अथ श्रीभाष्यभावचन्द्रिकायां प्रथमाध्याये तृतीयः पादः ।(1.03.1) द्युभ्वाद्यधिकरणम् ।त्रिपादी अन्ययोगव्यवच्छेदार्था । प्रथमपादः अस्पष्टतरजीवादिलिंगकवाक्यविचारपरः । द्वितीयपादः अस्पष्टजीवादिलिंगकवाक्यविचारपरः । तृतीयस्तुस् पष्टजीवादिलिंगकवाक्यविचारपरः । एतादृशक्रममनुसृत्यात्र स्पष्टजीवादिलिंगक-वाक्यविचारः आरभ्यते । अत्र, द्युभ्वाद्यधिकरणं भूमाधिकरणं अक्षराधिकरणं ईक्षति-कर्माधिकरणं दहराधिकरणं प्रमिताधिकरणं देवताधिकरणं मध्वधिकरणं अपशूद्राधिकरणंअर्थान्तरत्वादिव्यपदेशाधिकरणं इति दशाधिकरणानि । देवताधिकरण मध्वधिकरणअपशूद्राधिकरणरूपाधिकरणत्रयं प्रसंगादागतम् । अवशिष्टं साक्षात्संगतम् ।यद्यपि देवताधिकरणे देवतास्रष्टृत्वेन मध्वधिकरणे वस्वाद्यन्तर्यामितयोपास्यत्वेनअपशूद्राधिकरणे संवर्गविद्याविषयत्वेन च परस्यैव ग्रहणमिति साक्षात्संगतिरपिवक्तुं शक्या । अथापि स्पष्टजीवादिलिंगकत्वं नास्तीति प्रसंगसंगतिः उक्ता ।देवताधिकरणे अर्धलोकायतिकमतनिरसनम् । इदं च चतुर्मुखादिपिपीलिकान्तसकल-जगत्कारणत्वरूपप्रस्तुतार्थोपयुक्तम् । देवताविग्रहादिपंचकस्वीकारात् ।प्रथमपाद एव प्रतर्दनविद्यायां स्वात्मशरीरकपरमात्मोपासनं इन्द्रेण क्रियते ।नचिकेतसे मृत्युना ब्रह्मोपदेशः क्रियते । उपासनस्य मनुष्याधिकारित्वोक्तेःकथं देवतानां उपासनकर्तृत्वमित्याद्याक्षेपपरिहारार्थतया तदधिकरणानांप्रस्तुतार्थोपयुक्तत्वं च ।“वज्रहस्तः पुरन्दरः” इत्याद्यर्थवादवाक्यानां यथाश्रुतार्थपरित्यागेदेवतिर्यङ्मनुष्यस्थावररूपप्राणिजात-तत्तल्लोकादिस्रष्टृत्वाद्यसिध्याच विवक्षितं जगत्कारणत्वं ब्रह्मणो न सिध्येत्, ब्रह्मरुद्रादिदेवताद्यंगीकारेएव तज्जनकब्रह्मणः उत्कर्षसिद्धिश्च । अतोऽस्मिन् पादे देवताद्यधिकरणानांसंगत्यतिशयश्च ।।अदृश्यत्वाधिकरणे त्रैलोक्यशरीरकपरमात्मनः उपास्यत्वमुक्तम् ।अपरमात्मनोपीदं दृश्यते इति शंकापरिहाराय वैश्वानराधिकरणं प्रसक्तम् ।अथ तस्यामेवोपनिषदि कतिपयवाक्यानि परमात्मव्यतिरिक्त पराणिदृश्यन्तेइति अदृश्यत्वादिगुणकस्य कथं परमात्मपरत्वं इति शंकया अक्ष्यधिकरणस्योत्थितिः ।यद्यपि उपनिषदैक्यात् तस्मिन्नेव पादे अस्यापि वाक्यस्य विचारःकर्तुं शक्यते । अथापि अस्पष्टजीवादिलिंगकवाक्यविचाररूपत्वात्स्पष्टजीवादिलिंगकवाक्यविचारपरे अस्मिन्पादे अस्य वाक्यस्य विचारःन च प्रथमखण्डत्रयस्य परमात्मपरत्वं उपरितनभागस्य जीवपरत्वमितिवैषम्यं स्यादिति वाच्यं,इष्टापत्तेः । यद्वा तस्यापि परमात्मपरत्वमस्तु इति शंका परिहारायापिअस्याधिकरणस्य प्रवृत्तिसंभवात् । पूर्वस्थापितार्थस्यात्यन्तप्रतिषेधाभावेऽपि वा तात्पर्यं स्यात् । अत एव परमात्मत्वसाधककोटिप्रदर्शकतयाद्युभ्वाद्यायतनं इति सूत्रखण्डः प्रवृत्तः । इदं च वाक्यं कारणवाक्यम् -ओतं, अमृतस्यैष सेतुः इत्यादिना कारणत्वव्याप्तधर्मोक्तेः । वैश्वानरात्मनःपरमात्मत्वे गमकं बह्वस्ति । अत्र तु ब्रह्मभिन्नत्वे एव गमकबाहुल्यम् ।अत्र द्य्वाद्यायतनं इत्येव सूत्रयितुं शक्यं, ऊर्ध्वाधरकोटिद्वयान्तर्गतलोकप्रदर्शनार्थं भूमिशब्दोपादानम् ।