(1.02.4) ईक्षतिकर्माधिकरणम् ।।प्रश्न, मुण्डक, माण्ड्क्योपनिषदः अथर्ववेदसंबन्धिनः । प्रश्नोपनिषदिषट् खण्डाः । एकैकस्मिन्नपि खण्डे एकैकोमुनिः प्रश्नं करोति । सुकेशः,शैब्यः, सौर्यायणी, कौसल्यः, भार्गवः कबन्धी इत्येते मुनयः पिप्पलादंप्रति ब्रह्मविद्यायां विशदज्ञानार्थं रचयन्ति प्रश्नान् । स चोत्तरंददाति । अत एवास्य प्रश्नोपनिषत् इति नाम । अत्र पूर्वस्मात् पूर्वस्मात्मुनेरपेक्षया उत्तरोत्तरमुनीनां ब्रह्मविद्यायां विशदज्ञानाभावात्व्युत्क्रमेणाचार्यं पृच्छन्ति । तत्र शैब्यः सत्यकामः मरणान्तंप्रणवमुपासकस्य किं फलमिति पृच्छतितस्याचार्यः ओंकारः परापरब्रह्मरूपः । एकमात्रं ह्रस्वरूपं प्रणवमुपासकस्यमनुष्यलोके जननं तपसः ब्रह्मचर्यस्य आस्तिक्यरूप संपदश्च प्राप्तिःतत्प्रयुक्त फलानुभवश्च भवति । द्विमात्रं दीर्घं प्रणवमुपासकस्यचन्द्र लोक प्राप्तिः स्वर्गानुभावः पुनरावृत्तिः । त्रिमात्रप्रणवेनपरब्रह्मोपासकस्य सर्वपापनिवृत्तिः नित्यसूर्यनुभाव्यब्रह्मलोकगमनंजरामरण निवर्तकस्य शान्तस्वरूपस्य परमपुरुषस्येक्षणं तत्प्रयुक्तानुभवश्चफलमित्युपदिशति । त्रिमात्र प्रणवोपासक फलविषये विचारः । द्वि मात्रप्रणवोपासकस्यान्तरिक्षलोकप्राप्ते रुक्तत्वात् तदनन्तरं त्रिमात्रोपासकस्य फलत्वेन निर्दिष्टब्रह्मलोकः प्रत्यासत्त्या चतुर्मुख लोकपर एव स्यात्नह्यत्र अन्तरिक्षलोकशब्दस्य गार्गिप्रश्नोत्तरे आकाशशब्दस्येवान्यथानिर्वाहः कर्तुं शक्यते । ब्रह्मलोक शब्दस्य वा अन्यथा निर्वाहःसुशकःअदृष्टं द्रष्ट्ट “इत्यक्षरस्य सर्वेक्षणविषयत्वोक्त्या ईक्षणविषयत्वेनोक्तस्यपरब्रह्मत्वाभावात् तदीयलोकः चतुर्मुखलोक एवेति निश्चेयम् । इतिसंगतिः एवं संगतिसूचनायैव सूत्रे ईक्षतिशब्दप्रयोगः । सूत्रे सःइति पुंलिगनिर्देशः परमपुरुषाभिप्रायेण । परं पुरुषं इति श्रुतिवाक्यमभिप्रेत्य । अस्मिन् पादे सर्वाधिकरणेष्वपि साध्यनिर्देशसूचनम्प्रथमपादे भेदव्यपदेशाच्चन्यः इति अन्यपदोक्तिः द्वितीये “अतएव च स ब्रह्म’ इति ब्रह्मशब्दनिर्देशःचतुर्थे “वदतीति चेन्न प्राज्ञो हि प्रकरणात् इति प्राज्ञ शब्दोक्तिः।।