(1.03.3) अक्षराधिकरणम् ।विदेहाधिपतिर्जनकः बहुदक्षिणादानेन महान्तं यज्ञं चकार । तत्र कुरुदेशात्पञ्चालदेशाच्च बहवो ब्राह्मणाः ब्रह्मविदःसमागताः । तानवेक्ष्यजनकस्यैवं चिन्ता आसीत् । एषु ब्रह्मवित्तमः कः इति ।। तत्परीक्षार्थंसुवर्णालंकृतशृंगवतीः सहस्रसंख्याकाः गाः पुरतो निक्षिप्य योब्रह्मज्ञानी, तेनेमाः गावः नीयन्तामित्याह । सर्वेपि ब्राह्मणाःतूष्णीं स्थिताः । अत्रान्तरे याज्ञवल्क्यः स्वशिष्यमाहूय इमाःगाः गृहं नयस्व इत्युवाच । तत्र स्थिताः ब्राह्मणाः अमर्षवशमापन्नाःकथं त्वं अस्मदपेक्षया श्रेष्ठो ब्रह्मवित्तमः इति अधिक्षेपपूर्वकंप्रश्नात् कर्तुं प्रारभन्त ।नाहं ब्रह्मवित्तमः, ब्रह्मविद्भ्यो नमोऽस्तु । मम गावः अपेक्षिताःइति सामपूर्वकं प्रत्युत्तरमदात् ।तथापि सदसि स्थितः अश्वलः प्रश्नान्पप्रच्छ । एवमार्तभागः भुज्युःउषस्तः कहोलः गार्गी उद्दालकः इत्येते प्रश्नान् चक्रुः । सर्वेषामप्युत्तरंयाज्ञवल्क्यः उवाच । पुनरपि गार्गी, प्रष्टुमारेभे ।। पूर्वं गार्ग्याएवं पृष्टं सर्वस्याः भूमेः जलमाधारं जलस्य किमाधारं इति प्रश्नः ।अन्तरिक्षलोकाः इति उत्तरम् । अन्तरिक्षलोकानां किमाधारं इतिप्रश्नः । गन्धर्वलोकाः इति उत्तरम् । तेषामाधारं किमिति प्रश्नः ।आदित्यलोकाः । तेषामाधारं किं? इन्द्रलोकाः । तेषामाधारभूतंकिम् ? प्रजापतिलोकाः । तेषां आधारं किम् ? ब्रह्मलोकाः इत्युपर्युपरिप्रश्नमाला उत्तरमाला च प्रावर्तत ।ततः - ब्रह्मलोकानामाधारं किमिति गार्ग्या प्रश्ने कृते याज्ञवल्क्यःतां भर्त्सयामास । यत् प्रष्टुं शक्यं, यदशक्यं इति ज्ञानं विनाप्रश्नकरणे मूर्धा अधः पतेत् इति । भीता सा पूर्वं विरराम । पश्चादुद्दालकप्रश्नस्य समाधिकथनानन्तरं पुनरपि इयमेव गार्गी ब्राह्मणानुमतिंस्वीकृत्य प्रष्टुमारेभे - यथा शूरः कश्चित् स्वधनुषि शरद्वयं संयोज्यशत्रुजयार्थं प्रयुंक्ते । तथाहमपि प्रश्न द्वयं विमोचयामीत्युक्त्वा…. यदूर्ध्वं याज्ञवल्क्य दिवो यदर्वाक् पृथिव्याः यदन्तरा द्यावापृथिवीइमे, यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिन् तदोतं प्रोतं चइत्येकं प्रश्नं चकार ।। सर्वस्यापि आकाशः आधारभूतः इति उत्तरंप्रददौ । कस्मिन् नु खलु आकाशः ओतश्च प्रोतश्च । इति द्वितीयं प्रश्नम् ।अस्योत्तरं - सहोवाच - एतद्वै तदक्षरं गार्गि, ब्राह्मणा….इत्यादि । अत्रोपरि अक्षरं प्रशस्योपरि “एतस्मिन् खल्वक्षरे गार्गि,आकाशः ओतश्च प्रोतश्च” इति समाधानमुक्तम् । अत्रत्याक्षरशब्दार्थःअत्र विचार्यते ।। पूर्वपक्षे आकाशशब्दः वायुमदम्बरपरः एतदाधारतयाप्रयुक्ताक्षरशब्दश्च प्रधानपरः । सिद्धान्ते आकाशशब्द एव प्रधानपरःएतदाधारतयोक्ताक्षरशब्दार्थः परमात्मा । भूमाधिकरणे “स्वे महिम्निप्रतिष्ठितः इति अनन्याधारत्व प्रतिपादनमुखेन सर्वाधारत्वं परमपुरुषस्योक्तंअत्र “कस्मिन् नु खलु आकाशः ओतश्च प्रोतश्च” इति परमात्मव्यतिरिक्तस्यसर्वाधारत्व श्रवण मस्तीति पूर्वपक्षोत्थानेन संगतिः । यद्वा “येनाक्षरंपुरुषं वेद सत्यं” इति पुरुषस्य कस्यचित् सत्यशब्द - अक्षर शब्दवाच्यत्वमुक्तम्तत्र परस्य ब्रह्मण एव सत्य शब्दवाच्यत्वमिति भूमाधिकरणे उक्तम्अत्र तस्यैवाक्षरशब्दवाच्यत्वमपीति साध्यते ।। अथवा पूर्वत्रप्राणशब्दस्य स्वरसार्थः परित्यक्तः तथैवात्राक्षरशब्दस्वरसार्थपरित्यागः न कार्यः इति पूर्वपक्षोत्थानेन संगतिः । भूमशब्दस्यनिरतिशयसुखरूपपरमात्मवाचकत्वमेव स्वरसं इति स्थापितंतथैवात्रापि अक्षर शब्दस्य स्वरसार्थ वाचकत्वमेव न्याय्यमिति शंका"तत्र जीवादधिकत्वे प्रमाण मस्ति । अत्र तथा अधिकोपदेशरूप प्रमाणाभावात्प्रधानादि वाचकत्वमेव न्याय्यमित्याक्षेपः ।। न च अदृश्यत्वाधिकरणे"यया तदक्षरं” इत्यादौ अक्षरशब्दस्य परमात्मपरत्वं स्थापितम् ।एवं सति कथमत्र जीवप्रधानान्यतर विषयत्व शंका इति वाच्यम् । तत्रैव"अक्षरात्परतः परः" इत्यत्र अक्षरशब्दस्य प्रधान जीवान्यतरवाचकत्वस्थापनात्अत्रैवं पूर्वपक्षावतारात् । अक्षरशब्दनिर्वाहस्य तत्रेवात्रापिकर्तुं शक्यत्वात् । ननु तत्र परमात्मासाधारणधार्मोक्तेः परमात्मपरत्ववदत्रापि"एतस्य वा अक्षरस्य प्रशासने" अदृष्टं द्रष्टृ इत्यादिभिः प्रशासितृत्वाद्रष्ट्टत्वाद्यसाधारणधर्माणांश्रूयमाणत्वात् कथं प्रधानपरत्वशंका? सत्यं - अक्षरशब्दस्य परमात्मनिजीवे प्रधानेच प्रसिद्धिरस्तिपरमात्मनि केवलं श्रुति प्रसिद्धिः । जीवे प्रसिद्ध्यतिशयः । प्रधानेअत्यन्तातिशयित प्रसिद्धिरिति वैषम्यम् । प्रत्यक्ष अनुमान - शब्दरूप प्रमाणत्रये शब्दः अन्तिमं प्रामाणम् ।। अनुमानस्य प्रत्यक्षोपजीवित्वात् शब्दस्य प्रत्यक्षानुमानोभयोपजीवित्वात् । इत्थं चोपजीव्योपजीवकेषुउपजीव्यस्य प्रबलत्वात् प्रत्यक्षप्रतीतमनुमानप्रतीतं च विहाय आगमसिद्धार्थकथनस्याप्रामणिकत्वात् । न च कथं प्रधानस्य प्रत्यक्षप्रमितत्वमितिवाच्यम् । तत्कार्यस्य व्यक्तस्याकाशादेः प्रथमप्रतीतत्वात् । “तदक्षरं गार्गि ..“अस्थूलमनणु” इत्यादिना सहपठितानामस्थूलत्वादीनां तत्रान्वयस्य सुलभत्वात्अस्थूलत्वादिकं तु स्थूलत्वाश्रयवस्तुसजीतीय वस्तुगतं धर्ममेव बोधयेदितितदाश्रयवस्तु अचेतनं प्रधानमेव भवितुमर्हति ।। नचादृश्यत्वाधिकरणेपि- एवमेवाशंकाप्रवृत्तिः इति वाच्यम् । तत्र तद्वाक्ये एव प्रधानासंभावितभूतयोनित्वादीनां श्रवणात् प्रधाननिरासनं कृतम् । अत्र तु नैवंपरमात्मासाधरणधर्मोक्तिः । प्रशासितृत्वादीनां तु वाक्यान्तरे एवोक्तत्वात्न परमात्मसाधकता ।।ननु अक्षरशब्दस्य न प्रधाने प्रसिद्धिप्राचुर्यम् । “आकाशादेव समुत्पद्यन्तेइति आकाशशब्दस्य प्रसिद्धाकाशे प्रसिद्धिप्राचुर्यसत्वेपि नह्याकाशसाधकत्वमिष्यतेइति चेन्न । तत्र परमात्मसाधकलिंग बलात् प्रसिद्धि प्राचुर्यं त्यक्तम्न तथाऽत्र तल्लिंगानि श्रूयन्ते । प्रत्युत अस्थूलत्वादिकं प्रधानमेवस्वाश्रयं साधयत् प्रधानमेवोपस्थापयति । अपि च “कस्मिन् नु खलुआकाशः” इति आकाशस्यापि कारणत्वेनाधारभूतस्य वस्तुनः प्रश्नकारणात्अधारभूत प्रधानस्यैव अक्षरत्वं