यद्यपि विषयवाक्ये पृथिवीशब्द एव दृश्यते अथापि, भूः भुवः सुवःइति श्रुतिप्रत्यभिज्ञापूर्वकं सर्वलोकस्यापि उपलक्षणं पृथिवीशब्दःइति सूचनाय । अनेन सर्वाधारत्वमुक्तं भवति ।मुण्डकत्रयात्मिका मुण्डकोपनिषत् । एकैकस्मिन् मुण्डके खण्डद्वयम् ।अत्राक्षरविद्या प्रस्तुता । “चेतसा लक्ष्यं तदेवाक्षरं सौम्यविद्धि” इत्यनेन सेन्द्रियान्तःकरणस्य जीवस्य विषयान्तरविमुखीकरणपूर्वकं अक्षराख्यलक्ष्याभिमुखतया अवस्थापनं प्रतिपादितं, अनन्तरंलक्ष्ये परमात्मनि आत्मरूपशरसमर्पणं “प्रणवो धनुः इत्यादिना प्रतिपादितम् ।“शरो ह्यात्मा’ इति श्रुतम् । ततः “यस्मिन् द्यौ … इत्यादि श्रुतिःजानतात्मानं इति श्रूयते । अतोऽत्रात्मशब्दश्रवणात् अस्याः श्रुतेःजीवपरत्वमेव वक्तव्यम् । अश्व इव रथनाभौ इत्यत्रापि “ध्यायतात्मानं"इति श्रुतत्वात् सापि श्रुतिः जीवपरतयैव नेया “तदैकार्थ्यात्मनस्सह प्राणैश्चोतमिति जीवलिंगमपि स्पष्टं प्रतीयते । यद्यपि “यस्मिन्द्यौः इति सर्वाधारत्वं ब्रह्मणोऽसाधारणं लिंगं प्रतिपन्नम् ।अनन्तरमेव जीवलिंगम् । अथापि जीवलिंगस्यानन्यथासिध्दस्योपपत्त्यर्थंसर्वाधारत्वं गौणतया नेयम् । अत एव “अश्व इव रथनाभौ” इति जीवलिंगस्यप्रथमश्रुतत्वेपि तद्बाधित्वा पश्चात् श्रुतस्य स्वस्ति वः इतिपरमात्मलिंगस्य प्राधान्यमुच्यते भवद्भिः । न च मनः प्राणादिसंबधस्यकथं जीवमात्रसाधकता । विभोः परस्यापि तत्संबन्धसत्त्वात् । सर्वत्रप्रसिध्यधिकरणे"मनोमयः प्राणशरीरनेता” इत्यादिभिः परमात्मासाधारणत्वं चोक्तमिति वाच्यम्, मनःसह प्राणैश्च सर्वैः ओतमिति श्रुतिश्रवणमात्रेण उपकरणोपकरणित्वरूपसंबन्धस्यैवस्वरसतः प्रतीत्या तदनुसारेणार्थस्य वर्णनीयत्वात् । सर्वत्रप्रसिध्यधिकरणे हिएतदपवादकसत्त्वेन सामान्यसंबंधं स्वीकृत्य स्वरसतः प्राप्तोऽर्थःत्यक्तः । अनन्तरवाक्येपि नाडीसंबन्धः श्रुतः । बहुधा जायमानत्वमपिअतो नाडीसंबन्ध बहुधाजायमानत्व मनःप्राणोपकरणवत्वादि जीवलिंगानांस्पष्टत्वात् यस्मिन् इत्यादिप्रकरणं जीवपरत्वे एव स्वरसम् । कथं तर्हिद्युपृथिव्याद्याधरत्वस्य गतिः इति चेत्? उपासकस्यास्य मोक्षप्राप्त्यनन्तरंसर्वं भोगस्थानं भवतीति तात्पर्यात् ।सर्वस्यापि एतद्विकसितज्ञानविषयत्वात् । “नित्यो व्यापी प्रतिक्षेत्रं"इत्युक्तप्रकारेण सर्वेषु जीवस्वरूपस्य प्रवेशनसामर्थ्यात् । बद्धस्यापिकर्मसंबन्धवशात् सर्वत्र लोके जन्मोदयसंभवाद्वा “अन्यथोक्तजीवलिंगानांउपपत्तिः दुःशका । अन्तश्चरणस्य बहुधाजायमानत्वस्य च सर्वात्मनापरमात्मन्यसंभवेन नयनस्य दुःशकत्वाच्च । देवादिसजातीयतया बहुधाजायमानत्वस्यजीवे एव संभवात् । अकर्मकृतदिव्यमंगलविग्रहवत्त्वस्यात्र प्रतिपादनेआनुगुण्याभावाच्च । अन्तरादित्यविद्यायां “उदेति ह वै सर्वेभ्यःपाप्मभ्यः” इत्यादिवदत्र परमात्मासाधारण लिंगाभावाच्च"न चामृतस्यैष सेतुः इति परमात्मासाधारणलिंगं श्रूयते इति वाच्यम्मोक्षार्थपरब्रह्मोपासने जीवविषयकत्वस्य सत्त्वेन वा अध्यात्मयोगाधिगमेनलभ्य’ इति जीवात्मयोगस्यापि कारणत्वेनोक्तेः तस्यापि हेतुत्वाभ्युपगमेनवा निर्वाहात् । न च “ओमित्येवं ध्यायतात्मानं” इति प्रणवेनात्मध्यानविधानात्"ओमित्येकाक्षरं ब्रह्म व्यावहरन् मामनुस्मरन्” इति