श्रीः । श्रीमते रामानुजाय नमः । श्रीभगवद्रामानुजमुनिविरचितं श्रीभाष्यम् । प्रथमाध्याये प्रथमः पादः । अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतत्रात रक्षैकदीक्षे । श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परस्मिञ्शेमुषी भक्तिरूपा ॥ श्री सुदर्शन भट्टारकविरचिता श्रुतप्रकाशिका । ‘यतीन्द्रकृत भाष्यार्थी यद्वयाख्यानेन दर्शिताः । वरं सुदर्शनार्थं तं वन्दे कूरकुलाधिपम् ॥ वरदं द्विरदाद्रीश श्रीनिधिं करुणानिधिम् । शरण्यं शरणं यामि प्रणतार्तिहरं हरिम् ॥ १ ॥ बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् । येनाव्याहत संकल्पं वस्तु लक्ष्मीधरं विदुः ॥ २॥ १. अयं श्लोकः श्रुतप्रकाशिक्षकारविषयः श्रुतप्रकाशिकारम्भे अनुसंधीयते । २. अनेन श्लोकेन करिगरौ सेव्यमानानां वण्णा बेराणां नामधेयानि अनु- संहितानीति सांप्रदायिको विशेषः ।

shma २ 0 श्रीभाष्यम् सम्यङ्न्यायकलापेन महता भारतेन च । उपबृंहितवेदाय नमो व्यासाय विष्णवे ॥ ३ ॥ . " तस्मै रामानुजार्याय नमः परमयोगिने | यः श्रुतिस्मृतिसूत्राणामन्तर्ज्वरमशीशमत् ॥ ४ ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ! भाष्यामृतप्रदानाद्यः संजीवयति मामपि ॥ ५ ॥ प्रपद्ये प्रणवाकारं भाष्यं रङ्गमिवापरम् । परस्य ब्रह्मणो यत्र शेषित्वं स्फुटमीक्ष्यते ॥ ६ ॥ श्रुत्यन्तेषु श्रुतं भाष्ये मतं ध्यातं हृदम्बुजे । लक्ष्मीपतिं प्रपद्येोऽहं दृष्टं श्रीरङ्गधामनि ॥ ७ ॥ प्रमाणं च प्रमेयं च प्रमातारश्च सात्त्विकाः । जयन्तु क्षपितारिष्टं सह सर्वत्र सर्वदा ॥ ८ ॥ अविस्तृताः सुगम्भीरा रामानुजमुनेर्गिरः । दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् ॥ ९ ॥ श्रीरङ्गेशाज्ञया लब्धव्याससंज्ञे सुदर्शनम् । वाचाविजयिनः पुत्रं भाष्यभक्तिरचूचुदत् ॥ १० ॥ गुरुभ्योऽर्थः श्रुतः शब्दैस्तत्प्रयुक्तैश्च योजितः । सौकर्याय बुभुत्सूनां संकलय्य प्रकाश्यते ॥ ११ ॥ कः कृत्स्नं वेत्ति भाष्यार्थं श्रुतांश स्थित कृतिः । आढ्यैः काकणिकेवैषा नोपेक्ष्या भाष्यवित्तमैः ॥ १२ ॥ (मङ्गलश्लोकः) १. वेदार्थसंग्रहे श्रुतीनां गीताभाष्ये स्मृतीनां, सारदीपयोः सूत्राणां, श्रीभाष्ये श्रुतिस्मृतिसूत्राणां चान्तर्ज्वरम स्थिज्वरमशीशमत्, यः मायावादादिभिरुपज - नितोऽभूत् इति बोध्यम् । २. अस्मिन् श्लोके " द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " इति श्रुत्यर्थस्तदभिमतो ज्ञानपर्वक्रमश्चानुसंहितः । अनेन श्रीरङ्गे सेव्यमानं भगवत्स्व- रूपमेव योगिभिर्मुक्तावनुभाव्यं परस्वरूपमिति च गम्यते । 1/4/16 ०० C CC-0 No Rights Reserved. Digitized by eGangotriश्रुतप्रकाशिका भाष्यं चेद्र्घवृणोत्स्वयं यतिपतिर्व्याख्यानवाचां तथा गाम्भीर्यादनवस्थितिर्मितमतिर्दूरे जनस्तद्गिराम् । प्रष्टव्यः कथमीश्वरः स हि न नः प्रत्यक्षरूपो दृशां तद्भाष्यं स च भाष्यकृत्स च हरिः सम्यक् प्रसीदन्तु नः ॥ १३ ॥ m सर्वेषां पुरुषाणां प्रमाणाधीनप्रमेयनिश्चयानामुपादित्सितजिहासितेष्टानिष्टतत्सा- धनानामलौकिकपुरुषार्थतत्साधनरूपे वस्तुनि शब्दैकसमधिगम्ये, तत्राप्यपुरुषशेमुषीदोष- मषीमालिन्यस्य वेदाख्याक्षरराशेरेव प्रधानतरप्रमाणतयाश्रयणीयत्वे सिद्धे, तत्र च पशुपुत्र- वृष्टयन्नस्वर्गाद्यैहिकामुष्मिकार्वाचीनफलतत्साधनपरेऽवगते पूर्वभागे, परमपुरुषार्थावदोध के च तदुपरिभागे पूर्वाचार्याभिमतमुक्तिघण्टापथकण्टकायमानविविधकुदृष्टिजन दुर्वचनशतोपप्लुते तदुपदर्शितकुपथप्रवृत्तिनि च जगति मोमुद्यमाने, तदुज्जिजीवयिपया सदसद्विवेचनचतुरपूर्वा- चार्यपरिचितं प्राचीनमेव समीचीनमध्वानं निष्कण्टकीकृत्य परमपुरुषार्थाभ्यर्थिजनसार्थं कृतार्थ- यितुं भवभयाभितप्तजनभागधेयवैभवभावितावतरणेन परमकारुणिकेन भगवता भाष्यकारेण शारीरकशास्त्र व्याचिख्यासितम्। परमर्षिप्रणीतानि व्याख्येयानि तेषां च महर्षिप्रणी- तानि व्याख्यानानि सन्ति चेत्तान्येवानुरोद्धव्यानि । न ह्यनृषेः सूक्ष्मदर्शित्वम् । ऋषेरभि- प्रायमृषिरेव च स्वतो वेदितुमर्हति, न तु जडमतिरितरो जनः । ऋषिवचसामेवाभिन्नवक्तृ- काणां मिथो विरोधे पूर्वपक्षाभिप्रायवैभववादादिभिरविरोधों नेयः । भिन्नवक्तकाणां तु १. … ‘तेषां च महर्षि व्याख्यानानि सन्ति चेत्’ इति एकचकारविशिष्टः पाठ एव भावप्रकाशिकाकाराभिमतः । तथैव च केषुचित् तालपत्त्रकोशेषु पाठो दृश्यते । ’ तेषां च महर्षि व्याख्यानानि च सन्ति चेत्’ इति चकारद्वयवि- शिष्टः पाठोऽपि केषुचित् तालपत्रकोशेषु दृश्यते । स एव च सांप्रदायिकः पाठ इत्यपि केचिदभिप्रयन्ति । २. धर्म जैमिनिरत एव ( ३-१-३९) परं जैमिनिर्मुख्यत्वात् (४-३-६१) इत्युपपादितयोर्जे मिनिमतयोर्यद्यपि मिथो विरोधः स्फुरति, तथापि पूर्वस्य पूर्व- पक्षाभिप्रायकतयार्थी वर्णनीयः ’ एवं जैमिनिनाक्षिप्तं तस्यायं बादरायणीयः परि- हार:’ इति । अत एव भगवता भाष्यकृता ‘संप्रति पूर्वपक्षमाह’ इति सूत्रमवतारितम् । यद्वा, वेदः अप्रमाण, वैदिकं कर्म नानुष्ठेयमिति वदद्भिः - देवता- तत् भ्युपगमे पुण्यफलानां देवतास्थानानामस्थिरत्वात् देवतानामप्यभावे अनित्यार्थसयो- गित्वात् वेदस्याप्रामाण्यमेव । ‘फलप्रद देवतानामभावे तदुद्देशेन कर्मानुष्ठानं च न 0

४ श्रीभाष्यम् (मङ्गलश्लोकः) विरोधे ‘दुष्परिहरे युक्तियुक्तं ग्राह्यमिति न दोषः । ये पुनः सन्त्यपि तान्यनादृत्य व्याख्येया- न्तराणि व्याख्यानान्तराणि च तद्विरुद्धानि रचयन्ति तेषामाग्रहगृहीतहृदयत्वे पण्डितमानित्वे पाण्डित्यख्यापनपरत्वे च तत्प्रवृत्तिरेव प्रमाणं । इतरेषां च व्याख्यातृणामार्षव्याख्यानाति- लङ्घित्वम् “ उपासात्रैविध्यात् " " सर्वत्र प्रसिद्धोपदेशात् ” “भूमा संप्रसादादध्युपदेशात् " " दहर उत्तरेभ्यः " इत्यादिषु स्पष्टतरम् । इह तु वृत्त्यनुसारः प्रतिज्ञातः । न च त- त्प्रतिज्ञानमहृदयगिति शङ्कनीयम्, दुष्परिहरबाधकानुपलम्भात् । यद्यपि कर्ममीमांसायां " क्वचित् क्वचिदर्वाचीनैर्व्याख्यातृभिराकुलत्वमापादितम्, तथापि तत्र प्रयोगमार्गे स्स्वल- नाभावादनुष्ठानमात्राधीनायाः स्वर्गादिफलसिद्धेर्देवतास्वरूपतद्याथात्म्यसत्कार्यवादादिज्ञान- तैरपेक्ष्यं, परमपुरुषार्थस्य ज्ञानैकसाध्यतया ज्ञानमार्गस्खलनस्यात्महानिफलकत्वेन तद्विप- रीतज्ञानानामवश्यपरिहर्तव्यत्वम् उत्तरभागे च तत्तदर्थौपयिकतया प्रसक्तानां पूर्वभा- गार्थानां शिक्षणीयत्वं प्रदर्शितयैव दिशानुक्तानामपि शिक्षणीयार्थान्तराणां सुकरनिर्वाहत्वं चाभिप्रेत्य ब्रह्मसूत्राण्येव भगवान् भाष्यकारः प्रारभते विवरीतुम् । एवं प्रारिप्सितस्य प्रबन्धस्याविघ्नपरिसमाप्तिप्रचयगमनार्थं मिष्टदेवतोपासनरूपं मङ्गलं श्रौतमाचरति - अखिलेत्यादिना । 66 मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ " स्मृत्याचार सिद्ध- इति हि मैयते । आचर्यते च तत्तत्प्रवन्द्वृभिः । श्रोतृमनः समाधानार्थ शास्त्रार्थ- स्यात् - इति परिचोदिते कर्मणां देवतानैरपेक्ष्यलक्षणं वैभवमस्ति पूर्वानुभवस्या- त्मगत भावनाद्वारा हेतुत्ववत् जीवगतादृष्टद्वारा कर्मणां स्वर्गादिहेतुत्वोपपत्तेः न वेदाप्रामाण्यं न वा कर्मणामननुष्ठेयत्वमिति परिहारं वक्तुं न हि निन्दा ’ न्यायेन देवतानिरासोक्तिः कर्मप्राधान्यपरा । अतो न विरोध इति भावः । १. दुष्परिहरे; सर्वथा परिहर्तुमशक्ये इत्यर्थः । २. कार्यपरवाक्यार्थभावना वाक्यार्थवादमुखेन, अर्थवादानां कार्यशेषकर्मकर्तृ- प्रशंसापरत्ववादमुखेन, गवादिशब्दैः व्यक्तिलाभस्य लक्षणया आक्षेपाद्दा सिद्धि- रित्युक्तिमुखेन, गुणवाचिपदानां गुणिलाक्षणिकत्वोक्तिमुखेन, समानाधिकरणपदान पाष्ठिकाभेदान्वयबोधकत्वोक्तिमुखेनेत्येवंरीत्या भाट्टैः प्राभाकरैश्चाकुलत्वमापादित मिति भावः ।

0 श्रुतप्रकाशिका ५ संक्षेपश्चार्थतः क्रियते ; यथा चोदनासूत्रेण धर्मस्वरूपं प्रमाणं च श्रुत्यर्थाभ्यां निरूपितम् । प्रसिद्धं हि श्रोतुः प्रतिपत्तिसौकर्याय वक्तुरर्थप्रतिपादनस्य संक्षेपपूर्वकत्वम् -" इष्टं हि विदुषां लोके समासव्यासधारणम् " इति । शास्त्रार्थसंक्षेपेण वस्तुनिर्देशो a ; " भवतु’ इत्याशीर्वादश्च कृतौ भवतः । विनतेति भक्तिरूपेति च ब्रह्मणि प्रह्वीभावावगमात् प्रणतिरपि फलिता ; णमु प्रहृत्वे " इति हि धातुः । एवं त्रिविधमङ्गलमाचरितं भवति । श्लोकस्य प्रथमपादेन पूर्वस्याध्याय द्विकस्यार्थः संक्षिप्तः ; द्वितीयेन तूत्तरद्विकस्य । कर्ममीमांसायां प्रतिपाद्यभेदेन षट्कभेदवदत्रापि विषयविषयिरूपप्रतिपाद्यभेदेन द्विकभेदः । -शास्त्रप्रतिपाद्यमुपायोपेयात्मकम् । सिद्धोपाय उपेयं च ब्रह्म । साध्योपायो भक्तिः । तंत्र सप्तम्यन्तैः पदैः सिद्धोपायरूपमुपेयं च ब्रह्मोच्यते । भवतीति भुवनं कार्यवर्गः । रूढि- शक्त्या ‘अतत्कारणस्य कुलालादेर्व्यावृत्तिः । भुवनशब्दो हि विपुलतरकार्यविशेषे रूढः । अखिलशब्देन सकलदेशकालवर्तीन् यण्डजातानि विवक्षितानि तेन ब्रह्मादिव्यावृत्तिः । खिलं नास्तीत्यखिलम् । कार्येषु ब्रह्मणः सृष्टघादिव्यापाराविषयभूतं न किंचिदस्तीत्यर्थः । अनया व्यतिरेकोत्तत्या प्रायिकत्वनिवृत्तिः, “अज्ञातं नास्ति ते किंचित्" इतिवत् । अतः सकलमित्यन्वयमुखेनानुक्तिः । अकारोपक्रमत्वसिद्धये निखिलेत्यनुक्तिः । " अ इति भगवतो नारायणस्य प्रथमाभिधानम् " " भगवतो वाचकमकारं प्रयुञ्जानेन किं नाम मङ्गलं न कृतम् " इति चाभियुक्तैरभ्यधायि । अत्र भगवद्बाचित्वाविवक्षायामपि भगवद्बाचित्वशक्तियोगादका- रो माङ्गलिकः “ अइउण् ” इत्यत्राकारवत् । नञो निषेधवाचित्वेऽपि निषेध्यवशाच्छुभत्वाशु- भत्वे । अतः “ निष्प्रत्यूहमुपास्महे " इत्यादिनिर्देशस्येव शुभतरत्वम् ; वैकल्यनिषेधेन पौष्कल्य- परत्वात् । अखिलशब्देन चिदचिद्भेदोऽप्यभिप्रेतः । जन्म ‘नित्यनैमिक्तिकप्राकृतरूपम् । स्थेमा स्थितिः । सा चान्तर्यामिविष्ण्ववतारलोकपालमन्वादिनृपमातापित्रादिमुखेन क्रियमाणा बहुविधा विवक्षिता । भङ्गः नित्यनैमित्तिकप्राकृतरूपः । मोक्षस्य लयान्तर्भावेऽपि शास्त्रस्य ‘रूढिशक्त्या कुलाला दिव्यावृत्तिः’ इति भावप्रकाशिकासंमतः पाठः । १. २. " प्रसृतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता । नैमित्तिकी तथा प्रोक्तावान्तरप्रलयादनु ॥ भूतान्यनुदिनं यत्तु जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ " एवं भङ्गोऽपि ।

w श्रीभाष्यम् (मङ्गलश्लोकः) परमप्रयोजनत्वादत्र स नान्तर्भावितः । अत एवादिशब्देऽपि नान्तर्भाव्यः, तस्य साधारणतया स्फुटप्रतिपत्तिहेतुत्वाभावात्। पृथगेव हि पूर्वैश्च स्पष्टतरं निर्दिष्टो मोक्षः - " जगदुद्भवस्थिति- प्रणाशसंसारविमोचनादयः" इति जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे 99 इति च । 99 भगवान् भाष्यकारश्च तथा निर्दिशति ; यथा वेदार्थसंग्रहे - " उद्भवस्थितिप्रलयसंसारनिवर्त- नैकहेतुभूतः” इति ; भाष्ये च - " निखिलजगदुदयविभवविलयमहानन्दैककारणम् इति । विनतेत्यादिपदेन स्थेमान्तर्भूतस्वर्गादिसांसारिकफलप्रदत्वस्य पृथगुक्तिरनपेक्षिता । असाधारणस्य परमप्रयोजनस्य मोक्षस्यैव हि पृथगुक्त्यपेक्षा । आदिशब्देन सृष्ट्याद्यौप- यिकमन्तः प्रवेशनियमनादि गृह्यते । तथाच भाष्ये स्वयमेव वक्ष्यति स्थितिसंहारान्तःप्रवेशनियमनादिलीलम् " इति । जगदुत्पत्ति- जन्मस्थेमभङ्गोक्त्यैवान्तःप्रवेशनिय - मनादेरर्थसिद्धत्वाश्रयणमयुक्तम्; अध्यास परिणामपक्षयोस्तस्यार्थत्वाभावेन तद्वघावृत्त्यर्थं स्वमते पृथग्वक्तव्यत्वात् ; शाब्दत्वे संभवत्यार्थत्वकल्पनायोगात् ; विस्तरेणोक्तस्यार्थस्य संक्षेपोक्तौ विवक्षितत्वोपपत्तेश्च । लीलाशब्देन भगवतः परिपूर्णत्वानन्यप्रेर्यत्वस्वच्छन्दचेष्टित- त्वादिकमभिप्रेतम् ; यथोक्तं महाभारते – " अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥ " इति । अप्रमेयत्वं परिपूर्णत्वम् । अनियोज्यत्वम नितरचेतनर्मेयत्वम् । यत्र कामगम इत्य- नेन वायूदकादिप्रेरणाधीना बुद्धिपूर्वक स्पन्दादिचेष्टाव्यावृत्तिः; स्वेच्छाकृतप्रवृत्तिविधातव्यु- दासो वा । स्वाधीनलीलोपकरणत्वं वशिशब्दार्थः, विश्व वशे यस्य स वशी; इन्द्रिय- पराधीनचेष्टाव्यावृत्त्यर्थो वा वशिशब्दः । बालकदृष्टान्तेन लीलायाः प्रयोजनान्तरनैरपेक्ष्य- मभिप्रेतम् । अनेन राज्ञां पणबन्धपूर्वकद्यूतादिव्यावृत्तिः । कार्यवर्गापेक्षया भगवन्महिम्नो विपुलतरत्वं क्रीडनकैरित्यनेन फलितम् । ननु प्रयोजकव्यापारो हि लीला ; अतो ‘भङ्गस्य लीलात्वे युक्तेऽपि कथं प्रयोज्यव्यापार भूंत योजन्मस्थित्योर्लीलात्वम् ? उच्यते – “ प्रजायेय " इति हि श्रुतिः । अतः प्रयोजकव्यापारवत् प्रयोज्यव्यापारस्य च लीला त्व- १.


बहु स्यां " भञ्जो आमर्दने " इत्यस्मात् घञि रूपमिति भावः । तथा च प्रयोगः- " कण्टकानां खलानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गी वा दूरतो वा विसर्जनम् ॥” इति । ://::५८

90 श्रुतप्रकाशिका १) कथनेनोपादानत्वं फलितम् ; लीलाशब्देन निमित्तत्वं च । भङ्गादीत्यन्तेन प्राथमाध्यायार्थः संक्षिप्तः । अवाप्तसमस्तकामस्य व्यापारानुपपत्तिं परिहरता लीलाशब्देन विरोधपरिहार- परद्वितीयलक्षणार्थः सूचितः । एवं पूर्वद्विकोक्तं कारणत्वरूपं परत्वं संक्षिप्तम् । तस्यैव समाश्रयणीयताप्रतिपत्त्यर्थमुत्तरद्विकोक्तमभिगम्यत्वमोक्षप्रदत्वलक्षणं सौलभ्यं संक्षिप्यते- विनतेत्यादिपदेन । केवलं प्रकृष्टत्वं केवलं सौलभ्यं च कनकाचललोष्ट शकलयोरिव न समाश्रयणीयत्वाय कल्पत इति तदुभयव्यावृत्त्यर्थमिदं पदद्वयम् । विशेषेण नता विनता: प्रह्वीभूताः ; न्यासोपासनात्मकाशेषविद्याविशेषनिष्ठा विवक्षिताः । वैविध्यं च " तदुपर्यपि बादरायणः ऊर्ध्वरेतःसु च " इत्यादिना वक्ष्यमाणदेवत्वमनुष्यत्ववर्णाश्रमादिभेदेन जन्म- वृत्तगुणैश्चाभिप्रेतम् । भगवज्ज्ञानेन लब्धसत्ताकत्वं भूतशब्दार्थः । " अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति " इति हि श्रुतिः । 79 66 नुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थः 99 लब्धस्वरूपाणां च "" तेषामेवा- " ददामि बुद्धियोगं तम् " " अहं स्मरामि मद्भक्तम्" इत्याद्युक्तप्रकारेण साक्षात्कारविरोधिनिवर्तनादिकं हि भगवत एव भर इति न स्वरूपप्रच्युतिसंभवः । भुतसंबन्धी व्रातो भूतत्रातः । संश्रितसंबन्धिनोऽपि तत एव कारणाद्भगवतो रक्ष्या इत्यभिप्रायः । यथा - " आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवो नः कुले जातः स नः संतारयिष्यति ॥ इति, 66 पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥ " इति च । ननु षष्ठयन्तनिर्दिष्टानतिरक्तविषयः समुदायशब्दः, यथा–


  • ब्राह्मणसमाज इति । नैवम्, राजपरिषदित्यादिष्वतिरिक्तस्यापि दर्शनात् ; . समासान्तर्गतायाः षष्ठ्याः संबन्धमात्रविषयत्वात् ; षष्ठयन्तनिर्दिष्टानतिरिक्तत्वनियमस्यानुशासनाभावाच्च । समुदायशब्दे श्रुते समुदायिनः क इत्यपेक्षार्या संनिहितशब्दवाच्यनिष्ठः समुदायः शीघ्रं प्रतीयत इति ब्राह्मणसमुदाय इत्यादिष्वनतिरेकप्रतीतिः । राजपरिषदित्यादिष्व- तिरिक्तस्यापि दर्शनात्तत्तत्समुदायग्राहकप्रमाणानुरोधेनार्थवर्णनं युक्तमिति यथोक्त एवार्थः । एवं च सति व्रातशब्दप्रयोगस्यार्थवत्त्वं स्यात् । इष्टप्रापणपर्यन्तानिष्टनिवारणलक्षणा रक्षा; तस्याम् एकदीक्षः प्रधानदीक्षः । दीक्षा संकल्पः । स्वसत्ताया अपि संश्रितरक्षासंकल्प- CC-0 No Rights Reserved. Digitized by eGangotriPhoo8:19857016 ८ 66 श्रीभाष्यम् (मङ्गलश्लोकः) 66 काम- ईदृशीयं 99 निर्वर्तनस्यात्यन्ताभिमतत्वं प्राधान्यम् " अप्यहं जीवितं जह्याम् " इति युक्तम् ; मात्मानं भार्या पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् " इति चापस्तम्वः । स्मृतिर्यदाज्ञा तस्यापि तथानुष्ठानस्याभिमततरत्वम् " अप्यहं जीवितं जह्याम्" इत्यनेना- वगम्यते । दीक्षाप्राधान्येन रक्षाप्राधान्यं फलितम् । दीक्षाशब्देनाश्रितसंरक्षणस्य स्वप्र - योजनत्वं दर्शितम्; व्रतभ्रंशसमाप्त्योरनर्थाभ्युदयफलत्वं हि व्रतिन एव । संश्रितरक्षणं च तद्व्रतम्, यथा “ हृदाम्येतद्व्रतं मम " इति । विनतरक्षा शब्दाभ्यां तृतीयचतुर्थाध्यायार्थी संक्षिप्तौ । एवं जगत्कारणत्वमोक्षप्रदत्वे कथिते; एते हि राज्ञश्छत्रचामरवत् ब्रह्मणोऽसाधा- रणं चिह्नम् । परत्वसौलभ्ये च संश्रयणीयतानिमित्ततयावगते; यथा " य एनं विदुर- मृतास्ते भवन्ति ” इत्युपक्रम्य " सं बाहुभ्यां नमति से पतत्रैर्द्यावापृथिवी जनयन् देव एकः" इति ; " सर्वलोकमहेश्वरम् " सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति इति च । प्रमेयशरीरं साधीयो यदि प्रमाणमुपलभामह इत्यपेक्षायां द्विकद्वय शेषभूत- चतुःसूक्ष्यर्थं वदन् प्रमेयानुरूपं प्रमाण दर्शयति-विशिरसेि विदीप्ते इति । श्रूयते नित्यमिति श्रुतिः । अनेनापौरुपेयत्वान्निर्दोषत्वं विवक्षितम् । यानां प्रामाण्याद्युपयोगिनामत्रोपजीव्यत्वं सूचितम् । शिरः शब्देनानन्यपरत्वं विवक्षितम् ; अत एव पूर्वमीमांसान्या- परतत्त्वप्रधाना मन्त्रब्राह्मणभागा ह्युपनिषदः । विदीप्ते ; पूर्वभागेऽप्यग्नीन्द्रादिरूपतया ब्रह्मण एव प्रतिपाद्यत्वं “ तदेवाग्निस्तद्वायुः इत्यादिनोपनिषद्वाक्येनैव ज्ञायत इति विशेषेण दीप्तं विदीप्तम् यद्वा क्षुदसुखसाधनभूतदुःखात्मक प्रवृत्तिनिवृत्तिरूपं प्रयोजनं पूर्वभागे दीप्तम् ; ब्रह्म तु स्वयं निरतिशयानन्दतया परमपुरुषार्थभूतमुपरितनभागे विशेषेण दीप्त- मिति भावः । अनेन समन्वयाधिकरणार्थः सूचितः । तत्पूर्वाधिकरणत्रयार्थश्चात्र योतितो भवति ; व्युत्पत्तिलक्षणसौष्ठवाभावे श्रुतिशिरोवेद्यत्वायोगात् श्रुतिशिरःशब्दस्य प्रमा- णान्तरव्यावर्तकत्वाच्च । ब्रह्मणीति सामान्यपदमौपनिषदानां सद्ब्रह्मात्मादिसामान्यशब्दानां प्रदर्शनार्थम् | श्रीनिवास इति विशेषपदं नारायणादिविशेषशब्दानां प्रदर्शनार्थम् । पशुना यजेत छागस्य वपाया मेदसः” इत्यत्र “ छागो वा मन्त्रवर्णात् " इति सूत्रोक्तन्यायेन पशुशब्दस्य छागपर्यवसायित्वनिर्णयात् सामान्यवाचिपदानां विशेषवाचिपदे सति तत्पर्यवसायित्वात् सब्रह्मात्मादिसामान्यशब्दानां नारायण पर्यवसानं सूचितम् । श्रीनिवासशब्दस्यावयवशक्त्या नित्यविभूतिमत्त्वं सूचितम् । रूढि- शक्त्या त्रिमूर्तिसाम्यं तदैक्यं ब्रह्मणस्तदुत्तीर्णत्वं च निषिद्धम् । ईश्वर एव ब्रह्म स त्रिमूर्त्य 66 , 99 66

एव विशेषे श्रुतप्रकाशिका ९ तिरिक्तः सदाशिवः, ब्रह्मादयस्त्रयोऽप्यनीश्वरा इति पक्षश्च व्युदस्तः । परस्मिन्निति 966 O "" परमतः सेतून्मान ” इत्यधिकरणार्थसूचनम् । तेनोपेयान्तरव्यावृत्तिः, “ ब्रह्मविदाप्नोति परम्" इत्यत्र प्राप्यस्य परशब्देनाभिधानात् ; यद्वा, कारणत्वशङ्कितदोषव्युदासाय “ न स्थानतोऽपि ” इत्यधिकरणसिद्धं शोधकवाक्योक्तमुभयलिङ्गतया वैलक्षण्यं सूचितम् । अथोपायस्वरूपं वदति–शेमुषीति । अयं सामान्यशब्दः ; भक्तिरूपेति विशेषशब्दः । अत्रापि “ छागो वा मन्त्रवर्णात् " इति न्यायोऽभिप्रेतः । शेमुषीशब्दोपादानेन ज्ञानकर्मस- मुच्चयव्यावृत्तिः । भक्तिरूपेति वाक्यार्थज्ञानव्यावृत्तिः । " शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् 99 " भक्त्या त्वनन्यया 66 ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च इत्युक्तप्रकारेण ज्ञानदर्शनप्राप्तिसाधनभूता भक्तिरप्यत्र विवक्षिता, अविशेषेण भक्तिरूपेत्यु- क्तत्वात्। “ अहमस्म्यपराधानामालयः" इत्याद्युक्तप्रकारेण स्वात्मानमनुसंधायाह – ममेति । भवत्विति भक्तेरेव स्वादुतमतया प्रार्थनीयता सूचिता । यद्वा न हि भक्तिः सर्वेभ्योपि स्वदत इत्यत्राह - ममेति । मम प्रतिबन्धकपापरहितस्य ; शान्तपित्तस्य हि क्षीरे स्वादुतमता- बुद्धिरिति भावः । रक्षैकदीक्षे परस्मिन्नित्यन्तैः सप्तम्यन्तैः पदैरुपेयभूत एव सिद्धोपाय उक्तः भक्तिरूपेति साध्योपायः । । ० 4 ; अत्र श्लोके शास्त्रप्रतिपाद्यैकदेशभूतः परपक्षप्रतिक्षेपश्चार्थात्सूचितो भवति । जन्मस्थेमभङ्गादिशब्देन युगपत्सर्गादिकमनभ्युपगच्छन्तो भाट्टप्राभाकरा व्यावर्तिताः । लीलाशब्देन साक्षिमात्रेश्वरवादि हैरण्यगर्भव्युदासः । विनतेत्यादिपदेन जीवानां परस्परं ब्रह्मणा चाभेदमभ्युपयन्तो ब्रह्माज्ञानवादिनोऽपास्ताः । श्रुतिशिरसीत्यनेन वेदबाह्य चार्वाकबौद्धार्हत- निरासः । तेनैव पदेनानुमानिकेश्वरवादिनो व्युदस्ताः । ब्रह्मणीत्यनेनाब्रह्मात्मकप्रधानपरमाणु- कारणवादिसांख्यवैशेषिकादिव्युदासः । श्रीनिवासशब्देन पाशुपतादिव्युदासः । अनेनै- वेश्वरोत्तीर्णब्रह्मवादिनो भेदाभेदवादिनो निरस्ताः । शेमुषीशब्देन ज्ञानकर्मसमुच्चयो- पायवादिव्युदासः । भक्तिरूपेति वाक्यार्थज्ञानमात्रोपायवादिव्युदास इत्येवमनुसंधेयम् । ९. यद्यपि तत्र सूत्रे परशब्दोऽन्यवाची, अत्र तु उत्कृष्टवाचीति वैषम्यम्, तथापि तत्र प्राप्यान्तरनिषेधेन ब्रह्मण एव प्राप्यत्वस्य स्थापनात् प्राप्यविशेषवा- चिना परस्मिन्नित्यनेन तदधिकरणार्थ सूचनमिति भावः । यद्वेत्यादिव्याख्यान्तरे तु उभयत्र परशब्दस्योत्कृष्टवाचित्वम्; परं तु परस्मिन्नित्यनेन नोभयलिङ्गस्य साक्षा- त्प्रतिपादनं, किंतु अर्थात् सिद्धिरिति भेदः । 2

08:19807: 5 श्रीमते रामानुजाय नमः । श्रीरङ्गरामानुजमुनिविरचिता श्रुतप्रकाशिकाव्याख्या भावप्रकाशिका | येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ अतसीगुच्छसंच्छायमञ्चितोरः स्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थं प्रचयगमनार्थं च स्वाचार्यस्य वरद- गुरोरिष्टदेवतारूपं हस्तिगिरीश्वरं भगवन्तं वरदप्रणतार्तिहरनामभ्यां प्रख्यापितेष्टप्राप्त्यनि- ष्टपरिहारलक्षणपुरुषार्थदातृभावमत एव शरण्यं शरणमुपगच्छति – वरदं द्विरदाद्री- शमिति । द्विरदाद्रीशमित्यनेन सौलभ्यमुक्तम् । 66 दिङ्नागैरर्चितस्तत्र पुरा विष्णुः सनातनः । ततो हस्तिगिरिर्नाम ख्यातिरासीन्महागिरेः । 66 99 इति पुराणवचनेन दिङ्नागानां तिरश्चामप्यचनीयोऽभूत्तत्रेति प्रतीतेः । श्रीनिधिं करुणानिधिमिति पदद्वयेन शरण्यत्वोपयुक्ते सामर्थ्य कारुणिकत्वे अभि- हिते । श्रियः पत्युर्हि देयद्रव्येषु न दुर्लभं किंचिद्वस्त्वस्तीति नेष्टप्रापणे देयद्रव्या- भावकृतमसामर्थ्यमस्ति । 1 “ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा " इति श्रीनिधेरप्रमेयतेजोनिधित्वेनानिष्टनिरसनेऽपि तेजोविरहलक्षणमसामर्थ्यं न संभवति । हरिमित्यनेनाश्रितानां दुरितं हरतीत्यर्थसिद्धिः । अन्तर्ज्वरम् ; " बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति”,इति न्यायेन विपरीतार्थप्रतिपादनसमुद्भूतं व्याकुलत्वम् । अशी- शमत् ; शमयति स्मेत्यर्थः । शमेर्ण्यन्तात्कर्तरि लुङि चङि रूपम् । यथा योगी स्वशक्तिवै- भवेन परेषां ज्वरं निवर्तयति, एवमयमपि स्वशक्ति वैभवेन श्रुत्यादीनामन्तरं 1. स्मेति सूच्यते । प्रपद्ये प्रणवाकारमिति ; प्रणवाकारं प्रणवसदृशं रङ्गमिव च स्थितमि- त्यर्थः । पूर्वार्धप्रतिपादितं भाप्यस्य रङ्गप्रणवाभ्यां सादृश्यमुत्तरार्धेनोपपादयति– परस्य ब्रह्मण इति ।

19 भावप्रकाशिका " अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृ- 66 न्मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् । उकारोऽनन्यार्हं नियमयति संबन्धमनयो- 0 स्त्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ ० १९ इत्युक्तरीत्या प्रणवस्य शेषित्वप्रकाशकत्वं भाष्यस्य च परमशेषित्व- प्रकाशकत्वं स्फुटमेव । श्रीरङ्गस्यापि परब्रह्मणः शेषशायित्व प्रकाशकत्वेन शेषित्व- प्रकाशकत्वम् 1 यद्यपि श्रीरङ्गस्य • शेषशायित्वलक्षणशेषित्वप्रकाशकत्वम्, भाष्यप्रणवयोस्तु स्वामित्वलक्षणशेषित्वप्रकाशकत्वमिति नैकः साधारणो धर्मः ; तथापि " सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव " इत्यत्रेव श्लेषभित्तिकाभेदा- ध्यवसायमूलया भेदे अभेद इत्येवंरूपया अतिशयोक्त्यैव साधारणधर्मैक्यलाभः । श्रुत्यन्तेष्विति ; अत्र श्रुत्यन्तहृदम्बुजरङ्गधामतुल्यतया भगवदभिव्यक्तिस्थानत्वं भाष्यस्य व्यज्यते । तथा रङ्गधाम्नि यो भगवत्साक्षात्कारः, स एव । " परात्परं पुरिशयं पुरुषमी- क्षते " इति श्रुतिप्रतिपन्नो मुक्तिकालीनश्रवणमनननिदिध्यासनफलभूत इति क्रमवशात् व्यज्यते । प्रमाणं च प्रमेयं चेति ; प्रमाणं वेदः, प्रमेयं तत्प्रतिपाद्योऽर्थः । " मन्त्रे तद्देवतायां च यस्य देवे परा भक्तिः " इत्यादिप्रमाणानुसारेण भाष्यार्थावगमस्य भाष्यतत्कर्तृतत्प्रतिपाद्यभगवत्प्रसादलभ्यत्वं मन्यमानः — भाष्यार्थाधिगमस्य न तत्प्रसाद- लभ्यत्वम्, कृत्स्नभाष्यार्थवेदितुर्भाष्यकारस्य तत्प्रतिपाद्यस्य भगवतो वा ‘अस्य वाक्यस्या- यमर्थः’ इत्येवंरूपाद्वचनाद्भाष्यार्थबोधो भविष्यति - इत्याशङ्कां परिहरति- भाष्यं चेदित्या- दिना । ननु व्यवृणोदित्यत्र " हेतुहेतुमतोर्लिङ्” इति लिङो भविष्यद्विषयत्वात् लिङ् मा- भून्नाम ; मा च भूत् “ लिनिमित्ते लृङ् क्रियातिपत्तौ ” इति लृङ् तस्यापि भवि प्यद्विषयकत्वात् ; " भूते च " इत्यनेन भूते काले लिनिमित्ते क्रियातिपत्तौ विधीयमानो लुङ् कस्मान्नभवतीति चेत् ; अत्राहुः - सत्या अपि क्रियातिपत्तेरविवक्षितत्वाद्वा सतोऽपि हेतुहेतुमद्भावस्याविवक्षितत्वाद्वा लुङ् न भवति ; सोऽप्यविवक्षा दृश्यते - अनुदरा कन्येति । केचित्तु गाम्भीर्यादनवस्थितिरिति गाम्भीर्यहेतुकत्वोक्तेः अनवस्थाने विवरण न हेतुरिति वर्णयन्ति । अष्टादशविद्यास्थानेषु शारीरकस्यैव शास्त्रस्य भगवतो भाष्यकारस्य व्याचिख्यासायां निमित्तमाह – सर्वेषां पुरुषाणामित्यादिना । स्वत एव भगवदभि- प्रायसाक्षात्कारसमर्थानां वेदस्यांमुष्मिक पुरुषार्थप्रतिपत्त्यर्थमनादरणीयत्वादाह — प्रमाणा-



iPho8:19807:10 १२ श्रीभाष्यम् ;


(मङ्गलश्लोकः) धीनप्रमेय निश्चयानामिति । उपादित्सितेति उपादित्सित जिहासितालौकिकेष्टानिष्ट- तत्साधनानामित्यर्थः । अलौकिक पुरुषार्थतत्साधनप्रत्यायकत्वाविशेषेण सांख्याद्यागमबैल- क्षण्ये वेदस्य निमित्तमाह–तत्राप्यपुरुषेति । पूर्वभागे कुतो न व्याचिख्यासेति शङ्का- मपाकरोति—तत्र चेत्यादिना । पूर्वभागे अर्वाचीनफलतत्साधनपरेऽवगत इति योजना | असंदिग्धतयावगते सतीत्यर्थः । पूर्वभागेऽनुपप्लुत इति यावत् । अत्रार्वाचीनेति विशेषणेन वेदान्तभागप्रतिपाद्यार्थविप्लवे महाफलहानिवत् तदंशे तन्नास्तीत्यपि सूचितम् । तदुज्जिजीवयिषया व्याचिख्यासितमित्यन्वयः । निष्कण्टकीकृत्य कृतार्थयितुं भवभ- याभितप्तेत्यन्वयः । तेन उज्जिजीवयिषया कृतार्थयितुमित्यनयोर्न पौनरुक्त्यमिति वदन्ति । केचित्तु उज्जिजीवयिषायाः सदसद्विवेचनचतुरपूर्वाचार्यविरचितमित्यनेनान्वय इति उज्जिजीवयिषां पूर्वाचार्यगतामाहुः । अपरे तु उज्जीवनकृतार्थीकरणयोः द्वारद्वारि- भावेन भेदमाहुः । कुपथप्रवृत्तिनीति ; कुत्सितः पथः कुपथः ; पथशब्देन समासो न पथिन्शब्देन । तेन " कापध्यक्षयोः " इति न भवति । " पथः पन्थाश्च मार्गः स्यात् " इति पथिन्शब्दसमानार्थः पथशब्दोऽकारान्तः । शंकरादि- पठितश्च त्रिकाण्डशेषे कृतानां शारीरकव्याख्यानानामनादरणीयत्वे हेतुमाह - परमर्षिप्रणीतानीति । यत्तदो- नित्यसंबन्धात् अत्र यानीति शेषः । यानि परमर्षिप्रणीतानि शास्त्राणि तेषां महर्षिप्रणीतानि व्याख्यानानि सन्ति चेदित्यर्थः । व्याख्येयानीति गहनार्थत्वसूचकम् । सन्त्यपि तान्यनादृत्य व्याख्येयान्तराणीत्यत्र व्याख्येयान्तरकथनं दृष्टान्तार्थम् ; यथा व्याख्येयान्तराणां शारीरकविरुद्धानामप्रामाणिकत्वं, तथा बोधायनव्याख्यानविरुद्धानां चशब्दो भिन्नक्रमः । परमर्षिप्रणीतानि व्याख्येयानि तेषां महर्षिप्रणीतानि व्याख्याना - यद्वा तेषां च महर्षिप्रणीतानीत्यत्र नि च सन्ति चेत्, तान्येव व्याख्येयानि व्याख्यानानि चानुरोद्धव्यानीत्यर्थः । नुपलम्भादिति ; " सर्वत्र प्रसिद्धोपदेशात्" इत्यत्र व्याख्यानान्तरवर्णनं परमतानु- सारेण कृतम्’ । अनन्तरमेव वृत्तिकारोक्तार्थवर्णनात् ; अतो न तद्विरोधः । पूर्वभा- गार्थानां शिक्षणीयत्वमिति ; अरुणाधिकरणादिष्विति भावः 66 शंकरादिकृतव्याख्यानानामप्रामाणिकत्वमित्यर्थः । बाधका 1 इष्ट- सुस्पष्टो १. परमतसिद्धान्तिमतयोरेकत्र प्रदर्शने रत्नाङ्गारयोरिव तरतमभावः भवेत् । परमतस्य च स्वरूपव्याक्रियैव पराक्रिया । परैस्तु वृत्तिकारविरुद्ध एवार्थः सिद्धान्ततया वर्णित इति भावः । CC-0 No Rights Reserved. Digitized by eGangotriभावप्रकाशिका १३ ‘देवतोपासनरूपं मङ्गलमिति ; उपासनाशीरूपं मङ्गलमित्यर्थः । अत एव वक्ष्यति ’ वस्तुनिर्देशो भवत्वित्याशीर्वादश्च कृतौ भवतः ’ इति । केचित्तु भक्तिप्रार्थनमंपि भक्तिरूपमिति मन्यन्ते । यद्वा, उपासनस्य स्वतोऽनुकूलत्वमवगम्य तत्प्रार्थयमानेन तस्याप्यनु- ष्ठितत्वसंभवादेवमुक्तमिति द्रष्टव्यम् । मङ्गलाचारयुक्तानामिति ; न चेदं वचनं जपहोमादितुल्यतया आदर्शदर्शनादिमङ्गलाचारस्य विनिपातनिवृत्तिहेतुत्वावगमकं, न त्वारम्भकाले मङ्गलकर्तव्यतायां प्रमाणम् ; अत एव मङ्गलानुष्ठाने आचारमेव प्रमाणयन्तीति " वाच्यम् - समाप्तिप्रतिबन्धकस्यापि विनिपातशब्दार्थत्वेन मङ्गलाचरणस्य विघ्ननिवारकत्वा- वगमकत्वेन प्रामाण्यसंभवात् । यथा चोदनासूत्र इति ; " चोदनालक्षणोऽर्थो धर्मः " इति सूत्रे यश्चोदनालक्षणः स धर्म इति धर्मस्वरूपे कथिते, यथा चोदनैव प्रमाणमित्यर्था - दुक्तं भवति तथेत्यर्थः । प्रह्वीभावावगमात् प्रणतिरपि फलितेति ; प्रणतिरप्यनुष्ठिता भव- तीत्यर्थः । ननु विनतेत्युक्तिमात्रेण कथं प्रणतिरप्यनुष्ठितेत्यवसीयते : तथा सति ’ उपासकानां ‘भगवान्मोक्षप्रदः’ इत्युक्तिमात्रेण एतद्वाक्यप्रयोक्तणां सर्वेषामप्यनुष्ठितोपायत्वप्रसङ्गे मोक्ष- प्रसङ्ग इति चेत्-न; अतिसुकरस्य प्रणामस्य रक्षादीक्षारूपेष्टसाधनत्वमवगम्य तदन्येषामप्युपदिशता भाष्यकृता साप्यनुष्ठितेत्युक्तेर्विरोधाभावात् । णमु प्रहृत्वे इति हि धातुरिति ; ननु भक्तिविनतशब्दयोः प्रह्वीभावावगमकत्वमुपन्यस्य भक्तिशब्दस्य प्रह्वीभावागमकत्वोपपादकानुपन्यासेन नमेस्तदुपन्यासोऽसंगतः । न च “भक्तिशब्दे प्रह्वीभावावगमकत्वस्योपपादकनिरपेक्षतया तदनुपन्यास इति वक्तुं शक्यम् ; प्रत्युत भक्तिशब्दस्यैव प्रहृीभावार्थकत्वस्याप्रसिद्धत्वेन तदुपपादकसापेक्षतया तदुपन्यास एव हि युक्त इति चेत् — मैवम् ; भक्तिविनतिशब्दयोश्च काय्र्थं वक्तव्यम् ; रक्षा हेतुत्वं विनतेरुपन्यस्य तदतिरिक्ताया भक्तेः प्रार्थने किं तेन संगतं अतो भक्तिविनतिशब्दयोरैकार्थ्यात्प्रक्रमस्थविनतशब्दस्य " णमु प्रहृत्वे " सारणार्थे कथिते भक्तिशब्दस्याप्यर्थः कथितः । यथा- इत्युक्तम् । 66 विदितः स हि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥ 99 इतरथा स्यात् ? इति स्मृत्यनु- इत्यत्र मैत्र्याः शरणागतिरूपत्वसिद्धिरिति मत्वा ‘णमु प्रहृत्वे इति हि धातु: न च नमः प्रह्वीभावार्थकत्वे विनतशब्दस्य न्यासोपासनाख्यविद्याविशेषनिष्ठ-

१४ श्रीभाष्यम् (मङ्गलश्लोकः) परत्व न स्यादिति वाच्यम्, उपसर्गबलेन ज्ञानविशेषविशिष्टप्रह्वीभाववाचकत्वसंभवेन विद्याविशेषवाचित्वसंभवात् । विषयविषयिरूपेणेति ; विषयो ब्रह्म, उपासनफले विषयिणी । न चोपासनस्य तृतीयाध्यायप्रतिपाद्यस्य विषयित्वेऽपि कथं फलस्य चतुर्थाध्याय- प्रतिपाद्यस्य विषयित्वमिति वाच्यम् ; फलभूताया मुक्तेरपि भगवदनुभवरूपतया विषयत्वेन क्रोडीकारसंभवेनादोषात् । भवतीति भुवनमिति : यद्यपि भुवनशब्दः 66 भूसूधू- भृस्जिभ्यश्छन्दसि " इति छन्दसि निपातितः, तथापि " वा भुवनम् " इत्यत्र " बहुल- स्मरणात् भाषाविषयत्वमप्यस्ति " इति वैयाकरणोक्तेरदोषः । रूढिशक्त्या कुलालदिव्या- वृत्तिरिति ; यद्यपि योगोऽतिप्रसक्तः, तथापि रूढ्या तन्निरास इति भावः । यद्यपि रूढयन- भ्युपगमेऽपि अखिलशब्देनैव कुलालादिव्यावृत्तिसिद्धिः, तस्याखिलकार्य हेतुत्वाभावात् ; किंच लीलापदेनापि व्यावृत्तिसिद्धिः, प्रयोज्यरूपघटगत जन्मादिव्यापारस्य कुलाललीलात्वा- भावात् ; तथापि इतरपदनिरपेक्षस्यापि भुवनशब्दस्य कुलाला दिव्यावर्तकत्व- सिद्धिरित्यभिप्रेत्य तथोक्तमिति द्रष्टव्यम् । अण्डजातानीति ; अण्डान्तर्वर्तीनि भुवनानि विवक्षिलानीत्यर्थः ; न त्वण्डसमूहा इति, भुवनशब्दस्याण्डवाचित्वाप्रसिद्धेः । किंच ब्रह्मणोऽण्डोत्पादकत्वगन्धाभावेन तव्यावृत्त्यर्थं साकल्यस्याप्यविवक्षणीयत्वापातात् । केचित्तु अण्डजातानि अण्डसमूहा अपीत्यर्थः तेषामपि विपुलतर कार्यविशेषरूपत्वेन भुवनवा - च्यत्वसंभवात् । न चैवं ब्रह्मणोऽण्डानुत्पादकत्वेन तत एव तद्व्यावृत्तिरिति वाच्यम्, अखिलपदाभावे भूलोकादिलक्षणयत्किंचिद्भुवनजनकत्वस्य चतुर्मुखादावपि संभवेन तद्व्यावृत्त्यर्थत्वेनाखिलपदस्य सप्रयोजनत्वात् । नञो निषेधवाचित्वेऽपि निषेध्यवशात् शुभत्वाशुभत्वे इति ; ननु यद्यत्र भुवनवैकल्यस्य निषेध्यस्याशुभत्वात् तन्निषेधस्य शुभत्वं, तर्हि " अखिल हेयप्रत्यनीक " इत्यत्र अखिलशब्दस्य भगवच्छरणागतिवाक्योपक्रमगतस्य हेयवैकल्यनिषेधवाचिनः शुभत्वं न स्यात्, निषेध्यस्य हेयवैकल्यस्य शुभत्वादिति चेत्-र ; तत्रापि " अखिल हेयप्रत्यनीक " इत्यत्र निवर्तकवाचिप्रत्यनीकशब्देन निवृत्तिक्रियाव्यापारा- विषयत्वं हेयगतं निषिध्यते ; हेयगतं च निवृत्तिक्रियाव्यापाराविषयत्वमशुभमेवेति तन्निषेध- स्यापि शुभत्वात् । चिदचिद्भेदोऽप्यभिप्रेत इति ; अखिलशब्दस्य सर्वशब्दपर्यायतया सर्वत्वस्य बहुष्वेव वृत्तेः “ पृथक्त्वनिवेशित्वात् संख्यया कर्मभेदः स्यात् " इति न्यायेन बहुत्वस्य भेदगर्भतया भुवनानां भेदः सिद्धो भवति । न च सर्वशब्दस्य बहुत्वसापेक्षत्वम- संप्रतिपन्नमिति वाच्यम् ; विश्वजित्सर्वपृष्ठ: " ’ इत्यत्र सर्वपृष्ठशब्दस्य चोदकप्राप्त- 66

S 66 Q भावप्रकाशिका १५ — ज्यौतिष्टोमिकपृष्ठानुवादित्वं न संभवति, ज्योतिष्टोमे द्वयोरेव पृष्ठयोः सत्वेन तत्र बहुत्व- सापेक्षस्य सर्वशब्दस्याप्रवृत्तेः ; अपितु षाडहिकानां बृहद्रथन्तरवैरूपवैराजशा कर रैवतानां विधिरिति सप्तमे स्थितत्वात् । स्थेमा स्थितिरिति ; न स्थिरत्वमित्यर्थः ; अयमाशयः यद्यपि स्थिरशब्दादिमनिच् न संभवति, पृथ्वादिष्वस्य पाठाभावात् ; अत एवोक्तं वृत्तौ “ प्रियस्थिरेति सूत्रे प्रियशब्दस्य पृथ्वाद्यपाठादिमनिच् नोदाह्रियते " इति ; तथापि तिष्ठतेरैणादिक इमनिच्प्रत्ययो बहुलवचनात् जनिमवेमादिवद् द्रष्टव्यः । प्रसिद्धश्चायं शब्दः ● शिष्टप्रयोगेषु “ द्राधीयांसः संहताः स्थेमभाजः " इत्यादिषु । “निखिलजगदुदयविभवविलय” इत्यत्र विभवपदेन स्थितिरुच्यते । ननु मोक्षस्य पृथनिर्देशं सिद्धवत्कृत्य खलु तस्य भङ्गादि - शब्दयोरनन्तर्भाव उक्तः ; स न युक्तः, पृथक्कीर्तनस्यास्मिन् श्लोके अदर्शनात्, रक्षा- पदस्य स्वर्गादिफलप्रदत्वप्रतिपादकत्वादित्याशङ्क्य रक्षापदस्य स्वर्गादिफलप्रदत्वप्रतिपाद नानौचित्यं दर्शयति – विनतेत्यादिपदेनेति 1 अध्यासपरिणामपक्षयोरिति ; 99 6 अध्यासपक्षः शांकरः, परिणामपक्षो यादवभास्करीय इति द्रष्टव्यम् । तस्यार्थत्वाभावे- नेति; अभेदे अन्तःप्रवेशासिद्धेः स्वमत एवान्तःप्रवेशश्रुतिस्वारस्यसंभवात् स्वमते अध्यासपरिणामपक्षवैलक्षण्यसिद्ध्घर्थमन्तःप्रवेशनियमनसंभवस्य पृथग्वक्तव्यत्वादित्यर्थः । विस्तरेणोक्तस्येति ;“ जगदुद्भवस्थितिसंहारान्तःप्रवेशनियमनादिलीलम् ” इति ग्रन्थकृतै- वान्यत्र विस्तरेणोक्तस्यादिपदेन संक्षेपेणोक्तौ विवक्षितत्वोपपत्तेरित्यर्थः । प्रयोजकव्या पारो हि लीलेति । ननु स्वतन्त्र कर्तृप्रयोजकराजव्यापाररूपप्रेषणादेः लीलात्वादर्शनात् बाललीलाप्रयोजकतत्पितृव्यापार भूर्तप्रार्थनादेर्लीलात्वाभावाच्च प्रत्युत प्रयोज्य भूतबाल- व्यापारस्यैव लीलात्वदर्शनाच्च कथमेतदिति चेत्-न ; तद्व्यापारस्तस्य लीला, नान्यव्यापारः इत्यत्र तात्पर्यात् । न चैवं नटविटविदूषकादिव्यापारस्य परिहासादेः राजलीलात्वं न स्यादिति वाच्यम् ; ‘इष्टापत्तेः ; तत्र लीलारसनिष्पादकत्वेन लीलापदस्य औपचारिकत्वात् । न च 66 लोकवत्तु लीलाकैवल्यम्” इति सूत्रे भगवता भाष्यकृता जगज्जन्मस्थितिध्वंसादे - लैव प्रयोजनमिति जन्मादेर्लीलाप्रयोजकत्वोत्त्या लीलात्वाभावस्य सूचितत्वात् इह जन्मादिषु प्रयुज्यमानो लीलाशब्द औपचारिक एव स्यादिति वाच्यम् ; परिपूर्णा- नन्यप्रेर्यस्वच्छन्दपुरुषकार्यचेष्टाविशेषे लीलाशब्दस्य प्रचुरप्रयोगसत्त्वेन जन्मस्थित्यादेरपि मुख्यलीलात्वस्य सिद्धान्त्यभिमतत्वात् ; " लोकवत्तु लीलाकैवल्यम् " इति सूत्रभाष्य-

-१६ ७ श्रीभाष्यम् (मङ्गलश्लोकः) स्यापि जगज्जन्मादेर्लीलात्वपरतया व्याख्यास्यमानत्वाच्च । भङ्गस्य लीलात्वे युक्ते- ऽपीति । न च भङ्गस्य नाशरूपत्वात् नाशस्य च जन्मस्थित्यादिवत् प्रयोज्यगतत्वाविशेषात् कथमर्धवैशसेन भङ्गस्य लीलात्वाभ्युपगम इति वाच्यम्; घटो विनश्यतीतिवत् घटो भनक्तीति प्रयोगाभावेन तयोर्भिन्नत्वात् । अत एव घटो जायते घटस्तिष्ठतीतिवत् घटो भनक्तीति प्रयोगाभावः । घटकर्तृकव्यापारौ जन्मस्थिती, भङ्गस्तु न तयापार इति विवेकः । लीलत्वकथनेनोपादानत्वं फलितमिति ; जगज्जन्मस्थित्योः परमात्मलीला- त्वकथनेन परमात्मसमवेतव्यापारत्वोत्त्या परमात्मन एव भाव्यवस्थावत्त्वेन उपादानत्वलाभा- दिति भावः । ननु भूतशब्दस्य लब्धसत्ताकार्थकत्वे लब्धसत्ताकानां तेषां परमात्मसाध्या रक्षा कीदृशीत्याशङ्क्याह—लब्धस्वरूपाणां चेति । ननु लब्धस्वरूपाणां स्वरूपाप्रच्युते- भगवद्भरत्ववदलब्धस्वरूपाप्पां स्वरूपलाभरूपरक्षाया अपि भगवद्भरत्वात् कथं लब्ध- स्वरूपाणां रक्षैकदीक्ष इति पृथक्कृत्त्योच्यत इति चेत्, आनुकूल्यावस्थायां तद्रक्षाया निमित्तान्तरनैरपेक्ष्येण तत्र विशिष्योक्त्युपपत्तेः । षष्ठ्याः संबन्धमात्रविषयत्वादिति : ननु यद्यपि संबन्धवाचिनी षष्ठी, तथापि यस्य विशेषस्याभिव्यञ्जकमस्ति तत्रैव पर्यवस्यति ; यथा देवदत्तस्येत्यभेदेन प्रवृत्ता षष्ठी पुत्रः पाणिः कम्बल इति प्रतिसंबन्धिवशेन पितृत्वावयवित्वस्वामित्वरूपविशेषेषु पर्यवस्यति ; न हि देवदत्तस्य पुत्र इत्युक्ते देवदत्त- स्वामिकमन्यपितृकं पुत्रं प्रतियन्ति । ततश्च भूताभूतत्राते भूतत्रातशब्दस्य सापेक्षम समर्थ - मिति न्यायेन अग्नीषोमीये आग्नेयशब्दवदसामर्थ्यादप्रवृत्तिः । अथवा, छत्रिन्यायेन लक्षणा वा समाश्रयणीया स्यात् । राजपरिषदित्यादौ तु परिषत्सेनादिशब्दानां समुदायि- विशेषविशिष्टसमुदायवाचिनां नैकान्ततः समुदाय्यपेक्षा ; यथा वनघटादिशब्दानां तरु- यजादिसमूहवाचिनामन्तर्भावित समुदायिकतया न समुदाय्यपेक्षा, यथा वा पुत्रीयति जीवतीत्यादीनामन्तर्भावितेषिधारणकर्मकाणां न कर्मापेक्षा । ततश्च परिषदादिशब्देषु स्वा- म्याकाङ्क्षामात्रं ’ किस्वामिका परिषत्’ इति । ततश्च राजपरिषदित्यत्र राज्ञः स्वामित्वे- नान्वयः राजस्वामिका परिषदिति । ततश्च तत्राप्यराज्ञां स्वामित्वमेव वार्यते । न च परिषच्छ ब्दतुल्य एवायं वातशब्दो न समूहादिशब्दवदिति वाच्यम्; तर्हि तथैव वक्तव्यत्वेन संबन्धमात्रस्य षष्ठयर्थत्वप्रसाधनवैफल्यादिति चेत् — सत्यम् ; समूहशब्दपर्याय एवायं व्रातशब्दः " समूहनिकरत्रात " इति कोशपाठात् ; तथापि तस्यानर्थक्यप्रसङ्गात्

भावप्रकाशिका १७


विवक्षितविशेषसिद्धिरित्यत्र तात्पर्यात् । इतरथा विनतविविधभूतेत्यनेनैव विवक्षितार्थसिद्धौ व्रातशब्दवैयर्थ्यप्रसङ्गात् । अत एव वक्ष्यति — एवं च व्रातपद प्रयोगस्यार्थवत्त्वं स्यादिति । ब्रह्म- जिज्ञासेति सूत्रे संबन्धसामान्यषष्ठीपरिग्रहे ब्रह्मसंबन्धिनामपि जिज्ञास्यत्वं सिध्यतीति सर्वैरपि भाष्यकृद्भिर्व्यवहृतत्वाच्च । अत्र व्रातशब्दस्य " पशुर्मनुष्यः पक्षी वा " इत्यादिप्रमाणानुसारे- णानियतवृत्त्युत्सेधजीववाचित्वं केचिन्मन्यन्ते ; उक्तं च काशिकायां वृत्तौ " त्रातच्फञो- रस्त्रियाम् " इत्यत्र – “ व्राता अनियतवृत्तय उत्सेधजीविनः” इति ; उत्सेधजीविनः शरीरप्रया- “सजीविन इत्यर्थः । काममात्मानम् " इत्यादिस्मृतेर्भगवदाज्ञारूपायाः संसारिचेतनमात्र- विषयत्वात् कथमनया स्मृत्या भगवतोऽपि संश्रितरक्षणानुष्ठानस्याभिमतत्वसिद्धिरित्यत आह - ईदृशीति । परत्वसौलभ्ये च समाश्रयणीयतानिमित्ततयेति । ननु अखिले- त्यादिप्रथमपादप्रतिपाद्यस्य जगत्कारणत्वस्य परत्वपर्यवसितत्वेऽपि विनतविविवेतिद्वितीय- पादप्रतिपाद्यस्य मोक्षप्रदत्वस्य कथं सौलभ्यपर्यवसितत्वम् ? न हि पुरुषार्थप्रदत्वमात्रेण 1. सौलभ्यं सिध्यति, तथा सति कल्पककनकाचलादेरपि सौलभ्यप्रसङ्ग इति चेत् — मैवम् ; दातृत्वस्यापि सौलभ्यपर्यवसितत्वात् । उक्तं हि अभिगम्यत्वमोक्षप्रदत्वलक्षणं सौलभ्यमिति वक्ष्यति च ग्रन्थकारः “ अन्तस्तद्धर्मोपदेशात् “इत्यत्र- " कारुण्य सौशील्यादीत्यत्र कारुण्य- सौशील्यवात्सल्यौदार्याणि सौलभ्योपयुक्तानि " इति । ततश्च नानुपपत्तिः । " य एनं विदुरमृ- तास्ते भवन्ति” इति मोक्षप्रदत्वलक्षणं सौलभ्यमित्यर्थः । सं बाहुभ्यां नमतीत्यादि ; पतत्रैः कर्मभिः द्यावापृथिवी संजनयन् परमात्मा स्वाश्रितविषये बाहुभ्यां संनमति सम्यक् प्रह्वीभवति प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन् ” इत्यादिस्मृतेरित्यर्थः । विदीप्त इत्यत्र विशब्दस्य दीप्तिमात्रव्यावर्तकत्वस्य स्वरसतः प्रतीयमानत्वात् पूर्वभाग- प्रतिपाद्यत्वरूपविशेषणविशिष्टतया दीप्तमित्यस्यार्थस्य स्वरसतोऽप्रतीतेराह – यद्वा क्षुद्रसुखेति । केचित्तु द्वितीयपक्षे दीप्तिविदीप्त्योर्भिन्नविषयतया अस्वारस्यं मन्यमानाः प्रथममेव पक्षं रोचयन्ते । ते च तद्वाक्यमेवं योजयन्ति – अग्न्यादिरूपतया पूर्वभागेऽपि ब्रह्मणः प्रतिपाद्यत्वमस्त्येव, " तदेवाग्निस्तद्वायुः " इति उपनिषद्वाक्येन तथैव ज्ञायमान- त्वात् । वेदान्तभागे तु विशेषेण दीप्तमिति ; अद्वारकतयेत्यर्थः । व्युत्पत्ति- लक्षणसौष्ठवाभाव इति ; व्युत्पत्तिसमर्थनं प्रथमाधिकरणे; लक्षण सौष्ठवसमर्थनं जन्माद्य- धिकरणे । रूढिशक्त्येति ; रूढत्वात् श्रीनिवासे ब्रह्मणीत्यनेन नारायणस्यैव ब्रह्मत्वावि- 3 66 CC-0 No Rights Reserved. Digitized by eGangotri१८ श्रीभाष्यम् (मङ्गलश्लोक :) ष्करणादिति भावः । ब्रह्मणस्तदुत्तीर्णत्वं चेति ; भेदाभेदवादिपक्ष इत्यर्थः । वक्ष्यति हि श्रीनिवासशब्दं प्रस्तुत्य — अनेनैवेश्वरोत्तीर्णब्रह्मवादिनो भेदाभेदवादिनो निरस्ता इति । परस्मिन्नित्यनेन “ ब्रह्मविदाप्नोतिपरम् ” इति श्रुतिगतपरशब्दार्थसूचनमुखेन 66 परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः " इत्यधिकरणार्थस्य प्राप्यान्तरव्युदासस्य परशब्द प्रत्यभिज्ञया " न स्थानतोऽपि परस्य " इत्यधिकरणार्थस्य उभयलिङ्गत्वस्य वा स्मरणं संभवतीत्यभिप्र- यन्नाह - परस्मिन्नित्यादि । वस्तुतोऽर्थद्वय सूचनमपि संभवतीति ध्येयम् । अवि- शेषेण भक्तिरूपेत्युक्तत्वादिति । नच " अत्रापि ’ छागो वा मन्त्रवर्णात्’ इति न्यायो - ऽभिप्रेतः” इति पूर्ववाक्येन, " शेमुषी भक्तिरूपेति भक्तिरूपज्ञानस्योपायत्वं प्रागुक्तम् ; कथमि- दानीं प्रीतिरूपध्रुवानुस्मृतेरुपायत्वं प्रतिपाद्यत इत्यत्राह – एवंरूपेति ; एवंरूपा साक्षात्कार - प्रीतिरूपत्वपर्यन्ता ध्रुवानुस्मृतिरेव भक्तिशब्दवाच्येत्यर्थः ” इति लघुसिद्धान्तग्रन्थेन च विरोधः शङ्कनीयः ; एतस्य मतान्तरत्वेनादोषात् । रक्षैकदीक्षे परस्मिन्नित्यन्तैरिति ; अत्र रक्षैकदीक्ष इत्यस्मात्परम् ’ इति ’ शब्दोऽध्याहर्तव्यः ; ततश्चेत्थं योजना — परस्मिन्नि- त्यन्तैः प्रतिपादित उपेयभूत एव रक्षैकदीक्ष इति सिद्धोपाय उक्त इति । ततश्च रक्षै- कदीक्ष इति पदोपादानवैयर्थ्यं न चोदनीयमिति द्रष्टव्यम् । भाट्टमाभाकरा व्याव- र्तिता इति । भुवनशब्दस्य विपुलतरकार्यविशेषवाचितया तत्सर्गस्य " न कदाचिदनीदृशं जगत् " इति वदद्भिरनभ्युपगतत्वादिति भावः । श्रीमते रामानुजाय नमः | श्री सुदर्शन भट्टारकविरचिता श्रीभाष्यव्याख्या श्रुतप्रदीपिका । वरदं द्विरदा द्विशेखरं कमलाया दयितं दयानिधिम् । सकलार्थिजनार्थितप्रदं प्रणमामि प्रणतार्तिहारिणम् ॥ वेदान्तसूत्रभाष्यार्थमाचार्योपासनाच्छुतम् । गिरा दीपिकेवाहं दर्शयिष्ये यथामति ॥ 1

कुर्वन्नार्थं श्रुतप्रदीपिका. १९ आरिप्सितप्रबन्धस्याविघ्नपरिसमाप्तिप्रचयगमनार्थमिंष्टदेवतोपासन लक्षणमङ्गलं श्रुत्या प्रतिपाद्यं संक्षेपतः श्रोतृबुद्धिसमवधानाय दर्शयति — अखिलेति । प्रथमेन पादेन प्रथमद्विकार्थसंक्षेपः, द्वितीयेन तूत्तरस्य । भवतीति भुवनं कार्य- कतिपयकारण चतुर्मुखादिव्यावृत्त्यर्थमखिलशब्दः । प्रायिकत्वनिवृत्त्यर्थं सक- जातम् । रूपः । 99 इति । 99 1 लेत्यनुक्तिः । " अज्ञातं नास्ति” इतिवदखिलेति व्यतिरेकोक्तिः । अकारोपक्रमत्वसिद्धये निखिलेत्यनुक्तिः । तस्य भगवद्वाचकत्वशक्तियोगात्तदविवक्षायामपि माङ्गलिकत्व - मकारस्य । नञो मङ्गलेतरत्वं निषेध्यविशेषापेक्षया, न स्वतः । अत्र तु वैकल्यनिषेधेन पौष्कल्यपरत्वात् माङ्गलिकत्वमेव । जन्म त्रिविधम् । स्थेमा – अन्तर्यामिविष्ण्व- वतारादिमुखेनैव करणीया विविधा स्थितिः । भङ्गः – नित्यनैमित्तिकप्राकृत- मोक्षस्य लयान्तर्भावेऽपि शास्त्रस्य प्रधानप्रयोजनतया विषयवत् पृथगेव वक्तव्यत्वादनेकार्थसाधारणेन शब्देन तमन्तर्भावयितुमयुक्तम् । अतो हि पूर्वाचार्याः पृथगूचुः

  • " जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे " " जगदुद्भवस्थितिप्रणाशसंसार- विमोचनादयः आदिशब्देनानुप्रवेशनियमनधारणादि गृह्यते ; प्रदेशा- न्तरे " जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिली लम् इति स्वेनैव कण्ठरवेणो- क्तार्थस्वीकारस्यैवोचितत्वात् । “ अप्रमेयोऽनियोज्यश्च” इत्याद्युक्तप्रकारेण सापे- क्षत्वादिव्युदासाय लीलाशब्दः । जनयितृत्वाद्यनुक्त्वा जन्माद्युक्तिरुपादानाभिप्राया; बहु स्यां प्रजायेयेति " इति हि श्रुतिः । लीलाशब्देन निमित्तत्वं द्योतितम् । अवाप्तसमस्तकामस्य व्यापारानुपपत्तिं परिहरतानेन लीलाशब्देन द्वितीयलक्षणार्थश्च सूचितः । अथ द्वितीयद्विकार्थं संक्षिपति – विनतेति । विनतरक्षापदाभ्यां तृतीय- चतुर्थलक्षणार्थी सूचितौ । विशेषेण नताः प्रह्वीभूता उपासकाः ; तद्वैविध्यं “ तदुप - येपि बादरायणः संभवात् ” इत्यादिवक्ष्यमाणप्रकारेण । भूताः ; भगवज्ज्ञानेन लब्धसत्ताका इति भावः ; “आस्त ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति” इति । विनतभूतसंबन्धी व्रातो विनतभूतत्रातः । " आस्फोटयन्ति पशुर्मनुष्यः पक्षी वा " इत्याद्यर्थोऽभिप्रेतः । रक्षा इष्टप्रापणानिष्टनिवारण- एकशब्दः प्राधान्यपरः " अप्यहं जीवितं जह्याम् " काममात्मानं भार्यो श्रुतेः पितरः 99 66 लक्षणा | व्रातशब्देन पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् " इति युक्तम् । सा प्रधाना दीक्षा यस्य तत्तथोक्तम् । दीक्षाशब्देनावर्जनीयत्वं गर्भितम् ; " एतद्वतं मम " इति हि तदुक्तिः । अथ शास्त्रोपो-

२० श्रीभाष्यम् (मङ्गलश्लोकः) द्धातचतुःसूत्र्यर्थमाह – श्रुतीति । ब्रह्मणो मानशून्यत्वान्यमानकत्वव्युदासेन शास्त्रार- म्भणीयता हि तदर्थः । श्रुतिशब्दः प्रमाणवैलक्षण्यं द्योतयति ; श्रूयते नित्यमिति हि श्रुतिः । शिरः शब्देनानन्यपरभागोक्तिः । विदीप्तिः विशेषेण दीप्तिः; अग्न्यादिरूपेण कर्माराध्यताया अपि वेदान्तावगतत्वं ब्रह्मणः स्वतोऽनन्तपुरुषार्थत्वं चाभिप्रेत्य विशेषेण दीप्तत्वमुक्तम् । ब्रह्मणीति सामान्यशब्दः । श्रीनिवास इति विशेषशब्दः । अत्र छागो वा मन्त्रवर्णात् ” इति न्यायोऽभिप्रेतः । त्रिमूर्त्यैक्यसाम्योत्तीर्णत्वादिव्युदासो · नित्यविभूतियोगश्च फलितः । भिप्रेतः । 1 श्रीनिवासशब्देन रूढितोऽवयवतश्च परस्मिन्निति " परमतः सेतून्मान " इत्यत्र निर्णीतं प्राप्यत्वं विवक्षितम् । अथोपायोपेयात्मके प्रतिपाद्ये विनतपदसूचितमुपायांशं विशिनष्टि शेमुषी भक्तिरूपेति । अत्रापि छागपशुन्यायोऽ- पदद्वयेन धीकर्मसमुच्चयवाक्यार्थ ज्ञानमात्रोपायत्वव्युदासः । स्वनिक- र्षाभिप्रायेणाह — ममेति । भवतु – फलान्तरादेतद्विषयोपायः स्वादुतम इति भावः । एवं परमविषयो दर्शितः । प्रयोजनं चात्रातिसंक्षिप्तम् । ८ श्रीमते रामानुजाय नमः । श्रीमेघनादारिसूरिविरचिता श्रीभाष्यव्याख्या नयप्रकाशिका | श्रीमदात्रेयनाथार्यान् गुरून्नः परमान् गुरून् । श्रीरामप्रमुखान् सर्वान् श्रीमद्रामानुजं मुनिम् ॥ १॥ कृष्णद्वैपायनं व्यासं साङ्गान्नायप्रवर्तकम् । सर्वज्ञमञ्जनासूनुं जानकीनायकप्रियम् ॥ २ ॥ जननीं जगतां लक्ष्मीं गरुडध्वजवल्लभाम् । नियन्तारमशेषाणां जीवानामचितामपि ॥ ३ ॥ श्रियः पतिं हयग्रीवं कल्याणगुणसागरम् । निर्मलं चापि जगतां कारणं कमलेक्षणम् ॥ ४ ॥ प्रणम्य लक्ष्मणार्यस्य भाष्ये त्रय्यन्तगोचरे । गम्भीरेऽतिनिगूढानां नयानां तु प्रकाशने ॥ ५ ॥

नयप्रकाशिका प्रयत्नः क्रियते बुद्धधा तत्प्रसादसमुत्थया । यथाश्रुतं • यथाशक्ति मेघनादारिणा मया || ६ || आचार्याणां निबन्धेषु प्राचां प्रौढेषु सत्स्वपि । विवृतौ भाष्यशब्दानां यतस्तेषामुपक्षयः ॥ ७ ॥ भाष्यस्यापि च सुत्राणां पाठगत्यनुधावनात् । शङ्कोत्तरत्वात्तेषां च पूर्वराद्धान्तपक्षयोः॥ ८ ॥ व्यामिश्रत्वादुपन्यासो मन्दधीभिर्न भाव्यते । तेषामप्यतिसंकोचाद्दीपग्रन्थेऽपि कृत्स्नशः ॥ ९ ॥ नोपन्यासः कृतस्तस्मात्तत्प्रवृत्तौ प्रयोजनम् । वेदमार्गानुसारीति जनोऽयं तु कलावपि ॥ १० ॥ दुष्टोक्तावप्यनुग्राह्यो दोषज्ञैरपि पण्डितैः । हन्त सूक्ष्मदृशोऽप्यात्मगुणान् मेरुसमुन्नतान् ॥ ११ ॥ परदोषांश्च निर्वैरा ये न पश्यन्त्यपि स्फुटान् । महान्तस्ते प्रहृष्यन्ति सदुक्तया स्वल्पयापि हि ॥ १२ ॥ क्षीणस्यापि शशाङ्कस्य ज्योत्स्नयेव महार्णवः । प्रपद्य प्राञ्जलिर्याचे वेदार्थनयपण्डितान् ॥ १३ ॥ चिरकालप्रयत्नेन बहुशास्त्रनिरीक्षणात् । महता चावधानेन कृतस्यास्य निरीक्षणम् ॥ १४ ॥ ग्रन्थस्यापि च कार्त्स्न्येन विमर्श गुणदोषयोः । स्वीकार्यो गुणबाहुल्ये त्याज्यो वेतरथा तु सः ॥ १५ ॥ निर्दोषं न हि लोके षु । सर्वारम्भा हि दोषेणेत्युक्तं भगवतैव यत् ॥ १६ ॥ किं वा न दोषवाहुल्यमत्र भावयतः स्वयम् । भाष्यार्थसंशये यस्य स्वप्नेऽर्थान् प्राह भाष्यकृत् ॥ १७ ॥ न्यायोपन्यास पाण्डित्यं यदेतत्संनिरीक्षणात् । जायेत नूनं मन्दानामपि प्राग्रधियां किमु ॥ १८ ॥

२१ २२

  1. श्रीभाष्यम् परव्याख्यादिभङ्गेषु प्रकारावगमोऽपि च । सांख्यादिदर्शनानां च संक्षेपाद्रूपविज्ञाने तन्निरासेऽपि पाटवम् ।
    1. 11 प्रसादे विस्तरो वाचां दुर्ग्रहस्त्वप्रसादतः ॥ २० ॥ अतोऽयं मध्यमां रीतिमवलम्ब्य प्रणीयते । न प्रागल्भ्यमुपन्यासे शब्दव्याख्यानमात्रतः ॥ २१ ॥ केवले चाप्युपन्यासे भाष्यार्थावगमो न हि । तस्मात्तु पूर्वपक्षादेरुपन्यासे कचित्कचित् ॥ २२ ॥ अर्थाव्याख्यास्यते भाष्यं समाप्तावपि पक्षयोः अत्यन्तगहनं भाष्यमुपादायापि शब्दतः ॥ २३ ॥ अन्यत्रापि यथायोग्यं तद्व्याख्या क्रियते स्फुटम् । कर्ममीमांसानभिज्ञज्ञापनाय यथोचितम् ॥ २४ ॥ तत्र तत्र प्रदश्यन्ते न्यायास्तत्रोदिता अपि । अन्या अपि च वैचित्र्यो निरीक्ष्या ग्रन्थ एव तु ॥२५॥ प्रणम्य याचे भूयोऽपि प्राज्ञानस्य निरीक्षणम् ॥ प्रणिपातप्रसन्ना हि साधवोऽभीष्टदायिनः ॥ २६ ॥ (मङ्गलश्लोकः) ग्रन्थस्योपक्रमे निर्विघ्नपरिसमाप्त्यर्थं प्रचयगमनार्थं च स्वाभीष्टपरदेवतानुस्मृतिरूपां भक्तिं शब्दात्प्रार्थयमाना भाष्यकृतः शिष्यबुद्धिसमाधानाय चार्थाच्छास्त्रप्रतिपाद्यार्थं संगृ- ह्णन्ति — अखिलेति श्लोकेन । प्राचामाचार्याणां ग्रन्थारम्भे स्वेष्टदेवताविषयनमस्काराद्य- न्यतमाचारात् तदनुष्ठेयता सिद्धा । नन्विष्टदेवतास्मरणादेरनुष्ठेयतास्तु तदारम्भे; किमर्थं स्वानुष्ठानानुसारिग्रन्थनिवेश इति चेत् स्वग्रन्थप्रवर्तक शिष्याणामतिशयितमङ्गलसिद्धयर्थ- मिति ब्रूमः । महापुरुषस्वगुर्वादिकृतपरदेवतास्तुत्यादिकीर्तनादभीष्टसिद्धिर्भवतीति पुराणा- दितो लोकतश्च सिद्धम् । पूर्वाचारतोऽपि ग्रन्थे तन्निवेशः सिद्धः । नन्विष्टदेवतास्मरणादे- रविघ्नसमाप्त्यादिफलार्थता’ केनावगम्यत इति चेत्, १. प्रणम्य प्राञ्जलिर्याचे भूयोऽप्यस्य. A फलकाम्यता. G. CC-0 No Rights Reserved. Digitized by eGangotriO 66 नयंप्रकाशिका मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ " स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ 99 २३ इत्यादिस्मृतिभिरिति ब्रूमः नः । मङ्गलाचारोऽपीष्टदेवतास्मरणादिरेव । विनिपातो नाम स्वाभीष्टसिद्धिविघात एव । मङ्गलाचारयुक्तस्य तदभावो हि तत्रापाद्यते । संसारिणः प्राचीनानादिपापसंभवात् तन्मूला विन्नाः पाक्षिकत्वेनापि संभवन्तीति तन्निरासाय मङ्गला- चरणे यत्नः कार्य एव । ननु ग्रन्थकर्तॄणां सिषाधयिषितार्थाविघ्नपरिसमाप्त्यादिरेव फलत्वेनेष्ट इति केनावगम्यत इति चेत्; उच्यते – सिषाधयिषितार्थविशेषविशिष्टस्यैव प्रेक्षावतः क्रियासु कर्तृता लोकवेदयोः सिद्धा । ग्रन्थकर्तुः तदविघ्नपरिसमाप्त्यादेरेवेष्टत्वेन धीस्थत्वात् तस्यैव फलत्वेन विशेषणता युक्तेति । ननु अविघ्नपरिसमाप्त्यादेः काम्यत्वेन तत्साधनेष्टदेवता- स्मरणादेस्तदारम्भे नावश्यमनुष्ठेयता, काम्यकर्मणामवश्यानुष्ठेयत्वाभावादिति चेत् — न ; ग्रन्थकर्तॄणां सर्वेषां तदविघ्नसमाप्त्यादेरिष्टत्वेन तद्विशिष्टत्वात् तत्र प्रवृत्त्युपपत्तेः । नन्वखिलेति श्लोके केवलभक्तिप्रार्थनमेव दृश्यते, न तु परदेवतानमस्कारादिः ; नमस्कारादिना प्रीतभगवत्प्रसादाद्धि पक्षप्राप्त विन्नशान्त्यादिसिद्धिः, न तु स्वेष्टप्रार्थनेनेति चेत्-न ; परमात्मनः स्वविषयभक्तिप्रार्थनेनापि नमस्कारादिनेव प्रसन्नत्वात् स्वेष्ट सिद्धेः । अथवा, आशीरर्थे लोडस्तु । ननु भाष्यारम्भ इष्टदेवतास्मरणादेनवश्यानुष्ठेयता, शाबर- भाष्यादिष्वदर्शनादिति चेत् — न ; तत्तद्भाष्यव्याख्यातृभिरारम्भे मङ्गलाचारस्तत्तद्भाष्यकृद्भि- धर्मादिपदैः : कृत इति प्रसाधितत्वात् प्रशस्तपादभाष्ये कण्ठोक्तिदर्शनाच्च । अतः पूर्वाचार्यै- रविशेषेण तदारम्भ इष्टदेवतानमस्कारादिरनुष्ठित एव । भगवता कृष्णद्वैपायनेनापि ब्रह्म- जिज्ञासेति वदता मङ्गलाचारः कृत एव । अत्र चाखिलेत्यादिश्लोके शब्दादर्थाच्च तत्सूत्र- विवृतिमात्रमेव ग्रन्थाविघ्नसमा प्त्यादिसिद्ध्यर्थं क्रियते । ननु अविघ्नसमाप्त्यादिसिद्ध्यर्थं परमात्मविषयभक्तिप्रार्थनमस्तु ; तद्गन्थे वक्ष्यमाणशास्त्रार्थसंग्रहस्य तु न प्रयोजनमिति चेत्-न ; शिष्यबुद्धिसमाधानप्रयोजनस्योक्तत्वात् । तथात्वे हि वक्ष्यमाणार्थे तेषां धीस- माधिः ; जन्मादिलक्षणल- अन्यथा वक्ष्यमाणार्थस्वरूपमजानन्तस्ते मुह्येयुः । क्षितस्य ब्रह्मणो ध्येयत्वाभिधानात् तस्य ‘प्राधान्यद्योतनेन मीमांसाशास्त्रस्यार्थोऽपि द्योतितः । १. तत्र प्राधान्य. A.

