28 भूमाधिकरणम्

(1.03.2) भूमाधिकरणम् ।अक्षर विद्यायाः जीवातिरिक्तब्रह्मपरत्वं स्थापितम् । अथ भूमविद्यायाअपि तत् स्थाप्यते । पूर्वत्र परमात्मप्रकरणाविच्छेदात् मुण्डकेउत्तरभागस्य परमात्मविषयकत्वं प्रतिपादितम् । अत्रापि छान्दोग्येभूमविद्याप्रकरणे प्राणशब्दवाच्यजीवप्रकरणाविच्छेदात् उत्तरभागस्यजीवपरत्वमेव वाच्यं इति शंकया संगतिः । पूर्वत्र स्पष्टजीवलिंगानिअन्यथाकृतानि । अत्र जीवलिंगान्यथाकरणस्य सर्वात्मनाऽसंभवेपि उत्तरभागस्यपरमात्मपरत्वं स्थाप्यते ।छान्दोग्ये सप्तमाध्याये भूमविद्या प्रस्तुता । षड्विंशखण्डात्मकोऽयमध्यायःपञ्चदशखण्डेषु पञ्चदशविषयाः उपक्षिप्यन्ते । वाल्मीकिध्रुवादीनामुपदेष्टानारदः शिष्यः । ब्रह्मणो मानसपुत्रस्सनत्कुमारो गुरुः । अधीहि भगवःइति नारदः । वरुणपुत्रः भृगुरपि अधीहि भगवः इति पितरं पृच्छति ।तत्र ब्रह्म इति कर्मनिर्देशः कृतः । अत्र तु न तन्निर्देशः । अज्ञाताध्यापनमेवकार्यम् । वृथा ज्ञातांशोपदेशः इत्यभिप्रायेण सनत्कुमारः अधीतांशंपूर्वं आचक्ष्व अनन्तरं अनघीतं अध्यापये इत्याह । तच्छु्रत्वा नारदःस्वज्ञातान् सर्वानपि प्रतिपाद्य “मन्त्रविदेवास्मि” नात्मवित्इत्याहकेवलमन्त्रविदः न संसारान्मोक्षः । आत्मज्ञानवतामेव । श्रुतं चेदंपूर्वेभ्यः इत्युक्त्वा विरराम । गुरुरपि सनत्कुमारः त्वया अधीतंसर्व नामैव, वाचकशब्दमात्रं त्वमधीतवान् । अस्य ब्रह्मदृष्ट्योपासनेअर्वाचीनं लभ्यते इति प्राह । शोक समाविष्टो नारदः इतोपि भूयः अन्यदस्तीतिपप्रच्छ । सोपि गुरुः वाक् भूयसी “इत्युक्त्वा वाचो ब्रह्मदृष्ट्योपासनेअर्वाचीनं फलं प्राह । एव मुपर्युपरि वस्तुनि निर्दिष्टे इतोपि…भूयः अस्तीतिः प्रश्नः अवततार … एवं पञ्च खण्डाः प्रवृत्ताः ।1. वाचकशब्दः 2 वाक् 3 मनः 4 संकल्पः 5 चित्तं 6 ध्यानं 7 विज्ञानं8 बलं 9 अन्नं 10 आपः 11 तेजः 12 आकाशः 13 स्मरः 14 आशा 15 प्राणःजीवः । अत्र पूर्वपूर्वनिरूपित कारणत्ववतो वस्तुन एवोत्तरोत्तरंप्रदर्शनम्शोकतरणहेतुत्वेनात्मज्ञानस्योक्तत्वात् ध्येयस्य च वस्तुनः कारणत्वावश्यंभावात्कारणं हि ध्येयम् । अन्ततो निर्दिष्टं ब्रह्म सर्व कारणमिति प्रतिपादितंभवति ।शब्दोच्चारणकारणं वाक् । वागिन्द्रियाभावे वेदाद्युच्चारणासंभवात्वाक्प्रवृत्तिरपि मनोव्यापाराधीनेति वाचो मनः कारणम् । मनसोपिकृत्यध्यवसायरूप संकल्पः कारणम् । तस्यापि चित्तं कारणम् । चित्तस्यच ध्यानं कारणम् । ध्यानं च वस्तु ग्रहणरूप विज्ञानजन्यम् । ग्रहणंच बलात् । बलं चान्नाधीनम् । तत्र क्रमेण कारणानि जलतेजोऽऽकाशाःआकाशकार्यस्य श्रवणस्य स्मरणाधीनत्वात् आकाशस्य स्मररूप स्मरणंकारणम् । स्मरणस्य आशा कारणम् । आशायाः प्राणरूप जीवाधीनत्वात्प्राणः कारणमिति विवेकः ।।