युक्तम् । नचाकाशशब्दस्यान्यार्थकत्वंयुक्तम् । प्रमाणाभावात्तथासत्यपि आकाशाधिकरणन्यायेन परमात्मपरत्वस्यैव वर्णनीयत्वात् तदाधारभूतप्रश्नेसति अन्यस्याक्षरशब्दवाचयस्य परमात्माधार कथनानैचित्यात् । अतोऽत्राकाशःप्रसिद्धाकाश एव । तदाधार भूतं तत्कारणं वस्तु प्रधानमेव । “कस्मिन्’इति गार्गीप्रश्नस्य केवलप्रधानकथनमात्रेणैव समाहितत्व संभवात्तदतिरिक्त परब्रह्मबोधनावश्यभावस्यासंभवाच्च ।। न चोपरि वक्ष्यमाणानांप्रशासितृत्वादीनां का गतिरिति वाच्यम् । प्रकरणपरामर्शेन प्रधानत्वेनिश्चिते प्रधाने एव चेतनत्वारोपेण निर्वाहसंभवात् । वर्षेण बीजंप्रतिसञ्नहर्ष इत्यादाविव निर्वाह्यत्वात्अचेतने मनोरूपप्रधाने मन्तृत्व द्रष्ट्रत्वादीनां श्रुत्यैव प्रतिपादनाच्चकाम संकल्पः विचिकित्सा…. सर्वं मन एवेति हि श्रुतिः। बुद्धेःकर्तृत्व द्रष्टत्वाद्यंगीकारस्य सांख्यसम्मतत्वाच्च । जीवस्याक्षरशब्दवाच्यत्वेसर्वस्याप्युपपत्तेश्च ।।सिद्धान्ते - पारभूतं अव्याकृतं अम्बरान्त इति । प्रधानस्य प्रथमप्रतीतत्वेपिन तद्रहणसंभवः । आकाश एव तदोतं च प्रोतं च इत्यत्राकाश शब्दस्यैवप्रधानपरत्वात् तस्याप्याधारवस्तुनः “आकाशः ओतश्च प्रोतश्च’ इतिप्रश्ने प्रधानान्यस्यैव वक्तव्यत्वात् सर्वाधारभूत मक्षरं ब्रह्मैवयदूर्ध्वं गार्गि…. यद्भूतं …. इत्यादिना कालत्रयवर्तिविकारजातस्याधारप्रश्नात्आकाशस्यापि विकारान्तर्गतत्वात् तस्य सर्वविकाराधारत्वाभावाच्चाकाशशब्दः न केवलाकाशपरः । परं तु प्रधानपर एव । सूत्रे अम्बरान्तंइति प्रधानमुच्यते । तस्यैव सर्वजगत्कारणत्वाभावात्अन्तशब्दः पूर्वावधिरूपकारण परः । अम्बरस्य अन्तः = अन्ततो यत्लयस्थानं तदित्यर्थोवा । तथा च प्रधानाधारत्वेन पृच्छ्यमानः अक्षरशब्दवाच्यःपरमात्मैव । पूर्वपक्षेपि आकाशाधारत्वेनोच्यमानत्वं अहंकारस्याप्यस्तीतितस्यैवाक्षरशब्दवाच्यत्वं स्यात् । नचाहंकारस्याकाशादिकारणत्वेपिअक्षरशब्दवाच्यत्वं कथम् । क्षरणरहितत्वरूपाक्षरत्वस्य तस्मिन्नसंभवादितिवाच्यम् । स्वरूपविकाररहितत्वरूपाक्षरत्वस्य प्रधानेऽप्यसंभवात्उभयविकारराहित्यरूप क्षरणाभावस्य शब्दतः स्वरसतः प्रतीयमानस्य परस्मिन्नेवसंभवात् ।अम्बरं = आकाशः, अन्तः = कारणं, येषां पृथिव्यादीनां इत्यर्थविवक्षान युक्ता । तथा सति तद्धरणस्य प्रधाने एव संभवात् तद्वयावृत्तिःन संभवति । अतः षष्ठीतत्पुरुषाश्रयणम् । सूत्रे प्रधानधृतेः इत्यनुक्त्वाअम्बरान्तधृतेः इत्युक्तिः विषयवाक्यस्थाकाशशब्दः अम्बरभूताकाशपरःइत्यभिप्रायेण पूर्वपक्षः प्रवृत्तः इति ज्ञापनाय ।। नन्वेवं सतिआकाशान्तधृत्तेः इति कुतो न सूत्रितमिति चेत्? आकाशशब्दस्य “आकाशादेवसमुत्पद्यन्ते, यदेष आकाशः आनन्दो न स्यात् इत्यादिषु परमात्मपरत्वेनप्रसिद्धत्वात् स नात्र विवक्षितः इति भूताकाश एव विवक्षितः इतिसूचनार्थं भूताकाशवाचकं अम्बरपदं प्रयुक्तम् ।अम्बरपदस्य परमात्ववाचकत्वं तु न प्रसिद्धम् ।