२४ श्रीभाष्यम् (मङ्गलश्लोकः) ब्रह्मैव हि प्रधानतो वेदार्थः । कर्मणामपि ब्रह्मसमाराधनत्वेन ब्रह्मप्रधानत्वात् सर्ववेदस्य ब्रह्मप्राधान्यम् । तच्च तत्र तत्र भाष्ये द्योत्यते । नन्विष्टसाधनं हि शास्त्रार्थत्वेनेष्टम् ; यत एवमुक्तम्–“ अशेषजगद्धितानुशासनश्रुतिनिकिरशिरः समधिगतोऽयमर्थः जीवपरमात्म- याथार्थ्य ज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानाचनप्रणामादिरत्यर्थप्रिय- स्तत्प्राप्तिफलः " इति । एतद्ग्रन्थे वर्णाश्रमधर्मेतिकर्तव्यतायुक्त परमात्मोपासनस्यैव वेदा- न्तार्थतोक्तेति प्रतीयत इति चेत् — न ; इष्टसाधनस्य प्राधान्येन वाक्यार्थत्वे ततोऽप्यति- शयेनेष्टस्य ब्रह्मणः प्राधान्यतो वाक्यार्थत्वसिद्धेः । इष्टसाधनमिति पासनस्य प्राधान्य, न तु साधनत्वेन । वस्तुतस्तु इष्टसाधनमपि ब्रह्मैव ; ब्रह्मण एव सर्वफलसाधनत्वात् । सर्वशब्दवाच्यत्वाच्च प्रधानतो वाक्यार्थत्वम् । तस्य च फलप्रदत्वाकारेण साधनत्वेऽपि नाप्रा- धान्यम्, फलप्रदस्यैव प्रधान हेतुत्वात् ; लोके नृपादिषु तथा दर्शनात् । न हि नृपस्य स्वाश्रितानामभीष्टफलदातृत्वे निकर्षः, प्रत्युतोत्कर्ष एव । एवं परमात्मनोऽपि ब्रह्मण एव स्वर्गादिफलसाधनत्वेऽपि नाप्राधान्यमिति तस्यैव शास्त्रार्थत्वमित्युक्तम् । मोक्षाधिकारिणं प्रति ब्रह्मण एवोपायत्वमुपेयत्वं चेति शास्त्रे प्राधान्यतः प्रसाधनात् तस्यैव शास्त्रार्थता । अत एवं हि " फलमत उपपत्तेः " इत्यत्र स्वर्गादिफलदातृत्वप्रसाधनं तुल्यन्यायतयेत्युक्तम् । ननु वेदार्थसंग्रहे " अस्य जीवात्मनोऽनाद्यविद्यासंचित ” – इत्यारभ्य " वेदान्त- जातम् " इत्यन्तेन ग्रन्थेनाविद्याजीवपरमात्मतत्संबन्धपरमात्मोपासनतत्फलरूपषडर्थानां वेदान्तप्रतिपाद्यत्वमुक्तम् । कथं ब्रह्मण एव वेदान्तप्रतिपाद्यत्वमुच्यत इति चेत् ; अविद्या- दीनां सर्वेषां वेदान्तार्थत्वे शास्त्रस्यैकार्थता न स्यात् । तद्गन्थस्तु तेषामविशेषेण वेदान्त- वेद्यत्वप्रतिपादनपरः, तत्रैव पूर्वग्रन्थे ब्रह्मण एव प्राधान्यतो वेद्यत्वाभिधानप्रतीतेः । भाष्ये ब्रह्मण एव प्राधान्यतो वेद्यत्वसाधनस्य तत्र तत्र प्रतीयमानत्वाच्च । जीवात्मस्वरूपज्ञानं च ब्रह्मविद्याङ्गमिति तत्र तत्रोच्यते । जीवपरमात्मस्वरूपज्ञानस्य तत्संबन्धज्ञान हेतुत्वाच्छेष- शेषित्वरूप संबन्धज्ञानस्याङ्गत्वं स्फुटम् । परमात्मनः शेषित्वज्ञाने हि ज्ञातत्वं, तथा जीवस्य शेषत्वज्ञाने हि ज्ञातता । उपासनस्यापि हि ब्रह्मप्राप्तिहेतुत्वात् न प्राधान्यतो वेद्यम् । विरोध्यविद्यानिरूपणस्य च ब्रह्मविद्याप्रवृत्त्यर्थत्वान्न प्राधान्यतो वेद्यता । स्वस्वरूपाविर्भाव- पूर्वकब्रह्मानुभवात्मकमोक्षस्यापि ब्रह्मप्रसादाधीनस्वरूपत्वान्न प्राधान्यतः शास्त्रार्थत्वमिति ब्रह्मैव प्रधानतो वेदान्तार्थः । ननु वेदार्थसंग्रहादिषु संबन्धस्याङ्गत्वेनापि वेद्यतोक्तिर्न

e नथप्रकाशिका २५ प्रतीयते । किंच संबन्धिव्यतिरेकेण शेषशेषित्वरूप संबन्धो दुर्निरूप इति चेत्, न । लोके स्वस्वामिभावसंबन्धस्य प्रतीतिव्यवहाराभ्यां सिद्धत्वात् । लोके तादृशसंबन्धस्त्वनित्यः, संबन्धिनोरागमापायित्वात् । जीवपरमात्मनोः संबन्धस्तु नित्यः, उभयोर्नित्यत्वात् । तच्च “ अंशो नाना” इत्यादिषु साधितम् । तद्भून्थे च स्फूर्तिः, “ तदन्तर्यामिपरमात्मस्व- इत्यन्तर्यामिशब्देन तत्स्फुरणात् । तच्छब्दस्य संबन्धपरत्वाभावे वैयर्थ्यं च रूप 99 स्यात् । अत एव हि “ जीवब्रह्मान्वयाविद्यातद्ध्वंसोपायमोचनम् । विषयो वादिविमतेः रामानुजमते स्थितः ॥ इति श्रीराममिश्रैः शास्त्रस्य षडर्थविषयत्वाभिधानम् । ननु विदुषामपि कर्मणामनुष्ठे- यत्वप्रसाधनान्न षडर्थस्यैव शास्त्रविषयत्वमिति चेत् ; न, वर्णाश्रमकर्मणामुपायेतिकर्तव्यता- त्वादुपायकोटावेवान्तर्भावात् । एवं गतिविचारादेरपि यथायोग्यं षडर्थेष्वेवान्तर्भावो वर्णनीयः । वर्णितं चोत्तरत्रास्माभिः । अखिलेति श्लोकेन शास्त्रार्थः संग्रहेण द्योतितः । शास्त्रस्य प्राधान्यत एकार्थविषय- त्वेऽपि उपेयोपाधितः पूर्वाचार्यैः प्रवर्तितः पूर्वद्विकार्थस्तत्र सप्तम्यन्तैः पदैः सूच्यते । तैस्त- त्रोपायोपाधितः प्रवर्तित उत्तरद्विकारार्थः शेमुषीत्यादिपदद्वयेन सूच्यते । तत्र चाखिलेत्यादिप- देन निमित्तकारणत्वमात्रावगतावपि जन्मस्थेमभङ्गशब्दस्य जन्माद्यधिकरणसिद्धार्थद्योतन- परत्वात् तस्य च निमित्तोपादानपरत्वात्तत्रोक्तार्थी द्योत्यते । न हि तत्र शब्दत उपादान- परत्वधीः, लीलापदानन्वयप्रसङ्गात् । अखिलभुवनशब्देन चिदचिदीश्वराणामभिमतः स्वरूपस्वभावभेदः स्फोरितः । भुवनानां ब्रह्मान्तरात्मकजीवसमष्टियुक्तत्वात् अखिलशब्दस्य भेदापेक्षत्वात् भुवनभेदोऽपि सिद्धः । " अण्डानां तु सहस्रणाम्” इत्यादौ भुवनानां चाने- कत्वं सिद्धम् । तस्योपादानत्वसूचनात् कार्यस्य तस्मादनन्यत्वमपि सूचितम् । सृष्ट्यादौ वैष म्यस्य जीवकर्मनिबन्धनत्वादविद्यायाः कर्मरूपतापि द्योतिता । आदिशब्देन नामरूपव्याकर- णादेश्चिदचिदन्तःप्रवेशनियमननिर्वाह्यत्वादन्तः प्रवेशादिः सूचितः । तेन ब्रह्मणस्तदितरस्य च संबन्धो देहात्मभावनिबन्धन इति स्फोरितः । ननु " त्वदाश्रितानां जगदुद्भवस्थिति- प्रणाशसंसारविमोचनादयः" इत्यादियामुनाचार्योक्तिषु मोक्षदत्वस्य जन्मादिविशेषणत्रया- नन्तरमुपादानदर्शनात् “ चिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसार निवर्तनैकहेतुभूतः " 4

२६ 66 श्रीभाष्यम् (मङ्गलश्लोकः) इति वेदार्थसंग्रहे स्वोक्तिदर्शनाच्चांत्र जन्मादित्रयानन्तरादिशब्दस्तत्परत्वेन प्रयुक्त इति चेत्—न ; विनतविविधेत्यादिपदेनाविशेषेण तस्यैव सर्वफलदत्वसूचनान्मोक्षफलदत्वस्यापि सिद्धेः । न च विनतेत्यादिपदं मोक्षेतर फलदत्वपरमिति वाच्यम् ; तत्र विशेषाप्रतीतेः । न च तत्पदस्य मोक्षैकफलदत्वसूचनपरत्वमिति वाच्यम्, तत्राविशेषादेव । किंच तत्प- दस्य फलमत उपपत्तेः” इत्यधिकरणसिद्धार्थसूचनपरत्वात् तस्य चाविशेषेण परमात्मनः फलदत्वमात्रद्योतनपरत्वात् तादृशार्थपरत्वमेव युक्तम् । अन्यथा आदिग्रहणस्य मोक्षप्रदत्वपर- तापक्षे गौरवम् । विनतेत्यादिपदस्य मोक्षफलदत्वमात्रद्योतनपरत्वपक्षे न्यायसिद्धसर्वफल- दत्वद्योतित्वमसिद्धं स्यात्। " जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिलीलम् " इत्यादि- भाष्ये संहारोक्त्यनन्तरमन्तःप्रवेशाद्युक्तिश्व दृश्यते । अतो यथोक्त एवार्थः । लीलापदे- नावाप्तकामता द्योतिता । ततो हेयप्रत्यनीकतापि द्योतिता । जगत्कारणत्वाभिधानेन तदाकृष्ट- सर्वज्ञत्वादयश्च । तेनोभयलिङ्गत्वं सूचितमस्य ब्रह्मणः । विनतानि च तान्येव विविधानि भूतानि विनतविविधभूतानि तेषां व्रातस्य रक्षैकदिक्षे रक्षाप्रधाने । विनतशब्देन शास्त्रीयोपायः सूचितः । भूतशब्देन विद्याकर्माधिकारिण एव सूचिताः ; अनधिकारिकृतशास्त्रीय कर्मणोऽकृतसमत्वात् तेषां फलासिद्धेः । प्रत्युत तदनुष्ठाने प्रत्यवाय एव, शूद्रादेरध्ययनादिकरणे प्रत्यवायस्मर- णात् । अधिकारिणां वैविध्यं च साध्यस्वर्गादिफलरूपविशेषणद्वारा । स्वर्गका- मादिपदनां वाक्येऽधिकारिविशेषणसमर्पकत्वेनान्वय इति पूर्वकाण्डे उक्तम् । अधिकारी च न कर्त्रतिरिक्त इत्युत्तरत्र वक्ष्यते । अतो न मोक्षैकफलपरत्वं विनतेत्यादिपदस्य ; न हि साध्यैक्ये कर्तृवैविध्योपपत्तिः । ननु स्वर्गादिफलसाध्यैक्येऽपि दर्शपूर्णमासाग्निहोत्रादिकर्म- कर्तृवैविध्यं दृश्यत इति चेत् —न ; स्वर्गादेः स्वर्गत्वाकारसाम्येऽपि कर्मानुरूपं भोग्यत्वा- कारतारतम्यात् कर्तृविशेषणभेदात्तद्वैविध्योपपत्तेः । कर्मतारतम्यात् फलतारतम्यास्वीकारे एक- कर्मणैव स्वर्गादिफलसिद्धौ तदर्थकर्मान्तरानुष्ठानवैयथ्य स्यात् । मोक्षस्य त्वेकरूपत्वान्न तद्- द्वारा कर्तृवैविध्यम् । अत एव हि “विकल्पोऽविशिष्ट फलत्वात्" इत्यत्र विद्यानां विकल्पोक्तिः । एकार्थानामेव हि विकल्पः । नन्वनेकविधफलत्वाकारेण कर्तृवैविध्याभावेऽपि दहरशाण्डि - ल्यादिविद्यास्वनुसंधेयब्रह्मकनिरूपणीयत्वेनोपासनात्मकज्ञानभेदात् तत्कर्तृभेदाचद्वैविध्यो- पपत्तिरिति चेत् — न ; त्रातशब्दो हि समूहार्थः । क्रियातः पूर्वक्षणवृत्तित्वाकारमात्रात्तद्वै-

नयप्रकाशिका C २७ विध्यसिद्धौ तस्य च विविधशब्देनैव सिद्धत्वात् । अतः स्वर्गमोक्षादिफलविशेषणद्वारा भिन्नकर्तृपरो विविधशब्दः । एकविधफलत्वाकारेण सजातीयकर्तृबहुत्वपरो व्रातशब्दः । अतो यथाधिकारं विद्याकर्मस्वनुष्ठितेषु तेषां यथोचितफलदानेन रक्षाकरणमस्यैवेति सूचितं विनतेत्यादिपदेन । रक्षा चेष्टप्राप्त्यनिष्टपरिहारात्मिका । अतो मोक्षफलदत्वस्यापि तेनैव सूचनं युक्तम् । ननूपायार्थपरोत्तरद्विके फलदत्वस्य साधितत्वात् विनतेति पदस्य तत्परत्वे च तस्य कथमुपेयार्थपरत्वमिति चेत्–न; उपासनात्मकोपायोपोद्घातत्वेन विचार इति तत्रैवोक्तत्वात् । श्रुतिशिरसीत्यादिपदद्वयेन च श्रुतिप्रमाणसिद्धकारणत्वमस्यैव, न तु प्रधानादेरिति द्योत्यते । तेन परस्य श्रुत्यर्थत्वेन प्रसिद्धत्वद्योतनात् श्रुतिविरुद्धसांख्या- दिस्मृतिनिरासोऽपि सिद्धः ; केवलयुक्तिमूलत्वेनाभिमतवैशेषिकादिपक्षनिरासोऽपि । ब्रह्मणः सर्वश्रुतिवेद्यत्वेऽपि स्वरूपप्रतिपत्तेर्वेदान्ताधीनत्वात् श्रुतिशिरोवेद्यत्वाभिधानम् । कर्मप्रति - पादक वेदभागस्य ब्रह्मपरत्वं हि तदुपासनेतिकर्तव्यतात्मक कर्मबोधनपरत्वात् तत्तत्कर्म समारा- ध्यदेवतान्तर्यामितया वा । कैश्चित्तु उपोद्घातरुप चतुःसूत्र्यर्थपरत्वं श्रुतिशिरसीत्यादिपदद्व- यस्येत्युक्तम् ; तदसत्, चतुःसूत्र्या उपोद्घातत्वाभावात् । तच्चोत्तरपादादिष्वस्माभिरुक्तम् । ब्रह्मणीति वस्तुनिर्देशः । श्रीनिवासेति परस्मिन्निति पदद्वयेन ब्रह्मणः समोत्कृष्टतत्त्वाभावः सूच्यते, नित्याप्राकृतदेहयोगो नित्यविभूतियोगश्च । शेमुषीत्यादिपदद्वयेनासकृदावृत्त- स्मृतिसंततेरेव वेदनशास्त्रार्थता सूचिता । ततो ज्ञानकर्मसमुच्चयस्य वाक्यार्थज्ञानमात्रस्य च मोक्षानुपायता च, उपासनात्मकज्ञानस्यैव मोक्षोपायत्वसूचनात् । तत्पदद्वयेनैव ब्रह्मानुभ- वात्मकमोक्षोऽपि सूचितः ; विधूताविद्यस्य पुरुषस्य ब्रह्मानुभवस्यैव मोक्षत्वात् । अतः प्रथम श्लोकेनार्थाच्छास्त्रार्थः सूचितः । श्रीमते रामानुजाय नमः । श्रीमन्निगमान्तमहा देशिकविरचिता श्रीभाष्यव्याख्या तत्त्वटीका । श्रीमान्वेङ्कटनाथायः कवितार्किक केसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ CC-0 No Rights Reserved. Digitized by eGangotri२८ तत्र तावत्- श्रीभाष्यम् स जयति यतिराजमुनिः करुणाजलधिः क्षमापरिष्कारः । करिशैलकृष्णमेघः काङ्क्षितवर्षी दर्पितैस्तोयैः ॥ १ ॥ स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभट सुधासधीचीभिद्युतिभिरवदात त्रिभुवनम् । अनन्तैस्त्रय्यन्तैरनुविहित हेपाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ॥ २॥ प्रणम्य वरदाचार्यवादिहंसाम्बुदावपि । त्रय्यन्तसूत्रभाष्यार्थतत्त्वटीका विधीयते ॥ ३ ॥ असावनतिसंक्षेपादतिविस्तरवर्जनात् । सर्वन्यायानुकूलत्वाद्गृह्यतां सारवेदिभिः ॥ ४ ॥ शातितः शतदूषण्यां शंकरादिमुधाग्रहः । शारीरकशरीरं तु व्यक्तमत्र प्रदश्यते ॥ ५ ॥ विश्वामित्रकुलीनेन वेदान्ताचार्यसूरिणा । शश्वद्विधीयते विश्ववैण्डिकविधूननम् ॥ ६ ॥ निखिल निगम श्रेणीचूडापरिष्कृतिरूपिणी निपुणमनसामाशासौधस्थलीषु निबध्यते । यतिपतिभुवो भाष्यस्यासौ यथाश्रुत चिन्तित - प्रवचनविधावष्टाविंशे जयध्वजपट्टिका ॥ ७ ॥ अखिलेत्यादिभाष्यस्य दशार्थानभिदध्महे । विषयादित्रिकस्योक्तिः प्रथमं प्रतिपाद्यते ॥ ८॥ तस्यार्थस्य च सौन्रत्वात्तद्विस्तारात्मकं पुनः । अनवद्यमिदं पद्यं भाष्यलक्षणलक्षितम् ॥ ९ ॥ (मङ्गलश्लोकः यद्यपि " अथातो ब्रह्मजिज्ञासा" इति सूत्रं ब्रह्म जिज्ञासोस्तद्विचारस्य कर्तव्यत्वे प्रवृत्तम्, तथापि शारीरक विषयादिष्वप्यर्थतो वर्तते ; यथा धर्मजिज्ञासासूत्रम् । आहुश्च-

एवमत्रापि 66 तत्त्व टोका अथातो धर्मजिज्ञासासूत्रमाद्यमिदं कृतम् । धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् ॥” इति । ब्रह्मेति तावद्विषयं प्राप्यत्वेन प्रयोजनम् । जिज्ञासाकर्मभावेन संबन्धमपि चाब्रवीत् ॥ १० ॥ निरतिशयवृहत्त्वं हि ब्रह्मशब्दार्थः ; बृहतिधातोः “ २९ बृहेरम् च " इति मनि- इति, न्प्रत्यये अमागमे च ब्रह्मेति व्युत्पत्तेः " ब्रह्म परिवृढं सर्वतः " इति यास्कोक्तेश्च । यत्तु आथर्वणिकी निरुक्तिः बृंहणत्वमप्याह बृहति बृंहयति तस्मादुच्यते परं ब्रह्म पौराणिकी च प्रसिद्धिः, " बृहत्त्वात् बृंहणत्वाच्च तद्ब्रह्येत्यभिधीयते " इति ; तगोबली- वर्दन्यायादिति न विरोधः ; बृंहणत्वस्य बृहत्त्वविशेषत्वाच्च । तदयमर्थः - स्वतो बृहत् बृंहणत्वेनापि बृहदिति प्रयुक्तपदान्तरपौनरुक्त्यपरिहाराय सामान्यशब्दसङ्कोचो गोबलीवर्दन्याय इति लक्षणानुसारेण बृहच्छन्दो बृंहणत्वात्मक बृहत्त्वादन्यत्र वर्तते ; यथा “ विष्णुनामा स वेदेषु वेदान्तेषु च गीयते " इति । तेनानवधिकांतिशय बृहत्त्व- मेव ब्रह्मशब्दार्थ इत्येके अपरे तु बृहत्त्ववत् बृंहणत्वमप्यनवधिकातिशयं ब्रह्म- बृहत्त्वाŃहणत्वाच्च ” इति पृथगभिधानस्वारस्यात् " शब्दार्थः, 66 66 बृहति बृंहयति " समुच्चयोपादानस्वारस्याच्चेत्याचक्षते । प्याचक्षमह इति । अयमत्र संग्रह : – वयं तु ब्रूमः – उभयत्रापि विरोधाभावादुभयथा-


बृहत्त्वं ब्रह्मशब्दार्थो बृंहणत्वं तु तद्भिदा । यद्वार्थो ब्रह्मशब्दस्य बृंहणत्वं बृहत्त्ववत् ॥ ११ ॥ अथवा बृहत्त्वबृंहणत्वसमुच्चयो वा । एतत्सर्वमभिप्रेत्योक्तं जन्माद्यधिकरणभाष्ये " उपलक्ष्यै ह्यनवधिकातिशयबृहत् बृंहणं च, बृहतेर्धातोस्तदर्थत्वात् " इति । अनयोश्च सर्वातिशायित्वमपरिच्छेदात् यास्कनिरुक्तिसामर्थ्याच्च सिध्यति । अनुपाधिकनिर्देशे ह्यसङ्कोचो मनीषिभिः । सिद्धे शब्दार्थसंबन्ध इति न्यायेन कथ्यते ॥ १२ ॥ ईदृशं ब्रह्म अस्य शास्त्रस्य प्रधानविषयः ; प्राप्यतया परमं च प्रयोजनम् ; निरुक्तिद्वयार्थस्य द्विकाभ्यां विवरणात् ।

३० श्रीभाष्यम् प्राप्यत्वं ब्रह्मणः सिध्येहूंहणत्वस्य कीर्तनात् । स्वप्राप्तेः साधनत्वं हि बृंहणत्वमिहोच्यते ॥ १३ ॥ (मङ्गल श्लोकः) न च बृहतिधातौ बृंहयतीत्यभिधानस्य विरोध इति वाच्यम्, " बृह बृहि वृद्धौ " इति धातुद्वयसिद्धत्वान्निरुक्तिद्वयवाक्यस्य । अर्थमात्रे च तात्पर्यादन्यधातोश्च संग्रहः । तस्य धातोरिदित्त्वाच्च नुमागमसमन्वयः ॥ १४ ॥ प्रयोजनं चात्रावश्यं वक्तव्यम् । तदप्याहुः - 66 सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥ " इति । " मीमांसाख्या तु विद्येयं बहुविद्यान्तराश्रया । न शुश्रूषयितुं शक्या प्रागनुक्त्वा प्रयोजनम् ॥” इति च । संबन्धस्तु विषयभूतेन बहाणा निर्णायकत्वादिः, प्रयोजनभूतेन प्रापकत्वादिः, जिज्ञासापदविवक्षितविचारसाध्यविदीप्तिमूल नतितत्साध्यरक्षारूपैस्तु प्रयोजनैः यथार्हं साक्षात्परम्परया वा हेतुत्वबोधकत्वे । शास्त्रारम्भेषु सर्वत्र संबन्धः कथ्यते बुधैः । असंबद्धप्रलापत्वे न प्रवर्तेत बुद्धिमान् ॥ १५ ॥ तदेवं सौत्रमेव विषयादित्रिकं श्रोतृवुद्धिसमाधानार्थमुपादित्सार्थं च विशेषतः ख्यापयन् प्रारिप्सितप्रबन्धस्याविघ्नेन परिपूर्त्यर्थं प्रचयार्थं च शङ्कितप्रत्यूहशान्त्यै शिष्टा- चारादिसिद्धमिष्टदेवभक्त्याशीरूपं मङ्गलं स्वात्मनानुष्ठितमपि शिष्यशिक्षार्थं स्वकृतानुकीर्त- नेन तेषां महिष्ठमङ्गलार्थं चादौ निबध्नाति भगवान् भाष्यकारः – अखिलेति । गुरोराचारमाश्रित्य वर्तन्ते मङ्गलार्थिनः । यान्यस्माकमिति श्रुत्या तदेतदभिधीयते ॥ १६ ॥ नमस्क्रिया वस्तु निर्देशावप्यर्थसिद्धौ सर्वोत्तुङ्गमङ्गलतमतत्त्वोक्तः । उक्तं च- 99 इति । अत्र सप्तम्यन्तैः सिद्धविषयप्रयो- “ नीचोच्चयोः स्वभावोऽयं नन्तृनन्तव्यतात्मकः जनोक्तिः । ’ श्रुतिशिरसि ’ इति अवान्तरविषयसंग्रहः ।

तत्त्वटीका ३१ यथा हि वेदवाक्यस्य विषयो ब्रह्म कथ्यते । तथैव सूत्रवाक्यस्य त्रय्यन्तः परिकीर्त्यते ॥ १७ ॥ विदीप्तिविनतरक्षाशब्दैः साध्यप्रयोजनत्रयकीर्तनम् । विशिष्टा अत्र दीप्तिः विदीप्तिः; निर्णयः । स तु विचारतः । यथाहु:– " धर्मे प्रमीयमाणे तु बेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति " ॥ इति । उक्तं च न्यायसुदर्शने– 66 " ज्ञायमाने तु वेदान्तैः करणैः परमात्मनि । इमामुत्तरमीमांसामितिकर्तव्यतां विदुः ॥ " इति । वेदस्य निरपेक्षत्वलक्षणप्रामाण्ये सत्यपि प्रतिपत्तमतिमान्द्यापराधनिमित्तसंशय- विपर्ययापनोदनमनया क्रियते " इति च । प्रयोजनोक्तिराप्तत्वनिश्चये निश्चयं दिशेत् । तत्सन्देहेऽप्युपादित्सां सिद्धां संधुक्षयेदसौ ॥ १८ ॥ तत्र सामान्यतः प्रयोजनवत्त्वनिश्चयेऽपि स्वापेक्षितप्रयोजनकथनमवश्यकर्तव्यमेव । तदिह संबन्धोऽपि सूचित एव संबन्धाश्रयभूतशास्त्रप्रयोजनादीनामुपादाननान्तरीयकत्वा- त्संबन्धावगमस्य । विचारत्वं विचार्यत्वं निर्धार्यत्वं तथेतरत् । प्राप्यत्वं प्रापकत्वं च संबन्ध इति कथ्यते ॥ १९ ॥ तत्र तत्त्वत्रयमर्थपञ्चकमित्यादिकमध्यात्मविद्भिरत्यादरेण परिगृहीतमर्थजातं स्वयमेव सूरिभिः संप्रत्याय्यमिति न विविच्य लिख्यते । विषयादिप्रधानत्वमाद्यपद्ये समीरितम् |- अधुना मङ्गलाचारप्राधान्यमनुवते ॥ २० ॥ स च मङ्गलाचारः केषुचित् ग्रन्थेष्वदृष्टोऽपि निमित्तफलाभ्यामुन्नेयः । आहुश्च- 66 प्रारिप्सितं निमित्तं स्यादविघ्नेन समापनम् । प्रचयश्च फलं तस्मान्मङ्गलाचार इष्यते ॥ " इति ।

३२ श्रीभाष्यम् (मङ्गलश्लोकः) () अविघ्नसमाप्त्यादिसंवलितस्य प्रबन्धारम्भस्य तत्राधिकारिविशेषणत्वमित्यर्थः । उक्त च विवरणकारैः- :-" संवलितमत्र विशेषणम् जातेष्टिवत्; यथा जातेष्टौ पुत्रजन्मनो निमित्तत्वेऽप्यार्थवादिकानां पुत्रगतपूतत्वादीनां फलत्वकल्पनम् । न च गौरवम्, फलस्य विशेषणत्वे प्रवृत्तिसौकर्यात् । फलमात्रे तु गर्हानुपपत्तिः । न हि काम्याकरणे ग इति । अथवा शबरशंकरग्रन्थयोरनीश्वरप्रतिपादकत्वात् ईश्वरनमस्कारादिमङ्गलं न कृतमिति व्याचक्षते । न च पक्षिलादयः परमास्तिका निमित्ते सत्यपि मङ्गलं नाचरन्तीति सिद्धं भवति, अपि तु कृतस्यापि नमस्कारादेर्मङ्गलस्य ग्रन्थनिवेशनमेव न कृतमिति व्याकुर्वते । केचित्तु ईश्वरवाचकस्य प्रमाणशब्दस्य प्रथमोपादानात् कृतमङ्गलाचार एव पक्षिलमुनिरिति व्याचख्युः । अननुष्ठितमङ्गलत्वे वा कथं फलसिद्धि: : अनुष्ठितमङ्गलानां तु फलव्य- भिचारः कर्मकर्तृसाधनवैगुण्यमवलम्बते । नन्वारब्धसमाप्तिकामो मङ्गलमाचरेदिति विध्य- भावादकर्तव्यत्वं मङ्गलाचारस्य । अयं खल्वनधिगतवेदानामश्रुतमीमांसानामालापः, अविगीतशिष्टाचारस्यैव मूलप्रमाण कल्पकत्वात् । तत एव चोदनालक्षणत्वसिद्धिः । न च मङ्गलाचाराभावेऽपि फलं दृष्टमिति वाच्यम्, संसारस्यानिदं प्रथमतया तस्यापि भवान्तरीय- सुकृतविशेषनिबन्धनत्वात् । न च किमनेन मङ्गलाचारेण ? तदेव फलं प्रददातीति वाच्यम् ; तत्सद्भावे निश्चयाभावात्, निमित्तानुबन्धिनो नैमित्तिकस्य शिष्टाचारप्राप्तत्वेना- वश्यकत्वाच्च । किंचिदारभमाणस्य बुद्धिस्थं पूरणादिकम् । त्यक्त्वान्यफलक्लुप्तिस्तु नीतिमयो न रोचते ॥ २१ ॥ भक्तिराशास्यमानापि पूरणप्रचयाविह । नोपरुध्य प्रवर्तेत सा च तौ च तदाशिषा ॥ २२ ॥ भक्तिर्हि मङ्गलतमा तद्बोधादेश्व कारणम् । तस्मात्सर्वप्रधानत्वाद्भक्तेराशासनं वरम् || २३ || अथवा भक्तिभेदत्वान्नमस्कारार्चनादिकम् । सर्वमेव हि मङ्गल्यमाशास्यमिह मन्महे ॥ २४ ॥ स्यादेतत् । अस्तु तावन्मङ्गलाचारः ; युक्त इति चेन्न, उपयोगात् अनिषेधात् । मङ्गलनिबन्धस्तु तत्तद्भाष्येष्वदर्शनाद- CC-0 No Rights Reserved. Digitized by eGangotriतत्त्वटीका शिष्याणां शिक्षणं तावत्तेषां स्वकृत कीर्तनात् । महिष्ठमङ्गलावाप्तिस्तत्फलं प्रागुदीरितम् ॥ २५ ॥ 99 ३३ द्रमिडभाष्यादिषु “ नमः प्रवरगुणैकास्पदाय स्थिरत्रसकुलबीजकुम्भभूताय भुवन- कोशस्य गोप्त्रे ब्रह्मणे, नमो जैमिनये वेदरहस्यसंपुटनिगूढ विष्फारयित्रे न्यायप्रज्वलितचेतसे, नमोऽस्त्वाचार्येभ्यः इत्यादिभ्यस्तद्दृष्टेश्चावश्यकर्तव्य एवायमाचारः । ईश्वरापह्रोतृणामा- चारो नास्थेय इति प्रागेवोक्तम् । “ स्मृत्याचारविरोधे तु स्मृतिरेव बलीयसी न्यायाच्च सिद्धमेतत् । स्मर्यते च तत्र मङ्गलाचारः- " मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ " इत्यादिभिः ॥ करणत्रयसारूप्यात्कथ्यते मङ्गलक्रिया । तस्माद्गन्थनिवेशोऽपि मङ्गलस्य प्रमाणवान् ॥ २६ ॥ पूर्वे पुलस्त्यमुख्याश्च क्रियासमभिहारतः । कार्यारम्भेषु सर्वेषु मङ्गलाशासनं विदुः ॥ २७ ॥ 99 इति मङ्गलाचारः पुराणारम्भे दृष्टश्च " प्रणिपत्याभिवाद्य च " इति गुरुप्रणिपातादि- रूपः । अत एव “ युष्मदस्मत्" इत्यादौ कुग्रन्थत्वमाशङ्कय प्रत्यक्तत्त्वानुसंधानेन मङ्गलत्वमाचख्युर्व्याख्यातारः । तच्च मन्दम् युष्मदर्थानुसंधानस्यैव तत्रापि प्राथम्यात्, मध्यलघुत्वेन वह्निदेवत्यस्य रगणस्य निवेशाच्च । इत्यादि । 9 शन्नोमित्रादयो मन्त्राः शतं ते सूरिभिः स्मृताः । कर्मानुष्ठानकालेषु पठितव्या मनीषिभिः ॥ २८ ॥ एवमिह पद्यनिबन्धनचोद्यमपष्ठु । दृष्टं च केषुचित् " प्रणम्य हेतुमीश्वरम् " अकारोपक्रमश्चास्मिन्मङ्गलत्वाभिसंधितः । निःशेषत्वं तु सुगमं निखित्यपि भाषिते ॥ २९ ॥ अन्यार्थोऽप्यत्र वर्णोऽयं विष्णुनामस्वभावतः । यदृच्छाशङ्खशब्दादिन्यायाद्भवति मङ्गलम् ॥ ३० ॥ 5

श्रीभाष्यम् आदौ च पाणिनीयादेस्तथान्यैरनुवर्णितः । सूत्रे चाथादिरन्यार्थस्तदर्थोऽप्यन्वमन्यत ॥ ३१ ॥ नञोऽप्यत्र शुभत्वं स्याद्वैकल्यप्रतिषेधतः । निषेध्यभेद तो ह्यस्य शुभाशुभविकल्पना || ३२ ॥ अपहन्तव्यदुःखोक्तिमप्यारम्भे शुभां विदुः । अपौष्कल्यनिषेधेऽस्मिन्नतः कैमुत्यमक्षतम् ॥ ३३ ॥ आदावखिलशब्देऽस्मिन्नगणत्वनिवेशनम् । आयुःपूर्तिनिदानत्वादविघ्नायैव कल्पते ॥ ३४ ॥ सर्वस्यापि गणस्यात्र नगणो हि विशिष्यते । . तत्रादिम चतुष्पद्यामष्टार्थानपरान् विदुः ॥ ३५ ॥ विशिष्टमङ्गलाचारप्रक्रियानान्तरीयकान् । व्याख्यानमाद्यसूत्रस्य ब्रह्मलक्षणसंग्रहः || ३६ ॥ चतुरध्याय्यनुक्रान्तियेयसंशोधनं द्विधा । परपक्षप्रतिक्षेपः परारम्भनिवारणम् ॥ ३७ ॥ स्वेष्टारम्भविरुद्धानां निःशेषोद्धार इत्यपि । पौरुषेयेषु वाक्येषु प्रयोजनविशेषतः । प्रकृतानुगुणा नेकविवक्षा ह्याश्रिता बुधैः ॥ ३८ ॥ प्राहुः किल वार्त्तिककारा: " लोके " इत्यादिभाष्यार्थविवरणे— " लोक इत्यादिभाष्यस्य षडर्थान् संप्रचक्षते । सर्वव्याख्यामुपालम्भं प्रत्याख्यानं तथा परे ॥ परिसंख्यास्तुती केचिदथशब्दस्य दूषणम् । " इति । (मङ्गलश्लोकः) Trisss " लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति संभवे तदर्थान्येव सूत्रेष्ववगन्त- व्यानि ; नाघ्याहारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्यो वा " इति भाष्यम् । आपादचूडं सम्यग्व्याख्यानप्रक्रियायाः संग्रहेणोपवर्णनात् सर्वव्याख्या ; भवदासादिव्या- ख्यायामुक्तप्रकारवैपरीत्यख्यापनादुपालम्भः । सूत्रस्य स्वरसार्थप्रतिपादनस्वाभाव्येन व्याख्या -

C तत्त्वटीका ३५ नानपेक्षत्वकथनेन सूत्रं न व्याख्यायते, सूत्रैः श्रुतिरेव व्याख्यायत इति सूत्रव्याख्यानप्रति- क्षेपात्प्रत्याख्यानम् । श्रुतिसूत्रविसंवादे सूत्रस्य स्वारसिकार्थप्रहाणेनाध्याहारादिभिः कथंचि- न्नेयत्वेन यथाश्रुतपरिग्रहस्यापास्तत्वात्परिसंख्या । जैमिनिसूत्राणां स्वरसार्थप्रतिपादकत्वस्वा- भाव्येनोपवर्णनात्सूत्रकारस्तुतिः । अथशब्दस्य प्रसिद्धार्थप्रतिपादकत्वा वश्यंभावित्वेऽपि वृत्ता- दर्शनादिभिरानन्तर्यार्थत्वं न विद्यत इति पूर्वपक्षिणाक्षिप्यत इत्यथशब्ददूषणम् । इति भाष्यार्थविभागः । एकस्मिन्नेव भाष्ये तैः षडर्था यद्वदीरिताः । तद्वदेव दशाप्यर्थानत्राप्याचक्ष्महे वयम् ॥ ३९ ॥ सर्वव्याख्यादिकं तावदर्थषट्कं निदर्शनम् । तथा पक्षिलभाष्यादौ तत्तदर्थाः प्रदर्शिताः ॥ ४० ॥ संजिवृक्षितनानार्थैः सूत्रकारादिभिस्तथा । तन्त्रावृत्त्यनुनिष्पाद्याः कल्पितास्तद्वदेव नः ॥ ४१ ॥ दृश्यते हि " दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् " इत्येकस्मिन्नेव सूत्रे प्रत्यभिज्ञाप्रा- माण्यमात्मनित्यत्वमिन्द्रियनानात्वं विषयस्थैर्यं गुणगुणिभेद इत्याद्यर्थजातम् । तदिह सूत्रार्थोक्तौ ब्रह्मशब्देन व्याख्येयसंग्रहः । तन्निरुक्ती पादाभ्यां दर्शिते । श्रीनिवासत्वं तदुपपादकं लिङ्गम् । अथेत्युक्तमानन्तर्यं श्रुतिशिरसीति व्याख्येयक्रमान्मुख्य- क्रमतः स्थाप्यते । अतःशब्दोक्तो विशिष्टारम्भहेतुर्विदीप्त इत्यनेनोद्गृहीतः । ममेत्यर्थसिद्ध- जिज्ञासाधिकार्युदाहृतिः । शिष्टेन सर्वोत्कृष्टवस्तुगोचरतया स्वयं च स्वादुतया आशीर्वि - पयोपायविशेषोक्तया तद्विपयब्रह्मविचारस्य सन्प्रत्ययसूचितरागप्राप्त्युत्तम्भनादर्थादनारभ्य- त्वभ्रमापोहः । सूत्रार्थयोर्द्वयोरार्थः फलतः प्रतिपादितः । अत्र शाब्दस्तु सूत्रार्थस्तस्मान्न पुनरुक्तता ॥ ४२ ॥ द्वितीयसूत्रभावस्थकृत्स्नलक्षणसंग्रहे । ब्रह्मेति लक्ष्यं शिष्टैस्तु तल्लक्षणसमाहृतिः || ४३ | नोद्देशमात्रात्प्रमितिः परीक्षा लक्षणाश्रया । प्राधान्याल्लक्षणस्यात्र प्रतिपत्तिर्हि युज्यते ॥ ४४ ॥

३६ श्रीभाष्यम् (मङ्गलश्लोकः) अत्र हि सर्वकार्यस्रष्टृत्वादीनि मुमुक्षूपास्यत्वमोक्षप्रदत्वत्रय्यन्तप्रधानवेद्यत्वश्रीनि- वासंत्वपरमप्राप्यत्वानि च गृह्यन्ते, यैर्योगायोगाभ्यामपवर्गपरिपन्थ्यभक्त्युन्मूलनपारावर्य- विवेकः । असाधारणधर्मो हि लक्षणत्वेन लक्ष्यते । बहुत्वं तस्य धर्मस्य बुद्धेरुन्मेषकारणम् ॥ ४५ ॥ न लक्षणानां भिन्नत्वे लक्ष्यभेदः प्रसज्यते । विरूद्धलक्षणानां तु भेदकत्वं विदुर्बुधाः || ४६ ॥ चतुरध्याय्यर्थसंग्रहस्तु–‘ परस्मिन् ब्रह्मणि’ इति काण्डान्तरवेद्यव्यावृत्तप्रधाना- र्थोक्तिः । पादाभ्यां सिद्धविषयरूपः साध्यविषयरूपश्च द्विकद्वयार्थः संगृह्यते । ’ श्रुति- शिरसि विदीप्ते ’ इत्यनेन प्रमाणविशेषायोगतदन्ययोगव्यवच्छेदेनोपोद्धातरूप चतुःसूत्र्य- र्थोद्ग्रहः, श्रुतिशिरस्येव विदीप्त इति सावधारणनिर्देशस्य विवक्षितत्वात् । @ अयोगः श्रुतिभिर्योगोऽप्यन्यमानेन वार्यते । सूत्रैश्चतुर्भिः किं नोऽत्र वक्तव्यमवधारणम् ॥ ४७ ॥ एकदेशिनस्तु आद्यसूत्रार्थोक्तिरिति व्याचख्युः । 66 ननु कथमन्यप्रमाणव्यवच्छेदः ? स्मृत्यादिभिरपि तत्सिद्धेः ; मैवम् — तेषां तन्मू- लतयैव प्रामाण्यस्य न्यायसिद्धत्वात् । एतेन स्मृतिविरोधात् श्रुतिबाधशङ्का निरस्ता । श्रुतेः स्मृतिद्वारत्वमपि साधनवद्बाधनेऽपि समानम् । तत्र श्रुतिमूलत्वे वा स्मृतिरेव शरणम् । तदुक्तम्- " विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् " ; वक्ष्यति च स्मृत्य - नवकाशदोषप्रसङ्ग इति चेन्न, अन्यस्मृत्यनवकाशदोषप्रसङ्गात् " इति । श्रीनि- वासभक्तिरूपपदाभ्यां प्राप्यप्रापकयाथार्थ्यानिष्कर्षः । परत्वं चोक्तप्रकारेण चतुर्धा चतुर्ल- क्षणीवेद्यम् । ‘मम’ इत्युपायाधिकार्युदाहृतिरिति । अत्र भुवनमात्रोक्तौ सकलेति विशेषणोपादानेऽपि वा प्रायिकत्वं शङ्कत । अतोऽत्र अखिलेति निःशेषत्वोक्तेश्चतुर्मुखादिभ्यो व्यावृत्तिरिति । व्यतिरेकमुखेणोक्तावर्थदादर्थं प्रतीयते । तस्मादिष्टार्थसिद्धिः स्यादनिष्टविनिवारणम् ॥ ४८॥ न हि चतुर्मुखादीनामखिर कारणत्वम् । न हि ते स्वेषां स्वपूर्वोत्तरेषामण्डान्त-

तत्त्वटीका ३७ रस्थानां शुद्धसृष्ट्यादेर्वा हेतवः ; व्यष्टिसृष्ट्यादौ च नियताधिकार |ः परप्रयोज्याश्च । कार्य- समुदायविशेषरूढोऽप्यत्र भुवनशब्द उपलक्षणात् भवतीति वा कार्यमात्रपरः, प्रकरणानु- क्रान्तयोगस्य रूढितो बलीयस्त्वात् । जन्मादिषु बहुव्रीहिः तद्गुणसंविज्ञानः, “ सर्वादीनि सर्वनामानि " इतिवत् । द्रव्यस्य नित्यसिद्धस्य यथादृष्टयवधारणे । जन्मस्थित्याद्यवस्थाः स्युः सामग्रीभेदशक्तितः ॥ ४९ ॥ . आकाशत्वादिधर्माणामागन्तुत्वविवक्षया । तत्तद्द्व्यस्य नित्यत्वेऽप्युत्पत्त्यादिरपि श्रुतः ॥ ५० ॥ यथा पाकेन रूपाद्याः परेषां नित्यवस्तुषु । तथा नस्त्रिगुणद्रव्ये परसंकल्पतो दशाः ॥ ५१ ॥ ० C जन्माद्यवस्थाश्च नित्यनैमित्तिकादिभेदात् बहुधोक्ताः । प्रागसिद्धस्यात्मलाभ उत्पत्तिः जन्म । उत्पत्तिलब्धाकृतेरर्थस्याप्रणाशसामग्र्याः स्थितिः स्थेमा । ननु कथं स्थेमशब्दः ? कथं च स्थित्यर्थः ? न ह्यसौ स्थानादिवत्तिष्ठतेर्निष्पन्नः ; न च " पृथ्वादिभ्य इमनिज्वा ” इत्यस्य विषयः । यद्यपि " प्रियस्थिर " इत्यादिना स्थिरशब्दस्य स्थादेशः, तत्र च " तुरिष्ठेमेयस्सु ” इति प्रत्ययत्रयं प्रकृतम् ; तथाप्यत्र प्रियोरुगुरुबहुल दीर्घाणा- मेवादेशेष्विमनिच् भवति, नान्येषाम्, पृथ्वादिष्वपाठात् । न चासौ आकृतिगणः । अतः कथमयं प्रयोगः ? अत्र ब्रूमः - प्रयोगतः स्थितिः स्थेमा प्रत्ययाद्यूहशासनात् । अखण्डितो वा शब्दोऽयमधातूद्भवपक्षतः ॥ ५२ ॥ अस्ति हि न्यायतात्पर्यटीकायां तत्प्रयोगः - " स्थेमा च भावानामुपपादयिष्यते " इत्यादि । तात्पर्यपरिशुद्धौ च संशयपरीक्षायां " बौद्धादेर्निश्चितक्षणिकत्वादेरपि झटिति विघ- टितसाधनस्य प्रतिवादिसाधनात् परितो निरस्तविभ्रमाशङ्कात् संशयं विनैव स्थेमादिनिर्ण- योत्पत्तेः " इति । निस्स्थेमानो दशाननकीर्तयः इत्यादयश्च महाकविप्रयोगाः । तदत्र प्रसिद्ध बहुविद्वत्प्रयोगभूयस्तया साधुत्वं सिद्धम् । शक्या च व्युत्पत्तिः ; यथोक्तम् - " नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । 66 99 यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ 99 CC-0 No Rights Reserved. Digitized by eGangotri३८ श्रीभाष्यम् (मङ्गलश्लोकः) मा भूद्वा प्रकृत्यादिविभागः, मतभेदेन अखण्डितप्रातिपदिकभाषणात् । “ नाम च" इत्यादिना तत्सूच्यते । ईदृशानां प्रयोगाणामबहिष्कार सिद्धये । बहुधा बहुलादीनामष्टाध्याय्यामुपक्रमः ॥ ५३ ॥ नानाव्याकरणाभिज्ञबहुविद्वत्परिग्रहे । शब्दासाधुत्वमाहुर्ये शाब्दिकांस्तान्न मन्महे ॥ ५४ ॥ विशिष्टोक्तयनुसारेण व्युत्पत्तिः स्मर्यते बुधैः । अविगीतप्रयोगेषु विगानं नैव सांप्रतम् ॥ ५५ ॥ भङ्गशब्दो नात्यन्तिकलयग्राही, रक्षाशब्देन तदुक्तेः, प्रयोजनस्यापि विषयवत्पृथग्व- क्तव्यत्वाच्च । अतः “ जगज्जन्मस्थितिध्वंस महानन्दैकहेतवे " इत्यादिष्विव ब्राह्मणपरि- ब्राण्नीत्यात्र पृथगुक्तिः । विनतेत्यादौ इन्द्रादिशरीरकतया बन्धरूपकाम्यफलप्रदत्वमात्रं वदतामपि स्थेमशब्दे रक्षाशब्दे च संकोचः स्यादेव । अत एव अत्रादिशब्दसमानाधि- करणजन्माद्यन्यपदार्थविशेषतयापि न मोक्षसंग्रह उचित इत्याहुराचार्याः, विशेषस्फौट्या- भावात् । अत्रैव पुराणार्थोक्तौ " जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिलीलम् " इति स्वोक्ते सति परोक्तस्य विप्रकृष्टस्वोक्तस्य स्वप्रवन्धान्तरोक्तस्य वानुरोधायोगात् जन्मादि- त्रयोपयुक्ततमतत्सहाम्नातानुप्रवेशादीनामपि तैः संग्रहणौचित्यात् तेषामार्थत्वादति शाब्दत्वस्य परत्वाच्च । अस्वाधीनसहकारिनैरपेक्ष्यं चानेन भगवतः सिध्यति । स्वकार्यस्थस्य जन्मादेः स्वलीलात्वोक्तिशक्तितः । स्यामित्याद्युक्तरीत्यैवोपादानत्वं च सूचितम् ॥ ५६ ॥ नृत्यन्तं पश्यतां नृत्तं न लीला किंतु तद्दृशिः । देहद्वारात्र तन्निष्ठं लीला जन्मादिकं भवेत् ॥ ५७ ॥ ० अवस्थान्तरयोगित्वमुपादानत्वमूचिरे । आगन्तुका पृथक सिद्धर्मोऽवस्थेति कीर्त्यते ॥ ५८ ॥ अचिज्जीवस्वधीद्वारा स्वरूपेण च सर्वगे । अवस्थाः सन्त्यदोषास्ते निर्विकारोक्तिरन्यतः ॥ ५९ ॥

तत्त्व टीका ३९ एतदर्थं चात्रान्तःप्रवेशाद्युक्तिः । ततोऽन्यस्य तच्छरीरत्वव्यक्तेः प्रधानादिक्षेत्रज्ञ- शरीरकः स एव जन्मादिलील इत्युक्तं भवति । सर्गादिकं ततोऽस्यैव भूतस्थमुपकारकम् । इति चैतदभिप्रायमाहुस्त्रय्यन्तपारगाः ॥ ६० ॥ न चात्र विवक्षित निष्कर्ष भुवनशब्दवृत्तिविरोधः, 66 66 स्वतन्त्रभूतचेष्टालीलः इत्यादिवदुपपत्तेः । भुवनानि विष्णुः" इत्यादिवदनिष्कर्षेण विशेष्यपर्यन्तत्वेऽप्यवि- • रोधः । तथा च विवरणम् - " भुवनशब्दः सजीवात्मकाचिदभिप्रायः, कारणवाक्येषु तथैव कारणत्वप्रतीतेः । ब्रह्म तु पृथङ् निर्दिश्यते । यद्वा विशिष्टं ब्रह्मशब्दार्थस्तत एव " इति । ये चान्येऽप्यर्थाः तात्पर्य तूलिकोक्ताः तात्पर्यतूलिकोक्ताः – “ कार्यत्वाज्जन्मादिषु लीलाशब्दो- पचारः । जन्मादिकार्यत्वाज्जन्मादिभूता लीला यस्येति वा, भुवनजन्मादिषु लीला यस्येतिः व्यधिकरणबहुव्रीहिर्वा । जन्मस्थेमभङ्गानामादिभूता लीला यस्येति तत्पुरुषगर्भबहुत्री- हिर्वा " इति, ते तु प्रधानार्थे प्रोक्तेऽप्यविरुद्धतया वैभवादुक्ताः । एवं जन्मादिशब्देन तद्धेतुरुपलक्ष्यते । यद्वा जन्मादिका लीला यस्येत्यर्थद्वयं मतम् ॥ ६१ ॥ किंचिदिष्टमनुद्दिश्य न प्रवर्तेत चेतनः । तच्चाप्तार्थस्य नेत्येतल्लीलोक्तघात्र निवार्यते ॥ ६२ ॥ यद्यदिष्टं तदा तस्य सिद्धिरस्याप्त कामता । नातः क्षेप्यो यथालोकं साध्यलीलान्वितः श्रुतः ॥ ६३ ॥ यत्पूर्णमद इत्यादि तदप्युक्तं न बाधते । प्रत्युतानुगुणं तस्य स्वतोऽन्येन च पूर्तितः ॥ ६४ ॥ अस्यापि प्रयोजनान्तरनिरपेक्षस्वच्छन्दव्यापारव्यक्त्यै " बालः क्रीडनकैरिव " इति दृष्टान्तः । तदभिप्रायं सूत्रम् - " लोकवत्तु लीला " इत्यादि । हेतुत्वोक्तघापि समन्वयलक्ष- । णार्थः सिध्येत् । लीलाशब्दस्तु स्थालीपुलाकन्यायादविरोधलक्षणार्थोपलक्षणः । अनेन स्वबुद्धिपूर्वकस्वप्रीत्यर्थ व्यापारवाचिना कर्तृत्वं चोपादानत्वाविरुद्धं व्यञ्जितम् । सूक्ष्मप्रकृति- विशिष्टतयोपादानं संकल्पतः कर्ता च स्यात् । एवं सहकारिकलापान्तर्यामितया सहकारि- त्वमपीति निर्वाह्यम् । विकाराश्रयत्वव्यतिरिक्ताकारेण कार्योपयुक्तं हि निमित्तम् ; न तूपा-

४० श्रीभाष्यम् (मङ्गलश्लोकः) दानादन्यदेव । उभयाभिप्रायेण हि कारणवाक्येष्वेकाद्वितीयशब्दौ । " सोऽभिध्याय " इत्यादिभिश्चैतदुपबृंहितम् । विनतादि श्रातान्तं साधनलक्षणार्थपरम् । ततोऽत्र नतिर्मानसी यथाविधि प्रहृता गुणोपसंहारपादोक्ततत्तद्विद्यारूपा । विशब्दस्तु नानार्थः । तद्वन्तो विनताः । पूर्वपादद्वयसिद्धवैराग्यादिवैशिष्टयपरो वा विशब्दः । विनतानां वैविध्यं विद्याङ्गपादोक्ताश्रमादिभेदात् । " तदुपर्यपि ” इत्याद्युक्तदेवादिभेदोऽप्यत्र द्रष्टव्यः । भूत- शब्दस्तापत्रयहतेः तन्निवृत्त्युपायपाटवस्य च हेतुना देहविशेषेण योगमभिप्रयन्नर्थित्वादिकं व्यनक्ति । धात्वंशश्च “ सन्तमेनं ततो विदुः" इत्याद्युक्तां शुद्धधीवैशिष्ट्यरूपां सत्तामाचष्टे ; " अत्र ब्रह्म समश्नुते " इत्यधीतां ब्रह्मनिर्वेशात्मिकां वा । भूतसंबन्धी वातोऽत्र तानि तदीयानि च, षष्ठया संबन्धसामान्योक्ते; ; अन्यथा व्रातशब्दनैरपेक्ष्यात् ; न ह्यत्र सत्रवत्सं- हतानामेव प्रवृत्तिः फलावाप्तिर्वा । साकेतनिवासिवत्फललाभस्तु न सार्वत्रिकः । तदत्र " नास्यावरपुरुषाः क्षीयन्ते पशुर्मनुष्यः पक्षी वा नास्याब्रह्मवित्कुले भवति " " इत्यादि विख्याप्यम् । राजपरिषदित्यादौ हि राजा चान्ये च विवक्ष्यन्ते । विविधशब्देन पशुपुत्रान्नाद्यस्वर्गस्वाराज्यादितत्तत्फलकामकर्तृवैविध्यं, त्रातोक्तया तत्तदुपायनिष्ठव्यक्तिभूयस्त्वं विवक्षितमिति केचित् । अयं च वैभववाद इत्यनुमन्यामहे । आहुश्च - 66 99 सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् । पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा " ॥ इति । फलाध्यायक्रमेणात्र परप्राप्तिविरोधिनाम् । शमनं निग्रहादीनां रक्षाशब्देन गृह्यते ॥ ६५ ॥ प्रत्यूहात्यन्तभङ्गे तु स्वतः प्राप्तं सुखादिकम् । यावत्स्वरूपं तत्प्राप्तं तत्संसिद्धिरिहार्थतः ॥ ६६ ॥ यद्वाभीष्टार्थदानं च रक्षेति परिगृह्यते । । तदलाभनिमित्ताद्धि विषादात्त्रायते यतः ॥ ६७ ॥ प्रयासानतिरेकेण फलाधिकृतिनीतितः । चतुर्विधानां भक्तानां रक्षोक्तिश्च न दुष्यति ॥ ६८ ॥ आनन्दयितृत्वश्रुतिसूत्रे चात्र भाव्ये । एकशब्द इह प्रधानार्थः जीवितं जह्याम्" इत्यादिषु तद्विरोधे तद्विपरीताभीष्टतमकृत्स्नत्या गोक्तेः । ; 99 " अप्यहं अनन्येषु

तत्त्वीका ४१ प्रमाद्यत्स्वपि निरयादिप्रापकनिग्रहनिवृत्त्यर्थो वा, तेषां यमविषयगमनादिनिषेधात् ; दृश्यते हि - " न खलु भागवता यमविषयं गच्छन्ति " " इति ; " इहैवैषां केचिदुपप्लवा भव- न्ति " इति शिक्षामात्रान्नानाच्च । दीक्षा दृढसंकल्पः ; ● “ न त्यजेयम् " " एतद्व्रतं मम ” इत्याद्युक्तेः । दीक्षोक्त्या स्वार्थत्वं सूचितम् ; राजार्थं खलु रथतुरगगजादिसंरक्ष- णम् । रक्षायामेका दीक्षा यस्येति व्यधिकरणबहुव्रीहिः ; रक्षायां वा दीक्षाकार्यत्वात्तदु- पचारः; रक्षायामेकदीक्ष इति वा योज्यम् । 0 दृष्टमन्यापराधे हि दण्डनं खण्डनादिकम् । राजपुत्रापराधे हि दण्डनं लघु दृश्यते ॥ ६९ ॥ फलसाधनतया चोदितस्याप्यार्थं फलप्रदप्राधान्यं सिध्यति । राजानः फलदा राजपरिचर्याविधायिनाम् । फलप्रदस्य प्राधान्यं फलात्तदवगम्यते ॥ ७० ॥ विनतरक्षोक्त्या तत्सहगीत दुष्कृन्निग्रहव्यञ्जनान्निवर्त्यो बन्धहेतुः कर्मादिः ख्यापितः ; अत एव वैषम्यनैर्वृण्यपरिहारश्च । श्रुतिशब्दो निरपेक्षसंप्रतिपत्तिन्यायान्नित्यं श्रूयमाणे वेदे रूढः ; “ सिद्धे शब्दार्थसंबन्धे ” इत्यादौ चैवं प्राहुरित्युक्तम् । तेन वक्तृदोषाभावसिद्धिः । साधितं च ‘सर्वाद्यपादे वेदानां प्रामाण्यं कारणदोषबाधकप्रत्यययो- रभावेन ; कर्तुश्च तेषामनुमातुमशक्यत्वात्, कल्पादिष्वपि यथापूर्वं प्रादुष्करणात्, काठ- कादिसमाख्यानां कर्तृविशेषोपस्थापकत्वाभावाच्च । शिरः ब्रह्मप्रधानतयोत्तमो भागः । दीप्तिः स्फूर्तिः ; सा पुनराद्याधिकरणोक्तसिद्धार्थव्युत्पत्तेः । विशब्दोक्तं वैशिष्टयं त्वन्यदे- वतोक्तिराहित्यम् । तदेवाग्निः " इत्यादिनाग्न्यादिशब्दानां शरीरिणि पर्यवसानम्, जन्मादिसमन्वयसूत्रोक्तकारणत्वस्वतः पुरुषार्थत्वाभ्यां व्यावृत्तिश्चात्र विवक्ष्यते । मानविशे- षोक्त्या शेषनिषेधन्यायेन तृतीयसूत्रार्थः सिध्यति । एवमिह न्यायसुदर्शने संग्रहः – व्युत्पत्त्यभावः प्रतिपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम् । 66 एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि ॥ " इति । न्यायसंग्रहे च तथैव सेनेश्वराचार्या:- १. सर्वस्य पूर्वोत्तरभागसहितस्य कृत्स्नस्य मीमांसाशास्त्रस्याद्यपादे तर्कपादे इत्यर्थः । 6

४२ श्रीभाष्यम् " व्युत्पत्त्यभावात्प्रतिपत्तिदौस्थ्यादन्येन सिद्धेरफलत्वतश्च । (मङ्गलश्लोकः) अमात्वमाशङ्कय निराचकार न्यायैश्चतुर्भिः प्रतिपाद्य तत्तत् ॥ " इति । एतेन " को धर्मः " इत्यादिवत् ’ किं ब्रह्म’ इत्यादिविचारपर्यन्तफलरूपप्रमितिवैशि- ष्टयमुक्तम् । 6 6 99 ननु यदि ब्रह्मशब्दोऽत्र सामान्यवाची तदा श्रीनिवासशब्देन विशेष्येत । नैवमसौ, “ तस्मादन्यत्र औपचारिकः " इत्यत्रैव स्थापनात् ; जन्मादिसूत्रे " निरतिशय- बृहहूंहणं च ब्रह्म" इति निर्वचनोक्तेः ; कारणत्वाधिकरणे च – “ ब्रह्मशब्दस्य परमात्मा- साधारणत्वेऽपि प्रत्यगात्मन्यपि कदाचिदुपचरितप्रयोगदर्शनात् ” इत्यादि; वियदधिकरणे च सूत्रम् —’’ स्याच्चैकस्य ब्रह्मशब्दवत् " इति ; तत्र च भाष्यम् – “ यथा ब्रह्मशब्द: तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ’ इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्नेव प्रकरणे तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ’ इति ब्रह्मणि मुख्यतया प्रयुज्यते तद्वत् इति ; " परं जैमिनिर्मुख्यत्वात् ” इत्यत्र चैवं भाष्यम् - - " ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात्” इति । नापि परशब्दवदौपचारिकप्रयोगव्यवच्छेदार्थोऽत्र विशेषकः श्रीनिवासशब्दः, परस्मिन्नित्यनेनैव पर्याप्तेः । नाप्येकत्र रूढत्वेऽप्यप्रसिद्धतया पर्यायेण बोधनम्, तदयोगात् ; न ह्यत्र ‘कोकिलः पिकः’ इतिवदन्वयः, असामर्थ्यात् वाक्यभेदाच्च ; न च तद्युक्तम्, " संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते " इति न्यायात् । श्रीनिवास इति नाम, अन्यस्तु त्यक्तरूढियोंगतो विशेषक इति चायुक्तम् ; अखिलेत्यादिना गतार्थ- त्वात् । अथ च सामान्यवाची ब्रह्मशब्दः कचिद्भाति — समन्वयसूत्रे तावत्सद्ब्रह्मादिशब्दा- नागुत्तरोत्तर विशेषकत्वाभिप्रायेण समभिव्याहारः । आकाशाधिकरणेऽपि :-" सदादिशब्दाः साधारणाकाराः इत्युक्तम् । आरम्भणाधिकरणेऽपि – “ सह्मादिशब्दास्तुल्यप्रकरण- स्थास्तत्तुल्यप्रकरणस्थेन नारायणशब्देन विशेषितास्तमेव गमयन्ति ” इति । पाशुपताधि- करणेऽपि "

  • " सृष्टिवाक्योदितं स्रष्टारं नारायणमेव समानप्रकरणस्थाः ’ सदेव सोम्येदमग्र आसीत् ’ इत्यादिसद्ब्रह्मादिशब्दाः प्रतिपादयन्ति " इति । अतः कथमेतत् ? इत्थम् - प्रत्ययितग्रन्थस्थे परस्परविरोधे तात्पर्यतस्तावद्विरोधो निवार्यः । या ब्रह्मशब्दस्य परमात्म- न्येव रूढिरादावेव स्थापिता सैव सर्वश्रेष्ठा । साधारण्यानूक्तिस्तु बहुश्रुत्यादिप्रयोगदृष्ट्या कुदृष्टिवादिविप्रतिपत्त्या चात्मादिशब्दवजातिशब्दत्वं योगमात्रमनेकरूढिं वा पश्यतामा - 99 CC-0 No Rights Reserved. Digitized by eGangotri0 तत्त्वटीका ४३ भिमानिकं साधारण्यमन्वारुह्य तदिष्टान्यार्थत्वशङ्कानिरासाय स्यात् । तथाच — “ ब्रह्मणि इति सामान्यशब्दः ’ श्रीनिवासे’ इति विशेषशब्दः " इति व्याख्यानेष्वप्येवं गतिः । तथात्र साधारण्यान्वारोहेण श्रीनिवास इति विशेषनिष्कर्षः स्यात् । यद्वा — ब्रह्मशब्दस्यै- करूढिमनुरुध्यैव तदेव श्रीनिवासशब्देन विशेष्यते ; या सर्वेराश्रीयते सा च तदाश्रयेति । अत एवात्र छागपशुन्यायोऽभिप्रेतः । अन्यथा चतुर्मुखादित्वमप्याशङ्कयेत । अत एव " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ” इति परतत्त्वासाधारणपुरुषशब्दार्थोऽपि श्रियः पतित्वेन विशेष्यते । तेन कारणत्वादिभिरिव परस्मिन् ब्रह्मशब्दरूढिः स्थापिता स्यात् । प्रसिद्धतम- नामान्तरवाच्यत्वलक्षणान्वयः ’ श्रीनिवासशब्दार्थे ब्रह्मणि’ इति । श्रीनिवासस्य वा परत्व- सिद्धयै प्रकृताकारबृहत्त्वनिमित्तब्रह्मशब्दवाच्यत्वं विशेषणीकार्यमिति । सत्यत्वादिस्वरूप- निरूपकधर्मपञ्चकनिरूपितमपि परं ब्रह्म श्रीनिवासत्वेन विशेषितमेव ब्रह्मविद्यावेद्यमित्युक्तं भवति । श्रीसंश्रयणं नित्यं स्वरूपवन्मूर्त्याऽपि " श्रीवत्सवक्षा नित्यश्रीः " इत्यभिधानात् । अत्र “ शान्तानन्त " इत्यादिकमनुसंधेयम् । एतेन पर्यङ्कविद्यादिप्रसिद्धविभूत्यन्तरवत्त्वं च भवत्वित्याशिषा प्राप्यान्तरेभ्यः स्वादुतमोऽयमुपाय इति व्यज्यते । यथोक्तम्- " " क्क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥” इति । 99 मम ; " सोऽहं भगवः शोचामि " इत्याद्युक्तावस्थस्येति भावः । परस्मिन् ; सर्व- नियन्तृत्वनिरुपाधिकानन्दयितृत्वाभ्यां “सा काष्ठा सा परा गतिः इत्याम्नातवशी- कार्यत्वप्राप्यत्वकाष्ठाभूते । प्राप्यत्वोक्त्या " रसह्येवायम्" इत्यादिसिद्धमुक्तावस्था- ‘शोधनं च । सृष्ट्याद्युपयुक्त सार्वश्यादिकृत्स्त्रोत्कर्षपरमसीमत्वं वा परत्वम् । एवं परत्वसौ- लभ्याभ्यामभिगम्यं सिद्धप्राप्यादिरूपं भजनीयं विशोधितम् । परत्वं सुलभत्वेन रहितं नोपकारकम् । सुलभत्वं तथा तेन रहितं नोपकारकम् ॥ ७१ ॥ साध्योपायशोधने तु, भक्तेः पूजादिमात्रत्वं धियश्चिन्तादिरूपताम् । व्यवच्छेत्तुमिह न्यस्तं शेमुष्यादि पदद्वयम् ॥ ७२ ॥

४४ श्रीभाष्यम् (मङ्गलश्लोकः) वेदनादिशब्दानां पश्वादेिनीत्या वक्ष्यमाणाया विशेषविश्रान्तेः संग्रहोऽयम्- शेमुषीति ; शमाद्यङ्गिकां बुद्धिं दर्शयते । महनीयविषयप्रीतिर्भक्तिः । प्रीतिश्च धीविशेषः यादृश्या धिया सा साध्या परेष्टा, तादृश्या एव तत्त्वं युक्तम् ; तदुक्तं भक्तिमेवाधिकृत्य वेदार्थसंग्रहे—“ येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकमित्यभिमतं तद्विषयं ज्ञानमेव सुखम् ; तदतिरेकि पदार्थान्तरं नोपलभ्यते ; तेनैव सुखित्वव्यवहारोपपत्तेश्च " इति । " स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते " इति च । आपादचूडं शास्त्रार्थ इत्थमत्रानुवर्णितः । प्रसिद्धिरवधित्साया यथास्थानं भविष्यति ॥ ७३ ॥ | एवं शास्त्रार्थोऽनुक्रान्तः । विशेषतश्चोभयलिङ्गपादगत्या ध्येयं शोध्यते - पूर्वद्वि- कसिद्धेऽपि ं ब्रह्मतत्त्वे पुनस्तत्प्रभावविशेषस्थापनातिशयात्पादो ह्ययमुपयुक्ततमः अनन्यो- पासिसिषातिशयहेतुत्वात् । अत्रत्यब्रह्मगुणविशेषाकार वादैरनन्तरपादे विद्यानानात्वोक्तेश्च ; तदिहाखिलेत्यादिना स्वाप्नप्रपञ्चादेरपि जन्मादिहेतुत्वेन परत्वातिशयोक्तघा संध्याद्यधि- करणचतुष्टयाभिप्रेतं क्षेत्रिणां स्वप्नसुषुप्त्यादेः कारणं परस्याकुण्ठितविचित्रशक्तित्वं व्यञ्जि- तम् । ’ विदीप्ते श्रीनिवासे’ इति पदाभ्यां मिथोऽनुपमर्दिव्यावृत्तिविधिरूपविशेषणव- गोपलक्षणात् " न स्थानतोऽपि परस्य इत्युक्तपरशब्दोपादानाच्चोभयलिङ्गाधिक्रियार्थ उदाहृतः । चिदचिदनुप्रवेशादिसंग्रहात् लीलाशब्दसामर्थ्याच्चांशतोऽपि स्वस्य स्वयमेवा - ज्ञत्वापादनशङ्काप्रतिक्षेपादहिकुण्डलाधिकरणोक्तं स्मारितम् । परस्मिन्निति कारणस्यैवात्र 99 परत्वोक्तघा " परमतः इत्युक्तं दर्शितम् । शेषेणार्थसिद्धोपासिसिषासूचनमिति । इत्यधिकरणार्थोऽपि ख्यापितः । विनतेत्यादिना प्रकारान्तरेणापि ध्येयमिह शोध्यते- पूर्वं द्विलिङ्गपादस्य प्रक्रिया परिशोधिता । नारायणानुवाकादिनिर्णीतार्थस्त्विहोच्यते ॥ ७४ ॥ 66 फलमतः 9 " अत्र ह्यखिलेत्यादिना सर्वकारणत्वं विनतेत्यादिना मोक्षार्थसर्वविद्यावेद्यत्वं श्रुति- शिरसि विदीप्त इत्यनेन सर्वोपनिषदेकप्रतिपाद्यत्वं च परस्य ब्रह्मण उक्त्वा तस्य श्रीनि- वासत्वं च वदतोऽयं भावः " कारणं तु ध्येयः " इत्यादिषु सर्वकारणमेव मुमुक्षोर्येयं श्रुतम् । तदेव सह्मादिशब्दैरुतम् । ते च न भिन्नविषयाः, सर्वत्र जगत्कारणस्यैकत्वोत्तया


तत्त्वटीका ४५ विकल्पसमुच्चयायोगात्, कृत्स्नवेदप्रामाण्ये निश्चिते सर्वेषामन्यतमस्य त्यागायोगाच्च ; अन्यथा विवधघटन्यायेनेतरप्रहाणायोगाच्च । अत एकविषयत्वे सिद्धे ब्रह्मशानादिनिषेध- युक्तभूयिष्ठाबाधितार्थसात्त्विक बहूपबृंहणानुगुणमहोपनिषत्पठितानन्यसाधारण रूढ्यास्पदनारा - यणशब्दोक्तः श्रीपतिरेव सदादिशब्दार्थः । कारणविषयपरविद्योपास्यनिर्धारणं च नारायणानु- वाकविषयलिङ्गभूयस्त्वाधिकरणसिद्धम् । सर्वेषां च कारणवाक्यानां सर्ववेद पठितपुंसूक्तै- कार्थ्यं युक्तम् । तत्प्रतिपाद्यश्च श्रीपतिरित्युत्तरानुवा कसिद्धम् । कारणविषयहिरण्यगर्भशब्दस्य "" अद्भयः संभूतो हिरण्यगर्भ इत्यष्टौ ” इति श्रुत्यैव श्रीपतिविषयत्वं दर्शितम् । एवं पुंसूक्तशब्दार्थप्रत्यभिज्ञया श्वेताश्वतरोपनिषदादयोऽपि व्याख्याताः । अतः “ सर्वे वेदा यत्रैकं भवन्ति " वेदैश्च सर्वैरहमेव वेद्यः " इत्यादिसिद्धमिह स्थापितम् । अत एव पुरुषनारायणोत्तरनारायणानुवाकानामैककण्ठधेन ‘श्रीनिवासे ब्रह्मणि’ इति श्रनिवास एव ब्रह्मशब्दार्थः । 66 परपक्षनिरासश्च कृतः शास्त्रैकदेशतः । व्यज्यतेऽस्मिन्पदैस्तैस्तैः पद्ये शास्त्रार्थसंग्रहे ॥ ७५ ॥ व्यनक्त्यखिलशब्दोऽत्र चिदचिद्भेदसत्यताम् । एकस्मिन्नपि तद्व्यक्तिर्भागभेदव्यपेक्षया ॥ ७६ ॥ अर्थेन्द्रियगतैस्तद्वदुभयानुभयाश्रितैः । विना दोषैरिहाध्यक्ष बाध्यमिच्छन्स्वधीहतः ॥ ७७ ॥ भेदसत्यत्वपक्षस्य भेदमिथ्यात्वपक्षतः । विभागो यदि मिथ्या स्याद्व्याहतिः सर्वतोमुखी ॥ ७८ ॥ अनन्यपरवाक्योक्तविभूतिगुणविग्रहान् । अबाधित्वैन नेतव्या नेति नेत्यादयः प्रभौ ॥ ७९ ॥ श्रुतिस्तु नित्यनिर्दोषा स्वतः प्रामाण्यशालिनी । अलौकिकेऽर्थे न क्षेप्या स्वेष्टदूराद्भुतोक्तिवत् ॥ ८० ॥ मिथोंऽशानां सशेषैश्च शेषस्यैक्यं निगृह्णती । अखिलोक्तिरनेकान्तवादानपि विलुम्पति ॥ ८१ ॥ विश्वमेतदनेकान्तं वदतो विहतित्यजः । न साध्यदूष्यसिद्धान्तरागद्वेषादिसंभवः ॥ ८२ ॥ " C

४६ श्रीभाष्यम् नप्रयोगश्च सार्थोऽसौ यथाव्युत्पत्ति बोधकः । अभावस्यानुपाख्यत्वं हन्ति निर्बाधबोधतः ॥ ८३ ॥ भावान्तरमभावोऽसौ पदार्थान्तरमेव वा । द्विधापि नि:स्वभावत्वं तत्स्वभावे कथं भवेत् ॥ ८४ ॥ चतुर्विधाणुमनसामाकाशादेश्च नित्यताम् । अस्यत्यखिलजन्मोत्त्या नित्यमन्यत्तु शास्त्रतः ॥ ८५ ॥ सज्जायेतेति कण्ठोक्तकार्यसत्त्वापलापिनः । सत्तार्थधातुनिष्पन्नभुवनोक्त्या निराकृताः ॥ ८६ ॥ सदसत्कोटिनिर्मुक्त कल्पना हि निरर्थिका । सदसद्रूपपक्षोक्तविरोधस्याविशेषतः ॥ ८७ ॥ भावाभावविकल्पे तु कोट्यन्तरमसंभवि । “व्यक्तयध्यासविसृष्टघादि विकारेषु विवक्षताम् ॥ ८८ ॥ जन्मव्याहरणाद्वाधः कृतः श्रुत्यादिदर्शितात् । अभिव्यक्तेरनादित्वे कारकाणामनर्थता ॥ ८९ ॥ तदागन्तुकतामिच्छन् किं नान्यत्रैवमिच्छति । विसृष्टिः कँचिदिष्टैव विकासोऽपि दशान्तरम् ॥ ९० ॥ विकासतद्वतोरैक्ये व्याघातः सांख्यपक्षवत् । एक एव निमित्तं चोपादानं चेति सूचनात् ॥ ९१ ॥ योगवैशेषिकाद्युक्तं युक्त्याभासमभाषत । कर्ता स्वपर संयोगे समवायी च विश्वकृत् ॥ ९२ ॥ न च कम्प्रेषु संयोगं नित्यं भौतेषु भावयेत् । जनयन्स्वसुखादीनि दृष्टो जीवोऽपि तत्र च ॥ ९३ ॥ कर्तृत्वसमवायित्वे काणादैरपि दुस्त्यजे । बहु स्यामिति मन्तुश्च विकारः परिकल्पितः । शरीरद्वारतः सृष्टेः सूचनात्प्रत्यरुध्यत ॥ ९४ ॥ (मङ्गलश्लोकः) १. व्यक्तिरभिव्यक्तिः, अध्यासो विक्षेपः, विसृष्टिः विसर्गः; यथा कूर्मादेश- कुलितानामवयवानां प्रसारणम् ।

तत्त्व टीका क्रम ( ज्जन्मादि सर्वेषामेकतस्तदितीरणात् । क्षणभङ्गः प्रवाहेशपक्षश्चात्र पराकृतः ॥ ९५ ॥ स्थिरापेक्षा ह्यनुमितिः स्थिराभावं न साधयेत् । न च प्रत्यक्षमक्षोभ्यप्रत्यक्षान्तरबाधतः ॥ ९६ ॥ सर्गप्रलयवादानामान्यपर्यान्मृषार्थता | अर्धलोकायतारूढैरुक्ताप्यत्र बहिष्कृता ॥ ९७ ॥ अनुप्रवेशादि वदन्निराचक्रे यथाश्रुति । सामानाधिकरण्यस्य बाधैक्यादिप्रयुक्तताम् ॥ ९८ ॥ विशिष्टविषयानेकसामानाधिकरण्यतः । निर्भेदैकार्थतां तस्य वदन्त इह वारिताः ॥ ९९ ॥ चार्वाकादिमतं चात्र हेत्वाद्युक्त्या निवर्तितम् । निरानन्दोक्तिपक्षश्च सलीलत्वेन खण्डितः ॥ १०० ॥ निरीश्वरजगत्सर्गः शब्दादेश्व तदुद्भवः । निर्व्यापारेशपक्षश्च तत एव न्यषिध्यत ॥ १०२ ॥ बहुश्रुत्यादिसिद्धत्वाद्वाधलेशविमुक्तया । लीलोक्यैवैक्यपक्षेषु स्रष्टृत्वायोग उच्यते ॥ १०२ ॥ संकल्पाध्यसनं तावन्न विकल्पं सहेदिह । अचेतनतया नित्यमविद्यावृत्तिमात्रयोः ॥ १०३ ॥ त्र्यंशसावादे च सुषुप्तस्येशितुस्तदा । अचिज्जीवसमानस्य न लीलोद्यमसंभवः ॥ १०४॥ नित्यसर्वज्ञताश्रुत्या सुषुप्तिश्चास्य बाधिता । कालाधीनप्रबोधादेरनैश्वर्यं च दुस्त्यजम् ॥ १०५ ॥ सुषुप्तिश्च प्रबोधश्च प्राक्संकल्पादिति त्वसत् । अनन्तानुभवानन्दजिहासानुपपत्तितः ॥ १०६ ॥

४७४८ श्रीभाष्यम् नाचित्संकल्पयेन्नापि जीवोऽसिद्धेन्द्रियादिकः । ईश्वरः शान्तनिद्रोऽपि कुर्यान्नानर्थमात्मनः ॥ १०७ ॥ नित्यप्रबुद्ध ईशांशोऽप्यतो नेहविहारवान् । AL भोक्तॄणां स्वात्मतादात्म्यं न वेत्ति न हि सर्ववित् ॥ १०८ ॥ विनतादिपदैरत्र जीवानामितरेतरम् । ईशित्रा च स्वरूपैक्यं तत्तन्मानैः परास्यते ॥ १०९ ॥ असर्वज्ञोऽहमित्यात्मा येनाध्यक्षेण गृह्यते । सर्वज्ञैक्यमतिस्तस्य न तच्छक्त्यापि संभवेत् ॥ ११० ॥ नानात्मानो व्यवस्थात इत्यन्यैरपि सूत्रितम् । विरुद्धधर्मसंसर्गं व्यनक्ति विविधोतितः ॥ १११ ॥ वर्णाद्यैर्नन्तृवैविध्यादलेपकमतं हतम् । यावज्जीवं मुमुक्षोश्च तद्धर्मो निश्चलीकृतः ॥ ११२ ॥ अत्याश्रमिभ्य इत्येतत्प्रशस्ताश्रमयोगतः । अलेपश्च श्रुतः पापैः प्रमादात्तैरिति स्थितिः ॥ ११३ ॥ तदुपर्यादिसूत्रोक्ता सर्वदेवैकसेव्यता । व्यञ्जिता विविधोत्तयैव तत्तत्पारम्यनुत्तये ॥ ११४ ॥ चातशब्देन जीवानामानन्त्यमपि सूचयन् । इतः प्राक्सर्वमुक्तिः स्यादिति चोद्यमवारयत् ॥ ११५ ॥ आत्मानन्त्यादमुक्तानां मुक्तानामप्यनन्तता । आनन्त्यतारतम्येन सद्द्द्रव्यादिनयाद्भवेत् ॥ ११६ ॥ एको जीव इतः पूर्वममुक्तो हेत्वनागमात् । इति पश्यन्ननेकेषु तथात्वं किं न पश्यति ॥ ११७ ॥ मुक्तेर्नतिभवत्वोत्त्या नित्यमुक्तिर्निराकृता । स्वरूपस्य न मुक्तित्वं सिद्धसाध्यविरोधतः ॥ ११८ ॥ (मंङ्गलश्लोकः)

तत्त्वटीका ‘क्रियातच्छक्त्यपूर्वाद्यैः स्वर्गादीति परोदितम् । नन्तृरक्षणदीक्षोक्तया निरस्तं निगमाप्तया ॥ ११९ ॥ विध्यपेक्षे तु वैधार्थद्वारे श्रुत्यैव दर्शिते । श्रुतहानादिरन्याय्यो रात्रिसत्रादिनीतितः ॥ १२० ॥ नतिरक्षादिजीवेशव्यापारप्रतिपादनात् । साक्षिमात्रत्वमनयोस्तत्तदुक्तमपास्यत ॥ १२१ ॥ वेदानित्यत्ववादश्च वेदोज्झितपथस्तथा । अनुमेयेशपक्षश्च श्रुत्याद्युक्ता निवारितः ॥ १२२ ॥ ईशितुः सगुणत्वेन भङ्गुरत्वादि साधयन् । धर्मिग्राहकवेदान्तविदीप्तिध्वस्तदृष्टिः ॥ १२३ ॥ अवेद्यत्वमवाच्यत्वमपि प्रोक्तं कुदृष्टिभिः । निगमान्तविदीप्तत्व निर्देशेन निवर्तितम् ॥ १२४ ॥ उपासनाद्यनर्हं यत्तद्ब्रह्म श्रुतमित्युशन् । परस्य विद्युपास्यादिविषयत्वोक्तितो हतः ॥ १२५ ॥ ४९ " १. अत्र विनतविविधभूतवातरक्षैकदीक्षे इति पदेन “ वेदवेद्ये परे पुंसि इत्याद्युक्तरीत्या वेदान्तरङ्गोपबृंहणभूत श्रीमद्रामायणादिप्राप्तरक्षकत्वदीक्षोक्त्या कर्मों- पासनादिरूपश्चेतन व्यापार एव स्वरूपतो वा शक्तितो वा अपूर्वादिद्वारा वा भोगापवर्गादिफलकारणमिति मीमांसकादिमतं निरस्तम् । अनन्तरश्लोके तु (C फलमतः " इत्यधिकरणे " पूर्व तु बादरायणो हेतुव्यपदेशात् " इति सूत्रोक्ता अचे- तनव्यापारस्य फलकारणत्वाभावोपपत्तिः ब्रह्मण एव फलकारणत्वोपपत्तिश्च दर्शिता । श्लोकार्थस्तु - विधिः कर्मोपासनादिप्रेरणा, वैधार्थः कर्मोपासनतत्फ- लादिः, विध्यपेक्षितं वैधार्थद्वारं नाम प्रेरणाया अवश्यापेक्षितं कर्मोपासनादेस्तत्फ- लस्य च परस्परसंबन्धघटकम् । न हि फलसंबन्धेन विना कर्मादिषु चेतनाः प्रेरयितुं शक्यन्ते । तथा च तादृशे द्वारे स्वार्थे प्रामाण्यमुपगतया श्रुत्यैव रात्रि- सत्रन्यायेन देवतारूपत्वेन दर्शिते सति तादृशश्रुतार्थहानिरन्याय्य इति । वायव्यं श्वेतमालभेत भूतिकामो स एवैनं भूतिं गमयति …. स एवैनं भूतिं गमयति” इत्यादिश्रुतिर्हि देवताया एव फलकारणत्वं कर्मणां देवताराधनत्वं च प्रत्यक्ष प्रतिपादयति । अतस्तद्धानमन्याय्यमित्यर्थः । 66 7

५० श्रीभाष्यम् न विभ्वस्तीति वदतां तत्तन्मानैः प्रणुत्तये । बृहत्त्वमपरिच्छेद्यं ब्रह्मशब्देन दर्शितम् ॥ १२६ ॥ भागभेदाद्ययोगेन विभुतत्त्वस्य निह्नवे । अणुष्वपि स दुर्वारः सर्वासत्त्वे स्ववाग्घतिः ॥ १२७ ॥ व्यतिरेकग्रहायोगाद्विभुं कारणमुज्झतः । अबाध्यश्रु श्रुतिसिद्धयैव तत्सिद्धिं समदर्शयत् ॥ १२८ ॥ कारणत्वादिधर्माणां प्रतियोगिमतामपि । अकाल्पनिकतां प्राह तथा तन्मानबोधनात् ॥ १२९ ॥ स्वेष्टस्वपरनिर्वाहन्यायात्संबन्ध आश्रितः । नानवस्थितये नातिप्रसक्त्यै चेति भाव्यताम् ॥ १३० ॥ श्रीनिवास पदेनात्र निर्विशङ्कार्थवाचिना । त्रिमूर्तिसाम्यतादात्म्य व्यक्त्यन्तरजुषः क्षताः ॥ १३१ ॥ अन्योक्तिः परविद्यासु निरुक्तत्यादेः पराश्रया । तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ॥ १३२ ॥ बायैः कुदृष्टिभिश्वोक्तास्त्रिमूर्त्यत्तीर्णक्लृप्तयः । ब्रह्मणः श्रीनिवासस्य परत्वोत्त्या पराहताः ॥ १३३ ॥ आप्नोति परमित्येतत्सूचयन् परशब्दतः । स्वात्मप्राप्त्यादिमात्रस्य निराचक्रेऽपवर्गताम् ॥ १३४ ॥ परानुभूतेर्नाभावो न च हासो निरंहसः । अनिःशेषितकर्मा तु मुक्त इत्युपचर्यताम् ॥ १३५ ॥ परत्वमनवच्छिन्नं मुक्तादिभ्योऽपि हि श्रुतम् । ततः सर्वगुणात्यन्तसाम्यवादोऽप्यपोदितः ॥ १३६ ॥ एकीभावश्रुतिश्चात्र प्रकारैक्यविवक्षया । शुद्धाशुद्धाम्बुयोगे हि तादृक्त्वं श्रुतिदर्शितम् ॥ १३७ ॥ त्रय्यन्तदीप्ततामुक्त्वा भक्तेर शासनात्पुनः । शब्दतोऽध्यक्ष संवित्तेरसंभव उदाहृतः ॥ १३८ ॥

(मङ्गलश्लोकः) तत्त्वटीका आत्मनोऽनहमर्थत्वं वदतामपनुत्तये । ममेतीरितमात्मानमहमर्थं न्यदर्शयत् ॥ १३९ ॥ शेमुष्यादिपदाभ्यां तु कर्मधीतद्विकल्पयोः । वाक्यार्थेक्यमतेश्चात्रानुपायत्वं प्रदर्शितम् ॥ १४० ॥ बोद्धबुद्धिभिदामत्रं ममकारेण दर्शयन् । विषयग्राहिणी बुद्धिरात्मेति मतमच्छिनत् ॥ १४१ ॥ मम स्वरूपमितिवद्भेदोक्तिरुपचारतः । इत्यसद् बाधविरहादन्यथातिप्रसङ्गतः ॥ १४२ ॥ बाधः स्वारसिको नास्ति संविदां बोद्धबोध्ययोः । कुतर्केर्यदि शेमुष्या प्रतिबन्दीमसूचयत् ॥ १४३ ॥ विषयेणाश्रयेणापि स्वधर्मेणापि शेमुषीम् । विशिषस्तन्निराकर्तृन्निरास्थादिति मन्महे ॥ १४४ ॥ एवं तु जीवपरयोः स्वरूपैक्याभिमानिनाम् । अत्र शारीरकारम्भस्त्रयाणामुपरुध्यते ॥ १४५ ॥ मिथ्याभूतस्य बन्धस्य तत्त्वबुद्ध्यैव बाधनात् । तत्प्रधानमिदं शास्त्रमारभ्यमिति दुर्भणम् ॥ १४६ ॥ प्रमितस्यास्य सत्यस्य परभक्त्या विनाशनम् । प्रतिपादयतानेन परारम्भो निवारितः ॥ १४७ ॥ न जिज्ञासेत धीरत्र ज्ञातृत्वादिप्रहाणतः । ज्ञातृभूतोऽहमर्थश्चेन्नारभेत स्वनाशनम् ॥ १४८ ॥ स्वदुःखशान्तये कश्चित्स्वनाशं मूढ इच्छति । न तथात्र गतक्लेशस्वात्मस्थितिसमर्थनात् ॥ १४९॥ इत्थं ब्रह्मप्रतिच्छन्द जीवपक्षेऽपि दूषणम् । ईश्वरोऽपि न जिज्ञासुः सार्वज्ञ्याध्याससमतेः ॥ १५० ॥ भावाभावात्मकाशेषविशेषोज्झितवर्ष्मणः । जिज्ञासाकर्मताप्यत्र विशिष्टोत्तत्यैव बाधिता ॥ १५१ ॥ C ५१

५२ श्रीभाष्यम् विषयत्वप्रहाणाच्च जिज्ञास्यत्वं विहन्यते । न ह्यत्रोपहिते चिन्ता न च सा भ्रान्तिशान्तिकृत् ॥ १५२ ॥ अवेद्ये हि न जिज्ञासा सा चेत्कथमवेद्यता । न च कोटिद्वयोन्मुक्तं किंचित्स्याद्वयाहतत्वतः ॥ १५३ ॥ ज्ञेयत्वे चात्मता न स्याद्धादिवदिति त्वत् । सह दृष्टेर्द्वयोर्वर्वस्तुत्वोष्णत्वयोरिव ॥ १५४ ॥ कर्मकर्तृविरोधश्च स्वदृष्टौ भङ्गगुम्भितः । न हि दृष्टे विरुद्धत्वं न दृष्टिः शक्यह्निवा ॥ १५५ ॥ अवेद्यमिति वेद्यत्वे वेद्यत्वं स्वीकृतं भवेत् । अवेद्यमित्यवेद्यत्वे वेद्यत्वमनपोदितम् ॥ १५६ ॥ अवाच्यमित्यवाच्यत्वे वाच्यत्वेऽपि च वस्तुनः । वाच्यतैव भवेत्तस्य वाच्यावाच्यवचोऽन्वयात् ॥ १५७ ॥ प्रोवाचावच नेत्याद्या उक्तयश्च परात्मनः । अपरिच्छेद्यतार्थाः स्युर्न चेत्स्वोक्त्यादिभिः क्षतिः ॥ १५८ ॥ ज्ञानत्वाज्ज्ञेयता नास्ति ज्ञातृताप्यात्मनस्त्विति । दृष्टश्रुतिविनिर्धूतं ज्ञानत्वं तु स्वभासनात् ॥ १५९ ॥ किंच श्रुतिशिरस्येव विदीप्तिं वदता विभोः । परेषां व्यज्यतेऽर्थेषु त्रय्यन्तनिरपेक्षता ॥ १६० ॥ स्वप्रकाशा मतिर्धीत्वाद्दश्यत्वाद्विमतं मृषा । इत्याद्यैरेव सिद्धेऽर्थे कृतं त्रय्यन्तचिन्तया । १६१ ॥ सगुणोपासनादीनां सिद्धयै तच्चिन्तनं यदि । तच्चेदद्वैतधीसिद्ध्यै तद्दृथा तद्विरोधतः ॥ १६२ ॥ फलान्तरार्थं तच्चिन्ता यदीष्येत तथा सति । मोक्षप्रधानशास्त्रत्वं गतं शारीरकस्य ते ॥ १६३ ॥ श्रुतिवाक्यप्रसूता धीर्बाधिका नानुमानिकी । इति वक्तुं न ते शक्यमदृष्टस्यानपेक्षणात् ॥ १६४ ॥ (मङ्गलश्लोकः) CC-0 No Rights Reserved. Digitized by eGangotriतटीका अनुमानाच्च वाक्याच्च रज्जुसर्पादिविभ्रमे । अविशेषेण बाधो हि दृष्टस्तद्वदिहास्तु ते ॥ १६५ ॥ प्रत्यक्षं शब्दजन्यं च दुःसाधं निष्फलं च ते 1 परोक्षादपि शब्दार्थात् कचिद् बाधस्य संमतेः ॥ १६६ ॥ न चानुमानाशक्तस्य वाक्यमित्यपि युज्यते । सर्वमानान्तरानर्हे शास्त्रमानत्वसाधनात् ॥ १६७ ॥ अनेक नियमोपेतवाक्यचिन्ताविधेर्वरम् । लोकदृष्टयनुसारेण श्रुतादेश्च क्षमानुमा ॥ २६८ ॥ ज्ञातेदृशानुमानानां भ्रान्तिर्न भ्रश्यतीति चेत् । ज्ञाततादृशवाक्यानां समं तत्संभ्रमादृते ॥ १६९ ॥ द्वैताद्वैतमतेऽप्येवमारम्भोऽनुपपत्तिमान् । न हि सर्वविश्चिन्त्यं जीवस्य न तदैक्यतः ॥ १७० ॥ उपाधितः स्वतो वात्र भेदे सत्यपि किं भवेत् । रामादिभेदाद्वैषम्यं सर्वज्ञैक्यसमत्वतः ॥ १७१ ॥ सर्वेषु चावतारेषु नित्यं सर्वार्थवेदिनः । सुषुप्तिभ्रमदुःखाद्यं प्राहुः शैलूषनीतितः ॥ १७२ ॥ इच्छया संसृतिश्चापि न शक्यमिति भाषितुम् । परेच्छा तव जीवेच्छा तन्मूलश्च भवो यतः ॥ १७३ ॥ ज्ञातस्वजीवतादात्म्यः शक्तश्चेत्प्रस हेद्भवम् । अशक्तो यदि मोक्षार्थं जिज्ञासेत कथं परम् ॥ ९७४ ॥ अतो जीवेशयोर्भेदमभेदस्पर्शवर्जितम् । बभाषे नन्तृनन्तव्यरक्ष्यरक्षकतादिभिः ॥ १७५ ॥ इत्थं निवारितो भेदाभेदवादविधायिनोः । द्वयोरपि च शास्त्रस्य प्रारम्भः प्रातिकूल्यतः ॥ १७६ ॥ स्वमते तु स्वरक्षार्थविशिष्टविषयोत्थितेः । निःशेषमिह निर्धूताः शास्त्रानारम्भहेतवः ॥ १७७ ॥ ५३

५४ श्रीभाष्यम् ज्ञातमज्ञातमपि वा न जिज्ञास्यमिति त्वसत् । विदिताविदिताकारभेदेनैवोपवर्णनात् ॥ १७८ ॥ सिद्धं धर्मिणमुद्दिश्य साध्यधर्मविधानतः । इत्थमेवानुमानेऽपि वादिनोऽप्यनुमेनिरे ॥ १७९ ॥ व्युत्पत्तिद्वार सिद्धेऽपि तद्विशेपेऽपि शास्त्रतः । अलौकिकेऽर्थे समभिव्याहारात्सा हि संमता ॥ १८० ॥ 29 (मङ्गलश्लोकः) न च नेदं शास्त्र निर्विषयम्, “ श्रोतव्यो मन्तव्यः इति श्रुत्यनूदितविषयोक्तेः । नाप्यसौ भ्रान्त्या मानान्तरेण वा सिद्धः, निर्बाधे श्रुतिशिरस्येव विदीप्तत्वात् । निरूपितः, पूर्वकाण्डयोरान्यपर्यात् ; शास्त्रान्तरे तु प्रसङ्गाभावाद्विरुद्धोक्तेश्च । न च ध्वाङ्क्षदन्तसंख्यावदनिरूप्यः स्वगृहविनिक्षिप्तवृहन्निधिसाम्यात् तदधीनबृंहणत्वरूपरक्षो- क्तेश्च । न च मुक्तिः सिद्धा, प्रत्यक्षादिविरोधात् । नाप्यन्येन साध्या, देहादिसृष्टया बन्धकस्यैव पुरुषस्य स्वनन्तृमुक्ति हेतुत्वात् । नाप्यन्येन निरोध्या, एतस्य स्वायत्ताखिल- सत्ताकतया निःसमाभ्यधिकत्वात् । न ततोऽपि सा दुष्प्रापा, तस्य तदेकदीक्षितत्वात् । न स्वर्गादिवत्पुनरावृत्त्यादिभिर्दुरन्ता, निग्रहादेर्निःशेषनिवृत्तत्वात् । न च समव्यत्यय- फला, सुखोपायेन निरवधिकसुखलब्धेः । नाप्यत्राधिकार्यभावः यथाश्रुति ‘विनत- विविधभूत’ इति सामान्यतः ‘मम’ इति विशेषतश्च व्यञ्जनादिति । प्रतितन्त्रविहीनत्वादनारभ्यत्वमित्यपि । असाधारणरूपेण भाषणेन निराकृतम् ॥ १८९ ॥ श्रूयते हि सर्वशरीरत्वं सर्वान्तर्यामित्वमित्याद्यर्थजातमत्रैव । अथवा, सर्वानिष्टमिहानुक्तं तावतापि किमागतम् । 1 तस्मात्प्रामाणिकं चिन्त्यं परेष्टमथवान्यथा ॥ १८२ ॥ आभिमानिकमानैश्च सिद्धान्ताः स्थापिताः परैः । साधारण्यं क्व वा न स्याद्वैपुल्या देशकालयोः ॥ १८३ ॥ प्रतिपदमिह युक्ति भाष्यकाराशयस्थां कथयितुमुत मन्तुं कः प्रभुस्तां प्रभूताम् । तदपि कतिचिदस्मद्दर्शितं किंचिदेत- च्छुत फलमवयन्तः स्वादयिष्यन्ति सन्तः ॥ १८४ ॥ अत्रैवं परगुरुस्तुत्यादिविशिष्टमङ्गलान्तर्णीतपरमविषयाद्युक्त्यास्य शास्त्रस्यानारभ्य- त्वमप्यपास्तम् ।

मूलभावप्रकाशिका श्रीमते रामानुजाय नमः । श्रीरङ्गरामानुजमुनिविरचिता श्रीभाष्यव्याख्या मूलभावप्रकाशिका | येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ अतसीगुच्छ सच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ ५५ इह खलु भगवान् भाष्यकारः कुमतिकलुषितं शारीरकशास्त्रं लोकानुजिघृक्षया पूर्वाचार्यमतानुसारेण व्याचिख्यासुः भाष्यनिर्माणौपयिकशारीरकार्थतत्त्वज्ञानस्य 66 यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ " भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ 99 इत्यादिप्रमाणैः भगवद्भक्तिसाध्यत्वं मन्यमानः प्रारिप्सितस्य ग्रन्थस्याविघ्नपरि- समाप्तिप्रचयगमनाय शिष्टाचारप्राप्तं भगवद्भक्त्याशीरूपं मङ्गलमाचरति — अखिलेत्यादि- ना । 99 66 99 " नारायण परं ब्रह्म नारायणः परं ब्रह्म इति तैत्तिरीयमहोपनिषदोः प्रसिद्धया विशेषवाचिनारायणशब्द मन्तरेणैव परब्रह्मशब्दस्य नारायणादिशब्दतुल्यतया विशेषनिर्देशकत्वसंभवमभिप्रेत्य परस्मिन् ब्रह्मणीति विशेष्यं निर्दिष्टवानिति द्रष्टव्यम् । 66 लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया । रक्षकः सर्वसिद्धान्ते वेदान्तेषु च गीयते ॥ इत्यादिप्रमाणवशात् लक्ष्मीविशिष्टस्यैव भजनीयत्वमभिप्रेत्याह – श्रीनिवास इति । " एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान्प्रार्थयतो विभूतिर्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥ "

५६ श्रीभाष्यम् (मङ्गलश्लोकः) 66 1 इति भागवतोक्तरीत्या लक्ष्मीवल्लभातिरिक्ते निरतिशयब्रह्मत्वासिद्धिरपि श्रीनिवास इत्यनेन सूचिता भवति । विभूतिः लक्ष्मीरित्यर्थः बृहति बृंहयति, तस्मादुच्यते परं ब्रह्म “बृहत्त्वाडूंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते " इति श्रुतिस्मृतिसिद्धे बृहत्वबृंहणत्वरूप ब्रह्मशब्दप्र- वृत्तिनिमित्ते आद्याभ्यां विशेषणाभ्यां क्रमेण दर्शयति । अखिलानां भुवनानां जन्मस्थेमभङ्गादि लीला यस्य तत् तथोक्तम्। " जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिलीलम् " इत्युत्तरत्र वक्ष्यमाणत्वात् आदिपदेन अन्तःप्रवेशनियमनादि गृह्यते । " लोकवत्तु लीलाकैवल्यम् " इति सूत्रे जन्मस्थित्यादेः लीलैव प्रयोजनमिति वक्ष्यमाणत्वात् लीलाशब्दः तत्साध- नलक्षकः । यद्वा “ लोकवत्तु ” इति सूत्रोक्तरीत्या लीलाप्रयोजकस्यापि जन्मस्थित्यादेः परिपूर्णानन्यप्रेर्यस्वच्छन्दचेष्टा रूपतया लीलात्वस्यापि संभवान्नानुपपत्तिः । “सप्तमीविशेषणे बहुव्रीहौ " इति सूत्रे व्यधिकरणबहुव्रीहिसाधुत्वस्यापि ज्ञापितत्वात् भङ्गादिना लीला यस्येति विग्रहः । अनेन विशेषणेन जगत्कारणत्वलक्षणः प्रथमाध्यायार्थः सूचितो भवति अवाप्तसमस्तकामस्य जगत्सर्गाद्यनुपपत्तिं परिहरता लीलाशब्देनाविरोधलक्षणद्वितीया- ध्यायार्थः सूचितो भवति । जगज्जन्मादिहेतुत्वाक्षिप्त सार्वश्याद्यनन्तकल्याणगुणा- श्रयतया स्वरूपतो गुणतश्च बृहत्त्वमपि सूचितम् । विनतानां प्रपन्नानां देवमनुष्यादि- भेदेन विविधानां भूतानां प्राणिनां व्रातस्य समूहस्य बन्धनिवृत्तिपूर्वकनिरतिशयानन्दा- विर्भावरूपरक्षायाम् एका असंभवद्वैकल्यतया मुख्या दीक्षा संकल्पो यस्य तत्तथो- क्तम् । व्रातपदेन विनतानामानन्त्यं सूच्यते । अनेन शरणागतज्ञानविकास हेतुतया वर्धकत्वलक्षणं बृंहणत्वमुक्तं भवति । “बृह बृहि वृद्धौ इति धातुः । अन विनतरक्षापदाभ्यां तृतीयचतुर्थाध्यायार्थो साधनफलरूपौ सूचितौ भवतः । ननु " एको ह वै नारायण आसीत् " " तमेवं विद्वानमृत इह भवति” इत्यादि प्रमाणवत् " न सन्न चासच्छिव एव केवलः " " ज्ञात्वा शिवं शान्तिमत्यन्तमेति इत्यादिप्रमाणानां देवतान्तरविषयेऽपि सत्त्वेन बृहत्त्व बृंहणत्वयोः कथं नारायणनिष्ठत्वनिश्चय इत्यत्राह - श्रुति- शिरसि विदीप्ते इति । अयं भावः 1

  • " सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्प- हवा द्यन्ते, सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति " इत्यादिना आकाशादेः जग- त्कारणत्वस्य श्रुतत्वेऽपि 66 एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