ननु एकमात्रप्रणवोपासनं कथं ? असंभवात् । नहि ओंकारः ह्रस्वोऽस्ति’एओङ्’ इति हि पाणिनि सूत्रम् । एकारस्येव ओकारस्य ह्रस्त्वत्वाभावस्यसर्वसंप्रतिपन्नत्वात् इति चेदुच्यते - यज्ञ कर्मण्यजपन्यूङ्खसामसु(1.02.34) इत्यष्टाध्यायी सूत्रम् । अस्य सूत्रस्य काशिकावृत्तिरेवम्-त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते । तेषां यज्ञक्रियायामपि तथैवप्रयोगे प्राप्ते एकश्रुतिर्विधीयते, जपन्यूङ्ख सामानि वर्जयित्वायज्ञकर्मणि मन्त्राणामैकश्रुत्यं भवति । …. । यज्ञकर्मणीतिकिम् ? सम्पाठे मा भूत् । अजपेष्विति किम् ? ममाग्ने वर्चो विहवेष्वस्तुजपः अनुकरणमन्त्रः उपांशुप्रयोगः । अन्यूड़्खे इति किम् ? न्यूङ्खाओकाराः शोडश । तेषु केचिदुदात्ताः, केचिदनुदात्ताः । अत्र पदमञ्जरीव्याख्यायाम्नत्वेते मकारान्ताः । तेषु प्रथमसप्तमत्रयोदशाः त्रय उदात्तास्त्रिमात्राःइतरे त्रयोदशा अनुदात्ताः अर्धौकाराःएतच्चाऽऽश्वलायनेन चतुर्थेऽहनीत्यस्मिन् खण्डे लक्षणेनोक्तमुदाहृतञ्च।। इति । ओकारस्य द्विमात्रत्वं स्वाभाविकम् । अत्र त्रयोदशोकाराणाम्अर्धौकारत्वोक्तेः एकमात्रत्वमुक्तं भवति । अनेन एकमात्रप्रणवोपासनंसम्भावितमिति ज्ञायते ।।सत्यकामप्रश्नस्य पूर्वं गार्ग्यस्य सौर्यायणीनामकस्य प्रश्नः -भगवन् एतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिन् जाग्रति इत्यादिअस्योत्तरं एषहि द्रष्टा स्प्रष्टा… विज्ञानात्मा पुरुषः सपदे अक्षर आत्मनि संप्रतिष्ठते । परमेवाक्षरं प्रतिपद्यते - स योहवै तदच्छायमशरीरं अलोहितं शुभमक्षरं इत्यादि । अत्राक्षरशब्दःअक्षराधिकरण इव परमात्मपरः इति निर्विवादम् । उपरि सत्यकामप्रश्नोत्तरवाक्येब्रह्मविद्या वा अन्या वेति विचारः ।। पादोदरः = सर्पः । ससामभिः= एतत्साम गायन्नास्ते इतिवत् सामगानसहितैः ।। सान्त्ववादयुक्तैःआतिवाहिकैः इतिवाऽर्थः ।। अत्रेत्यादिना विषयः शोध्यते । ध्यायीत ईक्षते इत्युभयत्रपरं पुरुषं इति श्रवणात् उभयोरेकविषयत्वं सिद्धम् । एकत्र परात्परं इति श्रवणात् न विषयैक्य संभवः इति नभ्रमितव्यम् । पञ्चम्यन्तपदाभावेपिअर्थसामार्थ्यात् तत्प्राप्तेः । परं पुरुषमित्यत्र परत्वावधित्वेनविवक्षितस्यापि केभ्यश्चित् परत्वसंभवेन परात्परं पुरिशयं पुरुषंइति निर्देशस्य ततो भेदावहत्वाभावाच्च ।। अतो भिन्नविषयत्वेन पूर्वपक्षःएकविषयत्वेन सिद्धान्तः इति न मन्तव्यम् । एकविषयत्वमभ्युपगम्यैवपूर्वपक्षसिद्धान्तौ वर्णनीयौ इत्यभिप्रायःननु ईक्षतिकर्म परमात्मा व्यपदेशात् इत्युक्त्या ईक्षतिकर्मविषयेएव संशयः । ध्यायतिकर्मविषये परमात्मत्वमिष्टं इति प्रतीयते । अतोभिन्नवषयत्वमादायैवपूर्वपक्षः प्रवर्तनीयः । एवं ईक्षतिकर्मव्यपदेशादिति एकपदत्वाश्रयणेनध्यायतिकर्मण एवेक्षतिकर्मत्वव्यपदेशादिति सामाधानस्य वक्तव्यत्वात्पूर्वपक्षोभिन्न विषयत्वेनैवोपपादनीयः इति चेत् मैवम् ।एकविषयकत्वप्रत्यभिज्ञापकशब्दानामस्वारस्यापत्तेः भिन्नविषयत्वेनपूर्वपक्षप्रवर्तने तत्क्रतुन्यायविरोधाच्च । न च प्रतर्दनविद्यायांइन्द्रान्तर्यामितयोपासनेपि परब्रह्मप्राप्तिवदत्रापि चतुर्मुखाद्यन्तर्यामितयोपासनेपिपरब्रह्मप्राप्तिरिति न तत्क्रतुन्याय विरोधः इति वाच्यम् । मामुपास्वइतिवदत्र तथोपासनविधायकवचनाभावात् । नचैवं सति ध्यायतिकर्मव्यमदेशादितिकुतो न सूत्रितमिति वाच्यम् । पूर्वपक्षहेतुप्रदर्शनार्थं तथा सूत्रप्रणयनात्उन्नीयते ब्रह्मलोकं, पुरुषमीक्षते इति श्रवणादेव हि पूर्वपक्षोस्थितिः।। अन्तरिक्षलोकस्य प्रस्तुतत्वात् तत्प्रत्यासन्नभोगलोकपरत्वमेवब्रह्मलोकशब्दस्य वाच्यम् न तु विप्रकृष्ट मोक्षलोकपरत्वमिति पूर्वपक्ष्याशयःत्रिमात्रप्रणवेनोपासनं परब्रह्मविषयकमेवेति न नियमः, चतुर्मुखब्रह्मणोऽपि त्रिमात्रप्रणवोपास्यत्वं स्यादिति चाशयः । न च ओमित्येकाक्षरंब्रह्म व्याहरन् मामनुस्मरेत् इति गीतावचनात् त्रिमात्रोपासनं परात्मविषयकमेव,न तु चतुर्मुखविषयकमपीति वाच्यम् । ओंकारप्रणवस्य परत्वापरत्वरूपद्वैविध्यस्य पूर्वं प्रदर्शितत्वात् । परप्रणवोपासनस्य परमात्मविषयकत्वेपिअपरप्रणवोपासनस्य चतुर्मुख विषयकत्वस्यापि संभवात्” । यत्तु चतुर्विधाभजन्ते मां इति न्यायेन परमात्मभजनस्यैव चतुर्मुख लोकप्राप्तेःफलत्वसंभवात् उपक्रमे परमात्मोपसनतात्पर्येपि न विरोधःइति मतं तत्न संयक्भाष्ये एकविषयकत्वमादायैव पूर्वपक्षप्रवर्तनस्यावश्यकर्तव्यत्वप्रतिपादनेन तद्विरोधात् ।।चतुर्मुख एवेति । अयमत्र भावः - ब्रह्मलोकशब्दः चतुर्मुखलोकपरः,तद्गतेनेक्ष्यमाणत्वं चतुर्मुखस्यैव । न च ब्रह्मलोकशब्दो नित्यविभूतिरूपब्रह्मलोकपरःइति वाच्यम् । एकमात्रप्रणवार्थोपासकस्य भौमभोगः प्रतिपाद्यते ।द्विमात्रप्रणवार्थोपासकस्य भौमसन्निकृष्टान्तरिक्षलोकभोगः । त्रिमात्रोपासकस्यतत्सन्निकृष्टलोकभोगस्यैवोचितत्वात् तादृशभोगस्थानरूपचतुर्मुखलोकस्यैवग्राह्यत्वात् । न तु अत्यन्तविप्रकृष्ट नित्यविभूति रूपलोक ग्रहणमुचितम्मनुष्यलोकान्तरिक्षलोकप्रायपाठेन प्राकृतचतुर्मुखलोकपरत्वे एवचौचित्यम् । “तमृचो मनुष्यलोक मुपनयन्ते, “यजुर्भिरुन्नीयते स सामभिरुन्नीयते,इति वेदत्रयस्य प्रस्तुतत्वात् भूः भुवः सुवः इति व्याहृतित्रयस्यतत्सारत्वात् भूः