यत्तु - इत्यादि । “ननु अक्षरशब्दस्य प्रधानवाचकत्वे प्रथमप्रतीतेःगमकत्वमिति चेत् न । तत्रैव विवादात् । नहि प्रधानत्वेन रूपेण अक्षरशब्दःप्रधानवाची । तथा सति सर्ववाचकत्वापत्तिः । तथा व्युत्पत्त्यभावात्न हि रूढ्या घटादिशब्दवत् प्रधानवाचकत्वम् । अवयवशक्तिस्वीकारेतु अक्षरशब्दपौष्कल्यात् सर्वविकारशून्यपरमात्मपरत्वे एव प्राचुर्यम्ईश्वरशब्दवत् । ईश्वरशब्दस्योच्चारणे प्रत्यक्ष प्रमितलौकिकेश्वरस्यन हि प्रतीतिः जायते । आगमसिद्धा परमात्मनि झटिति प्रतीतिश्च लोकानुभवसिद्धातद्वत् वेदावगत परमात्मन्येव प्रसिद्धिप्राचुर्यम् ।यौगिकशब्दानां अवयवशक्त्यार्थनिरूपणकाले नैव प्रमाणान्तरापेक्षान हि प्रथमतः प्रधानं गृहीत्वैव ईश्वरे अस्य शब्दस्य व्युत्पत्तिनियमःन च ईश्वरपदजन्येश्वर रूपार्थोपस्थितौ प्रमाणान्तरापेक्षाऽस्तिअनेकार्थकहरिशब्दश्रवणे प्रत्यक्षादिप्रमाण सिद्धसर्वार्थोपस्थितिःन खलु जायते । पदं यौगिकं वा रूढं वा भवतु तत्तदर्थोपास्थितौ प्रमाणान्तरप्रसिद्धिःनोपयुज्यते । वह्यनुमानस्य धूमप्रत्यक्षोपजीवित्व मस्तीति हेतोःन वह्निशब्दस्याग्निरूपार्थबोधने प्रत्यक्षापेक्षा अस्ति ।यदपि चेदं मतं - अक्षरशब्दः परमात्मन्यपि प्रयुक्तः । अथापि प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोःप्रधानपरमात्मनो र्मध्ये प्रमाणान्तरप्रसिद्धस्य प्रधानस्यैव शीघ्रंबुध्यारोहः अनुमानस्य प्रत्यक्षमात्रापेक्षा । श्रुतेः व्युत्पत्तिग्रहदशायांउभयापेक्षा । अनुमानप्रतीताक्षरस्य श्रुतिप्रतिपन्नपरमात्मापेक्षयाशीघ्र प्रतीतत्वम् । श्रुतिलिंगादिषु पूर्वपूर्वस्य उत्तरोत्तरस्मादपिप्रबलत्वं च दृष्टमिति । तदपि एतेन निरस्तम् । अक्षरशब्दः अश्नोति= व्याप्नोति इत्यवयवशक्त्या स्वार्थं बोधयति । अत्र प्रमाणान्तरापेक्षा नास्ति ।घटशब्दार्थनिर्णयकाले व्युत्पित्सोः प्रमाणान्तरापेक्षायां सत्यामपिपश्चात् घटशब्देन घटरूपार्थ प्रतिपादन दशायां न प्रमाणान्तरस्यापेक्षावर्तते । व्युत्पत्त्युपायभूतस्य मानान्तरस्यार्थ बोधेऽनपेक्षत्वात् ।तदुक्तं वार्तिके “अर्थबोधेऽनपेक्षत्वात् मानान्तरमनाहतम् ।व्युत्पत्त्युपायभूतं यत् तच्च तन्मात्र एव तु” इति । अपि च कम्बुग्रीवादिमत्पदार्थंहस्तेन गृहीत्वा अयं घटः इति शब्दे प्रयुज्यमाने यथा प्रत्यक्षस्यतत्रापेक्षा, न तथा अक्षर शब्दस्य प्रधानार्थे प्रत्यक्षापेक्षा ।नाप्यनुमानापेक्षा । प्रधानरूपार्थे अनुमानस्याप्यप्रवृत्तेः ।न च सांख्यैः आनुमानिकत्वस्य प्रधानेऽङ्गीकारात् अनुमानप्रवृत्तिस्तत्रेतिवाच्यम् । तस्योपरि निरसिष्यमाणत्वात् । ब्रह्मण इव प्रधानस्यापिशब्दैकसमधिगम्यत्वात् नोभयोर्विशेषः । किं च, इदं लौकिकप्रमाणसिद्धं,इदं च अलौकिक प्रमाण सिद्धं इति कारणात् अलौकिक प्रतीतस्याविलम्बेनोपस्थितिःइत्यपि न युक्तम् । न हि धर्माधर्मशब्दौ श्रूयमाणौ पृथिव्यादिगतधर्मरूपशौक्ल्यादिधर्मादिकं शीघ्रं बोधयतः । अलौकिकप्रमाणसिद्धपुण्यापुण्यादीनामेवताभ्यां शीघ्रप्रतीतेः । अतः लौकिकालौकिक प्रमाणगोचरत्वं प्रतीतिविलम्बाविलम्बयोःनैव प्रयोजकंततश्च ब्रह्मण इव प्रधानस्यापि शब्दैकसमधिगम्यत्वेन लौकिकप्रमाणागोचरत्वात्,गोचरत्वेपि अविलम्बेन प्रतीयमानत्वनियमाभावात् प्रमाणान्तरस्यार्थबोधेऽनपेक्षत्वेनोपजीव्यत्वाभावात्प्रथमप्रतीतस्यापि बाधकप्रमाणसत्वे त्याज्यत्वाच्च न प्रधानमत्राक्षरशब्दवाच्यं"इति विवेकः ।।