अत्र प्राण शब्दः प्राणसहचरितं जीवं लक्षयति । अतः प्राणः = प्राणीदशमखण्डे “व्याधीयन्ते प्राणाः आनन्दिनः प्राणाभवन्ति” इति पूर्वत्रप्रयोगदर्शनादपि जीवपरत्वमास्थेयम् । केवलप्राणस्य व्याध्यानन्दाश्रयत्वाभावात्स वा एष एवं पश्यन् एवं मन्वानः इति उपरितनश्रुतिः प्राणस्य जीवपरत्वमुपोद्बलयति । तत्र सः इति तच्छब्दः प्राणपरामर्शी । यदि तत्रमुख्य प्राणपरः तच्छब्दः तदा पश्यन् इत्यादि न संगच्छेत, अतः जीवपरत्वमेववक्तव्यमिति प्राणशब्दोपि जीवपरः एषितव्यः ।। अत्रैव पंचदशखण्डेएव प्राणशब्दस्य जीवपरत्वं स्पष्टमभ्यधायिप्राणो ह पिता प्राणो माता इत्यादि सामानाधिकरण्योक्तेः पितृमातृशब्दानांजीव पर्यन्तवाचकत्वात् । न हि परिदृश्यमानपिण्ड विशेषाणामेव पित्रादिशब्दवाच्यत्वम् । तथा सति पितृमातृभ्रात्रादिषु धिक्कारादि करणेकर्तुः हिंसकत्वा भाव प्रसंगात् । वाचिक कायिक क्रूरकर्मकरणे पितृहामातृहा इति तत्कारिणं निन्दन्ति । उत्क्रान्त शरीरेषु तेष्वेव शरीरेषुशूलेन संयक् प्रक्षिप्य संयक् दहत्यपि पुरुषे पितृहा इत्यादिनिन्दाकरणाच्चअतो निर्जीवशरीरेषु तथाऽप्रयोगात् सजीवेषु पित्रादिषु हिंसितेषुतथा प्रयोगदर्शनाच्च मातृपित्रादिशब्दाः पिण्डविशिष्टजीववाचकाःअतः प्राणो ह पिता प्राणो माता “इत्यादयः प्राणस्य चेतनत्वमेवावगमयन्तिननु “नायं हन्ति न हन्यते इति जीवस्यापि हिंसायोग्यत्वाभावात्कथं हिंसाकर्तरिपितृहा’ इत्यादि व्यवहारः । न च स्वतो जीवस्य हिंस्यत्वाभावेपिदेहादि साहित्यप्रयुक्ततया हिंस्यत्वमिति वाच्यम् । तथा सति तद्वदेवप्राणसाहित्ये एव हिंसायोग्यत्वमिति प्राणस्यापि हिंस्यत्वस्य सुवचत्वात्अपि च स्थावरेष्वपि प्राणस्य पंचधा अवस्थाय शरीरधारणाभावेपि प्राणस्यसत्वं भाष्यकृतैवांगीकृतं “न तु दृष्टान्तभावात्” इति सूत्रे ।अतस्तत्रापि प्राणसत्वादेव उपमर्दभावाभावयोः हिंसातदभावदर्शनंसजीववृक्षलतादिच्छेदस्य शास्त्रैर्निषिद्धत्वमपि प्राणसत्त्वे एवेत्यपिसुवचत्वात् इति चेत् सत्यम् । पित्रादिपदानां चेतनपरत्वस्याऽऽपामरंपण्डितपर्यन्तंप्रसिद्धेः तत्त्यागाभावात् । प्राणो ह पिता, प्राणो माता इत्यादिषुजीववाचितया लोके प्रसिद्धानां बहूनां पदानां गौणत्वकल्पनस्यायुक्तत्वात्आनन्दिनः प्राणाः भवन्ति ।। स वा एष एवं पश्यन् इत्यादिपूर्वोत्तरभागानामन्यथाकरणासंभवाच्च"उपनिषदि, शूलेन समासं व्यतिसंदहेत्’ इत्यत्र समासं इतिणमुलन्तम्संयक् प्रक्षिप्येत्यर्थः । संपूर्वात्, क्षेपार्थात् अस्यतेःणमुलन्तः"भाष्ये - ‘अप्राणेषु स्थावरेषु’ इत्यस्य पञ्चवृत्ति प्राणरहितेषुस्थावरेषु इत्यर्थः ।। नच प्राणविषये यथा वानाभौ समर्पिताः एवमस्मिन्प्राणे सर्वं समर्पितं इति श्रवणात् परमात्मपरत्वमेव वक्तुं शक्यं,अत इव रथनाभौ संहता यत्र नाड्यः इति मुण्डकेसर्वाधारत्व स्य भगवत्युक्तेःअत्रापि परमात्मैव प्रतिपाद्यते प्राण इति एकशब्द स्वास्स्याच्चइति वाच्यम् । भूतमात्राः प्रज्ञामात्रास्वर्पिताः इति श्रुत्यन्तरस्वारस्यात्जीवपरत्वस्यापि वक्तुं शक्यत्वात् । न च विनिगमनाविरहः - अत्र हिंस्यत्वोक्तेःहिंसायोग्यस्य जीवस्यैव ग्राह्यत्वात्परस्य तु मुक्तस्येव न हिंस्यत्वम् । उत्क्रान्त प्राणान् इति प्राणोत्क्रान्तेरुक्तत्वेनपरात्मन्यसंभवाच्च । अतः स्वेतर स्वभोग्य भोगोपकरणस्य सर्वस्यापिअचिद्वस्तुनः स्वायत्तस्थितित्वेन प्रत्यगात्मनि। एतावता प्राणशब्दस्य जीवपरत्वं निर्णीतम् । अस्योपरि अतिवादित्वं प्रतिपादितम्अतिक्रान्तस्वोपास्य वस्तुवादी = अतिवादी । स्वोपास्यवस्तुनःसर्वोत्कृष्टत्ववादी । स्वोपास्यदेवतापारम्यवादीति यावत् । एवंपश्यन् अतिवादी । इति वाक्यसंदर्भात् क्रियायाः इति हेत्वर्थे शतृप्रत्ययः।। अत्र प्राणशब्दो जीवपरः इत्येतत् सिद्धन्तिनोपीष्टंअयमेव जीवः “यत्र नान्यत् …. स भूमा” इति भूमशब्देन निर्दिश्यतेइति पूर्वपक्षी । प्राणशब्दनिर्दिष्टजीवादन्यः पर एव भूमशब्देननिर्दिश्यते इति सिद्धान्ती इति विवेकः ।अत्रायं पूर्वपक्षसारः - अत्र प्राणशब्दनिर्दिष्टजीव एव “यत्र नान्यत्पश्यति… भूमा इत्यत्र भूमशब्देनापिनिर्दिश्यते नत्वन्यः । “तरति शोकमात्मवित्"इति शोकशमकत्वेनोक्तस्यात्मज्ञानस्य विषयभूतात्मोपदेशस्यात्रैवसमाप्तत्वात् । “सवा एष एवं पश्यन् एवं मन्वानः एवं विजानन् इत्युपर्युक्तेःनामाद्याशापर्यन्तं ब्रह्मदृष्ट्योपासनं फलं च गुरणोक्तम् । “प्राणोह्येवैतानि सर्वाणि भवति’ इत्यनन्तरं पूर्ववत् प्राणमुपास्स्व,स यः प्राणं ब्रह्मेत्युपास्ते इत्युनुपदेशात् । पूर्वत्रेवात्रैवमुपदेशंबिना रीत्यन्तरेण प्राणोपन्यासात्पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य प्राणोपासके प्रतिपादनाच्चप्राणशब्दितस्य जीवस्य पूर्वोक्त नामाद्याशान्तसर्वातिशायित्वेनातिवादित्वस्यापह्नवानर्हवाच्च"योऽन्नं ब्रह्मेत्युपास्ते …. य आशां ब्रह्मेत्युपास्ते इतिसर्वत्र ब्रह्मदृष्टिविधानस्वारस्यात् दृष्टिविधिप्रकरणरूपत्वात्जीवादधिकस्य ब्रह्मदृष्टिविषयस्यान्यस्य कस्य चिदभावात् । अस्तिभगवः प्राणात् भूयः इति प्रश्नस्योपर्यकरणाच्च । स्वपितृवरुणनिकटेअधीहि भगवो ब्रह्म इति भृगुणेवात्र सनत्कुमारनिकटे नारदेनाप्रश्नाच्चअधीहि भगवः “श्रुतं ह्येव मे ….. तरति शोकमात्मवित्इति ब्रह्मपदाघटनेन आत्मशब्दप्रयोगाच्च जीवात्मपरतयापि प्रश्नसामञ्जस्यसंभवाच्च । यद्यपि जीवातिरिक्तब्रह्मसद्भावः, तस्य विपुल सुखरूपत्वंचाभ्युपगतम्अथापि अत्रात्मोपदेशः प्राण एवन्नः पर्यवस । न च कथं जीवस्य विपुलसुखरूपत्वंइति