मूलभावप्रकाशिका खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ५७ 99 इति सृज्यत्वश्रवणात् यभाकाशादेर्न जगत्कारणत्वं तथा " ललाटात् त्र्यक्षः शूल- पाणिः पुरुषोऽजायत ” “ नारायणाद्रुद्रो जायते " इत्यादिभिर्देवतान्तराणामपि सृज्यत्व- श्रवणान्न जगत्कारणत्वम् । न च " सर्वमिदं प्रयुक्तुं ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते इति विष्णोरप्युत्पत्तिः श्रूयत इति वाच्यम् : तस्य " अजायमानो बहुधा विजायते " इति श्रुत्या कर्माधीनजनिरहितस्येच्छाधीन शरीरपरिग्रहरूपत्वात् । न च तस्याः श्रुतेर्देवतान्त- रविषयत्वं शक्यशङ्कम् ; " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ " इति तत्प्रकरणपाठेन " अद्भ्यः संभूतः इत्युत्तरानुवाकस्य लक्ष्मीपतिव्यतिरिक्तविषयत्वशङ्कानवकाशात् । अतः सर्वैरपि कारणवाचकैर्वेदान्तवाक्यैः स एव प्रतिपाद्यत इति । एतत्सर्वं ’ श्रीनिवासे ’ इति विशेषणेनाभिप्रेतम् । अत्र ’ श्रुतिशिरसि विदीप्ते ’ इत्यनेन पूर्वभागेऽप्यग्नीन्द्रादिरूप - तया प्रतिपाद्यत्वेन दीप्तत्वमस्तीति व्यज्यते । अत एव 99 66 “ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ 99 इति सर्ववेदप्रतिपाद्यतया तपः प्रधानत्वेन तपः शब्दितवेदान्तवेद्यतया च प्रतिपाद्यमानं पदं “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इत्युपसंहारेण भगवतो दिव्यात्मस्वरूपमिति प्रतिपादितम् । प्रमाणतन्त्रज्ञानापेक्षया पुरुषतन्त्रं भक्त्युपासनादिशब्दवाच्यमन्यदिति परमत- निरासाय ’ शेमुषी भक्तिरूपा’ इत्युक्तम् । “ मनो ब्रह्मेत्युपासीत " इत्युपासिनोपक्रम्य " भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ” इति विदिनोपसंहारात् न विदि- धात्वर्थज्ञानात् भिन्नमुपासनमित्यभिप्रायः । यद्वा मदीया शेमुषी सर्वा भक्तिरूपा भवत्विति शेमुष्यां भक्तिरूपत्वमेव प्रार्थ्यत इति द्रष्टव्यम् । ‘8 श्रीभाष्यम् " पाराशर्यवचः सुधामुपनिषदुग्धाब्धिमध्योद्धृतां संसाराग्निविदीपनव्यपगतप्राणात्मसंजीवनीम् । पूर्वाचार्यसुरक्षितां बहुमतिव्याघात दूरस्थिता- मानीतां तु निजाक्षरैः सुमनसो भौमाः पिबन्त्वन्वहम् ॥ CC-0 No Rights Reserved. Digitized by eGangotri५८ 99 श्रीभाष्यम् श्रुतप्रकाशिका 66 (द्वितीय श्लोकः) श्रुतेरेवोपायोपेयाबगतौ सत्यां किं भवतो वक्तव्यमित्यत्राह - पाराशर्येति । प्रथम- श्लोके स्वप्रबन्धस्य ‘परमप्रयोजनतया सिद्धरूपः परमविषयो दर्शितः; साध्यरूपं प्रयोजनं च रक्षापदेनातिसंक्षिप्तम् । अथ द्वितीयेन श्लोकेन स्वप्रवन्धस्यावान्तरविषयः, परंपरया ब्रह्मविषयत्वं, स्वप्रबन्धं प्रति सम्यग्ज्ञानस्यांव्यवहिताचान्तरप्रयोजनत्वं, परंपरया मुक्तेः परमप्रयोजनत्वं, स्वव्याख्येयस्य प्रमाणमूलताकथनेन व्याख्येयान्तराणामप्रमाणमूलता, स्व- व्याख्येयविषयभाप्यान्तरव्यावृत्त्यर्थं स्वोक्तार्थस्य सांप्रदायिकत्वमित्यादि श्रौतमुच्यते ; स्तुत्यात्मकगुरूपासनरूपमङ्गलाचारश्चार्थतः क्रियते । “ जायमानं हि पुरुषं यं पश्येन्मधु- सूदनः " " तद्विद्धि प्रणिपातेन ’ ददामि वुद्धियोगं तम् ” इत्यादिभिराचार्योपसत्तेरपि भगवत्कटाक्षहेतुकत्वावगमात् परदेवतोपासनानन्तरभावित्वं गुरुपासनस्य युक्तम् ; तथा च श्रुतिः - " यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ” इति । पूर्वैरपि तथाचरितम् ; यथा भगवता वैशम्पायनेन- -” नमस्कृत्य हृषीकेशम् " नमो भगवते तस्मै व्यासाय इति ; तथा च द्रमिडाचार्यैः - " नमः प्रवरगुणैकास्पदाय स्थिरत्रसकुलबीजकुम्भभूताय भुवनकोशस्य गोत्रे ब्रह्मणे नमो जैमिनये वेदरहस्यसंपुटनिगूढविष्कारयित्रे न्यायप्रज्वलित- चेतसे नमोऽस्त्वाचार्येभ्यः इति । पाश्चात्यैश्च – “ विशुद्धज्ञानदेहाय ’ " " अभिवन्द्य गुरूनादौ " इति " प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः इति च । पराशर्यशब्देन जन्मोत्कर्षः, “ स होवाच व्यासः पाराशर्यः " इति श्रुतिप्रसिद्धिः, तस्यैव वादरायणसंज्ञत्वं च विवक्षितम् । यथोक्तं महर्षिणैव- भावः । २ " 99 " "" १. ‘परस्मिन् ’ इत्यनेन " परमतः सेतू मान " इत्यधिकरणार्थ सूचनादिति २. यस्य पुरुषस्य देवे आचार्योपकारकतया परदेवतारूपे परा यक्तिः स्यात् आचार्योपकारकत्वलक्षणगौरवातिशयानुगुण्येन प्रथममुत्कटा स्यात् तदनन्तरं देवे यथा भक्तिरुपकार्यवस्तु गौरवानुगुण्येनाभूत् तथा गुरावपि ईश्वरोपकारकत्वल- क्षणगौरवानुगुण्येन परा भक्तिः स्यात् तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन इति योजना निर्देशक्रमानुसारिणी विवक्षिता । ३. शास्त्रक्यविवक्षया जैमिनेरपि पूर्वाचार्यत्वम् । ४. नपुंसकमनपुंसकेनैकच्चास्यान्यतरस्याम्" इत्येकशेषैकवद्भावो ।

66 श्रुतप्रकाशिका द्वीपे बदरिकामिश्रे वादरायणमच्युतम् । पराशरात्सत्यवती पुत्रं लेभे परंतम् ॥” इति । ५९. यद्यपि ऋभ्यन्तरेऽपि बादरायणशब्दप्रयोगः, तथापि सूत्रकृद्विषयो बादरायणशब्दः पराशर्यगोचर एव । तथा च स्कान्दे व्यक्तमुक्तम्- — " नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किंचितदन्यथा जातं त्रेतायां द्वापरे खिलम् || गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते । संकीणबुद्धयो देवा ब्रह्मरुद्रपुरःसराः ॥ शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान्पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् || “चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । १. अच्युतस्य शक्त्या वेशावतारभूतमित्यर्थः । २. पराशरादवतीर्णत्वात् स्वयमपि परान् बाह्यकुदृष्टोन् प्रमाणतर्कशरैराशृ- णातीत्यभिप्रायेण परंतपभित्यक्तम् । " ३. भद्रणमद्रणवादरायणेति प्रवरखण्डे पूर्वमीमांसासूत्रेषु चान्यत्र बादरायण- शब्दप्रयोग इति भावः । शारीरकसूत्रेषु वादरायणशब्दप्रयोगस्तु पतञ्जलेः " गोन- दयस्त्वाह” इति महाभाष्ये स्वस्यैव प्रयोगवत् " वाल्मीकिर्भगवानृषिः " नान्यं वरं नचिकेता वृणीते ” इत्यादिवच्च वक्तुरेवात्मन आप्ततमत्वद्योतनाय परोक्षरूपेण व्यवहार इति भावः । ४. देवतान्तरवैलक्षण्यमभिप्रेतम् । ५. चतुर्धा ऋग्यजुःसामाथर्वरूपेण ; चतुर्विंशतिधा ऋक्शाखाविभागेन; शत- धा चैकधा यजुःशाखाविभागेन ; सहस्रधा सामशाखाविभागेन ; द्वादशधा अथर्व- शाखाविभागेनेति भावः । अल्पाक्षरमित्यादि — यावद्भिः पदैरक्षरैर्वा विना विवक्षि- तार्थलाभो न संभवति तावदधिकाक्षरपदादिरहितत्वमल्पाक्षरत्वम् । प्रमाणोपप-:

६० C G श्रीभाष्यम् शतधा चैकधा चैव तथैव च सहस्रधा ॥ + कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥ अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः || " मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । (द्वितीय श्लोकः) त्तिमुखेनार्थनिर्णायकत्वमसंदिग्धत्वम् । अदप्रहेतुज्ञानविषयार्थवत्त्वं सारवत्त्वम् । एतावतार्थगतं प्रयोगोपाधिमुक्त्वा संप्रति सूत्रपदप्रवृत्तिनिमित्तमाह — विश्वतो मुखमिति । विश्वस्मिन् कण्ठोक्तार्थोपपादकेपु बहुष्वर्थेषु मुखं तात्पर्य यस्य तदित्यर्थः । सूचनात् सूत्रमिति हि निर्वाचनम् । अथ शब्दगतं प्रयोगोपाधिमाह अस्तोभमनवद्यं चेति । स्तोभः निरर्थकः शब्दः ; " भूवादयो धातवः” इत्यादिषु भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते " इति महाभाष्योक्तरीत्या निरर्थक- प्रयोगदर्शनेन तेषां सूत्रपद मुख्यार्थत्वव्यावृत्त्यर्थमिदं विशेषणम् । अनवद्यं वेदविरो- धादिरूपवद्यरहितम् ; “कलेक्” इत्यादौ वेदविरोधदर्शनात् तद्यावृत्तिरप्यत्राभि- प्रेता । चकारात् " अथ योगानुशासनम्" इत्यादिषु अप्रसिद्धाधिकारार्थपराथ- शब्दादिदर्शनात् तव्यावृत्तिः । एवं चाल्पाक्षरत्वा दिविशेषणपश्ञ्चक विशिष्टं परमपुरु- पार्थमोक्षहेतुज्ञानजनकं वाक्यं मुख्यसूत्रम् । तश्च जगच्छरीरकब्रह्मप्रतिपादकं शारीरकसूत्रमेवेति भावः । १. सूत्रपदवृत्तिनिमित्तपौष्कल्येन लक्षणसंपत्त्या च शारीरकसूत्राणां निरुपप- दसूत्रव्यवहारविषयत्वे साधकं सामान्यन्यायमाह— मुख्यस्येत्यादिना । निर्विशेषेण निर्विशेषत्वेन विशेषणराहित्येनेति यावत् । शब्दः प्रयुज्यत इति शेषः । अन्येषाममुख्यानाम् । विशेषतः सार्वविभक्तिकस्तसिः, विशेषेण उपपदसाहित्येनेति यावत् । अयमर्थः शब्दः स्वमुख्यार्थस्य विशेषणं विना प्रत्यायकः । गौणा- र्थानां पदान्तरसमभिव्याहारतः प्रत्यायक इति । वेदविद इत्यस्य सब्रह्मात्मेश्वरे- शानपुरुषादिशब्दप्रयोगविद इत्यर्थः । अनेन 66 अनुपाधिकनिर्देशे ह्यसंकोचो

4 श्रुतप्रकाशिका इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ॥ एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः । ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु’ । ज्ञानं संस्थाप्य भगवान् मोदते परमेश्वरः ॥ " ६१ इत्यादिना । वचः सुधाम् ; `वचः शब्दस्यार्थे तात्पर्यम्, यथा ’ वेदवित्’ शास्त्रवित्’ इत्यादौ वेदादिशब्दानाम् ; अर्थाभिधायकं हि वाक्यम् । वचसः सुधामिति " मनीषिभिः । सिद्धे शब्दार्थसंबन्ध इति न्यायेन कथ्यते ॥” इति तत्त्वटीकाप्रति- पादितशब्दप्रयोग मूलभूतन्यायवित्त्वं सूच्यते । १. कपोतादीनामपि ब्रह्मवित्त्वाभिप्रायेण पक्षिग्रहणम् । २. ननु सुधाशब्दविवक्षितं भोग्यत्वं वचःशब्दार्थे सूत्रे सार्वजनीनानुभववाधि- तमित्यत्राह - अर्थे तात्पर्यमिति । अनेन लक्षणाबीजमुक्तम्, तात्पर्यानुपपत्तेर्लक्षणा- बीजत्वात् । केचित्तु - नात्र लक्षणाभिप्रेता, सूत्रेष्वपि भोग्यत्वस्य संभवेनात्यन्तानु- पपत्त्यभावात् । किंतु " अनेकपदार्थ संसर्गवोधित्वाच्च वाक्यस्य " इति वेदार्थसंग्र- होक्तरीत्या वचःशब्दस्यात्र पदार्थानां परस्परसंसर्गबोधकपदसमुदायात्मकसूत्रपर- तया तज्जन्यप्रतीतिविशेषणीभूते संसर्गविशेषे भोग्यत्वस्यान्वय इत्यभिप्रायः । चैतावता ‘स्वर्ग ध्वस्तः’ इत्यत्रेव वचसि विशेषणद्वारको भोग्यत्वान्वय इति मन्तव्यम्, तद्वदत्र विशेष्ये वाधकाभावात् । एतदुक्तं भवति - यथा ‘घटो जातः, घटो ध्वस्तः’ इत्यादौ सत्कार्यवादे घटशब्दोक्तावस्थाव्यतिरेकेण विशेष्यमात्रस्यो- त्पत्त्याद्यसंभवात् अवस्थामात्रस्यं द्रव्यव्यतिरेकेणापदार्थ तयोप स्थित्यसंभवाच्च जातः, ध्वस्तः’ इत्याद्यपरपदार्थानां घटशब्दार्थविशिष्टवेषेऽन्वयः, यथा च तत्र विशेषणभूतावस्थाया एवोत्पत्त्याद्युपपादकतया घटपदजन्यप्रतीतिविशेषणीभूतात्र- स्थायामेव घटशब्दस्य तात्पर्य तद्वदेवात्रापि संसर्गशक्तिविशिष्टशब्द समुदायवाचि- वचः शब्दार्थे विशेष्यांशे वीणाशब्दादिष्विव स्वतो भोग्यताया अननुभवाधितत्वेन भोग्यताया अनन्वयात् तद्विशेषणांशस्य संसर्गशक्तेरपि पृथकपदार्थत्वाभावेन तद्नन्व- यांश्च तादृशसंसर्गशक्तिरूपार्थविशिष्टशब्द समुदायात्म के विशिष्टवेष एव भोग्यत्वस्या- न्वयः, न विशेष्यमात्रे न वा विशेषणमात्रे । अथापि विशिष्टवाचिनो वचः शब्दस्य विशेषणांश एव प्रधानतया प्रतिपिपादयिषितत्वलक्षणं तात्पर्यम् । शक्यार्थैकदे- शस्य शब्दशक्त्यैवोपस्थितेर्नात्र लक्षणाया अवकाशः । वचः शब्दलक्षितस्तदर्थः सुधात्वेन रूप्यते " इति तत्त्वटीकायां लक्षितपदं विवक्षितपरम् इत्यभिप्रयन्ति । ,

६२ श्रीभाप्यम् (द्वितीय श्लोकः) केचिदाचार्याः । ‘रूपकप्रकरणात् सुधा शव्दलक्षणाभयाच्च सुधेव वच इति “उपमितं व्याघ्रा - दिभिः " इत्यादिसमासमपर आचार्या आद्रियन्ते । सुधाशब्देन भोग्यत्वमभिप्रेतम् । एव- मवान्तरविषय उक्तः । तर्हि कथं ब्रह्मणो विषयत्वमिति शङ्कायां सद्वारकं ब्रह्मविषयत्व- मित्याह – उपनिषदिति । ब्रह्मण्युपनिषण्णेत्युपनिषत् ; उपनिषण्णत्वाद्वोपनिषत् छ 66 विचारणीयम् । पानक्रियान्व- " १. वचः सुधाशब्दे षष्ठीतत्पुरुपं निराकर्तुं रूपकप्रकरणानानुगुण्यं सुधाशब्दलक्ष- णां चोद्भाव्य “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ” इति समासं वदतः श्रुतप्रका- शिकाकृतः कोऽभिप्राय इति विवेचनीयम् । आधुनिका आलंकारिका उपमितसमासं रूपकसपासं च भिन्नतया व्यवहरन्तः " उपमितं व्याघ्रादिभिः सामान्याप्रयोगे " इत्यनेनोपमितसमासं " मयूख्यंसकादयश्च" इत्यनेन रूपकसामासम्, उपामेतस- मासे पूर्व पदार्थस्य रूपकसमासे उत्तरपदार्थस्य च क्रियान्वये चमत्कारातिशयं च वर्णयन्ति । अत्र सुधायाः ‘पिवन्तु’ इति पानक्रियान्वयस्वारस्यानुगुण्येन रूपकसमास एव वर्णनीय इत्यत्र न भावुका विवदेरन् । षष्ठीतत्पुरुषनिराकरण- हेतुतया रूपकप्रकरणस्याद्भावितत्वात् रूपकमेव श्रुतप्रकाशिकाकृतामप्यभिमतमिति गम्यते । परं तु 66 रूपकप्रकरणात् सुधाशब्दलक्षणाभयाच्च सुधेव वच इति ’ उपमितं व्याघ्रादिभिः’ इत्यादिसमासमपर आचार्या आद्रियन्ते " इति रूपकप्रक- रणमुद्भाव्यानुपदमेवोपमितसमासवर्णनं कथं संगच्छतामिति अत्रायं श्रुतप्रकाशिकाकृतामभिसंधिरून्नीयते - प्रकरणानुगुण्यात् यस्वारस्याच्च रूपकालंकार एवात्र स्वरसः । समासस्तु “ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ” इति सूत्रेणैव । उपमायामिव रूपकेऽपि प्रस्तुताप्रस्तुतयोः साद- श्यं भाव्यत एव । उपमायां स्फुटभेदं रूपके तिरोहितभेदं तदिति पर विशेषः । तथाच दण्डी - " उपमैव तिरोभूतभेदा रूपकमुच्यते । यथा बाहुलता पाणिपद्मं चरण- पल्लवम् ॥” इति । उपमायामिव रूपकेऽपि " उपमितं व्याघ्रादिभिः" इत्यनेनैव समा सः। अत एव पूर्वोक्तदण्डिकारिकायां बाहुलतापदं ‘बाहुः लतेवेति उपमितं व्याघ्रादि- भिरिति समासः’ इति तरुणवाचस्पतिप्रमुखा व्याचख्युः । मयूरव्यंसकादयश्च इति समासस्तु यत्र मयूरव्यंसकः यवनमुण्डः’ इत्यादावुत्तरपदं गुणवाचि तत्रैव प्रवर्तते । तत्र " उपमानानि समान्यवचनैः " इत्येव समासे सिद्धे स्वरार्थ सूत्रमिति स्थितम् । मयूरव्यंसकादयश्चत्येतदपि उपमानोपमेयभाव एव प्रवर्तते; यथा- मयूर इव व्यंसकः यवन इव मण्डः इत्यपि केषांचिन्मतं समस्ति । तत्राकृतिगणे वचः सुधाशब्दस्यान्तर्भावनं त्वगतिकगतिः । अत एव " भाग्याब्धिः कातिगम्भीरः" • 66 CC-0 No Rights Reserved. Digitized by eGangotriश्रुतप्रकाशिका ६३ इति हि वाक्यम् ; " गहने हीयं विद्या संनिविष्टा " इति तद्विषयं द्रमिडभाष्यम् । "" गहने ब्रह्मण्युपनिषण्णा " इति तद्विषया वामनटीका । अद्वारकभगवत्प्रतिपादकत्वमुपनिष- ण्णत्वम् । दुग्धशब्देन पूर्वभागादप्युपनिषदः सारत्वं विवक्षितम् ; यथा " आरण्यकं च वेदेभ्य ओषधीभ्यो यथामृतम् " इति । अब्धिशब्देन आलोचितानामुपनिषदामानन्त्यादि सूचितम् । मध्यशब्देन सर्ववाक्यानां मुख्यार्थापरित्यागोऽभिप्रेतः । मध्यस्य सर्वपर्यन्त- देशापेक्षया तुल्या ह्यासत्तिः । उद्धृतशब्देनाति निम्नदेश निमग्नोद्धरणमभिदधता निःशेषार्थ- ग्रहणं सूच्यते । स्वप्रबन्धस्यावान्तरविषयः पाराशर्यसूलं, तस्यावान्तरविषय उपनिषत्, तद्विषयभूतं ब्रह्मेति परंपरया ब्रह्मणः प्रतिपाद्यत्वम् । बादरायणसूत्राणामुपनिषन्मूलकत्व- कथनेन सांख्यादिग्रन्थानामप्रमाणमूलत्वात्तदनादरेणैतद्व्याख्यानमिति सूचितम् । प्रणाड्या शास्त्रजन्यं परमप्रयोजनमाह – संसारेति । संसारानिशब्देन संसारस्य कात्स्न्र्त्स्न्येन तापत्रय- रूपता विवक्षिता; यथा – “ स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः " इति । दीपन शब्देनासंकोचात्सदाभिज्वलनवाचिना विद्यालब्धेः पूर्वं कदाचिदप्यनिर्वाप्यत्वमभि-


" इति कैयटप्रयोगं विवक्षितसमान्यधर्माप्रयोगेण समादधते शब्दकौस्तुभकारादयः, न तु मयूरव्यंसकादित्वात् । तत्र शब्दोपात्तं गाम्भीर्यरूपं साधारणधर्म परित्यज्यानुपा- तसाधारणधर्मान्तरपरिकल्पनक्लेशात् विभ्यता तु नागेशेन मयूरव्यंसकादित्वं वर्णित- मित्यन्यदेतत् । न चात्र वचसः सुधात्वरूपणे सामान्यधर्मान्तरपरिकल्पन- मसांप्रदायिकम् ग्रन्थकृतैव सुधाशब्देन भोग्यत्वमभिप्रेतमिति स्वविवक्षिताविष्कर- णात् ; तत्त्वटीकायां " समाससूच्यं स्वादुत्व सामान्यमिहाप्रयुक्तम् ” इति श्री भाष्य- कृदाशयाविष्करणाच्च । तस्मात् रूपकस्थलेऽपि " उपमितं व्याघ्रादिभिः इत्येव समास इति प्राचीनः संप्रदायः । तमेव संप्रदायमनुरुध्य श्रुतप्रकाशिकातचटी- कादयः प्रवृत्ता इत्यवधेयम् । “ उपमितं व्याघ्रादिभिरित्यादिसमासम् " इति श्रुत- प्रकाशिकायाः “उपमितं व्याघ्रादिभिः" इत्यारभ्य पठितेन " मयूरव्यंसकादयश्च " इति सूत्रेण समास इति क्लिष्टगस्यार्थवर्णनं तु तत्त्वटीकादिग्रन्थविरुद्धम् । तत्र हि रू- पकमुपवण्यं सामान्यधर्मप्रयोगात् कथ समास इत्याशङ्कय परिहृतम् । मयूरव्यंसका- दयश्चेत्यत्र ’ सामान्याप्रयोगे ’ इत्यस्यानुवृत्तिवर्णनं त्वप्रामाणिकम् । भावः । ५. " विकर्ता गहनो गुहः " इति सहस्रनामपाठात् गहनशब्दों ब्रह्मपर इति

६४ श्रीभाप्यम् (द्वितीयश्लोकः) प्रेतम् । वैविध्यमाध्यात्मिकादिरूपेण ; तेषु त्रिप्वैकैकस्यापि शारीरमानसादिरूपेण च । आत्मनां प्राणः परमात्मा ; " सर्वाणि ह वा इमानि भूलानि प्राणमेवाभिसंविशन्ति “ को ह्येवान्यात्कः प्राण्यात्" इत्यादिश्रुतेः । गतशब्देन तदलाभः । उपसर्गाभ्यां तस्या- नादित्वं विविधत्वं च विवक्षितम् । ज्ञानदर्शनप्राप्तिप्वन्यतम स्याप्यभावादलाभस्य वैवि- ध्यम् । संजीवनीमिति ; जीवनमुज्जीवनं संसारोन्मोचनम् । ‘सम्’ इति कैवल्यव्या- वृत्तिः । अथ सांप्रदायिकत्वमाह – पूर्वेति । पूर्वशब्देन शंकराद्यर्वाचीनव्यावृत्तिः । सुरक्षि- ताम् ; नोपदेशमात्रेण, ग्रन्थरूपेण चेति भावः । पूर्वाचार्यग्रन्थैरर्थस्वरूपं प्रतिपन्नं चेत् किं भवतः कृत्यमित्यत्राह— बहुमतीति । बढ्यो मतयः, बहूनां मतयो वा ; तासां परस्पर- व्याघातेन ताभिः समीचीनार्थव्याघातेन चार्वाचीन जनैर्दुरवगाहत्वमाह – दूरस्थिता - मिति । सुधापक्षे निजाक्षरै गायत्र्यवयवभूतैरमृताक्षरैरिति यावत् ; अतो ममाक्षरैरित्य- नुक्तिः । सुमनसः “ सारासारविवेकज्ञाः " इत्याद्युक्ताः । अनेनासदपरिग्रहो न दोषा- येत्युक्तं भवति । देवादीनां वृत्तिकारग्रन्थादिभिः सुगमत्वात् ’ भौमाः’ इत्युक्तम् । पिवन्त्व- न्वहमिति ; रस्यतातिशयान्न तृप्तिकरीति भावः । फलान्तराद्भगवत्प्राप्त्युपाय एव हि स्वादुतमः ; यथोक्तम् — " क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्क जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥” इति । यद्वा गभीरत्वादन्वहं शीलनोयेति भावः । भावप्रकाशिका अथ द्वितीयेन श्लोकेन स्वप्रबन्धस्यावान्तरविषय इति ; पाराशर्यव चोरू- पसूत्रसमुदाय इत्यर्थः । इत्यादिभिराचार्योपसत्तेरिति ; आदिशब्देन 66 “ विष्णोः कटाक्षमद्वेष आभिमुख्यं च सात्त्विकैः । संभाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः ॥ इत्यादिर्विवक्षितः । भगवत्कटाक्ष हेतुकत्वावगमादिति ; उपदेशकटाक्षादिभि- भगवत आचार्यलम्भकत्वेन प्राथमिकोपकारकत्वावगमादित्यर्थः । ततश्च " तद्विद्धि " इत्यादीनां भगवत्कटाक्ष हेतुकत्वावगमकत्वं नास्तीति च द्यस्य नावकाशः । यस्य देवे .


भावप्रकाशिका ६५ परा भक्तिरिति ; भक्तिर्हि उपकारकत्वकृतः स्नेहविशेषः । तत्र भगवद्भक्तेरुपमानकोटौ निवेशादाधिक्यं व्यज्यते । तदाधिक्यं चोपकारकत्वाधिक्याधीनम् । अतो भगवत आचार्यापेक्षयोपकाराधिक्यलाभ इति भावः । पाराशर्यशब्देन जन्मोत्कर्ष इति ; ननु गोत्राधिकारे “ गर्गादिभ्यो यञ् " इति यञो विधानादनन्तरापत्ये कथं यञ्प्रत्ययः ? उच्यते – गोत्रत्वोपचारात् ’ जामदग्न्यो रामः’ इतिवत् । ननु शारीरकसूत्रकारो बाद- रायण इति हि प्रसिद्धिः; कथं तत्पाराशर्यस्योच्यत इत्याशङ्कयाह – तस्यैव बादरा- यणसंज्ञत्वं च विवक्षितमिति । वचःशब्दस्यार्थे तात्पर्यमिति ; यद्यपि वचस एव सुधात्वं सुनिरूपम् तथाहि, उपनिषत्सर्यालोचननिप्पन्नत्वलक्षणमुपनिषद्दग्धाब्धिम- ध्योद्धृतत्वमर्थस्येव शब्दस्यापि सुवचम् ; संसारानिविदीपनव्यपगतप्राणात्मसंजीवनत्वमपि तादृशज्ञानविषयतयार्थस्यैव शब्दस्यापि तादृशसंजीवनज्ञानजनकत्वेन सुवचम् ; पूर्वाचार्य- सुरक्षितत्वमप्यर्थस्यान्यथाप्रतीतिलक्षणपीडापरिहारमुखेन शब्दस्यापि सुवचम् ; दूरस्थितत्वा- नीतत्वे अप्यनभिव्यक्ताभिव्य कार्थकत्वरूपे शब्देऽपि संभवतः ; उपक्रमगतवचः सुधात्वानुसारे- णोपसंहारगतं चास्वारस्यं सोढव्यम् - तथापि रक्षितत्वानीतत्वादिकमर्थद्वारा शब्द इत्यौ- पसंहारिक बहुस्वारस्यापेक्षया भूयोऽनुग्रहन्या वेनोपक्रमगतवचः शब्दस्यै कस्यैवार्थ लक्षकत्वं न्याय्यमिति भावः | वेदादिशब्दानामिति ; ननु ’ वेदवित्’ इत्यादौ विच्छब्दस्यैवार्थतो ज्ञानपरत्वमाश्रित्य वेदशब्दस्यार्थपरत्वाभावोऽपि वक्तुं सुशकः ; यथा “ यः सर्वज्ञः सर्ववित्" इत्यत्र सर्वं प्रकारतो वेत्तीत्यर्थाश्रयणम् ; न हि तत्र सर्वपदस्य लक्षणा ; तथा ’ वेदं वेत्ति’ इत्युक्ते वेतीति शब्दात् न वेदस्य स्वरूपेण ज्ञानमात्रं प्रतीयते, अपितु तत्तदर्थविशेषप्रतिपादकत्वप्रकारेणापि वेत्तीति ह्यर्थः प्रतीयते अत एव " तदधीते तद्वेद " इति सूत्रे यस्तु सामपाठं पठति नासौ वेदेत्युच्यते " इति " अर्थाभिज्ञ एव वेदेत्युच्यते " इति चोक्तं महाभाप्य इति चेत् —न ; सोऽहं- भगवो मन्त्रविदेवास्मि नात्मवित्" इत्यादौ विच्छब्दस्यार्थप्रतीतिपरत्वाभावेन विच्छब्दादर्थ- प्रतीत्यदर्शनात् । किंच यदि ’ वेदवित्’ इत्यादावसंप्रतिपत्तिः, तदा ‘नोदाहरणमाद- र्तव्यम्’ इति न्यायेन मन्त्रसाक्षात्कारवानयम्’ इत्यादिकं संप्रतिपन्नमुदाहरणान्तरं भविष्यतीत्यदोषः । न ह्यत्र मन्त्रशब्दस्यार्थपरत्वे विप्रतिपत्तिरस्ति । लक्षणाबीजभूतं 9 66 ;

६६ · श्रीभाष्यम् (द्वितीयश्लोकः) लक्ष्यमाणार्थसंबन्धमुपपादयति — अर्थाभिधायकं हि 99 वचः शब्द मुख्यार्थभूतवाक्यस्य वाक्यमिति । सुधाशब्दलक्षणाभयाच्चेति ; अर्थे लक्षणाया अभ्युपगन्तव्यत्वादिति भावः । ननु रूपकपक्षेऽपि वचः शब्दस्यार्थे लक्षणावश्यकीति तुल्यमिति चेत् — सत्यम् ; त्वन्मते सुधाशब्दलक्षणा वचसः सुधा वचःसुधेति वचःशब्दस्य षष्ठयर्थलक्षणाप्यभ्युपगन्तव्या ; अस्मन्मते तु वचःशब्दमात्रे लक्षणेति भावः । ननु स्वाभिमते " उपमितं व्याघ्रादिभिः “ मयूरव्यंसकादयश्च” इति सूत्रानुशिष्टरूपकसमासेऽपि सुधाशब्दलक्षणा अविशिष्टा, सुधाशब्दस्य तत्सदृशपरत्वात् ; " विशेषणं विशेष्येण " इत्यनियमे प्राप्त आरम्यमाणस्यास्य सूत्रस्य विशेषणविशेष्यत्वनियमार्थत्वात् भिन्नार्थयोर्वचः सुधाशब्दयोर्विशेषणविशेष्य- भावस्य सुधाशब्दे सदृशलक्षणामन्तरेणायोगात्, आपादपरिसमाप्तेः " समानाधिकरणेन " इत्यधिकाराभ्युपगमाच्च ; “सुधाशब्देन भोग्यत्वमभिप्रेतमिति वक्ष्यमाणत्वाच्चेति चेत् — सत्यम् ; अस्त्येव स्वपक्षेऽपि लक्षणा ; तथापि सा " उपमितं व्याघ्रादिभिः " इति सूत्रानु- शिष्टा ; षष्ठीसमासपक्षे तु सुधाशब्दस्यार्थे लक्षणा न शास्त्रीया, अपि त्वैच्छिकी । अत एव “ इन्द्रपीतस्य " इति भक्षमन्त्रे बहुव्रीहौ लक्षणाद्वयसद्भावेऽप्यैच्छिकलक्षणाद्वययुक्त- तत्पुरुषपक्षपरित्यागेन शास्त्रानुशिष्टलक्षणाद्वययुक्तबहुव्रीहिपक्ष एवाश्रितः । इन्द्रेण पीत इति तत्पुरुषाश्रयणे पूर्वपद एका लक्षणा तथा पीतपदे पीतावयवलक्षणा । वक्ष्यति चाचार्य: अन्तस्तधर्मोपदेशात्” इत्यत्र " हृदयपुण्डरीकमिति प्रयोगस्तु ’ अमितं व्याघ्रादिभिः इति सूत्रविहितसमासत्वान्मुख्य एव इति । केचित्तु रूपकसमासे शक्यतावच्छेदका - हार्यारोपस्यैव व्युत्पत्तेस्तत्र मुख्यत्वमेव । अत एव अन्नमयादावात्मशब्दस्य मुख्यत्वमिति अन्वयादिति चेत् स्यादवधारणात्" इत्यादौ क्रियासमभिहारेण ग्रन्थकृव्यवहार इति वदन्ति । ननु " उपमितं व्याघ्रादिभिः समान्याप्रयोगे " इति सामान्यधर्माप्रयोग एव समासविधानात् पूर्वाचार्यसुरक्षितत्वादेश्च सामान्यधर्मस्य प्रयुज्यमानत्वात् कथं समास इत्याशङ्कय पुरुषव्याघ्रोऽभिरूपः’ इत्यादिषु व्याघ्रशब्दविवक्षितशूरत्वरूप सामान्यधर्मा- प्रयोगेणाभिरूपशब्दप्रयोगेऽपि समासवत् सुधाशब्दविवक्षितभोग्यत्वरूपधर्माप्रयोगात् समास उपपद्यत इत्यभिप्रयन्नाह - सुधाशब्देन भोग्यत्वमभिप्रेतमिति । आनन्त्यादीति आदिशब्देन गाम्भीर्याद्यच्यते । आध्यात्मिकादीति आदिशब्देनाधिदैविकाधिभौतिक- 66 66 "" ;

भावप्रकाशिका ० ६७ योर्ग्रहणम् । समिति कैवल्यव्यावृत्तिरिति ; नन्वेतद्वाक्यपर्यालोचनायां कैवल्यस्यापि संसारोन्मोचनकोटावनुप्रवेश एवाचार्याणामभिमत इति प्रतीयत इति चेत् — मैनम् ; समिति कैवल्यव्यावृत्तिरिति वदद्भिः कैवल्यस्य समोचोनसंसारनिवृत्तित्वाभावकथनेन संसारानुवृत्तेरे- वाभ्युपेतत्वात् । प्राणशब्दस्य परमात्मपरत्वसमर्थनपूर्वकं परमात्माला संसारस्य हेतुत्वं कथयतामाचार्याणां कैवल्ये संसाराभावस्याभिमतत्वे " निमित्तापाये नैमित्तिकस्याप्यपायः” इति न्यायेन कैवल्ये संसाराभावेन परमात्मलाभस्यैवाभ्युपगन्तव्यत्वप्रसङ्गात् । वस्तुतस्तु व्यपगतप्राणात्म संजीवनीमित्युक्ते व्यपगतप्राणानां संजीवनीं प्राणधारिकामित्येवार्थः प्रतीयते ; जीवनशब्दस्य प्राणधारणार्थत्वात् । ततश्च यः प्राणो व्यपगतः, तत्प्राणलम्भिकामित्यर्थः पर्यवस्यति । ततश्च व्यपगतपरमात्मरूपप्राणलम्भकत्वं कैवल्यस्याप्रसक्तमेव । कथं तर्हि समिति कैवल्यव्यावृत्तिरित्युच्यत इति चेत्; इत्थम् - प्राणशब्दो जीवपरमात्मो- भयपरः, भूमविद्यायां प्राणशब्दस्य जीवेऽपि प्रयोगात्, ततश्च संसाराग्निविदीपनेन व्यपगतप्राणानां जीवपरमात्मानुभवशून्यानां जीवनीमित्युक्ते कैवल्यस्यापि तदन्य- तरजीवरूपप्राणलम्भकत्वमस्तीति तद्व्यावृत्त्यर्थं समित्युपसर्गः । ततश्च व्यपगतयावत्प्राण- लम्भकत्वं समित्युपसर्गसिद्धमिति ग्रन्थाभिप्रायो द्रष्टव्यः । निषादस्थपत्यधिकरण- न्यानेन कर्मधारयमभिप्रेत्याह – यो मतय इति । एककर्तृकमतिभेदस्य परस्पर- व्याहत्यसंभवात् कर्तृभेदोऽवश्यं वाच्य इत्यभिप्रायेणाह - बहूनां मतयो वेति । गायत्र्यव- यवभूतैरिति ; “कदूश्च वै सुपर्णी च” इत्यनुवाके “ तृतीयस्यामितो दिवि सोम आसीत् ; इति मन्त्रे च गायत्र्या मृताहरणस्य प्रसिद्धेरिति भावः । पिबन्त्वित्यनेन रस्यतायाः स्वरसतः प्रतीतेः अन्वहमित्यस्य तदतिशयद्योतकत्वं युक्तमिति मत्वाह – रस्यतातिशयादिति । ग्रन्थस्य तृप्तिकरत्वप्रतिपादनस्य मन्दफलत्वादाह - यद्वा गभीरत्वादिति । थुप्रदीपिका अथ स्वग्रन्थस्यावान्तरविषयं स्वाव्याख्येयस्य व्याख्येयान्तराद्वैषम्यं च वदन् संक्षिप्तं शास्त्रप्रयोजनं च विशदीकुर्वन् व्याख्यानान्तरेभ्यः स्वग्रन्थस्य वैलक्षण्यं च दर्शयन्नर्थात् गुरूपासनरूपं मङ्गलमाचरति - पाराशर्येति । व्यासस्यैव बादरायणत्वं श्रुतिसिद्धम् । 1 जन्मतः प्रकर्षं सूचयति पाराशर्यशब्देन । वचः शब्दोऽर्थ पर्यन्तः, ‘वेदवित्’ इत्यत्र CC-0 No Rights Reserved. Digitized by eGangotri६८ 19 श्रीभाष्यम् (द्वितीय श्लोकः) वेदशब्दवत् । वचसः सुधामिति निर्वाहे रूपकप्रकरणानौचित्यं सुधाशब्दामुख्यत्वं च। अमृतत्वहेतुत्वात् सुधात्वरूपणम् । पूर्वभागादप्यव्यवधानेन ब्रह्मप्रतिपादनरूपा सेत्यभि- प्राय उपनिषच्छब्दः । उपनिषदां वेदसारत्वाभिप्रायो दुग्वशब्दः ; यथा " आरण्यकं च वेदेभ्य ओषधीभ्यो ययामृतम् इति । अब्धिशव्द आनन्त्यपरः । मध्यशब्देन सर्वश्रुतिमुख्यत्वमभिप्रेतम् , मध्यस्य सर्वप्रदेशानुगुण्यात् । अनेन स्वव्याख्येयत्य प्रमाण- मूलता अवान्तरविषयश्च दर्शितौ । उद्धृतशब्देनातिनिम्न देशनिमग्नोद्ग्रहणमभिदधता निःशेषार्थग्रहणं सूचितम् । परमप्रयोजनमाह – संसारेति । संसारस्याग्नित्वं तापत्रयात्म- कतया । तत्राप्यवान्तरभेदं विद्यालब्धेः पूर्वं कदाचिदप्यनिर्वाप्यत्वं वैविध्यमनुपरतत्वं च द्योतयति विदीपनशब्दः । अनादिकाल बहुमुवश्रवणादिष्वन्यतमप्रकारेण लब्धपरमा- त्मानो व्यपगतप्राणाः । प्राणः परमात्मा, " प्राणमेवाभिसंविशन्ति " इति श्रौतप्रयोगात् । संजीवनीमिति परममोक्ष हेतुत्वं विवक्षितम् । स्वग्रन्थस्य सत्संप्रदायमूलकतामाह - - पूर्वेति । आर्थं गुरूपासनं चैतत्कीर्तनमुखेनात्र कृतम् । शंकरादिव्युदासाय पूर्वशब्दः । सुरक्षिताम् न परमुपदेशेन, ग्रन्थनिर्माणेनापीति भावः । सा किमिति न प्रथितेत्यत्राह – बहुमतीति । बहूनां या मतयः तासां व्याघातो मिथो विरोधः, तेन दूरस्थिताम् । न यथावदप्रतिपत्ति- मात्रम्, अन्यथा च प्रतिपत्तिरभूदिति भावः । तुशब्दः स्वग्रन्थवैषम्यपरः । सुवासमा- स्यानुगुण्याय ममाक्षरैरित्यनुक्तिः ; गायत्र्यवयवामृताक्षैरैरित्यर्थः । सुमनसः ; सारासार- विवेकादिविचक्षणाः । भौमाः ; अधीतसाङ्गसशिरस्कवेदाः श्रुतकर्ममीमांसा भूलोकवासिनः । देशकालान्तरादिषु वृत्त्यादिसाफल्यमिति भावः । पिवन्तु ; सुधापानवदस्य श्रवणाद्यपि सु- खरूपमित्यर्थः । अन्वहम् ; भोग्यतातिशयात् गभीरत्वाच्च । नयप्रकाशिका


पाराशर्येति श्लोकेन तु स्वकीयग्रन्ये श्रोतव्यत्वबुभुत्साजननायोपनिषद्विषयव्यास- सूत्रगणस्य सुधात्वरूपणव्याजेन विषयप्रयोजनसंबन्धान् स्वशास्त्राधिकारिणश्च प्रदर्शयद्भि- र्भाष्यकारैरर्थाद्वेदान्तार्थस्य प्रथमप्रवर्तकत्वेन प्रथमगुरोः कृष्णद्वैपायनस्य तन्मतप्रवर्तकत्वेना- परेषां च गुरूणां स्वाचार्यपरंपरात्वेन स्मरणमपि क्रियते । गुरुस्मरणमप्यारम्भेषु मङ्गलत्वेन

नयप्रकाशिका ६९. पूर्वैराचरितम् । ननु चिरंतनग्रन्थेषु परमगुरुपरमात्नस्मरणादपि गुरुस्मरणस्य प्रथमभावि- त्वदर्शनात्तत्स्मरणस्य प्रथमभावित्वं युक्तम् ; तथाहि — कथावतारव्याजेन वैष्णवे पुराणे श्रीमता पराशरेण स्वगुरुभूतवसिष्ठपौलस्त्यावनुस्मृत्य’ पश्चाद्धि परमात्मस्मरणं कृतम् । तथा यामुनाचार्यादिभिरपि स्तोत्रादिषु तत्स्मरणस्य प्रथमभावित्वमाचरितम् । तत्कथमत्र व्यत्यासेन तत्स्मरणमिति चेत्-तू; महाभारतादौ परमात्मस्मरणस्यापि प्राथम्यदर्श- नादुभयथाप्याचारस्य युक्तत्वात् । स्वग्रन्थस्य व्याससूत्राणि विषयः ; मोक्षस्तु प्रयोजनम् ; संबन्धो व्याख्यानव्याख्येयभावः । ननु व्याख्यानस्य - व्याख्येयार्थपरिज्ञानमेव प्रयोजनम् ; न तु मोक्षः, तस्य वेदान्तार्थानुष्ठानप्रयोजनत्वादिति चेत् – न ; व्याख्येयसूत्राणां वेदा- न्तार्थनिश्चयप्रयोजनकत्वेन केवलसूत्रार्थज्ञानस्य साक्षादप्रयोजनत्वाद्वाक्यार्थ निश्चयात्मकवे- दान्तार्थज्ञानस्याप्यनुसंधानात्मक ज्ञानप्रयोजनकत्वेन साक्षादप्रयोजनत्वात्तस्यापि मोक्ष- प्रयोजनत्वेन तथात्वान्मोक्षस्यैव पुरुषार्थत्वेन प्रयोजनत्वस्य युक्तत्वात् । न हि दुः खात्मक केवल सूत्राद्यर्थज्ञानप्रयोजनाय पुरुषप्रवृत्तिः । अतः सूत्रतद्विषयादेर्यत्परम प्रयोजनं ग्रन्थस्यापि तदेवेति युक्तम् । अत एव हि संसाराग्निविदीपनेत्यायुक्तिः । पाराशर्य- वचः सुधाम् ; कृष्णद्वैपायनसूत्रात्मकवचः सुधाम् । वचःशब्दः सार्थसूत्रपरः, केवलशब्दात्मक सूत्रगणस्य सुवात्वरूपणानुपपत्तेः । तस्यार्थद्वारा हि पुरुषार्थहेतुत्वम् । केवलवचःपरत्वे चोत्तरपदानन्वयः । सुधात्वमेव विशिनष्टयुत्तरपदैः । उपनिषदां दुग्धा- व्धित्वरूपणेन गाम्भीर्यविस्तृतत्वे सूचिते । ततो न्यायानपेक्षं तदर्थानां दुर्ग्रहत्वमपि सूचितम् । तस्याब्रुद्धतत्ववचनात् सारखं च । न ह्येतन्यायव्यतिरेकेणोपनिषत्सारार्थ- निश्चयः । तदुद्धरणकर्त्रस्फूर्तावपि सामर्थ्यात् पाराशर्यस्यैव कर्तृत्वम्, अन्यवाक्यस्यान्ये- नोद्धारानुपपत्तेः। ननु सूत्राणां मानुषत्वादुपनिषद्योनित्वमनुपपन्नम् ; न च मन्वादिस्मृति- वत् तत्सुत्राणां स्मृतित्वेन तद्योनित्वमिति वाच्यम्, तेषां न्यायत्वेन प्रत्यक्षाप्रत्यक्षवेद- साधारण्येनेतिकर्तव्यतात्वात् ; न्यायस्य चोहापरपर्यायज्ञानत्वान्न वेदमूलत्वोपपत्तिरिति चेत्-न; उपनिषद्वाक्यानां पूर्वापरपर्यालोचनया न्यायात्मकचिन्तोत्पत्तेस्तयोनित्वस्योप- पन्नत्वात् । तदुक्तं नीतिज्ञैः- १. दीनुपस्तुत्य A.


अत्र २. प्रयुक्तत्वात् A. ३. दुःखरूप A.

७० श्रीभाष्यम् " मीमांसासंज्ञकस्तर्कः सर्वो वेदसमुद्भवः । स्रोतोवेगरुमाप्राप्तकाष्ठाम्बुलवणत्ववत् ॥ " " इति । (द्वितीयश्लोकः) उद्धतपदेन सूत्राणामुपनिषद्विषयत्वमपि सूचितम् । संसार एवाभिः संसाराग्निः, तस्माद्विदीपनानि विशिष्टदीपनानि, अतिशयिततापा इत्यर्थः । संसारः कर्मसंबन्धः ; तन्निमित्ता ह्याध्यात्मिकादयस्तापाः, व्यपगतप्राणा नाशितान्मसत्ताकाः ; तेषामात्मनां संजी- वनीम् आत्मोज्जीवनकरीम् ; अविद्यया विनाशितात्मस्वरूपाणां वेदान्तार्थ एव हि स्वरूप- प्राप्तिरूपात्मोज्जीवनहेतुः । आत्मनां नित्यत्वेन स्वरूपानाशेऽपि कर्माख्ययाविद्यया धर्मभूत- ज्ञानस्य संकोचात्मकनाशात्तद्वारेण नाशो विद्यत एव । सुधापि व्यपगतप्राणत्वेन नष्ट - सत्ताकदेहोज्जीवनहेतुः । अत एव हि देवानाममरत्वम्, चिरकालेनापि देहक्षरणाभावात् । आत्मानस्तु सर्वत्र नित्याः । अतो न तद्द्वारामरत्वम् । अत्रापि केवलसूत्रगणस्य तदर्थस्य वा यद्यांपे नात्मोज्जीवनहेतुता, तथापि वेदार्थनिश्चय हेतुत्वेन तद्द्वारा तद्धेतुत्वमस्त्येव । अत एव ह्यत्र तस्य सुधात्वरूपणम् । बहुमतिव्याघातद्रस्थितां पूर्वाचार्यसुरक्षिताम् इत्यन्वयः ! वृत्तिकारादिपरंपरागतामपि मिथ्यावादिप्रभृतिवहुमतिव्याघात दूरस्थिताम् ; महुमतिभिर्यो व्याघातः - मिथ्यावादिप्रभृतीनामेकैकस्याप्येकविषयत्वेन परस्परविरुद्ध बाहु मत्यं बहुमतिशब्देन सूच्यते । तेषामेकविषयवाहुमत्यं भाष्ये तत्र तत्रोच्यते । व्याघातो बाधः तेन दूरस्थितां यथार्थत्वेनाप्रकाशिताम् । तर्हि संप्रदायो विच्छिन्नः, अन्यथैकविषयत्वेन परस्परव्याहृतमतोत्थित्यनुपपत्तेरित्यत्राह - पूर्वाचार्यसुरक्षितामिति । द्रमिडाचार्यादिभिः सुरक्षितामप्रमादेन रक्षिताम् । प्रमादे हि संप्रदायविच्छेदः । सुधापि बहुमत्यसुरादिव्या- घातदूरस्थिता देवैः सुरक्षिता च । नन्वस्यैव ग्रन्थस्य व्यासादिपूर्वाचार्यपरंपरागतार्थपरत्वं नान्यव्याख्यानस्येत्यत्र किं प्रमाणमित्यत्राह - अनीतां तु निजाक्षरैरिति । तुशब्दः पूर्वोक्तशङ्कानिरासाय ’ । सूत्रस्य वाक्यात्मकत्वात् तस्य च परप्रत्यायनार्थत्वेन प्रयुज्यमान- त्वात् स्वरसतो यदर्थपरत्वं युक्तं तदर्थ एव वक्तुरभिमतः, नान्यः । मिथ्यावादिप्रभृति- मतानां तु स्वरसतः सूत्रपदानन्वयः स्पष्ट एव । तच्चोत्तरत्र प्रकाश्यते । अत एव तन्म- २. व्युदासाय A 1

श्रुतप्रदीपिका ७१ तानां न सांप्रदायिकत्वम् । निजाक्षरैः सूत्रगताक्षरैः । अयमर्थः – बोधायनवृत्तेर्विस्तीर्णत्वात् टङ्काद्याचार्यपरंपराभिः संकुचितग्रन्थैरुप देशपरंपराभिश्च मिथ्यावादिप्रभृतिबहुमतिव्याघा- संकुचितग्रन्थैरुपदेशपरंपराभिश्च "" तेऽपि सुरक्षितत्वात् गूढामत्यन्ताप्रकाशितां निजाक्षरैः स्फुटं प्रकाशितामिति । सुमनसो भौमाः ; सात्त्विकगुणाधिका ब्राह्मणाः । ’ एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः इति ब्राह्मणानां हि ‘भूसुरत्वप्रसिद्धिः । ब्राह्मणग्रहणं विद्याधिकारित्रैवर्णिकोपलक्षणार्थम् । अमृत- त्वरूपणसिद्ध्यर्थं तु त उपात्ताः । अन्वहं प्रतिदिनम् । पिबन्त्विति प्रार्थनायाम् । सा च भाष्यकाराणां परदुःखासहिष्णुतया । श्रवणादिवेलायामपि प्रीतिहेतुत्वप्रदर्शनाय च सुधात्वरूपणम् ; न केवलममृतत्वप्रदर्शनाय । अस्य श्रवणादिवेलायामप्यमृतास्वादवत् सुखं भवतीति तात्पर्यम् । सुधापि निजाक्षरैरानिता ; निजाक्षराणि नाम वेदाक्षराणि । वेदस्या- पौरुषेयत्वान्निजत्वम्’ । “ कद्रूश्च वै सुपर्णी च" इत्यनुवाके गायत्र्या सोम आहृत इति प्रतीतेः । तृतीयस्यामितो दिवि सोम आसीत् तं गायत्र्याहरत् ” इति चान्यत्र श्रूयते । गायत्री च छन्दोरूपाक्षरात्मिका । ननु गायत्र्या सोमाहरणे सुधायाः किमायात- मिति चेत् — न ; सोमशब्दस्य सुधापर्यायत्वात् । महाभारतादौ वेदमयेन सुपर्णेन विनतायाः स्वजनन्या दासीत्वमोक्षणाय भूलोकं प्रति स्वर्लोकादमृतमानीतमिति प्रसिद्धम् । सुपर्णीविनताशब्दौ चैकार्थपरत्वेन प्रसिद्धौ । गायत्रीशब्दश्च छन्दोऽधि- दैवतपक्षिराजपरः । तदनुवाक एव सुपर्णस्य छन्दोम सुपर्णो गत्वा सोमं वज्रिण आहरत्" इत्यादौ च सोमाहरणं सुपर्णकृत्यमिति प्रतीयते । छन्दोऽङ्गिसुपर्णकृत्यमङ्गभूतच्छन्दस्यारोप्य श्रुतौ गायत्र्या सोमस्याहृतत्वमुक्तम् । अतो निजाक्षरैरिति तदेवाभिप्रेतम् । अहःशब्द एकाहादिक्रतुपरः । प्रतिऋतु च ब्राह्मणैः सोमः पीयते । एतेनात्मानं भाष्यकारो ग्रन्थारम्भे स्वेष्टसिद्धयर्थं भगवन्तं सुपर्णं भावयामा- सेति प्रतीयते ; यथा सीतान्वेषणार्थं समुद्रं लिलङ्घयिषुराञ्जनेयः “ सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः" इत्यादौ तस्य तथाविधानुसंधानं स्मर्यते । 1 १ सुरत्व G. २. निजाक्षरत्वं G. निजशब्दो नित्यपर इति भावः ३. मातृत्वं A. 3 66 0 दिवं

७२ श्रीभाष्यम् (द्वितीयश्लोकः) अथ “ नमस्कृत्य हृषीकेशम् 19 तटीका " नमो भगवते तस्मै व्यासाय इत्याद्यांचा- रक्रमेणावरगुरुकीर्तनादिरूपमङ्गलगर्भावान्तरविषयाद्युत्तया विधित्सितस्य स्वप्रबन्धस्यानार- यस्तां निरस्यति – पाराशर्य इत्यादिना व्याख्यास्यन्ते इत्यन्तेन । कुहकोक्तं भ्रमोक्तं वा निष्फलं निष्परिग्रहम् । स्पष्टं दुर्निर्वहं बोद्धहोनमन्योज्ज्वलं न हि ॥ १८५ ॥ यद्येतच्छास्त्र लोकायतादिवत्प्रतारकप्रोक्तं भ्रान्तिमूलं निष्प्रयोजनमपरिगृहीतं स्पष्टार्थं विवक्षिते नेतुमशक्यमनधिकारिकमन्यतश्चरितार्थं वा स्यात्, न तर्हि व्याख्येय- मिति शङ्कात्र क्षिप्यते । परान् बाह्यकुदृष्टीन् प्रमाणतर्कशरैराशृणातीति पराशरः; तस्यापत्यं पाराशर्यः ; नौं तादृशापत्यमतादृक्स्यादिति व्यक्त्यै पाराशयोक्तिः । श्रुतिश्च- " स होवाच व्यासः पाराशर्यः " इति । ‘अत्र स्वगुणः पितृगुणेन ख्याप्यते । नात्र सूत्रकृद्वादरायणनामान्य इति मन्तव्यम् ; 66 द्वीपे बदरिकामि बादरायणमच्युतम् । पराशरात्सत्यवती पुत्रं लेभे परंतपम् ॥ 66 १. अत्रायमाचार्याणामाशयः - यद्यपि “ गर्गादिभ्यो यञ्” इति गोलाधिकारे यज्ञ विहितः, तथापि " पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः" इति भगवता पाणि- निना व्यासे पाराशर्यशब्दप्रयोगात् पराशरशब्दादनन्तरापत्येऽपि यञ् भवतीति ज्ञायते । अनन्तरापत्ये गोत्रत्वारोपेण निर्वाहस्तु न प्रकृतानुगुणः । जन्मोत्कर्षः " पितृगुणेन स्वगुणख्यापनं चानन्तरापत्य एव ह्यतिशयेन स्वरसः । यदि तु औप- चारिकतयापि " पाराशर्यशिलालिभ्याम् इति सूत्रे पाराशर्यशब्दप्रयोग निर्वाह नानन्तरापत्ये यत्रो ज्ञापकत्व तस्येति मन्यते तदैव साधनीयम् – “ स होवाच व्यासः पाराशर्यः " इति पराशरानन्तरापत्ये व्यासे पाराशर्यशब्द प्रयुञ्जाना श्रुतिरेव परा- शरशब्दादनन्तरापत्ये यञः साधुत्वमनुमन्यते । न हि श्रुतिं कस्मिंश्चिदर्थेऽभिनि- विशमानां स्मृतिरूपरोद्धुं प्रभवति, “विरोधे त्वनपेक्षं स्यादसति हानुमानम् ” इति श्रुतिविरुद्ध स्मृतेरप्रामाण्यस्थापनात् । न चेदं व्याकरणस्य श्रुतिविरोधेऽप्रामाण्य- कल्पनम सांप्रदायिकम्ः । तथाहि – “प्रयोगोत्पत्त्य शास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् " " CC-0 No Rights Reserved. Digitized by eGangotriतत्त्वटीका इत्यादिप्रसिद्धेः । तस्य च ’ ब्रह्मसूत्रकृत्त्वं च स्कान्दोक्तम्- 66 66 “ अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान्भगवान्वेदानुज्जहार हरिः स्वयम् ॥ चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा ॥ कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा " ॥ इति । ७३ “ ब्रह्मसूत्रपदैश्चैव " इति भाविदर्शिभगवद्वाक्यं सूत्रपश्चाद्भावि वा स्वयमेव भारते न्यत्रघ्नात् । सूत्रविषयतया च तद्वाक्यरूपा प्राक्तनी भाविनी वा कृतिरुदाह्रियत इति न पौर्वापर्यविरोधः अथ वानादिसिद्धत्वात्स्मृतिसूत्रप्रवाहयोः । परस्परगृहीतिस्तु न विरोवाय कल्पते ॥ १८६ । आह च परभाष्यव्याख्याता — ब्रह्मसूत्रकृते वेदव्यासाया परवेधसे । ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ " इति । सुधाशब्देनास्यार्थस्य भोग्यत्वं दर्शयतीति विवरणम् । अत्र च–वचसः सुवेति विग्रहे सुधाशब्दस्य गौणी वृत्तिः । रूपकप्रकरणानुरूप्येण वा वचःशब्दलक्षितस्तदर्थः सु- 27 66 " 29 " दृष्टं साम इत्यधि- 66 इत्यधिकरणे शास्त्रदीपिकायां - वेदविरुद्धं चेदं व्याकरणम्; कृत्य “ कलेर्दक्” “ वामदेवाड्ड्यड्डयौ ” इत्युक्तम् । वेदे च यदकालयत् तत् कालेयस्य कालेयत्वम्’ वसु वामं समभवत् तस्माद्वाम देव्यम् " इति । तस्मात् वेदवादिप्रमाणमिति पूर्वपक्षं कृत्वा सिद्धान्ते वेदविरुद्धांशे कामं भवत्वप्रमाणं सर्व- वेष्टनादिस्मरणवत् ; न तावता सर्वाप्रामाण्यम्; एवं पदानर्थक्यवाक्यस्फोटा- भ्युपगमोऽपि न न्यायमूल इति न्यायाभावादप्रमाणमिति वेदस्वारस्य विरुद्धानामप्रा- माण्यमेव स्थिरीकृतम् । १. चोऽनावधारणे । अयोगान्ययोगव्यवच्छेदावभिप्रेतौ । २. चोऽत्र समुच्चये । वेदोद्धरणविभागादि समुच्चीयते । 10

७४ श्रीभाष्यम् (द्वितीयश्लोकः) "" उप- धात्वेन रूप्यते । यद्वा— सूत्रमेव वा सुवेति रूपितम् । उपनिषद्विमर्शोत्थन्यायरूपार्थ- द्वारा तूद्धृतत्वाद्युक्तिः । ननु लेोपस्कृतनिजाक्षरानीतत्वादिसामान्यप्रयोगे कथमिह मितम्" इत्यादिना समासः ? इत्थम् - समाससूच्यं स्वादुत्वसामान्यमिहाप्रयुक्तम् ; तदन्यस्य प्रयोगेऽपि न दोषः ; “ भाष्याविधः कातिगम्भीरः " इत्यादिवत् । वैधर्म्यरूपत्वं वा विशेषणे- विह सर्वेषु योज्यम् । सुधा हि अमृताक्षरोपचरितैरन्यस्य छन्दसोऽक्षरैरानीता ; इयं तु स्वाक्षैरैरेव । सुधा किल केवलदुग्धान्धिमध्योद्धृता, इयं तु अनिषद्दुग्वाब्धिमध्योद्धता | इत्थं शेषमपि योज्यम् । 6: साधर्म्यात्स्वादुतासिद्धिस्तथा स्वादुतमत्वधीः । वैधम्र्यादिति वैषम्यं भाव्यमत्र मनीषिभिः ॥ ९८७ ॥ यद् विवक्षितसामान्यं तत्प्रयोग निषिध्यते । उक्तिस्तदन्यसामान्यविषया न विरुध्यते ॥ १८८ ॥ विवक्षितं तु सामान्यं स्वादुत्वादिकमिष्यते । ; १. एवं सामान्यधर्मप्रयोगोऽस्तीति शङ्कमानं प्रति तन्मतान्वारोहेण परि- हारमुक्त्वा “ अन्वारुह्योक्तिदैन्यं नहि सहत ऋजुः सूत्रकृद्वावदूकः " इतिरीत्या तदनादरेण मुख्य परिहारमाह - वैधर्म्यरूपत्वं वेति । अमृताक्षरेति निजशब्दो नित्यपर इति भावः । ननु उपनिपदित्यादीनां सुधावैधर्म्यपरत्वे सुधाशब्दप्रयोगा- नुपपत्तिः, सुधासाधर्म्य विवक्षायां वैधयोक्त्यनुपपत्तिरित्यत आह– साधर्म्यादिति । सुधाशब्देनानिष्टनिवृत्तीष्टप्राप्ति साधनत्वातिरेकेण स्वतोभोग्यत्वं विवक्षितम् । उप- निपदित्यादिना तदविरूद्धं भोग्यतमत्वं विवक्षितम् । तथाहि–प्रसिद्धसुधाया दुग्धा- ब्धिमध्योद्धरणं प्राकृतामरत्वहेतुभूतम् ; वचः सुधाया उपनिषदुग्धाब्धिमध्योद्धरणं तु “तमेवं विज्ञानमृत इह भवति" इत्याद्युक्तामृतत्वहेतुभूतम् । प्रसिद्धसुधा प्राकृतप्राण- प्राप्तिकरी, वचःसुधा तु परमपुरुषरूपप्राणप्राप्तिकरी | प्रसिद्धसुधा देहार्थ सुरक्षि- ता, वचःसुधा तु आत्मार्थ सुरक्षिता । प्रसिद्धसुधा देहनाशहेतुं दूरस्थिता, वचःसु- धातु आत्मनाशहेतुदूर स्थिता । प्रसिद्धसुधा कद्रयार्थं गायल्यक्षरैर्हेतुभिः सुपर्णेनानीता, वचःसुधा तु वाह्यकुदृष्टिनिरसनार्थ सूत्राक्षरैर्हेतुभिर्भाष्यकारैरानीता । प्रसिद्धसुधा देवानां कदाचित्पानयोग्या, वचःसुधा तु भौमानामपि सुमन सामन्वह- मनुभवयोग्येति स्वादुतमत्व सिद्धिरिति भावः ।

तत्त्वीका तत्पुनर्नोच्यते साक्षात्समासस्तेन सिध्यति ॥ १८९ ॥ अविवक्षितसामान्यप्रयोगः काव्यशास्त्रयोः । दृश्यते बहुशस्तस्मान्न समासोऽत्र दुष्यति ॥ १९० ॥ ७५ " ओषधीभ्यो यथामृतम्’ " इतिवच्छिरः शब्दाभिप्रायव्यक्त्यर्थ उपनिषच्छन्दः । उप निषीदति अव्यवधानेन नित्यं • समन्वेतीत्यनन्यपरांशोक्तिः ; तथा च वाक्यम्- उपनिषण्णत्वाद्वा उपनिषत् " इति । तत्र द्रमिडभाष्यम् – " गहने हीयं विद्या संनि- विष्टा " इति । तस्य च वामनटीका - " गहने ब्रह्मणि उपनिषण्णा " इति । भाव्यस्य सूत्राणि, तेषामुपनिषदः, तासां ब्रह्मेति विषयक्रमः । प्रयोजनानि च यथार्हाणि । " आरण्यकं च वेदेभ्यः " इति श्रुतिवेनुसार भूतस्वादुतमरसतया आनन्त्यगाम्भीर्यादिभिश्च दुग्धाब्धित्योक्तिः । मध्यस्याशेषपर्यन्तासत्तिसाम्यात्तदुक्तया • सर्वश्रुत्यानुगुण्यव्यक्तिः । उद्धतत्वोत्त्यार्थस्याकल्पितत्वमामूलं ग्रहणं च ख्याप्यम् । संसारेत्यादिकमपेक्षिततमावान्तर- प्रयोजनकथनम्, अस्ति ब्रह्मेति चेद्वे " इत्यादिश्रुतेः ; वाक्यार्थनिर्धारणे च सूत्राणां विश्रमात् । अचिद्भिरेकीकृत्य जन्मादिप्रवाहप्राप्तिः ससारः । यद्वा संसरत्यनेनेति संसारः कर्म ; स तु स्वर्गादेरपि तापत्रयमयत्वादग्नितयोक्तः । दीपनं क्लेशकर्मादि ज्वालोद्गतिः ; सा चापवर्गप्रतिकूलतया स्वसंसृष्टनाशकावस्था । तद्वैविध्यमविद्यादिभेदात्पञ्चधा त्रिधा द्विवेत्यादि तत्र तत्र कथ्यते । अत्र शारीरादिविविधदुःखावहतया च वैशिष्टयं विशब्दार्थः । अत्र प्राणः प्राणिनां प्राणन हेतुः परमात्मा, 66 " न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जोवन्ति यस्मिन्नेतावुपाश्रितौ ॥ "" 66 " प्राणस्तु " प्राणस्य प्राणम्, “ प्राणमेवाभिसंविशन्ति " इत्यादिश्रुतेः । प्रणवे जीवे जीविते परमात्मनि " इति च पठ्यते । अपगतः अतिदूरस्थः शास्त्रेषु दर्श- यत्स्वपि कूटयुक्त्यादिभिरद्य यावत् ’ असा ’ इति वेद्यतां प्राप्तः । विशब्दः श्रवणाद्यन्यत - मेनाप्यनाघ्रातत्वपरः । विशेषतो वापगतः, स्वयमवतीर्य स्वात्मानं दर्शयत्यपि व्यावृत्ततया दुर्दर्शः । अत्र “ प्राणो ज्ञानम् " इति न्यायसुदर्शनम् । आत्मनां तद्गुणसारतया तदं- शोक्तिः । तदा व्यपगतिरतिसंकोचः । व्यपगतप्राणानां संजीवनं नाम बाह्यकुदृष्टय :

७६ श्रीभाष्यम् (द्वितीयश्लोकः) नपहार्यप्राणस्थापनम् ; तन्मुखेन रक्षोक्तिसंक्षिप्तपरमप्रयोजनविवरणं वैतत् । तदा तूपसर्गेण स्वात्मप्रापणादिमात्रव्युदासः । पूर्वाचार्याः बौद्ध जैनगन्धिभ्योऽन्ये । औपदेशिकी रक्षा तदैव तत्रैव ; ग्रान्थिकी तु कालान्तराद्यनुच्छेदात् सुरक्षोक्ता । रक्षितत्वं तु रामास्त्रय्यन्तार्थे हि सूचितम् । आत्मसिद्ध्यादिभिः प्रोक्तं यामुनायनिबन्धनैः ॥ १९१ ॥ सुधासुरक्षितशब्दाभ्यां वक्तस्तुतिरार्थी । सुधा तु सुरगुरुचक्रयन्त्रादिभिर्दृढगुप्ता । सुरक्षितत्वेऽपि त्यक्तसंप्रदायैः कुग्भिः क्षोभितत्वमाह - बहु इति । बह्वयः मिथो विरुद्धाः बहूनां वा मतयः, ताभिर्व्यावातः विविधा अभिव्याप्ता पीडा ; स्वारसिकधीविरोध इत्यर्थः । तेन दूरस्थितां बोतॄणां रजस्तमस्तारतम्यादबोधा समग्रबोधान्यथाबोधार्हामित्यर्थः । अबोधश्चायथाबोधस्तत्त्वबोधविरोधिनौ । 1 अनिश्चितावबोधेऽपि तथाबोधकता स्थिता ॥। १९२ ॥ सद्भिर्यदि विगीयेत न संगृह्येत पश्चिमैः । न तन्मतानुसारश्च सत्यः स्याद्वयाजिहीर्षतः ॥ १९३ ॥ कुदृष्टिभिश्च बाह्यैश्च यदि वाभ्युपगम्यते । कः स्वपक्षतया रक्ष्यः परपक्षश्च को भवेत् ॥ १९४॥ तदत्र चतुरध्याय्यां साधनाक्षेपभागयोः । निदानमभिसंधाय निर्दिष्टं भेदतो द्वयम् ॥ १९५॥ सुधा तु विरुद्धमतिदैत्यादिव्याघातभयात् दूरस्थिता । यद्वा कद्रूविजितायाः सुपर्ण्या- स्तथा बहुमतिव्याघातदशायामात्मनिष्क्रयणार्थमाहर्तव्यतया दूरे तृतीयस्यां दिवि स्थिता । स्वयाख्यानस्याप्यन्यैर्व्याघाताद सामर्थ्यापरिहार इत्यत्राह - - आनीताम् इति । बुद्ध्या- सन्ने स्वार्थे स्थापिताम् । एतेन व्याख्यातद्वतोः संबन्धः शोधितः । परेष्टव्यावहारिकसाथ- कव्यावृत्त्यै तद्व्यनक्ति– निजाक्षरैरिति । वचः प्रस्तावात्तदक्षराणि निजाक्षराणि, सूत्रा- क्षराणीति वक्ष्यमाणत्वात् । यथा विवरणम्- “ सूत्राक्षराणि यमर्थं स्वरसतो बोधयन्ति स एव सांप्रदायिकः ; वक्तुः स्वसमीहितार्थवाचकशब्दप्रयोगव्युत्पत्तेः स्वरसतः परप्रत्याय- नार्थत्वाच्छब्दप्रयोगस्य " इति । बहूनां व्याख्यानानां मिथो व्याघाते व्याख्येयस्वारस्यं

मूलभावप्रकाशिका 11 66 ७७ संप्रदायव्यवस्थापकभिति भावः । सुधा तु सोमाख्या सौपर्णाख्यानप्रसिद्धैर्गायत्र्यवयवैर- मृताक्षरैः सहानीता । मदुक्तिभिरिति वार्थः । तन्त्रतः सुधासमाधिसिद्धयै तथानुक्तिः । सुधायाः सुमनसो देवा भोक्तारः । यद्वा गायत्र्यभिमानिसुपर्णानीतायाः सोमलतारूपेण परिणताया एकाहाद्युपयुक्ताया भौमाः सुमनसः प्रतिसमयं भोक्तारः । वचोरूपायास्तु " ब्राह्मणा विविदिषन्ति " इतिवत् चोदनानर्हव्यावृत्ताः “ सारासारविवेकज्ञाः " इत्यादिना स्वेनैवान्यत्रोक्ताः । एतेन ब्रह्मविद्यासंप्रदानमपि शिक्ष्यते । श्रुतं ह्येतच्छान्दोग्ये – “ इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णा दद्यादेतदेव ततो भूयः " इति । प्रणाय्यः प्रश्रितत्वानसूयुत्वऋजुत्वादिभिर्योग्यः । न हि भौमाः सुमनस इति भूसुरमात्रोक्तिर्युक्ता, अधीतवेदवर्णत्रयार्हत्वान्मीमांसायाः । स्वतो विदुषां स्वर्गादिभुवां० प्रायो न सूत्रव्याख्याना- पेक्षा ; सत्यामपि तस्यां विशालधीयोग्यैर्वृत्त्यादिभिस्ते चरितार्थाः ; अतो न वृथात्र भौमत्वो- क्तिः । पिवन्तु ; अयनं सुखमनुभवन्तु । यत्नो हि सुधाया मन्थनतस्तदानयनतश्च । अन्वहम् ; अतिगम्भीरत्वादत्यन्तहृद्यत्वाच्च । सुधेयं सूत्रकारेण हरिणेव समुद्धृता । आनीता भाष्यकारेण द्विजेन्द्रेणेति चाशयः ॥ १९६ ॥ मूलभावप्रकाशिका 99 प्रेक्षावदुपादेयत्वाय विषयप्रयोजनाधिकारिविशेषान्निर्दिशति – पाराशर्येति । पारा- शर्यो व्यासः, " स होवाच व्यासः पाराशर्यः " " इति श्रुतिप्रसिद्धेः । यद्यपि व्यासस्य पराशरानन्तरापत्यत्वात् गोत्राधिकारविहितो “ गर्गादिभ्यो यज् न संभवति, तथापि जामदग्न्यो रामः’ इतिवत् गोत्रत्वारोपात् यनुत्पत्तिर्द्रष्टव्या । तस्य च वचः शारीरकं शस्त्रिम् ; तदेव सुधा ; मयूरव्यंसकादित्वात्समासः । मध्योद्धृतामित्यनेन सर्वोपनिषत्पर्यालो- चनलब्धत्वं व्यज्यते । व्यपगतप्राणेति ; प्राणशब्दो जीवपरमात्मोभयपरः ; भूमविद्यायां “ प्राणो वा आशाया भूयान् " इत्यादौ प्राणशब्दस्य जीवे प्रयोगात् ; “यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् " इत्यादौ प्राणशब्दस्य परमात्मन्यपि प्रयोगात् । ततश्च संसारानिविदीपनेन व्यपगतप्राणानां जीवपरमात्मानुभवशून्यानां संजीवनीं प्राणलम्भिका- CC-0 No Rights Reserved. Digitized by eGangotri७८ श्रीभाष्यम् ; (द्वितीय श्लोकः) मित्यर्थः । “ जीव प्राणधारणे,” इति हि धातुः । कैवल्यस्यापि जीवरूपप्राणला भरूपतया तद्धेतुत्वप्रतीतिव्यावृत्त्यर्थः ’ सम्’ इत्युपसर्गः । तेन च व्यपगतय्यावत्प्राणलम्भकत्वं सिध्यति । ततश्च जीवपरमात्मानुभवहेतुत्वं संजीवनशब्देन फलति । पूर्वाचार्यशब्देन बोधायनटङ्क- द्रमिडादयो विवक्षिता: । रक्षणं चान्यथाप्रत्यायकत्व लक्षण पीडापरिहारः । प्रसिद्धापि सुधा कैश्चित्सुरक्षिता हि भवति । बहुमतीति वादिनां बहुविधान्योन्यव्याघातेन दूर- स्थितां यथावस्थितार्थप्रत्यायकत्वरहितामित्यर्थः । आनीताम् ; यथावस्थितार्थप्रत्यायिका- मित्यर्थः । वचःशब्दस्यार्थलक्षणापक्षे सुरक्षितत्वदूरस्थितत्वानि साक्षादेव संगमयितुं शक्यानि ; शब्द इव नार्थद्वारा संगमयितव्यानीत्यभिप्रेत्य वचः शब्दस्यार्थ लक्षणापक्षमप्याश्रयन्ते । निजाक्षरैरिति ; सुधापक्षे निजाक्षरैः गायत्र्यवयवभूतैरमृतबीजाक्षरैरित्यर्थः । “कद्र्श्च वै सुप- र्णी च " इत्यनुवाके " तृतीयस्यामितो दिवि सोम आसीत् " इति मन्त्रे च गायत्र्यामृताहर- णस्य प्रसिद्धेः । प्रकृते तु ममाक्षरैरित्यर्थः । सुमनस इति ; 66 सारासारविवेकज्ञा गरीयांसो विमत्सराः । प्रमाणतन्त्राः सन्तीति कृतो वेदार्थसंग्रहः ॥ 99 इत्युक्तलक्षणयुक्ता इत्यर्थः । अनेन " मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम ‘स्यादरसपुरुषानादरभेरः" इत्युक्तरीत्या असदपरिग्रहो न दोषायेत्युक्तं भवति देवादीनां शारीरकार्थप्रतीतेः स्वग्रन्थानपेक्षित्वात् भौमा इत्युक्तम् । पिवन्त्वन्वहमिति ; * अनेनातृप्तिकरानुभवविषचरसघनत्वं व्यज्यते । निजाक्षरेरानोतां पाराशर्यवचः सुधामिति स्वग्रन्थस्य पाराशर्यवचोव्याख्यानत्वाविष्करणेन शारीरकशास्त्रविषयस्यैव स्वग्रन्थविषयत्वं तज्ज्ञानस्यैव प्रयोजनत्वं चोक्तं भवति । संजीवनीमित्यनेन मोक्षस्य परमप्रयोजनत्वमुक्तं भवति । सुमनस इत्यनेन शारीरकार्थजिज्ञासवो मात्सर्यादिदोषरहिता आस्तिक्यादियुक्ता अधिकारिण इत्युक्तं भवति । श्रीभाष्यम् भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्ति पूर्वाचार्याः संचि क्षिपुः ; तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते । १. स्यादलसपुरुषेति पाठान्तरम् । २. अत्र तृप्तिपदेन अलंभावोऽभिप्रेतः ।

(२ – १ – – १) श्रुतप्रकाशिका ७९ (जिज्ञासाधिकरणम् १) सू ॥ अथातो ब्रह्मजिज्ञासा ॥ १ ॥ भावे । अत्रायमथशब्द आनन्तर्ये भवति ; अतः शब्दो वृत्तस्य हेतु- अधोतसाङ्गसशिरस्क वेदस्याधिगताल्पास्थिरफलकेवलकर्म- ज्ञानतया संजातमोक्षाभिलावस्यानन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तर- भाविनी । श्रुतप्रकाशिका ; I तहिं पुरातनग्रन्था एवं वाचथिव्याः किमपूर्वग्रन्थनिर्माणतत्य वर्तनयत्न गौरवेणेति शङ्कायामाह – भगवदिति । भगवच्छब्देन शंकरादिभ्योऽप्याप्ततमत्वमभिप्रेतम् । बोधा- नग्रहणेन पूर्वाचार्य शब्दोऽप्यर्थाद्विवृतः । विस्तीर्णां संचिक्षिपुः इत्यनेन वृत्त्यादीनामत्र- त्येष्वद्यतनजनेष्वकार्यकरत्वं सूचितम् । बोधायनेन ह्यतिविस्तीर्णा वृत्तिः कृता ; द्रमिडभाष्यकारादयो हि परपक्षप्रतिक्षेपाद्यनादरेणातिसंक्षिप्तान् ग्रन्थानरचयन्; अतिवि- स्तीर्णातिसंकुचितग्रन्थानां साफल्यमायुष्मद्बुद्धिमज्जनप्रचुरेषु देशकालान्तरेष्वेव भवति ; न हीदानतनपुरुत्राणां सर्वेषां शतायुष्टुं यावज्जीवं ग्रन्थपरिश्रमः सहजधीविशेषाश्च सन्ति ; तस्मात्परमतनिरासाद्यर्थमनतिविस्तरतया सुग्रहत्वार्थं च सूत्रं व्याख्यातव्यमिति यावत् । तन्मतानुसारेण ; न तु स्वोत्प्रेक्षितमतान्तरेण । सूत्राक्षराणि; सूत्रपदानां प्रकृतिप्रत्यय- विभागानुगुणं वदामः । न तु स्वोत्प्रेक्षितार्थे सूत्राणि यथा कथंचिद्योजितानीति भावः । व्यख्यास्यन्ते ; व्याभ्यामुपसर्गाभ्यामपेक्षितविस्तरानपेक्षित संक्षेपौद्योतितौ । ननु " सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाप्यं भाष्यविदो विदुः ॥ इति हि भाग्यलक्षणम् ; अतः सूत्रज्याख्यानरूपत्वाभावादखिलेत्यादिकं न भाव्यान्तर्भावीति चेत् — न; सूत्रतात्पयर्थिपरत्वाद्भाव्यान्तर्भाव्येव । सूत्रतात्पर्यार्थपरत्वं च श्लोकव्याख्याने स्पष्टम् । किंच मङ्गलाचरणं प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्याद्यर्थतया तदुपयोगीति तदन्तर्भाव्येव । शावरशांकरादिभाष्येषु नमस्कारादर्शनादत्र नमस्कारक-

८० श्रीभाष्यम् (जिज्ञासाधिकरणम्) थनमयुक्तमिति चेत् —न ; नमः प्रवरगुणैकास्पदाय " इति द्रुमिडभाप्ये देवतागुरुन- मस्कारश्रवणात् । शावरशा करयोस्त्वीश्वरानभ्युपगमात् जीवब्रह्मभेदानभ्युपगमाच्च नमस्थाना- दरः । अत्र तु सिद्धान्तानुरूप्यान्नमस्यात्यन्तोपपन्ना । शांकरग्रन्थोपक्रमे च व्याख्यातृभि- नमस्कारायभावात्कु ग्रन्थत्वमाशङ्क्य युष्मदस्मदित्यादिग्रन्थे प्रत्यगर्थानुसंधानेनार्थान्मङ्गला- चारः कृत इति परिहृम्" | पूर्वं पदानि व्याचिख्यासुः प्रथममथशब्दं व्याचष्टे – अत्रायमथशब्द आनन्तर्ये भवतीति ।


" पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना | आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ " इति हि व्याख्यानप्रकारः । ननु नैतौ अथातः शब्दौ व्याख्येयौ, प्रयोजनाभावात् । अज्ञानसंश- यविपर्ययनिवृत्त्यर्थं हि व्याख्यानम् ; न तावदत्राज्ञानम् - आनन्तर्ये, प्रकृतस्य हेतुभावे च तयोः प्रसिद्धत्वात् । नापि संशयः, अर्थान्तरेषु सत्स्वपि तयोरुक्तार्थपरत्वेन प्रसिद्धिप्राचुर्यात् । न हि गोशब्दं शृण्वतः सास्नादिमति संशयो जायते । अत एव विपर्ययोऽपि दूरोत्सारित इति । अत्र ब्रूमः - आनन्तर्य वृत्तहेतुभावपरत्व निर्णयस्य पूर्ववृत्तविशेषावगमसापेक्षत्वात्, तदप्रतीत्या प्रसिद्धिप्राचुर्यस्य सापवादत्वात्, अथशब्दस्याधिकारादिषु एतच्छब्दस्य च ’ एतदुक्तं भवति’ इत्यादिषु वक्ष्यमाणेऽर्थे तसेच सर्वविभक्त्यर्थवाचिनः ’ इतः’ इत्यादिषु पञ्च- म्यर्थव्यतिरिक्तेऽर्थे च प्रयोगदर्शनात् संशयविपर्ययौ स्यातामिति तन्निरासाय अथातः शब्दव्याख्यानं युक्तमित्यतस्तौ व्याख्यायेते । अत्र तावत् अथशब्दस्याधिकारार्थत्वमयु- क्तम् ; अधिकारो हि प्रस्तावः ; ब्रह्मजिज्ञासा प्रस्तूयत इति वचनं मन्दप्रयोजनम्, प्रार- स्वत इत्युक्तिं विनापि प्रारम्भादेव प्रारम्यमाणत्वावगमात् । उच्यमानं हि वचनं ’ ब्रवीमि ’ इत्युक्तिमन्तरेणापि संनिहितपुरुषेण ‘उच्यते ’ इत्येवावगम्यते, न तु ’ नोच्यते ’ इति । प्रस्तोतव्यत्वमुच्यत इति चेत्, तदानीमपि न्यायप्रतिपादकस्य सूत्रस्योपदेशाज्ञापनपरत्वा- भावात् युक्तितः प्रारम्भयोग्येत्यर्थः स्यात् । योग्यत्वमशाब्दम् । नन्वध्याहारेण योजना स्यात् ; आनन्तर्यपक्षेऽपि ’ कर्तव्या’ इति ह्यध्याहर्तव्यमिति चेत् — न ; अधिकारार्थत्व- पक्षेऽध्याहृतस्यापि पदस्यान्वयदौर्घट्यात् । यथा च योग्या’ इत्युक्ते समुच्चेतुं योग्येत्यर्थो । ।

( १ – १ – १) श्रुतप्रकाशिका ० ८१ न शक्याभिधानः, एवम् ‘अथ योग्या’ इत्युक्तेऽप्यधिकर्तुं योग्येत्यभिधानं हि न शक्यम् । अत एव हि महाभाष्ये - " शब्दानुशासनं शास्त्रमधिकृतं वेदितव्यम्" इत्युक्तम, न तु ’ अधिकर्तुं योग्यम् ’ इति । " अधिकृतम् " इत्यपि फलितार्थकथनम्; न तु वाचनिकोक्तिः, चादीनां द्योतकत्वात्। अत्र तु ’ अधिकृतम् ’ इत्यर्थपरत्वे वैयर्थ्यमुक्तम् । शब्दानुशासनोपक्रमे त्वधिकारार्थत्वमगत्याश्रितम् । न ह्युपनीतेन वेदमधीयानेनाध्येतव्यस्य तदङ्गभूतस्य व्याकर- णस्यासाधारणो वृत्तविशेषः संभवति । इह तु प्रयोजनवदर्थान्तरसंभवादधिकारार्थत्वा- श्रयणमयुक्तम् । आनन्तर्यपरत्वे प्रयोजनवत्त्वं च वक्ष्यते । मङ्गलं तु नाथशब्दवाच्यम् ; अपितु शङ्खस्वनादिवत् श्रूयमाणोऽथशब्दो मङ्गलावह इत्योंकारस्येवार्थान्तरपरत्वेऽपि मङ्गलं सिद्धमिति । ओंकारतुल्यो हाथशब्दः स्मर्यते—- " ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ " इति । मङ्गलवाचित्वाभ्युपगमेऽपि मङ्गलरूपा ब्रह्मजिज्ञासेति ब्रह्मजिज्ञासा स्तुता स्यात् ; ततश्च सूत्रस्यार्थवादता स्यात्, न तु न्यायनिबन्धनत्वम् । जिज्ञासाविशेषणत्वा- भावे मङ्गलं भवतीति वाक्यभेदः स्यात् । प्रकृतादर्थादर्थान्तरपरत्वं चायुक्तम् ; तद्धि प्रकृतमपेक्ष्य वक्ष्यमाणस्यार्थान्तरत्वज्ञापनम् ; तच्च कल्पान्तरोपन्यासविवक्षायामेव दृष्टम् । अत्र तु कल्पान्तरोपन्यासाभावात्तदनुपपन्नम् । प्रश्नपरत्वमप्ययुक्तम् ; वचनव्यक्तेः प्रश्न- प्रतिवचनरूपत्वाभावात् । तदा हि ’ किं ब्रह्मजिज्ञासा कर्तव्या’ इत्युक्तं स्यात् ; ‘सा कर्तव्या’ इति वाक्यान्तरेण प्रतिवचनं स्यात् । न च प्रतिवचनरूपं वाक्यान्तरमुपलभ्यते । अथशब्दस्य कार्न्यपरत्वे कात्स्न्येन सा कर्तव्येत्यर्थः स्यात् ; सोऽनुपपन्नः, एकदेशकर्तव्य- तायाः शङ्कितत्वाभावात् । कर्तव्यतामात्रं हि संशयपदम् ; तन्निरासार्थं च सूत्रम् । किंच अधिकाराद्यर्थान्तरपरत्वमतः शब्दान्वयेोऽपि निवारयति । अतः शब्दो हि प्रकृतमर्थं हेतुतया परामृशन्नथशब्दोपस्थापितं ब्रह्मजिज्ञासापदसामर्थ्याक्षिप्तं वा परामृशति । तत्र यद्यथशब्दोपस्थापितमधिकृतत्वं हेतुतया परामृशेत्, तदा ’ अधिकृतत्वादधिकर्तव्या इति हेतोः साध्याविशिष्टत्वं स्यात् । मङ्गलस्यानभिधेयतया न पदान्तरपरामर्शयोग्यता । वाच्यत्वाभ्युपगमेऽपि तस्य च प्रकृतापेक्षत्वस्य च कात्स्यस्य च पूर्वपक्षयुक्तिप्रत्यनीकत्वाभावात् तानि न हेतुतया परामर्शनीयानि । न ह्यमङ्गलत्वप्रकृतानपेक्षत्वा कात्स्न्यैः पूर्वपक्षोत्थानम् । 11 9

० ० ८६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) " ततश्च यथा धूमे बोधिते स्वयनेवासौ वह्निमनुमास्यतीति वुद्ध्या प्रयुक्ते ‘धूमोऽस्ति’ इति वाक्ये वह्नह्यस्तित्वं न शाब्दम्–मुख्यार्थानुपपत्त्यभावेन वह्नौ लक्षणाया धूमशब्देऽभावात्– तद्वत् प्रारम्भयोग्यत्वस्य कथंचिदथपदप्रयोज्यप्रतीतिविषयत्वे सत्यपि न शाब्दत्वमिति भावः । ननु वह्नितात्पर्य के ‘धूमोऽस्ति’ इतिवाक्ये वयस्तित्वस्य शाब्दत्वमपि संभवत्येव तात्पर्यस्यापि लक्षणाबीजत्वात् ; ‘ अब्भक्षः ’ इत्यादौ यथाश्रुतार्थप्रतिपादनमात्रेण प्रयोजनानवाप्तेस्तन्मात्र- भक्षणस्य शाब्दत्वाङ्गीकारात् । नयां सिगासुं प्रति प्रयुक्त ’ नयां ग्राहाः सन्ति’ इति वाक्ये ‘तत्र मा स्वासीः इत्यादिवाक्यार्थ लक्षकत्वस्य तान्त्रिकैरभ्युपेतत्वादिति चेत्-न; आरम्भयोग्यत्वस्य व्यङ्ग्यार्थतया शक्तिलक्षणान्यतरमूलकत्वाभावेन शाब्दत्वाभावात्, प्रसिद्धानन्तर्यार्थप्रतिपाद- नमुखेन वक्ष्यमाणप्रयोजनसंभवे अप्रसिद्धमन्दप्रयोजनकप्रारम्भार्थकत्वस्यायुक्तत्वाच्च । अथवा, अशाब्दमवाच्यमशक्यमित्यर्थः ; योग्यत्वस्य कथंचिदमुख्यया वृत्त्या प्रतिपाद्यत्व संभवेऽपि मुख्यत्वासंभवात्, मुख्यार्थग्रहणे संभवति तत्त्यागस्यानुचितत्वादिति भावः । एवमथ- योग्येत्युक्ते इति; यद्यपि अथातो ब्रह्मजिज्ञासा योग्या’ इत्यध्याहारे अथेत्यस्याधिक्रियत इत्यर्थः, ततश्च ‘अधिक्रियते ब्रह्मजिज्ञासा योग्या’ इत्यर्थः स्यात् । योग्यत्वं च संनिधानात् अधिकार एव लभ्यते; यथा ’ योग्या ब्राह्मणा आनीयन्ताम्’ इत्युक्ते आनयनयोग्या इत्येव प्रतीयते । ततश्च ‘प्रारभ्यते योग्या ब्रह्मजिज्ञासा’ इत्युक्ते प्रारम्भयोग्येति प्रतीतिः सिध्यति, तथाप्यधिक्रियते योग्येति न शाब्दप्रतीतिः स्यादिति भावः । अत एव वक्ष्यति अधिकृतमित्यपि फलितार्थ- कथनं न वाचनिकोक्तिरिति ” । चादीनां द्योतकत्वादिति ; निपातानां द्योतकत्वस्य वाक्य- पदीये निर्णीतत्वादिति भावः । नन्विदमानन्तर्यार्थकत्वपक्षेऽपि समानमित्याशङ्क्य सप्रयो- जनत्वाप्रयोजनत्वाभ्यां वैषम्यमित्याह – अत्र त्वित्यादिना । माङ्गलिकावुभाविति ; प्रयोजनार्थे ठक्प्रत्यय इति भावः । यद्यपि भूवादिसूत्रे अन्वयप्रतियोग्यनुपस्थापकस्यापि चाकारस्य मङ्गलार्थत्ववत् सप्रयोजनत्वं संभवति, तथाप्यन्वयप्रतियोग्युपस्थापकत्वेन वाक्यार्थान्वयित्वसंभवे गत्यभावस्वीकार्यमङ्गलमात्रप्रयोजनकत्वस्यायुक्तत्वमिति भावः । प्रकृतादर्थादर्थान्तरपरत्वमित्यत्र प्रकृतादिति पञ्चमी त्यब्लोपे, न तु “ अन्यारादि- तर " इत्यन्यार्थ इत्याह तद्धि प्रकृतमपेक्ष्येति । अथशब्देन वक्ष्यमाणस्य न्तरस्य प्रकृतविषयत्वं हि ज्ञाप्यते ; किं ‘ब्रह्म सगुणमथनिर्गुणम्’ इत्युक्ते प्रकृतं ब्रह्मापेक्ष्यैव निर्गुणत्वरूपकल्पान्तरमुपन्यस्यत इति प्रतीयते, न तु तदतिरिक्तं जीवं घटं वापेक्ष्येति ; यथा कल्पा- CC-0 No Rights Reserved. Digitized by eGangotri(१–१–१) भावप्रकाशिका ८७ वा “ अथाध्यात्मम्" इत्यादि । ततश्च प्रकृतापेक्षत्वमथशब्दार्थः; अत एवोत्तरत्रापि “ न ह्यमङ्गलत्वप्रकृतानपेक्षत्वाकात्स्न्यैः पूर्वपक्षोत्थानम् ” इति वक्ष्यति । हेतो साध्यावि- शिष्टत्वं स्यादिति ; नन्वानन्तर्यार्थत्वपक्षेऽपि नाथशब्दोपस्थापितमानन्तर्थं हेतूकर्तुं शक्यम् ; न ह्यानन्तर्यात् ब्रह्मजिज्ञासा कर्तव्येति वक्तुं शक्यते, अपितु ब्रह्मजिज्ञासाक्षिप्तो ब्रह्मविचार एवातः शब्देन हेतुतया परामृश्यते; स एवाथशब्द निर्दिष्टानन्तर्यप्रतियोगितयाप्यन्वेतीति वाच्यम् ; तद्वदिहापि ब्रह्मजिज्ञासाक्षिप्तकर्मविचार एवातः शब्देन हेतुतया परामृश्यताम्, न त्वथशब्दोपस्थापितमधिकृतत्वमिति चेत् — न ; उत्तरार्धादिशब्दानां सापेक्षार्थाभिधायिनाम् । नापेक्षणीयसंबन्धात् प्रागर्थोऽध्यवसीयते ॥ " 66


99 इति न्यायेनाथशब्दस्य केवलानन्तर्याप्रतिपादकत्वेन पूर्ववृत्तकर्मविचारविशिष्टानन्तर्यप्रतिपाद- कतया कर्मविचारस्याप्यथशब्दोपस्थापितत्वेनानन्तर्यार्थत्वपक्षे अथशब्दोपस्थापितस्य कर्मवि- चारस्य अतः शब्देन हेतुतया परामर्शः संभवेत् ; अधिकारार्थत्वपक्षे तु न तथेति वैषम्या- दिति भावः । ननु मङ्गलानन्तरारम्भप्रश्नकात्स्न्यैवथो अथ इत्यानन्तर्यादिवन्मङ्ग- लस्यापि सहपाठात् वाच्यत्वमेव स्यादित्यस्वारस्यादाह – वाच्यत्वाभ्युपगमेऽपीति । पूर्व पक्षयुक्तिप्रत्यनीकत्वाभावादिति ; आनन्तर्यपक्षे तु कर्मणामल्पास्थिर फलत्वप्रतीति- सहितानन्तस्थिरफलापातप्रतीतिरूपाधिकारिविशेषणासंभवरूपपूर्वपक्षयुक्तौ कर्मविचार हेतुत्वो- पन्यासस्य प्रत्यनीकत्वादिति भावः । न ह्यमङ्गलत्वप्रकृतानपेक्षत्वाकात्स्न्यैः पूर्वपक्षोत्थान- मिति ; यद्यप्यमङ्गलत्वादिना पूर्वपक्षेण मङ्गलत्वादीनां हेतुतया परामर्शः संभवति, मङ्गल- त्वादेस्तत्पूर्वपक्षिभिरनभ्युपेतत्वात् उभयसंप्रतिपन्नस्यैव हेतूकरणीयत्वात् तथापि क्षित्या- दिषु सकर्तृकत्वसाधने सावयवत्वसाधितस्य कार्यत्वस्य प्रसाध्याङ्गकस्य हेतुत्ववत् प्रसा- घ्याङ्गकानां मङ्गलत्वादीनां हेतुत्वं संभवतीति भावः । प्रश्नवाक्यगत प्रश्नस्त्विति ; नन्वथ- शब्दोपस्थापितत्वेन प्रश्नस्यातः शब्दपरामर्श योग्यत्वात् कुतो नातः शब्देन परामर्श: ? न च तस्यासिद्धत्वात् न हेतुतया परामर्श इति वाच्यम् ; न हि हेतुतया परामर्शदशायां हेतुतय- पराम्रष्टव्यस्य तादात्विकसिद्धत्वमपेक्षितम्, ’ भाविनो वर्षात् फलम् ’ इत्यादिप्रयोगदर्शनात्, प्रश्नेनार्थी ज्ञायते किम्?’ इति प्रश्नवाक्य एव प्रश्नस्य तृतीयया हेतुत्वदर्शनात् । अन्यत्र 6 ;