अथ जीवत्वं शंकते - एवमिति । ननु जीवस्य कथं प्रकृत्यादिनिखिल वस्त्वाधारत्वंइति चेत् प्रकृतेः जीवे साक्षात् ओतत्व प्रोतत्वाभावेपि प्रकृतिधारणस्यजीवाशक्यत्वेपि च जगद्रूपेण परिणत्यनन्तरं नानाविधदेहानां जीवेनधारणात्तदुपपत्तेः । अक्षरशब्दश्च स्वरसत एव स्वरूपविकाररहिते जीवे उपपन्नःक्षरादन्यत् अक्षरम् । क्षरस्वभावभूत प्रधानसन्निकृष्टत्वात्जीववाचकत्वे स्वरसं च । “यथा वा अरा नाभौ समर्पिताः एवमस्मिन् प्राणेसर्वं समर्पितं” इति श्रवणात् जीवस्य सकलाचिद्वर्गाधारत्वं उपपद्यते च ।न च अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते, इति वचनात् अव्यक्ताक्षरतमसां अचित् विशेषत्वात् कथमक्षर शब्दः जीवात्मानं बोधयेत् इति शंक्यम्,सर्वेषामपि अचेतनावस्थाविशेषत्वेपि जीवसमष्टेः निर्दिष्टत्वात्अक्षरशब्दस्य जीववाचकत्वोपपत्तेः । न चैवं सति अव्यक्त तमः शब्दयोरपिजीववाचकत्वं स्यादिति वाच्यम् । वैषम्यात् । प्रलयदशायां प्रकृतौसर्वावस्थायामपि जीव समष्टिः निविष्टेव । यदा मूलप्रकृतेः तमस्त्वावस्थातदा जीवतत्वं तत्रान्तर्निमग्नम् । अक्षरत्वावस्थायां तदेव जीवतत्वंकिंचिदुन्मग्नं भवति । यथा क्षेत्रे बीजावापे - अवस्थाभेदेन बीजानांअन्तर्निमग्नत्व किंचिदुन्मग्नत्वदशा । किंञ्चिदुन्मग्नत्वदशायांअक्षर शब्दव्यपदेशः तमुपजीव्यैव अक्षरशब्दप्रयोगः अचेतनेअतोऽक्षरशब्दो जीव वाची भवितुमर्हति । तथा च - प्रथमं तमः, अनन्तरंअक्षरं, ततः अव्यक्तं, ततो व्यक्तमहदाद्यवस्था । यदा च मूलप्रकृतेःतमस्त्वावस्था, तदा पूर्वतनाक्षरावस्थायाः क्षरणं भवति । तथा चतस्याः कथं अक्षरशब्दवाच्यत्वं इति शंकायां स्वान्तर्गतस्य जीवस्याक्षरत्वात्इत्येव समाधिर्वाच्यः । एतदभिप्रायेणैव कूटस्थोऽक्षर उच्यते इतिगीतावचनं प्रवृत्तं इति पूर्वपक्ष्याशयः । नन्वेवंरीत्या जीवस्याक्षरशब्दवाच्यत्वे तस्य कथं आकाशशब्दवाच्यप्रकृत्याधारत्वम् । नहि जीवसमष्टिःप्रकृतिं धारयितुं शक्नोति । प्रलयदशायां चास्य चैतन्यप्रसाराभावात्यथा च व्यष्टिदशायां जीवः स्वदेहं धारयति न तथाऽत्र सूपपादं इतिचेदुच्यते? एतस्य वा अक्षरस्य प्रशासने गार्गि इत्यादिना उपरि कार्यावस्थायामेवअक्षरस्य धारकत्ववचनात् कारणावस्थायां तत्स्वरूपयोग्यताऽस्तीत्याशयेनपूर्वपक्षावतारात् ।