वाच्यम् । नामाद्याशान्तसर्ववस्त्वपेक्षया विपुलसुखरूपत्वस्यसर्वैरभ्युपगमात् । अचेतनवस्त्वपेक्षया तदनुभवापेक्षयाच चेतनस्यजीवस्य तदनुभवस्य चातिशयितत्वात् । अत एव हि “यं लब्ध्वा चापरंलाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यतेइत्युक्तम्” । स्वोपास्य िवस्तुनस्तस्य सर्वोत्कृष्टत्वेन तदुपासकस्यातिवादित्वसंभवाच्चअत एव विपुलसुखरूपजीवानुभवकाले अन्यस्य दर्शनादि प्रसंगाभावात्यत्र नान्यत् पश्यतीत्याद्यपि सुसंगतं भवति ।। अत एव नामादयःब्रह्म दृष्ट्या उपास्याः उक्ताः । प्राणशब्दनिर्दिशे जीवः ब्रह्मदृष्टिंविना यथावदुपास्यः निर्दिष्टःस एवं पश्यन् इत्यादिना।।सिद्धान्ते - अध्युपदेशः । जीवादधिकतया परमात्मनः उपदेशः । यद्वाजीवादुपर्यपि वस्तुनः उपदेशः । सूत्रघटकसंप्रसादशब्दः जीववाचकःइत्यत्र श्रुतिं प्रमाणयति - एष संप्रसादः इति । संप्रसीदति अयं- प्रसन्नो भवतीति विवक्षायां परमात्मपरत्वमपि निर्विवादम् । तदाअधिकतयोपदेशस्य हेतुत्वं विरुद्धम् । अतो जीवपरतया व्याख्यानम्यद्यपि विषयवाक्यपर्यालोचनया प्राणादध्युपदेशात् इति सूत्रणंन्याय्यम् । अथापि प्राणशब्दः न मुख्यप्राणपरः परं तु जीवपरः इतिसूचनायैवं सूत्रितम् । जीवपरमात्मोभयवाचक संप्रदायशब्दं विहाय जीवादध्युपदेशात्इत्यनुक्तिस्तु अयंभूमा न बद्धजीवमात्रविलक्षणःपरं तु मुक्तादपि विलक्षणः इति सूचनाय । परमात्मप्रसादविषयत्वोक्त्यामुक्तव्यवहितपूर्वावस्थापन्नस्य जीवस्य ग्रहणमिति सूच्यते । अतएव एष संप्रसादम् । श्रुति रूपात्ता ।। भाष्ये प्रत्यगात्मा इत्यस्यजीवात्मेत्यर्थः । अन्यथा परस्यापि प्रथ्यक्त्वसंभवेनार्थानैचित्यात्यत्र नान्यत्पश्यतीति विषयवाक्यम् । बहुशब्दः पृथ्वादिगणे पठितःतस्मात् बहुशब्दात् । “पृथ्व्यादिभ्यो इमनिज्वा” इति सूत्रेणभावार्थेइमनिच् प्रत्ययः । “ब्रहोर्लोपः, भूचबहोः इति बहोः परस्य इमनिचःइकार लोपे बहुशब्दस्य भू इत्यादेशेच निष्पन्न) भूमन्शब्दःनकारान्तः । अयं च बहुत्ववाची । बहुत्वं च वैपुल्यरूपं संख्यारूपंच भवति । अथाप्यत्र वैपुल्यमेव विवक्षणीयम् । तदल्पमिति अल्पप्रतियोगित्वश्रवणात् । पूर्वत्र “आकाशोवाव तेजसो भूयान् । इत्यत्र बहुशब्दनिष्पन्नभूयश्शब्दस्य वैपुल्यवति आकाशे प्रयोगात् । न हि बहुत्वसंख्या आकाशेसंभवति । वैपुल्यरूपधर्मवाचकोपि अयं शब्दः विपुलरूपधर्मिवाचकः ।उत्तरत्र अल्पमिति धर्मिवाचकाल्पशब्दश्रवणात् ।