भुवः सुवः इति तत्त्रयस्य पृथिवी, अन्तरिक्षंद्यौः इति प्रसिद्धत्वात् अन्तरिक्षानन्तर लोकस्य नित्यविभूतित्वाभावाच्चब्रह्मलोकशब्दः नित्यविभूतिपरो न संभवतिन च जीवघनात् परात्परं पुरिशयं इति श्रूयमणत्वात् कथं तस्य चतुर्मुखपरत्वं,जीवधनशब्दो हि जीवसमष्टिरूप चतुर्मुख वाचकः । अतस्तस्मात्परत्वंस्वस्यैव कथमिति वाच्यम् । “घनाः कठिन संघात मेघ काठिन्य मुद्गराः"इति घनशब्दस्य संघातेपि प्रयोगसंभवादत्र घनशब्दस्य संघातवाचित्वात्घनीभूतव्यष्टिजीवसंघातार्थ कत्वेन तस्मात् चतुर्मुखस्य परत्वोपपत्तेःनचैवमपिजीवसंघातावधिकपरत्वस्य चतुर्मुखे सत्वात् तदवधिकपरत्वंपरब्रह्मण एव । परात्परं इति परशब्दद्वयसत्वात् इति वाच्यं जीवधनात्परात् इति सामानाधिकण्यसंभवे तद्विहाय वैयधिकरण्याश्रयणस्यानुपपन्नत्वात्देहेन्द्रियादिभ्यः परभूतो जीवव्यष्टि पुरुषः । इन्द्रियादिभिःतस्य घनीभूतत्वात् । घनशब्दस्य मूर्त्यर्थकत्वस्यापि संभवात् ।मूर्तीभूतजीवव्यष्टिरत्र जीवधनशब्देन विवक्षितः । सचाचेतनात् परःतस्मादपि परः समष्टिपुरुषः चतुर्मुखः । चतुर्मुखकर्तृकसृष्टिर्हिव्यष्टि सृष्टिः । ततः पूर्वं अण्डसृष्टि तन्मध्य चतुर्मुखसृष्टिपर्यन्तं समष्टिसृष्टिः । इयं च परब्रह्मकर्तृका । तदनन्तरं ब्रह्मानुप्रविष्टचतुर्मुखकर्तृका । अतः परात् जीवधनात् परः चतुर्मुखः इत्यदोषात्"न च तमोंकारेणान्वेतीति विद्वान् “यत्तच्छान्तमजरममृतमभय"मित्यादीनांकथं च चतुर्मुखे समन्वयः इति वाच्यम्उपक्रमानुसारेणोपसंहारिकामृतत्वादीनां नेयत्वात् । आपेक्षिकामृतत्वादेःतस्यापि सत्वात् देवादीनामजरत्वामृतत्ववत् । “अक्षय्यं हवै चातुर्मास्ययाजिनः सुकृतं भवतीत्"यादौ वेदे आपेक्षिकाक्षयत्वादिकस्य बोधनवच्चसिद्धान्ते - व्यपदिश्यते हीति - अयं भावः । शान्तत्वामृतत्वादीनांगौणतया नयनमेक मस्वारस्यम् । अपरच्च “ओंकारेणाभिध्यायीत इत्युपक्रमेपरब्रह्मण एव ध्येयत्वोक्तेः चतुर्मुखस्य ध्येयत्वकथनम् । “ओमित्येकाक्षरंब्रह्म व्याहरन्मामनुस्मरन्” इति प्रतिपाद्योत्तरत्र मोक्षफलोक्तिवत्अत्रापि कर्मविनिर्मोकोक्तेः परब्रह्मविषयत्वं स्वरसम् । परं चापरंच इति प्रणवस्य द्वैविध्यं प्रतिपाद्य अवरप्रणवोपासकस्य अर्वाचीनफलद्वयं प्रतिपाद्योत्तरेण परब्रह्मोपासकस्योत्तम फलकीर्तनस्यावश्यकत्वाच्चएतदुपरि उपासन तत्फलादीनामन्येषामकीर्तनेन न्यूनताप्रसंगाच्चयत् तत् शान्तमिति यच्छब्देन अनुवादसिद्धेः