स्मृत्युपबृंहणात्परमात्मन एव ध्येयत्वोक्तेः कथं जीवस्यात्र संगतिः इति वाच्यम्,प्रणवस्य अकार उकार मकार रूपाक्षरत्रयवत्त्वेन तत्र जीववाचकमकारघटितत्वेनप्रणवेन जीवस्य ध्येयत्वोक्तेः संगतत्वाच्च"स्वस्तिः वः पाराय तमसः परस्तात्’ इत्यस्य कथं निर्वाहः? इति चेत्तमसः परस्ताद्वर्तमानाय तीरवत् प्राप्यभूताय भगवतः प्राप्तये ओम्इत्यात्मानं ध्यायथ । एवं ध्यानाद्याचरद्भ्यो वः युष्मभ्यं स्वस्तिइत्यर्थः । अत इदमुभयसाधारणम् । अतो मध्ये एतद्वाक्यद्वयमपि जीवपरमितिपूर्वपक्षसारः ।सिद्धान्तं व्याचष्टे - द्युपृथिव्यादीति । सूत्रे स्वशब्दात् इत्यस्यस्वस्यैव वाचकः शब्दः स्वशब्दः स्वमात्रवाचकशब्दः इत्यर्थः । सर्वंवाक्यं सावधारणमिति न्यायात् । अमृतस्यैष सेतुः इति शब्दः परब्रह्मासाधारणशब्दःयद्यपि आत्मशब्दस्यापि स्वशब्दशब्देन ग्रहणं शक्यम् । जानत आत्मानमितिप्रथमतोऽस्य श्रवणात् । अथापि जीवे आत्मशब्दस्य स्वरसतः प्रसिद्धेःउभयसाधारण्यं स्यादिति अमृतस्यैष सेतुः इति शब्दः असाधारणशब्दत्वेनस्वीकृतः । अनेनाऽर्थनिश्चये जाते उपष्टम्भकतया आत्मशब्दोपि अभ्युच्चयहेतुःभवेदिति पश्चात् आत्मशब्दपरतया व्याख्यानं कृतम् ।द्यौश्च भूश्च द्युभुवौ, द्युभुवौ आदी येषामिति विग्रहः । तथा चसर्वेषां आधारभूतं परं ब्रह्मैवात्रोच्यते परब्रह्मासाधारणशब्दस्यात्रश्रूयमाणत्वात् इति फलितम् । नन्वत्रामृतपदेन किं गृह्यते । यदिपरं ब्रह्म, तर्हि ब्रह्मैव ब्रह्म प्रापयतीत्युक्तं भवतीत्यसमञ्जसोवाक्यार्थः इति चेत् अमृतपदमिह अमृतत्वपरः । उपासकस्यामृतत्वरूपमोक्षप्रापकःइति न विरोधः । अनेन प्रापकरूपसेतोः स्वान्यप्रापकत्वमिव प्रापकस्यसेतुत्वेनोक्तस्य स्वान्यप्रापकत्वमपि सिद्धं भवति । “संसारार्णवपारभूतस्यामृतस्य"इति भाष्यानुसारेणामृतपदस्य अमृतपरत्वेपि न दोषः । न च तर्हि कथं स्वस्यैवस्वयं सेतुर्भवेदिति वाच्यम्, अमृतपदस्य विनाशानर्हनित्यविभूतिपरत्वात्,तत्प्रापकत्वं ब्रह्मण्यक्षतमित्यदोषात् । मुक्तजीवस्वरूपस्याप्यमृतत्वात्तत्प्रापकत्वोक्तावप्यविरोधात् । यद्वा मुक्तानां स्वपदप्रदानेस्वात्मप्रदाने च स्वस्यैव कारणत्वमिति स्वप्रापकत्वोक्तावप्यविरोधात्प्राप्यप्रापकयोरैक्यांगीकारात् । न च सेतुशब्दः सलिलनिरोधकेलोकप्रसिद्धः । एवं चामृतनिरोधकः इत्यर्थलाभात् अर्थस्यासांगत्यमितिवाच्यम् “सिनोति’ इति सेतुः इति व्युत्पत्त्या बन्धनार्थकत्वस्वीकारेणादोषात्षिञ् बन्धने इति धातुःबन्धनं नामः संबन्धनं, प्रापकमिति यावत् । अमृतप्रापकः इत्यर्थःपूर्वपक्षेपि दारुमृच्छिलामयत्वरूपसेतुत्वं जीवे न संभवति ।पारवत्त्वमपि तथैव । अतोऽन्यथैव अर्थो वर्णनीयः । तथा च सिनोति इतियोगव्युत्पत्तिं स्वीकृत्य कूलप्रापकत्वरूपार्थस्वीकारे भगवतोब्रह्मणः संसारार्णवपारभूतामृतप्रापकत्वं लभ्यते इति अयं शब्दःपरमात्मासाधारणशब्दः । ननु सलिलगमननिरोधकत्वरूपरूढ्यर्थतावच्छदेकस्यबाधितत्वात् सिनोति इति योगार्थस्य स्वीकारेपि न निस्तारः । तस्यापिबाधात् । गमननिरोधाय रज्जुभिः पुरुषपादबन्धने सेतुशब्दप्रयोगस्यावयावार्थस्यसंभवेपि न सेतुशब्दः प्रयुज्यतेगच्छतीति अवयवव्युत्पत्तिसिद्धार्थस्य मनुष्यादिषु संभवेपि न गोशब्दप्रयोगः इष्यते इति चेत्, तर्हि गौणीं वृत्तिमाश्रित्यार्थो वर्ण्यतेसेतुरिव = सेतुसदृशः इत्यर्थः । सेतुसादृश्यं च कूलप्रतिलम्भकत्वमादायेतिन दोषः । प्रथमे रूढिपरित्यागः द्वितीये रूढार्थरूपसेतुगतगुणयोगमादायश्येनयागे श्येनसादृश्यमादाय श्येनशब्दप्रयोगवत् । निपत्यादानंसाम्यम् । अत्रापि प्रापकत्वं साम्यम् ।