस्यैव परामर्शात् एतदमृतंइत्यपि तस्यैव बोधकम् । एतच्छब्दस्य सर्वत्रानुगतत्वात् । अमृतमितिविधेयप्राधान्यात् एतदिति क्लीबनिर्देशः इति चाभिप्रायः ।।

आकाशत इति आकाशशब्दस्य जीववाचकत्वेपि कथं “यावान्वा अय"मिति जीवस्योपमानोपमेयभावःइति चेत्? जीवगतज्ञानानन्त्याभिप्रायेणाकाशोपमेयत्वसंभवात् ।असंभवादिति परिहारः । उत्तरेभ्यः इति आद्यं सूत्रम् । उत्तरवाक्येएव जीवस्य गुणानां प्रतिपादनमिति सिद्धान्तिहेतुः भग्नः इति सूचनार्थं - उत्तराच्चेत्इति सूत्रम् ।“जक्षत् क्रीडन् … स यदि” इत्यादि श्रुत्यर्थः “संकल्पादेव तच्छुतेः"इत्यत्र व्यक्तीभविष्यति । जक्षत्=हसन् भक्षयन् वा । रममाणः भगवदनुभवकैकंर्यव्यापृतौएष संप्रसादः इति जीवपरामर्शी, स उत्तमः पुरुषः इति भगवत्परामर्शीस तत्रेत्यत्र तच्छब्दः जीववाचीः तत्रेति परमात्मवाची । वैकुण्डलोकवाचीवा । उपजनं=कर्मकृतजननयुक्तम् । बन्धुजनसमीपस्थं=कुणपम् । आकाशमनु=आलोकरूपसहकारिणमनुसृत्यचाक्षुषः=चक्षुः करणकःपुरुषः । इति चेत्=इत्यन्तं एतदुक्तं भवतीतित्यस्यविवरणम् । आविर्भूतस्वरूपस्तु इत्यनेन बन्धदशायामनाविर्भावः उक्तःकोर्त्स्येनानभिव्यकस्वरूपत्वात् इत्यत्राप्यमर्थः प्रदर्श्यतेप्रजापतिवाक्योक्तः आविर्भूतस्वरूपो मुक्तः । दहरविद्यायामुक्तस्तुनित्याविर्भूतगुणकःपरमात्मा । इति परस्परं भेदः प्रदर्शितः । एवंभेदेपिमुक्त एव दहरविद्यावेद्योऽस्तु इति शंकां परिहरति - आविभूर्तस्वरूपस्यापीत्यादिना।

तद्धेतुत्वरूपम् इति । “य एष संप्रसादः” इति श्रुतेरयमर्थः - एषःजीवः परं ज्योति रूपसंपद्य स्वेन रूपेण योऽभिनिष्पद्यते=यद्रूपःअभिनिष्पद्यते - अपहतपाप्मत्वादि पूर्वोक्ताकारविशिष्ट यद्भावमापन्नोभवति एष परमात्मा इत्यर्थः । य एषः इति सर्वस्यापि जीवपरामर्शकत्वेएष आत्मा इतिहोवाच । इत्यत्र एतच्छब्दः जीवान्तर्यामी इत्यर्थकः।।

दहराकाशस्य परस्य अल्पपरिमाणश्रवणस्योपपत्तिनिरूपणमुत्तरसूत्रेएतावता दहरविद्या जीवपरास्तु इति शंका व्युदस्ता । प्रजापति वाक्यमेवपरब्रह्मपरं भवतु इति शंकां परिहरति - प्रजापति वाक्यनिर्दिष्टस्तुइत्यादिना

अनुकृतेस्तस्य च इति । अनुकर्तृ - अनुकार्ययोः भेदसाधनार्थम् । एतेन- आविर्भूतापहतपाप्मत्वं अन्यत् नित्यविर्भूतमपहतपाप्मत्वमन्यत्इति तस्य द्वैविध्यं किमर्थ माश्रीयते । दहरविद्याप्रकरणे श्रूयमाणमपिअपहतपाप्मत्वादिकमपि प्रजापतिवाक्यसिद्ध संप्रतिपन्न जैवापहतपाप्मत्वादिरूपमेवभवतु । दहरत्वमपि जीवे उपपन्नं इति शंका परिहृता । निरञ्जनः परमंसाम्यमुपैति - मम साधर्म्य मागताः “इति श्रुतिस्मृतिबलात् मुक्तौसर्वसंप्रतिन्नं भगवत्साम्यम् ।“स्वेनरूपेण"इति अपहतपाप्मत्वाद्यविर्भावश्चःस च नित्याविर्भूतपरमात्मगतगुणाष्टकं विना नोपपन्नम्अतः जैवगुणाष्टकप्रतिपादकप्रजापतिवाक्यसामर्थ्यादेव परस्य नित्याविर्भूतगुणाष्टकवत्वमस्तीति सिध्यतीति सूत्रतात्पर्यम् । अत्र श्रुत्युदाहरणम् ।।