प्रकृष्टं शासनमिति । पूर्वत्राक्षरस्य प्रकृतिधारकत्वं श्रुतं? तच्च प्रकृष्टशासनाधीनम् । शासनस्य प्रकृष्टत्वं अप्रतिहतत्वम्शासनातिक्रमे दण्डयोग्यत्वम् । भीषाऽस्मात् इति सर्वेपि आज्ञातिक्रमेभगवता शिक्षणं भविष्यतीति भीताः स्वस्वकार्यं रचयन्ति इति च श्रुतम्अतोऽत्र शासनपूर्वकं कारणश्रवणात् तत्तद्वस्तूनि तत्र तत्र पतनंविना तिष्ठन्ति इति लभ्यते । सूर्यादीनां पतनाभावे किं सूर्यान्तर्वर्तिजीवःशासकः । अन्योवा स्वगतपतनाभावं प्रति न स्वस्य हेतुत्वम् । अन्यथाप्रलयेपि पतनाभावप्रसंगः । अन्यस्य कस्यचिदित्युकौ स किमन्यः परमात्माउत उपचितपुण्यविशेषः जीवः इति विकल्पः उपचितपुण्यविशेषस्य व्यापकत्वनिरूपित कारणत्वं न संभवतीति अन्तराधिकरणे निर्णीतंपरस्येति चेत् तदिष्टमेव । “उत तमादेश"मिति सर्वप्रशासनकर्तृत्वस्यपरमात्मन एव संभवात् शासनपूर्वकधारणं भगवत एवेति सिद्धम् । एतेन,पर्यायेण देवमनुष्यादिजन्मवति जीवेपि द्यावापृथिव्यादिप्रशा सितृत्वंतत्दधिकारोपयुक्तजन्मप्राप्त्या कथंचित् समर्थयितुं शक्यं इत्यपिनिरस्तम् । निरपेक्षप्रकृष्ट शासितृत्वस्य भगवतोऽन्यस्मिन् सर्वात्मनाऽसंभवात्
वाक्यशेषे व्यावर्त्यत इति । प्रथमसूत्रं ब्रह्मणः अक्षरशब्दवाच्यत्वबोधनमुखेन प्रधानव्यावर्तकम् । द्वितीयसूत्रं जीवव्यावर्तकम् । तृतीयसूत्रं परमपुरुषान्यप्रधानजीवोभयव्यावर्तकम् । पूर्वसूत्रद्वये परमपुरुषासाधारणधर्मप्रतिपादनमुखेनान्वयतः अक्षरशब्दस्य परमात्मवाचकत्वं स्थापितम् । अत्राक्षरशब्दस्य परमपुरुषान्यवाचकत्वं न संभवतीति व्यतिरेकमुखेन स्थाप्यते इति विशेषः । द्रष्टृत्वम् अचेतने प्रधानेऽसंभवीति नाक्षरशब्दः प्रधानवाचकः । द्रष्टृत्वस्य जीवे संभवेऽपि अदृष्टत्वविशिष्टद्रष्टृत्वस्य जीवेऽसंभव इति न जीववाचकत्वं विशेषणाभावप्रयुक्तविशिष्टाभावरूपस्य विशिष्टद्रष्टृत्वाभावस्य वा जीवे सत्वात् । तथा च विषयवाक्यस्थं “अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्त्रृ अविज्ञातं विज्ञातृ” इत्यादिकं प्रधाने जीवे च नोपपन्नं भवतीत्येतदत्रोक्तं भवति । द्रष्टृ = रूपतदाश्रयविषयकसाक्षात्कारकर्तृ । श्रोतृ = शब्दविषयकसाक्षात्कारकर्तृ । मन्तृ = मन्तव्यविषयकज्ञानकर्तृ । विज्ञातृ = अध्यवसायविषयकज्ञानाश्रयः । पूर्वद्विकं बाह्येन्द्रियविषये - उत्तरद्विकं अन्तः करणविषये ॥ अत्र द्रष्टृत्वश्रोतृत्वादीनाम् उपाध्यनुक्त्या सर्वविषयकत्वं स्वतो लब्धम् । एतादृशसर्वविषयकद्रष्टृत्वादिकं न जीवस्य । एतज्ज्ञानाविषयपदार्थानां बहूनां सत्त्वात् । “यो वेत्ति युगपत् सर्वम्” इत्युक्तसर्वसाक्षात्कारवत्त्वस्य ब्रह्मण्येव संभवात् । सर्वैः अदृष्टत्वस्य प्रधाने सत्वेऽपि द्रष्टृत्वं नास्ति । द्रष्टृत्वस्य जीवे संभवेऽपि सर्वैः अदृष्टत्वस्य प्रधाने सत्वेपि द्रष्टृत्वं नास्ति । द्रष्टृत्वस्य जीवे संभवेऽपि सर्वैः अदृष्टत्वं नास्ति । असंकोचात् सर्वविषयकदृष्टत्वमपि न जीवे । मुक्ते संभवेऽपि निरुपाधिकद्रष्ट्टत्वं नास्ति । सर्वैः अदृष्टत्वमपि नास्ति । प्रत्यगात्मनां सर्वेषां प्रत्येकं स्वस्वाहंप्रत्ययवेद्यत्वात्परमात्मनस्तु यमात्मा न वेद इति स्वेतरसर्वात्मनामप्यवेद्यत्वात्सर्वैरदृष्टं त्वविशिष्टद्रष्टृत्वं युक्तम् ।।