भूमशब्दः विपुलसुखस्वरूपपरमात्मपर एव । न तु प्राणशब्द निर्दिष्टजीवपरःतस्मादन्यस्यैव परस्योपदेशोऽत्र क्रियते । यद्यपि अधीहि भगवःइति ब्रह्मपदाघटनेन पूर्वत्र प्रश्नः । अथापि जीवज्ञानस्य “तरतिशोकमात्मवि"दुत्युक्तशोकतारकत्वस्यानुपपत्तिः स्यात् । न च परमात्मोपासनेतादृशे जीवविषयकत्वगर्भितत्वात्तदुपपत्तिरिति शंक्यम् । तरति शोकमितिसाक्षात्तारकत्वस्यैव प्रश्ने उक्तत्वात् । भगवद्दृशेभ्य इत्यस्प्यानुपपत्तेःदृक्शब्दपर्यायः दृशाशब्दः । भगवति दृशा=दृक् = ज्ञानं येषामितिविग्रहः । भगवज्ज्ञानिभ्यः इति फलितंभगवत्तुल्येभ्यः भवादृशेभ्यः इत्यर्थे अस्वारस्याच्च । तथा च भगवच्छब्दः"ज्ञानशक्ति…. विना हेयैर्गुणादिभिः” इत्युक्तप्रकारेण परमात्मपरःन तु जीवपरः । तादृश भगवज्ज्ञानिभ्यः तरति शोकमात्मवित् इति श्रुतत्वात्परमात्मोपासनमेव शोकतारकं इति नारदस्य ज्ञातत्वात् शोकतारकभगवदात्मकपरमात्मविषयकोपासनेविषयभूतस्य परब्रह्मणः एवास्य प्रश्नविषयत्वंइति ज्ञायते ।न चैवं रीत्या नारदस्य ज्ञातत्वे किमर्थः प्रश्नःइति वाच्यम् भगवत्स्वरूपविषयकविशेषज्ञानाभावेन प्रश्नोपपत्तेः ।अत एव तत् सत्यशब्दवाच्यं विपुल सुखरूपं चेत्युपरिष्टात् वक्ष्यतेनामाद्याशापर्यन्तं “स यो नाम ब्रह्मेत्युपास्ते” इत्यादिना ब्रह्मदृष्ट्याउपासनं तत्फलं च श्रुतम् । तत्र ब्रह्मशब्दः प्राणशब्दवाच्यात्जीवात् अन्य परमात्मपरः इति निश्चितम् । अन्यथा प्राण इत्युपास्व,जीव इत्युपास्व इति उपदेशः श्रूयेत” अतो जीवोपासकस्यातिवादित्वश्रवणात्पूर्वत्रातिवादित्वाश्रवणाच्चात्मोपदेशः अत्रैव समाप्तो वा इतिमत्वा स्थितं नारदं प्रति “एष तु वा” इत्यादिनोपर्युपदेशं चकारगुरुः । न चात्रात्मोपासकस्य सत्यवदनं अंगमिति शक्यं वक्तुं, सत्येनातिवदतीतितृतीयविभक्तिनिर्देशस्यानौचित्यात्तथा सति हि सत्यं वदति इति निर्देष्टव्यं स्यात् । तुशब्दस्वारस्यंच प्राणातिवादिनोऽन्यत्वे सत्यातिवादिनः । प्राशस्त्यं हि तुशब्देनबोध्यते । अपशवो वा अन्ये गो अश्वेश्यः पशवो गोअश्वाः इत्यत्र पश्वन्तरेभ्यःगोअश्ववत् प्रकृतप्राणातिवादिनः सत्यवादी प्रशस्तः इत्यर्थे स्वारस्याच्चजीवापेक्षया ब्रह्मणः - प्रशस्तत्वात् तदुपासकस्य प्राणातिवाद्यपेक्षयाप्रशस्तत्वं स्वतः सिद्धमिति अस्यातिवादित्वं प्रशस्तमेव । एष तुवा अग्निहोत्री इत्यत्रतु एकस्यैवाग्निहोत्रस्य विहितत्वात् द्रव्यदेवतान्तराभावेनाग्निहोत्र्यन्तरासिद्धेःतत्र सत्यवदनं अंगत्वेन निर्णेयम् ।ननु भूमप्रस्तावानन्तरं अथातोऽहंकारादेशः इत्यारभ्य अहमेवाधस्तात्अहमुपरिष्टात्, अहमेवेदं सर्वं, इत्याद्यनुसन्धानविधानं दृश्यतेअहंशब्द वाच्यश्च जीवात्मैव । अतः प्रकरणमिदं न परमात्मविषयकम्न च जीवेष्वेकैकस्य सर्वत्र स्थित्यभावात् कथमिदं घटतामिति वाच्यम्अहमिति सामान्यतः श्रवणात् सर्वाहमर्थग्रहणसंभवात् । कस्यचित्कस्यचिदहमर्थस्य तत्र तत्र स्थिति संभवेनोपपत्तेः । अत एवानन्तरं"अथात आत्मोपदेशः” इति जीवस्यामत्वाकारेणानुसन्धानमपि योयुज्यतेन चैवं सति, आत्मतः प्राणः इति कथं घटताम् स्वस्मात्स्वस्योत्पत्यभावात्नित्यत्वाच्च