ननु सिद्धान्ते पूर्वपक्षे वा रूढ्यर्थपरित्यागस्तुल्यः, तथा च अस्य भगवद्वाचकत्वमेवेति कथं निर्णयः । पक्षद्वये दोषसाम्यादिति चेत् - अमृतत्वप्राप्तिहेतुतयाभगवतः सर्वोपनिषत्सिद्धत्वात् अत्रोक्तममृतत्वप्रापकत्वमपि भगवत एव । नकुत्रापि जीवस्य अमृतत्वप्रापकत्वमुक्तमिति अत्रायं शब्दः परमात्मासाधारणःइत्याशयात् । “अत एव’ सर्वत्रोपनिषत्सु’ इत्यादि भाषितम् ।। आत्मशब्दोपिस्वशब्देन गृहीतुं शक्यते इत्याशयेनाह - आत्मशब्दश्चेति । निरुपाधिकः इति ।आप्नोतीत्यात्मा । अनेन व्याप्तिः उक्ता । व्याप्तिमत्त्वं चाकाशकालधर्मभूतज्ञानेष्वप्यस्तीति न तत्रात्मशब्दः प्रयुज्यते,अतः व्याप्तिविशेषवाची । “अन्तः प्रविष्टः शास्ता जनानाँ सर्वात्मा"इति श्रुतिसिद्धा नियन्तृत्वेन व्याप्तिरेवात्र विवक्ष्यते । अनेननृपनभोव्यावृत्तिरुक्ता भवति । जीवस्य नैवं विधा व्याप्तिः । “शरोह्यात्मा इत्यत्र स्वरसतः प्रतीयमानस्यार्थस्य भंगः स्वीकार्यःतस्य शरत्वेन बोधनात् ब्रह्मणश्च लक्ष्यत्वेन बोधनात् । अत्र बाधकाभावात्द्युपृथिव्यादिसमस्ताधारत्वबोधनाच्च सर्वनिरूपितनियन्तृत्वविशिष्टात्मत्वस्यनैव परित्यागः उचितः । सर्वज्ञत्वबोधकाः शब्दा अपि स्वशब्देन गृहीतुंशक्याः इत्याह - यः सर्वज्ञः इति ।एवं परब्रह्मासाधारणशब्दानां बहूनां सत्त्वेन “मनस्सह प्राणैश्च सर्वैः"इत्यादिना नोपकरणोपकरणिभावविवक्षापि शक्यशंका । प्रथमश्रुतस्यद्युपृथिव्याद्याश्रयत्वस्य न परित्यागः । ननु तर्हि कथं नाड्याधारत्वंपरस्येत्यत्राह - तस्यापि संभवतीति । स्फुटानां जीवलिंगानां परमात्मन्यपिघटनसंभवेनैतेषामन्यथासिध्या न जीवत्वसाधकता । यद्यपि नाड्यः हृदयाधारकाःअथापि यद्द्वारा परमात्माऽऽधारकत्वम् । तत्र श्रुतिं प्रमाणयति- संततमित्यादिना । सिराभिः = नाडीभिः, संततं = व्याप्तं हृदयम् आकोशसन्निभं= ईषद्विकसितपुण्डरीकतुल्यं लम्बति = लम्बते इत्यर्थःतथा च रथनाभौ अराः इव यत्र = परमात्मनि नाड्यः संहताः स एष भगवान्अन्तश्चरते = तिष्ठति इत्यर्थः । अत्रापि परमात्मा व्यवस्थितः इत्युक्तम्तत्र चरते इत्युक्तम् ।। इदं च विवरणम् । बहुधा जायमानत्वमपिभगवत्युपपन्नमित्याह - ब्रह्मणि संगच्छत इति । अन्तरादित्यविद्यायांअप्राकृतस्वासाधारणविग्रहयोगः प्रतिपादितः । तादृशविग्रहयोग एवात्रापिविवक्षितः । मत्स्य कूर्म वराह उपेन्द्राद्यवताराः देवाद्यस्मत्समाश्रयणीयत्वायभगवता परिगृहीताः । जीवपक्षे बहुधा जायमानत्वं कालभेदेन वाच्यं,परमात्मपक्षे तु एकस्मिन्नपि काले बहुधा जायमानत्वमपि सुष्ठूपपन्नं भवति ।“पिता पुत्रेण पितृमान् योनियोनौ । नावेदविन्मनुते तं बृहन्तं” इति सर्वेषामपिपितैव भगवान् अनेकयोनिषु जनित्वा पुत्रभावमाप्नोति इति घुष्यते । “मनस्सहप्राणैश्च’ इत्यस्य निर्वाहं प्रदर्शयति - मनःप्रभृतीति । अस्मिन् वाक्येद्युपृथिव्याद्यविशेषं मनःप्राणादीनां यच्छब्दनिर्दिष्टवस्त्वाधारकत्वं श्रूयते ।तत्र यच्छब्दस्य जीवपरत्वे तस्य मनआदिप्राणाधारकत्वं उपकरणोपकरणिभावरूपतयेतिवक्तव्यम् । द्यृपृथिव्याद्याधारत्वं तु नैवंरूपम् । अतः एकरूपतया आधारत्वं नसुवचम् । परमात्मपरत्वे सर्ववस्तुनिरूपिताधारत्वमेकरूपं सुनिरूपितं भवतीति विशेषः ।।