८४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) व्यावृत्तिः । कर्मज्ञानस्यैव पूर्ववृत्तत्वं कथम् ? अनन्तस्थिर फलापातप्रतीतिश्च कथमिति शङ्काया- मधीतेत्यादिपदेन तदुपपादनम् । सशिरस्कवेदशब्देन कृत्स्नाध्ययनस्य विहितत्वं व्या- ख्यानपौर्वापर्य हेतु भृतव्याख्येयपौर्वापर्यनियमो भागद्वयस्यैकप्रबन्धत्वं च सूच्यते । साङ्गशब्देनानन्तस्थिरफलापातप्रतीतिजनकत्वे हेतुर्दर्शितः । " कृष्णपक्षे तथाङ्गानि " " उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ 99 इत्यादिवचनान्यधीतसाङ्गसशिरस्कवेदस्येत्यत्राभिप्रेतानि । एवमधीतेत्यादिपष्ठयन्तविशेषण- ब्रह्मजिज्ञासापदसामर्थ्यानुगृहीताथातः शब्दोपस्थापितोऽधिकारिविशेषः द्वयेन प्रदर्शितो भवति । सग्रधिगतकर्मा सांसारिकफलनिर्विण्णोऽनन्तस्थिरफलाकाङ्क्षी हि शास्त्रमधिकरोति अनन्तस्थिरफलन्रह्मजिज्ञासेति ; अनन्तस्थिरफलरूपस्य ब्रह्मणो जिज्ञासेत्यर्थः । अनन्त- स्थिरफलत्वस्य जिज्ञासाविशेषणत्वे जिज्ञासायास्तथात्वमागमोत्थविवेकादिजन्यज्ञानद्वारेणेति द्रष्टव्यम्। अनन्तरभाविनी इतिपदेनाथातः शब्दफलितं हेतोः शास्त्रान्तरनैरपेक्ष्यं विवक्षितम् । कर्मविचारानन्तरं ब्रह्मविचारस्य कर्तव्यत्वे कर्मणामल्पास्थिर फलत्व निर्णयसहितानन्तस्थिर- फलापातप्रतीतिरित्ययं विशिष्टो हेतु:, अतः शब्देन वृत्तस्य कर्मविचारस्य हेतुतयोक्तत्वात् ; कर्मविचारस्य साङ्गाध्ययनजन्यानन्तस्थिर फलापातप्रतीतिपूर्वकत्वादावृत्तिविधानादिभिः कर्मणा- मल्पास्थिरफलर्त्वावगमहेतुत्वाच्च । अयं विशिष्टो हेतुः अधिगताल्पास्थिरफलकेवलकर्मज्ञान- तया संजातमोक्षाभिलाषस्येत्यनेनोक्तः । अत्राधिगतेति पदेन कर्मणः फलद्वारा हानाय ज्ञात- व्यत्वं कण्ठोक्तम् । स्वरूपेणोपादानाय ज्ञातव्यत्वमपि कर्मविचारपूर्ववृत्तत्वे हेतुः ; अपेक्षित कर्मस्वरूपज्ञानं केवलकर्मणामल्लास्थिर फलत्वज्ञानं च कर्ममीमांसावसेयमिति हि वक्ष्यते । तत्र स्वरूपेोपादेयताप्रतीतिरनन्तस्थिरफलापातप्रतीत्यन्तर्भूता । उपायत. दितिकर्तव्यताविशेषैः सहैव ह्यनन्तस्थिरफलापातप्रतीतिरिति विशिष्ट हेत्वन्तर्भाव उपरितनग्रन्था - विरोधश्च । ननु कर्मविचारो ब्रह्मविचारस्य निरपेक्ष हेतुश्चेत् कृतकर्मविचारैः सर्वैरपि ब्रह्म विचार्ये - तेति स्वर्गार्थकर्मानुठात्रभावप्रसङ्गः; नैवम्, अश्रुतमीमांसत्वेऽप्युपाध्यायादिवचनाद्येऽनुतिष्ठन्ति तेषां स्वर्गार्थानुष्ठानाविरोधात् । श्रुत्वापि ये स्वर्णार्थिनः तेषामदृष्टवैगुण्यादसमीची नव्याख्यान - श्रवणमूलस्यामुमुक्षुत्वस्य संभवाच्च । साङ्गाध्ययनं कर्मविचारपूर्ववृत्तं चेत्, अधीतसाङ्गवेदैः सर्वैर- पि कर्म विचार्येत ; न च तथा क्रियते ; वेदेऽधीतेऽप्यश्रुतकर्ममीमांसा हि बहवो दृश्यन्ते । /

(१–१–१) भावप्रकाशिका ८५ तेषां कर्मविचारानधिगतिरदृष्ट देशकालादिवैगुण्यात्; न तु साङ्गाध्ययनस्य पूर्ववृत्तत्वाभावा- दिति चेत् ; तदिहापि तुल्यम् । तथा साधनचतुष्टयादिलाभेऽप्यनधिगतब्रह्मविचारानेकपुरुष- दर्शनात्साधनचतुष्टयादेर्ब्रह्मविचारं प्रति नियमेन हेतुत्वं कथमिति परिचोदिते तत्पूर्ववृत्तवादि- भिरप्यदृष्टादिवैगुण्याददोष इति परिहर्तव्यम् । तदिहापि तुल्यम् । दुष्परिहरदूषणान्तरसद्भा- वस्तेषां वैषम्यम् । तस्माद्धटनिष्पत्तेः कुलालादिवद्ब्रह्मविचारस्य कर्मविचारः पूर्वभावित्वेन नियतः । दृष्टादृष्टप्रतिबन्धकविरहितस्य पुंसः समीचीनः कर्मविचारो ब्रह्मविचारसामग्रीति न कश्चिद्दोषः । एवमथातः शब्दार्थो निरूपितः । 1 भावप्रकाशिका पूर्वाचार्यशब्दोऽपीति । पूर्वाचार्यसुरक्षितामिति श्लोकस्थपूर्वाचार्यशब्दोऽपीत्यर्थः । विस्तीर्णां संचिक्षिपुरित्यनेनेति भवदीयस्य शारीरकव्याख्यानस्य कथं सांप्रदायिकत्वम् ? मूलानुपलम्भात् ; न च टङ्कद्रमिडादिभाष्यग्रन्थ एव मूलमिति वाच्यम्, तस्यापि सांप्रदा- यिकत्वे प्रमाणाभावादिति शङ्कापरिहारोऽप्यर्थात्सूच्यत इति भावः । भाष्यव्याख्याने प्रवृत्तस्याचार्यस्य भाष्यानन्तर्गत श्लोकव्याख्यानमनुचितमित्यभिप्रायेणाशङ्कते ननु सूत्रार्थ इत्यादिना । मङ्गलाचरणमिति ; अखिलेत्यादि श्लोकद्वयमित्यर्थः । अविघ्नपरि- समाप्त्याद्यर्थतयेति; आदिशब्देन विषयप्रयोजनाधिकारिणः कथ्यन्ते । तदन्तर्भाव्य- वेति ; महाभाष्ये पस्पशाह्निकवदिति भावः । प्रस्तोतव्यत्वमुच्यत इति चेदिति ; यथा " त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति" इत्यत्र वच्तीत्युक्या उच्यमानस्यार्थस्य उपदेश्यत्वमवसीयते, एवमारभ्यत इत्यर्थेनाथेत्यनेनारम्भयोग्यत्वमुच्यत इत्यर्थः स्यादिति शङ्काभिप्रायः । उपदेशाज्ञापनपरत्वानावादिति ; प्रस्तोतव्यत्वमित्यत्र तव्यप्रत्ययस्थ " प्रैषातिसर्ग " इतिसूत्रविहितमैषार्थक कृत्यप्रत्ययत्वासंभवात् " अर्हे कृत्यतृचश्च" इत्यहर्थि- विहितकृत्यप्रत्ययत्वं वाच्यमित्यर्थः । योग्यत्वमशाब्दमितिः ननु प्रस्तोतव्यत्वस्य वाच्यत्व- मभ्युपगम्य कथं योग्यत्वस्य शाब्दत्वं प्रत्याख्यायते ? " अहे कृत्यतृचश्च" इत्यनुशासनेन प्रस्तावात्वस्यापि प्रस्तोतव्यशब्दार्थत्वात् । न च प्रस्तोतव्यत्वस्यापि वाच्यत्वं नाभ्युपगतमिति वाच्यम्, तदानीमपोत्यपिशब्देन तदभ्युपेत्यैव प्रवृत्तेरिति चेत्–न; तदानीमपीत्यपिशब्देन न वाच्यत्वमभ्युपेतम्, अपितु तत्पदप्रयोज्यप्रतीतिविषयत्वमात्रं प्रस्तोतव्यत्वस्याभ्युपेतम् ।

८२ { श्रीभाष्यम् (जिज्ञासाधिकरणम्) C C 1 " नयसूत्राणि च विरुद्धार्थव्युदसनपराणि । प्रश्नवाक्यगतप्रश्नस्तु तस्मिन्नेव वाक्ये हेतुतया परामर्शानर्ह एव ; ‘किं ब्रह्मजिज्ञासा कर्तव्या’ इति वाक्येऽपरिसमाप्ते कथं किंशब्दार्थों हेतु- तया परामृश्येत । अतोऽतःशब्दपरामर्श योग्यार्थश्चेदथशब्दोऽभ्युपगम्यते, तदाधिकाराद्यर्थत्वं न घटते । यदि ब्रह्मजिज्ञासापदसामर्थ्याक्षिप्तस्य पूर्ववृत्तत्वेन तत्तद्व्याख्यात्रभिमतस्य वस्तु- नोऽतः शब्देन परामर्श इष्येत, तदानीं जिज्ञासानुपयोगिनस्तदाक्षेप्यत्वायोगात् उपयोग्यर्थ एव तदाक्षेप्य इति तत्परामर्शिनातः शब्देन जिज्ञासोपयोगितया तत्पूर्वभाव्यर्थविशेषोपस्था- पनादथशब्दस्य स्वारसिकानन्तर्यपरत्वे संभवत्यस्वरसविफलार्थान्तरस्वीकारो न घटते । ततश्चा तःशब्दवत् ब्रह्मजिज्ञासापदसामर्थ्यमप्यधिकाराद्यर्थपरत्वनिवारकं स्यात् । एवमर्थान्तराणा- मनुपपन्नतामर्थतो दर्शयन्नानन्तर्यार्थत्वमथशब्दस्योपपादयति — अत्रेति । ‘अथशब्द आन- न्तर्ये’ इति प्रतिज्ञा । तदुपपादकम् अत्र अयं भवति’ इति पदत्रयम् । तत्र भवति’ इति पदेनानन्तर्ये स्वारस्यं सूच्यते । स्वारस्यापवादिकां पूर्ववृत्ताप्रतिपत्तिं परि- हरति–अत्रेति । अत्र ; वेदस्योत्तरभागविचाररूपब्रह्ममीमांसारम्भसूत्र इत्यर्थः । ब्रह्मजि- ज्ञासापदसामर्थ्यात् पूर्वभागविचाररूपवृत्तविशेष आक्षिप्त इत्यभिप्रायः । हेत्वन्तरमभि- प्रयन्नाह–अयमिति । अयमथशब्दः ; “अथ शब्दानुशासनम् ” “ अथ योगानुशासनम् इत्यादिसूत्रान्तर्गताथशब्दव्यावृत्त इत्यर्थः । अतः शब्दशिरस्क इत्युक्तं भवति । वेदान्तसारे ह्ययमर्थः कण्ठोक्तः । प्रकृतपरामर्शिनातः शब्देन पूर्ववृत्तसामान्यमभिहितमित्यभिप्रायः । एवं समभिव्याहृतोभयपदस्वारस्यात् सामान्यतोऽभिहितं विशेषत आक्षिप्तं च पूर्ववृत्तं सिद्धमिति वृत्तविशेषाप्रतिपत्तिरूपस्य स्वारस्यापवादकस्याभावादथशब्द आनन्तर्यार्थ एवेति वाक्यार्थः । एवमथशब्दस्योत्तरभागविचारारम्भसूत्रगतत्वम्, अतःशब्दशिरस्कत्वम्, आन- न्तर्ये स्वारस्यं च दर्शयद्भिरानन्तर्योपपादकैः ’ अत्र अयं भवति’ इति पदैरेवास्मिन् सूत्रे - ऽर्थान्तराणां गत्यन्तराभावस्वीकार्याणामनादरणीयत्वं फलितम् । अतः शब्दं व्याचष्टे- अतः शब्दो वृत्तस्य हेतुभाव इति । वृत्तस्येति प्रकृत्यर्थ उक्तः; हेतुभाव इति प्रत्य- यार्थः । इयं प्रतिज्ञा । ’ अत्र अयं भवति’ इत्यनुषक्तं पदत्रयमुपपादकम् । प्रकृतिप्रत्य- ययोरुक्तार्थपरत्वेन प्रसिद्धिप्राचुर्यं भवतिना दर्शितम् । अत्रेत्यस्य पूर्ववदर्थः । अनेन वृत्तविशेषः तस्य हेतुभावार्हत्वं चाक्षिप्तम् । तदर्हत्वं चानन्तरमेव व्यक्तं भविष्यति । अयम् ; आनन्तर्यस्वरसाथशब्दपूर्वकः । अनेन वृत्तसामान्यमाक्षिप्तम् । नन्वथशब्दार्थनिर्ण- । 1 "


19

( १ – १ – १) योऽतःशब्दार्थनिर्णयसापेक्षः, श्रुतप्रकाशिका ८३ अतः शब्दार्थनिर्णयश्चाथशब्दार्थनिर्णयसापेक्ष इत्यन्योन्या- श्रयः । नैवम् ; अथशब्दस्यानन्तर्ये स्वारस्यं हि नातः शब्दार्थनिर्णयसापेक्षम् ; अतः- शब्दस्य वृत्तहेतुभावपरत्वस्वारस्यं च नाथशब्दार्थनिर्णयसापेक्षम् । अथशब्द आनन्तर्यपरः, स्वस्वारस्यात् समभिव्याहृतपदान्तरस्वारस्याच्च । अतः शब्दोऽपि वृत्तस्य हेतुभावपरः, स्वस्वारस्यात् समभिव्याहृतपदान्तरस्वारस्याच्चेति भवत्ययंशब्दाभ्यां दर्शितं भवति । इमे चाभ्युच्चययुक्ती, अत्रपदाभिप्रेतब्रह्मजिज्ञासार्पदसामर्थ्यादेव पदद्वयस्योक्तार्थपरत्वसिद्धेः । अतः स्वपरपदस्वारस्याद्ब्रह्मजिज्ञासापदसामर्थ्याच्चाथातः शब्दौ यथोक्तार्थपराविति न दोषः । अथातः शब्दयोरन्यतरेणालमिति चेत्–न; अथशब्दस्यानन्तर- कालमुपस्थापयतो वर्तिष्यमाणब्रह्मजिज्ञासाविशेषणतया अतः शब्दस्य वृत्तहेतुभावपरतया चापर्यायत्वात्, प्रतिज्ञाहेतुरूपेण पदयोर्भिन्नप्रयोजनत्वाच्च । ब्रह्मजिज्ञासा कर्तव्येति हि प्रतिज्ञेति चेत् न; ब्रह्मजिज्ञासेति धर्मनिर्देशः ; अथेति साध्यधर्मोक्तिः ; न कर्तव्यतामात्रं साध्यधर्मः, अपि त्वानन्तर्यविशिष्टं कर्तव्यत्वम् । एवमथातः पदयोः प्रतिज्ञाहेत्वर्थत्वेन विभागः " अथातो धर्मजिज्ञासा” इत्यत्रापि समानः । एवमर्थभेदस्याविवक्षितत्वेन हि " अथ योगानु- शासनम् ” “अथ शब्दानुशासनम्" इत्यादिष्वतः शब्दस्याप्रयोगः । मनु ब्रह्मजिज्ञासापदसा- मर्थ्याक्षिप्ततया बुद्धिस्थस्य कर्मविचारस्य हेतुभावोऽतः शब्दावगन्तव्य इति किमथशब्देन ? नैवम्, आनन्तयोंक्किमुखेन तस्य हेतोः शास्त्रान्तरश्रवणव्यवधाननैरपेक्ष्य द्योतनार्थत्वादथशब्दस्य वेदान्तश्रवणात्पूर्वं शास्त्रान्तरश्रवणेन विना संपादयितुमशक्यत्वाच्छास्त्रान्तराणां चान- वसरग्रस्तत्वाच्च शास्त्रान्तरसापेक्षाणां नित्यानित्यवस्तुविवेकादीनां पूर्ववृत्तत्वव्युदासः फलितः स्यात् । ननु–न यत्किंचिदतीतं पूर्ववृत्तत्वेन वक्तव्यम्, अतिप्रसङ्गात् । अतो वर्तिष्यमाणो- पयुक्तमेव पूर्ववृत्तमथशब्दोपस्थापितमिति तस्य हेतुत्वमपि शास्त्रान्तरश्रवणनैरपेक्ष्यवत्तेनैव वस्तुसामर्थेन सिद्धमिति किमतः शब्देन ? नैवम्, अथशब्दाक्षिप्त हेत्वसिद्धिशङ्कापरिहारार्थ- त्वादतःशब्दस्य । हेतुश्च विशिष्टः । तस्य विशेषणांशविशेष्यांशयोरसिद्धिशङ्कातत्परिहारप्रकारौ सूत्रकाराभिप्रेतौ परस्ताद्दर्शयिप्येते इति प्रयोजनवत्तरं पदद्वयम् । अत्रेतिपदसूचितब्रह्मजिज्ञासा- पदसामर्थ्यासिद्धं वृत्तं वर्तिष्यमाणं तयोर्हेतुहेतुमद्भावं च विवृण्वन् उक्तमानन्तर्यमुपपादयति –अधीतेति । कर्मज्ञानशब्देन वृत्तमुक्तम् । ब्रह्मजिज्ञासापदेन वर्तिष्यमाणमुक्तम् । अल्पा- स्थिरफलानन्तस्थिरफलशब्दाभ्यां हेतुहेतुमद्भावो दर्शितः । केवलशब्देन ब्रह्मज्ञानपूर्वककर्म- ततश्च CC-0 No Rights Reserved. Digitized by eGangotri८८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) प्रश्नशब्द॑स्य प्रश्नसामान्यपरतया क्रियमाणप्रश्नादन्य एव प्रश्नस्तृतीयया हेतुत्वेन परामृश्यत इति वक्तुं शक्यत्वादिति चेत्–न; अथकिंशब्दादौ प्रश्नस्य प्रयोक्तधर्मत्वेन सूचने सत्यपि वाक्यार्थान्वयित्वाभावात् ‘हा हन्त’ इत्यादौ विषादवत् न तु प्रश्नादिशब्दवत् प्रश्नस्य वाच्यत्वमित्यत्र तात्पर्यात्। भवतीति पदेनेति केचित्तु अथशब्द इत्यनेनैव स्वस्वारस्यं सूच्यत इति वदन्ति । इत्यादिसूत्रान्तरेति; " अथशब्दानुशासनम् " इत्यादौ सूत्रत्वोक्तिरौपचारिकीति द्रष्टव्यम् । अथशब्दस्यानन्तर्ये स्वारस्यं हीति । 0


अस्मिन्प्रयोगे तदर्थकत्वस्य सापेक्षत्वेऽपि स्वारस्यमात्रस्य न सापेक्षत्वमिति भावः । यथा गुरुभार्गवावित्यादिषु परस्परसाहचर्यात् ग्रहयोरेव प्रतीतिः, नाचार्य परशुरामयोः ; यथा च रामकृष्णाविति बलकेशवयोरेव प्रतीतिः, नतु दाशरथ्यर्जुनयोः; एवमिहापीतरेतरसाह- चर्यादर्थनिर्णायकत्वेऽपि न दोष इति परिहारान्तरं द्रष्टव्यम् । इमे चाभ्युच्चययुक्ती इति; इमे अथातःशब्दस्वारस्ये । अत्रपदाभिप्रेतेति; ब्रह्मजिज्ञासापदाक्षिप्तपूर्ववृत्तसापेक्षत्वादिति भावः । नन्वथातःशब्दयोरन्यतरेणालमित्यस्य कोऽभिप्रायः ? किमेकाकारप्रतीति जनकत्वादिति ? उत ‘भूतले घटो घटवत् भूतलम्’ इतिवत् प्रयोजनैक्यादिति वेति विकल्पं हृदि निधाय जिज्ञासा- विशेष्यकोत्तरकालकर्तव्यताप्रकारकज्ञानजनकस्य अथशब्दस्य पूर्ववृत्तविशेष्यक हेतुत्वप्रका- रकज्ञानजनकस्य चातःशब्दस्य नैकाकारप्रतीतिजनकत्वमिति प्रथमपक्षं दूषयति- अथशब्दस्यानन्तरकालमुपस्थापयत इत्यादिना । द्वितीयं दूषयति – प्रतिज्ञाहेतुरूपे- न कर्तव्यतामात्रं साध्यधर्म इति । ब्रह्मजिज्ञासा विचारितकर्मभिः पुरुषै- कर्मणामल्पास्थिरफलत्वप्रतीतिसहितानन्तस्थिरफलप्रतीतेर्विचारितकर्मसु पुरु- पेषु संभवादिति प्रदर्शनं ह्युचितम् । ततश्च विचारितकर्मत्वरूप पुरुषविशेषणप्रतिपत्त्यर्थमथ- शब्दोऽपेक्षितः ; तस्मिंश्च सत्युक्तार्थो लभ्यत इति भावः । शास्त्रान्तरश्रवणेन विना संपाद- यितुमशक्यत्वादिति ; नित्यानित्यवस्तुविवेकादीनामिति शेषः । अथशब्दाक्षिप्तेति; अथ- शब्दाक्षिप्तकर्मविचाराक्षिप्तस्य विशिष्ट हेतोरसिद्धिशङ्कापरिहारार्थत्वादित्यर्थः । अधिगताल्पा- स्थिरफलकेवलकर्मज्ञानतयेति भाष्यस्यायमर्थः अधिगतं प्राप्तम् अल्पास्थिरफलं केवलकर्मेति ज्ञानं यस्य सोऽधिगताल्पास्थिर फलकेवलकर्मज्ञानः, तत्त्वेनेति । उपनय यशिष्यमिति ; ननु श्रोत्रियोपाध्यायगुर्वादिनामविधानवत् तत्प्रकरणस्थमिदं वाक्य- भुपनीयाध्यापयितुराचार्य नामविधानपरमिति ग्रन्थकृतैव वक्ष्यमाणत्वात् कथमस्य वाक्यस्य साङ्गसशिरस्कवेदाध्ययनकर्तव्यतायां प्रमाण तयोपन्यास इति चेत्-मैवम् ; “ कार्यकाल संज्ञा- णेति । रनुष्ठेया, 66

6 (१ – १ – १) भावप्रकाशिका ८९ परिभाषम् ” इति न्यायेनास्य वाक्यस्य ’ आचार्यवान् भवेत् ’ इति ’ विधिवाक्यैकवाक्यतया प्रामाण्यसंभवात् ; ततश्च कंचिद्गुरुमुपेत्य तस्य सकाशात् सकल्पं सरहस्यं च वेदं स्वी- कुर्वीतेति हि तस्य वाक्यस्यार्थ इति भावः । गुरुमताभिप्रायेण वा बोध्यम् ; गुरुमते हि सकल्पं सरहस्यं वेदमध्यापयेदाचार्य काम:’ इति श्रुत्युन्नायकत्वादस्य वाक्यस्याध्यापन- विधिप्रयुक्तवेदाध्ययनवत् कल्परहस्याध्ययनस्यापि सिद्धत्वोपपत्तेः । आगमोत्थेति ; विचारसहकृतवाक्यजन्यमागमोत्थम् ; विवेकविमोकादिजन्यं तु ध्यानादिरूपम् । ‘कर्म विचारस्य हेतुतयोक्तत्वात्’ इत्यनन्तरं ‘सिद्ध:’ इति शेषः । सिद्धिप्रकारः कथमित्याशङ्क्य कारणतया कार्यतया च सिद्धिरित्याह- कर्मविचारस्येत्यादिना । आवृत्तिविधानादिभिरिति; यदि चातुर्मास्यादीनामक्षयफलत्वं तदा पुनस्तदनुष्ठानवैयर्थ्यात् प्रत्यब्दं चातुर्मास्याद्यावृत्ति- विधानं व्यर्थं स्यादिति भावः । ननु – आवृत्तिविधानस्य न कर्मणामल्पास्थिरफलत्वावगमहे- तुत्वम्, “आवृत्तिरसकृदुपदेशात्" इत्यधिकरणे “आ प्रयाणात्तत्रापि हि दृष्टम् ” इत्यधिकरणे च ज्ञानस्याप्यावृत्तिप्रतिपादनेन तत्फलस्य मोक्षस्याप्यनित्यत्वप्रसङ्गात् । यद्याप्रयाणम हरहरा- वृत्तिविशिष्टस्यैव ज्ञानस्य मोक्षः फलं, तदात्रापि तथास्तु; यदि ’ प्रतिवसन्तं सोमयागस्य पञ्चाब्दपर्यन्तं पञ्चदशाब्दपर्यन्तं प्रत्यब्दं वा चातुर्मास्यानाम्’ इति विहितावृत्तिवैशिष्टयेन फलजनकत्वाभ्युपगमे तत्तदावृत्तितारतम्यात्फलतारतम्यं स्यादित्युच्यते, तदा ज्ञानावृत्तेरप्या प्रयाणमनुवर्तनीयायाः प्रयाणकालस्याव्यवस्थितत्वात्तारतम्येन फलतारतम्यं स्यादिति तुल्यम् । नच “कर्मण्यारम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः” इत्येकादशाध्यायाधि- करणे कर्मणां कृषिन्यायेन प्रत्यारम्भं फलभेदव्युत्पादनाद नित्यफलत्वमिति वाच्यम्, आवृत्ति- वैशिष्टयेन येषां कर्मणां फलजनकत्वं तदतिरिक्तविषयत्वात्तस्य । अवश्यं च तथाभ्युपगन्तव्यम् ; इतरथा दाक्षायणयज्ञे फलभेदः स्यात् । न च " फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतो विशेषः स्यात् " इत्यर्थवादाधिकरणसूत्रे बद्दल्पाङ्गकर्मगुरुलघुभावानुसारेण फलतारतम्यस्योक्तत्वात् " हिरण्यदा अमृतत्वं भजन्ते" “अपाम सोमममृता अभूम” “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्” इत्यादिनामृतत्वसाधनतयोक्तानां हिरण्यदान- सोमयागचातुर्मास्यानां तुल्यत्वावगत्या अल्पास्थिर फलत्वं सिध्येदिति शङ्कनीयम् ; " विक- ल्पोऽविशिष्टफलत्वात्” इत्यधिकरणे बह्वल्पगुणविद्यानां प्रपत्तेश्च गुरुलघुभावे सत्यप्येकरूप- मुक्तिफलताया वक्ष्यमाणत्वात् तद्वदेव कर्मण्युपपत्तेः । ननु उपासनानामाप्रयाणमावृत्तिविशिष्ट- 12

९० श्रीभाष्यम् (जिज्ञासाधिकरणम् ) तया फलसाधनत्वं बह्वल्पगुणकोपासनानां प्रपत्तेश्च विकल्पेन साधनत्वं च तृतीये वक्ष्यत इति ब्रह्मविचारारम्भदशायां वक्ष्यमाणन्यायापरिज्ञानादावृत्तिविधानादिमात्रेण कर्मणामल्पा- स्थिरफलत्वं ज्ञायत इति चेत्; सत्यमनेन ज्ञायते; तथापि वक्ष्यमाणविरोधादावृत्तिविधाना- दियुक्तेराभासत्वात् तन्मूला कर्मफलानित्यत्वबुद्धिरप्याभासीभवेत् । किंच, आरम्भदशाया- मपि वक्ष्यमाणार्थानां श्रुतशास्त्रेभ्योऽवगतिसंभवात् तादृशवक्ष्यमाणन्यायावगतिमतां पुरुषाणां कर्मणामल्पास्थिरफलत्वावगत्यभावेन ब्रह्मविचारे प्रवृत्त्यभावप्रसङ्गात् । किंच, अवहननवद्वि- चारस्य दृष्टार्थत्वेन यावत्फलोदय मावर्तनीयतया पुनर्विचारारम्भदशायां " विकल्पोऽविशिष्ट- फलत्वात् " इति तृतीयाध्यायसूत्रन्यायावगतिसंभवात् । एतेन ज्योतिष्टोमेन स्वर्गकामो यजेत" इति स्वर्गार्थत्वेन विहितस्य सोमयागस्योत्तरवेद्या विकल्पितमग्न्याधारस्थण्डिल- रूपानिमाश्रित्य " श्येनचितं चिन्वीत स्वर्गकामः" इति स्वर्गार्थश्येनाकृतिरूपगुणविधान- सामर्थ्येन तद्गुणयुक्तसोमयागजन्यस्वर्गात्केवलतज्जन्यस्वर्गस्य न्यूनतावश्यंभावात् अल्पा- स्थिर फलत्वावगमः सिध्यतीत्यपि शङ्का परास्ता । " एकस्मै वा अन्ये यज्ञक्रतवः कामाया- ह्रियन्ते सर्वेभ्यो ज्योतिष्टोमः " इति सर्वफलार्थतया विहितस्य सोमयागस्य " यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत " इति फलत्रयसाधनतया विहितस्य सौ- भरस्य तत्तत्फलविशेषार्थप्रयोगे “हीषिति वृष्टिकामाय निधनं कुर्यात् ऊर्गित्यन्नाद्य कामाय ऊ इति स्वर्गकामाय” इति निधनविशेषव्यवस्थावत् स्वर्गार्थसोमयागप्रयोगे गुणविशेषव्यवस्थेत्युप- पत्तेः। न च “अपाम सोमममृता अभूम” “अक्षय्यं ह वै” इत्यादिमन्त्रार्थवादवर्णितानां फल- त्वाभावनियमः, सूक्तवाकमन्त्राम्नातानामायुरादीनां रात्रिसत्रान्नातायाः प्रतिष्ठायाश्च फलत्व- दर्शनात् । न च सोमयागस्य विध्युद्देशे फलश्रवणान्मन्त्रोक्तफलं न ग्राह्यमिति वाच्यम्, विध्युद्देशश्रुत एव स्वर्गे नित्यत्वरूपविशेषणस्य “सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यज- मानं च धेहि " इति मन्त्रेण लोकविशेषभोग्यत्वस्येव समर्पणोपपत्तेः ; " दिवि ज्योतिरजरमार- भेताम्” इत्यैष्टिक एव मन्त्रान्तरे पत्नीयजमानाभ्यां प्राप्यस्य फलस्य नित्यत्वोक्तेश्च ; “फलवत्तां दर्शयति " इति पत्न्यधिकरणसूत्रे विशिष्यास्य मन्त्रस्य फलसमर्पकतायाः प्रदर्शितत्वात् – इति चेत् ; उच्यते-यत्तावदुक्तं ज्ञानस्याप्यावृत्तिश्रवणादिति; तन्न, ज्ञानस्यासाधनत्वात् ध्यान- स्यैव साधनत्वात् तस्य चावृत्तिविशिष्टत्वात् । यद्यपि “अप्रयाणात्” इत्यत्र ध्यानस्याप्या- वृत्तिरुक्ता, तथापि “ प्रायणान्तमोंकारमभिध्यायीत ” इति प्रायणान्तमनुष्ठितस्यैव ध्यानस्य の

(१ – १ – १) भावप्रकाशिका ९१ मोक्षसाधनत्वात् कर्मणि ताद्दृशावृत्तिविशिष्टस्य कर्मणो मुक्तिसाधनत्वप्रतिपादकवाक्यादर्श- नात् ; “स खल्वेवं वर्तयन् यावदायुषम्” इत्यस्य ध्यानविषयत्वात्; कर्मसु तु पञ्चाब्दपञ्चद- शाब्दाद्यावृत्तितारतम्यात् फलभेदस्यावश्यंभावात् । न हि ध्यानादावीदृशमावृत्तितारतम्यमस्ति, प्रायणान्तावृत्तस्यैव साधनत्वात् ; न हि प्रायणान्तावृत्ति साधनं कस्यचित् शीघ्रमासीदित्येता- वता फललाधवं कल्पयितुमुचितम् ; तथाहि सति कस्यचिद् दृढाङ्गस्य सहकारिपौष्कल्यवतः किंचित् कर्म शीघ्रं निर्वृत्तमिति तत्र फललाघवं कल्प्येत ; न हि सेतुदर्शनं कस्यचित् रोगपीडा- दिकमन्तरेण निष्पन्नमित्यतादृशापेक्षया फलवैषम्यं कल्प्यते । उपसंहार्यगुणाल्पभूयस्त्वादिक- मपि न फलवैषम्यकल्पकम्, यथाकथंचिदाप्रयाणं निरन्तरकर्तव्यत्वाविशेषेणानुष्ठाने सौकर्य - दौष्कर्यासंभवात् । तस्मादावृत्तितारतम्येन फलतारतम्यस्यावश्याभ्युपेयत्वात् मुक्तौ च तदभावान्मुक्तेरन्यदेव कर्मणः फलं वाच्यम् । किंच अनेकजन्मानुष्ठितनित्यनैमित्तिककर्मनिर्म- लीकृतान्तःकरणसंपाद्यायाः शान्त्याद्यङ्गिकाया भक्तेः सर्वतो गरीयस्त्वेन तत्साध्यमुक्तेः कर्म- ) साध्यत्वे गुरुतरभक्तिरूपसाधनविधेर्महाविश्वासानुबद्धप्रपत्तिविवेश्वाननुष्ठानलक्षणाप्रामाण्य- प्रसङ्गात् न कर्मणां भक्तिप्रपत्तिसाध्यमोक्षफलकत्वमिति कर्मफलानित्यत्वनिश्चयः कृतकर्म- विचाराणां सुलभ इत्यावृत्तिविधानादिभिरित्यस्य ग्रन्थस्याभिप्रायः । कर्मणः फलद्वारा हाना- येति; फलद्वारा हानं फलस्यानित्यत्वज्ञानमिति यावत् । ज्ञातव्यत्वं विचार्यत्वमित्यर्थः । कर्मवि- चारस्य कर्मफलानित्यत्वज्ञानफलकत्वं कण्ठोक्तमित्यर्थः । स्वरूपेणोपादानायेति ; तृती- याध्याय करिष्यमाणविचारापेक्षितकर्मस्वरूपपरिज्ञानायेत्यर्थः । एतेन – कर्मविचारस्य ब्रह्म- विचारोपयोगदशायां कर्मज्ञानस्य हानोपादानोपयोगसमर्थनमसंगतम् ; न हि हानोपादानयो- र्विचारोपयोगोऽस्ति, येन तद्द्वारा कर्मविचारो ब्रह्मविचारोपयुक्तः स्यात् ; उपादेयस्य नित्यनै मित्तिककर्मणो ध्यानाङ्गत्वेन विचाराङ्गत्वाभावात् ; न च विचारे प्रवर्तमानस्यापि चित्तशु- द्ध कर्मानुष्ठानमपेक्षितम्, काम्यानां च कर्मणां त्यागोऽपेक्षित इति वाच्यम्; तर्हि कर्मविचा- रानन्तरं किंचित्कालं कर्मानुष्ठाय विशुद्धचित्तो विचारे प्रवर्तत इत्यव्यवधानेन प्रवृत्तिर्न स्यात्- इति शङ्का परास्ता; हानोपादानशब्द योर नित्यत्वनित्यत्वद्वारा हेयत्वोपादेयत्वज्ञापनपरत्वात् । अत एव हि वक्ष्यति–स्वरूपेणोपादेयत्वप्रतीतेरनन्तस्थिरफलापातप्रतीत्यन्तर्भावादिति । ननु कर्मविचारात् कर्मणामल्पास्थिरफलत्वनिश्चयसद्भावेऽपि न हेयत्वनिश्चयः ; उत्तरभागे अनन्तस्थिरफलनिश्चयाभावेन सर्वत्राप्यल्पास्थिर फलत्वसंभावनावतः पूर्वभागप्रतिपन्ने कर्मणि

O 8 jo ९२ Q


श्रीभाष्यम् (जिज्ञासाधिकरणम्) हेयत्वनिश्चयानिष्पत्तेरिति चेत् —–न; • उत्कटकोटिक हेयत्वज्ञाननिष्पत्ति संभवेनादोषात् । ग्रन्थाविरोध इति; अपेक्षितकर्मस्वरूपज्ञानं केवलकर्मणा मल्पीस्थिर फलत्वज्ञानं चेति प्रयो- जनद्वयसूचकप्रन्थेन कर्मफलानित्यत्वज्ञानरूपैकप्रयोजनप्रदर्शकस्यास्य न विरोध इत्यर्थः । कर्मानुष्ठात्र भावप्रसङ्ग इति; अकृतकर्मविचाराणां त्वनुष्ठानौपयिकार्थनिश्चयाभावेनानुष्ठाना- प्रसक्तेः अनुष्ठानस्य कृतकर्मविचारपुरुषविषयतया तेषां च ब्रह्मविचारप्रवृत्तत्वाद- नुष्ठात्रभावप्रसङ्ग इत्याक्षेपाभिप्रायः । श्रुत्वापि ये स्वर्गार्थिन इति; ननु कृतकर्मविचा- राणां सर्वेषां ब्रह्मविचारे प्रवृत्ततया वैराग्यपादश्रवणेन स्वर्गार्थित्वमेव न स्यादित्याक्षिपन्तं प्रति नेदमुत्तरमिति चेत्-न ; श्रुत्वापि ये स्वर्गाथिनो दृश्यन्ते तेषामिति तदर्थत्वात् । ब्रह्म- विचारसामग्रीति ; कृतेऽपि ब्रह्मविचारे अदृष्टवैगुण्येनाशुद्धचित्ततया स्वर्गार्थकर्मानुष्ठान संभवादित्यपि द्रष्टव्यम् । श्रुतप्रदीपिका पूर्वाचार्थग्रन्थाः प्रवर्त्यन्ताम् ; किं ग्रन्थान्तरनिर्माणप्रयत्नगौरवेणेत्यत्राह – भगव- दिति । पूर्वाचार्यशब्दोऽत्र विवृतः । शंकरादिभ्योऽपि ज्ञानाधिक्यपरो भगवच्छब्दः । द्रभि- डाचार्यादिग्रन्थोऽतिसंक्षिप्तः । तन्मतानुसारेण ; न तु स्वोत्प्रेक्षया । सूत्राक्षराणि; प्रकृति- प्रत्ययानुगुण्येन ; न तु यथाकथंचिद्योजयितव्यानीति भावः । व्याङ्भ्यामुपसर्गाभ्याम- पेक्षितविस्तरानपेचितसंकोचौ विवक्षितौ । व्याख्येयं पदमुपादत्ते — अथेति पदमुपादत्ते—अथेति । पूर्ववृत्ता- प्रतिपत्तिरूपापवादेन प्रसिद्धिप्रकर्षस्याकिंचित्करतया संशयविपर्ययौ स्त इति तद्व्युदासा- याँथशब्दं व्याचष्टे—अत्रेति । अथशब्द आनन्तर्य इति प्रतिज्ञा । भवतीति स्वारस्यं सूचितम् । अत्रायमिति तदपवादपरिहारः । अत्रः वेदोत्तर भागार्थविचारा- रम्भे । अनेन पूर्वभागार्थविचारस्य वृत्तत्वमाक्षिप्तम् । एवं ब्रह्मजिज्ञासापदसामर्थ्यसूचि- ताम् “अथ शब्दानुशासनम्” इत्याद्यथशब्दादस्य व्यावृत्तिं सूचयता अयंशब्देन अतः शब्द- शिरस्कत्वं दर्शितम् । अनेन वृत्तसामान्यस्यातः पदेनाभिधानं ज्ञापितम् एतच्छब्दस्य प्रकृतवाचितास्वारस्यात् । एवं वृत्तविशेषाक्षेपकतत्सामान्याभिधायकपदद्वयसमभिव्याहार- लब्धमथशब्दस्यानन्तर्यपरत्वमित्यर्थादुक्तं अतोऽथमौनम्" इत्यादिषु भवति । 66 CC-0 No Rights Reserved. Digitized by eGangotri(१–१– १) श्रुतप्रदीपिका ९३ प्रकृतिप्रत्यययोरनेकार्थसाधारण्यदर्शनादतः शब्दं व्याचष्टे – अत इति । ’ अत्रायं भवति’ इत्यनुषङ्गः । अत्रभवतिशब्दौ पूर्ववत् । अयम्; अथशब्दपूर्वकः ; प्रकृतिप्रत्ययखार- स्यात् अथशब्दस्वारस्यात् ब्रह्मजिज्ञासापदसामर्थ्याच्चेत्यर्थः । न च अथातः शब्दार्थनिर्णय- स्यान्योन्यसापेक्षत्वादन्योन्याश्रयः शङ्कयः, तयोरानन्तर्यवृत्तपरत्वस्वारस्यस्य व्युत्पत्त्यवगत - तयान्योन्यानपेक्षत्वात् । अत्रेत्यादिसूचितं वृत्तं वर्तिष्यमाणं तयोर्हेतुहेतुमद्भावं च विवृण्वन् वर्तिष्यमाणस्यानन्तर्थं च घटयति — अधीतेति । साङ्गशब्देनाध्ययनस्यापात- प्रतीतिहेतुत्वं द्योतितम् ; सशिरस्कशब्देन व्याख्यानपौर्वापर्यनिमित्तव्यास्येय पौर्वापर्यं भागद्वयस्यैकप्रबन्धत्वं कृत्स्नस्याध्ययनं चः कर्मज्ञानब्रह्मजिज्ञासापदाभ्यां वृत्तवर्तिष्यमाणे ; केवलशब्देन ब्रह्मज्ञानवैधुर्यम् ; अल्पास्थिरानन्तस्थिरशब्दाभ्यां हेतुहेतुमद्भावः ; अनन्तर- भाविनीति पदेन अथातःशब्दद्वयफलितं हेतुपौष्कल्यं च । तस्मिन् सति हि फलानन्तर्यम् अनन्तस्थिरफलशब्दो ब्रह्मविशेषणम् ; ब्रह्मजिज्ञासाया वा; तस्यास्तथात्वं सद्वारकम् । नयप्रकाशिका I ननु भगवद्बोधायनेत्यादिभाष्येण किमुच्यते ? न च स्वग्रन्थप्रयोजनमिति वाच्यम्, पूर्वश्लोके प्रयोजनस्योक्तत्वात् । न चैतन्मतस्य मूलभूतबोधायनादिग्रन्थसद्भावे तैरेव बेदा- न्तार्थनिश्चयसिद्धेर्महाप्रयासात् ग्रन्थनिर्माणस्य न प्रयोजन सिद्धिरिति स्वग्रन्थप्रयोजनप्रदर्श- नस्य कार्यत्वात् तद्गन्थेन तत्प्रदर्श्यते; बोधायनग्रन्थस्यातिविस्तृतत्वात् द्रमिडाचार्यादिग्रन्थ- स्थातिसंकुचितार्थस्य दुर्ग्रहत्वात् सुग्रहत्वमेवास्मत्प्रवृत्तेः प्रयोजनमिति प्रदर्शनीयत्वमिति वाच्यम् ; एवंविधप्रयोजनस्यापि पूर्वश्लोक एव सूचितत्वात् । पूर्वाचार्यसुरक्षितामित्यादिभि- स्तदेव हि सूच्यते; स्पष्टपूर्वव्याख्यानसद्भावे निजाक्षरानीतत्वोक्तिर्व्यर्था स्यात् । निजाक्षरानयनं नाम स्पष्टीकरणम् । पूर्वग्रन्थैरेव स्पष्टत्वे किमर्थं तत्स्पष्टीकरणम् ? अतस्तद्गन्थो व्यर्थ इति चेत् — सत्यम् ; तत्रोक्तार्थस्पष्टीकरणार्थत्वान्न दोषः । तत्र केवलं पूर्वाचार्यैरित्येतावन्मात्र- मुक्तम् ; पूर्वाचार्याः क इत्याकाङ्क्षा न पूर्णा ; अत्र तु बोधायनशब्देन तत्पूर्तिः । पूर्वाचार्य शब्देनाप्तत्वेनोपादेयवचना द्रमिडभाष्यकारादयो विवक्षिताः । निजाक्षरानयनहे- तुश्च न तच्छ्लोके व्यक्तः । पूर्वग्रन्थातिसंकोचातिविस्तृतत्वे हि तद्धेतुः । पाराशर्यवचः- सुधात्वरूपणपरे लोके तयक्तीकरणमशक्यमिति भगवद्बोधायनेत्यादिग्रन्थेन तत् स्पष्टी- क्रियते । प्रतिज्ञातव्याख्यानाय व्याख्येयसूत्रमुपादत्ते – अथातो ब्रह्मजिज्ञासेति । नन्व-

९४ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) नाथशब्दस्य मङ्गलारम्भार्थान्तराभिधानानन्तर्यात्मक चतुर्विधार्थपरत्वप्रसिद्धावप्यानन्तर्यार्थि- परत्वमेव किमिति स्वीकृतमिति चेत्, तस्यैव ‘अतो ब्रह्मजिज्ञासा’ इति वाक्यार्था- न्वयादिति ब्रूमः । तत्र हि जिज्ञासाशब्दस्य ज्ञानपरत्वमेवाभिप्रेतम्, इच्छाया इष्य- माणार्थप्राधान्यादत्र ज्ञानस्यैवेष्यमाणत्वात् । ननु जिज्ञासापदस्य मुख्यार्थस्वीकारे कानुपपत्तिरिति चेत्, इच्छाया अविधेयत्वमनुपादेयत्वं चेति ब्रूमः । ननु – ज्ञानस्यैव विधेयत्वे ‘ब्रह्मज्ञानम्’ इत्येव सूत्रं स्यात् ; तथा च मात्राक्षरयोर्लाभः ; 66 लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः || 99 66 इति हि सूत्र लक्षणम् ; ज्ञानवाचकपदस्य प्रयुक्तत्वलाभश्च न हि जिज्ञासापदस्य ज्ञान- वाचकता ; तत्परत्वं तु तस्य लक्षणया ; लाक्षणिकार्थस्य न पदवाच्यत्वम् “लक्षणा पदं मौनि” इति हि नीतिविदः । अतो ज्ञानस्य विधेयत्वे ‘ब्रह्मज्ञानम्’ इति सूत्रं स्यात् ; न तु ब्रह्मजिज्ञासेति इति चेत् — न; ज्ञानस्य ज्ञेयैकनिरूपणीयत्वात् ज्ञेयस्य ब्रह्मणो वेदान्तै- कवेद्यत्वाद्वेदान्तानां चाविचारितानामर्थाप्रत्यायकत्वात् तज्ज्ञानस्य विचारपूर्वकत्वस्यावश्यकत्वात् ब्रह्मजिज्ञासेत्येव प्रयोज्यत्वात् । तदुक्तं नीतिज्ञैः- 11 " ज्ञानप्रयोजना चेच्छा विचारोपक्रमात्मिका । विचारपूर्वरूपत्वाज्जिज्ञासेत्यभिधीयते ॥” इति । एवं ज्ञानपरत्वे आनन्तर्यार्थस्यैव तत्रान्वयः । मङ्गलार्थपरत्वे हि ‘अतः’ इति पदार्थानन्वयः । ननु ब्रह्मज्ञानं मङ्गलमिति यतः, अतो ब्रह्मज्ञानं कार्यमित्यन्वयः स्यादिति चेत्-न ; अमङ्गल्य- शङ्काभावात् ; प्रशंसामात्रपरत्वं वा स्यात् । तथारम्भार्थस्यापि न वाक्यान्वयः; ज्ञानस्यानारभ्य- त्वाच्च । पूर्वप्रकृतस्य कर्मविचारस्य विद्यमानत्वात् यद्यपि प्रकृतादर्थादर्थान्तराभिधानसंभवाद- त्परत्वसंभवः, अतःशब्दस्याप्यानन्तर्य इवोपपत्तिः; तथापि तस्यानन्तर्यादव्यतिरेकादानन्तर्य- परत्वमेव स्वीकृतम् । अत एव हि ‘अत्रायमथशब्दः’ इति ‘अत्रायम्’ इति शब्दयोरु- पादानम् । अन्यथा ‘अथशब्द आनन्तर्ये’ इत्येतावदेव स्यात् । कर्मज्ञानस्य पूर्ववृत्तत्वं हेतुत्वं चोत्तरत्र वक्ष्यते । ‘लक्षणापदं मौनि ’ इत्येव मातृकासु पाठो दृश्यते । परं तु स्वरसतरेण केनचित्पाठान्तरेण भाव्यमित्युन्नीयते ।

( १ – १ – १ ) ९५ तत्त्वटीका O तथापि किमहर्दीपवदनुपकारकृतकर निर्माणगौरवेण : अनुच्छिन्नाः शुद्धाः प्राचीनव्या- ख्याः प्रवर्त्यन्त।म् ; तत्राह–भगवदिति । “उत्पत्तिं प्रलयं चैव” इत्याद्युक्ताध्यात्मबोधाति- शयपरोऽत्र भगवच्छब्दः ; तेन शबरशंकरादिव्यावृतिः । विस्तीर्णत्वोक्तिरद्यतनैर्दुस्तरत्व- मभिप्रैति । अत्र पूर्वाचार्या ब्रह्मनन्द्यादयः । तन्निबन्धनानामतिसंक्षेपाद्गहनत्वं सूत्रस्थापितार्थपरैर्ग्रन्थैरित्याशयः । परोक्तेरनाप्तसंप्रदायत्वं व्यञ्जयितुमाह —— तन्मतानुसारेणेति । “ अल्पाक्षरमनल्पार्थम् ” “ लधूनि सूचितार्थानि स्वल्पाक्षरपदानि च " इति सूत्राणां बह्वर्थसूचकाल्पाक्षरतया व्याख्यापेक्षत्वायाह — सूत्रा क्षराणीति; प्रकृतिप्रत्यययोरक्लेशमभिप्रेत्याक्षरशब्दः । तेन " सूत्राणि यथासंभवं द्रष्ट- व्यानि ” इति परोक्तिरनास्थेया । उक्तं च भास्करैः- सूचयति - संचिक्षिपुरिति 66 ; सूत्राभिप्रायसंवृत्या स्वाभिप्रायनिवेशनात् । 66 व्याख्यातं यैरिदं सूत्रं व्याख्येयं तन्निवृत्तये ॥” इति । । अक्षरार्थमात्रं ब्रूमः ; सूच्यं तु निःशेषदुर्वचम् ; अक्षरशक्त्यतिरिक्तः स्फोटो न कल्प्य इत्यपि व्यङ्गघम् । व्याख्यास्यन्ते इत्यत्रोपसर्गाभ्यां धातुना चाद्यतन बुद्धधनुगुण- मनतिसंकोचविस्तरत्वं स्पष्टोक्तिश्च व्यज्यते । यद्वा वैशिष्टयं प्राबल्यं च निपातद्वयार्थः । " पदच्छेदः पदार्थोक्तिः " इत्यादि च भाव्यम् | अखिलेत्यादेरेतदन्तस्य " सूत्रार्थो वर्ण्यते यत्र " इत्याद्युक्तं भाष्यलक्षणं तदर्थसंग्रहात्तादर्थ्याच्च सिद्धम् । 99 व्याख्यापेक्षत्वव्यक्त्यै सूत्रमुङ्गृह्णाति — अथेति । नन्वत्र । " अथातः इति पिण्डितं रूपमन्युत्पत्तेः पृथगर्थसंभवादंशान्तरनैरर्थक्याच्च न युक्तम् । क्लिष्टगतिस्तु न गति - सद्भावे । अथशब्दस्यानन्तर्ये प्रसिद्धिः प्रदृष्टापि सोपयोगासाधारणवृत्तविशेषादृष्ट्या पोदिता । अत एव न प्रकृतार्थादर्थान्तरपरत्वम् ; कल्पद्वयादृष्टेश्च । प्रश्नस्त्वनर्थकोऽनुत्तरश्च । कार्त्यम- नपेक्षितवचनम् ; एकदेशचिन्ता हि न शङ्कारूढा । तस्मादारम्भार्थकत्वं स्यात् ; आरभते ह्यत्र सूत्रकारः । मङ्गलार्थकत्वं वा ; स्मर्यते हि– " ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । 99 कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥” इति । 1

0 ९६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) तल्लाह- अत्र इति । भवतिना अथशब्दस्य स्वारस्यानूक्तिः । ‘अत्रायं’ पदाभ्या- मपवादापोहः । अत्र; वेदोत्तरांशविचार्यत्वार्थे सूत्रे । तेन यतः कुतश्चिद्वा भागान्तरसाधार- णाद्वा कुतश्चिदानन्तर्योक्तेरानर्थक्यात् कर्मविचाररूपं वृत्तं विविनक्ति । अयम् ; “ अथातो धर्मजिज्ञासा ” “ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा ” इत्यादिष्विवातः शब्दोपेतः ; एत- च्छन्दो हि प्रस्तुते स्वरसः ; विभक्तिश्चासौ हेतुत्वे । एवं सामान्यतः ‘अतः’ इत्यभिहिते ब्रह्म- जिज्ञासया विशेषत आक्षिप्ते वृत्ते सत्यानन्तर्यस्वारस्यं नापोद्यते । ‘अथातः’ इति समुदित- प्रयोगनिरपेक्षसामर्थ्यव्यक्त्यर्थोऽत्र ‘अयं’ शब्द इति केचित् । अत्रेत्यादिनैवार्थान्तराणा- मिहानन्वयः सूच्यते; तथाहि – मङ्गलार्थत्वं तावत्प्रतिक्षिपामः । तत् किमस्याविव- क्षितार्थस्थ संनिधिमात्रेण, तद्वाचकतया वा ? नाद्यः, अबोधकस्य वाक्ये निबन्धायोगात् ; श्रुतिप्रयोजनमात्रस्य मङ्गलस्य पदान्तरार्थेऽनन्वयाच विवक्षितार्थान्तरस्यापि संनिध्युपजीव- नोपपत्तेश्च । न द्वितीयः, द्योतकमात्रत्वात् । " अथ शब्दानुशासनम् " इत्यादावर्थं वदद्भिरप्यधिकृतमित्यादिपदमध्याहारेणोक्तम्, न त्वथशब्दवाच्यत्वमभिसंधाय । वाच्य- त्वेऽप्यत्र मङ्गलस्य बक्तव्या संगतिः । मङ्गलोक्तेः प्रकृतौपयिकत्वेऽप्यनुनिष्पत्त्यैव तत्सिद्धिर्युक्तेत्युक्तम् । मृदङ्गध्वनिनीतिं तु वक्ति माङ्गलिकस्मृतिः । प्रयोक्तुः श्रोतुरप्येतौ मङ्गलप्रापकाविति ॥ १९७ ॥ अन्यथा ब्रह्मशब्देनान्यपरत्वं भिन्नत्वं वाक्यस्य भवत्वित्यध्याहारश्च स्युः; अकृत- कसर्वोत्तुङ्गमङ्गलतमतत्त्ववाचकत्वाद्ब्रह्मशब्दस्य । न चात्र हेतोः साध्यस्य वा मङ्गलत्वमनूद्यते विधीयते वा, नैरर्थक्यात् ; न ह्यत्र तद्विरुद्धत्वाशङ्का, अनिषेधात् । न्यायसूत्राणि संशयनि- रासार्थानि । ननु मङ्गलत्वं विचारस्य ख्याप्यताम् ; अत एव तद्विधिरिति तत्सार्थता | नद पि मन्दम् ; अत इति हेतुनैव नैराकाङ्क्षयात्, अधिकोक्तेरनुपयोगाच्च । आरम्भार्थत्वमप्य- युक्तम् ; ‘नारभ्यते’ इति शङ्कानुत्थानात् साध्यतया बुद्धस्यारम्भस्य कथनानर्थक्याच्च । न च जिज्ञासाया आरम्भयोग्यत्वमथशब्दो वक्ति द्योतयति वा, अव्युत्पत्तेः ; ‘आरब्धम्’ इति क्रियान्तरार्थक्रियानुपस्थानात्; अन्यथा समुच्चयादिद्योतकेष्वपि ‘समुच्चे तुम्’ इत्यादिविवक्षया योग्यपदान्वयप्रसङ्गात् । ‘आरब्धव्या’ इत्येव च पदमध्याहार्यम् ; तदा किं तदर्थेनाथ- शब्देन ! न चात्राध्याहारार्थयोतनम्, साकाङ्क्षतयैव तत्सिद्धेः प्रसिद्धमहाणेन क्लिष्टग्रहणा- "

( १ – १ – १ ) . तत्त्वटीका 0 ९७ योगाच्च । योगशब्दानुशासनयोरानन्तर्यमगत्या त्यक्तम् । अत्र तु न शास्त्रारम्भार्थतापि । अन्यो हि विचारः, अन्यदनुशासनम् । न च तस्यात्रोपादानम् । ननु ज्ञाप्यतया ब्रह्माधि- क्रियताम् ; मैवम्–उपसर्जनश्रवणविलम्बात्; व्याख्यानानुशासनशब्दाभावादेव जिज्ञासाशब्द- स्य मीमांसापर्यायत्वाभावेन ज्ञाप्यतानुपस्थापनाच्च । अत एव विचारः कर्तव्यत्वेन बोध्यत - याधिक्रियत इत्यपि न वाच्यम् ; विचारारम्भणीयत्वस्थापनेनैव सिद्धे पदान्तरवैयर्थ्यात् ; अपेक्षिते सत्यनपेक्षितायोगात् ; उभयोक्त्या गौरवाच्च । तस्मात् स्वारसिकमनपोदितमान- न्तर्यमेवात्र स्थापितम् । अतः शब्दस्य प्रकृतिर्धीस्थे वर्तिष्यमाणेऽपि स्यात् ; प्रत्ययश्च सार्व- विभक्तिकः; “ अतोऽथ मौनम् " इत्यादिष्वन्यार्थः ; पञ्चम्यर्थोऽप्यनेकः; अतो नार्थ- विशेषसिद्धिरित्यत्राह – अतः शब्द इति । इहाप्यत्रायंभवतीनामनुषङ्गः, स्वारस्यात् । उत्तरपदसमभिव्याहारश्च प्राग्वत् । विचारितकर्मणां ब्रह्मविचार हेतुतया वक्ष्यमाणहेतुरनु- पलम्भनिरस्तः; ब्रह्मविचारापेक्षया वर्तिष्यमाणस्य तु न तद्धेतुत्वम् ; प्रयोजनमपि न स्वरूपेण हेतुः, मिथःसंश्रयात् । तदिच्छा तु वृत्तैव । प्रत्ययस्य च विभक्त्यन्तरार्थकत्वम- पादानत्वादि च प्रकृतानुपयुक्तम् । अयमिति पदस्य स्वरूपमात्रमनुषज्यते । तेनाथशब्द- युक्तत्वमिह विवक्षितम् । न चैवं मिथःसंश्रयः ; शब्दस्वारस्ययोः स्वतः सिद्धतया स्वरूपसिद्धौ मिथोऽनपेक्षणात्, सहकारित्वमात्रस्यैव मिथोऽपेक्ष्यत्वाच्च । अयमिति पदं वा नानु- षञ्जनीयम् । नन्वथातःपदयोरन्यतरेणा लम् ; सूत्रं ह्येतत् ; मैवम्, योजनाधिक्यात् ; कर्म- विचारव्यवधायकशास्त्रान्तरनैरपेक्ष्यद्योतनार्थत्वादथशब्दस्य ; ब्रह्मविचार्यत्व हेतोरनन्यलभ्य- प्रयोजनवत्त्वेनापातधीस्थस्य विशेषणविशेष्यांशासिद्धिव्युदासार्थत्वादतः शब्दस्य । आनन्तर्येऽप्यहेतुत्वं हेतुत्वेऽपि विलम्बनम् । दृष्टमिष्टं च तत्सार्थं द्वयं काण्डान्तरे यथा ॥ १९८ ॥ एकं जिहासतस्त्वत्र द्वितीयं हेयमापतेत् । स्वाधिकारं स्वहेतुं च विचारः स्वयमाक्षिपेत् ॥ १९९ ॥ तस्मादारम्भसूत्रेऽस्मिन् धर्मचिन्तादिसूत्रवत् । प्रायुक्त प्रातिलोम्येन प्रतिज्ञादि त्रिकं पृथक् ॥ २०० ॥ अत्र कीदृग्वृत्तम् ? यन्नियमेनापेक्ष्यम् ; कीदृक् च वर्तिष्यमाणम् ? येन वृत्त - विशेषाक्षेपः ; तयोश्च पौर्वापर्येऽपि कथं कार्यकारणभावः ? तत्सिद्धौ च तृणारणिमणिन्यायः 13

0९८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) स्यात् । नियमेऽपि तत्त्वधीमुक्त्योरिव मा भूदानन्तर्यमित्यत्राह — अधीतेति । कर्म- ब्रह्मविचारौ वृत्तवर्तिष्यमाणौ । तयोरल्पास्थिरफलानन्तस्थिर फलशब्दाभ्यां संजातेत्यादिना च हेतुहेतुमद्भावव्यञ्जनम् । स्थिरास्थिरशब्दाविह नाशराहित्यतद्वत्त्वपरौ । कर्मज्ञानमिह निर्णयरूपम् । तस्याधिगतिः प्राप्तिः ; " परीक्ष्य लोकान्” इत्यादिभिरल्पास्थिरफलतया- वगमो वा । अनुष्ठानद्वारा कर्मज्ञानस्य फलसंबन्धः । अल्पास्थिर फलत्वं कर्मविशेषणं वा । मोक्षविश्रान्तविद्याङ्गकर्मव्यावृत्त्यै केवलशब्दः । अनन्तस्थिरफलशब्दः कर्मधारयवृत्त्या ब्रह्म- विशेषणम् । बहुव्रीहितया वा परम्परया मोक्षहेतुभूतां जिज्ञासां विशिनष्टि । समित्युप- सर्गेण हेतुनिरपेक्षमानन्तर्यं च सूच्यते । सांख्यादिशीलनजन्या दुःखदृष्टिमात्रजन्या वा मुमुक्षा हि समीचीं ब्रह्मचिन्तां न सूते । कर्ममात्रेऽनन्तफलदुराशायां निरस्तायां निवृत्त- तत्प्रतिबन्धतया व्युत्पत्तिभूयस्त्वोपनिपतितधीवृद्ध्या च तीव्रतमे मोक्षाभिलाषे सामग्री- दशापन्ने ब्रह्मविचारविलम्बो न स्यादित्याशयः । विघ्नान्तरविहीने तु स्यादानन्तर्यमत्र नः । अतो नातिप्रसक्तिः स्यात्तथान्यैरपि संमतेः ॥ २०१ ॥ अधीतेत्यादिना मुमुक्षोत्तम्भकमतान्तरशीलनानवसरज्ञापनम् । जिज्ञासोत्पादक- फलापातधीवृद्ध्यै वेदमात्रनियतव्युत्पत्तिविशेषसिद्वैध वा " निष्कारणः षडङ्गो वेदोऽध्येयः " इत्यादिसिद्धसाङ्गत्वोक्तिः । " अङ्गग्रहणं विचारप्रयोजकस्य प्रयोजनालोचनस्य सि- द्ध्यर्थम् ” इति तूलिका । फलाधिक्याद्विशेषं गृह्णता सशिरस्कशब्देनाध्ययनविधौ स्वा- ध्यायशब्दस्य नियतक्रमभागद्वयविषयत्वं तद्विचारार्थायास्त्रिकाण्डघा ऐकशास्त्र्यं क्रमश्च सूच्यते । न ह्यध्ययनविध्यनालीढं शिरः, येन न विचार्य स्यादिति भावः । वेदशब्द इह पुरुषार्थतदुपायादिबोधनार्हत्वं व्यक्ति । तत एव विचारेच्छाजन कापातधीसिद्धिः : षष्ठ्यन्तपदाभ्यामधिकारिनिष्कर्षः । यदुक्तं कैश्चित्कर्मसूत्रारम्भे- " प्रसिद्धोऽप्यथशब्दादेः किं पदार्थोऽत्र वर्णितः । प्रदर्शनार्थमित्येके केचिन्नानार्थवादिनः || समुदायादवच्छिद्य भवदासेन कल्पितात् । शक्तितोऽवयवस्यैव वर्णयन्त्यष्टमादिवत् ॥ " इति, तदिह नातीव पेशलम् । प्रसिद्धापवादशङ्कायां पदद्वयव्याख्यानस्यावतारितत्वात् ।

( १ – १ – १ ) ९९ मूलभावप्रकाशिका भगवद्बोधायनवृत्तिसंग्रहात्मकटङ्कद्रमिडादिपूर्वाचार्यग्रन्थमूलकत्वेन स्वभाष्यस्यात- 1 थाभूतशंकरभाष्यादिभ्यो वैलक्षण्यप्रदर्शनमुखेन स्वकृतिसाफल्यं प्रदर्शयन् चिकीर्षितं प्रतिजा - नीते - भगवद्बोधायनेति । विस्तीर्णामित्यनेन बोधायनवृत्तेराधुनिकजनानुपयुक्तत्वं सूचितम् । संचिक्षिपुरिति; अनेन संक्षिप्ततयातिगहनेषु टङ्कद्रमिडादिपूर्वाचार्यग्रन्थेष्वपि न मन्दमती- नामाधुनिकानामधिकार इति सूचितं भवति । संभवदनेकार्थत्वादथशब्दं व्याचष्टे – अत्रा- यमथशब्द इति । अत्र; अस्मिन् ब्रह्मविचारकर्तव्यताविधायकसूत्र इत्यर्थः । अयमित्यनेन चातःशब्दसमभिव्याहृतत्वमुच्यते । अयं भावः - गोशब्दस्य किरणाद्यनेकार्थसत्त्वेऽपि सास्नादिमत्पिण्ड इव अथशब्दस्यारम्भाद्यनेकार्थसत्त्वेऽप्यानन्तर्ये प्रसिद्धिप्राचुर्यं दुरपह्नवम् । तच्च नियतपूर्ववृत्तासंभवरूपबाधकसत्त्वेऽपोद्यते; यथा ’ आदित्यस्य गावः प्रकाशन्ते’ इत्यादा- चादित्यसमभिव्याहारबलात् प्रसिद्धार्थत्यागः । न चात्र नियतपूर्ववृत्तासंभवः, अधीत- साङ्गसशिरस्केत्यादिना ब्रह्मजिज्ञासापदसमभिव्याहारलब्धार्थस्यानुपदमेव प्रदर्शयिष्यमाण- स्वात् पूर्ववृत्तहेतुत्वप्रत्यायका तः शब्दबलादपि पूर्ववृत्तप्रतीतेश्ध; अथशब्दस्य कर्मवि- चारानन्तर्याभिधानमुखेन कर्मफलानित्यत्वप्रतीतिरूपाधिकारिविशेषणसिद्धिप्रदर्शनमुखेन ब्रह्मविचाराधिकारिसद्भावसमर्थनपरत्वे संभवति निष्प्रयोजनाधिकाराद्यर्थत्वासंभवाच्च । अधि- कारो हि प्रारम्भः । ’ ब्रह्मजिज्ञासा प्रारभ्यते’ इत्युक्तिमन्तरेणापि प्रारम्भस्य ज्ञायमानतया प्रारम्भार्थकत्वस्य व्यर्थत्वात् । न च ’ प्रारभ्यते ’ इत्युक्त्या ब्रह्मविचारस्य प्रारम्भयोग्यताप्रति- पादनमुखेन विचाराधिकारसिद्धिराक्षिप्यत इति प्रारम्भार्थकत्वस्य न व्यर्थत्वमिति वाच्यम्, एतादृशकुसृष्टिमन्तरेण प्रसिद्धानन्तर्यार्थाश्रयणेनाधिकारिसमर्थनपरत्वसंभवे आरम्भार्थत्वस्यायु- क्तत्वात् । “अथ योगानुशासनम्" " अथ शब्दानुशासनम् " इत्यादौ तु नियतपूर्ववृत्ता- प्रतीतेरारम्भार्थकत्वमाश्रितम् । न च मङ्गलार्थकत्वं शक्यम्, । " ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ " इत्योङ्कारतुल्यतया शङ्खस्वनादिवदथशब्दस्य श्रूयमाणस्योच्यमानस्य वा मङ्गल-

& १०० श्रीभाष्यम् (जिज्ञासाधिकरणम् ) प्रयोजनकत्वेऽपि मङ्गलाभिधायित्वासंभवात् ; माङ्गलिकशब्दस्य " तदस्य प्रयोजनम्" इति सूत्रविहितठक्प्रत्ययान्तत्वात् आनन्तर्याद्यभिधानेऽपि मङ्गलप्रयोजनकत्वस्य संभवाच्च; मङ्गलाभिधायकत्वेऽप्यथशब्दार्थस्य मङ्गलस्य जिज्ञासां प्रति कर्तृत्वकरण- त्वादिनान्वयासंभवात् ; न्यायव्युत्पादनसूत्रे ’ मङ्गलरूपा ब्रह्मजिज्ञासा’ इति स्तुतेरयुक्त- त्वाच्च । ’ अथैवं मन्यसे’ इत्यादौ अथशब्दस्य पक्षान्तरपरिग्रहे दृष्टत्वेऽपि प्रकृते पूर्वं कस्यचित् पक्षस्यानुपन्यस्तत्वान्न तदर्थत्वं युक्तम् । अतोऽथशब्दस्य सप्रयोजनप्रसिद्धा- नन्तर्यार्थत्वमेव युक्तमिति । ‘एतदुक्तं भवति’ इत्यत्र एतच्छब्दस्य वक्ष्यमाणार्थे सर्व- विभक्त्यर्थंवाचिनस्तसेश्च ‘इतः’ इत्यादौ पञ्चम्यर्थव्यतिरिक्तेऽपि प्रयोगदर्शनात् संशयविपर्ययौ मा भूतामित्य्रतःशब्दं व्याचष्टे - अतः शब्दो वृत्तस्य हेतुभाव इति । ‘अत्रायम्’ इति पदमनु- षञ्जनीयम् । अत्रेत्यस्य ब्रह्मजिज्ञासासूत्र इत्यर्थः । अयमित्यस्याथशब्दसमभिव्याहृतत्वमर्थः । अयं भावः-एतच्छब्दस्य प्रकृतार्थत्वं तसेच हेत्वर्थकत्वं प्रसिद्धम् । न चात्र तत्त्यागे हेतुरस्ति; प्रत्युत पूर्ववृत्ताक्षेपकब्रह्म जिज्ञासाथशब्दाभ्यां समभिव्याहृतस्यातः शब्दस्य पूर्ववृत्त हेतुभावार्थक- त्वस्यैव युक्तत्वात् । ननु अथातः शब्दार्थनिर्णययोरन्योन्यसापेक्षत्वादन्योन्याश्रय इति चेत्-न; यथा ‘गुरुभार्गवौ’ इत्यादिषु परस्परसाहचर्यात् ग्रहयोरेव प्रतीतिः, नाचार्यपरशुरामयोः; यथा च ‘रामकृष्णौ’ इति बलकेशवयोरेव प्रतीतिः, न तु दाशरथ्यर्जुनयो:; एवमिहापि इतरेतरसाह- चर्यादर्थनिर्णायकत्वेऽप्यदोषः । ननु यस्यानन्तर्यप्रतियोगित्वं तस्य हेतुत्वमपि सिद्धमित्य- तःशब्देन तद्धेतुत्वाभिधानं मुधेति चेत्-न; कर्मविचारस्यानन्तर्यप्रतियोगित्वसंभवेऽपि न ब्रह्म- विचारहेतुत्वं संभवति ; कर्मफलानित्यत्वप्रतीतिसहितानन्तस्थिरफलापातप्रतीतिविशि- ष्टरूपब्रह्मविचाराधिकारिविशेषणी भूतकर्म फलानित्यत्वप्रतीतिद्वारा हि कर्मविचारस्य ब्रह्म- विचारोपयोगो वक्तव्यः; स च न संभवति, षोडशलक्षण्यां मीमांसायां क्वाप्य- धिकरणे कर्मफलानित्यत्वसमर्थनाभावेन " अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति " अपाम सोमममृता अभूम " हिरण्यदा अमृतत्वं भजन्ते " इत्यादि- मन्त्रार्थवादप्रतिपन्नकर्मफलनित्यत्वस्यानपोद्यत्वात् । ननु चातुर्मास्यानामक्षयफलत्वे पुनस्त- दनुष्ठानवैयर्थ्यात् प्रत्यब्दं चातुर्मास्यविधानमनर्थकं स्यादिति चेत्-न; आवृत्तिविधानस्य कर्मणामल्पास्थिर फलत्व हेतुत्वाभावात् ; 99 99 " आवृत्तिरसदुपदेशात् “. इत्यधिकरणे " आ प्रयाणात्तत्रापि हि दृष्टम्” इत्यधिकरणेच च ज्ञानस्याप्यावृत्तिप्रतिपादनेन

(१–१–१) मूलभावप्रकाशिका 19 १०१ तत्फलस्याप्यनित्यत्वप्रसङ्गात् । यद्याप्रयाणमहरहररावृत्तिविशिष्टस्यैव ज्ञानस्य मोक्षः फलं, तदात्रापि तथास्तु । यदि ’ प्रतिवसन्तं सोमयागस्य पञ्चाब्दपर्यन्तं वा पञ्चदशाब्द- पर्यन्तं वा प्रत्यब्दं वा चातुर्मास्यानाम् ’ इति विहितावृत्तिवैशिष्टयेन फलजनकत्वाभ्युपगमे तत्तदावृत्तितारतम्यात्फलतारतम्यं स्यादित्युच्येत; तदा ज्ञानावृत्तेरपि आप्रयाणमनुष्ठे- यायाः प्रयाणकालस्याव्यवस्थितत्वात् तत्तारतम्येन फलतारतम्यं स्यादिति तुल्यम् । न च “ कर्मण्यारम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः इत्येकादशाध्यायाधिकरणे कर्मणां कृषिन्यायेन प्रत्यारम्भं फलभेदव्युत्पादनादनित्यं फलमिति वाच्यम् ; आवृत्तिवैशि- ष्टयेन येषां कर्मणां फलजनकत्वं तदतिरिक्तविषयत्वात्तस्य । अवश्यं तथाभ्युपगन्तव्यम् । इत- रथा दाक्षायण यज्ञे फलभेदः स्यात् । न च " फलस्य कर्मनिष्पतेस्तेषां लोकवत्परिमाणतो विशे- पः स्यात्" इत्यर्थवादाधिकरणसूत्रे बद्दल्पाङ्गकर्मगुरुलघुभावानुसारेण फलतारतम्यस्योक्त- त्वात् “ हिरण्यदा अमृतत्वं भजन्ते " " अपाम सोमममृता अभूम " अक्षय्यं ह वै चातुर्मा- स्ययाजिनः सुकृतम् ” इत्यादिनामृतत्वसाधनतयोक्तानां हिरण्यदानसोमपानचातुर्मास्यानां तुल्यत्वावगत्याल्पास्थिर फलत्वं सिध्येदिति शङ्कनीयम्, “विकल्पोऽविशिष्ट फलत्वात् ” इत्यधि- करणे बह्वल्पगुणविद्यानां प्रपत्तेश्च गुरुलघुभावे सत्यप्येकरूपमुक्तिफलताया वक्ष्यमाणत्वात् तद्वदेव कर्मण्युपपत्तेः । ननु उपासनानामाप्रयाणमावृत्तिविशिष्टतया फलसाधनत्वं तृतीयाध्याये वक्ष्यत इति ब्रह्मविचारारम्भदशायां वक्ष्यमाणन्यायापरिज्ञानादावृत्ति- विधानादिमात्रेण कर्मणामल्पास्थिर फलत्वं ज्ञायत इति चेत् — सत्यमनेन ज्ञायते ; तथापि वक्ष्यमाणविरोधादावृत्तिविधानादियुक्तेराभासत्वात् तन्मूला कर्मफलानित्यत्वप्रतीतिरप्याभासी- भवेत् । किंचारम्भदशायामपि वक्ष्यमाणार्थानां श्रुतशास्त्रेभ्योऽवगतिसंभवात् तादृशवक्ष्य- माणन्यायावगतिमतां पुरुषाणां कर्मणामल्पास्थिर फलत्वावगत्यभावेन ब्रह्मविचारे प्रवृ- त्त्यभावप्रसङ्गात् । किंच अवहेननवत् विचारस्य दृष्टार्थत्वेन यावत्फलोदयमावर्तनीयतया पुनर्विचारारम्भदशायां " विकल्पोऽविशिष्ट फलत्वात्" इति तृतीयाध्यायन्यायावगतिसंभवात् । एनेन “स्वर्गकामो यजेत” इति स्वर्गार्थत्वेन विहितस्य सोमयागस्य उत्तरवेद्या विकल्पितम- ग्न्याधारस्थण्डिलरूपाग्निमाश्रित्य " श्येनचितं चिन्वीत स्वर्गकामः " इति स्वर्गार्थश्येनाकृ- तिरूपगुणविधानसामर्थ्येन तद्गुणयुक्तसोमयागजन्यस्वर्गात् केवलतज्जन्यस्वर्गस्य न्यूनतावश्यं- भावात् अल्पास्थिरफलत्वावगमः सिध्यतीत्यपि शङ्का परास्ता । “एकस्मै वा अन्ये यज्ञक्रतवः

१०२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) कामायाह्रियन्ते सर्वेभ्यो ज्योतिष्टोमः" इति सर्वफलार्थतया विहितस्य सोमयागस्य " यो वृ- ष्टिकामो योsन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत "" इति फलत्रयसाधनतया विहि- तस्य सौभरस्य तत्तत्फलविशेषार्थप्रयोगे “हीषिति वृष्टिकामाय निधनं कुर्यादूर्गित्यन्नाद्यका- माय ऊ इति स्वर्गकामाय " इति निधनविशेषव्यवस्थावत् स्वर्गार्थसोमयागप्रयोगे गुण- विशेषव्यवस्थेत्युपपत्तेः । न च " अपाम सोमममृता अभूम” “अक्षय्यं ह वै चातुर्मास्यया- जिनः सुकृतं भवति ” इत्यादिमन्त्रार्थवादवर्णितानां फलत्वाभावनियमः, सूक्तवाकमन्त्रान्ना- तानामायुरादीनां रात्रिसत्रार्थवादाम्नातायाः प्रतिष्ठायाश्च फलत्वदर्शनात् । न च सोमयागस्य विध्युद्देशे फलश्रवणान्मन्त्रोक्तफलं न ग्राह्यमिति वाच्यम्, विध्युद्देशश्रुत एव स्वर्गे नित्यत्वरूप- विशेषणस्यु “ सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि " इति मन्त्रेण लोकविशेषभोग्यत्वस्येव समर्पणोपपत्तेः । " दिवि ज्योतिरजरमारभेताम् " इति ऐष्टिक एव मन्त्रान्तरे पत्नीयजमानाभ्यां प्राप्यस्य फलस्य नित्यत्वोक्तेश्च । “फलवत्तां दर्शयति” इति पत्न्यधिकरणसूत्रे विशिष्यास्य मन्त्रस्य फलसमर्पकतायाः प्रदर्शितत्वाच्चेति । अतः कर्म- विचारस्य कर्मणामल्पास्थिर फलत्वावगतिहेतुत्वासंभवान ब्रह्मविचारं प्रति हेतुत्वसंभव इती- मामाशङ्कां निर्वर्तयितुमतः शब्दः । अयं भावः – यत्तावदुक्तम् ज्ञानस्याप्यावृत्तिश्रवणा- दिति ; तन्न, ज्ञानस्यासाधनत्वात् ध्यानस्यैव साधनत्वात् तस्य चावृत्तिविशिष्टरूपत्वात् । यद्यपि " आ प्रयाणात् ” इत्यत्र ध्यानस्याप्यावृत्तिरुक्ता, तथापि " प्रायणान्तमोंकारमभिध्यायीत " इति प्रायणान्तमनुष्ठितस्यैव ध्यानस्य मोक्षसाधनत्वात् कर्मणि तादृशावृत्तिविशिष्टस्य कर्मणो मुक्तिसाधनत्वप्रतिपादनवाक्यादर्शनात्; “स खल्वेवं वर्तयन् यावदायुषम्" इत्यस्य ध्यानविषयत्वात् कर्मसु पञ्चान्दपञ्चदशाब्दाद्यावृत्तितारतम्यात् फलभेदस्यावश्यंभावात् । नं हि ध्याने ईदृशमावृत्तितारतम्यमस्ति, प्रायणान्तावृत्तस्यैव साधनत्वात् । न हि प्रायणान्तावृत्तं साधनं कस्यचित् शीघ्रफलमासीदित्येतावता फललाघवं कल्पयितुमुचि- तम् ; तथाहि सति कस्यचिद् दृढाङ्गस्य सहकारिपौष्कल्यवतः किंचित्कर्म शीघ्रं निर्वृत्त- मिति तत्र फललाघवं कल्प्येत; न हि सेतुदर्शनं कस्यचिचोरपीडादिकमन्तरेण निष्पन्नमित्य- तादृशापेक्षया फलवैषम्यं कल्प्यते । उपसंहार्यगुणाल्पत्वभूयस्त्वादिकमपि न फलवैषम्य- कल्वकम्, यथाकथंचिदाप्रयाणनिरन्तर कर्तव्यत्वाविशेषेणानुडाने सौकर्य दौष्कर्यासंभवात् । तस्मादावृत्तितारतम्येन फलतारतम्यस्यावश्याभ्युपेयत्वात् मुक्तौ तदभावात् मुक्तेरन्यदेव 99 CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) मूलभावप्रकाशिका १०३ कर्मणः फलं वाच्यम् । किंच अनेकजन्मानुष्ठितनित्यनैमित्तिककर्मनिर्मलीकृतान्तः- करणसंपाद्यायाः शान्त्याद्यङ्गिकाया भक्तेः सर्वतो गरीयस्त्वेन तत्साध्यमुक्तेः कर्मसाध्यत्वे गुरुतरभक्तिरूपसाधनविधेः महाविश्वासानुबद्धप्रपत्तिविधेश्चाननुष्ठानलक्षणाप्रामाण्यप्रसङ्गात् न कर्मणां भक्तिप्रपत्तिसाध्य मोक्षफलकत्वमिति कर्मफलानित्यत्वनिश्चयः संभवत्येवेति । एवंविधन्यायालोचनसनाथात् " तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इति वाक्यात्कर्मफलानित्यत्वनिश्चय इति कर्मविचारस्य ब्रह्मविचार हेतुत्वं संभवतीति । कृतकर्मविचाराणां सर्वेषां वैराग्याभावो दुष्कृतप्रतिबन्धवशाद् द्रष्टव्यः । अथातः - शब्दयोरुक्तार्थपरत्वं पूर्ववृत्तसंभवेनोपपादयति–अतीतेति ; प्रथमतः साङ्गवेदाध्ययनं, ततो व्याकरणाध्ययनमहिम्नानन्तफलापातप्रतीतिः, ततः पूर्वभागविचारः, ततः कर्मफलानित्य- त्वप्रतीतिः, तत ऐहिकामुष्पिकफलभोगविरागः, ततो नित्यत्वेन प्रतिपन्ने मोक्षे- ऽभिलाषः, ततस्तत्साधनब्रह्मविचार इति क्रमः " प्रथमं तावत्" इत्याद्युत्तरभाष्ये स्पष्टीकरिष्यते । एवं च साङ्गसशिरस्कस्वाध्यायाध्ययनानन्तरभाव्यापातप्रतीतिसम- नन्तरभाविकर्मविचारोत्तरभाविनित्यानित्यविवेकाधीनमुमुक्षानन्तरभाविब्रह्मविचारे नियतपूर्व - वृत्तासंभवः कथं स्यात् ? येनाथातः शब्दयोः प्रसिद्धार्थत्यागः स्यादिति भावः । अल्पास्थिरफलं केवलं कर्मेति ज्ञानमधिगतं प्राप्तं येन सः अधिगताल्पास्थिरफल- केवलकर्मज्ञानः; तस्य भावस्तत्ता ; तयेत्यर्थः । कर्मणः कैवल्यं च ब्रह्मविद्याङ्गत्वराहित्यम् ; “यो वा एतदक्षरं गार्ग्यविदित्वास्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षाण्य- न्तवदेवास्य तद्भवति ” इति श्रुत्यर्थो विवक्षितः । 66 श्रीभाष्यम् , ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्मण इति कर्मणि षष्ठो, यद्यपि संबन्ध- कर्तृकर्मणोः कृति " इति विशेषविधानात् । सामान्यपरिग्रहेऽपि जिज्ञासायाः कर्मापेक्षत्वेन कर्मार्थत्वसिद्धि:, तथा- प्याक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात् कर्माणि षष्ठी गृह्यते । न च " प्रतिपदविधाना च षष्ठी न समस्यते " इति कर्मणि

१०४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) षष्ठ्याः समासनिषेधः शङ्कनीयः ; " कृद्योगा च षष्ठी समस्यते " इति प्रतिप्रसवसंभवात् । ब्रह्मशब्देन स्वभावतो निरस्तनिखिलदो- षोऽनवधिका तिशया संख्येयकल्याणगुणगण: पुरुषोत्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः । बृहत्त्वं च स्वरूपेण गुणैश्च यत्रानवधिकातिशयं सोऽस्य मुख्योऽर्थः । स च सर्वेश्वर एव । अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः, अनेकार्थकल्पनायोगात् ; भगवच्छब्दवत् । तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः । अतः सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्रह्म । श्रुतप्रकाशिका अथ ब्रह्मजिज्ञासापदार्थं विवक्षुस्तदैकपद्यस्य समासनिबन्धनत्वात् प्रथमं समासार्थं निरूपयति- - ब्रह्मण इत्यादिना । कर्मत्वकरणत्वादिसंबन्धविशेषेष्वितरविभक्तयः " कर्म- णि द्वितीया " इत्यादिभिः सूत्रैर्विहिताः ; " षष्ठी शेषे " इति सूत्रेण संबन्धसामान्ये षष्ठी विहिता । अत्र तस्याः सामान्यविषयत्वमाशङ्क्य कर्मविषयत्वं निश्चीयते । तत्र सामान्येन समासस्यानेकविभक्तिसाधारणत्वाद्विभत्त्यन्तरशङ्काव्यावृत्त्यर्थमिह तेषामनुपपत्तिमभिप्रयन् पदं विगृह्णाति — ब्रह्मणो जिज्ञासेति । चतुर्थीपरिग्रहे प्रयोजनत्वसिद्धावपि प्रकृतिविकारभावा- भावे चतुर्थिसमासायोगात्तदपरिग्रहः । “सप्तमी” इति योगविभागात् ‘ब्रह्मणि जिज्ञासा’ इति समासेऽपि ब्रह्मणो विषयत्वमात्रं स्यात्, न तु प्रयोजनत्वमिति सप्तम्यपरिग्रहः । ‘शङ्कुलयाखण्डः ’ इतिवत् तृतीयासमासे विषयत्वप्रयोजनत्वे न सिध्यत इत्यभिप्रायः । ब्रह्मण इति शब्दरूपस्य षष्ठीपञ्चमीसाधारण्यात् पष्ठद्याश्चानेकार्थत्वात् तन्निर्णयार्थमाह — ब्रह्मण इतीति । कुत इत्यत्राह - कर्तृकर्मणोरिति । षष्ठधाः कर्तृकर्मसाधारण्येऽपि जिज्ञासाकर्तृत्वं तापत्रयातुर- स्यैव ; ब्रह्मणस्तु कर्मत्वमित्यभिप्रायेण ब्रह्मण इति कर्मणि षष्ठीत्युक्तम् । कर्मणि षष्ठीस्वीकारे •.ब्रह्मणो विषयत्वप्रयोजनत्वे सिध्येताम् । ननु तर्हि कथं ‘यद्यपि ’ इत्यादेः संबन्धसामान्यपरिग्र- हशङ्काविषयस्य भाष्यस्योत्थानं युज्यते ! उच्यते–संबन्धसामान्यस्वीकारेऽपि जिज्ञासापद- सामर्थ्याद्ब्रह्मणः कर्मत्वसिद्धेः, परंपरया संबन्धिनामुपायोपासक प्रतिबन्धादीनामपि जिज्ञा-

( १ – १ – १) श्रुतप्रकाशिका १०५ स्यत्वसिद्धेः, प्रतिपदविहितषष्ठ्याः समासनिषेधाच्च । तत्र सामर्थ्यात् षष्ठयाः कर्मार्थत्व- सिद्धिं ब्रह्मानुबन्धिनामपि जिंज्ञास्यत्वसिद्धिं च शङ्कते – यद्यपीति । ’ संबन्धसामान्य- परिग्रहे’ इत्यत्र परिणा ब्रह्मानुबन्धिनामपि जिज्ञास्यत्वसिद्धिः सूच्यते । परितो ग्रहणेन हि परितः स्थितानामपि ग्राह्यत्वं लभ्यते । अत एव ह्युत्तरत्र गृह्यत इत्युक्तम्, न तु परिगृह्यत इति । तदुभयं परिहरति- तथापीति । अत्रायमर्थः – प्रधानस्य ब्रह्मणोऽप्रधानानामन्येषां कर्मत्वस्याक्षेपसिद्धत्वादपि प्रधानकर्मत्वस्याभिधानिकत्वमितरेषां प्रधानसंबन्धा- च दाकाङ्क्षावशाच्च कर्मत्वस्य सामर्थ्यसिद्धत्वं च स्वीकर्तुं युक्तमिति । अतः प्रतिपद- विहिता षष्ठी ग्राह्या, विलम्बितधीहेतोः शीघ्रधी हेतुर्बलीयानिति न्यायात् । षष्ठयाः संबन्ध- सामान्यविवक्षायां हि कर्मत्वधीर्विलम्बिता स्यात् ; कृद्योगषष्ठीविवक्षायां तु शीघ्रभाविनी । ननु कर्तृकर्मणोरुभयोरप्यर्थयोः सूत्रप्रतिपन्नत्वाद्विलम्बिता कर्मधीरिति चेत्-न; कर्तुर्जिज्ञा- सोरधिगतकर्मणः प्रतिपन्नत्वात्कर्मार्थत्वमेव हि प्रथमतरं धियमधिरोहेत् । समासनिषेध- माशङ्क्य परिहरति — न चेति । चः शङ्कासमुच्चये । प्रतिप्रसवोऽपवादापवादः । ’ सर्पिषो ज्ञानम्’ इत्यादिप्रयोगेषु “ ज्ञोऽविदर्थस्य करणे " इति सूत्रविहितायां षष्ठ्यां समासनिषेधस्य सावकाशत्वम् ; ‘ सर्पिषा प्रवृत्तिः ’ इति हि तस्य वाक्यस्यार्थः । यद्यपि ज्ञानपदं कृदन्तम् ; तथापि ‘सर्पिषः’ इति षष्ठी न क्रुद्योगविहिता, ‘सर्पिषो जानीते’ इति तिङन्तपदान्वयात् घातोर्विभक्तेश्च प्रवृत्तितत्करणार्थत्वाच्च । न हि तत्सर्वं कृयोगविहितत्वे सिध्यति । अतो नात्र प्रतिप्रसवप्राप्तिरिति निषेधस्य सावकाशत्वम् । : ननु - नेयं षष्ठी व्याख्येया, सूत्रे अप्रयुक्तत्वात् ; प्रयुक्त एव हि शब्दो बोधकः, न त्वप्रयुक्तः; बोधकशब्द एव हि व्याख्येयः । अप्र- युक्तापि स्मृता विभक्तिर्वोधिकेति सा व्याख्येयेति चेत्; न; तत्स्मरणेन विनाप्यर्थप्रति- पत्तेः । अर्थप्रतिपत्तिश्च प्रातिपदिकेन लक्षणया ; लक्षणा च योग्यतादिना । अतोऽनुशा- सनेन तद्व्याख्यानमयुक्तम् । उच्यते - अप्रयुक्तविभक्त्यर्थस्य प्रातिपदिकेन लक्षणा हि समासः । अत्र लक्ष्यार्थोपलक्षणतया विभक्तिरनुप्रविष्टा । अतो लक्ष्यार्थविशेषनिर्णयाय विग्रहवाक्यस्था षष्ठी व्याख्येया । तर्हि नानुशासनेन सा व्याख्येया ; लाक्षणिकार्थो हि योग्य- तादिनावसीयते ; न हि ’ गङ्गायां घोष:’ इत्यत्रानुशासनवशात् कूलं लक्ष्यते; अपितु योग्य- तादिनैवेति । नैवम्, सर्वासु लक्षणासु योग्यतादिनैवार्थनिर्णयनियमाभावात् । स तु नियमः प्रातिपदिकेन प्रातिपदिकान्तरार्थलक्षणायाम् प्रातिपदिकेन विभक्त्यर्थलक्ष- 14 ;