इति वाच्यम् । स्वोत्पत्तौ कर्मसहकृतस्य स्वस्यैवकारणत्वात् तस्याप्यत्र कथंचिदुपपत्तिसंभवात् । ततश्च सकलजनयितृत्वंप्राणे जीवे एवेत्युपपन्नमिति चेत् मैवम् । अत्रान्ते, आदौ निर्दिष्ठान्नामाद्यशान्तान् व्युत्क्रमेण निर्दिश्य, “आत्मतः प्राणः, आत्मतआशा, आत्मतो नाम, आत्मत एवेदं सर्वं, इति निखिलस्यापि आत्मतो जातत्वमुक्तम् । तत्र प्राण - आशादीनामपि आत्मतो जननं प्रतिपादितम् । एवंच नामादितुल्यत्वेन प्राणस्यापि कार्यत्वोक्त्या कथं प्राणस्य सर्वकार्यनिरुपितकारणत्वसंभवःयदि आत्मतः प्राणः इतिमात्रं निरदेक्ष्यत, तदा कथंचित् त्वदुक्तनिर्वाहोऽघटयिष्यत् । अतः सर्वनिरूपितकारणत्वस्य स्वनिरूपितकारणत्वस्यचात्मनः उक्तत्वात् नेदं जीवपरं भवितुमर्हति । एवं मन्वानस्य जीवस्यात्मनःइति जीवनिरूपितात्मत्वमपि कण्ठोक्तम् । आत्मन इत्यस्य स्वस्मात्इत्यर्थवर्णनमपि न स्वरसम् । पंचमीविभक्तेः अस्वारस्यापत्तेः ।न हि विजानतः = उपासकस्य, आत्मत = स्वरूपात् इत्यर्थः उपपद्यतेनामादीनां जीवजन्यत्वाभावात् । स्वस्य स्वहेतुत्वे आत्माश्रयश्चअतो जीवनिरूपितात्मत्वाश्रयस्य आत्मपदेन ग्रहणात् उपक्रमे आत्मपदमप्येतत्परमेवेतिन प्राणविरतिपरत्वमस्य घट्टस्य । अतो जीवातिरिक्तपरमात्मपरत्वमेवेतिप्राणातिवादिनः अन्यस्य ब्रह्मोप सकस्यातिवादिनः बोधनार्थमेव “एषतुवाअतिवदति, यः सत्येनातिवदति इति” श्रुतिः प्रवृत्ताअत एव तुशब्दस्वरस्यमपि निर्व्यूढम् । अपि च भूमसुखं, (विपुलसुखं) इत्यस्य अपरिच्छिन्नं सत् सुखभूतं आत्मस्वरूपं इत्यर्थलाभात्जीवस्वरूपस्य परिच्छिन्नत्वात् अर्थबाधोपि । जीवस्याणुत्वेपि तद्गतसुखत्वरूपानुकूल्यस्यापरिच्छिन्नत्वात्नार्थबाधः । “यं लब्ध्या चापरं लाभं मन्यते नाधिकं ततः” इति प्रमाणात्इत्यर्थ वर्णनमपि न संगच्छते । परमात्मगतानुकूल्यापेक्षया जीवानुकूल्यस्यनिकृष्टत्वात् । यं लब्ध्वा इति तु वैषयिकसुखापेक्षया उत्कृष्टत्वमेववदति । परमसाम्यापन्ने जीवे वर्तमानस्याऽऽनन्दस्य निरवधिकत्वेपि ननिरुपाधिकत्वं तस्य परमात्माधीनत्वात् । अतः सवर्तोमुखं वैपुल्यं परमात्मन्येवेति ।ननु भूमशब्दार्थ निर्णये “यस्सत्येनातिवदति” इति परब्रह्मवाचकसत्यशब्दप्रयोगसापेक्षत्वात् सत्यशब्दस्य प्रथमनिर्दिष्टत्वाच्च “सत्यंसंप्रसादात् अध्युपदेशात्’ इति सूत्रं कुतो न प्रणिनाय इति चेत्सत्यम्उपरि “सुखं त्वेव विजिज्ञासितव्यं, श्रद्धात्वेव … सत्यं त्वेव… इत्यादि श्रवणात्” “सुखं संप्रसादात्” इति सूत्रकारः कुतोन चकार इत्याशंकाया अपि संभवात् । तथैव वा सूत्रं कुतो न प्रणीतंइति चेत् सत्यब्रह्मविद्यायाः सुखब्रह्मविद्यायाश्यान्यत्र सत्त्वात्एतद्वाक्यविद्याऽसाधारणार्थं बोधनमावश्यकमिति भूमा इति सूत्रितवान्- “सत्यं ज्ञानमनन्तं ब्रह्म, सदेव खं तदेव कं’ इति प्रसिद्धा तत्र तत्र विद्या ।