तच्छब्देन श्रुत्यन्तरप्रसिद्ध्यवगमाच्च । अमृतत्वादीनां गौणत्वनयनासंभावाच्च । उपक्रमेपिपरमपुरुषध्यानस्यैव विहितत्वात् उपक्रमोपसंहारयोः वैगुण्यकल्पनाभावात्अत एव सूत्रे व्यपदेशात् इति सामान्यतो हेतुनिर्देशः कृतः । अनुवादप्रसिध्यतिशयस्य विवक्षितत्वं अनेन सूचितम् । प्रसिद्धोपदेशात्इतिवदत्रापि बोध्यम् । अन्यथा तल्लिंगात् तद्ध - र्भोपपत्तेः इतिवत्निर्देशापत्तेः । “सामभिः यत्तत्कवयो वेदयन्ते तमोंकारेणैवायतनेनइत्युक्तत्वात् सूरिदृश्यत्वलिंगस्य श्रूयमाणत्वादपि न चतुर्मुखस्थानपरत्वं"तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” इति विष्णुपदस्यैव सूरिदृश्यत्वात्न च जीवधनात् परात्परः इत्यस्य कथमुपपत्तिरिति वाच्यम् । चतुर्मुखस्यापिजीवधनशब्देन ग्रहणसंभवात्, अचेतनात् परभूतः जीवधनः सर्वजीवः धनीभूतःचतुर्मुखपर्यन्तः । तस्यापि कर्माधीनमूर्तिमत्वात् जीवधनत्वम् ।इन्द्रविरोचनादीनां कर्मवश्यत्वेनाज्ञानात् चतुर्मुखेणोपदेश्यत्वमिवचतुर्मुखस्यापि कर्म वश्यत्वेनाज्ञत्वमिति परेण “यो ब्रह्माणं विदधातिपूर्वं यो वै वेदांश्च” इति सृज्यत्वोपदेश्यत्वसंभवः ।तस्मात् परः परमात्मा इति सामानाधिकरण्येनैवान्वयात् । परात् जीवघनात्परमिति परिवृत्यान्वयापेक्षया स्थितशैल्यनुसारेण वैयधिकरण्याश्रयणेपिनक्षतिः । अक्षरात्परतः परः इत्यत्र बद्धात् = क्षरात् परः यः अक्षरः= मुक्तः तस्मात्परः इत्यस्येव, अक्षरात् = प्रधानात् परो यो जीवःतस्मात्परः इत्यस्याप्यर्थस्य संभव इवात्रापि उभयथा निर्वाहेपिचतुर्मुखात्परो विष्णु रेवात्र प्रकरणे बोध्यते । ननु ध्यार्यातेकर्मत्वंपरमात्मन एवास्तु । ईक्षणकर्मत्वं चतुर्मुखस्यैवेत्युक्तावपि नदोषः । परमात्मोपासकस्य “ब्रह्मणा सह ते सर्वे” इत्युक्तरीत्यामोक्षस्य क्रमभावित्वसंभवात् तत्परमेवेदं ंवचनं इति निर्वाह संभवात्इति चेन्नप्रमाणाभावात् । स सामभिरुन्नीयते इति सर्वपापविनिर्मोक पूर्वकब्रह्मलोक प्राप्त्युक्तेः । क्रमभाविपक्षे चतुर्मुखलोकप्राप्तौसर्वपापविनिर्मोकासंभवात् । “स तेजसि सूर्ये संपन्नः” इति सूर्यप्राप्त्युक्त्याअर्चिरादिगतिरप्युक्ता । यजुर्भिरुन्नीयते सोमलोकमिति चन्द्रप्राप्तिरुक्तेतिधूमादिमार्गश्चोक्तः । तस्मात् सर्वपापविनिर्मोके सूर्याद्यर्चिरादिगमनोक्तेःनासौ चतुर्मुखलोकः ।।मध्ये स्वर्गलोकादीनां बहूनां सद्भावादिति।