१०६ ० श्रीभाष्यम् (जिज्ञासाधिकरणम्) णायां त्वेतद्विभक्त्यर्थो लक्ष्यः, न विभक्त्यन्तरार्थ इति हि नियमो भवति; स च शब्दानुशास- नाधीन इति तदनुरोधेन तन्निरूपणं युक्तम् । तत्र संबन्धसामान्यं लक्षयित्वा तेन कर्मत्व- स्याक्षेपादपि प्रथमत एव कर्मत्वस्यैव लक्षणा शब्दानुशासनानुमता युक्ता । अतः समस्तपद- लक्ष्यार्थविशेषनिर्णयायानुशासनानुरोधेन लक्ष्यार्थोपलक्षणभूता विग्रहवाक्यस्था षष्ठी व्याख्ये- येति । यद्वा लुप्तविभक्तिकशब्देन विभक्त्यर्थबोधनं मुख्यं स्यात् ; संबन्धिनो हि लक्षणा दृष्टा, न संबन्धमात्रस्य ; विभक्त्यर्थश्च स्वयं संबन्धरूपः । न च संबन्धस्य संबन्धान्तरान- पेक्षत्वेन स्वस्मिन् संबन्धकार्यकरत्वाल्लक्षणा संभवतीति वाच्यम्, संबन्धस्य स्वपरनिर्वाह - कत्वानभिज्ञानामपि विभक्त्यर्थप्रतीतेः । न हि संबन्धः स्वसत्तया लक्षणाहेतु:, किंतु ज्ञायमानतयैव ; न चेदतिप्रसङ्गात् । एवं लक्षणानुपपत्त्या प्रयोगस्यानन्यथासिद्धत्वात्समस्त- शब्देन विभक्त्यर्थबोधनं मुख्यम् ; अमुख्यत्वे वा का नः क्षतिः ? ननु विग्रहवाक्येऽपि कथं कर्मत्वमाभिधानिकम् ? प्रयुज्यमानापि ह्युपपदविभक्तिर्निरर्थिका ; तद्विधानं ’ दाराः कलत्रम् ’ इतिवत्प्रयोगसाधुत्वाय ; अर्थस्त्वर्थसामर्थ्याक्षिप्तः ; अत एव हि कारकविभक्तेरुपपदविभ- क्तिदौर्बल्यम् ; समासे त्वप्रयुक्ताया उपपदविभक्तेः कथंतरां कर्माभिधायकत्वमिति । उच्यते —आभिधानिकत्ववत् कृदन्तपदप्रयोगेण शीघ्रधीविषयत्वसाम्यादाभिधानिकत्वोक्तिः । पदा- न्तरश्रवणापेक्षामात्रान्नाक्षेपादिवद्विलम्बाधिक्यम् । सामान्यषष्ठीपक्षे संबन्धसामान्यं प्रतिपद्य जिज्ञासाशब्दार्थगतसकर्मकत्वस्वभावालोचनयार्थविशेषावगमादपि कर्मत्वधियः शीघ्रत्वादिति कश्चित्परिहारः । कर्मणि द्वितीया" इतिवत् " कर्तृकर्मणोः कृति" इति सप्तम्यन्तनिर्दिष्टयोः कर्तृकर्मणोरभिधेयत्वमनुशासनस्वारस्यानुगुणमिति भाष्य- काराभिप्रेतः परिहार इति संप्रदायः । कारकविभक्तेरुपपदविभक्तिवैषम्यं पदान्तरयोग- विहितत्वरूपमस्त्येव । न च पदान्तरयोगावगम्यत्वमाभिधानिकत्वविरोधि, तस्य क्वचिन्मुख्यार्थ- व्यवस्थापकत्वदृष्टेः ; यथा - ’ आदित्यस्य गावः प्रकाशयन्ति ’ इत्यादिषु । न हि तत्रा- दित्यादिपदान्तरयोगेन गोशब्दस्य किरणपरत्वं लाक्षणिकम् । पदान्तरपरामर्शसापेक्षत्वेन विलम्बितधीहेतुरुपपदविभक्तिः ; कारकविभक्तिस्तु तन्निरपेक्षत्वाच्छीघ्रधी हेतुरिति प्राबल्य- दौर्बल्यविभाग एव, न तु सार्थकत्वनिरर्थकत्वाभ्यां वैषम्यम् । विभक्त्यश्रवणादमुख्य- त्वं तु परिहृतम् । एवं समासान्तर्गतविभक्त्यर्थे निरूपिते समस्तयोः पदयोः प्रथमं ब्रह्मशब्दं याचष्टे – ब्रह्मशब्देन चेति । ब्रह्मशब्दस्य प्रधानाद्यर्वाचीनार्थान्तरेषु प्रयोगदर्शनादि- * 66 कृदन्तश्रवणमात्रभुवः

( १ – १ – १ ) श्रुतप्रकाशिका १०७ तरव्याख्यातृभिरीश्वरातिरिक्तवस्तुपरत्वेन व्याख्यातत्वाद्देवतान्तरपरत्वस्य कैश्चिदभ्युपगमाच्च तद्व्यावृत्त्यर्थं ’ ब्रह्मशब्देन पुरुषोत्तमोऽभिधीयते’ इति प्रतिजानीते । पुरुषोत्तमशब्दस्य रूढया ब्रह्मशब्दस्य देवतान्तरपरत्वादिव्युदासः । अवयवशक्त्या बद्धमुक्तावस्थचेतनवैलक्षण्यमुक्तम् । स्वेतरवैलक्षण्यमात्रं तृणादेरप्यस्तीति तद्व्यावृत्त्यर्थं ‘स्वभावतः’ इत्यादिना विशेषणद्वयेन वैलक्षण्यं विशिनष्टि । इदं च विशेषणद्वयं शब्दशक्तेरर्थसामर्थ्याच्च ब्रह्मशब्दस्य पुरुषोत्तमपरत्वप्रतिपाद- नोपयोगितयोक्तम् ; न तु प्रवृत्तिनिमित्ततया; गुणतोऽपि बृहत्त्वे सति शब्दशक्त्यसंकोचसिद्धेः, मुमुक्षोरशेषदोषनिवृत्तिनिरतिशयानन्दप्राप्तिहेतुत्वाच्च । वाद्यन्तरोक्तस्याविद्यादिदोषान्वयस्य निर्गुणत्वस्य च व्यावृत्त्यर्थम्, उपाध्युपहितत्रह्मस्वरूपस्यैव कर्मवश्यत्वदुःखित्वा दिव्यावृत्त्य- र्थ्यम् ; ज्ञानादिशक्तियोग एवास्य स्वाभाविकः सार्वज्ञ्यनिरतिशयानन्दादियोगस्तु कादाचित्क इति मतस्य च व्यावृत्यर्थमिदं विशेषणद्वयमुक्तम् । निरस्तकतिपयदोषत्वं निरस्त निखिलदोषत्वं च केषांचित् बद्धानां मुक्तानां नित्यानामप्यस्तीति तद्व्यावृत्त्यर्थं ‘स्वभावतो निरस्तनिरिवलदोषः ’ इत्युक्तम् ; नित्यसिद्धानामपि भगवन्नित्यसंकल्पाधीनं हि नित्यनिर्दोषत्वम् । ‘स्वभावतः’ इत्यु- त्तरत्राप्यनुषङ्गः; तेन गुणानामविद्याकल्पितत्वपक्षव्यावृत्तिः । " ते ये शतम्" इत्यत्र पूर्वपूर्वगु- णेभ्य उत्तरोत्तरगुणानामतिशयः सावधिक इति तद्व्यावृत्त्यर्थम नवधिकातिशयशब्दः ; तत्र हि ब्रह्मगुणातिशयस्य वाङ्मनसा गोचरतयानवधिकत्वमुक्तम् ; सत्यसंकल्पत्वान्तर्भूता वशित्वादि- गुणा इति हि वक्ष्यते । अतः कस्मिंश्चिद्गुणे तद्विधाभेदरूपतया गुणानां बहूनामन्तर्भावाभिप्रा- यो गणशब्दः । नन्वनवधिकातिशयशब्दस्य गुणविशेषणत्वे गणशब्दसामानाधिकरण्याभावा- इहुव्रीहिर्न स्यात् ; गणविशेषणत्वमप्ययुक्तम् ; गुणस्वरूपस्य ह्यनवधि कातिशयत्वं, न तु गणस्वरूपस्य । नैवम् ; गण एव विशेष्य इति बहुव्रीहिसिद्धिः। तथाप्यर्थवशाद्गणान्तर्भू- तैकैकगुणव्यक्तेरनवधिकातिशयत्वं फलितं स्यात् ; यथा - एषा परिषद भिजनवती श्रुतशी- लशालिनी’ इत्यत्र श्रुतशीलादीनां परिषद्विशेषणत्वे प्रतीतेऽपि तदन्तर्भूतानामेव श्रुताद्यन्वयः न तु समूहस्य, ततो निर्गतानां श्रुताद्यभावप्रसङ्गात् । असंख्येयत्वमपि गणविशेषणं युक्तम् ; गणासंख्येयत्वे गुणासंख्येयत्वं कैमुत्यसिद्धम् । अनवधिकातिशयशब्देन नित्यसिद्धव्या- वृत्तिश्च तद्गुणानां जगद्व्यापाराननुगुणत्वेन भगवद्गुणापेक्षया सातिशयत्वात् तेषामीश्वर- तद्गुणविभूतिसाक्षात्कारस्यात्यन्तानुकूलस्य निरवधिकातिशयत्वेऽपि तादृशासंख्येयगुणा- भावात्तद्व्यावृत्तिः । अनुषक्तेन ’ स्वभावतः’ इति पदेन वा नित्यसिद्धव्यावृत्तिः; तेषां तादृश- 0 CC-0 No Rights Reserved. Digitized by eGangotri१०८ I श्रीभाष्यम् 99 66 1 (जिज्ञासाधिकरणम्) गुणकत्वं हि भगवन्नित्येच्छाधीनम् । स्वरूपेणानवधिकातिशयत्वाभावाच्च नित्यसिद्धव्या- वृत्तिः; ते ह्यणुस्वरूपाः । अत्र स्वरूपस्याप्यनवधिकातिशयत्वं गर्भितम् ; विभुत्वस्यापि गुणान्तर्भावात्, “ बृहत्त्वं च स्वरूपेण गुणैश्च " इत्युपपादकग्रन्थोक्तेः । अभिर्धायते ; मुख्यवृत्त्या बोध्यते । अस्मिन् ग्रन्थे “ येनाक्षरं पुरुषं वेद सत्यम्” इति श्रुतिश्चैतत्सूत्रा- र्थानुवादिन्यनुसंहिता भवति ; तत्र हि " प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् " इति पुरुष- पर्यायतया ब्रह्मशब्दः प्रयुक्तः । एवं प्रतिज्ञातमर्थं शब्दसामर्थ्यात् प्रथममुपपादयति सर्वत्रेत्यादिना । तत्रार्थान्तरेषु ब्रह्मशब्दप्रयोगस्यान्यथासिद्धिं विवक्षुस्तदुपयुक्तं गुणयोगं दर्शयति — सर्वत्रेति । सर्वत्र ; ब्रह्मशब्दप्रयोगविषयेषु सर्वेषु, बृहत्त्वगुणयोगोऽस्तीत्यर्थः 1 पुरुषोत्तमे गौणत्वमन्यत्र मुख्यत्वं च किं न स्यादित्यत्राह - बृहत्त्वं चेति । बृहत्त्वगुण- मात्रयोगिषु सर्वेषु ब्रह्मशब्दप्रयोगाभावात् स्वरूपतो गुणतश्चानवधिकातिशयबृहत्त्वं प्रवृत्ति- निमित्तमित्यर्थः । ननु " बृहति बृंहयति तस्मादुच्यते परं ब्रह्म बृहत्त्वाहूंहणत्वाच तद्ब्रह्मेत्यभिधीयते " इति श्रुतिस्मृतिभ्यां बृहत्त्वे वृंहणत्वे च प्रवृत्तिनिमित्ततयावगते कथमिह बृहत्त्वमात्रं निमित्तमुच्यते ? गुणतो बृहत्त्वे बृंहणत्वस्यान्तर्गतत्वादिति ब्रूमः । " स चानन्त्याय कल्पते " इति श्रुतिप्रसिद्ध सकलसंकोचनिवृत्तिपूर्वकनिरवधिकज्ञानविका- सरूपानन्त्यावहत्वं हि बृंहणत्वम् ; तद्धि सकलहेयप्रत्यनीकत्वक्षान्तिकारुण्यादि मोक्षप्रदत्वौप- यिकगुणगणवत्त्वम् ; अत एव हि " स्वभावतो निरस्तनिखिलदोषः " इत्यादिकं प्रतिज्ञा- वाक्येऽभिहितम् । ननु स्वरूपतो बृहत्त्वमेव निमित्तमस्तु; किं गुणैरिति चेत् — न; ब्रह्म- गुणादेरपि स्वरूपेण बृहत्त्वाद्ब्रह्मशब्दवाच्यत्वप्रसङ्गात् । तर्हि गुणतो बृहत्त्वमेवास्तु निमित्तमिति चेत्-न; शब्दशक्तेरसंकोचस्य स्वतः प्राप्तत्वात् ; स्वरूपेण च बृहत्त्व सद्भावात् ; “सत्यं ज्ञानमनन्तं ब्रह्म" " इति हि श्रुतिः । गुणतो वृहत्त्वं नाम सद्वारकबृहत्त्वम् ; गुणद्वारा हि तत् । स्वरूपेण गुणैश्च निरतिशयबृहत्त्ववद्वस्तु पुरुषोत्तमादन्यदपि स्यात्, अन्यदेव वा स्यादित्यत्राह – स चेति । चः शङ्कानिवृत्तौ । सर्वेश्वरशब्देनैवकारेण च " तमीश्वरा - णां परमं महेश्वरम् “, न तत्समश्चाभ्यधिकश्च दृश्यते " इति वाक्ययुगलार्थो विवक्षितः । ततः किमित्यत्राह - अत इति । अतः; अनवधिकातिशयबृहति ब्रह्मशब्दस्य मुख्यत्वात् सर्वेश्वरस्यैव तादृशवृहत्त्वगुणयोगित्वाच्चेत्यर्थः । कथं तत्रैव मुख्यवृत्तः ? अन्यत्रापि ब्रह्म- शब्दः प्रत्युज्यत इत्यत्राह – तस्मादिति । तस्मात्; बृह्मणः । सर्वत्र मुख्यः कुतो न

(१ – १ –– १) श्रुतप्रकाशिका १०९ स्यादित्यत्राह – अनेकार्थेति । परब्रह्मणोऽन्यत्र प्रयोगस्यान्यथासिद्धत्वान्न तत्र शक्ति- कल्पनम्, " अनन्यथासिद्धः प्रयोगः शक्तिं कल्पयति " इति न्यायादित्यर्थः । अनेक- शक्तिकल्पनं गौणत्वं वा न स्यात्, बृहत्त्वगुणयोगिसर्वव्यक्तिष्वेकयैव शक्त्या मुख्यत्व- संभवादित्यत्राह – भगवच्छन्दवदिति । तथा च श्रीमति वैष्णवे पुराणे भगवच्छब्दं प्रकृत्योक्तम् । “ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण ह्यन्यत्र ह्युपचारतः ॥ 99 इति । अनेन प्रस्तुतचोद्यस्य कः परिहार उक्तो भवति ? उच्यते—बृहतिधातोर्म- निन्प्रत्ययान्तत्वेन निष्पन्नस्य ब्रह्मशब्दस्य प्रधानादिषु दृश्यमानः प्रयोगो नावयवशक्तिनि- चन्धनः, तथाहि सति बृहन्महच्छन्दादिवदापेक्षिक बृहत्त्वयोगिषु सर्ववस्तुषु प्रयोगः स्यात् ; न च तथा प्रयुज्यते; त्रसरेणुमपि हि ततोऽणिष्ठतयाभिमतद्रव्यान्तरापेक्षया महिम- गुणशालीति वदन्ति । न च त्र्यणुकादिषु ब्रह्मशब्दप्रयोगः । एवं सर्वत्र प्रयोगादर्शनात् पक्कजशब्दव्यवस्थापककुमुदादिव्यावृत्ततामरसानुवृत्तपद्मत्वजातिवत् ब्रह्मशब्दप्रयोगविषय- पञ्चषव्यक्त्यनुवृत्तान्यव्यावृत्ताकारादर्शन। दनेकशक्तिकल्पने प्राप्ते, अनन्यथासिद्धस्य प्रयोगस्य शक्तिकल्पकत्वात् ब्रह्मशब्दप्रयोगविषयेष्वन्येषु च बृहत्त्वगुणलेशयोगेन प्रयोगस्यान्यथासिद्ध- त्वाच्च नानेकशक्तिकल्पनं युक्तम् । तस्मात्पुरुषोत्तम एव प्रवृत्तिनिमित्त पौष्कल्यवति मुख्य- त्वम्, अन्यत्रौपचारिकत्वं च ; औपचारिकस्तु प्रयोगः संकोचसह इष्टः, न तु सार्वत्रिकः इति । तमिमं न्यायमभिप्रेत्य भगवच्छब्दस्य पुरुषोत्तम एव मुख्यत्वमन्यत्रा- मुख्यत्वं च भगवता पराशरेणोक्तम् : तथाहि – ज्ञानादिमात्रं वा निरङ्कुशज्ञानादिकं वा भगवच्छब्दप्रवृत्तिनिमित्तम् ; आद्ये पिपीलिकादावपि भगवच्छब्दः प्रयुज्येत ; द्वितीये तु सर्वत्र निरवधिकज्ञानाद्यभावात् प्रवृत्तिनिमित्तासिद्धेनैकशक्त्या सर्वत्र मुख्यत्वम् ; अनेक- शक्तिकल्पनं चायुक्तं, प्रयोगान्यथासिद्धेरिति भगवत्पराशराभिप्रायः । ननु " उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ " इति ग्रन्थोक्तेष्वौपचारिकभगवच्छन्द प्रयोगयोग्येषु यदलौकिकार्थसाक्षात्कारित्वमस्ति तदेव

११० श्रीभाष्यम् (जिज्ञासाधिकरणम्) प्रवृत्तिनिमित्तीकृत्य भगवच्छब्दः सर्वत्र मुख्यः स्यात् ; नैवम् ; अलौकिकार्थसाक्षात्करण- मात्रस्य प्रयोगविषयव्यावृत्तत्वाभावात् । न हि समाधिपर्यन्तयोगकाष्ठानिष्ठेषु केशिध्वज- खाण्डिक्यप्रह्लादादिषु भगवच्छब्दः प्रयुज्यते । किं च प्रत्यक्षमूलव्युत्पत्त्या गवादिशब्दा- नामिवागममूलव्युत्पत्त्या समग्रषाड्गुण्यादिमत्येव तस्य मुख्यत्वावगमात् । " ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । 1 भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ " इति निर्दोषत्वपर्यन्तानां ज्ञानादीनां प्रवृत्तिनिमित्ततया वाच्यत्वमुच्यते; निर्दोषत्वं च निमित्ततया वाच्यत्वेनोच्यते, अन्यथा तदुक्तिवैयर्थ्यात् । न ह्यवाच्यं सर्वं निषेध्यम् ; अनुक्त्यैव ह्यवाच्यत्वं सिध्यति । न च ज्ञानशक्त्यादिष्वेकैकस्य प्रवृत्तिनिमित्तत्वम् ; किं तु ज्ञानादिसमुदायस्यैव; अन्यथा “अशेषतः” इति पदवैयर्थ्यात् । " ऐश्वर्यस्य समग्रस्य " इत्युक्तत्वात् गवादिष्वतिप्रसङ्गभयाच्च प्रकर्षविशेषवतां ज्ञानादीनां समुदायस्यैव प्रवृत्तिनिमित्त- त्वमुक्तमित्यभ्युपेत्यम् । एवं न्यायसिद्धार्थस्यागमसिद्धोऽर्थो भाष्ये दृष्टान्तीकृतः — ‘भगव- च्छब्दवत्’ इति । तथा च भगवता पाराशर्येण - " परं जैमिनिर्मुख्यत्वात् ” “ स्याच्चै- कस्य ब्रह्मशब्दवत् ” इत्यादिसूत्रेषु ब्रह्मशब्दस्य भगवत्येव मुख्यत्वमुत्तरत्रोक्तम् । अतो यथोक्त एवार्थः । तथा च स्पष्टीकृतं श्रीमति गारुडे पुराणे- इत्यारभ्य 66 वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ॥ 99. " यस्मिन् प्रयुज्यमाने तु गुणयोगः सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ॥ " 99 ’ 1 इति । एवं शब्दसामर्थ्यमुपपादितम् । अथ ब्रह्मशब्दस्यानेकार्थमुख्यवृत्तत्वेऽप्येतत्सूत्रस्थस्य तस्यार्थस्वाभाव्यात्पुरुषोत्तमपरत्वमुच्यते—– तापत्रयातुरैरिति । स एवामृतत्वाय’ इति पदैः " तमेवं विद्वानमृत इह भवति । नान्यः पन्थाः इत्यादिश्रुत्यर्थो विवक्षितः ; अत एव हि ’ पुरुषोत्तमोऽभिधीयते’ इत्युक्तम् । श्रुतेरपि पूर्वोक्त हेयप्रत्यनीकत्वकल्याणगुणा- कॅरत्वविशिष्ट एव तापत्रयातुरैरुपास्यः, न तु तेष्वन्यतम इति भावः । न हि कारागार- निगलित एव तन्मोचनार्थिभिरभ्यर्थनीयः । तथा च वैष्णवे पुराणे निर्दोषकल्याणगुणाक-

(१ –– १ – १) 66 भावप्रकाशिका 99 १११ रस्यैव मुमुक्षूपास्यत्वमुक्तम् – “स सर्वभूतप्रकृतिं विकारान् " समस्तकल्याण- गुणात्मकोऽसौ ” इत्यादिना “ अज्ञानमतोऽन्यदुक्तम्" इत्यन्तेन । ब्रह्मशब्दव्याख्यां निगमयति — अत इति । निर्दोषमङ्गलगुणकस्य सर्वेश्वरस्यैव तापत्रया तुरैर्जिज्ञास्यत्वादत्र `तापत्रयातुरजिज्ञास्यतयोक्तं ब्रह्म सर्वेश्वर एवेत्यर्थः । यद्वा - अतः ; उक्तशब्दसामर्थ्यात् अर्थसामर्थ्याच्चेत्यर्थः । ननु ब्रह्मशब्दोऽव्युत्पन्नो व्युत्पन्नो वा भगवति मुख्यः ; अव्युत्पन्नत्वे बोधकत्वविरहिणस्तस्य न क्वचिन्मुख्यत्वम् ; नापि व्युत्पन्नः स मुख्यः, अलौकिकेऽर्थे व्युत्प- त्त्यसंभवात् ; कथमप्रतीते व्यवहाराविषये बुद्धिपूविका यादृच्छिकी च व्युत्पत्तिः संभवति ? उच्यते—यथा कामिनीचन्दनभवनादिषु प्रयोगेण सुखविषयतया व्युत्पन्नस्य स्वर्गशब्द- स्य 66 यस्मिन्नोष्णम्" इत्याद्यर्थवादपदसमभिव्याहारेणा लौकिकसुखतिशेषविषयतया व्यु- त्पत्तिः, यथा लोके क्वचिदव्युत्पन्नत्वेऽपि यूपाहवनीयस्फयकपालचषालचात्वालादिशब्दानां चाक्यान्तरपदान्तरसमभिव्याहारात्तत्तदर्थविषयतया व्युत्पत्तिः ; एवं ब्रह्मात्मेश्वरादिशब्दानां च लोके केषुचिदर्थेषु प्रयोगात् व्युत्पत्तौ सत्यामसत्यामपि " यतो वा इमानि भूतानि जायन्ते ” “ सत्यं ज्ञानमनन्तं ब्रह्म ” इत्यादिप्रसिद्धार्थवाक्यान्तरपदान्तरसमभिव्याहारा- " " दलौकिक परमात्मविषयत्वव्युत्पत्तिरुपपद्यते । अतो ब्रह्मशब्दस्योक्तरीत्या भगवत्येव मुख्य- त्वं युक्तम् । 99 भावप्रकाशिका कर्मत्वकरणत्वादिसंबन्धविशेषेष्विति ; नन्वेतद्वाक्यपर्यालोचनायां षष्ठयर्थभूत- संबन्धसामान्यावान्तरविशेषरूपत्वं कर्मत्वकरणत्वादेः प्रतीयते ; न च तद् युज्यते वक्तुम्, " षष्ठी शेषे " इति कर्माद्यतिरिक्ते प्रातिपदिकार्थव्यतिरेके षष्ठघा अनुशिष्टत्वेन द्वितीया- तृतीयार्थयोः सामान्यविशेषभावाभाववत् द्वितीयार्थस्य षष्ठद्यर्थस्य च सामान्यविशेषभावा- भावात् । " संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ॥ 99 इति हरिणोक्तत्वेन ’ नटस्य शृणोति’ ’ माषाणामश्नीयात् ’ ’ अनुकरोति भगवतों नारायणस्य’ इत्यादावपि कर्मत्वाद्यतिरिक्तम्य क्रियाकारकसंबन्धपूर्वकस्य शेषशेषिभावादि-

0 ११२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) ,· लक्षणस्य संबन्धस्य सत्त्वादिति चेत् — न ; ’ माषाणामन्नायात्’ इत्यादौ कर्मत्वाद्यति- रिक्तकल्पने प्रमाणाभावात्, द्वितीयादीनां षष्ठयपवादतया विधानाभ्युपगमेन सामान्य- विशेषभावनियमोपपत्तेः । इतरा विभक्तयो विहिता इति ; यद्यपि “कर्तृकर्मणोः कृति इति षष्ठ्यपि विहिता, तथापि कर्मादिषु संबन्धविशेषेष्वेवेतरविभक्तयो विहिताः ; षष्ठी तु संबन्धसामान्ये विशेषेऽपि विहितेत्येवकारमपिशब्दं चाध्याहृत्य योजना कार्या । परिणा ब्रह्मानुबन्धिनामिति ; ननु ’ संबन्धसामान्यपरिग्रहे ’ इत्यत्र परिणा संबन्धसामान्य- परितः स्थितानां तदनुबन्धिनामेव ग्रहणं स्यात्, न तु ब्रह्मानुबन्धिनाम् ; न हि ‘ब्रह्मपरि- ग्रहे’ इति पठ्यते, येन ब्रह्मानुबन्धिनः परिणा प्रतीयेरन् ; अत एवोत्तरत्र ’ षष्ठी गृह्यते इत्युक्तं न तु परीत्यपि ‘कर्मणि षष्ठी परिगृह्यते’ इत्युक्तेऽपि न ब्रह्मानुबन्धिनां ग्रहणं सिध्येत् ; अपितु षष्ठ्यनुबन्धिनामेवेति चेत् — न ; ब्रह्मानुबन्धिनामपि परंपरया संबन्धसामान्यानुबन्धित्वस्य कथंचित्संभवादित्यभिप्रायात् । प्रधानसंबन्धादिति ; यथा ’ राजासौ निर्गतः ’ इत्युक्ते सपरिवारस्य निर्गमन प्रतीयते तद्वदिति भावः । समास– निषेधस्य सावकाशत्वमिति ; " कृद्योगलक्षणा च षष्ठी समस्यते " इति प्रतिप्रसवानव- रुद्धोऽवकाश इत्यर्थः । ननु " कर्मणि च " इति समासनिषेधः कस्मान्न भवतीति चेत् —न; 66 ; तस्य " उभयप्राप्तौ कर्मणि " इति सूत्रविहितषष्ठीविषयत्वात् ; यथा आश्चर्यो गवां दोहोऽशिक्षितेन गोपालेन ’ इति । एतदभिप्रेत्योक्तं भगवता भाष्यकृता- कर्तृकर्मणोः कृति " इति । यद्यपि ज्ञानपद कृदन्तमिति ; ततश्च प्रतिप्रसवावरुद्ध- त्वान्नावकाश इति भावः । सर्पिषो जानीत इति तिङन्तपदान्वयार्हत्वादिति ; तिङ- न्तयोग इवेयमपि शेषलक्षणा षष्ठीत्यर्थः । न च शेषषष्ठीत्वे " ज्ञोऽविदर्थस्य " इति विधानवैयर्थ्यं शङ्कनीयम् समासनिषेधार्थत्वात्पुनर्विधानस्य षष्ठी श्रूयत एव न लुप्यत इति ; लोपश्च समासे । उक्तं च हरिणा- 66 साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः । ; 99 प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ इति । ; धातोर्विभक्तेश्च प्रवृत्तितत्करणार्थत्वादिति ततश्च सर्पिषः कर्तृकर्मन्यतरत्वा- भावात् न कृद्योगलक्षणा षष्ठीति भावः । यद्यपि " ज्ञोऽविदर्थस्य करणे " इति षष्ठ्याः शेषषष्ठीत्वेन न करणत्वमर्थः, तथापि करणस्य शेषतया विवक्षितस्यार्थत्वात् कर्तृकर्मान्य- CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १)


भावप्रकाशिका ११३ 9 तरार्थत्वाभावान्न कृद्योगलक्षणषष्ठीसंभव इत्यत्र तात्पर्यम् । ननु धातोः प्रवृत्त्यर्थं त्व- कथनमनुपयुक्तमिति चेतून; ज्ञाधातोर्ज्ञानार्थत्वे सकर्मकत्वात् कर्मसंभवनाप्यस्ति, प्रवृत्त्यर्थत्वे तु सापि नास्तीति प्रदर्शनार्थत्वात् । ननु नेयं षष्ठीति ; ननु सूत्रकृता प्रयुक्तत्वाभावेऽपि स्वप्रयुक्तत्वात् स्वप्रयुक्तव्याख्यानस्य च भाष्यलक्षणत्वान्न तद्याख्याने दोषः ; इतरग्रन्थेष्वपि शक्तिः सामर्थ्यं कारणत्वमिति यावत्’ इति पर्यायतया स्वप्रयुक्तमपि शब्दं यावत्परप्रतीति व्याकुर्वाणा ‘दृश्यन्त इति सर्वजनीनमेतत् ; अतः समासव्याख्यानाय स्वप्रयुक्तविग्रहवाक्यगतायाः षष्ठघाः संदिग्धार्थाया व्याकरणकोशा दिनार्थे कथनीये विभक्तिविषये कोशादेरभावात् व्याकरणेनैव व्याख्यानं युक्तमिति चेत् — मैवम् ; समासपदव्याख्यानं विग्रहेणैव कर्तव्यमिति नियमा- भावेन ’ ब्रह्मजिज्ञासा - ब्रह्मकर्मकजिज्ञासा कर्तव्या ; ब्रह्मशब्दो ब्रह्मकर्मकपरः’ इत्येव व्याख्यायताम् ; किमिति संदिग्धार्थकव्याख्यानसापेक्षविग्रहवाक्योपन्यासेनेति तात्पर्यात् । विभक्त्यर्थस्य प्रातिपदिकेन लक्षणा हि समास इति ; इदं तु कर्मधारयभिन्न लुप्त- विभक्तिकतत्पुरुषाव्ययीभावविशेषविषयं द्रष्टव्यम् । लक्ष्यार्थविशेषनिर्णयायेति ; अस्या विभक्तेरयमर्थोऽनेन प्रातिपदिकेन लक्ष्यते ’ इति प्रतिपादनायेत्यर्थः । ननु ‘नानु- शासन -’ इत्यस्याः शङ्कायाः कथमुत्थानम् ? विभक्तेर्व्याख्येयत्वे सिद्धे कोशादीनां तद्विषय उदासीनत्वादनुशासनेन व्याख्यानमुचितम् । ततश्चास्या विभक्तेरयमर्थ इति निर्णये सति योग्यतावशेन कर्मत्वरूपोऽर्थो लक्ष्यत इति निर्णयाय युक्तमेव विभक्त्यर्थकथनम् । अत एव हि " न गङ्गायां घोषः " इत्युत्तरवाक्यमपि न युक्तम् ; न ह्यत्र लक्षकपदस्य “न लक्ष्येऽनुशासनमुपन्यस्यते ; किंतु योग्यतादिवशेन लक्षणीयस्य कर्मत्वस्य विभक्त्यर्थत्व- कथनायानुशासनमुपन्यस्यते । अत एव " स तु नियमः प्रातिपदिकेन प्रातिपदिकान्त- रार्थलक्षणायामेव " इति परिहारग्रन्थोऽपि न युक्तः, ब्रह्मणः कर्मत्वकर्तृत्वादीनां मध्ये कर्मत्वस्यैव लक्षणीयत्वाय योग्यतादिप्रतिसंधानस्येहाप्यपेक्षितत्वादिति चेत् — न ; अन- भिज्ञो भवान् वाक्यार्थस्य ; न ह्यत्र " कर्तृकर्मणोः कृति” इत्यनुशासनबलेन षष्ठीव्या- ख्यानमसंगतमिति चोद्यते, येनायमुपालम्भः स्यात्; किंतु " कृद्योगलक्षणा षष्ठी समस्यते " इत्यनेन कृद्योगलक्षणषष्ठयन्तपदस्य लुप्तायां विभक्तौ तदर्थ लक्षणायाः साधुत्वा- न्वाख्यानपरेण व्याख्यानं किमर्थं क्रियते ? न हि गङ्गापदस्य तीरे लक्षणया प्रयोगे 15

0 & ११४ 64


• श्रीभाष्यम् (जिज्ञासाधिकरणम्) साधुत्वमस्तीत्यत्रानुशासन्नमपेक्षितमित्याक्षेपस्य क्वचिदर्थविशेषलक्षणया प्रयोगस्य साधुत्व- मनुशासनसापेक्षमिति परिहारस्य च संभवेनादोषात् । ननुं लुप्तविभत्तत्यर्थस्य लुप्ततिभक्ति- कशब्दमुख्यार्थत्वे निषादस्थपत्यधिकरणविरोधः, षष्ठीतत्पुरुपे लक्षणाया अप्रसक्तेरित्यरु- चेराह – अमुख्यत्वे वा का नः क्षतिरिति । ननु पदान्तरयोगविहितविभक्तेरर्थसद्भावे " नमस्करोति देवान्” इत्यत्र नमः शब्दयोगनिमित्तचतुर्थ्यपेक्षया कर्मणि द्वितीयाया: प्राबल्यं न स्यादित्याशङ्क्याह – कारकविभक्तेरिति । पदान्तरयोगविहितत्वरूपम- स्त्येवेति ; ननु कर्तृकर्मणोः ” इति विहितस्य कृदन्तपदयोगनिमित्तत्वेऽपि न कारक- विभक्तित्वक्षतिः, तत्र शाब्दिकानां कारकषष्ठीत्वस्य व्यवहारात्; अत एव " गतिकार- कोपपदात् कृत् " इति कारकस्वरो भवति ; इतरथा स न प्राप्नुयादिति चेत् – सत्यम् ; अस्त्येव कारकविभक्तित्वम् ; उपपदयोगनिमित्ततयोपपदविभक्तित्वमप्यस्ति ; तस्याश्चोप- पदयोगनिरपेक्षकारकविभक्त्यपेक्षया दौर्बल्यमप्यनुभवसिद्धम्, ‘घटं करोति’ इत्यत्रेव ’ घटस्य कृतिः’ इत्यत्र कर्मत्वस्य शीघ्रप्रतीत्यभावात् । न चैवं " कर्तृकर्मणोः कृति " इति षष्ठ्या उपपदविभक्तित्वे षष्ठीं बाधित्वा द्वितीया प्राप्नोतीति वाच्यम्, तद्विषय एवारभ्यमाणत्वेन तदपवादत्वात् । न चैवं ’ कन्याया अलंकर्ता ’ इत्यादौ कृद्योगषष्ठ्या अप्यु- पपदविभक्तित्वाविशेषात् अलंयोगनिमित्तचतुर्थीबाधकत्वं न स्यादिति वाच्यम्, परत्वेन बाधकत्वोपपत्तेः । कर्मणि षष्ट्या अपि कारकविशेषविहितत्वेन कारकविभक्तित्वस्याप्यभ्यु- पेतत्वेनालंपदयोगनिमित्तविभक्तेः केवलोपपदविभक्त्वेिन ताद्वाधकत्वोपपत्तेश्च । पदान्तर- परामर्शसापेक्षत्वेनेति ; उक्तं च – “ सूक्तवाके च कालविधिः परार्थत्वात् " इत्यत्र तृतीये सूक्तवाकेन प्रस्तरं प्रहरति तृतीया इत्थंभूतलक्षणे भविष्यतीति पूर्वपक्षे सर्वत्र रङ्गत्वात् सूक्तवाकस्य प्रस्तरप्रहरणक्रियायां कारकत्वेन इत्थंभूतलक्षणाश्रयणे तु न कारकत्वेन संबन्धः सिध्येत् ; न च लक्षणक्रियायां करण- त्वेनान्वयो युक्तः, सूक्तवाकेन लक्षितं प्रस्तरमिति लक्षणक्रियाया वाचकपदाभावेन तद्वाचकपदान्तरसापेक्षत्वात् ; तस्मान्नेत्थंभूतलक्षणे तृतीया ; अपितु करणे तृतीयैवेत्युक्त- रीत्या उपपदविभक्तेः कारकविभक्त्यपेक्षया दुर्बलत्वादिति । अमुख्यत्वं तु परिहृतमिति ; का नः क्षतिरिति परिहृतमित्यर्थः । पुरुषोत्तमशब्दस्य रूयेति ; यद्यपि यौगिकार्थ- * 66

इत्यत्र सूक्तवाकेनेति क्रियाकारक संबन्धस्यान्त- संबन्धो वक्तुमुचितः ; (१–१–१) भावप्रकाशिका ११५ स्यातिप्रसक्तौ समुदायशक्तिलक्षणरूढ्यभ्युपगमः ; न तु शचीपतिवाक्पतिश्रीवत्सवक्षः- प्रभृतिषु प्रोद्गात्रहीनधार्यादिशन्देष्विव रूढिरभ्युपगन्तव्या; तथापि पुरुषोत्तमशब्दस्य नारायणपर्यायतया पाठात् समानप्रवृत्तिनिमित्तत्वमभ्युपगम्योक्तं द्रष्टव्यम् । चेतनवैलक्षण्य- मुक्तमिति ; यद्यप्युत्तमशब्दस्योद्गतार्थावाच्युपसर्गात् ससाधनक्रियावचनात्तमप्प्रत्यये त्वाश्रयतया निष्पन्नस्य न वैलक्षण्यमात्रमर्थः ; अव्युत्पत्तिपक्षेऽपि न वैलक्षण्यमर्थः, वैलक्षण्यमात्रेणोत्त- मशब्दप्रयोगाभावात् ; अत एव " स्वेतरवैलक्षण्यं तृणादेरप्यस्ति " इति ग्रन्थोऽपि न युक्तः ; तथापि " अक्षरादपि चोत्तमः" इति प्रमाणानुसारेण पञ्चमीसमासस्य वा “ सप्तमी " इति योगविभागात् सप्तमीसमासस्य वा आश्रयणीयतया " यतश्च निर्धा- रणम् " " पञ्चमी विभक्ते " इति सूत्राभ्यामेव पञ्चमीसप्तम्योर्विधेयत्वेन निर्धारणस्यावश्य- कत्वान्निर्धारणस्य च वैलक्षण्यापरपर्यायपृथक्करणवाचित्वाद्वैलक्षण्यमर्थ . इत्येतदभिप्रेत्यै- तदुक्तमिति द्रष्टव्यम्। प्रतिपादनोपयोगितयेति ; पुरुषोत्तमस्य निर्दोषत्वकल्याणगुणाकर- निरतिशयबृहत्त्वरूपप्रवृत्तिनिमित्तं संभवतीति प्रतिपादनार्थमित्यर्थः । न तु प्रवृत्तिनिमित्ततयेति ; ततश्च ब्रह्मशब्दस्य बृहत्त्वव्यतिरिक्तं स्वभावतो निरस्त - दोषत्वमपि प्रवृत्तिनिमित्तान्तरमिति न भ्रमितव्यमिति भावः । अर्थसामर्थ्यमाह - मुमुक्षो- रशेषदोषेति । वाङ्मनसागोचरतयानवाधिकत्वमुक्तमिति ; ननु ब्रह्मगुणानां सर्वाति- शायितया अतिशयस्य सर्वावधिकत्वेन कथमनवधिकत्वम् ? इन्द्राद्यानन्दातिशयो हि मनुष्या- नन्दावधिकः, ब्रह्मानन्दातिशयो हि मनुष्यादिप्रजापत्यन्तसर्वानन्दावधिकः ; अत एव सर्वेषा - मवधित्वात् सर्वेभ्योऽतिशयित इत्यवध्यर्थः पञ्चमीति चेत् — न; अवधिशब्दस्येयत्तार्थक- त्वात् ; ततश्च ब्रह्मानन्दातिशयोऽपरिच्छिन्न इत्यर्थः । यद्वा स्वसमानाधिकरणापकर्षावधि- शून्यत्वमेवानवधिकत्वम् ; स्वशब्देनोत्कर्षः परामृश्यते; इन्द्रानन्दादिगतस्य देवाद्यानन्दा- पेक्षयातिशयस्य बृहस्पत्यानन्दावधिकापकर्षसमानाधिकरणतया स्वसमानाधिकरणापकर्षा- वधिमत्त्वम् ; ईश्वरगुणनिष्ठोत्कर्षस्य तु स्वसमानाधिकरणापकर्षाभावेन तादृशावधिशून्यत्व- मिति विशेषात् । अथवा इतरेषामतिशयस्य देवमनुष्याद्यवधिसापेक्षत्वेन सावधिकत्वम् । ईश्वर- विषये तु उपपदादिनिरपेक्षतया ‘अतिशयितः’ इति प्रत्ययप्रयोगयोर्दर्शनात् तद्गतातिशयस्या- वधिप्रतीत्यधीनप्रतीतिकत्वाभावेन निरवधिकत्वम् ; अत एव ’ अयोध्येश्वरः, मिथिलेश्वरः " इतीतरत्रैश्वर्यस्य निर्देशः, ईश्वरविषये तु मर्यादोपन्यासमन्तरेण ‘ईश्वरः’ इत्येव प्रतीतिप्र-

११६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) . • योगौ । अत एव " शब्दादेव प्रमितः " इत्यत्र ईशानपदस्यैव निरपेक्षस्य परमात्मप्रति- पादकत्वं, न तु प्रतिसंबन्धिसापेक्षस्येति श्रुतित्वमुपपादितम् । 66 C मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ॥ इत्यभियुक्तोक्तेश्च । अन्तर्भावाभिप्रायो गणशब्द इति ; एकस्यैव सत्यसंक- ल्पत्वादेर्गुणगणत्वे सत्येव तस्य वक्ष्यमाणरीत्या तद्विशेषणभूतम संख्येयत्वमुपपद्यते ; इतरथा सर्वेषां गुणानां गण एक एव स्यादित्यसंख्येयत्वविशेषणमनन्वितं स्यात् । इदं च " नन्वन वधिकातिशयशब्दस्य गणविशेषणत्वे " इत्यादिग्रन्थेनाक्षेपसमाधानाभ्यां व्यवस्थाप्यमान- मनवधिकातिशयत्वस्यासंख्येयत्वस्य च कल्याणगुणगणविशेषणत्वं सिद्धवत्कृत्योक्तमिति द्रष्टव्यम् । सामानाधिकरण्याभावाद्बहुव्रीहिर्न स्यादिति ; " समानाधिकरणानां बहुव्रीहिरिष्यते " इत्यनुशासनादिति भावः । तद्न्तर्गतानामेवेति ; अत्र दृष्टान्तदाष्ट - न्तिकयोरयं विशेष: दृष्टान्ते श्रुतशीलादिकं समूहिगतमेव ; दाष्टन्तिके त्वनवधिकाति- शयत्वं श्रुत्यर्थाभ्यामुभयान्वितं प्रतीयत इति । ततो निर्गतानामिति ; इदमुपलक्षणम् ; श्रुतशीलादेः समूहान्वथित्वे तदन्तर्गतानां समूहिनां श्रुताद्यभावप्रसङ्ग इत्यपि द्रष्टव्यम् । श्रुताद्यभावप्रसङ्गादिति ; श्रुताद्यन्वयप्रतीतिर्न स्यादित्यर्थः । भगवद्गुणापेक्षया साति- शयत्वादिति ; भगवद्गुणापेक्षया निकृष्टत्वादित्यर्थः । प्रतिज्ञातमर्थं शब्दसामर्थ्यादिति बृहतिधातोर्निष्पन्नस्य ब्रह्मशब्दस्य बृहत्त्वगुणयोगनिमित्तकतया प्रवृत्तिनिमित्त पौष्कल्यं यत्र तत्रैव मुख्यवृत्तत्वमित्युपपादयतीति भाष्यार्थ इति भावः । व्याख्यान्तरमाह — तत्रार्था- न्तरेष्विति । ब्रह्मशब्दप्रयोगविषयेषु सर्वेष्विति पुरुषोत्तमव्यतिरिक्तेष्विति शेषः । बृहत्त्रगुणयोगोऽस्तीत्यर्थ इति ; अतस्तत्र गौण इत्येतावत्पर्यन्तो वाक्यार्थः । अत ए पुरुषोत्तमे गौणत्वम्, अन्यत्र मुख्यत्वं च किं न स्यादित्याक्षेपग्रन्थसामञ्जस्यम् ; अन्यथा सर्वत्र बृहत्त्वगुणयोगेन हि " इति वाक्येनैव पुरुषोत्तमे मुख्यत्वप्रतिपादनस्यान्यत्र गौण- त्वप्रतिपादनस्य च पर्यवसिततया पुरुषोत्तमे गौणत्वमित्याक्षेपग्रन्थासामञ्जस्यात् ; " ततः किम् ? ’ इत्येवोत्तरग्रन्थस्यावतरणीयत्वात् । अस्मिन्पक्षे “सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः " इति भाष्यस्य पूर्वग्रन्थशेषत्वम् ; पूर्वस्मिंस्तु पक्षे उत्तरग्रन्थशेषत्वम् । अत ‘एव ‘सर्वत्रेत्यादिना’ इत्यादिशब्देनोपादानं कृतम् । यद्वा ततः किमित्येवावतारिका ; ’ तत: 66 ;


( १ – १ – १) भावप्रकाशिका ११७ 99 किम् ? ’ इत्यस्य हि तावता कथं तव पुरुषोत्तम एव मुख्यवृत्त्याभिधीयत इति प्रतिज्ञा- तार्थसिद्धिः ? विपरीतं किं न स्यात् ? इति ह्यभिप्रेतोऽर्थः । स एवार्थः पुरुषोत्तमे गौणत्व- मित्यादिग्रन्थेनोच्यत इति न दोषः, नापि व्याख्याद्वयाश्रयणमिति द्रष्टव्यम् । ब्रह्मगुणा- देरपीति, “बृहत्त्वाहूंहणत्वाच्च” इति प्रमाणानुसारेण द्वयमपि प्रवृत्तिनिमित्तमित्यभ्युपगमेन ब्रह्मगुणादौ नातिप्रसङ्गः । अवश्यं च तथाभ्युपगन्तव्यम् ; इतरथा ब्रह्मगुणादावतिप्रसङ्गस्य तादवस्थ्यात्, प्रवृत्तिनिमित्तस्य सत्त्वात् । न हि लाक्षादिरञ्जकद्रव्येण रक्तस्य स्वतश्च रक्तत्वाश्रयस्य जपाकुसुमादेरेवासंकोचात् रक्तपदवाच्यत्वं, न तु केवलजपाकुसुमादेरित्यस्ति ; नवा पर्वताश्रयस्यैव पर्वतस्य पर्वतशब्दवाच्यत्वं, न तु पर्वतानाधारपर्वतस्य, तस्य स्वरूपतः पर्वतत्वाश्रयत्वेऽपि धर्मतः पर्वतत्वानाश्रयत्वादित्यस्तीति चेत् —–न; " कस्मादुच्यते ब्रह्म इति “ बृहन्तो ह्यस्मिन् गुणाः " इति प्रमाणानुसारात् बृहद्गुणकत्वमेव प्रवृत्तिनिमित्तम् ; स्वरूपबृहत्त्वबृंहणत्वे अपि तत्रैवान्तर्गते इत्यत्रैव तात्पर्यात् । यद्वा गुणतो बृहत्त्वमित्यस्य न गुणगतबृहत्त्वमित्यर्थः, किं तु बृहद्गुणकत्वकृतः स्वरूपनिष्ठ एव माहात्म्यविशेषो ज्यायस्त्व- रूपः; अतः सर्वतो ज्यायस्त्वं बृहत्त्वम् ; तदेव ब्रह्मशब्दप्रवृत्तिनिमित्तमिति भावः । शब्दशक्तेरसंकोचस्येति ; ननु द्वयोरपि प्रवृत्तिनिमित्तत्वाभ्युपगम एव ब्रह्मशब्द शक्तेः संकोचः, गुणतो बृहत्त्वस्य ब्रह्मगुणादिव्यावर्तकत्वादिति चेत्–न; न ह्यत्र शब्दशक्तेरित्यत्र ब्रह्मशब्दशक्तेरित्यर्थः ; अपितु " बृहन्तो ह्यस्मिन् गुणाः " इति ब्रह्मशब्दप्रवृत्तिनिमित्त- प्रतिपादकवाक्यगतगुणशब्दशक्तेरित्यर्थः । यद्वा ब्रह्मवत् प्रवृत्तिनिमित्तस्यापि शक्यत्वात् तत्र बृहत्त्वविशेषरूपप्रवृत्तिनिमित्तस्यैव शक्यत्वमित्युक्तेः संकोचप्रसङ्ग इत्यर्थः । न च द्वयोरपि शक्यत्वे शक्यव्यक्तिसंकोचप्रसङ्गः, प्रयोगाभावेन व्यक्तिसंकोचस्य प्रागेव सिद्धत्वेनै- तदधीनत्वाभावात् । तस्मात् ब्रह्मण इति ; ननु तस्मादित्यस्य सर्वेश्वरादित्यर्थो वक्तुमु- चितः, ‘ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः’ इति पूर्ववाक्ये तत्रैवेति तच्छब्देन सर्वेश्वरस्यैव निर्दिष्ट- त्वात् ; तत्र ब्रह्मणः परामर्शे अप्रसक्तप्रतिषेधापत्तेः, न हि ब्रह्मशब्दस्याब्रह्मणि मुख्य- वृत्तत्वं प्रसक्तम्, येन तन्निषेधः सफलः स्यादिति चेत्; उच्यते तस्मादित्यस्य ब्रह्मण इति नार्थकथनम्, अपितु शेषपूरणम् । अयमभिप्रायः – स्वरूपेण गुणैश्वानवधि कातिशय- शालिनः सर्वेश्वरस्य ब्रह्मत्वं सिद्धम् ; इतः परं तस्मादपि ब्रह्मणोऽन्योऽपि ब्रह्मपद मुख्यार्थ इति स्वीकारे अनेकार्थत्वं स्यादिति । केचित्तु ब्रह्मणः ; निरवधिकवृहत्त्वशालिन इत्यर्थः ;


CC-0 No Rights Reserved. Digitized by eGangotri११८ श्रीभाष्यम्- (जिज्ञासाधिकरणम्) पूर्ववाक्ये ‘तत्रैव’ इत्यत्र तच्छब्देनापि निरतिशयबृहत्त्व शाल्येव परामृश्यते, न तु सर्वेश्वरः । तथा “ तद्गुणलेशयोगात् ” इत्युत्तरत्रापि बृहत्त्वगुणलेशयोगादित्येवार्थ इत्याहुः । अस्मिन्पक्षे " स च सर्वेश्वर एव; अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः " इत्ययमंशो व्यर्थः । नन्वितरत्र प्रयोगस्यौपचारिकत्वे स प्रयोगः सार्वत्रिकः किं न स्यादित्याशङ्क्य औपचारिकस्यापर्य- नुयोज्यत्वान्न सार्वत्रिक इत्याह – औपचारिकस्त्विति । ननु 66 एकदेशेऽपि यो दृषः शब्दो जातिनिबन्धनः । तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता | 99 इति बर्हिराज्याधिकरणन्यायेनाव्यभिचारात् बृहत्त्वस्यैव प्रवृत्तिनिमित्तत्वे नानेकशक्ति- कल्पनागौणत्वादिदोषः ; त्र्यणुकादिषु ब्रह्मशब्दाप्रयोगस्य बृहच्छब्दाप्रयोगवदसंस्कृत- तृणादिष्वार्याणां बर्हिःशब्दाप्रयोगवच्चोपपत्तिः ; " परं जैमिनिर्मुख्यत्वात् " " स्याच्चे- कस्य ब्रह्मशब्दवत् ” इत्यादौ ब्रह्मशब्दस्य परमात्मनि मुख्यत्वव्यवहारस्तु ब्रह्मगतबृहत्त्वस्या- वधिप्रतीत्यधीनप्रतीतिकत्वाभावेनावधिप्रतीत्यधीनप्रतीति केतरबृहत्त्वापेक्षया शीघ्रधीस्थत्वात् " मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः " इति न्यायेनोपपद्यते । । न हि नरेश्वर- शब्दः स्वभार्यापुत्रादिस्वामिनि प्रयुज्यते, न वा केवलेश्वरशब्दः पृथिवीश्वरादावपि प्रयुज्यत इत्येतावता स्वामित्वं प्रवृत्तिनिमित्तमपहाय निरङ्कुशेश्वरत्वमेव तस्य प्रवृत्तिनिमित्तमिति शक्यते वक्तुमिति चेत् —- मैवम् ; तथाहि सति गोशब्दस्यापि ’ गच्छति’ इति व्युत्पत्त्या " गमेर्डोः " इति व्युत्पन्नतया गन्तृत्वमेव प्रवृत्तिनिमित्तम्, इतरत्राप्रयोगस्तु बर्हि राज्यादि - शब्देष्विवोपपन्नो न तस्य गन्तृविशेषे रूढिं कल्पयतीति स्यात् । यदि च नियमेनेतर- त्राप्रयोगेण विशिष्य सास्नादिमति रूढिं कल्पयित्वा इतरस्यावाच्यत्वं कल्प्यते, तत्प्रकृतेऽपि समानमिति दिक् । केचित्तु — बृहत्त्वस्य प्रवृत्तिनिमित्तत्वमभ्युपगम्य तत्पौष्कल्यस्यैव भगवति समर्थनात् बृहत्त्वमेव प्रवृत्तिनिमित्तम् ; न हि प्रवृत्तिनिमित्त- पौष्कल्यं प्रवृत्तिनिमित्तम् ; ततश्च नावयवार्थव्यतिरिक्त रूढघर्थस्वीकारः सिद्धान्ति- संमत इति वदन्ति । औपचारिकभगवच्छब्दप्रयोग योग्यीष्वति ननु “स बाच्यो भगवानिति " इति वाच्यत्वेनोक्तानां वसिष्ठादीनां कथमौपचारिकभग- वच्छब्दप्रयोगयोग्यत्वकथनमिति चेत् — न; त्वद्रीत्या औपचारिकभगवच्छब्दप्रयोग- योग्यानामित्यर्थः । ननु खाण्डिक्यादिषु सार्वत्रिकभगवच्छब्दप्रयोगाभावो न स्व- ;

(१ – १ – १) श्रुतप्रदीपिका ११९ ध्यवसाय इत्यस्वरसादाह– किं च प्रत्यक्षमूलेति । आगममूलव्युत्पत्त्येति : ननु " उत्पत्तिं प्रलयं च " इत्ययमप्यागमो भवत्येवेति तन्मूलया व्युत्पत्त्या वसिष्ठादिष्वपि मुख्यत्वं किं न स्यात् ? " ज्ञानशक्तिबलैश्वर्य " इति श्लोकेऽपि " अशेषतः" इति सर्वेषा- मपि प्रवृत्तिनिमित्तत्वमुच्यते, न तु मिलितानाम् ; तथाहि सति ’ वाच्यानि ’ इति बहुवचनं न स्यात् । अत एव ज्ञानादिषु षट्सु प्रवृत्तिनिमित्तेषु कथितेषु ’ अत्यल्पमिदमुच्यते ’ इति पर्यालोच्य " विना हेयैर्गुणादिभिः " इति ज्ञानादिभिन्नानामपि हेयव्यतिरिक्तानां शुभानां गुणानां सर्वेषां प्रवृत्तिनिमित्तत्वमुच्यते, “यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ” इतिवदिति चेत् —– -न ; " भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने । 99 इत्याद्युपबृंहणानुगुण्यात् केवलस्य भगवच्छब्दस्यान्यत्राप्रयोगाच्चेति भावः । अत एव हि पुरुषोत्तमोऽभिधीयत इत्युक्तमिति ; यद्यपि " तमेवं विद्वान् ” इति वाक्ये पूर्वत्र " वेदाहमेतं पुरुषम् " इति महान् पुरुष एव प्रस्तुतो न पुरुषोत्तमः, तथापि तयोरेकार्थपर्यव- सानमभिप्रेत्योक्तमिति द्रष्टव्यम् । “अतः सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्रह्म” इति वाक्य- गतस्यातः शब्दस्य तापत्रयातुरजिज्ञास्यत्वरूपार्थसामर्थ्यमात्रेण संकोचकल्पने प्रमाणाभावा- ‘दाह - यद्वा अत इति । ‘अतः ’ इति व्याख्येयं पदम् । अव्युत्पन्नोव्युत्पन्नो वा भगवति मुख्य इति । गृहीतसंगतिक इत्यर्थः । मुख्यया वृत्त्या भगवत्प्रतिपादक इत्यर्थः । बुद्धिपूर्विकेति; बुद्धिपूर्विका व्युत्पत्तिर्मातापित्रादिभिरङ्ङ्गुलिनिर्देशपूर्वकमम्बातातमातुलादिषु यत्र व्युत्पत्तिर्ग्राह्यते तत्र ; यादृच्छिकव्युत्पत्तिस्तु ‘घटमानय’ इति वाक्यश्रवणात् प्रयोज्य- प्रवृत्तिमुपलभ्य यत्र व्युत्पत्तिर्गृह्यते तत्रेति द्रष्टव्यम् । इदं चाधिकरणनिरूपणे स्पष्टं भविष्यति । यूपाहवनीयेति; अत्र कपालशब्दः संपातायातः, तस्य लौकिकत्वात् । श्रुतप्रदीपिका अथैकपद्य हेतुभूतसमासार्थं निरूपयन् विभक्तयन्तरव्यावृत्त्यर्थं व्यस्य निर्दिशति


ब्रह्मण इति । पञ्चमीमर्थान्तरशङ्कां च व्यपनुदन्नाह - ब्रह्मण इतीति । कुत इत्यत - आह— कर्तृकर्मणोः कृतीति । कर्मले सति विषयत्वं प्रयोजनत्वं च सिध्येदिति

.१२० श्रीभाष्यम् (जिज्ञासाधिकरणम्) 6 भावः । सामान्यविध्यपेक्षया प्रतिपदविधेर्बलीयस्त्वेऽपि प्रतिपदे समासनिषेधात् परंप- रासंबन्धस्यापि संबन्धसामान्यान्तर्भावेन ब्रह्मानुबन्धिनामुपायादीनामपि जिज्ञास्यत्वसिद्धेः सामर्थ्यात् ब्रह्मणः कर्मत्वाक्षेपाच्च सामान्यपरत्वमाशङ्क्याह — यद्यपीति । • परिग्रहे- sपि ’ इत्यत्र परिणा अनुबन्धिनां जिज्ञास्यतासिद्धिद्यतिता । कर्मार्थत्वासिद्धि: ; षष्ठया इति शेषः । आभिधानिकस्यैव ग्राह्यत्वादिति ; उपपदविभक्तिरपि कारकविभक्ति- वत् ‘“ कर्मणि द्वितीया ” इत्यादिवत् “ कर्तृकर्मणोः कृति इत्यादिशब्दानुशासनस्वार- स्यादर्थवतीति भाष्यकाराभिप्रायः । एवकारेण विलम्बितधीहेत्वपेक्षया शीघ्रधीहेतोर्बलीय- स्त्वमभिप्रेतम् । प्रधानस्याप्रधानानां च कर्मत्वाक्षेपादपि प्रधानस्याभिधानिकत्वमितरे- पामाक्षिप्तत्वं च युक्तमित्यर्थः । समासनिषेधमाशङ्क्य परिहरति न चेति । प्रति- प्रसवोऽपवादापवादः । अप्रयुक्तविभक्तेरनभिधायकत्वेऽप्यनुशासनाधीनलक्ष्यार्थविशेष- निर्णयाय षष्ठी व्याख्याता । प्रातिपदिकेन विभक्त्यर्थलक्षणायां तु न केवलं योग्य- तादि कारणम्, अनुशासनं चांपेक्षितमिति तदनुसारेण व्याख्यातम् । अथ समस्तयोः पदयोः प्रथममनेकार्थसाधारण्येन प्रसिद्धेः परैरन्यथा व्याख्यातत्वाच्च संशयविपर्ययौ स्त इति तद्युदासाय व्याचष्टे—ब्रह्मेति । " परीत्य लोकान्" इति श्रुत्यनुसारेण पुरुषो- तम इत्युक्तम् । स्वेतरचिदचिद्विलक्षणत्वं तच्छब्दार्थः । स्वेतरान्यत्वं तृणादेरप्यस्तीति तद्व्यावृत्त्यर्थमुभयलिङ्गत्वेन वैलक्षण्यमाह – स्वभावत इत्यादिना । निखिलेति बद्धादि व्युदासः । स्वभावत इति मुक्तव्यावृत्तिः । सावधिकातिशयनित्यव्युदासायानवधि- कातिशयशब्दः । प्रत्येकं तादृशा गुणा असंख्येयाः । एकस्य गुणस्य विधाभेदरूप- गुणपुञ्जाभिप्रायो गणशब्दः । सत्यसंकल्पत्वान्तर्भूता हि वशित्वादयः । अभिधीयते ; मुख्यवृत्त्या बोध्यते । शब्दसामर्थ्यादर्थ सामर्थ्यवशाच्च भगवत्परत्वं वक्तुं प्रथमं शब्दसा- मर्थ्यमुपपिपादयिषुरन्यत्र गौणत्वं हृदि निधाय ब्रह्मशब्दस्य गुणयोगतः प्रवृत्तत्वमाह - सर्वत्रेति । सर्वत्र प्रयोगेषु विषयेषु । ततः किमित्यत्राह — बृहत्त्वं चेति । अन्य- स्यापि किं न स्यादित्यत्राह — स चेति । चः शङ्कानिवृत्तौ । कथमेवकारः ? अन्यत्रापि हि प्रयुज्यत इत्यत्राह — तस्मादिति । सर्वेषां मुख्यत्वं किं न स्यादित्यत्राह — अनेकेति । अनन्यथासिद्धप्रयोगो हि शक्तिकल्पकः । अत्र त्वन्यथासिद्ध इति भावः । नात्रा- नेकशक्तिकॢप्तिप्रसङ्गः ; न चान्यत्रामुख्यत्वम् ; एकयैवावयवशतया सर्वत्र मुख्यत्वादित्य-

(१ – १ – १) त्राह - भगवदिति । नयप्रकाशिका श्रुतप्रदीपिका १२१ पङ्कजशब्दस्योत्पलादिव्यावृत्ततामरसानुवृत्तपद्मत्ववत् प्रयोग- विषयानुगततदविषयव्यावृत्तप्रवृत्तिनिमित्ताभावेनानेकशक्तिकल्पने प्राप्ते प्रयोगस्यान्यथा- सिद्धत्वात् पुष्कलप्रवृत्तिनिमित्त एवं विषये मुख्योऽन्यत्रामुख्यश्च यथा भगवच्छब्दो निर्णीतस्तथा ब्रह्मशब्दोऽपीत्यर्थः । अथार्थसामर्थ्यमुपपादयति – तापेति । न हि कारागृह- निगलितो निगलान्मोचनाय याच्यः ; किंतु यच्छासनान्निगलनं तन्निवृत्तौ स एवेत्यभिप्रय - न्ती " तमेवम्" इत्यादिश्रुतिरनुत्रियते । निगमयति — अत इति ; अतः शब्दवशादर्थव - शाच्चेत्यर्थः । 1 नयप्रकाशिका " ’ ब्रह्मणो जिज्ञासा’ इत्यारभ्य ’ विधीयते ’ इत्यन्तेन भाष्येण ब्रह्मणो ज्ञानं प्रति प्राधान्यं प्रसाध्यते । तच्च ब्रह्मण ईप्सिततमत्वप्रसाधनद्वारा कर्मत्वप्रसाधनात् ; ईप्सिततमं हि कर्म भवति, “ कर्तुरीप्सिततमं कर्म " इति स्मृतेः । ईप्सिततमत्वमेव हि प्रधानत्वम् । ’ यद्यपि संबन्धसामान्य’ इत्यादिभाष्ये ब्रह्मेतिशब्दस्य कर्मार्थत्वेन ननु — तत्र च कर्मत्वस्याभिधेयत्वमभिमतमिति प्रतीयते ; तदनुपपन्नम् समासान्तर्गतविभत्तयर्थस्यानभिधे- यत्वात् ; तच्च तत्र विभक्तेरश्रवणात् । विभक्त्यर्थबुद्धिस्तु तत्र लक्षणया प्रातिपतिकादेव । संबन्धानुपपत्तिर्हि लक्षणाबीजम् । असमस्तपदेषु विभक्तिदर्शनात् समासे तदश्रवणात् प्रातिपदिकस्य विभक्त्यर्थलक्षकत्वमुपपन्नम् । अतोऽनभिधेयत्वसाम्यादाक्षिप्तकर्मत्वपक्षादितर- पक्षस्य न वैषम्यम् इति चेत् — न ; तत्र ’ आभिधानिकस्य’ इति पदस्य कर्मत्वस्य शाब्दत्वमात्रपरत्वात् । लाक्षणिकार्थस्यापि शाब्दत्वमस्ति, शब्दादेव तदर्थप्रतीतेः । लाक्ष- णिकेतरपदानां तु लक्ष्यार्थान्वितस्वार्थाभिधायकत्वं हि लोके ’ वटे गावः ’ इत्यादौ- दृश्यते । लक्ष्यार्थस्य वाच्यत्वं तु नास्ति, तद्वाचकशब्दाभावात् । आक्षिप्यमाणकर्मत्वस्य तु न शब्दार्थत्वम् ; संबन्धमात्रपरषष्ठीसमासाश्रयणे वाक्येनान्वितार्थपरिज्ञाननिश्चये जिज्ञासार्थसामर्थ्याद्धि तस्य कर्मत्वेन संबन्धः । " अनन्यलभ्यः शब्दार्थः, यस्त्वार्थो न स चोदना " इति हि प्रसिद्धिः । ननु विभक्तीनामनेकत्वेऽपि समासे प्रतिनियतविभक्त्यर्थ- स्वीकार हेतुः क इति चेत्, तत्रान्वययोग्यतानुरूपाणिनिस्मृतिरेवेति ब्रूमः । स्मर्यते हि 16


१२२ श्रीभाष्यम्


(जिज्ञासाधिकरणम्) समासे विभक्तिस्तल्लोपश्च । अतस्तद्भाष्यं युक्तम् । ननु – त्रह्मशब्दस्य परमात्मनि मुख्य- त्वमन्यत्र गौणत्वं च भाष्य उक्तम् ; तदयुक्तम्, ब्रह्मशब्दवाच्यानां सर्वेषां बृहत्त्वादिगुणयोगाविशेषेऽपि परमात्मन एव मुख्यार्थत्वमित्यत्र प्रमाणाभावात् । न च परमात्मनो बृहत्त्वातिशयान्मुख्यार्थत्वमिति वाच्यम्; क्लृप्तशक्तिप्रतियोगित्वस्यैव मुख्य- त्वप्रयोजकत्वेन बाहुल्यादेरप्रयोजकत्वात् । न हि ‘वह्निर्माणवक:’ इत्यादौ पैङ्गल्य- शुद्धयादिगुणातिशययोगेऽपि माणवकस्याग्निशब्द मुख्यार्थत्वम् । अग्न्यादिशब्दस्य ज्वल- नाद्यर्थपरत्वनिश्चये हि माणवकादेर्गौणार्थत्वनिश्चयः ; इह गुणयोगाविशेषान्न कस्यचिन्मुख्य- त्वनिश्चयं इति चेत् —न; ब्रह्मशब्दस्य तावदेकत्र वाचकत्वशक्तेः कल्प्यत्वात् ; बृह- दादिशब्दस्य हि निरतिशयबृहत्त्वादिपरत्वस्यैव युक्तत्वात् । बृहदिति पदस्य बृहत्त्वादि- परत्वेन व्युत्पन्नस्य सावधिकबृहत्त्वपरत्वे प्रमाणाभावान्निरतिशय एव शक्तिः । बृहदित्युक्ते निरवधिकवृहत्त्वमेव प्रथमं प्रतीयते । आपेक्षिकवृहत्त्वप्रतीतिस्तु प्रमाणान्तरत इति सा गौणी । ब्रह्मशब्दस्यापि निरतिशयबृहत्त्वादिगुणयोगी मुख्योऽर्थः । जीवादौ च तच्छब्द- प्रयोगे तस्य निरवधिकबृहत्वाद्यभावस्य प्रमाणान्तरतः सिद्धेर्बृहत्त्वादिसादृश्यलेशमात्रात्तच्छब्द- प्रवृत्तिः । एवं चैकस्य ब्रह्मशब्दस्यानेकशक्तिकल्पनाभावलाभश्च, गौणमुख्याधिकरणनयात् । तथाहि–" अर्थाभिधान ” इत्यत्रदर्शपूर्णमासयोः " बर्हिर्देवसदनं दामि" इत्यादिलिङ्गविनियो ज्या मन्त्रा मुख्ये गौणे च विनियुज्यन्ते, उत मुख्य एवेति ; तदुपद्धाततया गौणी नाम वृत्ति र्नास्ति, उत अस्तीति संशयः । ’ अग्निर्माणवकः’ इत्युक्तेरनिशब्दश्रवणानन्तरं पैङ्गल्या- द्यर्थप्रतीतेरन्वयव्यतिरेकाभ्यामग्न्यादिशब्दस्य पैङ्गल्यादिष्वपि शक्त्यवगमादविशेषाच्च गौणी- नाम वृत्तिर्नास्तीति पूर्वः पक्षः । क्लृप्तशक्त्या मुख्यार्थसादृश्यनिमित्ततया पैङ्गल्यादेर्माणव- केऽग्निशब्दप्रयोगस्योपपत्तेः शक्त्यन्तरकल्पनायां प्रमाणाभावात् गौणी वृत्तिरप्यस्तीति सिद्धान्तः । एवं स्थिते गौणमुख्ययोरुभयोः शाब्दत्वाविशेषादुभयत्र तन्मन्त्रा इति पूर्वपक्षः । प्रथमावगत मुख्यविनियोगादेव मन्त्रान्नानस्य चरितार्थत्वात् व्यवहितगौणविनियोगे प्रमाणा- भावान्मुख्य एवेति राद्धान्त इति । तापत्रयातुरैरिति भाष्येण च मुमुक्षोर्जीवस्य न ज्ञेयत्वे- नाम्वययोग्यत्वम्, किंतु परमात्मन एवेत्युच्यते । अतो ब्रह्मशब्दे परमात्मन एव वाच्यत्व- कल्पनं नान्येषाम् | अक्षादिशब्दानां त्वगत्यानेक शक्तिकल्पना । CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) तत्त्वटीका " वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ॥ यस्मिन्प्रयुज्यमाने तु गुणयोगः सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः || ” १२३ इत्यादिस्मृतिस्तु न्यायसिद्धार्थकथनमात्रपरा ; न तु मुख्यार्थविशेषनिश्चयप्रतिपादन- परा; मुख्यत्वादेः स्मृत्यनियाम्यत्वात् । अत एव हि गुणयोगादित्यादिहेतुनिर्देशः । तथा " तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण ह्यन्यत्र छुपचारतः ॥ " इति स्मृतिरपि भगवच्छब्दस्य परमात्मनि मुख्यवृत्तत्वनियमपरा । पूर्वत्र भगव- च्छब्दस्यावयवशः समुदायेन चार्थमुक्त्वा परमात्मनि मुख्यवृत्तत्वाभिधानात् तादृशार्थयो- गित्वस्य परमात्मन एव संभवादन्यत्रासंभवात् भगवच्छब्दवाच्यत्वमिति न्यायसिद्धपरत्व- मेव । अतः सर्वेश्वरो जिज्ञासाकर्मभूतमितिः यतः स्वभावतो हेयप्रत्यनीकतादिगुणयोगी परमात्मैव ब्रह्मशब्दार्थः, अत ईप्सिततमत्वेन ज्ञानं प्रति कर्मभूत इत्यर्थः । तत्त्वटीका 1 तृतीयपदेऽपि वृत्तेरनेकधा संभवे विशेषव्यत्तत्यै विगृह्णाति — ब्रह्मणो जिज्ञासेति । अत्र हि व्यासस्तावन्न घटते, जिज्ञासानन्वयात्; अत एव न कर्मधारयः, सामानाधि- करण्यार्हत्वेऽपि विशेषणविशेष्यव्यत्यासात्, विवक्षितानुपयोगाच्च । द्वितीया तु कृद्योगापो- दिता । ब्रह्मणः सर्वहेतुतया तृतीयासमाससम्भवेऽपि विषयाद्युक्तिर्वृत्तविशेषाक्षेपश्च न स्यात् । तादर्थे चतुर्थ्यास्त्विह समासः प्रतिषिद्धः, “ तादर्थ्यासमासे प्रकृतिविकृतिग्रहणं “कर्तव्यम्” इति कात्यायनोक्तेः । आहुश्च- । 66 " प्रकृत्या विकृतिर्यस्माच्चतुर्थ्यन्ता समस्यते 1 तादर्थ्ये यूपदार्थादौ तेनास्मिन्न समासता ॥” इति । तथा न संप्रदानत्वमपि, ब्रह्मणः संप्रदानत्वाभावात् । सप्तमीसमासेऽपि विषयत्वमात्रं

१२४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) सिध्येदिति भावः । तदिह पञ्चमीमर्थान्तरशङ्कां च वारयति – ब्रह्मण इति कर्मणि षष्ठीति । उक्तं ह्याचार्यैः, 66 असूत्रस्थापि षष्ठीयं समासग्राह्यभावतः । विभक्त्यर्थस्य सांनिध्याद्व्याख्यातुमिह युज्यते ॥ " इति । 99 अपादानादिः पञ्चम्यर्थो वाक्यानन्वितः, अध्याहारसापेक्षश्च । प्राधान्येन कर्तृत्वा- नुपपत्तिः " तद्विजिज्ञासस्व इत्यादिकमनुसरता ’ ब्रह्मण:’ इत्यनेनैव सूचिता । न हि मुख्यं ब्रह्म स्वमन्यद्वा जिज्ञासेत, स्वतः सर्वदर्शित्वात् । उक्तं च न्यायतत्त्वे- यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः इति । किंचिज्ज्ञस्तु कर्ता न वक्तव्यः, अधीत- वेदस्य तदर्थं निर्णिनोषोरादितः प्रभृत्यनुवृत्तेः । कर्मत्वोक्तावीप्सिततमतया प्राधान्येन विषयत्वं प्रयोजनत्वं च सिध्येत् । अतः सदपि स्वस्वामिभावाद्यत्र न वक्तव्यमिति भावः । तथाप्यस्तु सामान्यतः प्राप्ता शैषिकी षष्ठी; विशेषस्त्वौचित्यलब्धेरवाच्य इत्यत्राह - कर्तृकर्मणोरिति । संबन्धविशेषेऽपि षष्ठीविधौ सिद्धे साकाङ्क्षसूत्रोक्तात् निराकाङ्क्षसूत्रोक्तं युक्तम् । तत्र विशेषयोर्विधिसाम्येऽपि कर्तुः सकर्मकाकर्मकसाधारण्यात् इह च कर्थत्वायो- गात् असाधारणाकाङ्क्षिततमकर्मोपस्थापनमुचितमिति भावः । ननु किमर्थलभ्ये शब्दव्या- पारेण ? न चैवं प्रतिपदानुशासनवैयर्थ्यम्, तस्य कर्मादिविवक्षायामपि द्वितीयानिषेधेन षष्ठीसाधुत्वे तात्पर्यात् ; अतो विशेषविधिर्न शैषिकषष्ठीमपवदेत् । तद्ग हे च व्यवहित- संबन्धस्यापि तदन्तःस्थितेर्ब्रह्मानुबन्धिनामुपायादीनामपि जिज्ञासासंबन्धात् तत्कर्मत्वस्य चार्थसिद्धेः कृत्स्नशारीरकार्थविचार्यत्वसूचनमधिकं प्रयोजनमित्यत्राह - यद्यपीति । परिग्रहः, परितो ग्रहः सानुबन्धग्रहणम् ; उत्तरग्रन्थे तु गृह्यते इत्युक्त्या अनुबन्धिसंबन्धस्याशाब्दत्व- मात्रमभिप्रेतम् । कर्मापेक्षत्वेन सकर्मकतया प्रथमं कर्माकाङ्क्षा जननस्वाभाव्यात् । कर्मार्थ– त्वसिद्धिर्नाम कर्तृत्वव्युदासेन षष्ठ्याः कर्मास्यविशेषेऽर्थतः पर्यवसानम् । परप्रत्यायनार्थे प्रयोगे विलम्बितधीहेतुर्न ग्राह्य इत्यभिप्रायेणाह - स्थापीति । न ह्यत्रार्थलभ्ये शक्तिकॢप्तिः, किं त्वाक्षेप्याद्वरं क्लृप्तशक्तिकशब्दोक्तमित्युच्यते । ननु ’ आक्षेपतः’ इत्युक्तमयुक्तम्, आक्कृत्यधिकरणनीत्या सामान्यशक्तेः विशेषपर्यन्तत्वस्य वक्ष्यमाणत्वात् । मैवम् ; साहि विशेषमात्रमुपादत्ते, न कर्मत्वादिकम् ; न हि गोशब्दशक्तिर्विशेषतः खण्डत्वादि गृह्णाति । न चात्राभिधानिकग्रहेऽप्यनुबन्धित्याग इति भ्रमितव्यम्, सामान्यतो धीस्थानुबन्धिविष- ;

(१ – १ – १) तत्त्वटीका १२५ यत्वात् सर्वत्र जिज्ञासायाः । एवमप्याक्षेपः स्वीकृत इति चेत् ; सत्यम् ; अन्यतरकर्मत्व- स्यापि शाब्दत्वमुभयकर्मत्वाक्षेपावरम्, किमुत प्रधानांशकर्मत्वस्याक्षेपात् ; एवकारः शीघ्र- धीहेतोर्बलीयस्त्वं व्यनक्ति । कथं ब्रह्मणः कर्मत्वं शाब्दम् ? “धातोः कर्मणः समानकर्तृका - दिच्छायां वा " इति ज्ञानस्यैव कर्मत्वात् ; मैवम् — सन्नन्तत्वेऽपि प्रकृत्यनुसारेण सकर्म- कत्वाकर्मकत्वविभागः। अत एव हि प्रकृत्यर्थकर्मापेक्षया " कर्तृकर्मणोः” इत्यनुशिष्टिः, “ धर्मो जिज्ञासितव्यः " इत्यादौ च धर्मादेरभिहितकर्मत्वम् । ननु तथापि नाभिधानिक- त्वम्, उपपदविभक्तेरर्थाभावात् । प्रयोगमात्रात् तस्याः सार्थत्वे गाव्यादावपि प्रसक्तेः । न च तत्र शक्तिरस्ति । न शब्दशक्तिर्गाव्यादौ गोपदं स्मार्यते ततः । वुद्धिस्थेनैव तेनाथ गोजातिः प्रतिबुध्यते ॥ २०२ ॥ आप्तप्रयोगस्त्वनर्थकत्वेऽपि साधुत्वात् स्यात्; अन्यत्रापि तथा दृष्टेः संमतेश्च । अनुशिष्टिश्च तावद्विशेषव्यक्तयर्थी । तत्तदर्थधियस्त्वन्यथा सिद्धेः, अन्यलभ्ये शक्तेरकल्प्य - त्वात्, गत्यन्तराच्च बहुशक्तिकल्पनायोगान्न शक्तिरौपयिकी । तन्न ; यथा “कर्तृकरणयोः " कर्तृकर्मणोः कृति" इत्यादि- इत्यादिवशात् कारकविभक्तिः सार्था अनेकार्था च, तथा “ बलात् उपपदविभक्तिरपि ; अन्यथातिप्रसङ्गात् । कारकविभक्तेरुपपदविभक्तिदौर्बल्यं तु पदान्तरविमर्शसापेक्षतामात्रात् । तथापि न शक्तिभङ्गः । पदान्तरसंनिधिरत्र शक्तिं व्यनक्ति, न त्वाधत्ते ; यथा नानार्थंगवादिशब्देषु । यद्वा अत्रानाभिधानिकत्वेऽपि ‘विशेषानुशासनानु- मतवृत्तिविशेषवद्विभक्तिसिद्धस्य शाब्दसमत्वं व्यञ्जयितुमाभिधानिकत्वोक्तिः । कर्मत्वस्य सूत्राभिधानसिद्धत्वमाभिधानिकशब्देन प्रतीयते ; उपपदस्वरूपविमर्शस्य पदबोध्यविमर्शा– दविलम्बितत्वाच्च । ननु न विग्रहवदिह समस्ते विभक्तिरस्ति, येनाभिदध्यालक्षयेद्वा । चाप्रयुक्तापि स्मृताभिधत्ताम्, प्रयोगस्यापि तद्धीमात्रार्थत्वादिति वाच्यम् ; समासतोऽर्थ बुद्धौ विभक्तिस्मरणनियमे मानाभावात्, सर्वत्र च लक्षणाद्युच्छेदप्रसङ्गात् । पष्ठया चाभिधानमिति तद्भिदा । तदेवमभिधायकाभावे कर्मत्वस्य कथमाभिधानिकत्वं तत्समत्वं वा ? न १. विशेषानुशासनं ‘कृद्योगा च षष्ठी समस्यते ’ इति, तदनुमतो वृत्तिवि- शेषः समासरूपः, तद्वती विभक्तिः षष्ठीविभक्तिः, तत्सिद्धस्येत्यर्थः ।

१२३ S श्रीभाष्यम् मैत्रं संबन्धसामान्ये कर्मत्वे वा समीहिते | विभक्तिलोपात्सोढव्या प्रकृत्यैव हि लक्षणा ॥ २०३ ॥ (जिज्ञासाधिकरणम्) । अथानुशासनाधीननिरूढलक्षणाया अभिधानसमत्वाच्छाब्दत्वमिति मतम्, कर्मार्थ- त्वेऽपि समम्। एवं तु केचित् — व्यासे समासे च सविभक्तिकाविभक्तिकशब्दयोः दधि- दध्यशब्दन्यायेन सैव शक्तिः ; अतो लुप्तविभक्तिकयापि प्रकृत्या संबन्धो न लक्ष्यः ; वाच्यसंबन्धिनि वस्त्वन्तरे वृत्तिर्हि लक्षणा ; न च संबन्धः संबन्धी । कर्मत्वादिश्च संबन्धः । एवं स्वपरनिर्वाहकतया संबन्धफलसिद्धावपि तथा विवेकरहितानामप्यत्र प्रकृत्या विभक्त्यर्थधीर्दृष्टा । सन्नपि चाजानतः संबन्धो न लक्षणा हेतुः, अतिप्रसङ्गात् । अतः प्रयोगस्यानन्यथासिद्धेरन्यथासिद्धिशङ्कायाश्चानुशासनेनोपरोधाद्विभक्त्यर्थः समासेऽप्य- भिधेयः । एवं विभक्तिव्यतिरिक्तलोपेष्वपि नीतिः । ननु निषादस्थपतिशब्दे विभक्त्यर्थ - लक्षणादोषापनुत्त्यै षष्ठीसमासस्त्यज्यते ; तत्कथमाभिधानिकत्वम् ? तन्मुख्यत्वे तु क्लृप्त- कल्प्यविरोधे क्लृप्तस्यैव ग्राह्यत्वान्नान्यत्राधिकारकॢप्तिः । मैवम् — " सामानाधिकरण्यस्य प्राग्वैयधिकरण्यतः । अविलम्बितधीयोगात् प्राबल्यं प्रतिपादितम् ॥” इति न्यायेन शैघ्याच्छाब्दव्यवहारः । अथानुशासनस्वारस्यादर्थः, तर्हि यथानिर्णये तु नादरः, अर्थाविरोधादिति । उपपदविभक्तावुक्तमिदं समासेऽपि भाव्यम् । सोऽयं वैभववादो वा परमार्थोक्तिरेव वा । आभिधानिकतोक्तिस्तु युक्ता धीशैघ्यबोधनात् ॥ २०४ ॥ एवं कर्मणि षष्ठद्यामनौचित्यं निरस्तम् ; तत्र समासनिषेधशङ्कामपि निरस्यति - न चेति । ‘कर्मणि षष्ठ्याः’ इत्यनेन साधारणः ‘प्रतिपदविधानाशब्दः संकोचाहे इति सूच्यते । " ज्ञोऽविदर्थस्य करणे" इत्याद्यनुशिष्टायामेव समासापवादः । अवेदनार्थस्य १. का पुनः षष्ठी प्रतिपदविधाना, का च कृद्योगा ? सर्वा षष्ठी प्रतिपदवि- धाना शेषलक्षणां वर्जयित्वा । ‘कर्तृकर्मणोः कृति ’ इति तु या षष्ठी सा कृद्योगा । इति महाभाष्यम् । “साक्षाद्धातुकारक विशेषोपादानेन विधानात् प्रतिपदविधाने- त्यर्थः । कृच्छब्दोपादानेन तु या विहिता सैव कुद्योगेत्युच्यते " इति कैयटः ।

(१ – १ – १ ) तत्त्वटीका १२७ जानातेः कृद्योगः क्वचित्सन्नपि तत्र करणषष्ठ्या नापेक्ष्यः ; " सर्पिषी जानीते" इत्युदाहर- णात्’ । निषेधस्य संकोचमाह – कुद्योगेति । प्रतिप्रसवोऽपवादनिरासः, तस्य सद्भावात्; न केवलं प्रयोगदृष्ट्येति भावः । एवमैकपद्यहेतुः समासः प्रथमं व्याख्यातः । तत्राद्यप्रकृत्यं - शस्य यौगिकार्थनिमित्तत्वश्रुतेरन्यत्रापि यथादृष्टि मुख्यत्वशङ्कां निर्विशेषचिन्मात्र भोक्तृभोग्य- नियन्तृसमष्टितदंशिसन्मात्रादिपरेष्टार्थं, स्वेष्टे चोपचारवृत्तिं क्षिपन् सर्वतः परिवृढत्वाय वृहत्त्वबृंहणत्वे चानवच्छिन्ने विर्वृणोति - ब्रह्मशब्देन चेति । चस्त्वर्थः शङ्कानिरासे । ’ खभावतः’ इत्यादिना परकल्पितैः सदोषत्वनिर्गुणत्वावाच्यत्वावेद्यत्वैरजिज्ञास्यत्वप्रसङ्गो- ऽपास्तः । निरस्तनिखिलदोषत्वं च बृंहणत्वोपयुक्तो बृहत्त्वविशेषः । गुणादिविधिनिषेधयो- रुत्सर्गापवादादिनीतिविषयत्वं विशेषणद्वयेन व्यञ्जितम् । T विशेषविधिबाधेन तदन्यार्थत्वकल्पनात् । सामान्यवृत्तिसंकोचं वरं नीतिविदो विदुः ॥ २०५ ॥ परपक्षे तु मिथ्यात्व सत्यत्वविवादेऽपि निरस्यत्वेनाभिमतानां दोषाणामारोपत उपा- ध्यवच्छेदतः स्वाभाविकांशतो वा परब्रह्माश्रयत्वात् तत एव सार्वज्ञ्यादिभङ्गाच्च जिज्ञास्य- त्वायोगः श्रुत्यादिकोपश्च स्यादिति भावः । स्वरूपतो नामान्तरभजनार्हावस्थावन्तोऽचित्पदा- र्थाः, तदभावेऽपि क्लेशादिमन्तो बद्धाः, कतिपयक्लेशादिरहिता मुमुक्षवः, तदत्यन्तोच्छेदवन्तो मुक्ताः, तदत्यन्ताभाववत्त्वेऽपि पराधीनतथात्वा नित्याश्च बुद्ध्यवतारक्रमेण ‘निरस्तनिखिल- दोष:’ इत्यादिमुखेन प्रथमे विशेषणे व्यवच्छेद्याः । तत्र ’ स्वभावतः’ इति पदेनाना- दित्वविवक्षायां मुक्ता अनन्याधीनत्वविवक्षायां नित्याश्च व्यावर्त्यन्ते । द्वितीयेऽपि ते सर्वे । अन्यासंभाव्यगुणविधेर्नित्या एव वा ; तेषां ज्ञानादेर्ब्रह्मसाम्येऽपि हि पराधीनत्वं सिद्धम् ; शक्तिस्तु ततो न्यूना । वक्ष्यति च सत्यादिवाक्यानन्तपदव्याख्याने – “ सातिशयस्वरूप- गुणा नित्या व्यावृत्ताः” इति । न हि ते विश्वव्यापिनः, नापि सर्वशरीरिणः । अतिशय- शब्देन धातूक्ता वृद्धिरतिशायनमिति व्यञ्जितम् । अनवधिकविशेषणेन शतगुणितोत्तरक्रम- १. सर्पिषो जानीते’ इत्यत्र करणषष्ठीसिद्धयर्थं " ज्ञोऽविदर्थस्य करणे इत्यत्र कृद्योगो न निमित्ततयापेक्ष्यत इत्यर्थः । २. अनेन ‘प्रतिप्रसवसद्भावात्’ इति मूलपाठ आचार्याभिमत इति गम्यते । " CC-0 No Rights Reserved. Digitized by eGangotri. १२८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) प्रदर्शितनिरतिशयदशाशिरस्कत्वोक्तिः । ’ ईश्वरस्य ज्ञानानन्दादिगुणयोगः कादाचित्कः, तच्छक्तिस्तु नित्या’ इति पक्ष: ‘स्वभावतः’ इति पदानुषङ्गात् प्रतिक्षिप्तः । ज्ञानाद्येकैक- गुणविततिरूपावान्तरगुणवर्गख्यापनाय गणशब्दः । उक्तं च षाड्गुण्यविवेके — तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैस्त्वयेव जगत्कुक्षावन्येऽप्यन्तर्निवेशिताः ॥” इति । अनवधिकातिशयशब्दोऽत्र गणं विशिषन् प्रत्येकमतिशयपरश्रुत्या ‘विदुषी परिषत् ’ इति न्यायाच्चार्थतो गुणान् विशिनष्टि ; अन्यथा अन्यपदार्थासिद्धिः ; सत्यां गतौ व्यधि- करणबहुव्रीह्ययोगः । " शैलजन्मा " इत्यादिष्वगत्या तत्स्वीकारः । एतत्सूत्रसंवादिन्या “ परीक्ष्य” इत्यादिश्रुत्या ब्रह्मपुरुपशब्दोक्तजिज्ञास्यनिष्कर्षं, सर्वोपनिषदां पुंसूक्तैकार्थ्यम्, ईश्वरस्याध्यस्तत्वब्रह्मांशत्वासंभवम्, ईदृशस्य गीतानिरुक्त्या प्रकृत्यादेर्देवतान्तरेभ्योऽपि विशेषव्यक्तिं चाभिप्रेत्याह - पुरुषोत्तम इति । अवधारणमिह ग्राह्यम् । यद्यप्यत्र समानाधिकरणसमासे पौर्वापर्यव्यत्ययः, निर्धारणे तु षष्ठया न समासः; " इत्यधमप्रतियोगित्वो- तथापि " द्वाविमौ पुरुषौ " इत्यारभ्य " उत्तमः पुरुषस्त्वन्यः त्या संबन्धिशब्दतया समासः स्यात् ; 66 अक्षरादपि चोत्तमः" इत्यनेन पञ्चमीसमासो । वा सूच्यते । योगविभागस्तु यथाप्रयोगमिष्टः ; अत एव सप्तमी निर्धारणेऽपि समस्यते नागोत्तमादिशब्दाश्चैवं शाब्दैर्निर्व्यूढाः । रूढघा तु कामं पुरुषोत्तमोऽस्तु " इति वदन् श्रुत्यादिबाध्यः, “ अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इति सर्वविदुक्तेः । अभिधीयते ; मुख्यवृत्त्या विषयीक्रियते । एतेन तदेकनाम्नो ब्रह्मशब्दस्य तत्रैव लक्षणा- मिच्छन्तो निरस्ता:; रूढिविषये कचिल्लक्षणां वदन्तश्च निरस्ताः । । ननु गवादिशब्दवज्जातिद्वारा, पाचकादिशब्दवत्क्रियाद्वारा, डित्यादिवद्यदृच्छया वान्यत्रापि मुख्यता स्यादित्यत्राह – सर्वत्रेति । प्रकृत्यादिष्विव ब्रह्मशब्दस्थलेष्वित्यर्थः । तेषु मिथो विषमेषु तदन्यव्यावृत्ता जातिः क्रिया वा न दृष्टा । बृंहणत्वं तु बृहत्त्वापेक्षम् । अतस्तन्निमित्तत्वे गौरवम् । बृहत्त्वं च किंचित्तत्र तत्र प्रकृतं विवक्षितं च । ब्रह्मशब्दवृत्ति- द्वारा तन्निरुपाधिकवृद्धिरूपधात्वर्थप्रसिद्धिश्च नोपेक्ष्या ; अतः संभवद्गत्यन्तरे न यदृच्छा- पीति भावः । हिः प्रसिद्धौ हेतौ वा । तर्हि बृहच्छब्दवदशौ बृहत्त्वमात्रनिमित्तः स्यात् ;

(१—१—१) 99 59 66 तत्त्वटीका -१२९ . नेत्याह – बृहत्त्वमिति । सर्वतो बृहत्त्वमसंकोचात् स्वरूपतो गुणतश्चत्युच्यते ; तेन परि- च्छिन्नस्खरूपाणां गुणबृहत्त्वरहितस्य गुणादेश्च व्यवच्छेदः । ‘अस्य’ इत्यनेन बृहच्छब्दाद्या- वृत्तिर्दशिता । न ह्यसौ ’ इत इदं ब्रह्म’ इत्यवधिनिर्देशं तरप्तमप्प्रयोगं च सहते । “ सर्वं खल्विदं ब्रह्म सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् " त्रयं यदा विन्दते ब्रह्ममेतत् " इत्यादिष्वन्येषां तच्छरीरतया ’ देवोऽहम्’ इत्यादिवत् सामानाधिकरण्यम् ; न तु तत्त- द्वस्तुषु ब्रह्मशब्दप्रयोगः । त्रैविध्योक्तिश्च प्रेरितृत्ववैशिष्टधं भोक्तभोग्यवैशिष्टयं चापेक्ष्य । "" नारायण परं ब्रह्म इत्यत्र ’ परम्’ इति विशेषणं त्वौपचारिकव्यावृत्त्यर्थम् । अतो बृहत्त्वमात्रं नास्य निमित्तमिति भावः । प्रयोगनियत्या तत्र तत्र काष्ठाप्राप्तबृहत्त्वं स्यादित्य- त्राह - स च इति । अपरिच्छिन्नबृहत्त्वाश्रय इति यावत् । सर्वेश्वर इति समाधिकद- रिद्रत्वादिश्रुतिव्यञ्जनी समाख्या " अजः सर्वेश्वरः " इति तन्नामपाठात् । एकस्यैव सर्वनियमनादिरूपं निरतिशयबृहत्त्वं शास्त्रोक्तम् ; तदन्येषां तु तादधीन्यात्तत्त्वं तादृक्त्व- मपि नास्तीत्यवधारणाभिप्रायः । अन्यत्र निमित्तासंभवान्नैमित्तिकासंभवस्य फलितत्वमाह - अत इति । कथं तत्तद्वाचकत्वाभावे संबन्धगुणयोगयोश्च सर्वत्र संभवे क्वचित्प्रकृत्यादिषु नियतप्रयोग इत्याह- तस्मादिति । अयं भावः - न ह्यत्र संबन्धमात्राल्लक्षणा ; न च किंचित्साम्याद्गौणी वृत्तिः ; किं तु तद्गुणो निरतिशयबृहत्त्वं, तल्लेशोऽपि लोकोत्तरबृहत्त्वं, तन्निबन्धनोपचारनियमान्नातिप्रसङ्गः । प्रयुञ्जते च यथेष्टं स्तुतिनिन्दाभिप्रायेण मुख्यासन्ने तद्गुणप्रकर्षयोगिनि च तच्छब्दं नामतयेति । ननु मुख्ये लभ्ये नोपचारः ; न चावयव- शक्तित्वाद्ब्रह्मशब्दस्यैकत्राप्यन्या शक्तिर्न कल्प्या, किमुतानेकत्रेति वाच्यम्; तादृशस्यापि प्रयोगनियत्यै रूढेः कल्प्यत्वात्; पङ्कजादिषु पद्मत्वादिवच्चकं नियामकं न दृष्टम् ; यावत्प्रयोगं शक्तिर्भेद्येत्यत्राह — अनेकेति । क्लृप्तशक्तेः शब्दस्य प्रयोगविमर्शे हि प्रथमं मुख्यानुसारः । शक्तिपरीक्षायां त्वेकविषये शक्त्या प्रयोगान्तरान्यथासिद्धौ न शक्त्यन्तरं कल्प्यम् ; गौरवात् ; अन्यथोपचार एव लुप्येत । अस्ति चासाविति गौणमुख्याधिकरणे स्थापितम् । क्वचित्तु अगत्या अनेकशक्तिक्लप्तिरित्याशयः । 1 नैघण्टुकैस्त्वनादृत्य शब्दनिष्कर्षणं गिराम् । प्रयोगप्रौढिशिक्षार्थं पठ्यतेऽनेकनामता ॥ २०६ ॥