तदल्पं, स भूमा” इत्यन्ते एवास्याः विद्यायाः कोटिद्वयनिर्देशपूर्वकमुपसंहारात्असाधारणार्थवाचक भूमशब्देन निर्देष्टव्यत्वमभिसन्धाय भूमा इत्युक्तवान्” ।ननु ब्रह्मणः सत्यशब्दार्थत्वे तस्य सत्यवदनकर्मत्वात् सत्यमतिवदतीतिद्वितीया विभक्तिरेव युक्ता । नतु तृतीया । अस्मन्मते यदा वै विजानातिअथ सत्यं वदति । इति सत्यवदनस्य प्राणातिवादिविषये श्रुतत्वात्तस्यांगत्वं तृतीयाश्रुत्या बोध्यत इति चेत्? मैवं उपरि सोऽहंभगवः सत्येनातिवदामि इति शिष्येण प्रार्थनात्, “सत्यं त्वेव विजिज्ञासितव्यं"इति गुरुणा सत्यविषयकोपासानस्योक्तत्वात् नात्र सत्यवदनं अंगत्वेनविहितमिति ज्ञायते । अतः उपलक्षणतृतीयैवात्र ग्राह्या ।। तथा चसत्यशब्दवाच्योपास्यभूत परब्रह्मोपलक्षितत्वस्य शिष्ये बोधनात्उपासनरूपविशेषणवत्वं स्पुटं प्रतीयते इति सत्यविषयकोपासनलाभःयद्वा द्वैधीभावं प्रति उद्यमनद्वारा परशुः करणं, तथा ब्रह्मापिउपासनद्वारा अतिवादं प्रति करणमिति तृतीयायाः कारकविभक्तित्वमप्युररीकर्तुंशक्यते । अतस्सत्यवदनस्य नात्र प्रसक्तिः ।।अत्रेदमवधेयम् - लोके आनन्दजनकानि वस्तूनि बहुनि सन्ति । अनेकेषुएकैकवस्तुजन्यः आनन्दविशेषः परस्परं विलक्षणः । एकस्मिन्वस्तुनिअनुभूयमानेऽपि अन्यवस्त्वनुभव जनितः आनन्दः अपेक्षितो भवति । द्राक्षाफलेखाद्यमानेपि तत्प्रयुक्तानन्देऽनुभूयमानेपि च खण्डशर्कराखादनंतदनुभव जनितमानन्दं चापेक्षन्ते । आनन्दस्य सुखस्य विलक्षणत्वात्एकवत्स्वनुभवजनिते आनन्दे अन्यानन्दस्यानन्त र्गतत्वात् । एकतरुण्यनुभवजन्येआनन्दे वर्तमाने च अन्यतरुण्यनुभवप्रयुक्तानन्दस्य विजातीयान्यवस्तुरूपद्राक्षाफलानुभवानन्दस्य स्पृहा नैसर्गिकी ।खण्डशर्करया युक्ते क्षीरेऽनुभूयमाने तु विशिष्टानन्दस्य जातत्वात्तत्र खण्डशर्करानुभवजनितानन्दस्य च घटकत्वात् न तत्र पृथक्स्पृहापूर्वस्य तथाविधत्वाभावात् । एकस्मिन् अनुभूयमाने अन्यानुभवानन्देस्पृहाया सत्वात् अन्यवस्तुनो दर्शन श्रवणादिषु अपेक्षा अवश्यंभाविनी,घृतद्राक्षा क्षीर खण्डशर्करादिक्षीरान्ने अनुभूयमाने हि तद्घटकवस्त्वनुभव-जातानन्दस्यापि जातत्वात् न पृथक् स्पृहां ईहन्ते । ब्रह्मव्यतिरिक्तस्यान्यस्यकस्यचित् अनुभवेपि अन्य दर्शनानुभवादिस्पृहासत्त्वेन अन्यत् सर्वंअल्पम् । उभयविभूतिविशिष्टब्रह्मणि अनुभूयमानेतु सर्वस्यापि वस्तुनःतत्र घटकत्वात् तदनुभवानन्दे सर्वानन्दस्यापि शते पञ्चाशन्न्यायेनान्तर्गतत्वात्तद्वयतिरिक्तवस्तुनश्चाभावात् नान्यत् पश्यति नान्यत् शृणोति अयमनुभविता ।