मुक्तोपसृप्यव्यपदेशाच्च । उपसृप्येति भावप्रधाननिर्देशः । मुक्तैःप्राप्यत्वेन द्युभ्वाद्यायतनपुरुषस्य प्रतिपादनादित्यर्थः । यदापश्यः इत्यादिकं तृतीयमुण्डके प्रथमखण्डे । अत्र परमात्मनः प्रतिपादनात्तदैकार्थ्यात् अस्यापि परमात्मपरता । यथा नद्यः इत्यादिकं तृतीयएव द्वितीयखण्डे । इदमपि परमात्मप्रतिपादकम् । अत्र नदीदृष्टान्तेननामरूपविभागाभाववत्त्वमात्रमुक्तम् । इदं जीवानां प्रलयेपि साधारणम्यदा पश्यः इत्युक्तं तु मुक्तदशायामेव । पुण्यपापे विधूय इतिपुण्यपापविधूननोक्तेः । प्रलयदशायां तु पुण्यपापस्य सत्त्वात्"सूक्ष्मं वा तदर्हत्वात्’ न कर्माऽविभागादित्यादिभिः प्रलयदशायांकर्मसंबन्धबोधनात् । अन्यथा अकृताभ्यागमकृतविप्रणाशादिप्रसंगात्तथा च प्रथममुण्डकस्य, तृतीयमुण्डकस्य परमात्मपरत्वेनास्यापिअक्षरब्रह्मपरत्वमेव । भगवत्प्राप्त्यर्थभक्तियोगांगभूतज्ञानयोगविषयस्यजीवस्य नात्र प्रतिपादनमिति विवेकः । तथा च मुक्तप्राप्यत्वस्योपरिवक्ष्यमाणत्वात् तदैकार्थ्यमस्यापीति । यद्वा उपरि प्रतिपाद्यत्वस्यब्रह्मण्येव संभवात् तदेव ब्रह्म अत्र मन्त्रे “अमृतस्य एष सेतुः"इत्यनेन व्यपदिश्यते इति । अत्र पक्षे न भावप्रधाननिर्देशःअत्र प्राप्तुः मुक्तस्य प्राप्यस्य ब्रह्मणश्च भेदः सिद्धः । अनेनाद्वैतमतनिरासःएक एव जीवः बद्धावस्थः स एव मुक्तावस्थः “तमेकं जानथ” इति निर्विशेषज्ञानंप्रतिपादितम् । एतस्मादेव मुक्तिः इत्येतन्निरस्तम् । एतदेवोपपादयति- संसारबन्धनादित्यादिना । निरञ्जनैः इत्यस्य विवरणं प्रकृतिसंसर्गरहितैः इति । अनेन पुण्यपापशून्यत्वांशे एव परमसाम्यम् इति द्वैतिपक्षोनिरस्तः । प्रकृतिसंसर्गरहितत्वानन्तरभावित्वात् परमसाम्यस्य ।अतस्तद्रूपसाम्यं नात्र विवक्षितम् । पुण्यपापविधूननं ततः कर्मकार्यप्रकृतिसंबन्धराहित्यं ततः क्रमेण परमसाम्यं इति बोधितम् ।एतदेवाह - पुण्यपापनिबन्धनेत्यादिना । साम्ये परमत्वं च साम्याश्रयगुणेषु अपरिच्छिन्नत्वम् ।।
नानुमानमिति । पूर्वसूत्रमन्वयपरम् । इदं च व्यतिरेकपरम् । अनुमानं,आनुमानं इत्युभयथापि पदच्छेदः कर्तुं शक्यते । उभयथापि प्रधानपरत्वमेवास्यप्रथमे कर्मणि ल्युट् । “कृत्यल्युटो बहुलम् इति बहुलग्रहणात्द्वितीये अनुमानस्य इदमानुमानम् । अनुमानप्रमितमित्यर्थः । शेषेइत्यण्प्रत्ययः, आदिवृद्धिः । नन्वत्र प्रधानस्य का प्रसक्तिरितिचेत् दृष्टान्तार्थम् । अन्तर्यामिब्राह्मणे यं पृथिवी न वेद इत्यस्ययथा दृष्टान्तत्वम् । तथाऽत्रापि । यथा द्युभ्वाद्यायतनं प्रधानंन भवति । तथा जीवोपीत्यर्थः सत्कार्यवादिनां कारणकार्यैक्यवादिनांच कार्यस्य कारणगतत्वेन प्रधानस्य सर्वकारणत्वात् कारणे तस्मिन्कार्यभूतद्युभ्वादि प्रोतमिति प्रधानमपि