अतो यदत्र नियामकतयोक्तं लोकोत्तरबृहत्त्वं तेनैवैकेन निमित्तेनान्येष्वपि मुख्यत्वं स्यात् ; अन्यथा विपरिवर्तः किं न स्यादित्यत्र दत्तोत्तरत्वमभिप्रयन्, 17

१३० श्रीभाष्यम् " प्रत्यक्षेऽपि विसंवादो येषां कः स्वयमुत्तरम् । तेभ्यो दद्यादिति ज्ञात्वा वृद्धानां मतमब्रवीत् ॥" (जिज्ञासाधिकरणम्) इति न्यायात् पुराणोक्तीर्निदर्शयति- भगवच्छन्दवदिति । तत्र “ शुद्धे महावि- भूत्थाख्ये " इत्यादिना " अन्यत्र ह्युपचारतः इत्यन्तेन यौगिकार्थपौष्कल्यवत्येव मुख्यत्वमुक्तम् । इत्यारभ्य पुराणान्तरेऽपि - 99 " भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥ " इति । दाष्टन्तिकमपि गारुडे स्थापितम् - 66 66 वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ॥ यस्मिन्प्रयुज्यमाने तु गुणयोगः सुपुष्कलः । 99 तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ॥” इति । अस्त्वेकत्रैवास्य शक्तिः ; अस्मिन् सूत्रे भेदकाभावादमुख्यत्वं किं न स्यादित्यत्र " नास्ति भेषजमन्यत्र नारायणरसायनात् । " 16 वासुदेवं परित्यज्य योऽन्यं देवमुपासते । तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः || ”


इत्यादिप्रमाणगत्या प्रत्याह – तापेति । स्वतन्त्रस्वामित्वात् । अस्वतन्त्रस्यान्यस्य चायमर्थः सिद्धः न ह्यत्र मुख्यस्य बाधः ; भगवतः 66 ; जुष्टं यदा पश्यत्यन्यमी- 66 शम् " इत्यादिभिः सोपबृंहणैः परोपास्तेरेव तापत्रयनिवर्तकत्वोक्तेः । स एव “ मन्तव्यो ऽन्वेष्टव्य " इति विचार्यत्वेन श्रुत इति भावः । अनेकार्थत्वेऽपि ब्रह्मशब्दस्यास्मिन् प्रयोगेऽसावेवार्थ इत्याह ” इति विवरणं त्वन्वारोहेऽपि विशेषदाढर्धपरम् ; जातिगुणादि- निमित्तत्वबहुरूढत्वपक्षेष्वपि हि समभिव्याहृतपदान्तरादेरर्थविशेषः सिध्येत् । यद्वा मुख्या- मुख्ययोस्तन्त्रेणानेकार्थत्वानूक्तिः । अमृतशब्देनैवकारेण च " तमेवं विद्वानमृतः इति " तमेव विदित्वा इति च वाक्यद्वय सूचनात् द्वयोरविरोधः ख्यापितः । ननु 99 99

( १ – १ – १ ) मूलभावप्रकाशिका १३१ प्रत्यगात्मन्यपि “ सोऽन्वेष्टव्यः " इत्यादिदर्शनात् “ नात्मा श्रुतेः " इत्यादौ सस्यापि निरूपयिष्यमाणत्वाच्च ’ स एव ’ इत्यवधारणमिहाशक्यम् ; तदिदं निगमनमुखेन व्युदस्यति- अत इति ; शब्दशक्त्या प्रस्तुतार्थस्वाभाव्याच्चेत्यर्थः । तदुभयं सर्वेश्वर इत्यादिपदद्वया- भिप्रेतम् । जिज्ञासाकर्मभूतं जिज्ञासया प्राप्तुमिष्टतममित्यर्थः । प्रधानतया ह्यत्र जिज्ञास्यः परः । तद्भक्त्यारोहायाहं ग्रहोपास्तौ विशेषणतया बोद्धुं च स्वात्मापि चिन्त्यः । प्रजापतिवाक्यादिषु च प्रत्यगात्मज्ञानं प्रकृतपरविद्यार्थतयैवोच्यत इति वक्ष्यते । मूलभावप्रकाशिका


अथातः शब्दौ व्याख्याय ब्रह्मजिज्ञासापदं व्याचष्टे – ब्रह्मणो जिज्ञासा ब्रह्म- जिज्ञासेति । षष्ठया अनेकार्थसंभवादाह - ब्रह्मण इति कर्माणि षष्ठीति । नन्वेवं " कर्मणि च " इति सूत्रेण कर्मणि षष्ठघाः समासनिषेधादत्र समासो न स्यादित्या- शङ्क्याह - कर्तृकर्मणोः कृतीति विशेषविधानादिति । अयं भावः – “ उभयप्राप्तौ कर्मणि" इति सूत्रविहितषष्ठीविषयोऽयंनिषेधः ; यथा ’ आश्चर्यो गवां दोहोऽशिक्षितेन गोपालेन’ इति ; इतरथा " कर्तरि च " इति सूत्रानर्थक्यप्रसङ्गादिति वैयाकरणैरुक्तम् । नात्र कर्तृकर्मणोरुभयोर्विवक्षाविषयता । अतः “ उभयप्राप्तौ ” इत्यस्य नायं विषयः । अतः " कर्मणि च " इति समासप्रतिषेधस्य नायं विषय इति । शेषे षष्ठीस्वीकारेऽपि सकर्मक- जिज्ञासा सामर्थ्यादेव ब्रह्मणः कर्मत्वसिद्धेर्ब्रह्मानुबन्ध्युपासनादिजिज्ञासानामपि ब्रह्मजिज्ञा- सापदेन ग्रहणसंभवाच्च किमनेन समासप्रतिषेधप्रसक्तिविषयेण कर्मणि षष्ठघाश्रयणेनेति शङ्कते - यद्यपीति । आक्षेपत इति प्रतीतिगौरवात् प्रधानभूतब्रह्मविचारप्रतिज्ञयैव तदनुबन्धिविचारस्याप्यर्थतः प्रतिज्ञातत्वसंभवान्न तदर्थमपि संबन्धसामान्यपरिग्रह इति भावः । प्रकारान्तरेण षष्ठीसमासनिषेधमाशङ्कय परिहरति न च प्रतिपदविधानेति । षष्ठी शेषे " इति सूत्रविहितषष्ठीव्यतिरिक्तषष्ठ्याः सर्वस्या अपि प्रतिपदविधानत्वादिति भावः । प्रतिप्रसवसंभवादितिः प्रतिप्रसवोऽपवादापवादः । अयं भावः – “ ज्ञोऽवि- दर्थस्य करणे" इत्यादिसूत्रविहितषष्ठीविषय एव समासनिषेधः । तत्र हि " शेषे " इत्यनुवृत्तेः शेषत्वेन विवक्षितेषु करणादिषु " षष्ठी शेषे " इति सूत्रविषयेष्वेव पुनः षष्ठी - विधानस्य षष्ठीलोपाभावप्रत्यायनमुखेन समासनिषेधकत्वात् “ज्ञोऽविदर्थस्य करणे” इत्यादि सूत्रविहितशेषषष्ठीविषयः समासनिषेधः । कर्तृकर्मणोः कृति" इति सूत्रे " शेषे ’ " ; 66

१३२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) " अ इत्यननुवृत्त्या अप्राप्तषष्ठीविधायकत्वेन विभक्तिलोपाभावज्ञापकत्वाभावेन समास निषेधा- प्रसक्तिरिति । न च आवन्तस्य जिज्ञासाशब्दस्य कथं कृदन्तत्वमिति शङ्क्यम्, प्रत्ययात् " इति सूत्रविहितकृत्संज्ञकाप्रत्ययस्य आपश्च स्थाने भवत एकादेशस्यान्तादिव- द्भावेन कृत्संज्ञकत्वस्यापि संभवेन जिज्ञासाशब्दस्य कृदन्तत्वात् । " इदं ब्रह्म याति " तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते " इत्यादौ ब्रह्मशब्दस्य जीवप्रकृत्यादावपि प्रयोगदर्शनात् तद्व्यावृत्त्यर्थं ब्रह्मशब्दं व्याचष्टे – ब्रह्मशब्देनेति । पुरुषोत्तम इति ; 66 "" यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 99 स्वभावतः इति भगवतैव स्वस्मिन् पुरुषोत्तमत्वस्य गीतत्वात् पुरुषोत्तमोऽभिधीयत इत्यर्थः । तस्य ब्रह्मशब्दाभिधेयत्वे हेतुं विशेषणद्वयेन प्रदर्शयति— स्वभावत इति । इत्येतत् विशेषणद्वयस्यापि समानम् । निरस्ता निखिला दोषा येनेति स्वाश्रितज्ञानसंकोच- लक्षणदोषनिरासकत्वं तदर्थः । ज्ञानविकासलक्षणानन्त्यहेतुत्वं फलितार्थः । ततश्च बृंहणत्वं भवति । ‘ अनवधिकातिशय’ इत्यनेन गुणतो बृहत्त्वमुक्तम् । विभुत्वस्यापि गुणान्तर्भा वात् स्वरूपतो बृहत्त्वमप्यर्थादुक्तं भवति । एवं च बृहत्त्व बृंहणत्वे ब्रह्मशब्दस्य प्रवृत्ति- निमित्ते दर्शिते भवतः । “ तेजोबलैश्वर्यमहावबोधसुवीर्यशक्तत्यादिगुणैकराशिः । 66 99 परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे || इति भगवता पराशरेण पुरुषोत्तम एव निर्दोषत्वकल्याणगुणाकरत्वयोरान्नानात् तस्यैव ब्रह्मत्व- मिति भावः । यद्यपि बृंहणत्वमपि गुणतो बृहत्त्वेऽन्तर्भवति, तथापि " बृहत्त्वाद् बृंह णत्वाच्च" इत्यादिस्मृत्यनुसारादादरातिशयद्योतनाय गोबलीवर्दन्यायेन पृथगुक्तमिति द्रष्टव्यम् । ननु ’ पुरुषोत्तम एवाभिधीयते’ इत्ययुक्तम्, ब्रह्मशब्दस्येतरत्रापि प्रयोगदर्शनाद- क्षादिवन्नानार्थत्वस्यैव वक्तव्यत्वादित्यत्राह - सर्वत्रेति । बृहतेर्धातोर्मनिन्प्रत्यये निष्पन्नस्य ब्रह्मशब्दस्य बृहत्त्वं यौगिकार्थः । ततश्च क्लृप्तयोगवशेनैव जीवप्रकृत्यादिप्रयोगसंभवे, अनेक- रूढिकल्पनायोगादिति भावः । नन्वेवं जीवादेरपि बृहत्त्वाविशेषात् ‘पुरुषोत्तम एवाभि- धीयते ’ इति कथमित्यत्राह - बृहत्त्वं चेति । लोके हि ’ समर्थः ’ इत्युक्ते प्रकरणोप- पदादिसंकोचकाभावे सर्वसामर्थ्यं प्रतीयते । एवमिहाप्य संकोचस्य स्वतः प्राप्तत्वात् CC-0 No Rights Reserved. Digitized by eGangotri(१–१–१) मूलभावप्रकाशिका १३३ प्रकरणोपपदादिसंकोचकाभावादसंकोचेन सर्वविधं बृहत्त्वं प्रतीयते । अतः प्रवृत्तिनिमित्त- पौष्कल्यात् पुरुषोत्तम एव ब्रह्मशब्दस्य मुख्यार्थः, व्यापिबृहत्त्वस्यात्यागे ब्रह्मशब्दगत- बृहत्त्वशक्तेरसंकोचात् । मुख्यत्वं च शीघ्रप्रतीतिकत्वम् । मुखमिव प्रादुर्भवतीति हि मुख्यशब्दव्युत्पत्तिः । उक्तं च श्रीमति गारुडे पुराणे- 66 इत्यारभ्य 66


वेदे भूरिप्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने ॥ यस्मिन्प्रयुज्यमाने तु गुणयोगः सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ॥ Tis fo इति । औपचारिक इति; बृहत्त्वशक्तिसंकोचादिति भावः ; विलम्बेन प्रत्यायक इत्यर्थः । केचित्तु बृहत्त्वमात्रं न ब्रह्मशब्दप्रवृत्तिनिमित्तम् ; अपितु निरतिशयबृहत्त्वम् ; ततश्च जीवादिकेषु प्रवृत्तिनिमित्ताभावात् माणवके सिंहशब्दवत् तेषु ब्रह्मशब्दो गौण इत्याहुः । न च प्रकृत्यादिष्विव घटादावप्यौपचारिकः प्रयोगः किं न स्यादिति वाच्यम्, औपचारिक- प्रयोगस्यापर्यनुयोज्यत्वात् । अनेकार्थकल्पनायोगादिति ; अक्षादिशब्देषु त्वगत्या तत्कल्पनमिति भावः । भगवच्छब्दवदिति ; " एवमेव महान् शब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण ह्यन्यत्र ह्युपचारतः ॥ नान्यः पन्था विद्यतेऽय- इति श्रीविष्णुपुराणोक्तेरिति भाव: । जिज्ञासापदसामर्थ्यादपि ब्रह्मशब्दस्य पुरुषोत्तम एवार्थ इत्याह– तापत्रयातुरैरिति ; " तमेवं विद्वानमृत इह भवति ” “ नाय " इति श्रुत्यर्थोत्र विवक्षितः । उपसंहरति-अत इति ।

श्रीमते रामानुजाय नमः । श्रीवरदनारायणभट्टारकविरचितं वेदान्तन्यायसुदर्शनम् । विश्वं जगद्वपुर्यस्य तमुदारगुणं हरिम् । निर्मलाविह्वलानन्तानन्दामृतनिधिं भजे ॥ १ ॥ यस्तूदास्त समस्तदेवदितिजैर्दर्पान्मृथेऽधः कृतै- र्भूयो योद्धुममी मया विसदृशा इत्येव तं लीलया । यो लङ्केशमकम्पयत्कपिकुलैरुल्लोलकोलाहलैः कल्लोलाकुलसागरस्य दमकं तं राघवेन्द्रं स्तुमः ॥ २ ॥ येनोदग्रनिसर्गसर्गचिदचिज्जाताधिराज्यश्रियः श्रीनाथस्य बलिष्ठदुष्टदमने शाङ्खसि चक्रादिवत् । स्वीयस्वामिविनिह्वव्यसनिदुर्वादिप्रक्लृप्तान्यथा- भावाभावकरायुधायितमयं जीयान्मुनिर्लक्ष्मणः ॥ ३ ॥ ये लक्ष्मणार्यपादाब्ज सेवानिष्णातमानसाः । तत्पादयुग्मरुक्माब्जपरागाणुत्वमाप्नुयाम् ॥ ४ ॥ अहं लक्ष्मणमिश्रान्तेवासिक्रमसमागतम् । हृदि वेदान्तभाष्यार्थं ज्ञापयिष्याम्यनूक्तिभिः ॥ ५ ॥ अथातो ब्रह्मजिज्ञासा ॥ अस्य शास्त्रस्य विषयो ब्रह्म । तन्निर्णयः फलम् । अत्र सर्वात्मत्वबोधकब्रह्म- शब्देन विशेषणं, ब्रह्म स्वरूपरूपगुणविभवचेष्टितविशिष्टमिति ज्ञापनार्थं ; तस्य सर्वात्म- त्वेनात्रत्यार्थान्तरचिन्तानां तच्चिन्तात्वानतिक्रमणज्ञापनार्थं च । पुरुषैरर्थ्यानि सर्वस्वरूपाणि यदात्मकानि तस्य ब्रह्मणो जिज्ञासा कर्तव्येत्यर्थः । अनेन प्रतिपाद्यप्रतिपादकभावलक्षणः संबन्ध इत्यर्थादुक्तं भवति । ज्ञायमाने तु वेदान्तैः करणैः परमात्मनि इमामुत्तरमीमांसामितिकर्तव्यतां विदुः ॥ ६ ॥

(१–१–१) वेदान्तन्यायसुदर्शनम् १३५ वेदस्य निरपेक्षत्वलक्षणप्रामाण्ये सत्यपि प्रतिपत्तमतिमान्यापराधनिमित्तसंशयविपर्ययापनो- दनमनया क्रियत इति न तस्य भङ्गः । समन्वयोऽविरोधश्च साधनं च फलं तथा । चत्वारोऽर्थाश्चतुर्णा स्युरध्यायानां क्रमान्विताः ॥ ७ ॥ व्युदस्याविषयत्वान्यविषयत्वे समन्वयः । E वाक्यानां ब्रह्मणि प्राच्याध्यायेनेह प्रदश्यते ॥ ८ ॥ आद्यपादे चतुःसूत्र्या शास्त्रारम्भस्य सिद्धये । उपोद्धाततयैवैषां विषयत्वं दृढीकृतम् ॥ ९ ॥ व्युत्पत्त्यभावःप्रतिपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम् । तानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि ॥ १० ॥ आभिधानिकमेवान्यविषयत्वं व्युदस्यते । प्रथमं प्रथमे पादे लिङ्गादिकमथ त्रिषु ॥ ११ ॥


तत्र प्रथमाधिकरणेन शब्दानां सिद्धार्थे शक्त्यभावेन वेदान्तवाक्यानां परिनिष्पन्नब्रह्मावबो- धकत्वासंभवात् शास्त्रस्यानारम्भणीयत्वमाशङ्क्य तत्रापि व्युत्पत्तिसंभवप्रदर्शनेन तदा- रम्भणीयतोच्यते । तत्र तावदयं संशयः - - - किं ब्रह्ममीमांसा आरम्भणीया, उत अनारम्भ- णीयेति । तदर्थमिदं विचार्यते - - किं वेदान्तवाक्यानां परिनिष्पन्नब्रह्मावबोधजननसाम- र्थ्यमस्ति, नेति ; तदर्थं च किं कारकादिगुणान्विते कार्यरूप एवार्थे शब्दशक्तिः, उत वि- शेषणयोग्येतरान्वितार्थे इति ; तदर्थं च पुनः किं वृद्धव्यवहारेण शब्दशक्तिग्रहणं कार्यार्थ - वाक्येष्वेव, उत सिद्धार्थवाक्येष्वपि ; यदा कार्यवाक्ये वेव तदा सिद्धार्थे शब्दानां व्युत्प- त्यभावात् तदनुसारेण शब्दानां कार्यार्थ एव शक्तिरिति नियमात् कारकादिगुणान्वित- कार्यरूपार्थबोधकतयोपनिषद्वाक्यानां ब्रह्मावबोधजननसामर्थ्यासंभवात् तन्निर्णय हेतु भूतब्रह्म- मीमांसानारम्भणीया स्यात् ; यदा पुनः सिद्धवाक्यार्थेष्वपि व्युत्पत्तिसंभवः, तदा तदनु- सारेण योग्येतरान्वितार्थे शब्दशक्तिरिति वेदान्तवचसां ब्रह्मावबोधजननसामर्थ्यसंभवात् मीमां- सारम्भणीया स्यात् । ननु संस्कारकर्मताधीयते स्वाध्यायस्य ; तत्र ईप्सितार्थबोधकत्वे जपा- द्यालम्बनत्वे च स्वरूपेण जपाद्यर्थत्वं शक्त्यार्थावबोधकत्वमिति रूपभेदाद्विरोधः न ; यथाग्नेर्दाहभासयोरेकेनैव रूपेणानेकार्थत्वेऽपि न विनियुक्तविनियोगविरोधः, तथात्रापीत्यर्थः ।

१३६ श्रीभाष्यम् विषं भुङ्क्ष्वादिवाक्यानामन्यार्थवचनत्वतः । उक्तान्यपरता वेदे जपाद्यर्थे न सा भवेत् ॥ १२ ॥ (जिज्ञासाधिकरणम् ) ’ विषं भुङ्क्ष्व इत्यादिवाक्यानां निन्दितगृहभोजननिवृत्त्याद्यर्थत्वेनार्थाभिधानशक्तेः पर्यवसितत्वान्न विषभोजने तात्पर्यमित्यन्यार्थवचनत्व लक्षणान्यपरतोक्ता ; इह तु वेदे स्वरूपमात्रेण जपाद्यर्थत्वेऽप्यर्थावबोधकत्वश के रक्षतत्वात् नान्यपरताशङ्केत्यर्थः । अतो रूपयेनैव भजतीत्याह सार्थताम् । विवक्षितार्थतां नातिक्रामेद्वेद इति स्थितिः ॥ १३ ॥ येषां मते अध्ययनमर्थकर्म, तैर्विधेरधिकारापेक्षायां तदर्थमर्थावबोधः स्वीक्रियते । येषामिदं संस्कारकर्म, तन्मते संस्कृतस्य स्वाध्यायस्योपयोगापेक्षायां तदर्थं तत्स्वीकारः । पूर्वोक्त- विरोधपरिहारौ चोभयेषामपि समानौ । अनर्थकेषु ’ हुं फट् ’ इत्येवमादिषु चाधिका रानवाप्त्युपयोगानवाप्तितः सर्वाः समानाः इयान्विशेषः—अर्थकर्मपक्षे " स्वाध्यायोsध्येतव्यः " इति श्रूयमाणस्वाध्यायकर्मत्वपरित्यागो वृथैव स्वीकरणीय इति । स्वाध्यायकर्मत्वपक्षे ब्राह्मणाधिकारवृहस्पतिसवादिषु राजन्यवैश्ययोः, राजसूये ब्राह्मणवैश्ययोः, वैश्यस्तोमे राजन्यस्य ? वैश्यस्य चाधिकाराभावात् तत्तद्वेद- भागेषु तयोः संस्कारवैयर्थ्यम् । जपादेरर्थकर्मत्वात् तस्य च सर्वेषां सर्वस्वाध्यायव्यापि_ त्वाच्च जपाद्यर्थं तत्रापि तयोः संस्कारसंभव इति चेत् — तन्न; धारणजपयज्ञादावपि " स्वाध्यायोऽध्येतव्यः " स्वाध्यायमधीयीत ” इति स्वाध्यायस्य कर्मत्वावगमात् । आद्याध्ययनवत् जपाध्ययनादेरपि संस्कारकर्मता इष्यते चेत्, तदा 66 आद्यं तु सर्वस्वाध्यायानुपयोगादसंगतिः । सर्वत्र कर्मताबाधः स्वाध्यायस्य प्रसज्यते ॥ १४ ॥ तेन संस्कार आद्यं स्यादपरे त्वर्थकर्मणि । आर्थवादिकमेवात्र फलं स्याद्रात्रिसत्रवत् ॥ १५ ॥ अत्रानीप्सितकर्मत्वं स्वाध्यायस्येष्यते बुधैः । आद्ये त्वीप्सितकर्मत्वं तदर्था च क्रिया मता ॥ १६ ॥ E. जपादेरपि संस्कारकर्मत्वे सर्वसंस्कार संस् कार्यस्वाध्यायस्यार्थावबोध एक एव भाव्युपयोगः स्यात् । तस्य चानधिकृतकर्मभागे ’ हुं फट् ’ आदिषु च वैयर्थ्यात् सर्वाण्यध्ययनान्यर्थकर्मा-

(१–१–१) वेदान्तन्यायसुदर्शनम् - १३७ णि स्युः । तदा स्वाध्यायस्य कर्मताभङ्गः स्यात् । तस्माद्यदाध्ययनमेकमेव संस्कारः । तत्संस्कृतस्य स्वाध्यायस्यावघातादिसंस्कृतत्रीहीणां होम इव जपादौ विनियोगः । जपादिश्च सर्वेषां सर्वस्य स्वाध्यायस्य भाव्युपयोगः । अर्थावबोधस्तु यथाधिकारमाद्या- ध्ययने । एवं वाक्यार्थावबोधः स्वाध्यायेन यत्कर्तुं शक्यते तदर्थं संस्कुर्यादिति । न च स्विष्टकृदादिवत् आश्रयित्वेनोभयार्थत्ववर्णना, कल्पनागौरवप्रसङ्गात् । तस्मात् संस्कार- कर्मैवाध्ययनम् । ततश्च साङ्गाध्ययननिर्वृत्तौ सत्यामापाततः किल । ज्ञायते ब्रह्म कर्मापि पुरुषार्थतया नृणाम् ॥ १७ ॥ असंदिग्धाविपर्यस्तज्ञानोपादित्सया स्वयम् । तद्विचारेऽधिकुर्वीत श्रेयोऽर्थी गुरुसेवया ॥ १८ ॥ रत्नशैलशृङ्गस्यापातप्रतीतौ तदर्थिनस्तत्र निर्णये स्वयं प्रवृत्तिवत् निखिलपुरुषार्थाकरवेदार्था- पातप्रतीतौ सत्यां पुरुषस्य फलरागत एव तद्विचारे प्रवृत्तिसंभवात् नाध्ययनविधौ पर्यव - सानं कल्पयित्वा विचारस्य तत्प्रयुक्तताप्रयास इत्यभिप्रायः । अध्ययनानन्तरं " वेदमधीत्य स्नायात् " इति स्थित्या स्नायादिति तदनादरे कृतेऽपि फलरागत एवं गुरुकुले पुनश्च स्थितिं कल्पयति । स्थित्यन्तरप्रयुक्तिप्रसङ्ग इति चेत्, तर्हि स्थितिं धारयतीत्युपशाम्यतु भवान् । स्थितिसद्भावेऽपि स्थितेरध्ययनप्रवृत्तत्वाकारापगमेन सकल ब्रह्मचर्यधर्मनिवृत्तेः स्नातकत्वोपपत्तिः । अक्षरग्रहणोपायनियमार्थे ह्ययं विधिः । तद्गुहावधि तत्कर्मस्थितिरित्यब्रवीत्स्मृतिः ॥ १९ ॥ अधीताद्वेदतः पश्चादर्थज्ञानं स्वतो भवेत् । तत्तु नाध्ययनं नापि धर्माणां च प्रयोजकम् ॥ २० ॥ कृतादरमपि यावद्विचार कालमनधिकुर्वाणा विचारितकर्माणमेवाग्निहोत्रादिविधयोऽप्यधि- कुर्वन्ति । ततः पूर्वमविद्वत्त्वेनानधिकारित्वात् । " दशमेऽहन्यादधीत " इत्यादिकं तु पूर्व- मेव विचारितकर्मपुरुषविषयं भवति । अविचारयतः पुनरध्ययनवैयर्थं भवति, प्रत्यवायश्च स्यात् । 18 CC-0 No Rights Reserved. Digitized by eGangotri१३८ श्रीभाष्यम् “ अधीत्य वेदान् साङ्गांस्तु विचारं य उपेक्षते । स्वप्रयासं च विस्मृत्य प्रभ्रष्टः स्यात्प्रयोजनात् ॥ विचार्य सर्वकर्माणि मुमुक्षुश्चदिह व्रजेत् । अमुमुक्षुस्तु तत्रैव पर्यवस्यन् प्रवर्तते ॥ २१ ॥ अङ्गत्वेनान्वितानीह कर्माणि ब्रह्मदर्शने । 99 (जिज्ञासाधिकरणम् ) इति । ऐकशास्त्रयमतः सिद्धं कर्मज्ञानाख्यकाण्डयोः ॥ २२ ॥ अङ्गशास्त्राणां प्रधानशास्त्रैरकशास्त्रयमिति य.. …. ‘देश परवाक्यैः सर्वावबोधवत् ब्रह्माव- बोधस्यापि शब्दशक्त्यैव जायमानत्वेन कर्मविधीनां तद्विधीनां तत्रान्वयाभावात् । अथा- धिवेदाख्यैकप्रमाणेतिकर्तव्यतामिति मन्तव्यम्, कर्ममीमांसाया, ऐकशास्त्र्यमप्येव- मेव ; तत्रापि सर्वेषां कर्मविधीनां मुक्तत्यैकशास्त्र्यसंभवात् । कर्मविज्ञानयोर्हेतुहेतुमद्भावसंगतेः । प्राग्भावः कर्मणः सिध्येत् पश्चाद्भावोऽपरस्य च ॥ २३ ॥ तयोश्च क्रमवत्त्वे च तद्विचारौ च तादृशौ । मुख्यक्रमनयादेव स्यातां सारस्वताङ्गवत् ॥ २४ ॥ यथा “ सारस्वतौ भवत एतद्वै दैव्यं मिथुनम्" इत्यत्र युगलोत्पन्नयागद्वये कस्याङ्गानां प्राथम्यमित्यनिर्णये सरस्वतीयागस्य याज्यानुवाक्याभ्यां प्राथम्ये सिद्धे तच्छेषभूततद्वि- चारस्यैव प्राथम्यम् । विद्याकरत्वाद्विधैकविषयत्वाच्च तद्विः । सिद्धब्रह्मविचारोऽपि नान्यो विद्याविचारतः ॥ २५ ॥ अत एकशरीरत्वात् विद्युपश्लेषेण कर्मविद्याविचारयोर्मध्ये तदनुप्रवेशः । विचारः प्रमितेः शेषः सानुष्ठानोपयोगिनी । अतः प्रणाड्या संबन्धात् तत्क्रमस्तत्क्रमो मतः ॥ २६ ॥ व्याचक्षाणोऽथशब्दार्थं भाष्यकारो विचारयोः । श्रुतिन्यायानुसारेणावोचच्छारीरकं परम् ॥ २७ ॥ अल्पास्थिरफलं कर्म ज्ञात्वाथ ब्रह्मचिन्तनम् । इत्युक्तः श्रुतितो न्यायोऽप्युक्तः कर्माङ्गतोक्तितः ’ ॥ २८ ॥ १. अङ्गत्वसमर्थनाय न्यायोऽप्युक्त एवेत्यर्थः ।

(१–१–१) वेदान्तन्याय सुदर्शनम् 0 १३९ ज्ञाते सातिशयार्थत्वे कर्मणां ज्ञानशेषता । सिध्येदिति तदर्थं वै श्रुत्या तादृक्त्वमादृतम् ॥ २९ ॥ कर्मणां निरतिशयपुरुषार्थहेतुत्वे समत्वेन तेषां ज्ञानशेषता व्याहन्येत । अतो ज्ञानाङ्गत्व- सिध्यर्थमेव सातिशयार्थत्वपरीक्षा, नादृष्टार्थमित्यर्थः । तंत्र पूर्वपक्ष:- कार्यवाक्ये प्रयोज्यस्य प्रवृत्तेर्दर्शनाच्छिशुः ।.. एतत्कार्यावबो …………वापोद्वापतः पुनः ॥ ३० ॥ कालक्रमेण गृह्णीयादयमस्यार्थ इत्यपि । ज्ञातकार्याभिधाशक्तिः पदानां साहचर्यतः ॥ ३१ ॥ प्रत्ययार्थं प्रकृत्यर्थाज्ज्ञातुं शक्तास्तु केचन । सिद्धार्थबाधे नैवं शक्यं भवेच्छिशोः । न चानन्तविकासादिलिङ्गैरेवानुमाय ताम् ॥ ३३ ॥ तद्धेतुत्वं च शब्दानां गृह्णी ८ ॥ ३२ ॥ तस्मात्कार्यवाक्येष्वेव व्युत्पत्तिशक्त्या यथा ’ वृक्ष:’ इत्येकपदोक्तावेकाकिनि वृक्षार्थे प्रवृत्त्यनन्वयेन व्युत्पित्सोरव्युत्पन्नतया वृक्षस्तिष्ठत्यविरलपर्णशाखा पल्लव फलपुष्पाज्यः ’ इत्युक्तेऽपि श्रोतुर्योधमात्रपर्यवसायित्वेन प्रवृत्त्यनन्वयात् तदनन्तरदृश्यमानतदुपसर्पणादीना- मार्थतया तदुक्तशब्दार्थत्वाभावेन तैः संबन्धग्रहण योगात् तथाग्रहणेऽन्यथाग्रहणप्रसङ्गाच्च न व्युत्पत्तिसंभवः, तथा यथैकवाक्यार्थे व्युत्पत्त्यभावेनान्वितार्थ एव व्युत्पत्तिदर्शनाच्चा- न्वितार्थाभिधायित्वमेव शब्दानामिष्यते एवमेव केवलान्वितार्थेष्वपि व्युत्पत्त्यसंभवादित- रान्वितकार्यार्थ एव व्युत्पत्तिदर्शनाच्च यथाव्युत्पत्ति बोधकत्वबलेन लोकवेदयोरितरान्वित- कार्यमेव शब्दार्थ इत्यभ्युपगन्तुं न्याय्यम् । विशिष्टं कार्यमेवातो वाक्यस्यार्थोऽत्र केचन । विशेषणानि तत्कश्चित् शब्दा एवं प्रचक्षते ॥ ३५ ॥ इति स्थितः पूर्वपक्ष: । राद्धान्तस्तु ..

१४० श्रीभाष्यम् अस्यैवं बोधयेत्येवं चेष्टया प्रेरितेन तु । चेष्टाज्ञातोक्तशब्दार्थं चेष्टातो बुध्यते शिशुः ॥ ३६॥ अस्यैतज्ज्ञापनार्थं सोऽयं यातीत्यवगच्छतः । तेनोक्ते बोधके वाक्ये तस्मिन्नर्थे भवेच्च धीः ॥ ३७ ॥ विशेषनिष्ठमेवात्र सिद्धे संबन्धबोधनम् । तथैवानुमितेऽर्थेऽपि शक्यं भेदग्रहे सति ॥ ३८ ॥ अन्वयव्यतिरेकाभ्यां विशेषग्रहणं भवेत् । भूयोदशनतस्तच्च संभवेदिति निर्णयः ॥ ३९ ॥ व्युत्पत्तेर्लोकतस्तेन कार्ये सिद्धे च संभवात् । (जिज्ञासाधिकरणम्) योग्येतरान्वितार्थेऽपि शब्दशक्तिरिति स्थितिः ॥ ४० ॥ ; ’ अपवरके दण्डः स्थितः इति देवदत्ताय ज्ञापय’ इत्येवंपरया चेष्टया प्रेरितः पुरुषस्त- दभिज्ञं परं प्रति ’ अपवरके दण्डः स्थितः ’ इति शब्दं प्रयुङ्क्ते ; चेष्टयान्यो व्युत्पित्सुः प्रागेव निर्णीतबोध्यार्थः तज्ज्ञापने प्रयुक्तं शब्दं तथाविधार्थे बोधनशक्तिमत्त्वेनै वाध्यवस्यति अथवा येन केनचित्प्रकारेण ’ एतज्ज्ञापनेऽयं प्रवृत्तः ’ इत्यवगच्छन् तदुक्तशब्दं तदर्थ- बोधनशक्तं निश्चिनोति ; प्रतिपत्तुर्बोधश्च मुखविकासादिभिरनुमीयते ; एवं निश्चित्य पुनरा- वापोद्वापाभ्यां प्रातिस्विकविशेषशक्तिं चाध्यवस्यति । प्रागेव निर्णीतबोध्यार्थत्वेन दृष्टगवानय- नाद्यर्थेष्विव विशेषनिष्ठमेव संबन्धग्रहणम् । आनुमानिकहर्षादिहेतुभूतार्थेष्वपि येन केनचित् हेतुविशेषनिर्णयेनैव संबन्धग्रहणं सुशकमेव । सुखप्रसवादिकेऽपि ’ पुत्रस्ते जात: ’ इति प्रयुज्यमानं वाक्यं पुनः पुनः ज्ञात्वा अन्वयव्यतिरेकाभ्यां विशेषग्रहणं भवेत् । भूयोदर्शनतस्तच्च संभवेदिति निर्णयः ॥ ४१ ॥ व्युत्पत्तेर्लोकतस्तेन कार्ये सिद्धे च संभवात् । योग्येतरान्वितार्थेऽपि शब्दशक्तिरिति स्थितिः ॥ ४२ ॥ सहभाव्यर्थान्तरवाचित्वाशङ्कानिवृत्तिरेवमेव हि तस्माल्लौकिकव्युत्पत्तेः सिद्धकार्ययोरविशिष्ट- वात् योग्येतरान्वितार्थ एव शब्दशक्तिरिति यथोक्तप्रकारेण ब्रह्ममीमांसाप्यारम्भणीयेति । अत्र भाष्यारम्भे– पाराशर्यवचः सुधामित्यादिश्लोके व्यपगतप्राणात्मसंजीविनीमिति ; ;

(१ –– १ – १) वेदान्तन्यायसुदर्शनम् १४१ प्राणो ज्ञानम् । विनष्टज्ञानानामात्मनां संजीविनीं ज्ञानरूपप्राणधारिणीम्’ । पूर्वाचार्य- सुरक्षिताम् ; पोषिताम् । बहूनां मतिव्याघातेन दूरस्थिताम् ; अन्यत्र बहूनां व्याघातेन दुःसाधनानुष्ठानेन दूरस्थिताम् । आनीतां तु निजाक्षरैरिति कथममृतश्लेषः ? उच्यते- “चत्वारि चाक्षराणि” इति सोमरूपस्यामृतस्याक्षरैः सहानीतत्वं श्रूयते । तेषां च सोमराजप्रतिपादक- गायत्र्यन्तर्गतत्वेन निजाक्षरत्यम्; अतोऽमृतश्लेषसिद्धिः । अतः शब्दो वृत्तस्य हेतुभावे इत्यत्र वेदाध्ययनकर्मविचारयोरुभयोरपि वृत्तत्वेन हेतुभावो विवक्षितः । ’ अधीतसाङ्गे- त्यादिना तथैवोपपादनात् । सिद्धार्थेऽपि च शब्दानां व्युत्पत्तिसंभवात् अधीताद्वेदतो धर्मवत् ब्रह्मणोऽप्यापाततः प्रतीयमानत्वात् विचारमन्तरेण तन्निर्णयासंभवात् ब्रह्मविचारः कर्तव्य इत्युक्तन्यायेन कर्मणां ब्रह्मविद्याहेतुत्वेन कर्मविचारानन्तरं ब्रह्मविचार इति च शारीरकमीमांसाया आरभ्यत्वे अधीतात् वेदात् ब्रह्मापातावबोधनं हेतुः । "” कर्मणामुपयोगश्च विचारानन्तरोद्भवे । अन्यथा कर्मणामेव वृत्तानां हेतुता मता ॥ ४३ ॥ आनन्तर्यप्रसिद्धिः स्यान्न शास्त्रारभ्यतामितिः । सिद्धे व्युत्पत्त्यभावेन नारभ्यं शास्त्रमित्ययम् ॥ ४४ ॥ पक्षो बाध्योऽत्र तत्रापि व्युत्पत्तिस्थापनेन हि । हेतू सूत्रेण वक्तव्यौ शास्त्रारभ्यत्वसंभवे ॥ ४५ ॥ आनन्तर्ये च सिद्धे व्युत्पत्तिः कर्माङ्गता च तौ । उपासनात्मके ज्ञाने विनियुक्ताः शमादयः ॥ ४६ ॥ न वाक्यजन्यज्ञानेऽतो न तेषां पूर्ववृत्तता । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत् ’ “ सर्वात्मानं पश्यति नैनं पाप्मा तरति " इत्यादि हि वाक्यम् । एवंविदितवाक्यार्थ- ज्ञानम् । अत्रत्यब्रह्मापरोक्षज्ञाने हि शमदमादीनां विनियोगः ; न ते विचारेऽपेक्ष्याः । यत्र विनियोगः तत्रैवापेक्ष्याः । विना शमदमादीन् न भवतीति चेत् धर्मावबोधोऽप्येवं केवल- अधिगताल्पास्थिरफलकेवल कर्मज्ञानेत्यत्र स्यादिति तत्राप्यपेक्षिताः । ग्रहणं कर्मणामेव केवलानां ज्ञानाङ्गभावेनोपादेयत्वात् उक्तप्रकारे च तद्विचारस्य पूर्ववृत्त - १. दायिनीम्

१४२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) त्वज्ञापनार्थम् । हिशब्देन प्रसिध्या मुख्यक्रमन्यायं द्योतयति । तत एव ब्रह्म ज्ञातव्यम् इत्यत्र वाक्यजा धीः क्रमाद्भक्तिरूपा मुक्तिप्रदायिनी । तदवस्थामपेक्ष्यैतां कर्मणां हेतुतोदिता ॥ ४७ ॥ न केवलवाक्यादिज्ञानापेक्षया; तस्य न्यायसहकृतवाक्येनैव जन्यत्वात् कर्मवाक्यज्ञानवत् । तथापि ज्ञातव्यमिति वाक्यजन्यज्ञानमेवोच्यते, तस्यैव विचारापेक्षत्वात् । वाक्यार्थ- ज्ञानभक्तिरूपज्ञानयोरन्यत्वप्रदर्शनार्थमिह कथनम् । इह च उपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षय फलत्वात् इति ब्रह्मज्ञानं विशेषेण निर्दिष्टम् । प्रथमं शब्दतो ज्ञातस्य पुनर्भक्त्यात्मना विवृद्धस्य ज्ञानस्य मोक्षसाधनत्वादिति कर्मज्ञानयोर्हेतुहेतुम क्रमवत्त्वाद्विचारयोरपि स एव क्रम इति कर्मणो हेतुत्वमत्रोपदिश्यत इत्यर्थः । श्रीभाष्यम् । ज्ञातुमिच्छा जिज्ञासा । इच्छाया इष्यमाणप्रधानत्वादिष्य- माणं ज्ञानमिह् विधीयते । मीमांसापूर्वभागज्ञातस्य कर्मणोऽल्पास्थिर- फलत्वात् उपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षय फलत्वाच्च पूर्व वृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्यमित्युक्तं भवति । तदाह वृत्तिकारः—“ वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा " इति । वक्ष्यति च कर्मब्रह्ममीमांसयोरैकशास्त्रयम्- कर्मब्रह्ममीमांसयो रैकशास्त्र्यम् " संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रकत्वसिद्धिः" इति । अतः प्रति- पिपादयिषितार्थभेदेन षट्कभेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेदः । मीमांसाशास्त्रम् " अथातो धर्मजिज्ञासा" इत्यारभ्य " अनावृत्तिः शब्दादनावृत्तिः शब्दात् " इत्येवमन्तं संगतिविशेषेण विशिष्टक्रमम् । थुतप्रकाशिका अथ जिज्ञासाशब्दस्य व्याख्येयत्वस्फोरणाय प्रकृतिप्रत्ययविभागं दर्शयति– ज्ञातुमिच्छा जिज्ञासेति । विषयवैलक्षण्याधीनाया इच्छायाः ’ कथं विधेयत्वमित्यत्राह - CC-0 No Rights Reserved. Digitized by eGangotri(?–3–?) श्रुतप्रकाशिका १४३ इच्छाया इति । ज्ञानस्य विधानार्हतामाह – इष्यमाणप्रधानत्वादिति । सन्वाच्याया इच्छाया धात्वर्थः कर्म ; कर्मणश्च क्रिया शेषभूता, तत्सिध्यर्थत्वात्तस्याः; यथा यागीय - त्रीह्यादेः प्रोक्षणादिः । कर्तुः क्रियया आप्तुमिष्टतमत्वं हि कर्मत्वम्’ अतः प्रकृत्यर्थभूत- ज्ञानकर्मिकेच्छा तत्सिध्यर्था । अत इच्छाया इष्यमाणज्ञानप्रधानत्वादिष्यमाणं ज्ञानं विधेयमित्यर्थः । जिज्ञासायाः कर्तव्यत्वे प्रतीयमाने कथं ज्ञानस्य विधेयत्वम् ? उच्यते- यथा स्नात्वा भुञ्जीत, प्राङ्मुखो भुञ्जीत" इत्यत्र भुजिधातोर्विधिप्रत्ययान्तत्वात् भोजनस्य कर्तव्यत्वे प्रतीतेऽपि स्नानप्राङ्मुखत्वनियमयोरेव विधेस्तात्पर्यमित्यर्थस्वभावा- दभ्युपगम्यते – तयोरप्राप्तत्वात्; अप्राप्ते हि शास्त्रमर्थवत् ; तत्र भोजनं चीन्यत- प्राप्तमनूद्यते — एवमिच्छाया विधेयत्वासंभवात् तद्विषयभूतं विचारात्मकं ज्ञानमेव तात्पर्यतो विधीयते । " इष्यमाणं ज्ञानमिहाभिप्रेतम् " इति हि सारेऽभिहितम् । सन्नन्तनिर्देशश्च " निदिध्यासितव्यः " " विजिज्ञासितव्यः " तद्विजिज्ञासख " इत्यादिश्रुत्यनुसारेण क्रियते । श्रुतिश्चोपायदशाप्रभृति भगवज्ज्ञानस्य प्रीतिरूपत्वेने- च्छाविषयत्वात्तथा निर्दिशति । यद्वा ’ ब्रह्मजिज्ञासा’ इति सन्नन्तनिर्देशो विचा- रस्य रागप्राप्तत्वज्ञापनार्थः । एवमेव “ धर्मजिज्ञासा इत्यत्रापि । अत्र तर्करूपं ज्ञानं विधेयम्; तर्कानुगृहीतवाक्यजन्यप्रमितिरूपज्ञानं तु फलत्वान्न विधेयम् । प्रमितिरूपं ज्ञानं विधेयम्; तर्करूपं ज्ञानमार्थमित्यपि परैरुक्तमन्तर्णीतं विचारमाक्षिपतीति ततोऽपि प्रागुक्तपक्षः साधीयान् । वेदान्तार्थविचारात्मकन्यायनिबन्धरूपं तु शास्त्र ब्रह्ममीमांसेति प्रसिद्धिः ; प्रमितिश्च फलम् । अत एव हि " ब्रह्मविचारः कर्तव्यः" इति भाष्ये वक्ष्यते । सन्नन्तस्यास्य ज्ञाधातोर्ज्ञानसामान्यवाचिनो विशेषाकाङ्क्षायां समुचितविशेषपर्यवसानं हि न्याय्यम् । ‘ब्रह्मणो जिज्ञासा कर्तव्या, न तु कपिलसुगताद्यभिमतानां प्रधानादितत्त्वानाम्’ इति ज्ञातव्य विशेष निर्णयपरमिदं सूत्रं व्याख्यातं यादवप्रकाशाचार्यैः; तद्वयावृत्त्यर्थमिह- शब्दः । इह ; अस्मिन्नुपक्रमसूत्र इत्यर्थः । ब्रह्मणो जिज्ञास्यत्वमात्रे सिद्धे हि तस्यैव जिज्ञास्यत्वसिद्धिः ; न चोभयं सूत्रप्रतिपाद्यम्, ‘ब्रह्म जिज्ञास्यमेव ’ ’ ब्रह्मैव जिज्ञास्यम् ’ इति; वाक्यभेदप्रसङ्गात् । ननु मुमुक्षुभिर्नियमेन ब्रह्मणो जिज्ञास्यत्वं तन्त्रान्तर सिद्धानां प्रधानादीनामजिज्ञास्यत्वेन विना न सिध्यतीति ब्रह्मजिज्ञास्यत्वसमर्थने प्रधानादेरजिज्ञास्यत्व- समर्थनमर्थादापततीति न वाक्यभेद इति चेत्-न; अधीतक्रमेण वेदार्थ निरूप्यमाणे "

१४४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) पूर्वभागविचारानन्तरमुत्तरभागविचारस्य प्रधानादिनिरासनिरपेक्षत्वात् । न ह्येकस्य प्रबन्ध- स्यैकदेशे निरूपिते तदेकदेशान्तरनिरूपणस्य प्रबन्धान्तरप्रमेयनिरास सापेक्षता भवति । हि पूर्वपट्के निरूपिते सति उत्तरषट्कनिरूपणं कपिलसुगतादिमतव्युदसनेन विना न संभवति । यदि वेदान्तार्थस्य श्रद्धाढिने तदितरपक्षनिरसनमपेक्षितमिह क्रियत इति मतम् ; तदनुपपन्नम्, कृतकरत्वप्रसङ्गात् । एतदुक्तं भवति — इह प्रधानादीनामजिज्ञास्यत्वं किं वेदान्तानामतत्परत्वोपपादनेन समर्थ्यते ? उत, कपिलसुगताद्यागमप्रामाण्यतत्प्रमेयदौस्थ्य- प्रतिपादनेन समर्थ्यते ? न प्रथमः ; ईक्षत्यधिकरणादिभिर्वेदान्तवाक्यानामतत्परत्वस्य वक्ष्य माणतंयात्र वक्तव्यत्वाभावात् । न द्वितीयः ; वेदविरुद्धस्मृतीनामप्रामाण्यस्य पूर्वमीमांसायामेव समर्थितत्वात्, सांख्यसौगताद्यभिमतप्रमेयदौस्थ्यस्य तर्कपादे प्रतिपादयिष्यमाणत्वात् । “ विप्रतिषेधाच्चासमञ्जसम् इतरेषां चानुपलब्धेः एतेन योगः प्रत्युक्तः " 66 دو “ उदासीनानामपि चैवं सिद्धिः सर्वे व्याख्याता व्याख्याताः 66 99 " 99 अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः इत्यादिभिः एतेन सूत्रैस्तदुक्तमोक्षतदुपायनिरासस्यापि करिष्यमाणतयात्र वक्तव्यत्वाभावात्। किंच “ इत्यत्र " अनावृत्तिः शब्दादनावृत्तिः शब्दात् " इति शास्त्रान्ते च सूत्राभ्यासफलमनुक्तांशज्ञापनम् ; अनुक्तांशश्च सांख्ययोगावगम्य इति वदतां मोक्षस्य सांख्ययोगसमुच्चयसापेक्षत्वं च प्रतिपादयतां सौगतादिवत् सांख्यादिनिरासेन शारीरकस्यैवारम्भणीयत्वप्रतिज्ञानमतीव व्याहतम् । सांख्ययोगयोर्विरुद्धांशाभिप्रायमनादर- णीयत्वकथनमिति चेत् ——-न; विरुद्धांशानादरणीयत्वस्य विरोधाधिकरणन्यायसिद्धत्वादेव । अतो यादवप्रकाशकृतं सूत्रतात्पर्यवर्णनमनुपपन्नमितीहशब्दाभिप्रायः । विधीयत इति ; अज्ञातज्ञापनं विधिरिह विवक्षितं न त्वप्रवृत्तप्रवर्तनम्, रागतः प्रवृत्तेर्वक्ष्यमाणत्वात् । रागतः प्रवृत्तस्यापि पूर्वपक्षयुक्त्यानारम्भणीयता बुद्धौ सत्यामारम्भणीयत्वज्ञापनं ह्यज्ञातज्ञापनम् । अतो ‘विधीयते’ इत्यस्य ‘स्वयमेव प्रवर्तते’ इति वक्ष्यमाणग्रन्थेनाविरोधः । इत्थं पदार्था व्याख्याताः । अथ सूत्रस्य वाक्यार्थमाह-मीमांसेति । अत्र पूर्ववृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोः इति अथातः शब्दार्थ उक्तः । ब्रह्म ज्ञातव्यमिति ब्रह्मजिज्ञासा पदार्थः । ज्ञातव्यम् ; विचारयोग्यम् । तत एव इत्येवकारेण शास्त्रान्तराधिगमनैरपेक्ष्यमथशब्द फलित- भभिप्रेतम् । उक्तं भवतीति ; शब्दतोऽर्थतश्चेति भावः । कथमस्य सूत्रस्यायमर्थ इति शङ्कायां तदुपपादयति-मीमांसेत्यादिना । अथात इत्यादिपदानां यथोक्त एवार्थः ।

(१ – १ – १ ) श्रुतप्रकाशिका 0 १४५ कर्मब्रह्ममीमांसयोरैकशास्त्र्यात् । ऐकशास्त्र्यं च नियत पौर्वापर्य भागद्वयात्मकवेदाख्यप्रबन्ध- व्याख्यानरूपत्वादित्यर्थः । अत्र व्याख्येयस्य पूर्वापरभावेनावस्थितभागद्वयरूपत्वं तद्धेतुकं व्याख्यानस्य पौर्वापर्यविशेषविशिष्ट भागद्वयरूपत्वं चोभयं पदयोजनायां वाक्ययोजनायां च वक्तव्यम् ; तथापि ग्रन्थलाघवार्थं पदयोजनायामधीतसाङ्गसशिरस्कवेदस्येति व्याख्येयस्य नियतपौर्वापर्य भागद्वयरूपत्वमुक्तम् ; अत्र तु वाक्ययोजनायां व्याख्यानस्य नियत पौर्वापर्य - भागद्वयरूपतयैकशास्त्र्यमुक्तम् ; उभयत्रोभयमनुसंधेयम् । भागशब्दाभ्यां मीमांसाद्वयस्यै- कावयवित्वं सूचितम् । पूर्वोपरितनशब्दाभ्यां क्रमनियम उक्तः । कर्मब्रह्मशब्दाभ्यां वृत्त- वर्तिष्यमाणकथनम् । अल्पास्थिऱफलत्वानन्तस्थिर फलत्वाभ्यां तयोर्हेतुहेतुमद्भावोपपादनम् । मुक्त्युपायोपयोगितया कर्मणां स्वरूपेणोपादेयताप्रतीतिरनन्तस्थिरफलापातप्रतीत्यन्तर्भूता ; अतः पृथगनुक्तिः । एवं क्रमविशेषविशिष्ठैकव्याख्येयव्याख्यानरूपतया कर्मब्रह्ममीमांसयो- रैकशास्त्र्यात् सूत्रस्य यथोक्त एवार्थ इत्यर्थः । पूर्वं प्रतिज्ञातं वृत्तिकार मतानुसारं वृत्तिग्रन्थेन संवादयति — तदाहेति । कर्माधिगमस्यैव पूर्ववृत्तत्वं न केवलं कण्ठोक्तम् ; ऐकशा स्त्र्योक्त्या- क्षिप्तं चेत्यभिप्रयन्नाह — वक्ष्यति चेति । ’ वृत्तात्’ इत्यादिः ‘संहितम्’ इत्यादिश्च वृत्तिग्रन्थौ । शारीरकं ब्रह्ममीमांसा ; जगच्छरीरकः परमात्मा शारीरः, तस्यैष एव शारीर आत्मा इति श्रुतेः ; तद्विषयं शास्त्रं शारीरकमित्युच्यते । षोडशलक्षणेन; पोडशाध्यायेन । नियतपौर्वापर्य कव्याख्येयव्याख्यानरूपतया संगतमिति भावः । " अर्थे- संहितमिति 9 कत्वादेकं वाक्यम्” इति न्यायेन प्रतिपाद्यैक्याव्याख्येयस्य वेदस्यैकप्रबन्धत्वं भवेत् । तच्चोपपद्यते, पुरुषार्थपरत्वाद्वेदस्य ; ब्रह्मपरत्वाद्वा ; “ सर्वे वेदा यत्पदमामनन्ति " वेदैश्व सर्वेरहमेव वेद्यः " इति हि श्रुतिस्मृतो । वेदार्थविचारस्यानुगतत्वान्मीमांसाया एकप्रबन्धत्वम् । अनेनैकशास्त्र्येण कर्माधिगमस्य पूर्ववृत्तत्वमाक्षिप्तम् । ननु यद्यैकशास्त्र्यं कर्मब्रह्मविचारयोः, तद्युपक्रमे साधारणोऽर्थः प्रतिज्ञायेत - ’ अथातो वेदार्थजिज्ञासा’ इति । न चैवं प्रतिज्ञातम् ; किंतु पूर्वभागसाधारण एव प्रतिज्ञातः - " अथातो धर्मजिज्ञासा इति । अत्र ब्रूमः " अथातो ब्रह्मजिज्ञासा इत्येवोभयभागसाधारणार्थप्रतिज्ञा । कर्मविचारस्तु ब्रह्ममीमांसातृतीयलक्षणचतुर्थपादे संगतः । ब्रह्मविचारान्तर्भावेऽपि पृथक्करण - सुपपद्यते ; यथा निग्रहान्तर्भूतच्छलजात्योराह्निकभेदेन पृथगुक्तिः यथा च निग्रहान्तर्भूत- हेत्वाभासानामध्यायभेदेन पृथगुक्तिः । पृथक्करणं च बहुग्रन्थप्रतिपाद्यत्वात् । तत्र च पूर्व- 19 99 66 9? 99

१४६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) भावित्वमुपजीव्योपजीवकभावादिवक्ष्यमाणहेतुनिबन्धनम् । एतदुक्तं भवति — अर्थक्रमात् ब्रह्ममीमांसातृतीयलक्षणचतुर्थपादेन कर्मविचारः संगतः ; प्रतिपत्तिसौकर्यलक्षणक्रमात्तु कर्म विचारस्य पूर्वभाव इति । एवं वा साधयैवैधर्म्य समयोजत्योः कथनेन यथा प्रतिधर्मसमो- भयानुयायिन्यर्थसिद्धा, एवं भागद्वयासाधारणार्थप्रतिज्ञाद्वये कृते साधारणार्थप्रतिज्ञानमार्थ स्यात् । साधारणार्थे प्रतिज्ञातेऽप्यसाधारणार्थस्तु पृथगेव प्रतिज्ञातव्यः । धर्मजिज्ञासायां प्रतिज्ञातायामपि " अथातः शेषलक्षणम् " " अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा " इत्यादौ ह्यसाधारणार्थप्रतिज्ञा कृता । अतो भागद्वयासाधारणार्थप्रतिज्ञानेन तदनुगतसाधार- णार्थप्रतिज्ञानमार्थं स्यादिति प्रथमम् " अथातो धर्मजिज्ञासा" इति प्रतिज्ञातं, न तु वेदार्थजिज्ञासा’ इति । अथवा " अथातो धर्मजिज्ञासा" इत्येव साधारणप्रतिज्ञा । अलौकिकश्रेयःसाधनं हि धर्मः, तदनुयायि प्रतिपाद्यम् । धर्मश्च साध्यसिद्धभेदेन द्विविधः । सिद्धरूपे वस्तुनि धर्मशब्दप्रयोगो महाभारते दृष्टः ; यथा- " ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ 99 इति। तथाभियुक्तैश्चालौकिकत्वे सति श्रेयःसाधनत्वं धर्मशब्दप्रवृत्तिनिमित्तं मन्य- मानैः सिद्धरूपेऽर्थे धर्मशब्दः प्रयुक्तः - 66 द्रव्य क्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥” इत्यादौ । तत्र द्रव्यादिसद्भावेपि क्रियाप्राधान्यात् साध्यधर्मपरः पूर्वभागः ; उपा- सनतदङ्गसद्भावेऽपि ब्रह्मप्रधानत्वात् सिद्धधर्मपर ऊर्ध्वभागः । अत उभयभागविचारसाधारणी प्रथमप्रतिज्ञा । तत्र धर्मशब्दस्य साध्यधर्मविषयतया प्रसिद्धिप्राचुर्येण बुद्धिस्थत्वात्, पूर्व- भागप्रतिपन्नत्वेन प्राथम्यात्, धर्मजिज्ञासापदेनैव तन्त्रेणार्थतो वा प्रतिज्ञातत्वोपपत्तेश्च तल्लक्षणमुक्तं चोदनासूत्रे । सिद्धरूपधर्मविशेषस्य च साधारणप्रतिज्ञयैवार्थतः प्रतिज्ञा तत्वेऽपि तस्य बहुग्रन्थव्यवधानात् शब्दाबोध्यत्वशङ्कापरिजिहीर्षया च पुनः प्रतिज्ञा कृता । लक्षणमुक्तं जन्मादिसूत्र इति युक्तमैकशास्त्रयम् । ननु पूर्वभागस्य साध्यधर्मप्रधानतोक्तिरुदा- हृतवचनेन विरुध्यते; तत्र पूर्वभागेऽपि सिद्धरूपस्य परस्य कर्माराध्यतया प्रधानप्रति - पाद्यत्वावगमात् । तस्मिन्वचने वेदविच्छब्दो हि पूर्वभागाभिज्ञपरः, गोबलीवर्दनयात्,

( १ – १ – १ ) 66 श्रुतप्रकाशिका १४७ विष्णुनामा स वेदेषु वेदान्तेषु च गीयते" इत्यनेनैकार्थ्याच्च । न च गुणभावेन कर्मणां प्रतिपाद्यत्वमित्यविरोधः; प्राधान्येन प्रतिपाद्यत्वस्य जैमिनेरभिमतत्वात्, भवद्भिरपि तथोक्तत्वाच्च । सत्यम् ; वस्तुतः प्राधान्यं परमात्मन एव, यथा राज्ञस्तात्पर्यगोचरत्व- लक्षणम् ; शाब्दं प्राधान्यं तु कर्मण एव, यथा राजपुरुषस्य; तच्चातिरस्कृतम्, तत्र तस्य परमात्माराधनरूपत्वानवगमात् । न च तदवगमोऽवश्यं संपाद्यः । अन्तवत्स्वर्गादिफल- दत्वे कर्मणां परदेवताज्ञाननैरपेक्ष्यं हि श्रुतिस्मृतिभ्यामवगम्यते " यो ‘ह वा एतदक्षरं गार्ग्यविदित्वास्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति" इति, अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ इति च । अतस्तन्नैरपेक्ष्यलक्षणमपि प्राधान्यमस्ति कर्मणः । अतः पूर्वभागे कर्मणः प्रागवगतं प्राधान्यं पश्चादवगन्तव्यं परमात्माराधनरूपत्वं चाविरुद्धम् । अतः प्रतिज्ञोपपत्तेः शास्त्रैक्यं युक्तम् । यद्यपि कर्मब्रह्ममीमांसयोरैकशास्त्र्यमविवक्षितं जैमिनिना, तथापि तदङ्गीकृत्य तदेकशास्त्रतया बादरायणेन ब्रह्मसूत्रप्रणयनं युक्तम् । यतः, अतदर्थतया क्लृप्तमपि योग्यमपेक्षितम् । तादर्थ्यमर्हति ग्रामे कल्प्ये पूर्वतटाकवत् ॥ विवक्षितत्वसंभवश्च दर्शितः । अतः शास्त्रैक्यं युक्तम् । नन्विदमयुक्तमैकशास्त्रयम्, शारीरकशब्दसूचितात् प्रधानप्रतिपाद्यभेदात्, जैमिनीयशब्दसूचितात् कर्तृभेदात्, तदुभयफलितात् प्रयोजनभेदात्, अर्थविरोधाच्चेत्याशङ्कां परिहरति — अतः प्रतिषि- पादयिषितेति । अतः ; वृत्तिकारोक्तादेकव्याख्येयव्याख्यानरूपत्वसंबन्धादित्यर्थः । षट्क- भेदः पूर्वमीमांसायामध्यायभेदस्तत्रोत्तरत्र च निदर्शनार्थमुक्तौ ; अर्थभेदाभावे ह्येकं पट्कमेकोऽध्यायो वा स्यात् । अत एकावयवत्वे सिद्धे सत्यवान्तरार्थभेदो न महा- वाक्यैकत्वविरोधी, यथा पदार्थभेदो वाक्यार्थैकत्वाविरोधीति भावः । अनेन प्रतिपाद्यभेदः परिहृतः । प्रयोजनभेदश्चार्थात्परिहृतः; पटकद्वयचिन्तितप्रकृतिविकृतिप्रयोजनभेदस्य शास्त्र- भेदकत्वाभावात् । अनेन वृत्तिग्रन्थगतपोडशलक्षणशब्दतात्पर्यं च दर्शितम् । पूर्वोत्तर- -मीमांसाशब्देन जैमिनीयशारीरकशब्दौ च विवृतौ । प्रतिपिपादयिषितशब्देनार्थविरोधः CC-0 No Rights Reserved. Digitized by eGangotri१४८ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) परिहृतः । प्रतिपादयितुमिष्टं हि प्रतिपिपादयिषितम् । स च तात्पर्यविषयोऽर्थः । विरुद्धतया प्रतीयमानेषु देवतानिरासादिषु न तात्पर्यमित्यभिप्रायः । नन्वेवं कथमभि- धीयते “ आम्नायस्य क्रियार्थत्वात् " इति ? सिद्धपरवाक्यानां तच्छेषत्वं हि सूत्रकारेण कण्ठोक्तम् ; तच्च विरुध्यत एव; अतः शास्त्रभेद इति । नैवम् ; " पदे जुहोति " " आहवनीये जुहोति न हिंस्यात्सर्वा भूताति " पशुमा लभेत" इति वत्, शास्त्रान्तरे " कर्मण्यण् " आतोऽनुपसर्गे कः इतिवच्चोत्सर्गापवादन्यायेन 19 99 66 शास्त्र्यैक्याविरोधात् । सामान्येन सिद्धपरवाक्यानां क्रियाशेषत्वेऽभिहिते सिद्धपरवाक्य- विशेषस्य किं विधिशेषत्वं न वेति विचार्य स्वयंपुरुषार्थविरहिणामेव सिद्धपराणां क्रियाशेषत्वं स्वयंपुरुषार्थपर्यवसायिनां तु सिद्धपरवाक्यानां न तच्छेषत्वमिति हि निर्णेतुं युक्तम् ; यथा होमस्य सामान्येनाहवनीये प्राप्तत्वेऽपि होमविशेषस्य पदे कर्तव्यत्वनिश्चयः, यथा च सामान्यतो हिंसानिषेधेऽपि हिंसाविशेषस्य कर्तव्यतोक्तिः, यथा च सामान्येन कर्मण्युपपदे धातोरणि प्राप्तेऽप्याकारान्ताद्धातोः कप्रत्ययविधिः न च तत्र शास्त्रभेदः; तद्वत् । देवतानिराकरणे च न तात्पर्यम्, अश्रुतवेदान्तानां कर्मण्यश्रद्धानिवारणाय कर्मप्राधान्य- परत्वात्तस्य ; “न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपितु निन्दितादितरत् प्रशंसितुम्” इति हि न्यायविदः । यद्वा वेदप्रामाण्यकर्मावश्यकर्तव्यतातात्पर्यातिशयात् तत्प्रतिपक्षनिरा- चिकीर्षया अन्वारुह्य वादो देवतानिरासोक्तिः स्यात् ; अभिमततरार्थानादरेणापि हि विपक्ष- व्युदासो दृश्यते ; यथा- ; " अभीष्टार्थव्ययेनापि जयति क्षेत्रहारिणम् । लब्धक्षेत्रैर्न दुष्प्रापः स्यादर्थ इति निश्चयात् ॥ एवमभिमततरेश्वराद्यनादरेणापि वेदप्रामाण्यादिसमर्थने पश्चादभिमतसिद्धिरयल लभ्येति जैमि नेरभिप्रायः । तत्सिद्धिप्रकारश्च तदुक्तरात्रिसत्रन्यायाद्यधीन इत्युत्तरत्र व्यक्तीभविष्यति । न च तत्सिद्धिमभ्युपगच्छतस्तदनाद्वाद्व्याघातः; तस्यान्वारुह्य कृतत्वात् । कथमन्वारुह्य- वादत्वनिश्चयः ? उच्यते – “ संपत्तेरिति जैमिनिः —“ संपत्तेरिति जैमिनिः " " परं जैमिनिर्मुख्यत्वात् " " ब्राह्मण जैमिनिः” इत्यादिब्रह्मसूत्रैरेव जैमिनेर्ब्रह्मस्वरूप तद्गुणतदुपासनतत्फलाद्यभ्युपगमस्य प्रति- पन्नत्वात् ; महाभारते च हयशिरउपाख्यानादिषु भगवन्यासोपदेश लब्धपरमात्मतत्त्व- ज्ञानतावगमाच्चेति । अतो विरुद्धार्थे तात्पर्याभावान्नार्थविरोधः । नन्वर्थविरोधो दुष्परिहरः ;

0 ( १ – १ – १) श्रुतप्रकाशिका १४९ तथाहि–विशेषातिदेशनिरूपणपरेऽष्टमेऽध्याये विकृतिषु प्रकृतिधर्मातिदेशे कर्तव्ये सति कस्मिन्कर्मणि कस्य कर्मणो धर्मातिदेशः प्राप्त इत्यपेक्षायां यस्य कर्मणो येन कर्मणा द्रव्य- साम्यं देवतासाम्यं वा भवति, तस्मिंस्तद्धर्मोऽतिदेष्टव्य इति स्थितम् । तत्र यस्य केन- चिद्द्रव्यसाम्यं केनचिद्देवतासाम्यं च भवति तस्मिन् द्रव्यसाम्यवत एव कर्मणो धर्माति - देशः, न तु देवतासाम्यवत इति द्रव्यप्राधान्यमुक्तं जैमिनिना " द्रव्यदेवतासाम्ये द्रव्यं बलीयः” इति । न च द्रव्यप्राधान्योक्तेरतिवादत्वम्, अनुष्ठानविरोधात्, द्रव्यप्राधान्येन ह्यनुष्ठानं दृश्यते । अतो द्रव्यप्राधान्यमुक्तं वदतो जैमिनेर्देवतानिरासे तात्पर्यमस्तीति । अत्रोच्यते - नात्र द्रव्यदेवतयोः सद्भावासद्भावाभ्यां प्राधान्याप्राधान्ये विवक्षिते ; अपि तु विलम्बिताविलम्बितप्रवृत्तिप्रमाणविषयताधीने । द्रव्यं ह्यविलम्बितप्रत्यक्षगम्यम् ; देवता तु विलम्बितशास्त्रगम्या | ० 99 विलम्बाविलम्बावेव हि श्रुतिलिङ्गादिषु प्रत्यक्षानुमानादिषु च पूर्वोत्तरप्राबल्यदौर्बल्य हेतू । ननु हविष्टं शास्त्रैकगम्यमिति न द्रव्यस्यापि प्राधान्यमिति चेत्– नैवम् ; चरुपुरोडाशादिकद्रव्यं हि प्रत्यक्षम् ; हविष्ट्वास्यधर्ममात्रमेव तत्र शास्त्रगम्यम् । देवतायास्तु स्वरूपं श्रेयःसाधनत्वादिधर्मश्चोभयमपि शास्त्रगम्यम् । अतः स्वरूपतो धर्मतश्च विलम्बितमानगम्यत्वाद्देवताया अप्राधान्यम् । धर्ममात्रस्य शास्त्रगम्यत्वेऽपि धर्म्यंशेनावि- लम्बितमानगम्यत्वाद्भविषः प्राधान्यम् । अतः प्राधान्याप्राधान्ययोः प्रमाणद्वारकत्वेन स्वरूपासद्भावे तात्पर्यं नास्तीति देवतानिरासोक्तिरन्यपरा । एवमर्थान्तराण्यप्यविरोधेन नेतुं शक्यानीति नार्थविरोधः । ननु ब्रह्मसूत्रैरेव जैमिनिपक्षमनूद्य प्रतिक्षेपादर्थविरोधो दुष्परिहरः; तथाहि – “ फलमत उपपत्तेः " इत्यत्रेश्वरस्य फलप्रदत्वोत्त्या " धर्मं जैमिनिः इति धर्मस्य फलप्रदत्वमनूद्य प्रतिक्षिप्तम्, न श्रुतत्वोपपत्तिभ्याम् ; कालान्तरभाविफलसाधनत्वे जैमिन्यभिहिते ताभ्यामेवात्र फलसाधनविशेषसिद्धेरुक्तत्वात् । ननु शेषत्वात्पुरुषार्थवादः यथा “ अन्यार्थं तु जैमिनि: " इत्यत्र वेदान्तोदितात्मज्ञानस्य कर्मशेषतयात्मनां कर्मशेष- त्वोक्तिः “ अधिकोपदेशात् " इति सिद्धान्तेन विरुध्यते । न च विकल्पेन निर्वाहः संभवति, वस्तुनि विकल्पायोगात् । न च जैमिनिना परमतमुपन्यस्तमिति वाच्यम्, जैमिनिमतत्वेन सिद्धान्तिना प्रतिक्षेपायोगात् । नैवम् ; विपक्षनिरासार्थस्य जैमिनेरन्वारुह्य वादस्य तथो- पन्यासप्रतिक्षेपोपपत्तेः । अन्यथा " परं जैमिनिः " इत्यादिसूत्राणां मिथो विरोधो भार- तोक्तिविरोधश्च । जैमिनेरन्वारुह्य वादमजानतां तु तदुक्ते तत्त्वबुद्धिः स्यादिति तन्निवा-

१५० श्रीभाष्यम् (जिज्ञासाधिकरणम्) परामर्शं जैमिनि: " ; इत्यत्र रणाय ब्रह्मसूत्रे तदुपन्यासनिरासौ कृतौ । अत एव नैष्ठिकाद्याश्रमप्रतिक्षेपोऽपि परिहृतः ; " तद्भूतस्य " इत्यत्र नैष्ठिकाद्याश्रमभ्रंशस्य जैमिन्यन- भिमतत्वाभिधानात् ; न ह्याश्रमानभिमतौ तभ्रंशानभिमतिसंभवः । अतो वीतरागव्यति- रिक्तानामग्निहोत्रादिष्वश्रद्धानिवारणार्थ आश्रमान्तरप्रतिक्षेपः पूर्ववदन्वारुह्य वादः । स च पूर्वमीमांसायामसूत्रितः, तथाप्यौडुलोम्यादिमतवदनूद्य निरस्तः । न च मधुविद्यायां वस्वाद्यनधिकारोक्तिरधिकारोक्त्या विरुध्यत इति वाच्यम्, अनधिकारोक्तेर्वस्वादिदेवताभ्यु- पगमचिह्नत्वेन शास्त्रैक्याविरुद्धतया तदुद्घाटनवैयर्थ्यात् । “भावं जैमिनिः” इति सूत्रो- क्ताश्च पक्षाः शास्त्रैक्याविरुद्धाः कर्मविचारे तेषामसमर्थनादिति न तत्पर्यनुयोगावकाशः । तस्मान्नार्थविरोधः । कर्तृभेदपरिहारस्तु प्रसिद्धत्वान्न कण्ठोक्तः ; अतएव चशब्दसूचितो वा । धूर्तस्वामिकपर्दिकर्तृकस्याप्यापस्तम्बीयसूत्रव्याख्यानस्य व्याख्येयैक्यादेकप्रबन्धत्वं हि दृष्टम् । पाणिनीयसूत्रपूर्वोत्तरवृत्त्योश्च वामनजयादित्यकर्तृकयोव्र्व्याख्येयैक्यादेकव्याख्या- नत्वं दृष्टम् । तस्मादुपपन्नमैकशास्त्रयम् । अस्त्वैकशास्त्रयम् कथं पौर्वापर्यनियमः ? इत्याशङ्कां परिहरन् वृत्तिग्रन्थस्थं संहितमिति पदं विवृणोति - मीमांसेति । क्रमविशेषान्वितमैक- शास्त्र्यं संहितमित्यनेनाभिप्रेतम् । ’ आरभ्य एवमन्तम्’ इति पौर्वापर्यनियम उक्तः । संगतिविशेषेणेति ; अत्रामी संगतिविशेषा अभिप्रेताः – पाठक्रमः, चेतनानां त्रिवर्गे प्रथमप्रावण्यसंभवरूपोऽर्थस्वभावः, औपनिषदेष्वङ्गाङ्गिभावप्रतिपादकवाक्येषु यज्ञादिकर्मणः पदार्थत्वेन संबन्धः, कासुचिद्विद्यासु यज्ञतदुपकरणादीनां दृष्टिविशेषणत्वोक्तिः, कर्मब्रह्म- विद्ययोर्हष्टान्तदान्तिकभावः, विद्याकर्मणोरुत्पाद्योत्पादकभावात्तच्छेषभूतविचारयोस्तत्क्रम- भाक्त्वोपपत्तिः, व्याख्यानभूतमीमांसायां चोत्तरभागस्य पूर्वभागोक्तन्यायसापेक्षत्वं चेति एवं पौर्वापर्थनियामकसंगतिविशेषेण विशिष्टक्रमं क्रमविशेषवदित्यर्थः । ननु भवतु वेद- प्रामाण्यसिद्धये प्रथमाध्यायस्य पूर्व भावित्वम् ; द्वितीयाध्यायात्पूर्वं ब्रह्मविचारः किं न स्या दिति चेत् — न ; तत्र तत्रोक्तैः संगतिविशेषैः षोडशलक्षणानुपूर्वीसिद्धेस्तदनन्तरप्राप्तत्वा- द्ब्रह्मविचारस्येत्यभिप्रेत्य संगतिविशेषेण विशिष्टक्रममित्युक्तम् । भावप्रकाशिका 1 कर्मणश्च क्रिया शेषभूतेति ; ननु प्रधानस्य विधेयत्वे “ व्रीहीन्प्रोक्षति इत्यादौ व्रीह्मादीनां विधेयत्वप्रसङ्गात् प्रत्युत प्रधानत्वस्यानुवाद्यत्वानुबन्धिनो विधेयत्व- 15

D ( १ – १ – १) भावप्रकाशिका १५१ विरोधाच्च " व्रीहिभिर्यजेत " " अरुणया क्रीणाति " इत्यादौ गुणस्यैव विधेयत्वदर्शनाच्च कथमेतदिति चेत् ; उच्यते — इच्छाया विषयसौन्दर्याधीनत्वेन पुरुषेच्छाधीनकृतिसाध्य- त्वाभावेऽपीष्यमाणज्ञानस्येच्छाधीनकृतिसाध्यतया पुरुषतन्त्रत्वेन विधेयत्वसंभवादिति तदर्थात् । केचित्तु ’ प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्’ इति न्यायस्योपगवादौ सामान्यतो दृष्टत्वेऽपि ’ अश्वेन जिगमिषति ’ ’ असिना जिघांसति’ इत्यादौ सन्वाच्ये- च्छापेक्षया प्रकृत्यर्थस्यैव स्वतन्त्रोपस्थितत्वलक्षणस्य शब्दतः प्राधान्यस्य समभिव्याहृत- पदार्थान्तरान्वयस्य च दर्शनात्, " ब्रह्मजिज्ञासा" इत्यत्र प्रकृत्यर्थज्ञानस्यैवाध्याहृत- कर्तव्यपदान्वयसंभव इति भाष्याभिप्रायं वर्णयन्ति । प्रमितिरूपं ज्ञानमिति ; अत्र उद्दिश्येति शेषः ; तथाचायमत्रान्वयः – प्रमितिरूपं ज्ञानमुद्दिश्य आक्षिप्तं तर्करूपं ज्ञानं मनोव्यापारविशेषरूपं विधेयमिति परैरुक्तमिति । यद्वा, विधेयं शाब्दमित्यर्थः, उत्तरत्र तर्करूपं ज्ञानमार्थमित्युक्तेः । आर्थिके च विचारेऽध्याहृतकर्तव्यत्वान्वयः ; “ श्रौतस्तु मुमुक्षा- नन्तरं ब्रह्मज्ञानेच्छा भवितुं युक्तेत्येष एव " इति कल्पतरूक्तेः । पूर्वोक्तः साधीयानिति ; प्रकृतिप्रत्ययार्थाक्षिप्तस्य विधेयत्वापेक्षया प्रकृत्यर्थविधेयत्वस्य युक्तत्वादिति भावः । प्रधानादि- निरासनिरपेक्षत्वादिति ; प्रधानादिनिरासमुखेन प्रधानादिजिज्ञास्यत्वनिरासनिरपेक्षत्वादि- त्यर्थः; ततश्च विचारानपेक्षितं प्रधानादिनिरासमुखेन जिज्ञास्यत्वनिरसनं सूत्रकृतो विफल- मिति भावः । भाष्ये वृत्तात्कर्मज्ञानादनन्तरमिति ; अनन्तरशब्दस्य पश्चाच्छब्दपर्याय- तया दिक्शब्दत्वमङ्गीकृत्य पञ्चमीनिर्देश इति द्रष्टव्यम् । तद्विषयं शास्त्रं शारीरक - मित्युच्यत इति ; शारीरं कायतीति शारीरकम् ; कै शब्दे " आतोऽनुपसर्गे कः इति के रूपम् । मीमांसाया एक प्रबन्धत्वमिति यद्येवं वेदोपकाररूपैकप्रयोजनसमर्थ- त्वेनार्थैक्यात् व्याकरणज्योतिषादीनां तत्प्रयोजने निष्पाद्ये परस्पराकाङ्क्षाया अि सत्त्वादेकाङ्गत्वप्रसङ्गः; न च तेषामङ्गत्वेनैक्यमिष्टमिति वाच्यम्, तहहापि मीमांसात्वेनैक्यं स्यात्, न तु शास्त्रैक्यमिति चेत् — न ; तथा सतीदृशप्रतिबन्धा पूर्वोत्तरषट्कयोरपि शास्त्रभेदप्रसङ्गात् । न च तत्र विषयप्रयोजनाधिकारिणामेकत्वात् " अथातो धर्मजिज्ञा- सा" इति प्रतिज्ञायाः साधारण्याच्चैकत्वमिति वाच्यम्, अत्रापि वेदार्थरूपविषयस्य तज्ज्ञानरूपप्रयोजनस्य तत्कामस्य चाधिकारिण एकत्वाद्विचारद्वयानुगतसाधारणप्रति- ज्ञाया उपपादयिष्यमाणत्वाच्च । ननु “ अथातो ब्रह्मजिज्ञासा इति साधारणप्रति- ; “; "

० 3 6 0 १५२ श्रीभाष्यम् 66 ( जिज्ञासाधिकरणम् ) ज्ञेत्ययुक्तम् ; तथा सत्यथशब्दस्य कर्मविचारानन्तर्यार्थिकत्वं न स्यादिति ’ वृद्धिमिच्छतो मूलहान्यापत्तिः’ इति न्यायापातः । न हि कर्मविचारानन्तर्य विंशतिलक्षण्या मीमांसायाः संभवति ; अपितु चतुर्लक्षण्या एवेत्यस्वरसादाह – एवं वेति । प्रतिधर्मसमोभयानु- यायिनीति ; साधर्म्य समरूपोभयजात्यनुयायिनी प्रतिधर्मसमजातिप्रतिज्ञा अर्थसिद्धेत्यर्थः । प्रतिधर्मसमा जातिर्द्विधा – साधर्म्यसमा वैधर्म्यसमा चेति ; तत्र साधर्म्यवैधम्र्यो- त्कर्षापकर्षवर्ण्यावर्ण्यविकल्प साध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरण हेत्वर्थापत्त्य- विशेषोपपत्त्यनुपलब्धिनित्यानित्यकार्य समाः " इति जातीनां विभागोद्देशसूत्रेण विशेष- योरेवोद्देशः कृतः । अनन्तरं “ सावयवैधम्र्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्य- वैधयसमौ " इति लक्षणसूत्रं च विशेषयोरेवेति भावः । ननु वेदाध्ययनानन्तरमर्थविचारो न कर्तव्यः, अविवक्षितार्थकत्वादिति सर्ववेदार्थानुगतपूर्वपक्षनिरासाय ’ अथातो वेदार्थ- जिज्ञासा’ इति सूत्रे कर्तव्ये मन्दप्रयोजना विशेषप्रतिज्ञा अयुक्ता; साधर्म्य- वैधर्म्य समजातिस्थले तु सामान्यप्रतिज्ञायाः शिष्यबुद्धिसमाधानमात्रार्थत्वेन निरसनीय - पूर्वपक्षाभावेनार्थत्वेऽप्यदोष इत्यस्वरसादाह – अथातो धर्मजिज्ञासेत्येवेति । अलौ- किकश्रेयः साधनमिति ; वेदैकगम्यश्रेयःसाधनताकत्वमित्यर्थः । नन्वेवं श्येनादेरपि धर्मत्वप्रसङ्गः ; न च बलवदनिष्टाजनकत्वेन विशेषणात् तद्व्यावृत्तिरिति वाच्यम्, तथा सति परमात्मनः सर्वकारणत्वेनाधर्मत्वप्रसङ्गादिति चेत् — मैवम् ; तथाहि सति ज्योतिष्टोमादेवत्वं न स्यात्, " सर्वेभ्यो ज्योतिष्टोमः इति तस्य सर्व- फलसाधनत्वेन तद्द्वारा बलवदनिष्टजनकत्वात् । वैरिविपत्तिफलकप्रयोगे तस्य धर्मत्वाभाव इष्ट एव; वैरिविपत्त्यादिफलकप्रयोगानवच्छिन्नस्यैव ज्योतिष्टोमस्य धर्मत्वमिति चेत् ; तथा सति ब्रह्मणोऽननुष्ठेयपदार्थतया बलवदनिष्टानुबन्धिप्रयोगानवच्छिन्नत्वे सत्यलौकिक- श्रेयःसाधनत्वस्यैव ब्रह्मण्यपि संभवात् " धर्मजिज्ञासा " इत्येव साधारणप्रतिज्ञेति भावः । नन्विन्द्रियगम्यानां तेषां कथं धर्मत्वमित्याशङ्कयाह – तेपामैन्द्रियकत्वेऽपीति । ताद्र- च्येणेति ; ऐन्द्रियकत्वरूपेणेत्यर्थः । ननु धर्मशब्दस्य साधारण्यमभ्युपेत्य धर्मद्वयविचारः प्रतिज्ञायत इति वदता नैकस्यापि बुद्धिस्थत्वं वक्तुं शक्यम् ; अतश्चोदनासूले साध्यधर्म- स्यैव लक्षणकथने नैतन्नियामकमित्यस्वरसादाह - पूर्वभागप्रतिपन्नत्वेनेति । विशेषप्रति- ज्ञाया अप्यावश्यकत्वमभिप्रेत्याह – तन्त्रेण वार्थतो वेति । शब्दबोध्यत्वशङ्कापरि- CC-0 No Rights Reserved. Digitized by eGangotri(?-?-?) भावप्रकाशिका 99 १५३ जिहीर्षयेति ; सिद्धव्युत्पत्तिसमर्थनार्थमिति भावः । तस्य परमात्माराधनरूपत्वान- चगमादिति ; न च राजपुरुषस्य राजपुरुषपदाद्राजप्रेष्यत्वरूपपारतन्त्र्यप्रतीतावपि यथा न -शाब्दप्राधान्यविरोधः पुरुषस्य विशेष्यतया प्रतीतेः, एवं परमात्माराधनरूपत्वप्रतीतावपि कर्मणो विशेष्यतया भानान्न शाब्दप्राधान्यविरोध इति वाच्यम् ; अत्र शाब्दप्राधान्यमि- त्यस्यान्योपसर्जनतया अप्रतीयमानत्वमित्यर्थात् । न च राजपुरुषे तन्नास्तीति शङ्कनीयम्, वस्तुगत्या राजपुरुषस्य पुरुषपदात् प्रतीतिदशायां तदुपपत्तेः । केचित्तु ’ युक्तयन्तरमाह- परमात्माराधनरूपत्वानवग़मादिति’ इति वदन्ति । नंनु " कृष्णं धर्मं सनातनम् " इत्यादौ धर्मशब्दप्रयोगस्य " प्रणम्रेषु महीपेषु प्रसादो मूर्तिमानयम् ” इत्यस्य मूर्तिमत्त्वरूप- प्रसिद्धप्रसाद वैलक्षण्यविशिष्टप्रसादत्वारोप इव " रामो विग्रहवान् धर्मः इत्यस्य विग्रह - वत्त्वरूपप्रसिद्धधर्मवैलक्षण्यविशिष्टधर्मत्वारोप इव च सनातनत्वरूपप्रसिद्धधर्मवैलक्षण्यविधि- ष्टधर्मत्वारोपे तात्पर्येणोपपन्नस्य पौराणिकस्य " यमिन्द्रमा हुर्वरुणं यमाहुः” इत्यादिवाक्यतुल्यस्य वचनस्य “चोदनालक्षणोऽर्थो धर्मः” इति विचार्यधर्मशब्दार्थनिर्णयैकप्रयोजनकसूत्रवत् शब्द- शक्तिनियामकत्वाभावः । अस्तु वा ब्रह्मसाधारण्यं, तथापि जैमिनिनोभयविधधर्मविचारस्य प्रतिज्ञातत्वे ब्रह्मसूत्राण्यपि तेनैव प्रणेतव्यानि स्युः ; न हि महर्षेर्विघ्नशङ्कोत्प्रेक्षितुं शक्यते ; स्त्राचार्यस्य वादरायणस्य ब्रह्मसूत्रप्रणिनीषां दृष्टोदासामासेति कल्पना तु न, प्रमाणाभावात् तादृशजनवादानुपलम्भाच्चेत्यस्वरसादाह – यद्यपीति । अश्रुतवेदान्तानामिति ; वाय्वा- दिदेवताप्रीत्यर्थं कर्मणोऽनुष्ठाने वाय्वादीनां नश्वरतया कर्मभिः प्रीतस्य वाय्वादेः फलप्रदा- नात् प्रागपि नाशसंभवेन निष्फलत्वबुद्ध्या अश्रुतवेदान्तानां कर्मण्यश्रद्धा जायेत ; श्रुतवेदान्तानां तु तत्तत्कर्माराध्यस्य तत्तद्देवतान्तर्यामिणः कर्मानुरूपफलप्रदस्य सकलकल्पा- नुयायित्वेन न तच्छङ्केति भावः । यद्वा - अश्रुतवेदान्तानाम् ; अपीति शेष: ; अविरक्ताना- मपि कर्मण्यश्रद्धा स्यादित्यर्थः ; अत एव वक्ष्यति - - ’ वीतरागव्यतिरिक्तानामग्निहोत्रा- दिषु ’ इत्यादि । ननु महता यत्नेन देवताविग्रहादिकं निराकुर्वाणस्य तत्र तात्पर्या- भावे देवताविग्रहं साधयतो बादरायणस्यापि ’ न हि निन्दा ‘न्यायः कुतो नावतरेदि- त्यस्वरसादाह – यद्वा वेदप्रामाण्यकर्मावश्यकर्तव्यतातात्पर्यातिशयादिति । देवता- विग्रहवत्त्वे " विरोधः कर्मणीति चेत्" इत्यादिदेवताधिकरणोक्तरीत्या वेदस्याप्रामाण्यं प्रस- ज्यते ; कर्मणश्च देवताप्रीत्यर्थतया देवतां प्रति गुणत्वे कर्मणः फलजनकत्वाभावेन कर्मण 20 ;

8 १५४ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) आवश्यकत्वं किंचिद्धीयेतापि ; अतो वेदप्रामाण्यकर्मावश्यकत्वयोर्वद्धादरातिशयेन जैमि- निना देवता विग्रहनिराकरणेऽल्पीयान् कटाक्षः पातितश्चेत् का क्षतिरिति भावः । तदुक्तरात्रिसत्रेति ; ज्योतिर्गौरायुः इत्युत्पन्नस्य रात्रिसत्रस्य फलाकाङ्क्षायां 66 " 99 " यस्य " प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति " इत्यर्थवादसमर्पितप्रतिष्ठाया विपरि- णामेन फलत्वमात्रकल्पनमेव ज्यायः, न तु विश्वजिन्न्यायेन स्वर्गस्वरूपमपि कल्पयित्वा तस्य फलत्वकल्पनमपीति चतुर्थे स्थितम् । ततश्च तेनैव न्यायेनार्थवादिक देवताविग्रहादि- ष्वपि तात्पर्यमस्तीति भावः । तस्मिंस्तद्धर्मोऽतिदेष्टव्य इति स्थितमिति लिङ्गमर्थसंयोगादभिधानवत्" इत्यष्टमाध्यायद्वितीयाधिकरण इति शेषः । नात्र द्रव्यदेवतयोरिति ; ननु “ विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् " इति सूत्रे यस्य यत्र द्र्व्यदेवतासाम्ययोर्विप्रतिपत्तिरस्ति, यथा ऐन्द्रपुरोडाशे देवतासाम्यात् सान्नाय्यविध्यन्तः द्रव्यसाम्यात् पुरोडाशविध्यन्तश्च तत्र द्रव्यसादृश्यमाश्रित्यैव नियम: प्रवर्तते ; कुतः ? कर्मणो हविष्युपलभ्यमानत्वात् यागाख्यस्य कर्मणस्त्यागरूपस्य हविष्यु- पलभ्यमानत्वात् ; हविर्हि त्यज्यमानं दृश्यत इत्येवं द्रव्यस्यान्तरङ्गतया तत्सादृश्य- मपेक्षितम्, शब्दार्थगत चोदना सादृश्यगवेषणायामन्तरङ्गसादृश्यस्यैवापेक्षितत्वात्; ऐन्द्र- पुरोडाशे आग्नेयविध्यन्त एव प्रवर्तते न वैन्द्रसान्नाय्यविध्यन्त इति स्थितम् ; न तु द्रव्यदेवतयोः प्रत्यक्षत्वाप्रत्यक्षत्वाभ्यामिति चेत् — अस्त्वेवम् ; तस्याप्यर्थस्योक्तार्थाविरुद्ध- त्वेन ग्राह्यत्वात् । विपक्षनिरासार्थस्येति ; वेदाप्रामाण्यादिनिरासार्थस्येत्यर्थः । द्विती- यात्पूर्वं ब्रह्मविचारः किं न स्यादिति ; ननु प्रथमलक्षणार्थप्रामाण्यस्योपजीव्यत्वमिव भेदादिलक्षणोक्तस्य शब्दान्तरादेः श्रुतिलिङ्गादेश्चोपजीव्यत्वमविशिष्टमिति कथमयमाक्षेपः ? नन्वस्मिन् शास्त्रे सर्ववेदान्तानां ब्रह्मणि समन्वयार्थमुपक्रमादीन्येव ज्ञातव्यानि न श्रुति- लिङ्गादीनीति चेत् उपक्रमोन्मेषार्थं श्रुतिलिङ्गादीनामपेक्ष्यत्वात् न हि ब्रह्मांभिधान- श्रुत्यादिकमनुपलभ्य ’ उपक्रमो ब्रह्मविषयः’ इति निश्चेतुं शक्यम् ; न चैतावता श्रुतिलि- ङ्गादिकमेव समन्वयोपयोगि, नोपक्रमादिकमिति वक्तुं शक्यम् ; श्रुत्यादिष्वपि प्रकरणस्यो - पक्रमादितात्पर्यलिङ्गाधीनात्मज्ञानत्वात् साकाङ्क्षप्रधानवचनं हि प्रकरणम् ; प्राधान्य- निर्णयश्च तात्पर्यलिङ्गावसेयः । किंच येषु वाक्येषु ब्रह्माब्रह्मसमावेशः, तत्र ब्रह्मलिङ्गबलव- त्त्वस्य तात्पर्यलिङ्गोपक्रमाद्य वसेयत्वात् श्रुतिलिङ्गादिकमुपक्रमादिकं चापेक्षितम् । न चो- ;