गन्धर्वः तुरंगवक्त्रः मनुष्यशरीरकः । किन्नरस्तु मनुष्याननः अश्वशरीरकःकिन्नरकृतमुखचुम्बनमवेक्ष्य स्वस्य तथाविधानुभवजनितानन्दाभावात्तत्र स्पृहयते । किन्नरस्तु गन्धर्वकृत प्रियालिंगन मवेक्ष्य स्वस्यतथाविधानन्दाभावात् परिष्वंगाभिलाषी भवति । मनुष्यणां तु उभयस्यापिसंभवात् उभय विधानन्दभाक्त्वमिति परस्परस्पृहायां नाकांक्षा । कुतःविशिष्ठानुभव जनित विशिष्ठानन्दे सर्वस्याप्यन्तर्गतत्वात् । अतःब्रह्मवस्तु भूमगुणविशिष्टं नाल्पम् । बिम्बोष्ठं बहु मनुते तुरंगवक्तःचुम्बन्तं मुखमिह किन्नरं प्रियायाः ।श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीं उत्तुंगस्तनभर भंगभीरुमध्याम् ।इति रीतिरत्र ग्राह्या ।।ननु एवंविधे ब्रह्मणि अनुभूयमाने सर्वानन्दस्याप्यन्तर्गतत्वात्अन्य वस्त्वनुभवजनितानन्दापेक्षाया अभावात् कथं जक्षणादिसंभवः ।।पितृ मातृ सुहृत् तत्स्त्री प्रभृति सर्गे च कथं स्पृहा - इति चेत्सत्यम् । ब्रह्मानन्दापेक्षया अन्यवस्त्वनुभव जनितानन्दापेक्षांनेयं श्रुतिर्वदति । परंतु ब्रह्मानन्दान्तर्गतानन्दविशेष सूचनायैवअस्याः श्रुतेः प्रवृत्तत्वात् । मोक्षदशायां आनन्द विशेषज्ञापनप्रवृत्ताःसर्वा अपि श्रुतयः घटकानन्दोपदेशार्थमेव प्रवृत्ताः ।।

अस्य भूम्नो ये धर्मा इति । यत्र नान्यत् इत्यादिना एकवस्त्वनुभवेसर्ववस्त्वनुभवः उक्तः । मृत्युदर्शनाभावश्च उक्तः । प्रातिकूल्यदर्शनाभावःसर्वदर्शनं एकधाभावादि यथेच्छानन्ताप्राकृतशरीर ग्रहणं इमे च धर्माःसर्वान्तरात्मपरमात्मपक्षे एव घटन्ते । अतो न जीवमात्रविश्रामःअस्य धट्टस्य ।।इत्यादिइत्युभयत्र इत्यादिज्ञाप्यमित्यर्थः ।। सूत्रस्थचशब्देनअनुपपत्यभावः सूचितः । यदि जीवो नात्र बोध्यते, तदा अहमेवाधस्तात्इति अहंग्रहोपदेशः अनुपपन्नः । अहमिति ग्रहणं जीवस्य खलु” इत्याशंकापरिहारकः चशब्दः - इति सूचनाय - यत्तु इत्यादिकम्वस्तुतः जीवपरयोः भेदस्य सत्त्वात् तथैवोपासनं कर्तुं शक्यम् ।“पृथगात्मानं प्रेरितारं च मत्वा” इति श्रुतम्” अथापि सर्वप्रकारेणापिपारतन्त्र्यं जीवानुयायि, शरीरात्मभावश्च नित्यः इति बुद्धौ दृढाध्यवसायार्थंअहंग्रहोपासनं विहितम् । तथा च अहंग्रहः न जीवत्वसाधकः इति नानुपपत्तिःएवं उपपत्ति, अनुपपत्तिपरिहाराभ्यां जीवत्वनिषेधेन प्रकरणस्यपरमात्मपरत्वं स्थापितम् । ननु विशिष्ट ब्रह्मणः कार्योत्पत्तिरिष्टाअथापि अहंकार विशिष्ट ब्रह्मणः महत्तत्वोत्पत्तिरनभिमता । कथमत्रभूमगणविशिष्ट ब्रह्मोपासकात् जीवात् सर्वकार्योपत्तिः उपासकविशिष्टपरमात्मनोवा जगदुत्पत्तिः उपासकात्पूर्वमेव केषांचित् जातत्वादिति चेत्मत्तः सर्वं प्रवर्तते इति कथं प्रह्लादवचनम् । प्रह्लादशरीरकब्रह्मणःसर्वस्या निष्पत्तेः । यदि प्रह्लादस्योपलक्षणता, तथैवात्रापीति विभावय ।एतत्सूचनायैव “अन्तर्यामितयाऽवस्थितात्” इति भाषितम् ।।इति भूमाधिकरणम् ।।