भवितुमर्हतिअथापि तत्रात्मशब्दः न स्वरसः । अतः प्रधानपरत्वव्युदासः । तथैवजीवपत्वव्युदासोपि कर्तुं शक्यः अमृतस्यैष सेतुः इत्यस्यानन्वयात्मृदात्मको घटः इत्यादाविव आत्मशब्दस्यान्यथाकरणं न संभवतीत्येतत्आकाशाधिकरणे एव निर्णीतम् । प्राणैश्च सर्वैः इति श्रुतिपर्यालोचनयाप्राणभृदिति सूत्रितम् । चशब्दः अप्यर्थकः । जीवस्य प्राणरूपेन्द्रियाधारत्वमेवासंभावितम्यथाकथंचित्तस्य प्राणभृत्वेऽपि द्युपृथिव्याद्याधारत्वं नैवसंभवतीत्याशयः ।। न विद्यते तच्छब्दः यत्रेति विग्रहे तच्छब्दरहितादित्यर्थःतत्र विशेष्य वाचकं पदं नास्तिअध्याहारे तच्छब्दरहितं वाक्यं इति स्यात् । तच्छब्देन परमात्मपरामर्शेपरमात्मवाचक शब्दरहितादित्यर्थ वर्णनं भवेत् । इदं चासिद्धं परमात्मवाचकशब्दस्यास्मिन्वाक्ये सत्वात् । तच्छब्देन प्रधानजीव परामर्शे एतदुभयवाचकशब्दरहितात्इत्यर्थः स्यात् । एवंरहितस्यास्य वाक्यस्य प्रधानजीवप्रतिक्षेपकत्वंवक्तव्यम् । वाक्यस्य प्रतिक्षेपकत्वं प्रधान जीववाचकशब्दाभावेएव पर्यवस्येत् । एवं कुटिलगत्याश्रयणं विहाय स्वरसत एवार्थो वर्णयितुंशक्यः इत्यभिप्रायेणाह - अर्थाभावे इतितत्पुरुष स्तावत् नात्र संभवतिन तत् = अतत् तस्य शब्दः इति विग्रहे तच्छब्दस्य जीवप्रधानपरत्वेतद्भिन्न परमात्मनः शब्दात् इति पर्यवस्येत्तथा च परमात्मवाचक शब्दस्य हेतुत्वम् । इदं स्वशब्दादित्यनेन गतार्थम्तच्छब्दस्य परमात्मपरत्वे तु परमात्मभिन्न जीवप्रधान वाचकशब्दादितिफलेत् । इदं चासिद्धं प्रकृतविरुद्धं च । तस्य शब्दः तच्छब्दः ।न तच्छब्दः अतच्छब्दः इति नञः तच्छब्देन समासेपीयमेवानुपपत्तिःतच्छब्दस्य जीवप्रधानपरत्वे प्रधानजीव वाचिशब्द व्यतिरिक्तशब्दात्इत्यर्थः - तथा स्वशब्दादित्यनेन पौनरुक्त्यं इति पर्यवस्येत् ।इदं चासिद्धम् । प्रकृतानुपयुक्तं च । अतोऽव्ययीभावः आदृतः । यथामक्षिकाणामभावः निर्मक्षिकम् । नचाव्ययीभावसमासे अतच्छब्दं इतिहि स्यात्कथं च तदुपरि पंचमी इति वाच्यम् पंचमीव्यतिरिक्ते एव सुपोऽम्भावःपंचम्यां तदभावात् न दोषः । अर्थाभावे यदव्ययमिति न सूत्रानुपूर्वी ।।
समाने वृक्षे इति। ननु कथमनेन जीवप्रतिक्षेपः । मुह्यमानः वीतशोकःइति जीवस्यैवात्र प्राधान्येन प्रतिपादनादिति शंका परिहारः “अयंयदा” इत्यादिना । अत्र ईशस्य तद्गतमहिम्नश्च ज्ञानेन जीवस्य वीतशोकत्वमुक्तम्अनेन शोकनिवृत्तेः परमात्मोपासनसाध्यत्वं उक्तं भवति । अतोऽमृतप्राप्तेःभगवदुपासनस्य कार्यकारणभावो लब्धः इति अमृतत्वप्राप्त्युपायतयोक्तएव तमेवैकं जानथ, अमृतस्यैष सेतुः इत्यस्य विषय इति द्युभ्याद्यायतनंपरं ब्रह्मेति निश्चीयते ।।
प्रकरणं चेदमिति - आदावन्ते च परमात्मपरत्वेऽपि मध्ये जीव प्रस्तावःकुतो भवेदित्यत्रेदं सूत्रम् । मुह्यमानः - शोचति, वीत शोकः इत्यादिभिःजीवपरामर्शस्य विद्यमानत्वात् अत्र जीव प्रस्ताव एव नास्तीति नवदामः । उपासकस्य जीवस्य मोक्षं विन्दतस्तस्य कीर्तनावश्यकत्वात्परं तूपास्यत्वेनोक्तं परब्रह्मैव । अतस्तदादाय प्रकरणं परमात्मनःइत्युच्यते । पूर्वत्र परमात्म परत्वं निर्णीतम् । अन्तेपि । अतःकथं मध्ये जीवस्योपास्यत्व विधानं संगच्छेत । आ समाप्ति परमात्मोपासनविधानेएव ऐकरस्यम् ।