(१–१–१) " 19 भावप्रकाशिका १५५ पक्रमादीनां श्रुतिलिङ्गादीनां चान्योन्याश्रयः ; उपक्रमादीनां स्वरूपलाभार्थं श्रुतिलिङ्गाद्यपे- क्षणं, बलाबलावधारणार्थमुपक्रमाद्यपेक्षणमिति विषयभेदेन परस्परापेक्षाया अदोषत्वात् । तस्मात् श्रुतिलिङ्गादिकमुपजीव्यमेवेति तदर्थं तृतीयाध्यायापेक्षाया अपि सत्त्वात् द्वितीया- त्पूर्वमिति शङ्कायास्तत्परिहारस्य चानुत्थानमेव । ननु श्रुत्यादीनामुक्तरीत्योपजीव्यत्वेऽपि न तत्परिज्ञानार्थं पूर्वतन्त्रापेक्षा, इहैव " द्युभ्वाद्यायतनं स्वशब्दात्, " " आकाशस्त- लिङ्गात् ” तचैकवाक्योपबन्धात् प्रकरणात् " इत्यादिसूत्रैः श्रुत्यादिस्वरूपा वगमत्य “ श्रुत्यादिवलीयस्त्वाच्च न बाधः इत्यादिसूत्रे श्रुत्यादीनां पूर्वबलीयस्त्वावगमस्य च संभवात् । न हि तत्र श्रुत्यादीनां लक्षणमुक्तमस्ति । क्वचिद्वाक्यैक्यमात्रस्य लक्षणमुक्तम्- अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् " इति । यानि तु तद्व्याख्यातृभि- रुक्तानि लक्षणानि तानि नोपयुज्यन्ते ; तथाहि – “ निरपेक्षो वः श्रुतिः निरपेक्षो रवः श्रुतिः” इति श्रुति- -लक्षणमुक्तम् ; तत्सर्वत्राप्यसिद्धम्, शक्तिस्मरणादिसापेक्षत्वात् । पदान्तरसमभिव्याहार- निरपेक्षत्वं विवक्षितमिति चेत् — न ; धूमवति पर्वते प्रयुक्तस्य ’ स:’ इति पदस्यानुमान- व्यवधानसापेक्षत्वेऽपि पदान्तरसमभिव्याहारनिरपेक्षत्वेन लिङ्गसमर्पकस्यापि शब्दस्य लिङ्गिनि श्रुतित्वप्रसङ्गात् । " शब्दादेव प्रमितः " इत्यधिकरणे विषयवाक्ये “ अङ्गुष्ठ- मात्रः पुरुषः” इत्यत्र ईशानश्रुतेरङ्गुष्ठप्रमितः परमात्मेति बोधने अङ्गुष्ठमात्र पदसमभिव्याहार- सापेक्षत्वेन श्रुतित्वाभावप्रसङ्गाच्च । ननु परमात्मवाचिन ईशानशब्दस्याङ्गुष्ठमात्रपदसामा- नाधिकरण्यात् वस्तुतोऽङ्गुष्ठमात्रप्रमितपरत्वेन पर्यवस्यतो धर्मिमात्रज्ञापने नैरपेक्ष्यमस्ति, " त्रीहीन् प्रोक्षति" इत्यत्र कियेप्सिततमवाचिन्या द्वितीयाविभक्तेः प्रोक्षतिपदसामानाधि- करण्यात् प्रोक्षणत्वे पर्यवस्यतः क्रियामात्रस्य ज्ञापन इवेति चेत् – तर्हि " आकाशस्त- लिङ्गात् ” इत्यधिकरणविषयवाक्ये “ आकाशो ह्येवैभ्यो ज्यायान् ” इत्यत्र ज्यायः शब्दस्या- काशपदसमभिव्याहाराद्वस्तुत आकाशपरत्वेन पर्यवसितस्य धर्मिमात्रज्ञापने नैरपेक्ष्यमस्तीति तस्याप्याकाशस्य परमात्मत्वे साध्ये श्रुतित्वप्रसङ्गात् । तथा वस्तुसामर्थ्यरूपलिङ्गलक्षण- मपि नोपयुज्यते “ आनन्दमयोऽभ्यासात् " इति वर्ण्यमानानां निरतिशयानन्दादिब्रह्मा- साधारणधर्म लिङ्गानां वस्तुसामर्थ्यरूपलिङ्गत्वाभावात् इतिकर्तव्यताकाङ्क्षा प्रकरणम्’ इति पूर्वतन्त्रोक्तं प्रकरणं न ब्रह्मविचारोपयोगि, सिद्धरूपस्य ब्रह्मण इतिकर्तव्यताकाङ्क्षा - विरहादिति स्पष्टमेव । स्थानस्य तु संनिधियथासंख्यलक्षणस्य संग्राहकमेकमनुगतं लक्षणं 6

90 00 १५६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) पूर्वतन्त्रोक्तं न दृश्यते । ’ समाख्या यौगिकी संज्ञा ’ इत्येतदपि न युक्तम्, पूर्वतन्त्रे होतृ- चमसादिसंज्ञाया इह शास्त्रे “ स ब्रह्मविद्याम् सर्वविद्याप्रतिष्ठाम् " इत्यादिषु श्रु ब्रह्मविद्यादिसंज्ञायाश्च समाख्यात्वसंभवेऽपि आध्वर्यवौगात्रादिसंज्ञायाः प्रकृतिप्रत्ययसमुदाय- रूपत्वेन तदभिमतैकपदश्रुतिरूपतया समाख्यात्वासंभवात् । तस्मात् तत्रत्यानां श्रुतिलि- ङ्गादीनामिहानपेक्षितत्वात् न प्रमाणलक्षणातिरिक्तमपेक्षितमिति चेत् - तर्हि " अत एव च नित्यत्वम्” इति वेदप्रामाण्यस्य " तदुपर्यपि बादरायणः संभवात् " इति सूत्रेण मन्त्रार्थवा- दैर्देवतानां विग्रहवत्वस्य सिद्धया विद्याधिकारहेतुसामर्थ्यसंभवसाधकेन मन्त्रार्थवादप्रामाण्य- स्य “शब्द इति चेन्नातः प्रभवात्” इति सूत्रेण स्मृत्यादिषु श्रुत्यनुमापकत्वप्रवृत्तिनिमित्तका- नुमानशब्दप्रयोगवता स्मृत्यादिषु प्रामाण्यस्य च सिद्धेः प्रमाणलक्षणमपि नोपजीव्यं स्यात् । ननु पूर्वतन्त्रे पूर्वपक्षसिद्धान्ताभ्यां स्फुष्टं वेदादिप्रामाण्यसमर्थनमस्ति ; इह तु न स्फुट- प्रतिपत्तिरिति चेत्, व्याख्यानतो विशेषप्रतिपत्तिसंभवात् ; उक्तं हि – " व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्" इति इति चेत् — सत्यम्; उक्तरीत्या श्रुतिलिङ्गा- दिषु तत्रत्येषु च वैषम्यसद्भावेऽपि प्रामाण्ये वैषम्याभावेन तत्र कण्ठरवेण समर्थितप्रामाण्योप- जीवनेऽपि श्रुत्यादेर्वैषम्यसद्भावेन द्वितीयात्पूर्वं ब्रह्मविचारः किं न स्यादित्याक्षेपः संभवतीति नानुपपत्तिरिति भावः । श्रुतमदीपिका प्रकृतिप्रत्ययविभागेन द्वितीयं पदं व्याचष्टे – ज्ञातुमिति । इच्छायाः कार्यत्वे प्रतीतेऽपि ’ स्नात्वा भुञ्जीत’ इतिवदप्राप्तेंऽशे विधिरित्यर्थः । सन्नन्तनिर्देशो विचारस्य राग- प्राप्तत्वज्ञापनाय । तथाच " धर्मजिज्ञासा" इत्यत्रापि ज्ञानं विचाररूपं विधेयम् । विचार कर्तव्य इत्यन्यत्रोक्तेः । प्रमितिस्तु फलतया अर्थसिद्धा । मीमांसा हीयम् । इह - उपक्रम- सूत्रे । अनेनास्य सूत्रस्य जिज्ञास्यविशेषपरत्वव्युदासः । आरम्भणीयत्वे सिद्धे हि जिज्ञास्य- विशेषनिर्णयः। स चोत्तरत्र " ईक्षतेर्नाशब्दम्" इत्यारभ्य क्रियते । अथ वाक्यार्थं योजयति- मीमांसेति । पूर्ववृत्तादित्यादि प्रतिज्ञा । अन्यदुपपादकम् । पूर्वभा गोपरितनभागशब्दा- भ्यां व्याख्यानस्य क्रमनियमानन्वितभागाध्ययनात्मकत्वं दर्शितम् । तद्धेतुभूतं व्याख्येयस्य तथात्वं पूर्वं पदयोजनायामुक्तम् । उभयत्रोभयं वाच्यम् । ग्रन्थलाघवायैवमुक्तिः 5: 1 तानुसारेणेति प्रतिज्ञां वृत्तिग्रन्थेन संवादयति - तदाहेति । कर्मचिन्तानन्तर्याक्षेपकर्मैक- तन्म-

( १ – १ – १ ) नय प्रकाशिका ; १५७ शास्त्र्यं च वृत्तौ दर्शयति — वक्ष्यति चेति । लक्षणमध्यायः । संहितमेकव्याख्येय- व्याख्यानरूपतया संबद्धमिति भावः । शारीरकं ब्रह्ममीमांसा जगच्छरीरकर्ब्रह्मविषय- त्वात् । षोडशलक्षणेन; षोडशाध्यायेन । शास्त्र्यैक्यप्रत्यनीकमर्थविरोधं प्रतिपाद्यभेदं प्रयोजन- भेदं कर्तृभेदं चाशङ्कयाह – अत इति । अतः; एकव्याख्येयव्याख्यानरूपतया प्रबन्धैक्य- सिद्धेः । प्रतिपिपादयिषितः प्रतिपादयितुमिष्टः, तात्पर्यविषय इत्यर्थः । देवतानिराकरणादिकं देवताज्ञानानपेक्षफलप्रदत्वरूप कर्मप्राशस्त्याद्यर्थान्तरपरम् ; न तु देवतानिरासादौ तात्पर्यम् “अन्यार्थं तु जैमिनिः” “परं जैमिनिर्मुख्यत्वात्" इत्यादौ जैमिनेर्ब्रह्माभ्युपगमदर्शनादिति भावः । द्रव्यदेवतासामान्ये द्रव्यबलीयस्त्वमपि प्रमाणद्वारा, न खरूपतः । द्रव्यखरूपं हि प्रत्यक्षं हविस्वरूपं, धर्म एव हि शास्त्रगम्यः, देवतायास्तु स्वरूपं फलप्रदत्वमपि शास्त्रकगम्य- मित्याद्यनुसन्धेयम् । अतो विरुद्धार्थे तात्पर्याभावान्नार्थविरोधः । पूर्वोत्तरकाण्डाभिप्रायेण षट्कभेदवदध्यायभेदवदित्युक्तम् । अनेन प्रयोजनप्रतिपाद्यभेदौ परिहृतौ । षट्कद्वयचिन्तित - प्रकृतिविकृतिरूपार्थतत्फलभेदस्य शास्त्रभेदकत्वाभावात् । कर्तृभेदपरिहारस्तु स्फुटतया नोक्तः । अस्ति हि वैयाकरणपूर्वोत्तरवृत्त्यादौ कर्तृभेदः । अस्त्वैकशास्त्र्यम् ; ब्रह्मचिन्ता पूर्वं किं न स्या- दित्यत्राह – मीमांसेति । संगतिविशेषाः वक्ष्यमाणाः – पाठक्रमः, चेतनानां त्रिवर्गे प्रथमं प्रावण्यरूपोऽर्थक्रमः, पदार्थवाक्यार्थभावः, दृष्टान्तदाष्टन्तिकभावः, उपजीव्योपजीवकभावश्च । एवं पौर्वापर्यनियामक संगतिविशेषेण विशिष्टक्रमं क्रमविशेषवदित्यर्थः । नय प्रकाशिका जिज्ञासाशब्दभाष्यं तु प्रसङ्गात् पूर्वमेवार्थतो व्याख्यातम् । अत्र ज्ञानशब्दार्थस्य विधेयत्वं चोत्तरत्र वक्ष्यते, वेदार्थविचारस्य न विधेयत्वमिति च । ननु मीमांसापूर्वभागेत्यारभ्य भवतीत्यन्तं भाष्यं व्यर्थम्, अधीतसाङ्गेत्यादिभाष्येण गतार्थत्वात् । न च तत्रार्थ- संकोचात् मीमांसापूर्वभागेत्यादिभाष्येण सूत्रवाक्यार्थयोजनाव्याजेन तदर्थ एव विवृत इति वाच्यम् ; एतद्भाष्येणैव परिपूर्णार्थसिद्धेस्तद्भाष्यस्य व्यर्थताप्रसङ्गात् इति चेत्-न; संकोच- विस्ताररूपेण सूत्रार्थविवरणस्य भाष्यस्वभावत्वात् ; 66 सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः || ” CC-0 No Rights Reserved. Digitized by eGangotri१५८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) इति प्रसिद्धेः । स्वपदविवरणमपि वस्तुगत्या सूत्रार्थविवरणमेव । कर्मब्रह्मविचार- योर्वृत्तिका रोक्तपौर्वापर्य हेतुहेतुमद्भावयोरैकशास्त्रयस्य चोपपादनं चोपपादनं मीमांसाशास्त्रमित्यारभ्य पश्यतु भवानित्यन्तेन भाष्येण क्रियते । तत्र साध्यमर्थं सिद्धमिव कृत्वा तत: प्रतिपिपाद- यिषितेत्यादिभाप्येण पूर्वोत्तरमीमांसयोर्भेदेन व्यवहारगतिरुक्ता । संगतिविशेषेण विशिष्टक्रममिति ; संगतिर्येन हेतुना विशिष्यते स संगतिविशेषः ; तेन हेतुना विशिष्ट - क्रममित्यर्थः । विशिष्टपौर्वापर्यजिज्ञासोत्पत्तिहेतुवशादध्ययनादेः पौर्वापर्यक्रमः | ‘तत्त्वटीका सन्निहानिच्छार्थ इच्छार्थो वा ? नाद्यः, " गुप्तिजिकिद्भ्यः सन् " ० इत्यादाव- पाठात् । न द्वितीयः, विचारे विवक्षिते तदिच्छाभिधानविरोधात् सूत्रलक्षणविरोधात् उपचारायोगाच्चेत्यत्राद्यमनभ्युपगत्यान्त्यं समर्थयितुं विगृह्णाति । ननु प्रत्ययार्थप्रधाने जिज्ञासापदे ज्ञानस्य निमग्नत्वान्न विधेयत्वम् ; इच्छा तु न पुरुष तन्त्रा ; न च सा खज्ञानजन्या, विषयानुकूल्यधीनिघ्नतया तदभावे तदनुपपत्तेरप्रतीयमानत्वाच्चेत्य- त्राह - इच्छाया इति । स्वविषयसिद्ध्यर्थतया इच्छारूपक्रियायाः प्रोक्षणादेखि स्वकर्म- प्रधानत्वं सिद्धम् । “ धातोः कर्मणः " इत्यत्र च धात्वर्थस्य प्राधान्यमार्थं ग्राह्यम् ; अप्राप्तमेव विधेयम् ; अत इच्छावाचिना तत्संबन्धिविवक्षात्र न युक्तेति भावः । तर्हि ज्ञानमात्रं वाच्यम् ; क्रिमजागलस्तनकल्पेन प्रत्ययेनेत्यत्र ’ अधिकमधिकमर्थं सूचयति इति नीत्या प्रत्युक्तिः - इष्यमाणमिति । संदिग्धसप्रयोजनविषयतया रागप्राप्तं विचाररूपं ज्ञानं नोपासनादिवद्वैधमिति सूचनात्सार्थकः सन्नित्याशयः । ज्ञानशब्दश्चात्रौ - चित्यात् उक्तविशेषपरः । रागविषयफलरूपज्ञानमुखेन विचाराक्षेपक्लप्तिस्तु न युक्ता, धीविलम्बात्, विवक्षितस्य च साक्षाद्वक्तुं शक्यत्वात् । इह ; मीमांसाख्यशास्त्रोत्तरभागारम्भे एवमेव हि " अथातो धर्मजिज्ञासा" इत्यादिष्वपीति भावः । ननु रागप्राप्ते विचारे ’ कथं विधीयते’ इत्युक्तिः ? नाप्यत्र गुर्वभिगमनादिनियमांशापेक्षया विध्युक्तिः ; न्यायानुपयोगात्, तादृशनियमनिषेधेन पूर्वपक्षानुत्थानाच्च ; मैवम् – रागप्राप्तस्याप्य- नारभ्यत्वभ्रमे तन्निषेधपरत्वादत्र विधिशब्दस्य । जातापि हि विचारेच्छा पूर्वपक्षोक्तयुक्तितः । सीदन्त्युत्तभ्यते युक्त्या सिद्धे व्युत्पत्तिपूर्वया ॥ २०७ ॥ 1

(१–१–१) तत्त्वटीका १५९ अत्र ’ तापत्रय’ इति ग्रन्थे यादवप्रकाशोक्तं पूर्ववृत्तान्तरं सांख्यादिविचारस्याना- रभ्यतास्थापनं च विवक्षितमिव प्रतिभाति ; तद्वयुदस्यन् वाक्यार्थमाह-मीमांसेति । माङ् माने ’ इत्यत्र सन्नन्तत्वं निपात्य वा, ’ मान पूजायाम्’ इत्यत्र वा ’ मान्बध ’ इत्यादिना अनिच्छासन्नन्तोऽयं शब्दः । " मानेर्जिज्ञासायाम्" इति वैयाकरणोक्तिस्त्व- दूरविप्रकर्षात् ; जिज्ञासाविशेषोत्थाप्ये हि पूजितविचारे तदनुबन्धिनि प्रशस्तन्याये वा वृद्धप्रयोगादस्य शक्तिनिष्कर्षः । आहुश्च- -" मीमांसा संज्ञकस्तर्कः सर्वो वेदसमुद्भवः इत्यादि । तादृशन्यायनिबन्धात्मनि तु शास्त्र भाक्तो मीमांसाशब्दः । अतः पूर्वापरभाग- विभागेन ज्ञातत्वावसेयत्वोक्तिरविरुद्धा । अत्र ‘पूर्ववृत्तादित्यादिना वाक्ययोजना । शिष्टं तत्रत्यहेत्वंशसमर्थनम् । विचारक्रमनिर्देशः सौत्रस्तव्यक्तये त्विह । शास्त्रैक्यतत्क्रमौ प्रोक्तौ सूत्रकाराभिसंहितौ ॥ २०८ ॥ 99 पूर्वभागोपरितनभागशब्दाभ्यां नियतक्रमव्याख्यानरूपप्रबन्धक्यं व्यज्यते । तन्निदानं व्याख्येयस्य वेदस्य क्रमवत्त्वं पदयोजनायां सशिरस्कशब्देन दर्शितम् । पदवाक्यनिर्वाहयो- स्तात्पर्यभेदादपुनरुक्तिः । ज्ञातस्य; निर्णीतस्य । अवसेयस्य; अबाधितापातधीस्थतया निर्णेतव्यस्य । ब्रह्मज्ञानस्य ब्रह्मोपासनस्य । ब्रह्मस्वरूपमात्रविवक्षायामत्र ज्ञानशब्दाधि- क्यात्, ’ ज्ञातस्य कर्मणः’ इत्येतत्सम शीर्षतया साध्यविशेषग्रहणौचित्यात्, विचाररूपस्य निर्णयरूपस्य वा ज्ञानस्यावसेयत्वोक्त्ययोगात्, निर्दिश्यमानफलं प्रत्यचोदितत्वाच्च ; तदिह समन्वयनीत्या स्वयमनन्ताक्षय फलत्वेन प्रधानतया ज्ञातव्यमपि ब्रह्म स्वोपासनस्या- नन्ताक्षयफलसाधनत्वेन तद्विषयतयापि ज्ञातव्यमिति तदुपसर्जनतयोक्तिरपि सुसंगता। ब्रह्म ज्ञातव्यमित्यनेन तु तत्प्राधान्यं व्यज्यते । अत्र प्रयोजनवत्तयापातधीस्थत्वं विचार्यत्वे हेतुः । कर्मविचारात् पश्चाद्भावितस्य तु प्रतिबन्धशान्तौ तत्सापेक्षत्वमानन्तर्यस्य च तादृशापेक्षणीयान्तराभावः। अतः श्रुत्युक्तनिर्वेदपूर्तिपर्यन्तविचारविशेषाभिप्रायेण तत एव इत्युक्तम् । अवधारणमिह हेतुवैकल्यनिवृत्त्यर्थम्, सावधारण हेतुनिषेधायोगात् । केचित्तु हेत्वन्तराद्ब्रह्मविचारेऽनावश्यकत्व शूद्राधिकारत्वयोः प्रसङ्गात् कर्मधीव्यतिरिक्त हेत्वनादरोप- देशोऽयम् " इत्याहुः । अत्र प्रधानप्रतिज्ञा तद्धेतुः प्रतिज्ञान्तरहेतुश्च नोक्तः स्यादिति १. अनेन ‘पूर्ववृत्तात्कर्मज्ञानादनन्तरम्’ इति पाठ आचार्याभिमत इति प्रतीयते । 66

१६० श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) चह्ननौचित्यम्। आकाङ्क्षितहेतुपूर्वकसाध्यविशेषायोगव्यवच्छित्त्यैवार्थतो हेत्वन्तरादिनिरा- सस्तु युक्तः । ज्ञातव्यम् ; विचार्यमित्यर्थः । ‘विचारः कर्तव्यः’ इति भाषिष्यते । अत्रार्हार्थे कृत्यप्रत्ययः। कर्मज्ञानादित्यत्रापि ज्ञानं विचारः । ब्रह्म ज्ञातव्यमित्युक्तं भवती- त्यनेन स्वारस्थं युक्तिं च सूचयता ब्रह्मैव ज्ञातव्यमिति वाक्यार्थं वदन्तः प्रत्युक्ताः । इदं हि सूत्रमविचार्यत्वनिरासार्थम् । ब्रह्मणो ज्ञातव्यत्वस्येतः पूर्वमसिद्धतया तदेव ज्ञातव्य - मिति नियमो नोदेति । कथं च शब्दानां सिद्धपरत्वसंभवमसाधयित्वा सिद्धविशेषस्य विचार्यत्वोक्तिः ? समन्वयसूत्रात् तत्साधनम् । साकाङ्क्षयोजना च न युक्ता । अत्र चोदनासूत्रवच्छब्दतोऽर्थतश्चायोगान्ययोगव्यवच्छेदौ वाक्यभेदाभावश्चेत्यप्ययुक्तम्, अनुप- युक्तप्रतिज्ञामात्रानुपपत्तेः ; ब्रह्मश्रद्धावर्धकतयान्यनिषेधः प्रस्तुतोपयोगीति च मन्दम् ; तत्प्रतिज्ञानेऽपि हेतुश्चात्रोद्यः; तदूहे तु ईक्षत्यधिकरणाद्यैस्तर्कपादान्तैः साधनप्राप्तैः कृतकरत्वं च स्यात् । किं च शारीरकेऽनुक्तांशस्य सांख्ययोगावगम्यत्वं वदद्भिः कथमिह तन्निषेधः प्रतिज्ञायते ? वेदविरुद्धांशानादरणीयत्वं तु विरोधाधिकरणतः प्रागेव सिद्धम् ; अतो ’ ब्रह्म ज्ञातव्यमेव ’ इति योजना युक्तेति वृद्धाः । अनेन श्रोतव्यादिश्रुतिरनुसृता भवति । अत्र स्वोक्तौ पदार्थवाक्यर्थी वृत्त्यापि द्रढयन् तन्मतानुसारे तत्कृतिसंवादं दर्शयति - तदाहेति । अनन्यथासिद्धपूर्वत्वविवक्षया कर्मविचारस्य हेतुत्वमपि वृत्त्यभि- प्रेतम् । अधिगम्यतेऽनेनेति अधिगमोऽत्र विचारः । विविदिषोक्तिः जिज्ञासोक्तिवन्नेया । स्वोक्तसूत्रार्थसिद्धयै सूचितं शास्त्रैक्यमपि संवादयति - वक्ष्यतीति । व्याख्यास्यमान- प्रदेशान्तरविषयतया भविष्यन्निर्देशः । ऐकशास्त्र्यमिह न केवलमेकविद्यास्थानत्वम् ; किंतु ऐकप्रबन्ध्यमपीत्यभिप्रायेण संहितत्वोक्तिः । अधीतकृत्स्नवेदार्थरूपविचार्यैक्यसिद्धौ कर्मब्रह्मकाण्डयोः प्रत्येकमपूर्णार्थत्वेन परस्परसाकाङ्क्षत्वात् नष्टाश्वदग्धरथन्यायेन संघटित - मित्यर्थः । इयं च वृत्तिः शास्त्रभेद भ्रम हेतून् तत्परिहारांश्च सूचयति ; सर्वशरीरिगोचरत्वं दर्शयता शारीरकशब्देन विषयभेदज्ञापनात् । ’ एतत्’ इति प्रयोजनाधिकारिभेदयोरर्थ- विरोधस्फुरणस्य चाङ्गुल्यैव निर्देशात् । ‘जैमिनीयेन’ इति भेदशङ्काद्योतनम् । परिहा- रस्तु ’ षोडशलक्षणेन’ इति द्वादशाध्यायीचतुरध्यायीरूपकाण्डद्वयेन । अत्र I 66 कर्मदेवताब्रह्मगोचरा सा त्रिधोद्बभौ सूत्रकारतः । जैमिनेर्मुनेः काशकृत्स्नतो बादरायणादित्यतः क्रमात् ॥”

(१ -१ – १) तत्त्वटीका · १६१ इति तत्त्वरत्नाकरोक्तेश्च वृत्तेश्च क्वचिदुपचारेणाविरोधो ग्राह्यः । ’ षोडशलक्षणेन ’ इति प्रतिवन्दीमभिप्रयतावान्तरविषयादिभेदानां न प्रबन्धैक्यविरोधित्वमिति दर्शितम् । ‘जैमि- नीयेन’ इत्यनेनैवार्थविरोधशङ्का सूत्रतात्पर्यानभिज्ञतयेति सूच्यते । सूचयिष्यति हि शारीरकार्थेषु बहुषु जैमिनेः संवादम् । व्यामोहशान्त्यै “ धर्मं जैमिनिरत एव " इत्यादिषु क्वचिद्विसंवादोक्तितन्निरासौ । " परामर्श जैमिनिः " इत्यादौ नैष्ठिकाद्याश्रमाभावो जैमिन्य- सूत्रितोऽपि नूनं सकामानां गृहस्थधर्मवैमुख्यनिवारणार्थं कदाचिदुक्तोऽनूद्यापास्तः, अन्यथा 66 तद्भूतस्य तु नातद्भावो जैमिनेरपि ” इत्यादौ नैष्ठिकाद्याश्रमप्रच्युतिनिषेधस्य जैमिनि- संवादोक्त्ययोगात् । " मध्वादिष्वसंभवादनधिकारं जैमिनिः " भावं जैमिनिर्विकल्पा- मननात्" इत्यादिष्वपि न शास्त्रैक्यविरुद्धानूक्तिः, स्वोक्तव्याख्याभेदवत् स्वल्पान्यथोक्ते- स्तदविरोधात् । संहितत्वोत्त्या तु कर्तृभेदाभेदयोर्यथादृष्टि प्रबन्धभेदाभेदानापादकत्वं ख्यापितम्। अर्थसंगतौ सत्यां ह्यन्यतराभिसंधेरुभयाभिसंधेर्वा संधायकत्वं युक्तम् । ब्रह्मसंवाददाढर्धेन प्रधानार्थाविरोधतः । अप्रधानविरोधस्तु तात्पर्याद नोद्यते ॥ २०९ ॥ परकल्पितसूत्रार्थविरुद्धांशव्यपोहतः । शेषपूरणवद्वात्र संहितत्वोक्तिसंभवः ॥ २९० ॥ 99 कुतस्तर्हि तद्भेदप्रथा ? सति वा भेदे कथं च प्रबन्धैक्यम् ? इत्यनवहितानुयोगे द्वितीय- वृत्त्यभिप्रेतं व्यनक्ति – अत इति ; सयुक्तिकसंप्रदायादित्यर्थः । प्रतिपिपादयिषितत्वोक्तया कर्मकाण्डदेवताधिकरणादेर्देवता तत्त्वनिश्चयरहितानामपि कर्मप्राशस्त्यादिप्रतिपादनपरत्वेन विग्रहादिनिराकरणादौ तात्पर्याभावः सूच्यते । उक्त ह्यागमप्रामाण्ये – “ यथैव हि भगवतो जैमिनेः कर्मणः फलोपन्यासः कर्मश्रद्धासंवर्धनाय " इति । विवृतं चैतत् वेदार्थ- अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणेऽतिवादाः कृताः अतिवादा अन्यपरोक्तयः; तावतापि बाह्येोक्तानित्यसंयोगादिनिमित्तश्रुत्यप्रामा- ण्यशङ्कानिरासात् तत एव स्वाभीष्टसिद्धेरित्याशयः । अपि चैवं नवमाद्यपादे " फलदेवतयोश्च “न चोदनातो हि ताद्गुण्यम् इति प्रसक्तयोः फलदेवतयोर्मध्ये देवताविषयाणि देवता वा प्रयोजयेत्” इत्यादीनि सूत्राणि यानि तानि व्याकुर्मः- देवतोद्देशेन देयं द्रव्यं देवता न प्रयोजयेत् ; कुतः ? कृप्यादिवत् फलसाधनभूतक्रियाया संग्रहे- इति ; ;. 21 99 66 "


१६२ श्रीभाप्यम् ( जिज्ञासाधिकरणम् ) एव प्रयोजकत्वोपपत्तेः; इति । तत्राह- देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात् " वा शब्दः शङ्कानिवर्तकः ; हविरुद्देश्या देवता फलार्थिनं स्वाराधने प्रयोजयेत् ; कुतः ? भोजनस्य तदर्थत्वात् ; भोजनस्य हविषः तत्समर्पणस्य च तदर्थत्वात् तच्छेष- त्वात् । संप्रदानभूता हि देवता प्रधानतया स्वार्थे द्रव्यतत्समर्पणे प्रयुङ्क्ते । ० क्रियाप्रधानवाक्येषु न्यग्भूतापि हि देवता । तत्तन्मन्त्रादिसामर्थ्यादार्थप्राधान्यशालिनी ॥ २१९ ॥ 66 न च वाच्यं विग्रहादिपञ्चकायोगात् * न प्रयोक्त्री देवतेति स्मृत्युपचारान्यार्थ - दर्शनैरबाधितैस्तत्सिद्धेः। अतो यथा विग्रहादिमानतिथिराराध्यः स्वार्थं स्वाभीष्टमुपचरणं प्रयुङ्क्ते तथा देवतापीति । “ आर्थपत्याच्च ” – अर्थ्यते प्राप्यत इत्यर्थः विभूतिः, अर्थ्यत इति वा ; अतस्तदभावादनाराध्या अनीप्सितप्रदत्वादप्रयोजिकेति न शङ्कनीयम् ; परा खलु देवता सर्वस्येष्टे ; तन्नियुक्ता चापरा यथाधिकारं तत्तद्विभूतीनाम् । तथा निरपेक्षा देवता न कुतश्चित् प्रीयेत, न कंचन प्रीणाति ; अतः कथं प्रयोजिकेत्यत्राह- " ततश्च तेन संबन्धः " ; ततः नैरपेक्ष्येऽपि नरदेवनीत्या दयौदार्यशालिन्याः परिचर्य- माणायाः प्रसेदुष्या देवताया एव हेतोः परिचरतां स्वाभीष्टफलेन संबन्धः स्मृत्युपचारादि- भिरेवं सिद्ध इति पूर्वः पक्षः । राद्धान्तस्तु- - " अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्यात् “; अत्र ’ अपि वा ’ इति सार्धाङ्गीकारे पक्षव्यावर्तनम् । यद्यपि देवताया विग्रहादिपञ्चकं दुर्निषेधम्, द्रव्याद्यपेक्षया संप्रदानस्य प्राधान्यम्, यजेश्च देवताराधन- वाचितया यागस्य तादर्थ्यम्, सिद्धपरवाक्येषु च परावरदेवतयोः स्वरूपादिकमनन्यार्थमा- मनामः ; तथापि कर्तव्योपदेशेषु यज्ञादिरूपं कर्म स्वर्गादिफलसाधनतया चोदितत्वात् प्रधानं सत् साध्यतया बुद्धघारोहेण पुरुषं प्रवर्तयति; कृत्स्नं च देवतादि क्रियाशेषभूतम् । ननु फलप्रदाया देवताया आराध्यत्वेन प्राधान्यमनुशोश्रयामहे ; अत्राह- " गुणत्वे देवताश्रुतिः " ; हविष्प्रदानं प्रति गुणीभूतां हि देवतामनुशृणुमः ; मन्त्रार्थवादोपस्थापितं देवताप्रीतिरूपमपूर्वं चोदितस्य क्षणिकस्य कर्मणः कालान्तरभाविफलद्वारतयोपादयेत ; अतो वास्तवप्राधान्यशालिन्यपि देवता फलकामप्रवर्तकशाब्दप्राधान्यवत्क्रियागुणीभूतान

  • टि. " विग्रहो हविरादानं युगपत्कर्मसंनिधिः । प्रीतिः फलप्रदत्वं चेत्येतत्पञ्चकमुच्यते ॥ " CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १) तत्त्वटीका १६३ प्राधान्येन प्रयोजिकेति । अतिथेस्तर्हि कथं प्रयोजकत्वम् ? इत्थमित्याह – “ अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात् " ; आतिथ्यं प्रत्यतिथेः प्रधानत्वं प्राप्तम् ; . अन्यथा हि तदर्थे कर्मणि प्रयोजकाभावात् तदभावः स्यात् । तत्सपर्याविधिरेव तत्प्रयोजक इति चेत् तत्र प्रीत्याह – " तस्य प्रीतिविधानत्वात् “; आतिथ्यकर्मणो हि अतिथिप्रीतिविधान- -तयैव चोदना । क्रियाप्रवृत्तपुरुषसमाहूता तु देवता । संनिधत्ते तदिष्टार्थं न ततस्तत्प्रयुक्तता ॥ २१२ ॥ अतिथिस्तु स्वयं प्राप्तः स्वाभीष्टं च प्रयोजयेत् । तदिष्टानुविधानेन तत्सपर्यार्थ चोदना ॥ २९३ ॥ अतः प्राप्ताप्राप्तविवेकादतिथिप्राधान्योक्तिरिति । यथा चातिथेर्विग्रहादिमत्त्वे तदु- पचरणानुष्ठानस्य न कदाचित् क्षतिः प्रत्युत स्वरूपलाभ एव, एवं देवतायास्तद्वत्त्वेऽपि । न चात्र तत्प्रतिक्षेपसाफल्यं पश्यामः । गुणीभावसाधनेऽपि किं फलमिति चेत्, अनिर्धारित- वास्तवप्राधान्यानामपि कर्मश्रद्धा संवर्धनमिति । सूत्रेषु तावदेतेषु पूर्वपश्चिमपक्षयोः । देवताविग्रहादेर्न प्रतिक्षेप्यत्वसूचनम् ॥ २१४ ॥ शाबरे पूर्वपक्षोक्तदेवताविग्रहादिषु । स्वतः प्रामाण्यवेदिभ्यः स्वदते न निराकृतिः ॥ २१५ ॥ स्मृत्योपचारादन्यार्थदर्शनैश्च स्वभाषितम् । न वाङ्मात्रेण निह्नोतुं शक्यते नास्तिकेतरैः ॥ २१६ ॥ अदर्शनकुतर्काभ्यां श्रुतार्थानामपह्नवे । चार्वाकादिमतापत्त्या सर्वोपप्लवसंभवः ॥ २१७ ॥ १. मुद्रितेषु शावर भाष्य शास्त्रदीपिकादिकोशेषु " प्रीतिप्रधानत्वात् " इति, तालपत्रस्थेषु मीमांसासूत्रपाठकोशेषु “ प्रीति विधानत्वात्” इति, तत्त्वटीका कोशेषु सर्वेषु " प्रतिविधानत्वात् " इति च पाठो दृश्यते । ’ तदिष्टानुविधानेन’ इत्युत्तर- कारिकानुसारेण ‘प्रीतिविधानत्वात्’ इत्येष पाठ आहतः ।

१६४ (जिज्ञासाधिकरणम् ) श्रीभाष्यम् श्रुतानां विग्रहादीनां कल्प्यतोक्तिश्च मोहजा । श्रुतशक्त्याद्यभावस्य कल्पने गौरवं तु वः ॥ २९८ ॥ क्षणिकस्य फलद्वारं किं भवेदिति चिन्तने । द्वारक्लृप्तेर्वरं ह्यत्र श्रुतद्वारपरिग्रहः ॥ २२९ ॥ देवतानां क्रियार्थत्वं कर्मणां च तदर्थता । मुखभेदेन सिद्धत्वान्न मिथो बाधमर्हतः ॥ २२० ॥ आदित्यादिमतीरङ्गे स्थापयन्वादरायणः । देवतानां प्रधानत्वमर्थसिद्धमसूत्रयत् ॥ २२९ ॥ नासिद्धदेवतारूपदृष्टिश्चान्यत्र युज्यते । न च सर्वत्र निर्बाचे कल्प्यो दृष्टिविधिक्रमः ॥ २२२ ॥ देवतानां तपश्चर्याद्युक्तिश्च न विरुध्यते । स्वाधिकेश्वरतोषार्थप्रवृत्तेरुपपत्तिः ॥ २२३ ॥ प्रशासितुश्च घृणया धर्मसंस्थापनार्थिनः । तत्तद्धर्मप्रवृत्तिः स्यात्कर्मवश्यानुकारिणः ॥ २२४ ॥ तिर्यक्स्थावरनिर्जीवतत्प्रतीकगुणक्रियाः । अभिमत्यनुबन्धेन देवतास्तदपि श्रुतम् ॥ २२९ ॥ हविर्भेदानुसारेण फलभेदप्रदायिता । प्रतिषिद्धैः प्रकोपश्च राजादिन्यायतो भवेत् ॥ २२६ ॥ यदि श्रुत्यनुसारेण स्वभावो हविरादिषु । तेनैव तत्तदाराध्यस्वभावस्वीक्रियोचिता ॥ २२७ ॥ मन्त्रार्थवादसिद्धेऽपि यत्र बाधा न दृश्यते । तन्मूला स्मृतिरप्यत्र न बाधाह स्वमूलवत् ॥ २२८ ॥ पर्याये च विशिष्टे च देवताभेदकल्पनम् । तत्तच्छन्दोपधानेन तदुद्देश्यत्वसिद्धये ॥ २२९ ॥ अविदित्वा स्वमन्दत्वं नास्तिकैरास्तिकेष्विह । यैरजल्प्यत मन्दत्वं शोच्यास्ते सूक्ष्मदर्शिभिः ॥ २३० ॥

(१ – १ – १) तत्त्वटीका द्रव्यदैवत सामान्ये बलीयो द्रव्यमित्यपि । प्रत्यक्षे च परोक्षे च प्रमाणप्रस्थितेर्वशात् ॥ २३१ ॥ द्रव्यस्याध्यक्षसिद्धस्य हविष्टं शास्त्रगोचरः । देवतायाः स्वरूपं च धर्मत्वं चेति भेदतः ॥ २३२ ॥ प्रत्यक्षाद्युपजीवित्वाच्छास्त्रतो धीर्विलम्बिता । ततो हि परदौर्बल्यं श्रुतिलिङ्गादिकेष्वपि ॥ २३३ ॥ द्रव्यदैवतवैषम्यं न सत्यासत्यभावतः । दैवतं यदि मिथ्या स्यात्कथं भेदादिधर्मभाक् ॥ २३४ ॥ अर्थोपलिष्ट शब्दात्मा शव्दमात्रात्मिकापि वा । यथाश्रुतगृहीता वा सत्यैव खलु देवता ॥ २३५ ॥ मणिमन्त्रौषधाद्यैश्च सिद्धिरुक्ताभ्युपेयते । जन्मसिद्धापि साधीता किं न देवेषु गृह्यते ॥ २३६ ॥ न वस्तु देशान्तरयोर्देवदृष्टिविधानवत् । इह कल्पयितुं युक्तं स्वरूपविधिसौस्थ्यतः ॥ २३७ ॥ रात्रिसत्रादिनीत्या च विध्यपेक्षानुसारतः । फलदाः फलभूतत्वादपि सिध्यन्ति देवताः ॥ २३८ ॥ इत्थं प्राचीनया गत्या क्षिप्तं निदैवतं मतम् । शेषं तदुपरीत्यादिसूत्रभाष्ये भविष्यति ॥ २३९ ॥ द्रमिडभाष्यकारैरप्युक्तम् – “ अञ्जसैव विश्वसृजो रूपम् " .” रूपम्" इत्यारभ्य १६५. 66 न नन्वर्थवादानी ह्यरूपाया देवताया रूपमुपदिश्यते, यथाभूतवादि हि शास्त्रम्" इति । विधिशेषत्वं पूर्वत्रोक्तम् ; समन्वयाधिकरणे त्वन्यथा ; तत्कथमविरोध: : इत्थम् - उत्सर्गापवादतः प्रवृत्तेः । दृष्टं चैतच्छास्त्रान्तरे काण्डान्तरे च । एवमन्यत्रापि कुदृष्टिकल्पितो विरोधः शमयितव्यः । षट्कभेदवत् इति कर्मकाण्डे प्रतिबन्दी, अध्यायभेदवत् इति तु काण्डत्रयेऽपि ; चकारोऽत्रानुक्तपादादिभेदसमुच्चये । देवताकाण्डाच्छारीरकस्य पृथक्करणं च तत्पृथक्करणप्रतिबन्धा निरूढम् । अथ भिन्नक्रमत्वभिन्नप्रबन्धत्वव्युदासं वृत्तिसिद्धं व्यनक्ति – मीमांसाशास्त्रमिति । संगतिविशेषेण ; हेतुहेतुमद्भावादिना संबन्धेनेत्यर्थः ;

१६६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) स च विंशतिलक्षण्यामेकप्रयोजन साधनत्वेनैकप्रयत्नसाध्यत्वम्" इति विवरणम् । 66 विंशतिलक्षण्यामेकप्रयोजनसाधनत्वेनैकप्रयत्नसाध्यत्वम् इदं चैकप्रबन्ध्यव्यक्त्यर्थम् । विशिष्टक्रमम् ; नियतक्रमम् ; न हि शास्त्रान्तरवदवसरमा- त्रादिह कापि क्रम इत्याशयः । तत्र विशेषः विचारात्पूर्वमेवात्र प्राप्तमध्ययनं विधेः । अतोऽनधीतवेदस्य विचारः श्रुतिवारितः ॥ २४० ॥ क्रमो विंशतिलक्षण्या न वैधः किंतु यौक्तिकः । अतो व्युत्क्रमचिन्तायामनौचित्यं प्रकाश्यते ॥ २४९ ॥ 1 ’ आरभ्य ’ इत्यनेन धर्मजिज्ञासासूत्रे कृत्स्नवेदार्थविचारप्रतिज्ञा सूच्यते, धर्मशब्देन सिद्धसाध्यपरावरकृत्स्नधृतिहेतुसंग्रहात् । कर्मभागमात्रप्रतिज्ञापि तत्रैव तन्त्रत आवृत्त्या वा सिध्येत् । तावतैव सारे कर्मविचारार्थत्वोक्तिः । भागद्वयप्रतिज्ञाभ्यां सामान्यप्रतिज्ञा गम्या ; न्यायसूत्रे साधर्म्यवैधर्म्यसमोक्त्या प्रतिधर्मसमोन्नीतिवत् । तदेतत्सर्वं संगतिमालायामुक्तम् । न च वाच्यमाद्यप्रतिज्ञयैव कृत्स्नसिद्धौ किं भूयो विशेषप्रतिज्ञयेति, शङ्काविशेषोद्धारादिप्रयो- जनवशात् प्राचीनाध्यायेष्विवात्रापि तदुपपत्तेः । न चायम् " अथातो धर्मजिज्ञासा " इत्यादिरप्रस्तुतार्थः ; यथान्यत्र संगत्या क्रमनियतिस्तथात्रेति तात्पर्यात् । अत्र ह्यमान- कस्यानिरूप्यतया प्रमाणलक्षणेन प्रथमेनाभावि । कात्स्न्र्त्स्न्येन वेदस्य प्रामाण्ये सिद्धे तदर्थेषु भेदाभावेऽङ्गत्वादेः सर्वस्यायोगात् मानचिन्तानन्तरं शास्त्रार्थभेद चिन्ता प्रावर्तिष्ट ; शास्त्रभेद- चिन्तेत्येके । तत्र शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयैः सिद्धे भेदे श्रुतिलिङ्गवाक्य- प्रकरणस्थानसमाख्याभिः शेषलक्षणं प्रवृत्तम् । शेषाणामेव शेषिभिः प्रयोज्यत्वाय चतुर्थे क्रत्वर्थपुरुषार्थजिज्ञासा ; विध्यपेक्षारूपोपादानचिन्तेति केचित् । प्रयुक्तेषु श्रुत्यर्थपाठप्रवृत्ति- मुख्यकाण्डैः पञ्चमे क्रमोऽनुक्रान्तः । क्रमे शास्त्रार्थे स्थापिते तत्प्रयोक्ता षष्ठे प्रोक्तः । एवमुपदिष्टप्रकृतिनिश्चये विकृतावतिदेशः सामान्यतः सप्तमे स्थापितः । अष्टमेऽपि तदनु- बन्धिविशेषः । अतिदिष्टमन्त्रादीनां नवमे बहुविध ऊहः । अतिदेशप्राप्तेषु कचित्प्रयोजना- भावादन्यतो वा तल्लाभात्प्रतिषेधतो वा दशमे बाधः । उक्तेषु पृथक्प्रयुक्तिशक्तिम दुभय- गोचरत्वे देशकालाद्यैक्ये चैकादशे तन्त्रम् । द्वादशेऽपि कस्मिंश्चित्प्रयोगमध्यपातिन्यन्यस्मि- स्तत्प्रयोगोपजीविनि प्रसङ्ग इति । तदिदं संजगृहु:- 1 1

(१ – १ – १ ) तत्त्वटीका " धर्म धीमानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः । सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥ " १६७ इति । एवं तर्किते कर्मणि संकर्षकाण्डे चतुर्लक्षण्या तत्तत्कर्माराध्यदेवतैव स्वरूपभेद- गुणप्रकर्षैर्निरकृप्यत । तत्समाप्तौ च " अन्ते हरौ तद्दर्शनात् " " " स विष्णुराह हि " " तं ब्रह्मेत्याचक्षते " इति विचारथिष्यमाणमुपचिक्षिप इति तत्त्ववृद्धाः । ततोऽन्तिमे काण्डे सद्वारकमद्वारकं च यथार्हं द्वादशलक्षण्युक्तसर्वधर्म समाराध्यमनन्तरच तुर्लक्षण्यवधारितसर्वदैव- तशरीरकं परं दैवतं परीचिक्षिषितम् । तत्र सर्वेषां कारणवाक्यानामयोगान्ययोगव्यवच्छेदेन ब्रह्मणि समन्वयः प्रथमेऽध्याये प्रतिपाद्यते ; तदुक्तं न्यायसुदर्शने- 66 “ व्युदस्याविषयत्वान्यविषयत्वे समन्वयः । वाक्यानां ब्रह्मणि प्राचाध्यायेनेह प्रदश्यते ॥ ३ इति । तत्र शङ्कितविरोधोद्धननं द्वितीयेऽध्याये । ताभ्यां स्थापिते ब्रह्मण्युत्पत्तिक्रमात् तृतीयचतुर्थाभ्यां साधनफलशोधनमिति विंशत्यध्याय्या विशिष्टक्रमत्वं दिङ्मात्रम् । हन्तैव- मत्र कथं षोडशकचतुष्कपौर्वापर्यम् ? व्युत्क्रमेऽपि हि न विरोधः ; वेदप्रामाण्यादिकं तूप- जीव्यमपि यथास्थानं शारीर के निबन्धुं शक्यम् ; तावन्मात्रं वा संश्रुत्य ब्रह्मचिन्ता स्यात् ; मैवम् ; अस्ति ह्यनाद्यभ्यस्ते त्रिवर्गे कर्मकृत् प्रथममा दोषदर्शनादभिनिविशत इत्यर्थक्रमः ; उभयत्र परिमितापरिमितफलापातप्रतीत्यविशेषेऽपि " अत्के चेन्मधु विन्देत " इति न्यायात् कर्मसापेक्षविद्याप्रयासतो वरं तन्नैरपेक्ष्यनिर्धूतविकल्पतत्समफलकर्मचिन्ता प्रथम- मिति च ; यज्ञादिपदार्थसापेक्षश्च तदङ्गकवाक्यार्थवीबोधः । विद्याभेदेषु तत्र तत्र यज्ञतद- वयवदृष्टिविधिविमर्शश्च दृष्टिविशेषणनिर्धारणापेक्षः । इष्टकचितादिदृष्टान्तधियश्च दाष्टन्ति- कोपजीव्याः । कर्मब्रह्मप्रचुरस्वाध्यायभागस्यानादिसंप्रदायनियताध्ययन संस्कारक्रमेण तद्वि- चारक्रमोऽपि युक्तः। स चात्र मुख्यक्रम एव; कर्मोपासनारूपाङ्गाङ्गयुत्पत्तिक्रमाच्च । तथा चोक्तं न्यायसुदर्शने- 66 कर्मविज्ञानयोर्हेतुहेतुमद्भावसंमतेः । । प्राग्भावः कर्मणः सिध्येत् पश्चाद्भावोऽपरस्य च ॥ CC-0 No Rights Reserved. Digitized by eGangotri१६८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) तयोश्च क्रमवत्त्वेन तद्विचारौ च तादृशौ । मुख्यक्रमनय।देव स्यातां सारस्वताङ्गवत् ॥ यथा " सारस्वतौ भवत एतद्वै दैव्यं मिथुनम्’ इत्यत्र युगलोत्पन्ने यागद्वये कस्याङ्गानां प्राथम्यमित्यनिर्णये सरस्वतीयागस्य याज्यानुवाक्याभ्यां प्राथम्ये सिद्धे तत्क्रमेग तदङ्गानामेव प्राथम्यमुक्तम् – ‘मुरुयक्रमेण वाङ्गानां तदर्थत्वात्’ इति । पूर्वकाण्डप्रसिद्धानां न्यायानामिह संग्रहात् । ब्रह्मकाण्डो वृथेत्येतत्प्राच्याध्यायेष्वपि स्मर ॥ २४२ ॥ व्युत्पादनमपूर्वाणामाक्षिप्य स्थापनं तथा । अपवादः क्वचिच्चेति सार्थत्वमिह च स्थितम् ॥ २४३ ॥ 99 ननु यदि " अनावृत्तिः शब्दात् " इत्यन्ता मीमांसा तदा शारीरकस्य विरक्ताधिकारत्वस्वीकारात् तत्र निर्दोषानन्तफलनिश्चयाच्च न स्वर्गादिफलसाधनानुष्ठाता कश्चित्सिध्येत् ; ततश्च काम्यविधीनामननुष्ठानलक्षणमप्रामाण्यं स्यात् ; मैवम् ; मोहाद्विनाद्वा यः कर्ममात्रं विचार्य विश्रान्तः, यश्च ख्यातिलाभपूजाप्रवचनादिमात्र कामस्त्रय्यन्तार्थं चिन्त- येत्, यो वा पश्चान्नियतिवशान्निवृत्तवैराग्यः, ते श्रुतशारीरका अपि प्रवृत्तिधर्मं न जह्युः । पण्डितोऽप्यातुरः कश्चिद पथ्येषु प्रवर्तते । निषिद्धेष्वपि किं नैवं काम्यं प्राज्ञेऽपि संभवेत् ॥ २४४ ॥ कथ्यन्ते च महान्तोऽपि कामादुभयभावनाः । क्रममुक्तिश्च केषांचित् तत एवाभिधीयते ॥ २४५ ॥ मूलभावप्रकाशिका जिज्ञासापदं व्याचष्टे – ज्ञातुमिच्छेति । इष्यमाणेति; ’ प्रकृतिप्रत्ययार्थयोः प्रत्य- यार्थस्यैव प्राधान्यम्’ इति न्यायस्य औपगवादौ सामान्यतो दृष्टत्वेऽपि ’ अश्वेन जिगमिषति’ ’ असिना जिघांसति’ इत्यादौ सन्वाच्येच्छापेक्षया प्रकृत्यर्थस्यैव स्वतन्त्रोपस्थितिकत्व- लक्षणशाब्दप्राधान्यस्य समभिव्याहृतपदान्तरार्थान्वयस्य च दर्शनात् " ब्रह्मजिज्ञासा " इत्यत्र प्रकृत्यर्थज्ञानस्यैवाध्याहृत कर्तव्यपदार्थान्वयसंभव इति भावः । इदं चोपलक्षणम् ।

(१ – १ – १) मूलभावप्रकाशिका ० १६९ इच्छाया विषय सौन्दर्यलभ्यत्वेन पुरुपेच्छाधीनकृतिसाध्यत्वाभावात् इष्यमाणस्य तु ज्ञानस्ये- च्छाधीन कृतिसाध्यतया पुरुषतन्त्रत्वेन विधेयत्वसंभवादित्यपि द्रष्टव्यम् । विधीयत इति; कर्तव्यत्वेन ज्ञाप्यत इत्यर्थः । नात्राप्रवृत्तप्रवर्तनं विधिशब्दार्थः, रागत एव विचारे प्रवृत्तेर्व- क्ष्यमाणत्वात् । न च तर्हि प्रबन्धकर्तव्यताप्रतिपादन वैफल्यम्, रागतः प्रवृत्तस्यापि पूर्वपक्षि- युक्तिमूलानारम्भणीयता बुद्धिनिरासकत्वेन साफल्यादिति । एवं सौत्राणि पदानि व्याख्याय संकलय्य वाक्यार्थं दर्शयति – मीमांसेति; पूर्वभागावगतकर्मणामल्पास्थिर फलत्व- प्रतीतेरित्यर्थः । उपरितनेति ; " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन -तपसानाशकेन ” इत्यादिवाक्यविहितयज्ञायङ्गकस्येति भावः । अनन्ताक्षयफलत्वादिति ; अनन्ताक्षय फलत्वप्रतीतेः संभवादिति भावः । विचारितकर्मणो हि पुंसोऽनन्तस्थिर फलक- नित्यनैमित्तिकादिभेदभिन्नयज्ञाद्यङ्गकब्रह्मोपासनप्रतीतिः संभवतीति भावः । ततश्च कर्म- विचारस्य कर्मफलानित्यत्वप्रतीतिरूपविशेषणे अनन्तस्थिर फलयज्ञाद्यङ्गकब्रह्मोपासनप्रतीति- रूपविशेष्ये चोपयोगः प्रदर्शितो भवति । ततश्च कर्मफलानित्यत्वप्रतीतिविशिष्टानन्तस्थिर- फलापातप्रतीतिविशिष्टाधिकारिसिद्धिः कर्मविचाराधीनेति दर्शितं भवति । वक्ष्यति हि- “ तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरफलत्वं दृष्टाध्ययनगृहीतस्वाध्यायैक- देशोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापात प्रतीतेस्तन्निर्णय फलवेदान्तवाक्यविचाररूप- शारीरकमीमांसायामधिकरोति " इति । पूर्ववृत्तात्कर्मज्ञानादनन्तरमित्यनेनाथशब्दार्थ उक्तः । तत एव हेतोरित्यनेनातः शब्दार्थ उक्तः । ब्रह्म ज्ञातव्यमित्यनेन ब्रह्मजिज्ञासा- पदार्थ उक्त इति द्रष्टव्यम् । उक्तार्थस्य सांप्रदायिकत्वं दर्शयति तदाहेति । ननु ब्रह्म- विचाराविनाभूतेषु कर्मविचारादप्यन्तरङ्गेषु सर्वसंप्रतिपन्नेषु मुमुक्षादिषु सत्स्वतथाभूतस्य कर्मविचारस्य पूर्ववृत्तत्वाश्रयणं किमर्थम् ? प्रायेणाकृतकर्मविचाराणामेव पुंसां ब्रह्मविचारे प्रवृत्तिदर्शनात् " संजातमोक्षाभिलाषस्यानन्तस्थिर फलब्रह्मजिज्ञासा ह्यनन्तरभाविनी " इति मुमुक्षाया अव्यवहितनियतपूर्ववृत्तित्वस्य भाषितत्वाचेत्यस्वरसादाह – वक्ष्यति चेति ; वृत्तिकार इति शेषः । शारीरकमिति ; जगच्छरीरकः परमात्मा शारीरः, तं कायति प्रतिपादयतीति शारीरकं बादरायणप्रणीतं शास्त्रम् ; ’ कै गै शब्दे ’ इति हि धातुः । षोडशलक्षणेनेति ; जैमिनिः प्रथमतो द्वादशाध्याय प्रणीय तत्राविचारितः कर्मविषयः कियानंशोऽस्तीत्यालोच्य संकर्षणाख्यां चतुरध्यायीं प्रणिनायेति प्रसिद्धिः । इतिर्हेतौ । 22

१७० श्रीभाष्यम् (जिज्ञासाधिकरणम् ) यतः षोडशाध्यायेन कर्मविचारेण शारीरकं शास्त्रमेकव्याख्येयव्याख्यानतया साक्षात्परं परया च परमात्मरूपैकार्थपर्यवसायितया संहितमित्यर्थः । ननु शास्त्रैक्ये ’ कर्ममीमांसा ’ ’ ब्रह्म- मीमांसा’ इति भेदेन व्यवहारः कथमित्याशङ्क्य सोपपत्तिकवृत्तिकारवचनात् " अथातो धर्मजिज्ञासा" इत्यारभ्य “अनावृतिः शब्दात् " इत्यन्तस्य कर्मविशेषनियामकसंगतिविशेष- विशिष्टस्यैकत्वे स्थिते यथा कर्ममीमांसायामेव प्रतिपिपादयिषितार्थभेदेन षट्कभेदाध्याय- भेदव्यवहारः, एवमेकस्मिन्नेव शास्त्रे प्रतिपिपादयिषितकर्मब्रह्मरूपार्थभेदेन मीमांसावान्तर- भेदव्यवहारो न विरुध्यत इत्याह–अत इति ; सोपपत्तिकवृत्तिग्रन्थादित्यर्थः । मीमां- साशास्त्रमिति ; एकमिति शेषः । विशिष्टक्रममिति; विशिष्टः विशेषितः क्रमः यस्य तत्त- थोक्तम्, क्रमविशेषवदित्यर्थः । न च व्यासजैमिनिरूपकर्तृभेदात् कर्मब्रह्ममीमांसयोर्भेदः शङ्कनीयः, वामनजयादित्यकर्तृकवृत्त्योरिवैकग्रन्थत्वोपपत्तेः । ननु कर्मब्रह्ममीमांसयोरैक- शास्त्र्ये उपक्रमे साधारणप्रतिज्ञया भवितव्यमिति चेत्; उच्यते - " अथातो धर्मजिज्ञासा " इत्येव साधारणप्रतिज्ञा, अलौकिकश्रेयः साधनवाचिधर्मशब्दस्य परमात्मसाधारणत्वात् । नन्वेवं श्येनादेरपि धर्मत्वप्रसङ्गः न च बलवदनिप्राजनकत्वेन तद्विशेषणात् तद्या- वृत्तिरिति वाच्यम्, तथा सति परमात्मनः सर्वकारणत्वेनाधर्मत्वप्रसङ्गादिति चेत् — मैवम् ; तथा हि सति ज्योतिष्टोमादेन धर्मत्वं स्यात्, “ सर्वेभ्यो ज्योतिष्टोमः" इति तस्य सर्वफलसाधनत्वेन वैरिविपत्तिसाधनत्वेन तद्दारा नरकलक्षणबलवदनिष्टजनकत्वात् । वैरिविपत्तिफलकप्रयोगे तस्य धर्मत्वाभाव इष्ट एव; वैरिविपत्त्यादिफलकप्रयोगानवच्छि- न्नस्यैव ज्योतिष्टोमस्य धर्मत्वमिति चेत्, तथा सति ब्रह्मगोऽननुष्ठेयपदार्थतया बलवदनिष्टानु- बन्धिप्रयोगानवच्छिन्नत्वे सत्यलौकिक श्रेयः साधनत्वस्य ब्रह्मण्यपि संभवात् । 66 " ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । 99 ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ इति महाभारतोक्तेश्च । यदि च " प्रणषुम्र महीपेषु प्रसादो मूर्तिमानयम्" इत्यस्य मूर्ति- मत्त्वरूपप्रसिद्धप्रसादवैलक्षण्यविशिष्टप्रसादत्वारोप इंव " रामो विग्रहवान्धर्मः " इत्यस्य विग्रहवत्त्वरूपप्रसिद्धधर्मवैलक्षण्यविशिष्टधर्मत्वारोप इव च सनातनत्वरूपप्रसिद्धधर्मवैलक्ष- ण्यविशिष्टधर्मत्वारोपतात्पर्येणोपपन्नस्य पौराणिकवचनस्य 66 यमिन्द्रमाहुर्वरुणं यमाहुः” इत्यादिवाक्यतुल्यस्य " चोदनालक्षणोऽर्थो धर्मः " चोदनालक्षणोऽर्थो धर्मः " इति विचार्यधर्मशब्दार्थनिर्णयैकप्रयो-

( १ – १ – १) मूलभावप्रकाशिका १७१ जनकसूत्रवत् शब्दशक्तिनियामकत्वाभावात्, धर्मशब्दस्य ब्रह्मसाधारण्येऽपि जैमिनिनोभय- विधधर्मविचारस्य प्रतिज्ञातत्वे तेनैव ब्रह्मसूत्राणामपि प्रणेतव्यताप्रसङ्गाच्च न हि महर्षे- र्विघ्नशङ्कोत्प्रेक्षितुं शक्यते ; न हि स्वाचार्यस्य ब्रह्मसूत्रप्रणिनीषां दृष्टोदा सामासेति कल्पनमुप- पत्तिमदिति–नेदं युक्तमिति मन्यसे, तर्हि कर्मब्रह्ममीमांसयोरैकशास्त्र्यस्य जैमिन्यविवक्षित- त्वेऽपि कर्ममीमांसायाः परमात्माराधनमीमांसात्वेन ब्रह्ममीमांसात्वेनैकशास्त्र्यसंभवं मन्यमा- नेन बादरायणेन तदेकशास्त्रतया ब्रह्मसूत्राणि प्रणीतानि । “ अतदर्थतया क्लृप्तमपि योग्यमपेक्षितम् । तादयमर्हति ग्रामे कल्प्ये पूर्वतटाकवत् ॥ "

  • इति न्यायादित्याश्रयणे दोषाभावात् । साधर्म्यसमवैधर्म्य समोभयानुयायिप्रतिधर्म समजातेः साधारणप्रतिज्ञाभावेऽपि साधर्म्यस मवैधर्म्य समजात्योर्लक्षणपरीक्षाया न्यायशास्त्रे दर्शनेनेहापि साधारणप्रतिज्ञाया अनावश्यकत्वाच्च । यदि तत्र साधारणप्रतिज्ञाया अर्थसिद्धत्वं तर्हि प्रकृतेऽप्युभयभागसाधारणप्रतिज्ञाया अर्थसिद्धत्वमस्तीति न किंचिदपहीनम् । ननु " शेष- त्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः " इति सूत्रे ब्रह्मणः कर्मकर्तृजीवाभिन्नतया ब्रह्म- विद्यायाः कर्मकर्तृसंस्काररूपत्वेन ब्रह्मविदाप्नोति परम्" इत्यादितत्फलश्रवणमर्थवाद इति जैमिनिमतं पूर्वपक्षीकृत्य " अधिकोपदेशात्त बादरायणस्यैवं तद्दर्शनात् " इति सूत्रेण ब्रह्मणः कर्तृभिन्नतया न तद्विद्यायाः कर्मकर्तृसंस्कारत्वम् ; अतः फलश्रवणं नार्थवाद इति समर्थितम् । तथा " परामर्श जैमिनिरचोदनाच्चापवदति हि " इति सूत्रे “यो धर्मस्क- " वीरहा वा इति चतुर्णामाश्रमाणामनुवादमात्रं क्रियते; न तत्र विधिरस्ति ; न्धाः 99 66 66 99 एष देवानां योऽग्निमुद्वासयते" इति संन्यासापवाददर्शनात् ऊर्ध्वरेतसामाश्रमाणामप्रामाणिक- त्वमिति जैमिनिमतं पूर्वपक्षीकृत्य अनुष्ठेयं बादरायणः साम्यश्रुतेः " विधिर्वा धारणवत्" इति सूत्राभ्यां गृहस्थाश्रमवदाश्रमान्तराणामपि प्रामाणिकत्वं समर्थितम् । एवं विरुद्धयोर्जेमिनिबादरायणशास्त्रयोः कथमैक्यमिति चेत् —न; कर्ममीमांसाशास्त्रे कापि ब्रह्मसंन्यासापलापस्यादर्शनात् । " परं जैमिनिर्मुख्यत्वात् " भावं जैमिनि- र्विकल्पामननात् ” “ तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्" इत्यादौ जैमिनेरपि ब्रह्मसंन्यासाभ्युपगमस्यैवोपलम्भात् । महाभारते हयशिरउपाख्यानादिषु भगवद्यासो- ‘पदेशलब्धपरमात्मतत्त्वज्ञानवत्त्वेन प्रतिपादितस्य जैमिनेर्ब्रह्मसंन्यासप्रतिक्षेपकत्वासंभवाच्च । 99

१७२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) 59 भगवता तु ननु तथापि जैमिनिना “ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते इति सूत्रेणार्थवादादीनामक्रियार्थत्वेनानर्थक्यं पूर्वपक्षीकृत्य " विधिना त्वेकवाक्यत्वात् इति सूत्रेण विध्येकवाक्यतया क्रियार्थतयैव तेषामानर्थक्यं परिहृतम् ; बादरायणेन " तत्तु समन्वयात् " इति सूत्रे अक्रियारूपे ब्रह्मणि वेदान्तानां प्रामाण्य- मुपपादितमिति कथमनयोरविरोध इति चेत् — सत्यम् ; जैमिनिना विधिव्यतिरिक्तानां क्रियार्थतयैव प्रामाण्यमुपपादितम् ; बादरायणेन तु ’ पिता ते सुखमास्ते ’ नायं सर्पः’ इत्यादिवाक्यवत् तादात्विक हर्ष भयनिवृत्तिहेतुतया स्वतः पुरुषार्थपर्यवसायिनि वेदान्तभागे तस्य नियमस्यापवादोऽभिप्रेतः । न ह्येतावता तयोरैकशास्त्र्यं हीयते । तथा सति " कर्मण्यग् ” “ आतोऽनुपसर्गे कः " इत्युत्सर्गापवादसूत्रयोरप्येकशास्त्रता न स्यात् । नन्वष्टमे “ विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात्” इति सूत्रे ऐन्द्रपुरोडाशे पुरोडाशरूपहविः सामान्यादाग्नेयविध्यन्तः, न त्विन्द्ररूप देवतासामान्यात् सांनाय्यविध्यन्तः, हविस्त्यागरूपकर्मणो हविप्युपलभ्यमानत्वात् ; हविर्हि त्यज्यमानं दृश्यते ; देवता त्वप्रत्यक्षैव परं यागोद्देश्येति प्रतिपाद्य यागस्य देवताराधनरूपत्वात् देव- तैव प्रसन्ना फलदात्री प्रधानभूतेति तत्सामान्यं हविः सामान्यात् बलीय इति शङ्कानिरा– करणार्थं सूत्रितं " गुणत्वेन देवताश्रुतिः " इति । बादरायणेन तु " फलमत उपपत्तेः " इति सूत्रेण परमात्माराधनरूपतया सर्वं कर्म परमात्मप्रधानकं तत्कर्माराधितात्परमात्मन एव फलं न कर्मण इति स्वमतमुक्त्वा " धर्मं जैमिनिरत 99 एव इति सूत्रेण जैमिनिमतं पूर्वपक्षतया निर्दिश्य 66 कर्मैवापूर्वद्वारा फलदायकमिति पूर्वं तु बादरायणो हेतुव्यपदेशात् " इति परमात्मैव सर्वकर्मफलदाता, “ स एवैनं भूर्ति गमयति" इत्यादिकर्मविधिवाक्यशेषेषु वाय्वादिरूपस्य परमात्मन एव फलहेतुत्व- व्यपदेशात् ; क्षणविनाशिनः कर्मण: फलजनने द्वाराकाङ्क्षायां वाक्यशेषार्पितां देवता- प्रीतिमपहाय द्वारान्तरकल्पनायोगादिति जैमिनिमतप्रतिक्षेपयुक्तिप्रदर्शनेन स्वमतं निर्धा- रितम् । एवं परस्परविरुद्धयोः कथमैकशास्त्र्यमिति चेत् ; उच्यते - " आग्नेयोऽष्टाकपालः इत्युत्पत्तिवाक्ये देवतायास्तद्धितार्थद्रव्योपसर्जनतथैव प्रतीतेर्द्रव्यस्य शब्दतः प्रधानत्वेना- वगमात् द्रव्यसायुज्यमेव ज्याय इति " गुणत्वेन देवताश्रुतिः " इति सूत्रकृतोक्तम् ; न देवतायाः कर्म समाराध्यत्व लक्षणं प्राधान्यं निराकृतम् । ऐन्द्रपुरोडाशे अवघातादीनां पुरो- 66 CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १ ) मूलभावप्रकाशिका १७३. " डाशधर्माणामिव सांनाय्यधर्माणां दोहादीनामसंभवात् न सांनाय्यविध्यन्तप्रवृत्तिरित्यपि युक्तिस्तत्राभिप्रेता । " धर्म जैमिनिरत एव " इत्यत्रापि " ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादिवाक्ये कर्मण इष्टसाधनत्वश्रवणात् कर्मण: फलहेतुत्वमात्रं जैमिनिनोक्तम् ; न तु स्वोक्तरात्रिसत्रन्यायसिद्धार्थवप्रतिपन्नपरमात्मप्रीतिद्वारकत्वमपीत्येतावानेव सूत्राभिप्रायः; न तु परमात्मनः फलदातृत्वं निराकृतमित्येतावत्पर्यन्तमपि ; तथात्वे " साक्षादप्यविरोधं जैमि- निः" इति परमात्मन एवानीन्द्रादिशब्दवाच्यतया सर्वकर्मसमाराध्यत्वं जैमिन्यभिमतमिति प्रतिपादनस्यासंगतत्वापातात् । अत एव " देवता वा प्रयोजयेत्" इति नावमिकाधि- करणे देवताविग्रहादिनिरासोऽपि नानुपपन्नः; देवताविग्रहस्वीकारे भिन्नदेशस्थितैर्बहुभिर्य– जमानैर्युगपदाहूतानामग्नीन्द्रादीनां सर्वत्र संनिधानासंभवात्, विग्रहस्यानित्यत्वेन वैदिक- शब्दानामनित्यार्थसंयोगप्रसङ्गात्, एकस्या एव देवतायाः पयसा प्रीतायाः पशुप्रदत्वं दना प्रीताया इन्द्रियप्रदत्वमित्यादिव्यवस्थाया उपपत्तिशून्यत्वात्, कर्मणां च देवतापूजारूपत्वे स्थ- ण्डिले प्रतिमादिष्वपि तत्पूजासंभवेन तत्कर्मादरे हेत्वभावात्, “हींकाराय स्वाहा " इत्यादौ चेष्टितानाम देवतात्वेनाराध्यत्वासंभवाच्च प्रसन्नाया देवतायाः फलप्रदत्वं न श्रद्धेयमिति मन्यमानानां मन्दधियां धियमनुसृत्यैव इन्द्रविरोचनयोः " य एषोऽक्षिणि पुरुषो दृश्यते " इति वाक्यजनितं प्रतिबिम्बात्मभ्रममनुसृत्यैवोदशरावब्राह्मणानन्तरम् " एष आत्मेति होवाच " इति प्रजापत्युपदेशवत् देवताविग्रहानभ्युपगमेनैव तच्छङ्कां पर्यहार्षीत् । न ह्येतावता शास्त्र्यैक्यं विहन्यते, प्रतिपिपादयिषितार्थविरोधाभावात् ; एकस्मिन्नेव ग्रन्थे शङ्कापरिहाराणां बहुविधानां प्रदेशभेदेन बहुलमुपलम्भात् । नन्वारम्भणाधिकरणे अव- यवातिरिक्तमवयव्यन्तरं नास्तीत्युक्तम् ; " अग्निधर्मः प्रतीष्टकं संघातात् पौर्णमासीवत् " इति नावमिकाधिकरणे इष्टकातिरिक्तस्याग्निरूपस्यावयविनः सद्भावात् हिरण्य- शकलैरग्नि प्रोक्षति " इति विधीयमानं प्रोक्षणं न प्रतीष्टकं कर्तव्यम् अपि त्विष्टकार- व्धाग्नावित्युक्तम् । एवं सति विरोधः सिद्ध इति चेत्–न; इष्टकास्वे कत्रावस्थाप्राप्ति- सदसद्भावमात्रविचाररूपतया तस्याधिकरणस्यैकत्वाश्रयद्रव्यारम्भसदसद्भावविचाररूपत्वा- 9 66 भावात् दुष्परिहरविरोधानुपलम्भात् पूर्वोत्तरवेदभागयोरिव तद्व्याख्यानमीमांसयोरपि सिद्ध- मैक्यम् । नन्वस्तु शास्त्रैक्यम् ; तथाप्यव्यवहितपूर्ववर्तिषु मुमुक्षादिषु सत्सु व्यवहितानियत- पूर्ववर्तिनः कर्मविचारस्याथशब्दनिर्दिष्टानन्तर्यप्रतियोगित्वाश्रयणं किमर्थमिति शङ्कायाः कः

१७४ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) प्रतिहारः कृतः स्यादिति चेत्; उच्यते — प्रमाणभेदलक्षणविचारशून्यानां शेषलक्षणोप- युक्तांशमात्रं विद्वद्व्यः श्रुतवतामपि शेषलक्षणार्थजिज्ञासया शेषलक्षणारम्भदर्शनात् शेषलक्ष- णार्थजिज्ञासाव्यवहितनियतपूर्ववर्तिभेदविचारस्य " अथातः शेषलक्षणम्" इति सूत्रे अथ- शब्दनिर्दिष्टानन्तर्यप्रतियोगित्वाश्रयणं किमर्थमिति पर्यनुयोगस्यापि सुशकत्वात् ; " “ अथानुमानं निरूप्यते " " अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा" इत्यादौ सर्व- त्राप्यस्याक्षेपस्य सुलभत्वात् । यदि च पूर्ववृत्तस्योपयोगमात्रमभिप्रेतम् ; पूर्वापरग्रन्थै- कवाक्यताप्रयोजका काङ्क्षा जनकज्ञानविषयसंगतिप्रदर्शकाथशब्द निर्दिष्टा नन्तर्यप्रतियोगितया ग्रन्थकृतां व्यवहारोऽस्तीति मन्यसे, तर्हि प्रकृतेऽपि षोडशलक्षण्याः कर्मफलानित्यत्वान- न्तस्थिरफलप्रतीतिद्वारोपयुक्तत्वात् पूर्वतन्त्रकृतप्रामाण्यादिविचाराणामुत्तरमीमांसायां प्राये- णापेक्षितत्वाच्च कर्मविचारस्याथशब्दनिर्दिष्टानन्तर्यप्रतियोगित्वाश्रयणे न काप्यनुपपत्ति- रित्यलमतिचचया । न्यायसुदर्शनम् इत्यत्रा- जिज्ञासापदे धात्वर्थं प्रतीच्छा गुणत्वेनान्विता निर्णयात्मकज्ञानस्य विचारमाक्षि- पन्ती तदर्था भवतीत्यर्थः । “ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति " पीच्छाया इष्यमाणप्रधानत्वात् वेदनकर्मणि विनियुज्यते ; यथा • असिना जिवांसति ’ ’ अश्वेन जिगिमिषति ’ इत्यादिष्वस्यश्वादेर्हननगमनाद्यर्थत्वम्, नेच्छाशेषत्वमित्यभिप्रायः ।


श्रीभाष्यम् तथाहि — प्रथमं तावत् " स्वाध्यायोऽध्येतव्यः ” इत्यध्ययने- नैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणं विधीयते । तच्चाध्य- यनं किंरूपं कथं च कर्तव्यमित्यपेक्षायाम् " अष्टवर्षं ब्राह्मणमुपन- यीत तमध्यापयेत्" इत्यनेन ८" श्रावण्यां प्रोष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥ " इत्यादिव्रतनियमविशेषोपदेशश्चापेक्षितानि विधीयन्ते । एवं सत्सं-

(१ – १ – १) श्रुतप्रकाशिका १७५ व्रतनियम- तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य विशेषयुक्तस्याचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहणफलमध्यथनमित्य- वगम्यते । श्रुतप्रकाशिका की पूर्वोक्तस्य साङ्गसशिरस्काध्ययनस्य प्रमाणं दर्शयन् साधनचतुष्टयसंपादनस्यानव- सरग्रस्ततां च दर्शयन् प्रतिज्ञातार्थत्रयमुपपादयितुमाह — तथाहीति । प्रतिज्ञातार्थ- त्रयोपपादनार्थमध्ययनविधिं निरूपयति – प्रथममिति । ननु वेदप्रामाण्यसमर्थनमिव कर्मविचारसिद्धमध्ययनविधिनिरूपणं किं नोपजीव्यत इति चेत्-न; अर्वाचीनव्याख्या- तृभिरर्थज्ञानपर्यन्ततायास्तत्रोक्तत्वात् ; अक्षरराशिग्रहणपर्यन्तत्वं हि भगवद्वादराय- णाभिमतम् ; " अध्ययनमात्रवतः इति हि वक्ष्यते । अतस्तत्र वक्ष्यमाणोऽर्थः शास्त्रारम्भणीयत्वायात्र प्रतिपाद्यते । अध्ययनविधेरक्षरराशिग्रहणमात्रपर्यन्तत्वे निरूपिते शास्त्रस्यारम्भणीयत्वसिद्धिः ; कृत्स्नविषयत्वनिरूपणेनैकशास्त्र्यपौर्वापर्यनियमसिद्धिः 99 कथमक्षरराशिग्रहणमात्रपरत्वे आरम्भणीयत्वम् ? इत्थम् — अध्ययनविधेरर्थ ज्ञानपर्यन्तत्वे सत्यर्थज्ञानस्य “ अधीत्य स्नायात् " आचार्यकुलाद्वेदमधीत्याभिसमावृत्य " इति यज्ञाद्य- नुष्ठानशेषत्वेन विनियोगादुपनिषत्सिद्धस्य ब्रह्मज्ञानस्यापि कर्मशेषत्वापत्तेः, तस्य च ज्ञानस्य " आत्मा वा इदम् " " ब्रह्म वा इदम् 99 " अयमात्मा ब्रह्म" इति त्रय्यन्तस्थब्रह्म- शब्दस्यात्मपर्यायत्वेनात्मविषयत्वादात्मज्ञानस्य व्रीह्यादिद्वारा प्रोक्षणादेरिवात्मद्वारा कर्मशे- पत्वे सति द्वारभूतत्रीद्यादेवि द्वारभूतात्मनश्च कर्मशेषत्वं स्यात् । न च समुद्रादि- ध्यानवदात्मज्ञानस्यादृष्टद्वारा कर्मशेषत्वात् समुद्रवदात्मा न कर्मशेष इति वाच्यम् ; कर्मशेषतयावक्लृप्तस्यात्मनो द्वारभावे संभवत्यदृष्टकल्पनायोगात् । समुद्रस्य तु क्रतूपकारकत्वासंभवेन ह्यदृष्टकल्पनम् । नन्वात्मनः फलप्रदतया शेषत्वमस्त्विति चेत्- न ; संप्रतिपन्नेनात्मनात्मज्ञानस्य कर्मशेषत्वे निरूढेऽप्यसंप्रतिपन्नात्मकल्पनायोगात् ; न हि जीवविलक्षण आत्मा संप्रतिपन्नः; अतोऽनुष्ठानशेषभूत आत्मा कर्मसु कर्तृभूतो जीव एवेति वेदान्तानां जीवपरत्वेन तदतिरिक्तेश्वरे प्रमाणाभावादप्रामाणिकेश्वरविचाररूपं शास्त्रमना- रम्भणीयमिति प्राप्नुयात् । अक्षरराशिग्रहणमात्रपर्यन्तत्वे त्वर्थज्ञानस्यानुष्ठानशेषत्वा-

१७६ श्रीभाष्यम् 1 9 (जिज्ञासाधिकरणम्) प्रधान- भावेन कर्मसु कर्तृभूतजीवातिरिक्तात्मप्रतिपादनसंभवात् प्रामाणिकपरमात्मविचाररूपं शास्त्रमारम्भणीयं स्यादित्यतोऽध्ययनविधिर्निरूप्यते । तत्राध्ययनस्य सक्नुहोमवत् कर्मत्वं, स्वरूपेण विधेयत्वम्, अध्यापनविधिप्रयुक्तत्वम् उपनयनस्याध्यापनाङ्गत्वं च प्राभाकराभिमतमनादृत्य अध्ययनस्यावयातवत् गुणकर्मत्वम्, नियमस्य विधेयत्वम्, अध्यय- नस्य स्वविधिप्रयुक्तत्वम्, उपनयनस्याध्ययनाङ्गत्वं चेति कौमारिलाभिमतमर्थचतुष्टयम्, उभयानभिमतमक्षरराशिग्रहणमात्रपर्यन्तत्वं च संग्रहेण प्रतिजानीते - प्रथममिति । प्रथमं तावत् ; प्रथमत एव ; " यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे " इति नैघण्टु- काः । प्राथम्यं शास्त्रान्तरश्रवणयोग्यावस्थापेक्षया पूर्वभावित्वम् ; गर्भाष्टमोपनीतस्य ह्यध्ययनम् ; ततः पूर्वं शास्त्रान्तरपरिश्रमानर्हत्वादध्ययनविधिपरतन्त्रस्य साङ्गाध्ययनानन्तरं कर्म- विचारावश्यंभावस्य स्वरससिद्धत्वाच्च साधनचतुष्टयादिपूर्ववृत्तान्तरनिष्पादनस्यानवसरग्रस्तत्वं ’ प्रथमं तावत्’ इत्यनेन फलितम् । लौकिकाक्षरराशिव्यावृत्त्यर्थो वेदाख्यशब्दः । वेदाख्यशब्देन कृत्स्नाध्ययनं च सूचितम् ; न हि वेदान्तभागमात्रं स्वाध्यायशब्दवाच्यम् । ’ अध्ययनेन ’ इति निर्देशेन गुणकर्मत्वं सूचितम् भावार्थस्यान्यनिष्ठत्वप्रतीतेः । यदि प्रधानकर्मत्वमविवक्षिष्यत् तदा हि ‘स्वाध्यायेनाध्ययनं संपाद्यम्’ इति वचनव्यक्तिर- भविष्यत् । एवकारेण नियमविधित्वं द्योतितम् ; न तु पुस्तकनिरीक्षणादिनेत्यर्थः । " स्वाध्यायोऽध्येतव्यः इत्यध्ययनविधिवाक्योपादानेन स्वविधिप्रयुक्तत्वं सूचितम् ; न हि " अध्यापयेत्” इति वाक्यमुपात्तम् । प्राथम्यवचनादध्ययनस्योपनयनाङ्गत्वं च फलितम् ; शास्त्रान्तरपरिश्रमायोग्यगर्भाष्टमवर्षाभिप्रायेण हि प्राथम्यमुक्तम् । अध्ययन- स्य हि प्राथम्यम् “ अष्टवर्षं ब्राह्मणमुपनयीत " इत्युपनयनविषयतयोक्तस्य कालस्योपनय- नद्वाराध्ययनशेषत्वे सत्येव ह्युपपद्यते । एवमर्थपञ्चकं संक्षेपेण प्रतिज्ञातं भवति । अस्मि- न्नध्ययनविधिवाक्येऽध्ययनस्य प्राथम्यं साङ्गत्वमुपनयनाङ्गकत्वं च न प्रतीतम् ; यीत तमध्यापयेत्” इति वाक्यान्तरेणाध्ययनस्याध्यापनविधिप्रयुक्तत्वमध्यापनस्योपनयना - ङ्गकत्वं च प्रतीयत इति शङ्कायामाह तच्चेति । चः शङ्कानिवृत्तौ । तत् : स्वाध्या- योऽध्येतव्यः " इति वाक्यप्रतिपादितमित्यर्थः । " आधे त्वध्ययने नैव काचिदस्ति फलश्रुतिः । धारणे जपयज्ञे च या साप्येवं निवारिता । 99 " उपन-

(?-?-?) श्रुतप्रकाशिका १७७ 97 इति जपादेरप्यध्ययनशब्दवाच्यत्वात्तेषु प्रस्तुताध्ययनस्याद्याध्ययनत्वनिश्चयायाह – किं- रूपमिति; किं सकृदुच्चारणरूपम्, आहोस्विदसकृदुच्चारणरूपम्, किं वा स्वतन्त्रो- च्चारणरूपम्, उत परतन्त्रोच्चारणरूपमित्यर्थः । परतन्त्रासकृदुच्चारणरूपत्वे ह्याद्याध्ययन- त्वसिद्धिः । कथम् ; किमङ्गकमित्यर्थः । ’ इत्यपेक्षायाम् अपेक्षितानि विधीयन्ते’ इत्य- न्वयः । प्राथम्यं परतन्त्रोच्चारणरूपत्वमुपनयनाङ्गकत्वं च दर्शयितुमाह – अष्टवर्षमिति । अनेन प्राथम्यं सिद्धम् ; उपनयनद्वाराध्ययनशेषत्वात् कालस्य । “ब्राह्मणमुपनयीत इति द्वितीयाश्रुत्या माणवकशेषत्वावगमादुपनयनस्य तंद्भुताध्ययनाङ्गत्वसिद्धिः ; उपनयनस्या - कर्त्रभिप्रायसूत्रविहितत्वाच्च नाध्यापनाङ्गत्वसिद्धिः ; " अध्यापयेत्” इत्यनेन परतन्त्रो - च्चारणरूपत्वसिद्धिः । “द्वादशाहेन प्रजाकामं याजयेत्” “अन्नाद्यकामं याजयेत्” “निषा- दस्थपतिं याजयेत् " इति प्रतिपन्नस्य याजनस्येवार्थार्जनार्थतया रागप्राप्तस्याध्यापनस्या- विवेयत्वादध्यापनेऽधिकारिविशेषाश्रवणाच्चाध्ययनस्याध्यापयितृपूर्वकत्वमुच्यत इत्ययमध्यय- नाङ्गविधिरिति भावः । उपाकर्मादित्रतनियमाङ्गत्वं साङ्गत्वं च दर्शयितुमाह— श्राव- व्यामिति । अर्धपञ्चमान् । इत्यादि ’ इत्यादिशब्देनोपात्तैः “ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । 99 वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ इत्यादिवचनैरङ्गाध्ययनस्य कालो दर्शितः । व्रतमुपाकर्मकाण्डत्रतादि । नियमः “पद्यु वा एतत् श्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्” इत्याद्युक्तदेशकालभक्ष्याभक्ष्या- दिव्यवस्थारूपः । अध्यापयेदित्यनेन ’ ’ व्रतनियमोपदेशैश्च’ इति पृथनिर्देशः श्रुति- त्वस्मृतित्वविभागाद्विप्रतिपन्नत्वसंप्रतिपन्नत्व विभागाच्च कृतः । उपाकर्मादिव्रतनियमवदु- पनयनमप्यध्ययनाङ्गमिति भावः । किंरूपम् ? कथं च कर्तव्यम् ? इत्यपेक्षायामेभिरङ्गवि- घायकवाक्यैरपेक्षितानि विधीयन्त इत्यर्थः । ननु " अष्टवर्षं ब्राह्मणम्" इत्यत्रोपनय- नन्याध्ययनाङ्गत्वमवगम्यत इत्युक्तम् ; तदयुक्तम् ; तस्योपनेयासत्तिद्वाराध्येतृसाकाङ्क्षाध्या- पनाङ्गत्वं ह्यवगम्यते; " उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः इत्यादि- स्मृतिवचनाच्च तदवगम्यते । उच्यते - " ब्राह्मणमुपनयीत इत्यत्र द्वितीया- श्रुत्योपनयनस्य माणवकशेषत्वमवगम्यते । माणवकशेषमुपनयनम् ; अध्ययनं च तद्ग- तम् ; तत्रान्तरङ्गबहिरङ्गन्यायादुपनयनमध्ययनाङ्गमेव । ननु - 23 99 99 CC-0 No Rights Reserved. Digitized by eGangotri१७८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) " उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ 99 इति वचने क्त्वाश्रुत्योपनयनस्याध्यापनाङ्गत्वं युक्तम् ; अन्तरङ्गत्वं हि वस्तुसाम- र्थ्यरूपं लिङ्गम् ; ततः क्त्वाश्रुतिर्बलीयसीति चेत्-न; अन्तरङ्गत्वं हि प्रत्यक्षश्रुतिसि- द्धम् ; क्त्वाश्रुतिस्तु स्मृतिगता अनुवादवचनस्था च ; अतोऽस्याः स्मृतिवचनस्थत्वान्मूल- श्रुतिसापेक्षत्वम् ; अनुवादरूपवचन गतत्वाद्विध्यन्तरसापेक्षत्वमिति विलम्बद्वयमस्ति ; श्रुतिलिङ्गादिषु विलम्बितधोहेतुत्वं हि पारदौर्बल्यहेतुः ; अतो विलम्बद्वयोपहता क्त्वाश्रुतिर्न बलीयसी । किंच श्रोत्रियोपाध्याय गुर्वादिनामविधानवत् तत्प्रकरणस्थमिदं वचनमुप- नीयाध्यापयितुराचार्यनामविधानपरमिति न क्त्वाश्रुतिरुपनयनस्याध्यापनाङ्गत्वे प्रमाणं भवि- तुमर्हति । किं च " स्वरितत्रितः कर्त्रभिप्राये क्रियाफले " इत्यात्मनेपदे प्राप्तेऽपि “ संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः इति पुनर्विधानस्या कर्त्रभि- प्रायार्थत्वादुपनयनस्य नाध्यापनाङ्गत्वं युक्तम् ; " अकर्त्रभिप्रायार्थोऽयमारम्भः " इति हि वृत्तिकारः । ननु कर्त्रभिप्रायत्वं कर्तर्येव फलस्याभिप्रेतत्वम् ; तदवधारणनिषेधार्थं पुन- विधानम् ; अतः फलमुभयान्वयि; अतो माणवकद्वारेणाचार्यान्वय्युपनयनफलमित्यध्याप- नाङ्गत्वं युक्तमिति चेत् —-न; " अग्नीनादधीत " इत्यत्र कर्त्रभिप्रायसूत्रविहितेऽप्यात्मने- पदे · फलस्योभयान्वयितया पुनर्विधानस्य नियमनिषेधार्थत्वाभावेन कर्त्रभिप्रायत्वमात्र- 99 निषेधार्थत्वात् । अतो नाध्यापनाङ्गत्वम् । ननु कर्त्रभिप्रायशब्देन कर्तृव्यतिरिक्ते चेतने फलानन्वयो विवक्षितः; अतो न " अग्नीनादधीत " इति व्यभिचारः; पुनर्विधानस्य तन्निवारणार्थत्वे फलस्याचार्येऽप्यन्वयोपपत्तेरध्यापनाङ्गत्वमिति चेत् —न; " ऋत्विजो वृणीते " इत्यत्र " स्वरित - " इत्यादिसूत्रविहितेऽप्यात्मनेपदे फलस्य कर्तृव्यतिरिक्त- चेतनान्वयदर्शनेन पुनर्विधानस्य नियमनिषेधार्थत्वाभावात् ; अतः कर्त्रभिप्रायमात्रनिषेधार्थं पुनर्विधानमिति नाध्यापनाङ्गमुपनयनम् । ननु क्रियाफलं नाम क्रियानन्तरभावि फलम् ; तस्य कर्तर्यन्वितत्वं कर्त्रभिप्रायत्वम् ; अंत आचार्यकस्योपनयनक्रियानन्तरभावित्वाभावा- दव्यवहितफलस्य कर्तृगतत्वाभावाच्चात्मनेपदस्याप्राप्तावव्यवहितफलस्याकर्त्रभिप्रायत्वेऽप्यात्म- नेपदं " संमानन – ” इत्यादि सूत्रेण विधीयते; अतोऽकर्त्रभिप्रायार्थत्वेऽपि व्यवहिताचार्य- कनिष्पत्त्यर्थतयाध्यापनाङ्गत्वमुपनयनस्याविरुद्धमिति चेत् — मैवम् ; " अग्नीनादधीत "

(१–१– १) 99 श्रुतप्रकाशिका


१७९ इत्यत्र " स्वरित- इति विहितेऽप्यात्मनेपदे अग्निसंस्कारव्यवहितस्याहिताग्नित्वापत्ति- रूपफलस्य कर्त्रन्वयित्वदर्शनात् । अतोऽकर्त्रभिप्रायार्थं " संमीनन – ” इत्यादि सूत्रं फलमात्रस्य कर्त्रन्वयनिवारणार्थम् । संस्कारविशिष्टोऽग्निः फलमित्याधानकर्तरि न व्यव- हितफलान्वय इति चेत्, तह्युपनयन संस्कारविशिष्टमाणवकसिद्धिरेवाव्यवहितं फलमिति कर्त्रभिप्रायसूत्रेणैवात्मनेपदसिद्धेरकर्त्रभिप्रायसूत्रवैयर्थं स्यात् । ननु यथेवं व्यवहितमन्य- वहितं वा फलमात्रमकर्त्रभिप्रायसूत्रेण निवार्यते तद्युपनेतुः प्रवृत्तिर्नोपपद्यते ; यतः " प्रयो- जनमनुद्दिश्य न मन्दोऽपि प्रवर्तते " इति ; मैवम् ; उपनयनफलस्य माणवकान्वयित्वेऽपि " आचार्याय वरो देयः " इति विध्यन्तरप्राप्तदक्षिणाफललिप्सया प्रवृत्त्युपपत्तेः । न च तेनाकर्त्रभिप्रायत्वविरोधः, असाधारणफलानन्वयविषयत्वादकर्त्रभिप्रायसूत्रस्य । अव्य- वहितक्रियाफलस्य कर्त्रभिमतत्वं कर्त्रभिप्रायत्वं, तदनभिमतत्वमकर्त्रभिप्रायत्वभि- क्रियाफलस्य कर्त्रनभिमतत्वव्याघातात् ; आचार्यकनिष्पत्त्युपयो- गिनो माणवकसंस्कारस्याचार्यानभिमतत्वानुपपत्तेः अत उपनयनमध्येष्यमाण- माणवकासत्तिमुखेन नाध्यापनाङ्गम् ; अपि त्वध्ययनाङ्गमेव । अध्ययनं च नाध्यापन- विधिः प्रयुङ्क्ते । अध्यापयेत्" इति तु " द्वादशाहेन प्रजाकामं याजयेत्" इत्या- त्यप्ययुक्तम्, 1 स्वाध्यायोऽध्येतव्यः " पस्तम्बः–“ न च दिवदित्युक्तम् । यद्यपि “प्रजाकामम्, अन्नाद्यकामम्” इति वत् प्रयोज्यव्यापारस्याध्ययनस्या- धिकारिविशेषणं फलं न श्रूयते, तथापि स्वाध्यायसिद्धिरधिकारिविशेषणं स्यात् ; इति स्वाध्यायस्याध्ययनसाध्यत्वावगमात् ; यथा - " अग्नी- नादधीत " इत्यत्राग्नीनामाधानसाध्यत्वावगमादनिसिद्धिरधिकारिविशेषणं तद्वत् । स्वविधिप्रयुक्तत्वेऽध्ययनस्यानुष्ठात्रभावः ; सन्ति हि प्रबुद्धाध्येतारः ; तथाच भगवाना- तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् " इति । तेषु परविधिप्रयुक्तत्वे सत्यध्ययनं नोपपद्यते । अप्रबुद्धविषये तु स्वतन्त्रस्याध्ययनविधेर्माणवक- विषयत्वं ज्ञात्वा हितैषिणो माणवकमध्ययनादि कारयन्ति । अतः प्रबुद्धेष्वप्रबुद्धेषु च स्वविधिप्रयुक्तत्वमध्ययनस्य युक्तम् । परविधिप्रयुक्तत्वे नित्यस्याध्ययनस्य काम्यविधि- प्रयुक्तत्वं स्यात् ; ततश्चानुष्ठाननियमो न स्यात् । आचार्यककामो ह्यध्यापकः ; तस्या- चार्यककामनाया अभावेऽध्ययनासिद्धेः । अध्यापकबाहुल्यात्तत्सिद्धिरिति चेत् — न ; अध्यापकेभ्योऽप्यध्येत्तृबाहुल्यदर्शनात् । आधानस्योत्तरक्रतुविधिप्रयुक्तत्वेऽपि न काम्य-