अपि स्मर्यते इति स्मृत्युदाहरणम् । यद्यपि “अनुकृतेस्तस्य च” इत्यत्रैवश्रुतिस्मृत्युभयोदारहणमपि गृहीतुं शक्यम् । अथापि निरञ्जनत्वेएवं अनुकारः न गुणाष्टकेऽपि इति शंका व्यावर्तनाय स्मृतिप्रमाणकंपृथक्सूत्रम् । अत्र” मम साधर्म्यं इति श्रवणात् धर्मांशेपि अनुकारःस्पष्टः ।।मतान्तरे सूत्रयोजनाखण्डनं केचित्तु इत्यादिना । पूर्वपक्षस्य कथंचित्संभवेपिपरिहारकांशः ईषदपि न सूत्रपदलभ्यः । पूर्वपक्षोत्थितिरपि न संभवतिप्रकरणस्य पर ब्रह्मविषयत्व निश्चयादिति भाष्यतात्पर्यम् ।।अत्राधिकरणसारावलिपद्यद्वयमनुसन्धेयं “बाह्याकाशश्च” इति, “आपस्तम्बश्च"इति च ।।यावान्वा अयमाकाशः इतीदं अत्यन्ताणौ जीवे विपुलत्वाभावान्न घटतेधर्मभूतज्ञानविकासमादाय घटनमपि न स्वरसम् । उभे अस्मिन् द्यावापृथिवी"इत्यादिविश्वाघारत्वमपि न भूताकाशे, नापि जीवे । सत्यमिति चेतनाचेतननियन्तृत्वरूपार्थवर्णनमपिनोभयत्र । एतत्सत्यं ब्रह्मपुरं,अस्मिन्कामाः समाहिताः नास्य जराप्रध्वसौ । इत्युक्तत्वात् ब्रह्मपुरं न शरीरं भवितुमर्हति । तस्यतयोः सत्वात् । ब्रह्मैव पुरं, ब्रह्मैव लोकः इति कर्मधारय एवाश्रयणीयःनिषादस्यपनिन्यायात्लोक्यत इति लोकः फलम् । अनेन भोग्यत्वमुक्तम् । निधिसाम्यमपि भोग्यत्वानुगुणम्नेदमाकाशे संभवति । अहरहर्गच्छन्त्यः इति जीवानां संचारकर्तृत्वात्तत्कर्मत्वं न संभवति । सुषुप्तौ विश्रमार्थं जीवानां परमात्मनिगमनं नत्वकाशे । भगवतः पुरिशयत्वमेव न पुरत्वमिति नाशंकनीयम् ।ब्रह्मणः वैभजानपुरत्वस्य आपस्तम्बेनकीर्त्यमानत्वात् । परस्परासंकीर्णस्वरूपधर्म स्थितिकरत्वात् ब्रह्मणः पुरत्वम् । “पूः प्राणिनः सर्वएव गुहाशय स्याहन्यमानस्य विकल्मषस्य” इति सर्वेषां ब्रह्मणः पुरत्वनोक्तत्वादपिब्रह्मैवपुरं सर्वेषा मित्यर्थ एव स्वारस्यम्पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तर आकाशः इत्युक्तावपि हृदयाधारत्वमेवभगवतः यथा मुख्यं तथा ब्रह्मण एव सर्वावासभूमित्वात् पुरत्वोक्तिःयुक्ता ।। इत ।।“युक्तं नान्योन्य बाध प्रभृतिकमिह तत्सामरस्यं हि सौत्रम्” इत्यधिकरणसारवल्युक्तार्थानुसन्धानमपीह भाव्यम् । अत्राभिनवदेशिकटीका - कश्चित् कथयति - दहरविद्यायांप्रजापति वाक्येच पृथक् पृथक्फलनिर्देशात् मिथस्सापेक्षत्वाभावात्सद्विद्यादिवत् विद्याद्वयं भिन्नं स्वतन्त्रम् । इति । अन्योमन्यते - अपहतपाप्मत्वादिगुणगणैक्यात् एक प्रकरणात् एकैव विद्या कृत्स्न केवलाख्यायिका प्रदर्शनायप्रजापति वाक्यारंभः इति । अपरो भणति - “तद्य"इहात्मानमनुविद्य व्रजन्तिएताश्च सत्यान् कामान् इति गुण प्राधान्यप्रतीत्या दहरविद्या सगुणविद्यास्वरूपमात्राविर्भावहेतुः निर्गुण विद्या । प्रजापति वाक्ये “सत्यकामःसत्यसंकल्पः इत्यस्य स्वरूपातिरिक्त कामसंकल्पादिरहितः इत्येवार्थःइति । सर्वमिदं शिक्षयति - आकांक्षेत्यादिना’ इति ।। विस्तरस्तुतत्रैव द्रष्टव्यः ।। इति दहराधिकरणम् ।।