ननु तृतीयमुण्डके प्रथमखण्डे “समाने वृक्षे” इत्ययं मन्त्रो द्वितीयःतत्रैव “द्वा सुपर्णा” इति मन्त्रश्च प्रथमः । अत्र परमात्मप्रस्तावएव नास्ति । अस्य मन्त्रस्य बुद्धिजीवपरत्वात् । एतद्व्याख्यानभूते पैंगिरहस्ये “तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्वम् । अनश्नन्अन्योऽभिचाकशीति इति ज्ञः । तावेतौ सत्वक्षेत्रज्ञौ’ इति विवृतम्क्षेत्रज्ञश्च जीवात्मा’ इति संप्रतिन्नम् । अतश्चतुर्थपादो जीवपरःतृतीयपादश्च न परमात्मपरो भवितुमर्हति । तस्य कर्मफलानशनात् ।न च जीवस्य कर्मफलाशनात् कथं चतुर्थपादस्य जीवात्मपरतेति शंक्यंमुक्तावस्थायां तस्य तथात्वसंभवात् । अन्यः अन्यः इति पदस्वारस्यात्चतुर्थपादस्य जीवात्मपरत्वनिश्चयात् परमात्मपरत्वासंभवाच्च तृतीयपादस्यजीवात्मपरमात्मभिन्नत्वावश्यकत्वात् तस्यान्तः करणपरत्वमेव वक्तव्यम्नचान्तः करणस्य कथं कर्म फलादन कर्तृता । तस्य तत्र करणत्वादितिवाच्यम् । करणे कर्तृत्वोपचारात् । पाककरणस्य काष्ठस्य कर्तृत्वोपचारेणकाष्ठं पचतीति व्यवहारवदुपपत्तेः । तथा नात्र पूर्वमन्त्रप्रस्तावःपरमात्मनः । अतः समाने वृक्षे इति मन्त्रोपि न परमात्मपरः इति भेदव्यपदेशात्’इति सूत्रं गतमेव, प्रकरणविच्छेदोपिइत्याशंकायां “स्थित्यदनाभ्यां” इति प्रवृत्तम् । अनेन सूत्रेण"द्वा सुपर्णा’ इति मन्त्रस्य जीवपरमात्मपरत्वं स्थाप्यते । तृतीयपादोजीव परः चतुर्थश्च परमात्मपरः । नात्रान्तः करणं प्रतिपाद्यते ।पैंगि रहस्ये सत्वशब्दः प्राणि वाचकः “सत्वमस्त्री तु जन्तुषु “इतिकोशात् । नाचेतनान्तः करणवाचकः । वस्तुतोऽचेतनस्यादनकर्तृत्वाभावात्कर्तृत्वोपाचारोक्तेः अनावश्यकत्वाच्च नान्तः करणवाचकता संभवतिअगतिकस्थले एवोपचारेण निर्वोढव्यत्वात् । न च “सत्त्वक्षेत्रज्ञौइति निर्वचनानुसारेण चतुर्थपादस्य क्षेत्रज्ञजीव परता आवश्यकीतिवाच्यम्क्षेत्रज्ञशब्दस्य परमात्मपरत्वेनान्यथासिद्धेः । सर्वावासं वासुदेवंक्षेत्रज्ञं विद्धि तत्वतः इति परस्मिन्नपि क्षेत्रज्ञशब्दप्रयोगात्क्षेत्रज्ञं चापि मां विद्धि इति प्रयोगाच्च । पिप्पलं स्वाद्वत्तीतिकर्तुः जीवस्य अदनकर्तृत्वमपि स्वरसं भवति । “ऋतं पिबन्तौ सुकृतस्यलोके” इति श्रुत्यन्तरेणैकार्थ्याच्च । अतश्चतुर्थ तृतीयपादयोःपरमात्मजीवात्मपरत्वस्यैव युक्तत्वात् न प्रकरणविच्छेदः । नापि"भेदव्यपदेशादिति सूत्रोक्तहेतोः अनुपपत्तिः । “अनश्नन् अभिचाकशी"तिइति च जीवे सर्वात्मनाऽनुपपन्नं च । अभिचाकशीति = अतिशयेन काशतेअनश्नत एवातिशयेनकाशनं जीवस्य सर्वात्मना न संभवति । एकवेलायामभोजनेपिअतिग्लानिदर्शनात् । “बुभुक्षितं वै न प्रतिभाति किंचित्’ इति स्थितस्यकथं दीप्तिसंभवः । “ऋतं पिबन्तौ” इति जीवपरयोरेवान्यत्राशनकर्तृत्वमुक्तम्नन्वन्तःकरणस्य । अतो नात्रान्तः करणप्रस्तावः नाप्यपरमात्यनोऽप्रस्तावः।।