ननु परमात्मनोऽपि जीवानामिव स्वाहंप्रत्ययवेद्यत्वमस्ति । सारशास्त्रे तत्त्वत्रयचिन्तनाधिकारोक्तदिशा तदीयधर्मभूत ज्ञानविषयत्वमपि तस्यास्ति । मुक्तानां नित्यानामपि सर्वज्ञत्वात् स्वात्मस्वरूपमिव भगवतो दिव्यास्मस्वरूपमपि धर्मभूतज्ञानविषयः । एवं च कथं परमात्मनः सर्वैरदृष्टत्वं इति चेदत्रायमाशयः - अत्र न केवलं द्रष्टृत्वं वा अन्यादृष्टत्वं वा हेतुः । परं तु अन्यादृष्टत्वविशिष्टद्रष्टृत्वस्य हेतूकरणात् । तत्र द्रष्टृत्वे अन्यज्ञानाविषयत्वरूपं स्वेतरसंकल्पाप्रयोज्यत्वरूपं विवक्षितम् । मुक्तानां नित्यानां हि सर्वद्रष्टृत्वं भगवत्संकल्प-प्रयोज्यमिति
तेषां व्यावृत्तिः । परमात्मनस्तु नैवमिति अदृष्टत्वविशिष्टद्रष्टृत्वस्य सिद्धिरिति न क्षतिः । अयं द्रष्टा परंतु अन्यानुग्रहास्पददर्शनाविषयस्सन्यो द्रष्टा भवति स एव अदृष्टो द्रष्टा इति श्रुतितात्पर्यात् । एवं वा अन्यभावव्यावृत्तिरिति । “अदृष्टं द्रष्टृ” इति श्रुतिमुपजीव्य पूर्वं व्याख्यातम् । तत्र धृतेः । इत्यत्रेव प्रशासनादित्यत्रेव च परमात्मासाधारणधर्ममादाय परमात्मत्वसाधनं भवति । सूत्रघटकान्यशब्दस्य न स्वारस्यसिद्धिः इत्याशयेन नान्यदतोऽस्ति द्रष्टृ इति श्रुतिं च मनसि विधाय श्रुति-सूत्रोभय-सामञ्जस्याय व्याख्यानान्तरं क्रियते । अतः = अन्यादृष्टत्वविशिष्टद्रष्टृत्ववद्वस्तुनः अन्यत् द्रष्टृ नास्ति इत्युक्तं भवति । यदि जीव एवाक्षरशब्दवाच्यः तदा अदृष्टं द्रष्टृ इत्यनेनापि स एव वाच्यः । तादृश जीवादन्यस्य परमात्मनः सत्वात्ततोऽन्यत् द्रष्टृ नास्तीति वचनं बाधितमेव स्यात् । अतोऽन्यस्य सद्भावं व्यावर्तयति । तथाच नाक्षरशब्दवाच्यो जीवो भवितुमर्हतीति फलितम् । ननु उक्तरीत्या अतः इत्यनेन परमात्मनो ग्रहणेऽपि तस्मादन्यस्य द्रष्टुः जीवस्य सत्वात् “नान्यदतोऽस्ति द्रष्टृ’ इति श्रुतेः कथमुपपत्तिः इति चेत् स्वान्यानुग्रहाप्रयोज्यत्वविशिष्ट-द्रष्टृत्ववत एव अतश्शब्देन परामर्शात् । अतोऽन्यस्यैतादृशस्य द्रष्टुः अभावेन श्रुतेः निर्वाहात् । श्रुतौ अन्यपदं च स्वसदृशभूतान्यपरम् । जीवस्य स्वव्यधिकरणसंकल्पप्रयोज्यद्रष्टृत्वं, परस्य तु न तथेति परमात्मसादृश्यं जीवे नास्तीति तस्यान्यपदेन ग्रहणासंभवात् । नन्वेवंरीत्या परस्य जीवस्य च सादृश्याभावस्य त्वयैवोपपादितत्वात् अतः इति पदेन जीवग्रहणेऽपि जीवसदृशमन्यत् नास्तीति श्रुतेः निर्वाहः संभवत्येव । न च स्वव्यतिरिक्तसमस्ताधारत्वस्य जीवेऽसंभवान्न दोषः इति वाच्यम् । तथा सति सूत्रद्वयसिद्धार्थस्यैव हेतुत्वमिति सूत्रस्यास्य नैवावकाश इति सूत्रारंभवैयर्थ्यात् । नचादृष्टत्वविशिष्टद्रष्टृत्वं स्वव्यतिरिक्त-समस्ताधारत्वम् एतदुभयविशिष्टवस्तुन एव अतः इति पदेन ग्रहणात् एतत्सदृशं एतदुभयधर्मविशिष्टम् अन्यत् नास्तीत्यर्थस्वीकारान्न दोषः इति वाच्यम् । “एवमपि पूर्वोक्तदोष-तादवस्थ्यात् । अतः इत्यस्य केवलद्रष्टुः इत्यर्थं स्वीकृत्य तेन जीवपरामर्शे द्रष्टृत्वेन रूपेण सदृशस्यान्यस्य परस्य सत्वात् वाक्यार्थो बाधितः । तथा ब्रह्मपरामर्शेऽपि सदृशान्यस्य जीवस्य सत्वात् बाधित एव वाक्यार्थः । यदि उक्तगुणद्वयविशिष्टवस्तुनः अतश्शब्दार्थत्वं