भू भुवः सुवः महः जनः तपः सत्यं इति उपरि सप्त लोकाः । अन्तरिक्षलोकप्रत्यासत्तिःनात्र साधकंमध्ये महः जनः तपः इति लोकत्रयव्यवधानात् । न च ब्रह्मलोकं इतिब्रह्मशब्दस्य श्रवणात् महरादिषु ब्रह्मशब्दानन्वयात् न तेषां ब्रह्मलोकशब्दवाच्यत्वसंभवःइति वाच्यम् । क्रमेण लोकप्राप्तावुच्यमानायां तेषामकथनेन न्यूनतापत्तेः । न च अन्तरिक्षलोकशब्दस्य तेषामुपलक्षकत्वं स्वीक्रियतइति न न्यूनतेति वाच्यम् । तेन चतुर्मुखलोकोपलक्षणस्यापि संभवेनतेनैव गतार्थत्वात् पृथगुक्तिप्रयोजनाभावात् । अतः अन्तरिक्षपदंआमुष्मिकसर्वलोकग्राहकम् । भोग्यदेहमूलक भोगस्थानभूतानां उपरितनलोकानांसर्वेषामविशेषेण ग्रहणसंभवात् । सुवः इत्यनेन स्वर्गलोकः उच्यतेस च सोमलोकगर्भः । अतः अन्तरिक्षलोकस्य स्वर्गलोकान्तर्गतत्वात्सप्तलोक्यां अन्तरिक्षं नास्तीति न मन्तव्यम् । अत एव भाष्ये स्वर्गलोकादीनांइत्युक्तम् । अन्तरिक्षलोकः तद्घटित स्वर्गलोकः महःजनः तपः इतिलोकः । एवं बहूनां लोकानां पश्चादेव सत्यलोक इति व्यवधानम् । अतःप्राकृतलोकभोगाः प्राक् दर्शिताः । पश्चात् त्रिमात्रप्रणवोपासनस्यअप्राकृतलोकफलमुच्यते इत्यस्यैव युक्तत्वात् । ऐहिकलोकानुभवः आमुष्मिकलोकफलानुभवःवैकुण्ठलोकफलानुवः इति प्रकारत्रयम् । प्रकारद्वयं पूर्वमुक्तम्अत्रापरस्य प्रकारस्योक्तिः । एवं विभागत्रयसत्वादेव तृतीयस्यामितोदिवि इति परमपदस्य तृतीयत्वमुच्यतेअयमर्थः द्विधा विभज्य इत्यादिभाष्येण प्रदर्शितः ।।भाष्ये परमात्मन एवैतद्रूपमिति । ब्रह्मलोक शब्दस्य चतुर्मुख लोकपरत्वेब्रह्मशब्दः “पुंलिंगस्स्यात् । तदा “शान्तमजरमभयं’ इत्यादि क्लीबान्ततयानिर्देशो नोपपद्यते । परब्रह्मलोकपरत्वे इदमुपपन्नं भवति । सूत्रेसः इति निर्देशः श्रुतिघटक पुरुषशब्दाभिप्रायेण । सत्यकामप्रश्ने- “परं चापरं च ब्रह्म” इति क्लीबतया निर्देशमनुसृत्य “यत्तत् शान्तं"इति क्लीबनिर्देशः । पूर्वत्र परब्रह्मप्रस्तावात् ध्यायतिकर्मत्वंब्रह्मण एवेति उपक्रमे एव सिद्धम् । ध्यायतिकर्मण एवेक्षति कर्मत्वव्यपदेशात्ईक्षतिकर्मापि परमात्मैवेत्यर्थःउभयोः एकविषयत्वनिश्चयात् ध्यायतिकर्म यद्वस्तु तदेव ईक्षतिकर्मापिध्यायतिकर्मतु उपक्रमादि पर्यालोचनया परमात्मेति निश्चितम् ।ततः इदमपि निश्चितमिति सूत्रतात्पर्यम् । एतदधिकरणार्थः पादुकासहस्त्रे- प्राप्तुं परं पुरिशयं पुरुषं मुनीनामभ्यस्यतामनुदिनं प्रणवं त्रिमात्रम्श्रीरंगराजचरणावनि शिञ्जितं ते शंके समुन्नयन सामविशेषघोषम् ।।