नन्वेवं सति कथमत्र “अनश्नन्’ इत्यस्य परस्मिन्नुपपत्तिः “ऋतं पिबन्तौ"इति तस्यापि अशनकर्तृत्वबोधनात् । “यस्य च ब्रह्मच क्षत्रं चोभेभवतः ओदनः इति परस्याप्यदन कर्तृत्वस्यान्यत्रोक्तेश्च । अपि चेदंसूत्रं कथं जीव प्रतिक्षेपेण परम्मात्मपरत्वस्थापकं भवितुमर्हतिपरिष्वंगरूपस्थितेः कर्म फलाशनस्यच जीवे विद्यमानत्वात् न जीवनिरासकत्वसंभवःस्थित्यदनाभ्यां जीवः इति जीवत्वसाधने एवौचित्यात् । परमात्मसाधकत्वंतु सर्वात्मनाऽसंभविच । परिष्वंगरूपस्थितेः जीवेपि सत्वेन व्यभिचरितत्वात्अदनस्योक्तयुक्या उभयसाधारण्याच्चन च परस्य जीवगतकर्मफलादनकर्तृत्वप्रयोजकत्वेन साक्षात्कर्तृत्वाभाववाचकंअनश्नन्’ इति पदं परस्मिन् संगतं नापि जीवे इति वाच्यम् । तथा सतिअदनहेतुत्व बोधकादनपदं सूत्रे अनुपपन्नं भवेत् इति परमात्मनि हेत्वप्रसिद्धिःएतेन स्थित्यदनाभ्यामिति विवक्षितहेतुद्वये एकं परमात्मसाधकंअन्यत् जीव प्रतिक्षेपकमिति समाधानमपि निरस्तं भवतीति । इति चेत्अत्र ब्रूमः । अदनरूपव्यापाराभावविशिष्टोज्वल परिष्वंग रूप स्थितेःपरमात्मासाधारणत्वेन न जीवमादाय व्यभिचार प्रसक्तिः । अदनं च जीवासाधारणंइति न परस्मिन् व्यभिचारः अतः एकोहेतुः परमात्मत्वसाधक अन्यश्चजीवत्वसाधकः इति न परस्पर व्यभिचारप्रसक्तिः । अदनं स्थितिश्चस्थित्यदनेताभ्याम् । स्थितिशब्दस्य घित्वात्पूर्वनिपातः । भाष्ये श्रुतिक्रममनुसृत्य “एकस्य कर्मफलादनं, अन्यस्य’ इत्यादि भाषितमिति दर्पणम्वस्तुतः स्थितिश्च अदनं च इति विग्रहमभिप्रेत्य स्थित्यदनाभ्यांइति सूत्रप्रवृत्तावपि न विरोधः । न च भाष्यविरोधः शंक्यःशरीरान्तस्स्थितिमात्रं प्रतिपाद्यते इति श्रीभाष्यसूक्ति परामर्शेपरिषस्वजाते इति प्रतिपन्नस्थितेः हेतुत्वलाभात् । तस्य अदनपूर्वंनिर्दिष्टत्वात् सूत्रं श्रुत्यनुसारेणैव प्रवृत्तमित्यदोषात् ।भाष्येतु अदनशब्दव्याख्यानं प्रथमतो विरचय्य पश्चात् स्थितिशब्दव्याख्यानंकृतम् । केवलस्थितिरूपहेतोः साधारण्यभभिप्रेत्य, अशनाभावविशिष्टस्थितेरेवच हेतुत्व संभवंचाभिसन्धाय तदनुगुणव्याख्यानप्रदर्शनार्थं अनश्नतएव दीप्यमानतया इति भाषित्वा स्थितिशब्दविवरणं पश्चात् कृतमितिबोध्यम् ।। परमात्मसाधकहेतोः पूज्यत्वात् अल्पाच्त्वात् धित्वाच्चपूर्व निपातः क्रमप्राप्त एवेतिध्येयम्अत्रायं श्रुत्यर्थः - सुपर्णौ = शोभन पक्षवन्तौ । परस्य पक्षौज्ञानं शक्तिश्च । जीवस्यतु कर्म विद्या च । सयुजौ = युक् =गुणःअपहत पाप्मत्वादिः । अयं च गुणः उभयोः समानः । युक् इत्यस्य भोग्यमित्यर्थोवा तथाचैकभोग्यकत्वं उभयोः “सायुज्यमाप्नोति’ इति श्रुतेः । पिप्पलं= कर्मफलम् । पिप्पलशब्दः पिप्पलवृक्षसदृशशरीरपरः । शरीरप्रयुक्तंफलं कर्मफलमेव । कारणत्वात् कार्यत्वाच्च ।नन्वक्षर विद्यायां परमात्मासाधारणलिंगसद्भाववत् जीवसाधकलिंगानामपिसत्त्वात् प्रतर्दन विद्यान्यायेन जीवशरीरक परमात्मोपासनपरत्व मस्याःस्यात् इति चेदत्राधिकरणसारावलिः -“व्याप्तेऽस्मिन्नक्षमोतं यदि, किमिह ततो, जन्म चास्येच्छयोक्तंनाडीचक्रस्य नाभिर्भवति च स परो हार्दरूपेण तिष्ठन् ।निष्कम्य व्यापिनोऽन्तश्चरणपि शुभैर्विग्रहैरस्ति लोकेसौबालाम्नातवद्वा चरणमिदमपि स्यादधिष्ठान मात्रम्” ।। इति ।अत्रोक्तानां सर्वेषामपि लिंगानां अन्यथासिद्धत्वेन सर्वेषां परमात्मासाधारण्यात्नात्र प्रतर्दनविद्यान्यायस्य प्रवृत्तिः । तल्लिंगानन्यथासिद्धौतद्विशिष्टावलम्बिनी । इति न्यायात् इति ।।