स्वीक्रियते, तदा अतश्शब्दार्थः परमात्मा उत जीवः उक्तधर्मवैशिष्ट्यं जीवे न संभवतीति पर एव गृह्यते इति चेत् तेनैव जीववारणसंभवात्, विषयवाक्योपादानमपि अनुपयुक्तम् । यदि उक्तधर्मवैशिष्ट्यं जीवे संभवति तर्हि सदृशवस्तुनोऽस्य सत्वात् श्रुतिर्बाधिता भवेत् । यदि जीवो गृह्यते तर्हि धर्मवैशिष्ट्याकारेण जीवान्यस्य परस्य सत्वात् बाधितार्थैव श्रुतिः स्यात् । यत्र परमात्मा पूर्वं सिद्धः तत्र “न तत्समश्चाभ्यधिकश्च दृश्यते” इत्यादौ प्रसिद्धपरमात्मनः समस्य अधिकस्य वा अन्यस्य निषेधः शक्यः । अत्र तु विषयवाक्ये एव परस्य साधनीयतया कथं परमात्मसाधकत्वेनास्योपन्यासः इति चेत् - उच्यते । द्रष्टृत्वस्योभयसाधारण्यात् द्रष्ट्रन्तरनिषेधो न संभवति । अदृष्टत्व-सर्वाधारत्व-नियन्तृत्वविशिष्टं द्रष्टारं कंचन प्रतिपाद्य तत्तुल्यं नास्तीत्युक्ते हि एतस्मिन् एतद्वैशिष्ट्यम्, अन्यस्मिन् च तदभावश्च सिध्येत् इत्येतावन्मात्रतात्पर्यात् । यस्मिन्पुरुषे द्रष्टरि एतादृशवैशिष्ट्यं प्रसिद्धं तदन्यस्मिन् एतादृशधर्माभाववैशिष्ट्यमेव सिध्येत् । अत्र च परमात्मन एव एतद्धर्मविशिष्टतया एतद्धर्मविशिष्टः न भवेत् जीवो द्रष्टा इति निश्चयसंभवात् । अतो न वाक्यासामञ्जस्यम् ॥
अतो जीवे संभवति वा न वा इति कुचोद्यस्य नावकाशः ॥
नचैवं सति उक्तधर्माकारवैशिष्ट्यं जीवे नास्तीत्यस्यैव फलितत्वात् अस्य च पूर्वसूत्रेणैव सिद्धत्वात् एतत्सूत्रकृत्यं किं इति वाच्यम् ॥
पूर्वसूत्रार्थ-दृढीकरणस्यैवानेन क्रियमाणत्वात् । अत एव भाष्ये परमपुरुषतां द्रढयति, व्यावर्तयन्प्रतिषेधति इति भाषितम् ॥
व्यावृत्तेश्च इति सूत्रस्थ-चशब्दमभिप्रेत्य - किंच, एकस्य वा अपि च यो वा इत्यादि भाष्यं प्रवृत्तं ब्रह्मणः चेतनाचेतन-स्वरूपस्थितिप्रवृत्तिहेतुत्वं शास्त्रसिद्धम् । अम्बरान्तधृतेः इत्यनेन स्वरूपहेतुत्वं दर्शितम् निखिलविकारजातनिरूपिताधारत्वात्
ब्रह्मणः तत्स्वरूपस्य तदधीनत्वमुक्तं भवति । प्रशासनादित्यनेन स्थितिहेतुत्वम् । उत्तरकालानुवृत्तिरेव हि स्थितिः । सैव धृतिः किंच अपि च इत्यादिना प्रवृत्तिहेतुत्वमुच्यते । प्रवृत्तिश्च द्वेधा, सांसारिक-प्रवृत्तिः आपवर्गिक-प्रवृत्तिरिति । साऽत्र क्रमेण प्रतिपाद्यते ॥
ननु एतस्मादयमभिन्नः एतस्मादयं भिन्नो न भवतीत्यनयोः समानार्थकत्वात् नान्यत् अतोस्ति द्रष्टृ इत्यत्रापि अतश्शब्दवाच्याक्षरात् परमात्मनः द्रष्टृभूतं जीववस्तु नान्यदिति प्रतीत्या जीवब्रह्मणोः अभेद एव साक्षात् श्रुतिवाक्यात्प्रतीयते इति चेन्न । अक्षरस्य सर्वविकाराधारत्वं श्रुतम् । प्रशासने गार्गि इत्यादिना नियन्तृत्वं श्रुतम् । अक्षरं गार्गि विदित्वा… ब्राह्मणः = ब्रह्मानुभवशाली । इत्युक्त्या सर्वकर्माराध्यत्वरूपं शेषित्वं प्रतीतम् । तथा च सर्ववस्तुनः भगवच्छरीरत्वलाभात् सर्वं तदात्मकम् आसीत् । एवं च, अतोऽन्यत् अब्रह्मात्मकं जीवादि वस्तु निषिध्यते इति नाद्वैतप्रक्रियायाः प्रसक्तिरिति ध्येयम् ॥
इत्यक्षराधिकरणम् ॥