१८० श्रीभाप्यम् " वसन्ते वसन्ते ज्योतिषा यजेत " (जिज्ञासाधिकरणम् ) विधिमात्रप्रयुक्तत्वम्, यावज्जीवमग्निहोत्रं जुहोति " इति नित्यांवेधिसद्भावादित्येवमाद्यनुसंधेयम् । अतो यथोक्त एवार्थः । अङ्गविध्युपेतेन प्रधानविधिनाङ्गस्वरूपमङ्गिस्वरूपं च कथं प्रतिपन्नमित्यत्राह- एवमिति । एवम् ; अङ्गविधिभिः सह प्रधानविधौ निरूपित इत्यर्थः । सत्संताने- त्यादिना " तस्मिन्नभिजनविद्या – ” इत्यापस्तम्बवचनार्थोऽनुसंहितः । आत्मगुणा अक्रोधादयः ; अनेन समाहितशब्दार्थ उक्तः । वेदविच्छब्देन विद्यासमुदेतशब्दार्थ वेदविदाचार्योपनीतस्येत्याचार्यविशेषणमुपनयनद्वारा माणवकार्थम् ; यथोपनय- उक्तः । . नस्याध्यापनाङ्गत्वे माणवकविशेषणमाचार्यार्थं तद्वदिति भावः । व्रतनियमविशेष- युक्तस्य ; व्रतनियमविशेषवदाचार्यविशेषणमपि माणवकार्थमिति भावः । आचार्यो- च्चारणानूंच्चारणमिति परतन्त्रोच्चारणरूपता दर्शिता । अक्षरराशिग्रहणफलमिति पदमस– कृदावृत्तिरूपत्वस्याक्षेपकं दर्शयति ; यथा " त्रीहीनवहन्ति " इत्यत्र दृष्टफललवस्याप्यपरि- त्याज्यत्वेनावहननस्य वैतुष्यपर्यन्तत्वादश्रुताप्यावृत्तिः सिद्धा तद्वदत्रापि सामर्थ्यादावृत्तिः सिद्धा, दृष्टप्रयोजनापरित्यागेनैव नियमस्य विधेयत्वात् । ’ आचार्योच्चारणानूच्चारणम्’ इत्य- नेन ‘वेदविदाचार्योपनीतस्य’ इत्यनेन चाध्ययनस्याध्यापयितृसापेक्षत्वेन परतन्त्रोच्चारणरूपत्वं, स्वविधिप्रयुक्तत्वम्, उपनयनाङ्गत्वं चोक्तम् । आचार्योच्चारणानूच्चारणमक्षररशिग्रहण- फलम् ’ इत्यनेन किंरूपमित्याकाङ्क्षा शमिता । ’ वेदविदाचार्योपनीतस्य व्रतनियमविशेष- युक्तस्य’ इत्यनेन कथं च कर्तव्यमित्यपेक्षा पूरिता । ’ अक्षरराशिग्रहणफलम्’ इत्यनेन स्वाध्यायग्रहणकामत्वमध्ययनाधिकारिविशेषणमित्यपि सूचितम् । 99 6 भावप्रकाशिका " आत्मज्ञानस्य व्रीह्यादिद्वारेति ; नन्वात्मनः कर्मशेषत्वे सत्येवात्मज्ञानस्यात्म- द्वारा शेषत्वं स्यादिति वक्तुमुचितं, न तु व्यत्यासेन ज्ञानस्यात्मद्वारा शेषत्वे सत्यात्मनः शेषत्वं स्यादितीति चेत् न ; ’ कर्मशेषत्वे’ इति निमित्तसप्तमी “ चर्मणि द्वीपिनं हन्ति ” इतिवत् ; सतीत्यस्य सामीचीन्यमर्थः ; समीचीने आत्मद्वारा कर्मशेषत्वे आत्मनः कर्मशेषत्वमुपयुक्तं स्यादिति । शेषत्वस्य सामीचीन्यं नाम संनिपातित्वम् । ततश्चा- त्मज्ञानस्य कर्मशेषत्वे त्रीहिद्वारा प्रोक्षणस्येवात्मद्वारा संनिपातित्वलक्षणं समीचीनं शेषत्वं सिध्येदिति भावः । आत्मनो द्वारभावे संभवतीति ; संस्कार्यतया द्वारभावसंभव

( १ – १ – १ ) भावप्रकाशिका १८१ इत्यर्थः । फलमदतया शेषत्वमस्त्विति चेदिति ; न चैवं देवतायाः कर्मवत् फल- प्रदत्वेन कर्मतुल्यकक्ष्यतया समप्राधान्यप्रसङ्ग इति वाच्यम्, भोक्तृत्वार्थानाममि श्मश्रुव- पनादीनां यागतुल्यकक्ष्यत्वाभावेन यागाङ्गत्ववदुपपत्तेः ’ फलप्रदतंयाशेषत्वमस्ति ’ इति पाठेऽपि यागशेषिभूतभोक्तत्वार्थानां श्मश्रुवपनादीनां यागार्थत्ववत् यागशे- षिभूतपरमात्मार्थानामपि यागाङ्गत्वमविरुद्धमेवेति द्रष्टव्यम् । न तु पुस्तक- निरीक्षणादिनेति ; अर्थज्ञानेऽध्ययननियमो भाट्टैरुक्तः ; स त्वर्थज्ञानकामनाखण्डनेन प्रत्याख्यातो गुरुणा ; अस्मदभिमतेऽक्षरग्रहणार्थाध्ययननियमे स्वाधीनोच्चारणक्षमत्व लक्षणा- क्षरग्रहणकामनासंभवादुपायान्तरसत्वेन व्यावर्त्यसंभवाच्च नियमविधित्वमप्रकम्प्यमिति भावः । उपनयनद्वाराध्ययनशेषत्वे सतीति ; न च प्रथमशब्दाभिप्रेतस्याष्टमवर्ष- स्याध्ययनं प्रत्यप्याधारतया नोपनयनद्वारा शेषत्वमिति वाच्यम्, " श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥ । उप- इत्यष्टम वर्षान्तर्गतिनियमशून्यकालविशेषे विहितस्य " द्वादशवर्षाण्येकवेदे ब्रह्मचर्यं चरेत् प्रतिद्वादश वा सर्वेषु " इत्यनेकसंवत्सरसाध्यस्याध्ययनस्याष्टमवर्षाङ्गकत्वासंभवेनोपनय- नस्यैवाष्टमवर्षाङ्गकत्वं वक्तव्यमिति सिद्धम् । ततश्चोपनयनाङ्गभूतकालमध्ययनाङ्गतयो - पचारतो निर्दिशन् भाष्यकारो ज्ञापयति उपनयनाध्ययनयोरङ्गाङ्गिभावोऽस्तीति । नयनद्वाराध्ययनशेषत्वात् कालस्येति ; अष्टमवर्षाङ्गकोपनयनाङ्गकस्याध्ययनस्य प्राथम्यं सिध्यतीति भावः । अकर्त्रभिप्रायसूत्रविहितत्वाच्चेति ; आत्मनेपदस्येति शेषः । अकर्त्रभिप्रायसूत्रं “ संमानन- " संमानन – ” इति सूत्रम् । अध्ययनाङ्गविधिरिति ; ननु उप- नयनस्य दृष्टद्वारसंभवेऽदृष्टकल्पनाया अन्याय्यत्वादध्ययनं गुरूच्चारणानूच्चारणमेव, न स्वतन्त्रमित्यध्यापयितृपूर्वकत्वमाक्षेप सिद्धमित्यध्यापयितृपूर्वकत्वसिद्धयर्थमध्यापयितृपूर्वक- त्वरूपमध्ययनाङ्गं न; 66 अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयेत् नानेन वाक्येन विधेयमस्तीति कथमध्ययनाङ्गविधिरिति चेत्- इत्यत्राध्यापनस्य रागप्राप्तत्वात् “याजयेत्” इत्यत्र यजनस्येवाध्ययनस्यैवानेन विधिना विधाने उपनयनस्य तत्समभिव्याहारा- तदङ्गत्वं सिध्येत्; तदभावे तु " उपनयीत " इत्यनेनाध्ययनाङ्गतयोपनयनं विधीयत इत्यस्यापरिज्ञानाददृष्टार्थमुपनयनं विधीयत इति स्यात् ; ततश्च स्वतन्त्र मप्यध्ययन

१८२ प्राप्नुयात् ; श्रीभाष्यम् (जिज्ञासाधिकरणम्) यद्वा " ऐन्द्रवायचं इत्यस्य विधित्ववदुपनय- प्रत्यक्ष- ततश्च " अध्यापयेत्" इत्येतदपेक्षितमिति भावः । -गृह्णाति ” इतिवाक्याक्षेपलभ्ययागविधायकस्य " सोमेन यजेत " नविध्याक्षेपलभ्याध्यापयितृपूर्वकत्व विधायकस्य " अध्यापयेत्" इत्यस्य विधित्वसंभवा- दिति भावः । यद्यपि " अध्यापयीत" इत्येव मीमांसकग्रन्थेषु लिख्यते, अत्र तु " अध्या पयेत् ” इति श्रुतिर्लिख्यते ; तथापि " बुधयुधनराजने " इति सूत्रानुकूलत्वेनास्यैव पाठस्य सामीचीन्यम् । क्त्वाश्रुत्योपनयनस्येति; “वाजपेयेनेष्ट्रा बृहस्पतिसवेन यजेत’ इतिवत् क्त्वाश्रुत्या कर्त्रेक्यावगमात् तेन च प्रयोगक्यावगमादङ्गाङ्गिभावः सिध्यतीति भावः । अन्तरङ्गत्वं हि प्रत्यक्षश्रुतिसिद्धमिति ; उपनयनसंस्कारे माणवकगतत्वस्य द्वितीयासिद्धत्वादध्ययनस्य तन्निष्ठत्वाच्च तत्संस्कार्यनिष्ठत्वमन्तरङ्गत्वं प्रत्यक्षश्रुतिसिद्धमिति भावः । नाध्यापनाङ्गत्वं युक्तमिति ; अध्यापनाङ्गत्वे क्रियाफलस्य कर्तृगतत्वात् " स्वरित- ञितः" इत्येवात्मनेपदं सिद्धमितीदं व्यर्थं स्यादिति भावः । तदवधारणनिषेधार्थ - मिति; कर्तर्येवेति नियमेनाकर्तृगामिनि फले आत्मनेपदाप्राप्तौ तन्निवृत्तिः क्रियते ; आत्मनेपदं प्राप्यत इत्यर्थः । ऋत्विजो वृणीत इत्यत्रेति; अत्र केनचित् ’ वृणीते’ इति रूपं “ वृङ् संभक्तौ ” इत्यत एव ; नान्यस्मात् जितः श्नाविकरणपाठाभावात् ; तेन “ स्वरित–” इतिसूत्रात्रवृत्तिरिष्टप्रसञ्जनमेवेत्युक्तम् ; तदसत् ; यद्यनि क्यादौ “वृञ् वरणे” इति धातुर्धातुवृत्तौ न पठितः, तथापि " वृग्न वृञ् वृतौ” इति कल्पद्रुमे पठितः ; तस्यै- वात्र विवक्षितत्वात् ; “वृञ् वरणे " इति क्रयादौ दीर्घान्तस्य पाठात् तत एव तस्य रूपस्य संभवाच्च । नन्वत्र "" वृ॒ङ् संभक्तौ ” संभक्तौ " इति धातुर्युज्यते; संभक्तिर्हि प्रार्थना; अत एव हि " अवद्यपण्यवर्याः " " एतिस्तुशास्त्र " " ईडवन्दवृशंसदुहां ण्यतः " इत्यादिषु वृत्तिकारादिभिरुदाहरणेषु ऋत्विग्विषये “ वृङ् संभक्तौ ” इत्येवोदाहृतम् ; अतः “ स्वरित- " ञितः” इतिसूत्राप्रसञ्जनमिष्टप्रसञ्जनमेवेति चेत् – सत्यम् ; संभक्तितात्पर्यमन्तरेण वरण- तात्पर्येण प्रयुक्ते लौकिके प्रयोगे आत्मनेपदाभावप्रसङ्गस्यापादयितुं शक्यत्वात् ; ततः " 9 (१) वोपदेवकृते कविकल्पद्रुमे इदं पठ्यते । गकारनकारों क्रमेण क्रयादि- स्वस्वादित्वद्योतकौ, ञकारः फलस्यात्मगामित्वे आत्मनेपदस्य परगामित्वे परस्मै- पदस्य च द्योतक इति तत्र संकेतः कृतः । वृतौ वरणेऽर्थे वृधातुः क्रयादिः स्वादिश्व जानुबन्धो भवतीति तदर्थः । CC-0 No Rights Reserved. Digitized by eGangotri१ – १ – १) श्रुतप्रदीपिका १८३ ऋत्विक्ष्वपि वरणेन निरोधनरूपफलसंभवादिति भावः ’ । अग्निसंस्कारव्यवहितस्येति ; अव्यवहितस्याग्निसंस्कारस्य कर्तृगतत्वाभावादात्मनेपदं न स्यादित्यर्थः । आधानक- तैरि न व्यवहितफलान्वय इति ; ततश्चाव्यवहितफलस्य कर्तृगामित्व एव “ स्वरित–” इत्यादिसूत्रप्रवृत्तिः ; अत्र चाव्यवहितं संस्कारविशिष्टाग्निरूपं फलमाधान कर्तृगतमेवेति " स्वरित - " इत्यादिनात्मनेपदमुपपद्यत इति भावः । असाधारणफलानन्वयवि- षयत्वादिति ; क्रियायाः फलं प्रधानभूतं चेत् कर्तृगामि भवति, यदर्थं क्रिया आरभ्यते तच्चेत् फलं कर्तुर्लकारवाच्यस्य भवति तदा आत्मनेपदमित्यर्थः । अत एव ‘ज ’ पचन्ति पाचका:’ इत्यत्र न भवति; तथापि न तदर्थः क्रियारम्भ इत्यदोषः । यथा वीही नवहन्तीत्यत्रेति ; क्रियाणामर्थशेषत्वात्प्रत्यक्षोऽतस्तनिवृत्त्यापवर्गः स्यात् ”इत्येकादशाध्यायाधिकरणे तथैव व्यवस्थापितत्वादिति भावः । याजकाः 66 श्रुतप्रदीपिका ऐकशास्त्र्यकर्मविचारतदनन्तरमाविब्रह्मविचारापेक्षोपयोगित्वेन ’ अधीतसाङ्गसशिरस्क प्राक् प्रतिज्ञातसाङ्गकृत्स्नवेदाध्ययनकर्तव्यतायां प्रमाणतया स्वाध्यायविधिमुपन्यस्यन् तस्या- र्थज्ञानपर्यन्तत्वनिमित्तां ब्रह्मविचारानारम्भशङ्कां वादिविप्रतिपत्तिनिमित्तसंशयं च व्युद- स्यति—तथाहीति । विधेरक्षरग्रहणपर्यन्तत्वे सिद्धे ह्यारम्भणीयत्वसिद्धिः । अन्यथा “ अधीत्य स्नायात् " इत्यर्थज्ञाने कर्मशेषतया विनियुक्ते सत्यवहन्तव्यत्रीहिवत् ज्ञातव्या- (१) इदमप्यत्रावधेयम् —– वृङ्वृञोरर्थभेदः संभक्तिवरणरूपः शब्दभेदात्प्रती- यते । संभक्तिः भजनं सेवेति व्याख्यातारः । वरणं च प्रार्थनेति प्रसिद्धिप्राचुर्यादव- गम्यते । “ऋत्विजो वृणीते " इत्यत्र ऋग्विजां केवलं प्रार्थनैव, न तु महत्विजामिव मधुपर्कादिना भजनम् । अत एव शास्त्रदीपिकायां तृतीये " तत्रार्थात् कर्तृपरिमाणं स्यात् " इत्यत्र ऋत्विग्वरणं प्रस्तुत्य " किं पुनरिदं वरणम् ? उक्तं प्रार्थनम् " इति स्पष्टमभिहितम् । तन्त्रशिखामणावपि दशमद्वितीयपादे " ऋत्विजो वृणीते " इति प्रस्तुत्य “कर्मकरवचनोऽयमृत्विकुशब्दः । कर्मकरता चाभ्यर्थनारूपवरणेन ” इति व्यक्तमुक्तम् । तस्मात् " ऋत्विजो वृणीते " इत्यत्र वरणार्थको वृञ्धातुरेवाश्रय- णीयः, न तु भजनार्थको वृङ धातुः । एतिस्तुशास्त्र " इत्यादिसूत्रस्थकाशिका तु वेदार्थविचारैदं पर्यप्रवृत्ताभियुक्त प्रसिद्धेर्बलीयस्त्वादनादरणीया । वस्तुतः " वार्या ऋत्विजः " इत्यत्र तथात्वेऽपि “ऋत्विजो वृणीते” इत्यत्र वृञ आश्रयणे नैव विरोधः । 66

१८४ श्रीभाप्यम् (जिज्ञासाधिकरणम् ) त्मनोऽपि कर्मशेषत्वात् " " अयमात्मा ब्रह्म इत्यात्मब्रह्मशब्दयोस्तुल्यार्थत्वाच्च कर्मसु कर्तृत यावक्लृप्तजीवस्वरूपपरा वेदान्ता इति तदतिरिक्ताप्रामाणिकेश्वरविचाररूपशास्त्रस्याना- रम्भणीयतापत्तेः । तत्र भाट्टाभिमतांश्चतुरोऽर्थान् गुरुकुमारिलानभिमतमेकं च संग्रहेण प्रतिजानीते - प्रथममिति । प्रथमं तावत्; प्रथमत एव । प्राथम्योक्त्या शास्त्रान्तरेण साधनचतुष्टयसिद्ध्ययोगः फलितः । शास्त्रान्तराधिगमायोग्यदशापेक्षया प्राथम्यम् ; गर्भा- ष्टमोपनीतस्य ह्यध्ययनम् । अत एव " अष्टवर्षम् " इत्युक्तकालविशेषोऽप्युपनयनद्वारा- ध्ययनाङ्गमिति फलितम् । अनेनोपनयनस्याध्ययनाङ्गत्वं, स्वाध्यायविधिवाक्योपादानेनाध्य- यनस्य स्वविधिप्रयुक्तत्वम्, ’ अध्ययनेन ’ इति निर्देशेन संस्कारविधित्वम्, एवकारेण नियमविधित्वं च द्योत्यते । अक्षरराशिमात्रस्य स्वाध्यायशब्दवाच्यत्वव्युदासाय वेदाख्यशब्दः । वेदाख्येत्यनेन कृत्स्नाध्ययनस्य विहितत्वमप्यभिप्रेतम् । न हि वेदैकदेशः स्वाध्यायशब्दार्थः । नासावर्थावबोधपर्यन्तो विधिरित्यभिप्रायेणाक्षरराशिग्रहणमित्युक्तम् । विधेरक्षरग्रहणपर्यन्ततया " अधीत्य स्नायात्” इत्यत्रार्थज्ञानस्य कर्मशेषत्वाभावेन ज्ञात- व्यात्मनोऽवहन्तव्यत्रीह्यादिवत् कर्मशेषत्वाभावेन कर्मसु कर्तुर्जीवादन्यस्मिन्प्रमाणसंभावनया तद्विलक्षणेश्वरविचाररूपशास्त्रमारम्भणीयमिति फलितमित्यभिप्रायः । अयं चार्थः " अध्य- यनमात्रवतः " इति वक्ष्यमाणसूत्रार्थः प्रतिपत्तिसौकर्यायात्र दर्शितः : प्राथम्यं साङ्गत्वं च नात्र प्रतीतम् ; अध्यापनविधिश्रवणात् ; तत्प्रयुक्तता च प्रतीयत इति शङ्कायामाह - तच्चेति । चः शङ्कानिवृत्तौ । किंरूपम् ; स्वतन्त्रोच्चारणरूपं परतन्त्रोच्चारणरूपं वा, सकृदुक्तिरूपम्, असकृदुक्तिरूपं वेत्यर्थः । कथम् ? किमङ्गकम् ? अष्टवर्षत्वमुपनयनद्वारा अध्ययनशेषम् । द्वादशाहेन प्रजाकामं याजयेत्" इतिवदध्ययनश्रुतिः । न हि तत्र यजनं याजनविधिप्रयुक्तम् । अत्र " ब्राह्मणम् " इति द्वितीयाश्रुत्या माणवकशेषमुपन- यनमन्तरङ्गत्वलिङ्गात् तद्भुताध्ययनाङ्गम् । " उपनीय इति क्त्वा श्रुतिस्तु विल- म्बद्वयहता; सा हि स्मृतिरनुवादरूपा च । अतः श्रुतेर्लिङ्गं प्रबलम् । कर्त्रभिप्रायफलात्मनेपदवशादुपनयनमुप नेतृगताध्यापनाङ्गमिति न च 66 अकर्त्रभिप्रायार्थेन " संमानन 66 99 इत्यादिसूत्रेणात्मनेपदस्य विहितत्वात् । वाच्यम्, कर्तर्येव फलान्वयः कर्त्रभिप्रायत्वमिति तन्निवृत्तौ फलस्योभयान्वयसंभवेनोपनयनफलस्य गुरुगतत्व- संभवादध्यापनाङ्गत्वमिति शङ्का च निरस्ता, “अग्नीनादवीत " इत्यत्र " स्वरित - "

(१ – १ – १) नयप्रकाशिका १८५ इत्यादिसूत्रेण विहितेऽप्यात्मनेपदे फलस्योभयान्वयदर्शनात् । अतः कर्तभिप्रायत्वं न कर्तर्येव फलान्वयः ; किंतु फलस्य कर्त्रन्वयमात्रमिति तन्निवृत्तौ सिध्येदिति नाचार्ये फलान्वयः । न च चेतनद्वयानन्वयः कर्त्रभिप्रायत्वम् " ऋत्विजो कर्तरि फलान्वयो न वृणीते इत्यत्र फलस्योभयत्रान्वयात् । कर्त्रभिप्रायत्वभित्याचार्यकव्यवहितत्वादात्मनेपदाप्राप्तौ " संमानन –" न चाव्यवहितफलस्य कर्त्रन्वयः अनेन ’ इत्यादिसूत्रेण व्यवहितफलस्य कर्त्रन्वयेऽप्यात्मनेपदं विधीयत इति व्यवहिताचार्य कनिष्पत्त्यर्थतयोपन- यनस्याध्यापनाङ्गत्वं कर्त्रभिप्रायत्वविरोधीति वाच्यम्, उत्तरक्रतुविधीन् प्रत्याधानस्ये- - वाध्यापनं प्रत्यङ्गत्वाभावेऽप्युपनयनस्य तदुपकारकत्वमात्रेणाचार्य कनिष्पादकत्वोपपत्तेः । अत उपनयनफलं नाचार्यान्वयीति न तदध्यापनाङ्गम् । व्रतम्, उपाकर्मादि । नियमाः ; " पद्यु वा एतत् श्मशानम्" इत्याद्युक्तदेशका लभक्ष्याभक्ष्यादिनियमाः । उपदेशैश्च’ इति पृथङ् निर्देशः श्रुतित्वस्मृतित्वविमतिसंमतिविभागात् । " मासानर्ध- पञ्चमान्" इत्यनेनाङ्गाध्ययनकालसिद्धिः । एवमङ्गविधिसहितप्रधानविधिना किं प्रति- पन्नमित्यत्राह – एवमिति एवम् ; साङ्गे विधौ निरूपिते । ‘सत्संतान’ इत्यादिकम् " अभिजनविद्यासमुदेतम्" इत्यादिसूत्रानुविधायि । आचार्योपनीतस्य ; गुरुविशेष- णमुपनयनद्वारा माणवकार्थं यथा पक्षान्तरे माणवकविशेषणमन्यार्थमिति भावः । आत्मगुणाः ; अक्रोधादयः । व्रतनियमविशेषयुक्तस्येति दृष्टान्ततयोक्तिः । अनेन पदद्वयेन कथमित्याकाङ्क्षा पूरणम् । उपरितनपदद्वयेन किंरूपमित्याकाङ्क्षा च शमिता, परतन्त्रासक्कृदुच्चारणरूपतासिद्धेः । आद्यत्वं च तेन सिद्धम् । आवृत्त्यश्रवणेऽपि दृष्टफललवस्य चापरित्याज्यतयावघातादिवदावृत्तिसिद्धिरिति । ; Į नयप्रकाशिका । ननु - अध्ययनप्रयुक्तिविचारोत्र व्यर्थः, प्रथमकाण्डाद्ये कृतत्वात् । न च शास्त्रैक्य हे- तुतया तद्विचारोऽत्रेति वाच्यम्, तत्र सिद्धस्योपयोगेन तदैक्यप्रसाधनस्य शक्यत्वात् । विचारविषयस्य वेदस्य वेदत्वाविशेषादध्ययनविधिगृहीताध्ययनसंस्कृतवेदविषयविचारात्मक- शास्त्रस्याप्यैक्यं साध्यते ; तत्राध्ययनप्रयुक्तिविचारस्य क उपयोगः ? न च पूर्वकाण्डेऽध्यय- नविधेरर्थज्ञानपर्यन्तत्वस्योक्तत्वात्तस्य तथात्वे वेदान्तार्थज्ञानस्यापि कर्तृसंस्कारापादनद्वारा कर्मशेषत्वापत्तेः प्रथमकाण्डप्रथमपादे आत्मस्वरूपस्यापि निरूपितत्वाद्वेदान्तशास्त्रस्यानारभ्य- 24

१८६ C श्रीभाष्यम् (जिज्ञासाधिकरणम्) ता स्यात्, अतोऽत्रार्थज्ञानपर्यन्तता विधेर्निवार्यत इति वाच्यम्; अध्ययनविवेरर्थज्ञान- पर्यन्तत्वेऽपि वेदान्तानां कर्मसु कर्तुर्जीवात्मनः स्वरूपपरत्वेनापि शास्त्रस्यारम्भणीयत्वात्_ शास्त्रारम्भाक्षेपानुपपत्तेः । प्रथमपादे आत्मस्वरूपनिरूपणमात्रं कृतम् ; अत्र तु देहो- त्तीर्णात्मस्वरूपकथनमात्रपरत्वेनापि योजयितुं शक्यम् । आत्मनस्तु सर्वगतत्व जडत्व- प्रसाधनं तु व्याख्यातॄणां मोह एव । न च परमात्मन एव प्राधान्यतो वेद्यत्वस्यात्राभि- प्रेतत्वात्तद्विधेरर्थज्ञानपर्यन्तत्वे तज्ज्ञानस्य कर्मकर्तृजीवद्वारा कर्मशेषत्वे परमात्मनः प्राधान्य- तो वेदान्तवेद्यत्वं न सिध्यतीति वाच्यम् ; शास्त्रारम्भस्य तावताप्याक्षेप्तुमशक्यत्वात् ; प्राधान्यतो वेदान्तवाक्यानां जीवपरत्वेनापि निरूपयितुं शक्यत्वात् । वेदान्तवाक्यानां न्यायैरेव यथाकथंचिन्निरूपणीयत्वे शास्त्रारम्भाक्षेपो न सिध्यत्येव, जीवपरत्व- निश्चयेऽपि हि वेदान्तवाक्यानां प्रधानपरमात्मपरत्वनिरासात् । तत्तु न्याया- देव साध्यम् । किंच आत्मज्ञानस्य वस्तुतः पूर्वमीमांसकैः कृत्स्नस्य कर्मशेषत्व- स्यानभिहितत्वाच्च ; प्रायेण वेदनस्याधिकारिविशेषणत्वेनैव हि स्वीकारः; तस्य चानुपा- देयत्वान्नाङ्गत्वम् । अथ कर्त्रवस्थतया तस्य शुद्धयादिवदन्वयादङ्गत्वमिति चेत् —–न; तस्य सर्वस्य तथात्वानङ्गीकारात् । तच्च “पुरुषार्थोऽतः ” इत्यत्रास्माभिः प्रदर्शितम् । किंच तदधिकरण एव भाष्यकृद्भिरध्ययनविवेरर्थज्ञानपर्यन्तत्वेऽपि तस्य कर्माङ्गत्वमुक्तम् ; तदनङ्गत्वे च तदनारम्भः । किं च भाष्यादावध्ययनविधेरर्थज्ञानपर्यन्तत्वे शास्त्रानारम्भ- शङ्का न क्वचित् द्योत्यते ; अतोऽध्ययनविधिप्रयुक्तिविचारः किमर्थ इति न जानीम इति चेत्- उच्यते—अधीतसाङ्गसशिरस्कवेदस्येष्टतदर्थावबोधस्य तदर्थसंशयनिरासाय प्रवृत्तमीमांसा - विषयस्य सर्वस्यापि वेदस्य वेदत्वाविशेषात् तदितिकर्तव्यता रूपपूजिततर्कस्य मीमांसात्वा - विशेषाच्च पूर्वोत्तरमीमांसयोरैकशास्त्र्यमिति तावद्वक्तव्यम् ; तदभिधाने चाध्ययनविधेर्बु- द्विस्थत्वात् पूर्वमीमांसाव्याख्यातृभिरन्यथा व्याख्यातत्वात् समीचीनार्थकथनद्वारेण तदै- क्यादि प्रसाध्यत इति । पूर्वमीमांसकैध्ययनविधेरर्थज्ञानपर्यन्तत्वात् विधितो मीमां- साप्रवृत्तिरित्युक्तम् । तत्र प्राभाकरैस्त्वाचार्यकरणविधिप्रयुक्तत्वमध्ययनस्योपनयनस्याध्या- पनाङ्गत्वमध्ययनस्यापूर्वविषयत्वेन प्रधानकर्मत्वं चोक्तम् । अध्ययनस्याचार्यकरणविधि- प्रयुक्तत्वसिद्धावेव विचारः कृतः । भाट्टैस्त्वध्ययनस्य पूर्वपक्षे फलार्थत्वं राद्धान्ते संस्कार- कर्मत्वं क्रतुविधिप्रयुक्तत्वं चोक्तम् । अध्ययनविवेरर्थ ज्ञानपर्यन्तत्वमुभयोः समानम् ।

(१ – १ – १ ) नयप्रकाशिका १९८७ अत एव तत्पक्षनिरासायारुणाधिकरणस्य समीचीनार्थाभिधानवदध्यनादिविधेः समी- चीनोऽर्थोऽभिधीयते । अरुणाधिकरणस्य समीचीनार्थ आनन्दमयाधिकरण उक्तः । - नन्वरुणाधिकरणस्य स्वाभिमतविशिष्टवाक्यार्थप्रतियोगितया शाबरोक्तप्रक्रियानिरासो युक्तः; अत्र तत्प्रक्रियानिरासे तु न किंचित्प्रयोजनमिति चेत् — न ; सम्यगर्थज्ञापनस्यैव प्रयोजन- त्वात् ; यथा वेदान्तवाक्यानां यथार्थाभिधानस्य तज्ज्ञापनमेव प्रयोजनम् । किंच प्रयोजनान्तरमप्यस्ति — अध्ययनविवेरर्थज्ञानपर्यन्तत्वे मीमांसाश्रवणमन्तरेण गुरुगेहान्निवृत्तौ विध्यतिक्रमगात् प्रत्यवायित्वेन विवाहादिसंस्कारप्रभृतियज्ञादिकर्मस्वनधिकारः ; विहिताति- क्रमे च पातित्यं 66 विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ 19 49 इत्यादिभिः सिद्धम् । रागतो मीमांसाप्रवृत्तौ तु न तत् ; काम्यकर्माकरणे हि काम्य- फलासिद्धिरेव, नं तु प्रत्यवायः । ननु विदुष एव कर्मादिष्वधिकाराच्छुत्यर्थज्ञानस्य मीमां- साधीनत्वात् मीमांसाश्रवणस्य च विवाहादेः पूर्वभावित्वस्यार्थसिद्धत्वात् रागसद्भावे तत्र प्रवृत्तिः, अन्यदा नेति न वक्तुं युक्तमिति चेत् —–न; ब्राह्मणादेः स्वाधिकारोपयोगिवेदस्य कृत्स्नवेदार्थनिर्णय हेतुमीमांसाशास्त्रस्याप्रयोजकत्वात् । ब्राह्मणादेरध्ययनगृहीतस्वानुष्ठानोपयो- गिमन्त्राणां सद्भावे तु धनादिरागतः प्रवृत्तविद्वद्याजकादपि प्रयोगानुष्ठानसिद्धेः; तच्च लोक- त एव सिद्धम् । किं चानधीतवेदमिवाश्रुतमीमांसं ‘पतितः ’ इति न स्मर्तारः स्मरन्ति, विद्वांसोऽपि न गर्हन्ते । अतोऽध्ययनविध्यर्थविचारः प्रयोजनवान् । अस्मत्पक्षे तु अध्ययनस्य संस्कारकर्मत्वे, तद्विधेर्नियमपरत्वे, अध्ययनस्याचार्य रागप्रयुक्तत्वे, उपनय- नस्य च माणवकद्वाराध्ययनशेषत्वे च स्थिते विचारावसरोऽभिमतः ; वेदस्यार्थपरत्वे रागत एव मीमांसाप्रवृत्तिरिति च । अत्र परमतप्रक्रियातन्निरासौ च व्यज्यते । तत्र गुरुमतं तावदुपन्यस्यते ; अत्र संशयः – वेदार्थनिश्चय हेतु मीमांसाशास्त्रं किमनारम्भणीयम्, उतारम्भणीयमिति; तदर्थमध्य- यनविधिर्नार्थज्ञानपर्यन्तः, उत तत्पर्यन्त इति ; तदर्थं वेदस्यार्थे तात्पर्यं नास्ति, उता- स्तीति ; तदर्थमाचार्य करणविधिप्रयुक्तमध्ययनमाचार्यत्वार्थम्, उत माणवकस्यार्थज्ञानार्थ-

?१८८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) त्वेन तदर्थमिति । अत्र पूर्वः पक्षः — निरधिकारत्वेन श्रुताध्ययनविधेः साधिकाराध्या- पनविधिप्रयोज्यत्वेन प्रथमभावित्वादाचार्यत्वार्थत्वम् । नन्वर्थज्ञानस्य साङ्गाध्ययनकर्तृ- गतत्वेनान्तरङ्गत्वादध्यापनविधिर्माणवकार्थत्वमध्ययनस्यानुजानात्विति चेत् — न ; अध्यय- नविध्यवगतिसमये तस्य माणवकैश्वर्यत्वाप्रतीतेरधीस्थत्वेन दुर्बलत्वात् । नन्वध्ययनस्या- चार्यकरणविधिप्रयुक्तत्वं कथमिति चेत्; उच्यते - स्वाध्यायाध्ययनविधौ स्वर्गकामादिवा- क्येष्विव नियोज्यो न श्रुतः ; न च विश्वजिदादिवन्नियोज्यकल्पनम्, प्रयाजादिवद- न्यप्रयुक्तत्वेनानुष्ठानसिद्धेः ; अनुष्ठानाय हि तत्कृप्तिः ; प्रयाजादिविधयो हि न प्रयोजकाः किंतु दर्शपूर्णमासविधिरेव ; अन्यतोऽपि विषयानुष्ठानलाभे कल्पक हेत्वभावान्न नियोज्य- कल्पनावकाशः । एवमध्ययनेऽपि । । आचार्यकरणविधिरपि " उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ 99 अध्या- इति स्मृत्यनुमितः । उपनयनाङ्गकाध्यापनेनाचार्यकं भावयेदिति तस्यार्थः । पनेन चाध्ययनमाक्षिप्तम्, अध्ययनव्यतिरेकेण तदसिद्धेः । ननु लोके अध्यापन- कारके लौकिकाचार्यपदप्रयोगादाचार्यत्वस्य लौकिकत्वान्न विध्यर्हतेति चेत् — न ; अध्यापनक्रियानिर्वृत्तावेवाचार्यत्वोत्पत्तेः ; " आचार्याय वरो देयः " इत्यादौ तत्समाप्तावेवा- चार्यत्वाभिधानात् । न च तत्र भूतपूर्वगत्योपलक्षणत आचार्यपदप्रयोग इति वाच्यम्; तद्गतत्वेन लौकिकार्थोपलक्षकत्वस्यानुपपत्तेः । न हि सनियमकाध्यापने तदकरणे वा विशेषः । अतो यूपाहवनीयादिवदलौकिकमेवाचार्यत्वम् ; यूपाहवनीयादिश्च संस्कृत- काष्ठानलादिरेव, न काष्ठानलादिमात्रं ; अन्यत्र तदप्रयोगात् । अतोऽस्य विध्यर्हता । ननु " उपनीय तु यः शिष्यम्” इति यत्पदश्रवणात् " य एवं विद्वान् ” इत्यादि- ष्विव न विधित्वप्रतीतिरिति चेत् — न ; विधित्वतात्पर्यावधृतौ तस्य विध्यनुर्पघातक- त्वात् " यदाग्नेयोऽष्टाकपालः " इत्यादिष्विव " उपनीयाध्यापयेत्” इति क्त्वात उपनयनस्याध्यापनसमानकर्तृकत्वप्रतीतेः ; ‘समानकर्तृत्वस्य चैकप्रयोगाधीनत्वात् ; प्रयो- गैक्यस्य चाङ्गाङ्गिभावायत्तत्वादध्यापनाङ्गत्वनिश्चयः । अङ्गत्वनिर्वाहश्चोपनेयासत्तिद्वाराध्या- पनोपकारकत्वात् । श्रौतो वाचार्यविधिरस्तु – " अष्टवर्षं ब्राह्मणमुपनयीत तमध्याप- येत्” इति हि श्रुतिः । उपनयने आत्मनेपदं हि श्रूयते । अत्रात्मनेपदस्याचार्यक-

(१ -१ – १) -रणप्रयोजनत्वे नयप्रकाशिका पाणिनिस्मरणसद्भावादध्यापनविधिरपेक्षिताचार्यकरणविधिरेव ।


१८९ स्मर्यते । हि—“ संमाननोत्सञ्जनाचार्यकरण ज्ञानभृतिविगणनव्ययेषु नियः " इत्यात्मनेपदम् । वृत्तौ च स्पष्टीकृतम्- " आचार्यकरणमाचार्यक्रिया ; माणवकमोदृशेन विधिनात्मनः समीपं प्रापयति यथासावुपनेता स्वयमाचार्यः संपद्यते ; माणवकमुपनयते – आत्मान- माचार्यीकुर्वन् माणवकमात्मनः समीपं प्रापयतीत्यर्थः " इति । न च " अध्यापयेत् " इति “ एतयान्नाद्यकामं याजयेत्" इतिवत् प्रयोज्यव्यापाररूपाध्ययनविधिरेवेति वाच्यम्, तत्र “ अन्नाद्यकामम्” इति कामिनः श्रुतत्वेन तस्यैव विध्यपेक्षितत्वात् “ याजयेत् ” इत्यस्या- नुवादत्वस्यैव युक्तत्वेऽप्यत्र तदभावात् । अत उपनयनाङ्गकश्रौताचार्यकरणविधिसिद्धिः। ननु “वेदमध्यापयेत्" इत्यत्र परस्मैपदश्रवणादध्यापनस्य नाचार्यकफलकत्वम्, आचार्यकफल- कत्वे “ कर्त्रभिप्राये क्रियाफले" इत्यात्मनेपदापत्तेरिति चेत्-न; " बुधयुधनरांजनेड्नु- द्रुत्रुभ्यो णेः " इति क्रियाफलस्य कर्त्रभिप्रायविवक्षायां विशेषतः परस्मैपदविधानात् । अत एव हि वृत्तौ ण्यन्तादिङः परस्मैपदे ’ अध्यापयति’ इत्युदाहृतम् । ननु उपनयन- स्याध्यापनाङ्गत्वे तत्प्रयोगापवर्गत्वं स्यात्; माणवकेऽनुवृत्तिः पुरुषार्थचत्वारिंशत्संस्कारा- न्तर्भावश्च न स्यात् ; स्मृतिषु तत्पाठश्च दृश्यत इति चेत् — न; ब्राह्मणादेः पातित्याभाव इज्याद्यधिकारानुवृत्तौ तत्संस्कारस्थितेः कल्प्यत्वात् । तच्च द्विजानामेव, यज्ञाद्यधिकरण- श्रवणात् ; द्विजत्वस्योपनयनसंस्कारानुवृत्त्यधीनत्वात् पुनरुपनयनान्तरास्मरणाच्च । सिन्धुसौवीरदेशाक्रमणादिनिमित्तत्वेन पुनरुपनयनस्मरणं तत्र तु तत्संस्कारनाशः कल्प्यः, अध्यापनादिनिर्वृत्तौ संस्कारानुवृत्तावपि तस्याध्यापनोपकारकत्वं च न विरुद्धम् । अतः संस्कारान्तरतुल्यत्वात् तस्य तदन्तर्भावोऽपि न विरुद्धः । नन्वध्यापने धनादिरागादेव प्रवृत्तचभूपोरधिकार इति चेत्–न; धनादिप्रवृत्त एवाध्यापनोपायत आचार्यबु- भूपुरिति तदवस्थस्याधिकारान्तरत्वात् । एवमुपनयनस्याध्यापनाङ्गत्वे दृष्टोपनेयासत्तिद्वारे- णासन्नस्याप्यध्यापनोपयोगिकर्मापेक्षायां तस्याध्ययनं कर्मत्वेनावगतम् । तदेवमध्यापनविधिः स्वाङ्गोपनयनं प्रयुञ्जानो द्वारभूताध्ययनमपि प्रयुङ्क्त इत्याचार्यकरणविधिप्रयुक्तत्वमध्ययनस्य सिद्धम् । नन्वध्यापनाङ्गता स्यात् ; अध्ययनस्यापि तत्प्रयोज्यत्वादिति चेत्–न; प्रयुक्तेरङ्गत्वा हेतुत्वात् । श्रुत्यादीनामेव हि तद्धेतुत्वम् । प्रयोज्यत्वमात्रादङ्गत्वे तु क्रतुविधि- यत्र

१९० श्रीभाष्यम् (जिज्ञासाधिकरणम्) प्रयोज्याधानस्यापि क्रत्वङ्गता स्यात् । प्रयुक्तिः स्यादिति वाच्यम्, न चाध्ययनस्यानङ्गत्वेऽध्ययनाङ्गशौचाचाराद्य- " उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ 19 C इत्यादौ साङ्गाध्ययनकारयितृत्वा देवाचार्यत्वसिद्धिप्रतीतेः । अतोऽध्ययनस्याध्यापनाङ्गत्वेऽप्यु- पकारकत्वमेव । ननु " स्वाध्यायोऽध्येतव्यः " इति स्वाध्यायस्य कर्मत्वावगमान्न साध्यान्तराकाङ्क्षेति चेत्—–न; अनीप्सितकर्मणः स्वाध्यायस्य साध्यत्वाभावात् ; तस्यानी- प्सितत्वं चापूर्वस्यैव भाव्यत्वात् ; " अध्येतव्यः " इति हि श्रूयते; तव्यप्रत्ययो हि नियोगवाचकः; तस्य च स्वतः साध्यापूर्वपरत्वं युक्तम् । न च तस्य क्रतुविध्यनुवाद- कता, क्रतुविधीनां दूरस्थत्वात् । न च स्वाध्यायस्य कर्मबोधकतया कर्माव्यभिचारात् कर्मविध्यनुवादकतेति वाच्यम्, ‘हुम्’ इत्येवमादिस्तोभाक्षराणां कर्मबोधकत्वव्यभि - चारात् । अत एव स्वाध्यायस्य न कृत्स्नस्य संस्कार्यत्वम् । न च जपपारायणादिप्रयोज - नात् संस्कार्यत्वम्, अर्थज्ञानस्याननुरोध्यत्वापत्तेः तेनैव कृत्स्नाध्ययनसिद्धेः । यदि संस्कार- वादिनो जपादिविधेरेव प्रयोजकत्वमिष्टम्, तदा शूद्रादेरप्यध्ययनं स्यात् । विधितः प्रवृत्तौ शूद्रस्याध्ययने न निषेधावकाशः । निषेधशास्त्रं तु रागतः प्रवृत्तविषयत्वेनापि योजनीयम् । इत्यध्ययनविधेर्न संस्कारकर्मपरत्वोपपत्तिः । अतोऽध्ययनस्याचार्यत्वसिद्धयर्थत्वा- दन्यपरत्वेनार्थज्ञानपर्यन्तत्वाभावाद्वेदस्यार्थपरत्वाभावादस्यार्थपरत्वनिश्चयाभावे विधेरर्थज्ञानपर्यन्तत्वाभावात् तदर्थनिश्चय हेतु भूतमीमांसाशास्त्रमनारम्भणीयमिति । राद्धान्तस्तु – तन्माणवकार्थमेव, साङ्गाध्ययनादध्येतृगतत्वेनार्थज्ञानस्योत्पत्तेस्तस्यान्तर- ङ्गत्वात् । यत्कर्तृकं हि यत्कर्म तत्तदर्थमेव युक्तम् । क्तत्वेन चाध्ययन- स्वतोऽध्ययनस्यान्यप्रयु- पश्चादवगम्यमानफलद्वाराप्यैश्वयधीपूर्वकमधिकारपरत्वमित्यतुल्यकालत्वेऽप्यन्तर- ङ्गत्वं प्राथम्यादपि बलीयः । अतो वेदस्यार्थवत्त्वेनाध्ययनविवेरर्थज्ञानपर्यन्तत्वम् । तस्या- र्थपरत्वाभावेऽध्यापनविधेरपि वेदान्तर्गतत्वेनाविवक्षितार्थत्वापत्तौ प्रयोजकतैव न स्यात् । ननु " स्वाध्यायोऽध्येतव्यः " इत्यत्र नियोगस्यैव भाव्यत्वमुक्तम् ; अतः स्वाध्यायस्या- न्यपरत्वादविवक्षितार्थत्वमिति चेत् न ; केवलनियोग निर्वृत्तेरेव प्रयोजनत्वेनास्वीकारात्,

(१ – १ – १ ) नयप्रकाशिका १९१ किंत्वर्थज्ञानस्यापि स्वीकारात् । शब्दान्नियोगसिद्धिरेव प्रयोजनत्वेन स्वीक्रियते । अर्था- दर्थज्ञानं च प्रयोजनमित्यविरोधः । अर्थपरत्वे चार्थनिर्णयाय मीमांसाशास्त्रारम्भः । ततोऽध्ययनस्य माणवकार्थत्वात् वेदस्यार्थतात्पर्येऽध्ययनविधेरर्थज्ञानपर्यन्तत्वे च तन्निर्णा- यकमीमांसाशास्त्रमारम्भणीयमिति “ अथातो धर्मजिज्ञासा " इत्युच्यत इति । तदेतदनुपपन्नम् ; नियोगार्थाध्ययनस्याचार्यत्वप्रयोजनकत्वानुपपत्तेः, एकस्य साध्य- द्वयासंभवात् । अतो न पूर्वपक्ष उपपन्नः । तथा सिद्धान्तोऽपि, अर्थज्ञानस्य सिद्धत्वेनाध्ययनविधिप्रयोज्यत्वानुपपत्तेः ; अनन्यप्रमाणविषयत्वाच्छा- प्रमाणान्तरतः । I न चाध्ययनेनैवार्थज्ञानं कुर्यादिति नियम्यत न चाचार्यत्वं प्रयोजनमिति वाच्यम्, तादर्थ्ये । स्त्रस्य । साङ्गाध्ययनेऽर्थस्य चापातप्रतीतौ तन्निर्णयरागादेव प्रवर्तते । शास्त्रे रागतः प्रवृत्तौ न विधिव्यापारः । स्वर्गमोक्षादिपुरुषार्थावबोधकत्वात्तत्र रागोऽपि संभवत्येव । शास्त्र- कसमधिगम्यार्थज्ञानं च समभिव्याहारव्युत्पत्त्याभासतो जायते । तदाभासत्वनिर्णयाय शास्त्रा- अतोऽर्थज्ञानेऽर्थस्य ज्ञातत्वात् न शास्त्रारम्भः; अज्ञाते च बुभुत्साभावान्न रम्भश्च युक्तः । शास्त्रारम्भ इति न चोद्यावकाशः । अर्थज्ञानस्य प्रमाणान्तरसिद्धता चानधीयानेन पाश्चस्थेन पुस्तकनिरीक्षणादिना वा सिद्धेः । इति वाच्यम्, अर्थज्ञानस्यापुरुषार्थत्वात् । शास्त्रानारम्भप्रसक्तेः। क्रत्वादिप्रयोजन कल्पनायां चास्मदीय एव मार्ग आश्रितः स्यात् ; नियोगविषयता चाध्ययनस्य न स्यात् । कार्यपरस्य वाक्यस्यार्थज्ञानपरत्वं चानुपपन्नम् । न चार्थाज्जातार्थज्ञानपरत्वान्न दोष इति वाच्यम्, आर्थस्याचोदनार्थत्वात् । नन्वध्य- यनविधिरेव स्वविधित्वसिद्धयेऽर्थाज्जातमर्थज्ञानं स्वीकरोति ; अन्यथाध्ययनविधेरपि वेदा- न्तर्गतत्वेनार्थपरत्वाभावे विधित्वहानेरिति चेत्–न; विधेरक्षरराशिग्रहणमात्रपरत्वेनान्य- परत्वहेत्वभावे विधिव्यापारव्यतिरेकेणार्थपरत्वसिद्धेर्व्यर्थत्वात् । किंच अर्थाज्जातार्थज्ञान- स्वीकारे चाचार्यत्वसिद्धिरपि किमिति प्रयोजनं न स्यात् ? । किंच अध्ययने नियोज्य : किमिति न कल्प्य : ? न चान्यतोऽनुष्ठानसिद्धेन तत्कल्पनमिति वाच्यम्, कृत्युद्देश्यत्वा- नभिज्ञाने तदर्थप्रवृत्त्यनुपपत्तेः । परप्रवृत्त्यानुष्ठाने तु तदर्थत्वेन वा तदुपकारकत्वेन वानुष्ठानं स्यात्, नापूर्वोद्देशेन । ननु चाचार्यादिभ्योऽध्ययनमपूर्वार्थमिति श्रुत्वापूर्वोद्देशेन प्रवृत्तिरिति चेत्; न तस्यान्यतोऽनुष्ठानम्, कार्यबुद्धरेव प्रयुक्तेः । प्रयाजादेस्त्वन्याङ्गतैकस्वभावत्वेनान्य- तोऽनुष्ठानसंभवः; आधानस्याप्यन्योपकारकत्वेनान्यतोऽनुष्ठानम्। स्वतन्त्रकार्यस्य तु नान्य तोऽनुष्ठानं क्वचिद् दृश्यते । अध्ययनव्यतिरेकेणाध्यापनासंभवमात्रात् प्रयोजकत्वक्लृप्तावकृत-

१९२ श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) प्रथमयज्ञस्योत्तरक्रत्वधिकारासंभवादग्निष्टोमस्योत्तरक्रतुविधिप्रयोज्यता स्यात् । न च तत्र स्वर्गकामो नियोज्यः श्रुत इति वाच्यम्; नित्याग्निष्टोमस्य तत्प्रयोज्यत्वापत्तेः । नित्ये हि नियोज्यः प्रायेण कल्प्यते ; " वसन्ते ज्योतिषा यजेत " इत्यत्र नियोज्यस्याश्रवणात् । तथो जातकादिसंस्काराणां चोत्तरोत्तरसंस्कारप्रयोज्यत्वं च स्यात् । अतो नियोगविषयत्वे विश्व- जिदादिवत् स्वर्गकामो नियोज्यः कल्प्यः । किंच अध्यापनविधेरेव प्रयोजकत्वमिति निर्बन्धो- ऽपि व्यर्थः, वैपरीत्येनापि संभवात् ; अध्यापनविधौ " अष्टवर्षं अष्टवर्षं ब्राह्मणम्" इत्यादौ न नियोज्यः श्रुतः; कल्प्यश्चेदध्ययन एवं कल्प्यताम् । तत्र क्लृप्तेऽध्यापनव्यतिरेकेण शास्त्रोयाध्ययनासंभवात् तदाक्षेपः सिद्धः । अध्यापनप्रवृत्तिश्च धनादिरागाच्छीघ्रा । न च " उपनीय ” इति स्मृतौ नियोज्यः श्रूयत इति वाच्यम्, तत्र कामनाया अश्रवणात् । “. आचार्यं प्रचक्षते ” इत्याचार्यलक्षणकथनमात्रमेव प्रतीयते ब्रह्मचार्यादीनां भिक्षाचरण- गुरुशुश्रूषादिभिर्लक्षणकथनवत् । तच्च दृश्यते स्मृतिषु । तच्च संभाव्यत्वादितारतम्यज्ञाप- 66 नाय, “ आचार्यः श्रेष्ठो गुरूणाम्" इत्यादौ तथा दर्शनात्; अन्यथा श्रैष्ठयाद्युक्तेर्न प्रयोजनम् । अतोऽध्यापन विधावपि नियोज्यः कल्प्यः । तत्रापि कल्पनाविशेषेऽध्ययने द्राक् प्रवृत्तिलाभाय नियोज्यकल्पना युक्ता । नियोज्यविशेषणं च स्वर्गादिरस्तु । तथात्वे चान्यार्थत्वेनाध्ययनस्य शास्त्रानारम्भः फलितः । अर्थज्ञानस्य विशेषणत्वे तु नादृष्टसिद्धिः । न चोभयस्य कल्प्यत्वम्, एकेनैवानुष्ठानसिद्धेः । जातेष्टौ पुत्रगतपूतत्वादेर्निमित्तस्य च श्रवणे ह्युभयस्वीकारः । न ह्यन्यत्र तथा । ननु अष्टवर्षं ब्राह्मणम्" इत्यादिश्रुतावुपनयन आत्मनेपदश्रवणादाचार्यकरणस्य श्रौतता गम्यत इति चेत् — न ; तत्रात्मनेपदम कर्त्रभिप्राय- मिति तज्ज्ञैरुक्तत्वात् । न चात्र कर्त्रवस्थायां तज्जन्यत इति तदभिप्रायतेति वाच्यम्, संमाननादावपि तथात्वापत्तेः । न हि तदिष्टम् । संमाननादिक्रियाफलस्यान्यगामित्वाभि- प्रायमात्मनेपदम् उपनयने तु कर्त्रवस्थाभिप्रायमिति वैषम्ये तु न प्रमाणम् । आचार्यत्वोत्पत्तिवचनं तूपनयनक्रियाफलभागित्वमात्रादप्युपपन्नम् । अकर्त्रभिप्रायार्थोऽय- मारम्भ इत्युक्तिस्तु कर्मभूतोपनेयाभिप्राय । स्मृतौ चोपनयनमात्रादाचार्यत्वं प्रतीयते, न तु साङ्गाध्यापनात् । अध्यापयेत् ” इत्यत्र क्रियाफलस्य कर्त्रभिप्रायता स्वेनाप्युक्ता । “गुरवे वरं दत्वादायुपेत्युत्थाप्याचार्याधनो भवेत्" इत्यादौ चोपनयनमात्रादाचार्यत्वमुच्यते ; साङ्गाध्यापनान्ताचार्यत्वोत्पत्तौ न तद्वचनोपपत्तिः । न हि भविष्यतो गुरोर्गुरुत्वव्यवहारः । 66 CC-0 No Rights Reserved. Digitized by eGangotri(१–१ – १) न प्रकाशिका 66 १९३ अस्त्याचार्यत्वे च न तद्वचनोपपत्तिः । अतः साङ्गाध्ययनादेवाचार्यत्वोत्पत्तिरित्युक्तिरपि व्यर्था। विद्यासमाप्तिगतम् " आचार्याय वरो देयः आचार्याय वरो देयः ” इत्यादिवचनं च भूतपूर्वगत्याप्युप- पन्नम् । अत आचार्यत्वस्य लोकत एव व्युत्पत्तेर्नालौकिकता, उपनेतरि पूर्वपूर्ववृद्वैराचार्य- पदस्य प्रयुक्तत्वात् स्मृतिरपि तन्मूला । एवं च तत्स्मृतेर्दृष्टमूलत्वसंभवे नादृष्टमूलत्वकल्पना । न च दृष्टस्यानियमे चाभेदाद्युपाधिवदलौकिकत्वमेवेति वाच्यम् ; पाचकादिष्वपि तथात्वा- पत्तेः । न हि पाचकादिषु पाकात्किंचिददृष्टमारोप्यते ; तथापि पाकादिनिवृत्तावपि ‘पाचकः ’ - इति लोको व्यवहरति । भूतपूर्वगतिमात्रेण च ’ आचार्याय वरो देयः" इत्यादिशास्त्र- मुपपन्नं पित्रोर्नमस्कारादिशास्त्रवत् । पितृत्वमपि जनकत्वदशायामेव ; जनकत्वं च निषेका- वस्थायामेवेति न पितृत्वधर्मानुपपत्तिः । त्रिवृदादिवद्वेद एवोपनेतर्याचार्यपदप्रयोगात् व्युत्प- तिरस्तु ; तथापि नालौकिकार्थता, उपनयनकारके तत्प्रयोगात् । अतो धनार्जनप्रवृत्तस्य ब्राह्मणादिभ्यः प्रतिग्रहादिनियमवत् " अध्यापयेत्" इति धनार्जनोपायनियममात्रम् । अध्ययनस्यापूर्वविषयत्वोक्तिरपि व्यर्थ, व्रीहीनवहन्ति” इत्यादिवत् संस्कारकर्म- वप्रतीतेः । न चापूर्वस्य भाव्यत्वे स्वाध्यायस्यानीप्सितकर्मत्वमिति वाच्यम्, इतरे- तराश्रयप्रसङ्गात् ; अत्रापूर्वभाव्यत्वेऽनीप्सितकर्मत्वम्, अनीप्सितकर्मत्वे चापूर्वभाव्य- तेति । न च स्वाध्यायस्य क्रतुसंबन्धित्वव्यवहारान्न संस्कार्यत्वोपपत्तिरित्यपूर्वस्यैव भाव्यत्वमिति वाच्यम्, जपादौ कृत्स्नोपयोगात् कृत्स्नसंस्कारोपपत्तेः । इत्यादौ तु सक्तूनां श्रुताद्युपयोगित्वाभावान्नियोगविषयत्वं युक्तम् । तथा इत्यादिष्वपि । अतो द्वितीयास्वारस्यात् भावार्थस्य द्रव्यनिष्ठत्वमेव । चादपोदितम् । तन्तु पूर्वकाण्डे पूर्वकाण्डे द्वितीयलक्षणे उक्तम् । द्वितीयाश्रवणे तु दृष्टार्थसंभवे चापूर्वविषयत्वशङ्कवायुक्ता । अत एव व्रीहीनवहन्ति " इत्यादौ द्विती- याभाव इति कृत्वा चिन्तया ‘तानि द्वैधा’ धिकरणप्रवृत्तिरुक्ता तत्रैव 1. तच्च " तानि द्वैधम् " ; “व्रीहीनवहन्ति” “तण्डुलान् पिनष्टि” इत्यादिर्विषय: ; किमवहनना- दीनां नियोगविषयत्वम्, उत संस्कारकर्मत्वमिति संशयः । पूर्वः पक्षः तेषां नियो- गविषयत्वं साक्षादपूर्वसंबन्धलाभात् । ननु " त्रीहीन वहन्ति” इत्यादौ द्वितीयाश्रवणात् द्रव्यस्यैव साध्यत्वं प्रतीयत इति चेत्-न; द्वितीयाभाव इति कृत्वा चिन्तात्वादिति । राद्धान्तस्तु–संस्कार कर्मत्वमेव ; वैतुप्यादिदृष्टकार्यजनकत्वप्रतीतेस्तदनुरोधेन नियोगा- 25 66 0 66 “ " सक्तून् जुहोति सुवर्णं भार्यम् " तत्तु कचिदसंभ-

१९४ श्रीभाष्यम् " (जिज्ञासाधिकरणम्) न्वयोपपत्तावदृष्टस्वभावस्याकल्प्यत्वादिति । अतः " अध्येतव्यः इति संस्कारकर्मैव । स्वाध्यायस्य॰ साध्यत्वं च प्राप्यत्वात्; वैयाकरणैः कर्मणश्चातुर्विध्यमभिहितम् — उत्पाद्यं विकार्यं प्राप्यं संस्कार्यमिति । सर्वस्यैतस्य संस्कारकर्मत्वाविशेषेऽप्यदृष्टरूपप्रोक्षणादिसंस्का- रापेक्षया संस्कारस्य पृथगुक्तिः । उपनयनस्याध्यापनाङ्गत्वोक्तिरपि व्यर्था, “ अष्टवर्ष ब्राह्मणम्" इत्यादिद्वितीयाश्रुतेस्तस्य माणवकनिष्ठत्वप्रतीतेः ; स्मृतिषु तस्य संस्कारान्त– र्भावात्। संस्कारश्च संस्कार्यार्थ एव । न चैकस्योभयशेषत्वोपपत्तिः । न च " उपनीयाध्या- पयेत्” इति क्त्वातोऽङत्वप्रतीतेद्वितीयाश्रुत्या माणवकनिष्ठताप्रतीतेश्चोभयशेषतेति वाच्यम्, एकस्य युगपदुभयार्थत्वानुपपत्तेः । न चाग्नेयादीनां प्रयाजादिवदध्यापनाध्ययनयोस्तन्त्रे- णोपनयनस्य शेषतास्त्विति वाच्यम्, एकापूर्वकरणत्वाभावात्तयोस्तन्त्रेणोपकार्यत्वानुपपत्तेः । एतेन प्रासङ्गिकत्वशङ्कापि निरस्ता । न च माणवकद्वाराध्यापनैकशेषत्वम्, माणवकस्याध्याप- नशेषत्वाभावात् । न च दर्शार्थप्रणीताग्नेः प्रसङ्गादग्निहोत्रोपकारकत्वशङ्का, यतो नात्र तद्वदुभय- कर्मफलभागैक्यम् । न ह्यशेषभूतस्य द्वारत्वम् । न हि माणवकस्य तच्छेषत्वे प्रमाणमस्ति । तच्छेषत्वे चाध्ययनस्य माणवकैश्वर्यत्वाभावान्न स्वराद्धान्तसिद्धिः । प्रत्युत “तमध्यापयेत् इति द्वितीया दर्शनान्माणवकशेषत्वमेवाध्यापनस्य, अध्यापकव्यापारस्याप्यत्विग्व्यापारवदध्यय- द्वितीयादर्शनान् नार्थत्वात् । ऋत्विगप्यानीतो दक्षिणादानादिभिः, आचार्योऽपि तथा । स्वहितकारित्वेन स्वार्थप्रवृत्तौ हि माणवकोऽर्थदो भवति । आचार्यत्वोत्पत्त्यर्थत्वावगतेस्तस्य परार्थत्वान्नार्थदा- नाद्युपपत्तिः । यद्यपि बालस्याज्ञत्वान्न दानादानविवेकः, तथापि पित्रादयस्तत्कारयन्ति ; लोके पित्रादय एवार्थं दापयन्तो दृश्यन्ते । अन्यार्थत्वे तु न दापयितृत्वोपपत्तिः । ननु वरणादिनियमैः ऋत्वित्त्वोत्पत्तावेव धनादिदानं, तथात्राप्यध्यापनादाचार्यत्वोत्पत्तावेव धनादिलाभ इति तदर्थ - मनचार्यत्वमुत्पद्यत इति चेत् — न; साङ्गाध्यापननिवृत्त्युत्तरकालं तदुत्पत्तौ तस्य स्वानुपकारक - त्वाद्धनदानानुपत्तेः। ऋत्वित्त्वस्य तु प्रयोगसमय एव जातत्वेन प्रयोगोपकारकत्वादस्तु दानोपपत्तिः । अत उपनयनादिद्वाराध्ययनाङ्गत्वमध्यापनस्य याजकत्वादेः प्रयोगशेषत्ववत् । क्त्वा तु पूर्वकालत्वेऽप्युपपन्नः । " दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत " इत्यादावङ्गत्व- व्यभिचारदर्शनात् त्वाप्रत्ययस्य तत्रैव स्वारस्येऽपि तस्य लिङ्गत्वात् स्मृतिगतत्वाच्च विलम्बतोऽङ्गाङ्गिभावेनाङ्गत्वप्रतीतिहेतुत्वात् " ब्राह्मणम् 66 99 इत्यत्र द्वितीयायाः श्रुतत्वात् तस्य वेदत्वाच्चोपनयनस्याध्येतृमाणवकद्वारा अविलम्वेनाध्ययनशेषत्वप्रतीतेरध्यय-

(१ – १ – १) नयप्रकाशिका १९५ नशेषत्वं युक्तम् । क्त्वातो विलम्बिता चैककर्तृत्वप्रतीतिः, ततः प्रयोगैक्यधीः, " ऐन्द्रया गार्हपत्यम्” इत्यादिष्विव । रागतः ततश्चाङ्गाङ्गिभाव इति । द्वितीयाश्रुतिश्च लिङ्गाद्बलीयसी । " उपनीयाध्यापयेत् " इति वाक्यं वास्तु, समभिव्याहारा- दङ्गत्वप्रतीतिहेतुत्वात्; तदा तु सुतरां दौर्बल्यम् । अत उपनयनस्य माणवकद्वाराध्यय- नाङ्गत्वमेव । अध्ययनकर्तृगतत्वेनोपनयनस्यान्तरङ्गत्वाच्चाध्ययनाङ्गत्वमेवोचितम् । न तु बहिरङ्गाध्यापनाङ्गत्वम् । तवा चोपनयनस्याध्ययनार्थतयानुवादत्वेन समानकर्तृकतया - घ्यन्वीयते; पूर्वकालतामात्रपरत्वेन वा ; धनादिरागादध्यापने प्रवृत्तो नियमशास्त्रानुसारेण ब्राह्मणादीनध्ययने प्रवर्तयन्नध्ययनाङ्गोपनयनादावपि प्रवर्तत इति समानकर्तृत्वस्यार्थ - सिद्धत्वात् । अत आचार्यरागत एवाध्ययनप्रयुक्तिः । न च रागतस्तत्प्रवृत्तौ नाध्ययनस्य नित्यतासिद्धिः, रागाभावे तत्प्रयुक्त्यनुपपत्तेरिति वाच्यम् ; याजकत्वस्य प्राप्तावपि ऋतूनां नित्यतानुष्ठानसिद्धिवत् तस्यापि सिद्धेः । रागतोऽध्ययनप्रवृत्तोऽपि " अष्टवर्षं ब्राह्मणमुपनयीत " इति शास्त्रानुसारात् प्रवर्तत इति शूद्रादीनां नोप- नयनादिप्रसक्तिः। अतः शूद्रस्योपनयनाभावादनधीतित्वेनाविद्यत्वान्न क्रतावधिकारः । क्रतु- विधीनामधीतविद्यब्राह्मणादिलाभे न शूद्रस्य विद्याप्रयोक्तृत्वम् । अध्ययनस्य क्रतुविधिप्र- युक्तत्वे तु शूद्रस्य साङ्गाध्ययनप्रसक्तिरनिवार्या ; विध्यधीनप्रवृत्तित्वादनुपेतस्यापि शूद्रस्या- ध्ययनं स्यात् । निषेधोऽपि न वैवेऽर्थे । निषेधस्मृतेस्तु रागतः प्रवृत्तिविषयतया योजनीय- त्वापत्तिः। अत एवाध्यापकरागत एव प्रयुक्तौ विधितः प्रयुक्तिकल्पनमनुपपन्नम् । नयनस्य द्वितीयाश्रवणेऽपि तत्वातोऽध्यापनाङ्गत्वकल्पनायां " त्रिवृता यूपं परिवीयाग्नेयं पशुमुपाकरोति ” इत्यादौ त्रिवृनादेर्यूपाद्यर्थता न स्यात् ; किंतु पश्चता स्यात् । द्वितीयाश्रुत्या यूपाङ्गतैवोक्ता चतुर्थलक्षणे । तच्च " पश्चङ्गं रशना स्यात्तदागमे विधानात् । “ आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयामेयं पशुमुपाकरोति" इति श्रूयते । रशना किं पश्वङ्गम् ? उत यूपाङ्गमिति संशयः । “परिवीयोपाकरोति” इति त्वाश्रुतेः समान- कर्तृकत्वाभिधानमुखेनाङ्गाङ्गिभावप्रतिपादनपरत्वात् “यूपम्” इति द्वितीयाया अनीप्सित- तयाप्युपपत्तेः पश्चर्थोपाकरणार्थत्वाच्च तन्मुखेन पश्चङ्गमिति पूर्वः पक्षः । क्त्वाप्रत्ययस्य सँमानक- र्तृकत्वाक्षेपपूर्वकत्वेन विलम्वितत्वात् “ यूपम्” इति द्वितीयाविभक्त्यभिधेयस्य क्रियाजन्य फल- भागिनः क्रियां प्रति प्राधान्यस्यानपेक्षतयाज्जसावगमादेव प्राबल्या पार्थपरिव्यय गमुखेन यूपा- उप- 99 तत्र

१९६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) ङ्गमिति सिद्धान्त इति । अतः प्राभाकरोक्तशास्त्रप्रयुक्तेर्दुष्टत्वान्न ततः शास्त्रप्रयुक्तिसिद्धिः । 17 भाट्टप्रक्रिया तु—मीमांसाशास्त्रं किमारम्भणीयम्, उतानारम्भणीयमिति; तदर्थं तस्या विषयप्रयोजने न स्तः, उत स्त इति ; तदर्थं स्वाध्यायो नार्थपरः, उतार्थपर इति : तदर्थं " स्वाध्यायोऽध्येतव्यः” इत्यध्ययनं स्वर्गार्थत्वेन विधीयते, उताक्षरग्रहणपरंपरोपजाय– मानवाक्यार्थज्ञानार्थं विधीयत इति संशयपरंपरा । ननु गुरुगेहान्निवृत्त्यनुवृत्त्योरपि फलसंशय- त्वेनोभयदर्शनेऽप्युदाहरणेऽपि किमिति नात्रोदाहरणमिति चेत् — न ; शास्त्रानारम्भारम्भयो- रनुपयोगित्वात् । तैस्तु शास्त्रानारम्भारम्भाभ्यां तत्फलतीत्येतावन्मात्रेणोक्तम् । तादृशफलभङ्गो- ऽप्युत्तरत्र वक्ष्यते । अत्र पूर्वः पक्षः - तदध्ययनं स्वर्गार्थत्वेन विधीयते, तत्र स्वाध्यायादेर्भा- व्यत्वासंभवात् भाव्यत्वेन स्वर्गस्यैव स्वीकार्यत्वात् ; न हि तावत्स्वतोऽध्ययनस्य भाव्यत्वम्, अपुरुषार्थत्वात्। न च स्वाध्यायस्य भाव्यत्वम्, प्रमाणान्तरेणापि तत्संभावाद्विध्यानर्थक्यापत्तेः । अर्थज्ञानस्यापि तथात्वापत्तेरेव न भाव्यता । अनधीयानेनापि स्वाध्यायादेः साध्यता पुस्तक- पाठादिनापि । न च " अवहन्ति” इत्यादिवन्नियमार्थता, प्रमाणान्तरेणापि तत्सिद्धेर्निय- मानर्थक्यात् । केवलार्थावगमो हि प्रमाणान्तरैरपि शक्यः । न चाधीतैरेव वेदैरवा कर्माणि फलदानीति कृत्वा ऋत्वपूर्व एवाध्ययननियम इति वाच्यम्, अध्ययनस्यानारभ्याधी- 66 79 तत्वात् श्रुत्याद्यभावाच्चाध्ययनस्याक्रत्वर्थत्वात् । अतः सक्तन् जुहोति इतिवत् स्वाध्यायस्य करणत्वमेव; विश्वजिदादिवत् स्वर्गस्य भाव्यत्वं कल्प्यम् । तदुक्तम्- इति । " विनापि विधिना दृष्टलाभान्न हि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात् स्वर्गो विश्वजिदादिवत् || 99 तत्कल्पना च जपाध्ययने श्रयमाणार्थवादिकफलस्यैव । प्रथमाध्ययनेऽप्य- ध्ययनसाम्यादपेक्षयातिदेशादार्थवादिकमपि फलं कल्प्यमेव । अर्थवादस्य तत्परत्वाभावात् कल्पनायां प्रसृतायां संनिधावार्थवादिकफलस्याम्नानात् बुद्धौ संनिधानाल्लाघवात् फलत्वेन क्लृप्ती रात्रिसत्रे । नन्येवं तस्य स्वाभाविकार्थपरताहानिः स्यादिति चेत् —न; विष- निर्हरणादिकार्ये विनियुक्तमन्त्राणामर्थाविवक्षादर्शनात् । अतोऽध्ययनस्य स्वर्गार्थत्वात् स्वाध्यायस्यार्थपरत्वाभावे मीमांसाया विषयप्रयोजनाभावान्नारम्भणीयत्वमिति । राद्धान्तस्तु — तदध्ययनं वाक्यार्थज्ञानार्थं विधीयते " अध्येतव्यः " इत्यक्षरग्रहण-

( १ – १ – १) नयप्रकाशिका १९७ परंपरया तस्यैव भाव्यत्वप्रतीतेः ; दृष्टार्थसंभवे तु नादृष्टार्थकल्पनम् । न चार्थज्ञानस्य प्रमाणान्तरसिद्धत्वेन विध्यानर्थक्यमिति वाच्यम्, नियमार्थत्वाद्विवेः । ततश्च व्युत्पन्नार्थपर- त्वानुरोधलाभः। न चाध्ययनस्य क्रत्वर्थतापत्तिस्तदेति वाच्यम्, तदापादितज्ञानस्यैव ऋत्वर्थत्वात् ; आधानसिद्धाग्नेरिव । ननु नात्र नियमोपपत्तिः, हुमादिस्तोभाक्षराणमर्था- भावात् ; ब्राह्मणादेरश्वमेधाद्यधिकाराभावात्तद्विषयब्राह्मणादिज्ञानस्य प्रयोजनाभावाच्च ; अध्ययनविधेरर्थज्ञानपर्यन्तत्वे न कृत्स्नाध्ययनसिद्धिरिति चेत् — न ; जपयज्ञादिविध्यन्तरोप- योगित्वेन कृत्स्नाध्ययनसिद्धेः । तदुक्तं तैः 66 दृष्टप्रयोजनालाभे सत्यदृष्ट प्रकल्प्यते । दृष्टमेव त्विह ज्ञानं विवेश्च नियमार्थता || अक्रत्वर्थतया यत्तु नियमार्थनिवारणम् । तत्प्रयोजनमात्रत्वान्नियमस्य न दूषणम् ॥ न केवलार्थविज्ञानसिद्धिरस्य प्रयोजनम् । अपेक्षितं दृश्यते यद्यत् तत्सर्वं फलमिष्यते ॥ 99 इति । अतोऽध्ययनविवेरर्थज्ञानार्थत्वात् स्वाध्यायस्यार्थपरत्वे मीमांसाया विषयप्रयोजनलाभा- दारम्भणीयत्वमिति ; तदेतदुच्यते–" अथातो धर्मनिज्ञासा " इति । ’ एतच्चानुपपन्नम्, स्वाध्यायनिष्ठत्वेन प्रतीयमानभावार्थस्य स्वर्गभाव्यत्वकल्पनाया अनु- पपन्नत्वेन पूर्वपक्षस्यानुपपन्नत्वात् । वेदाख्याक्षरराशिमात्रस्य स्वाध्यायशब्दवाच्यत्वात् स्वा- ध्यायशब्दस्यार्थपर्यन्तत्वकल्पनाया अनुपपन्नत्वाद्राद्धान्तोऽप्यनुपपन्नः । सर्वप्रकारेणान्वेषणेऽपि दृष्टसाध्यत्वासंभवे ह्यदृष्टसाध्यत्वक्लप्तिः । पूर्वपक्षस्यापि नात्यन्ताभासता युक्ता, तथात्वे शङ्काया एवानुत्थानात् ; पूर्वोत्तरपक्षयोस्तुल्यवदाभासमानत्व एव हि शङ्का । एकत्र संशय एव हि न्यायप्रवृत्तिः । तथा स्वाध्यायस्यार्थो न स्वाध्यायशब्दवाच्यः, वेदाख्याक्षरराशावेव हि तत्प्रसिद्धिः न तदर्थे । अक्षरग्रहणपरंपरया जायमानार्थपरत्वे परंपरोपजायमानक्रत्वनु- ष्ठानपरतापि स्यात् । रागतो मीमांसाप्रवृत्तौ न विधिव्यापारकल्पनेत्युक्तम् । किंचाध्ययनस्य ऋतुविधिप्रयुक्तताप्यङ्गीकार्या, क्लेशरूपक्रियामात्रस्य प्रयोजकत्वानुपपत्तेः । ऋतुप्रयोज्यत्वे च शूद्रस्यापि प्रसक्तिरिति पूर्वमेवोक्तम् । यत्तु विषयप्रयोजनलाभालाभाभ्यां शास्त्रस्यारभ्य- त्वमनारभ्यत्वं चोक्तम्, तच्चासत् ; साङ्गाध्ययनापातप्रतीयमानधर्मादिविषयसद्भावादनुष्ठान- ३ CC-0 No Rights Reserved. Digitized by eGangotri१९८ @ श्रीभाष्यम् (जिज्ञासाधिकरणम्) मेव प्रयोजनमस्तु । नन्वनुष्ठानस्याद्य पूर्वपक्षनयमात्रसिद्धत्वात्प्रयोजनत्वाभावान्न शास्त्रारम्भ- सिद्धिरिति चेत् — न; वेदार्थाविवक्षाया अपि विनियोगादिलक्षणापेक्षत्वात्प्रयाजादिवाक्या- न्यविवक्षितार्थानीत्येवं शेषत्वादिपरवाक्यानां निरूपणीयत्वात् । अथानुष्ठानप्रयोजनत्वेनारि- प्सितं न सिध्यतीति चेत् — मास्तु; शास्त्रारम्भाक्षेपस्य तावदशक्यत्वात् । न च मीमांसाया बहुविद्यान्तराश्रितत्वात् शुश्रूषूणां प्रवृत्त्यर्थं प्रयोजनं वक्तव्यमिति वाच्यम्, तेषामाप्तपुरुष- प्रवृत्त्यैव तस्याः प्रयोजनवत्त्वनिश्चयात् । अतो न विषयप्रयोजनपरता सूत्रस्य । किंतु साङ्गाध्ययनादापातप्रतीयमानपुरुषोपयोगि वेदार्थनिश्चयाय प्रवृत्तस्यान्यपरत्वेन स्वार्थतात्पर्या- भाववुद्ध्या तन्निर्णयप्रवृत्तिवैमुख्येऽर्थपरत्वनिश्चयात्प्रवृत्तेर्विषयप्रयोजनाभिज्ञविषयतैव । एवं मतद्वयेऽप्यस्मन्मतविरुद्धार्थनिरास ऊहनोयः । ग्रन्थविस्तर भीत्या तु न तन्मतयोः कृत्स्नोप- न्यासनिरासौ कृतौ । अतोऽध्ययनविधेर्नियमविधित्वेऽग्नीनामाधानस्येव स्वाध्यायशब्दवाच्या- क्षरराशिसंस्कारपरत्वे च स्थित एव विचारोऽभिमतो भगवतो भाष्यकारस्य । आधानं चाग्निसं- स्कार इति शेषलक्षण उक्तम् । तच्च " तत्प्रकृत्यर्थं यथान्येऽनारम्यवादाः “; आधानं किं प्रकृत्य- र्थम् ? उताग्न्यर्थमिति संशयः । “अग्नीनाद्रधीत” इति द्वितीयाश्रुत्याग्न्यर्थत्वप्रतीतावपि प्रकृत्य- र्थमाधानम्, अग्न्याधानवाक्यस्यानारभ्याघोतत्वात् । अग्निद्वारा प्रकृत्यन्वयात् द्वितीयाश्रुते- रविरोध इति पूर्वः पक्षः । आहिताग्नेग्व कर्मस्वधिकारात् कर्मप्रयोगाद्बहिरेवाग्नीनामार्जना- द्भिन्नकालत्वाच्च द्वितीयाश्रुत्याग्न्यर्थमेवाधानमिति राद्धान्तः । अत्राप्यध्ययनस्यानारभ्याधी- तत्वात्स्वाध्यायसंस्कारपरत्वं सिद्धम् । प्रथमाध्ययनस्य नियोगविषयत्वकल्पनायां तत्र माणव- कस्याधिकारो न स्यात् ; कर्मस्विव विदुषोऽधिकारापत्तेः । अतोऽन्नाद्यार्जनादिकथनवद्वि- द्यार्जनकथनपरत्वमेवाध्ययनविधेः । 99 प्रायशोऽस्मदीयराद्धान्तप्रकारः पर क्रियानिरास एव प्रदर्शितः; तथापि शास्त्रारम्भादिप्रक्रियाज्ञानाय किंचिदुच्यते; अत्र संशयः – मीमांसाशास्त्र किमनारम्भणीयम्, उतारम्भणीयमिति; तदर्थं स्वाध्यायस्यार्थपरत्वं नास्ति, उतास्तीति; तदर्थं “स्वाध्यायोऽध्येत - व्यः” इति विहिताध्ययन संस्कृतस्य स्वाध्यायस्य जपपारायणादिरेव प्रयोजनम् ; उतार्थज्ञानम- पीति । अत्र पूर्वः पक्षः - न तावत्तस्यार्थज्ञानं प्रयोजनम्, हुमादेरर्थाभावेन तस्याव्यापित्वात् कृत्स्नस्य स्वाध्यायस्य संस्कार्यत्वानुपपत्तेः ब्राह्मणादीनामश्वमेधादिष्वनधिकारात्तद्विषयमन्त्रा- देश्व नाध्ययनं स्यात्, अप्रयोजनत्वात्; अनुष्ठानद्वारा ह्यर्थज्ञानस्य प्रयोजनत्वम् ; एव-

(१–१–१) शात् । 99 66 नयप्रकाशिका १९९ मचिकीर्षितकर्मविषयमन्त्रादेरपि । अतो नार्थप्रयोजनता; किंतु जपादिरेव प्रयोजनम् ; तस्य कृत्स्नस्वाध्यायव्यापित्वात् कृत्स्नाध्यायायनं च सिद्धम् । “ प्रतिगृह्य वानश्नस्त्रिःस्वाध्यायं " " वेदमेव जपेन्नित्यम् ” इत्यादौ तद्विधिर्दृश्यते । वेदमधीयीत इत्यादौ तद्विधिर्दृश्यते । स्वाध्यायशब्दार्थश्च स्वशाखा कृत्स्नैव, न तु तदेकदेशः । एवं जपादौ विनियोगे तु नार्थपरता । न चा- र्थज्ञानमपि तस्य प्रयोजनमस्त्विति वाच्यम्, निरर्थकपदोच्चारणरूपत्वाज्जपस्य; अनेकप्रयो- जनकल्पनानुपपत्तेश्च; एकेनैव श्रुतेन प्रयोजनेन कृत्स्नस्वाध्यायसंकारसिद्धौ कल्पनानवका- न हि जपे स्वाध्यायस्य विनियोगवदर्थज्ञाने विनियोगः । ननु साङ्गाध्ययनात् पुरुषोपयोगिधर्मतत्साधनादिबोधो जायते; अतो लिङ्गात्तस्यार्थे विनियोगो विद्यत इति चेत्- न; तस्य जपश्रुतिबाधितत्वात् । अतो जपद्वारा स्वाध्यायः पापनिर्हरणादिफलपर इति नार्थपरः । तात्पर्याभावे प्रतीयमानोऽप्यर्थो हेय एव । ततो मीमांसाप्रवृत्तौ रागो विच्छिन्न एव । अर्थपरत्वनिश्चये हि तदर्थनिर्धारणाय प्रवृत्तिः । अतो जपादेरेव स्वाध्यायाध्ययनप्रयोज- नत्त्वादर्थपरत्वाभावे मीमांसाशास्त्रमनारम्भणीयमिति । राद्धान्तस्तु - अस्योभयमपि प्रयोज - नम्; न केवलं जपादिरेव; तथात्वे शब्दानां स्वाभाविकार्थपरत्वहानिप्रसङ्गः । अस्त्विति चेत् न, चक्रकापातात् । " वेदमधीयीत" इत्यस्यापि वेदान्तर्गतत्वान्न स्वार्थपरत्वम् ; ततश्च स्वाध्यायोऽर्थपर इति “त्रिःस्वाध्यायम्" इत्यादिजपविधेरप्यर्थपरत्वम् ; ततश्च पुनः “स्वाध्या- यस्यार्थपरत्वहानिरिति चक्रकापातः । अतो जपविधेरपि स्वाध्यायत्वप्रतीतिसिद्धयर्थं स्वाध्याय- स्यार्थपरतापेक्षितैव । न च जपार्थपरत्वयोर्वस्तुविरोधः, निरर्थकपदोच्चारणरूपत्वाज्जपस्येति वाच्यम् ; जपानुष्ठानकालेऽर्थविवक्षाभावमात्रादपि तदुपपत्तेः। किंच जपे स्वाध्यायस्यार्थपरत्वे को विरोधः न च द्विपरत्वमेव विरोध इति वाच्यम् ; “अध्येतव्यः” इति विधेराकाङ्क्षितत्वेन स्वीकार्यत्वात् । तस्य हि स्वशेषिस्वाध्याय निरूपणसिद्धयर्थं पुरुषोप योग्यर्थपरत्वमप्यकाङ्क्षित- मेव । अर्थपरत्वं जपविधेरपीष्टमित्युक्तम् ; न चार्थ- ततश्च विधेयार्थ प्रवृत्तिशैघ्रधम् । परत्वस्याव्यापकत्वान्न तत्स्वीकार इति वाच्यम् अव्यापकस्यापि विध्याकाङ्क्षितत्वेन स्वीकार्यत्वात् । अतः स्वाध्यायेन यद्यत्साध्यं तत्सर्वमध्ययनविधेः प्रयोजनमित्यविव- क्षितावान्तरभेदेन प्रयोजनैक्यस्वीकारान्नैकप्रयोजनोक्तिलाभ इति न चोद्यावकाशः । एवं स्वाध्यायस्यार्थपरत्वे तदर्थनिर्णयाय मीमांसाप्रवृत्तौ न रागविच्छेदः । अतो जपादे- रथंज्ञानस्याप्यध्ययन संस्कृतस्वाध्यायप्रयोजनत्वादर्थपरत्वे तदर्थनिर्णयाय मीमांसाशास्त्र- ;

9 २०० श्रीभाष्यम् (जिज्ञासाधिकरणम्) मारम्भणीयमिति ; तदेतदुच्यते- –” -" अथातो धर्मजिज्ञासा " इति । एवं शास्त्रप्र- युक्तिविचारे तु " अधीत्य स्नायात्" इत्यादिस्मृतेश्च न बाधः, विधितः शास्त्रप्रयुक्ते - रपि रागतः प्रयुक्तिरुत्कटा च । गुरुकुलान्निवृत्तस्यापि द्रव्यार्जनादिवत् शास्त्रश्रवणाव- काशोऽपि संभवत्येव । यदन्यदस्मन्मतापेक्षितं तत्सर्वं परपक्षभङ्ग एवोक्तम् । । ननु पूर्वोत्तराविभागेन मीमांसाशास्त्रस्यारम्भणीयत्वसमर्थनपरत्वे " वेदार्थजिज्ञासा " इति सूत्रं स्यात्, न तु " धर्मजिज्ञासा " इति; अतस्तत्र कर्मविषयश्रुत्यर्थविचारमात्रा- रम्भणपरत्वं तस्येति चेत्–न; धर्ममुखेन कृत्स्नवेदार्थविचारारम्भणप्रतिपादनपरत्वात् ; तच्च वेदानां कर्मविषयत्वेनोपक्रान्तत्वात् । तदुक्तं वेदान्तसारे – " अधीतवेदस्य हि पुरु- षस्य कर्मप्रतिपादनोपक्रमत्वाद्वेदानां कर्मविचारः प्रथमं कार्य इति ‘अथातो धर्मजिज्ञासा’ इत्युक्तम्” इति । ननु “अथातो धर्मजिज्ञासा" इति धर्मजिज्ञासामात्रस्यैव प्रथम कर्तव्य तोक्ता तत्रैव, न तु वेदार्थविचारमात्रस्यारम्भणीयत्वमिति चेत् — न ; तस्य भाष्ये स्फुटत्वात् । सारग्रन्थस्तु कर्मविचारमुखेन वेदार्थविचारमात्रपरत्वेन योजनीयः । अत्र " अध्येतव्यः " इत्यध्ययनस्य नियमविधित्वम् ’ अध्ययनेनैव’ इति भाष्याद्गम्यते, एवकारादन्य- निवृत्तेः । अध्ययनं किंरूपमिति; किस्वरूपमित्यर्थः । तदाकाङ्क्षा पूर्तिस्तु " तम- ध्यापयेत्” “युक्तश्छन्दांस्यवीयीत" इत्याभ्याम् । कथं च कर्तव्यमितिः किमिति कर्तव्य- ताकमित्यर्थः । तदाकाङ्क्षा पूर्तिश्च " अष्टवर्षं ब्राह्मणमुपनयीत " श्रावण्यां प्रौष्ठपद्यां चा उपाकृत्य ” इत्यादिभिः । अर्थादुपनयनमध्ययनाङ्गमिति चोक्तम् । एवं सत्संताने- त्यादिभाषेण पूर्वोदाहृतश्रुत्यादीनां संपिण्डितार्थ उच्यते । आचार्याधीनोपनयनपुरस्का- रेणाध्ययनप्रवृत्त्यभिधानादाचार्यरागादेवाध्ययनप्रयुक्तिरभिमतेति गम्यते; किंचोत्तरत्रापशूदाधि- करणे “यथैव हि त्रैवर्णिकविषयाध्ययनविधिसिद्ध – " इत्यादिभाष्ये तथा प्रतीतेश्च " अष्टवर्ष ब्राह्मणम्” इत्यादिस्त्रैवर्णिकविषयत्वेनाभिप्रेतः, केवलं " स्वाध्यायोध्येतव्यः " इत्यत्र त्रैवर्णिकविषयत्वाप्रतीतेः; भाष्यविवरणे श्रीराममिश्रैरपि तथोक्तत्वाच्च । अक्षरराशिग्रहण- फलमध्ययनमित्यनेनावहन्त्यादिशास्त्रवदध्ययनविवेर्दृष्टफलपरत्वमुच्यते । नियमाददृष्टं तु दृष्टफलपरत्वेऽपि स्वीकृतम् ; केवलादृष्टपरत्वे तु सकृन्मात्रमेवाध्ययनं स्यात् । दृष्टपरत्वं च भाविविनियोगापेक्षया । 99

(१—१—१) तत्त्वटीका २०१


प्रकृतस्यैकशास्त्त्र्यस्य ब्रह्मचिन्तोद्यमस्य च । क्रमादेश्चोपपत्त्यर्थं तथाहीत्यादि भाष्यते ॥ २४६ ॥ अत्र कर्मविचारात्प्रागपि ब्रह्मविचारः स्यादिति पश्यन् किमध्ययनादपि तस्य पूर्वत्व - मिच्छति, उत अधीतवेदस्य कर्मनिरूपणात् प्राच्यत्वमिति विकल्पं हृदि निधायाद्यं निषेधति — प्रथममिति । " तावच्छन्दोऽध्ययनानन्तर्यस्य सर्वसमतिं दर्शयति " इति विवरणम् । एतेन विचारस्याध्ययनानन्तरभावित्ववद्व्याख्येयस्यैकविधिसिद्धाध्ययन- संस्कारगोचरनियतक्रमैकप्रबन्धत्वम्, अध्ययनस्य विधिबलात्कृत्स्नस्वाध्यायविषयत्वं, तत एव तद्विचारस्य तथात्वं च यथावत्कर्म ब्रह्मचिन्तकैः सर्वैर्दुस्त्यजमिति व्यज्यते । अवधार- णार्थो वा तावच्छन्दः । तेन चाष्टवर्षाद्युपनीतस्यानन्तरं शौचाचारशिक्षणपूर्वकेण निय- तेनाध्ययनेन शास्त्रान्तरावसरनिरोधात् तन्मूलत्वेन संभावनीयसाधनचतुष्टयादिपूर्ववृत्तान्तर- निरासः । " स्वाध्यायोऽध्येतव्यः " इति स्वविधिं गृह्णता तत्प्रयुक्तिरभिप्रेता । अध्य- यनेनाक्षरराशिग्रहणमित्यनेन संस्कारलाभः सूचितः । एवकार इह नियमस्य फलितत्वं द्योतयति । यद्यप्यकरणे प्रत्यवायान्निमित्तादृष्टेश्च नित्योऽयमध्ययनविधिः, तथापि दृष्टस्य फलस्यापरित्याज्यतया तत्स्वीकारार्थादध्ययनादक्षरराशिग्रहणे सत्यन्यस्य ग्रहणहेतोर्नात्राव- अध्ययनस्य नियोगार्थत्वं वदतापि ह्यर्थात् पुस्तकपाठादि प्रतिषेध्यम्; अत एव हि लिखितपाठकनिन्दापि । स्वाध्यायशब्दवाच्येत्यादिभिस्त्रिभिः स्वशाखै- कदेशमात्रं वा शास्त्रान्तरं वा विचार्यो वेदार्थो वा न स्वाध्यायशब्दवाच्य इति व्यज्यते यथाक्रमाध्ययनं परंपराप्राप्तं विध्यनुमतमिति च भावः । ग्रहणं विधीयते ; फलत्वेन बोध्यते; संभवदुपायान्तरं फलमिदमुपायविशेषतो नियम्यत इत्यर्थः ; यत एवकारस्ततो- ऽन्यत्र हि नियमः । यद्यप्यक्षरग्रहणस्यान्यतोऽपि शक्यत्वान्न स्वरूपतो नियमः, तथापि जपाद्युपयोगोऽध्ययनगृहीतेनैवेति नियमोपपत्तिः । अर्थज्ञाने नियमं वदतामप्येवमेव निस्तारः । नन्वध्ययनविधिना स्वाध्यायस्याध्येतव्यत्वमात्रं प्रतीयते ; न तावता साधनचतु- ष्टयसंपत्त्यादि हेतु भूतशास्त्रान्तरावसरनिरोधः ; ततः पश्चादप्यध्ययनोपपत्तेः ; निरङ्गं वा सकृदधीत्य वा शास्त्रान्तरमभ्यस्यतामित्यत्राध्ययनस्वरूपकालाधिकार्यादिकं व्यनक्ति - तदिति; सर्वसंमतनित्यविधिसिद्धमध्ययनमित्यर्थः। किंरूपम् ; किं जपादिवत् स्वतन्त्रोच्चारणम् ? उत अनूच्चारणम्? किं वापन्यायमूलगौडाध्ययनवत् पारायणवच्चानावृत्तम् उत अवघातवच्चावृत्तम् ? काशः । 26 ;

२०२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) इत्यर्थः। “रूपशब्देन फल्ग्रहणम्" इति तूलिकाया अपि यावद्ग्रहणमावृत्तरूपत्वे तात्पर्यम् । कथमिति •इतिकर्तव्यतार्परम् । अध्यापनार्थशङ्कार्थस्योपबृंहणीयस्याध्ययनार्थतया संप्रति- पन्नानामुपबृंहणानां च विशेषमैकरस्यावश्यंभावं चाभिप्रेत्य अनेन उपदेशैश्व इति विभज्य निर्देशः । ’ उपाकृत्याधीयीत’ इत्येतत् ’ उपनीतोऽधीयीत’ इति श्रुतिता - त्पर्यक्लृप्तेः स्थापकम् । उपनीतस्य ह्यध्ययनार्थतयोपाकर्मादि निर्दिश्यते । युक्तः ; अवहितः, व्रतादियुक्तो वा । अर्धं पञ्चमं येषां ते अर्धपञ्चमाः । आदिशब्देन C " अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥


इत्यादीनि प्रागुक्तसाङ्गाध्ययनानुगुणवचनानि गृह्यन्ते । व्रतविशेषाः सोपाकृतयः प्राजापत्य सौम्यादयः । नियमविशेषाः शुक्लकृष्णपक्षार्धपञ्चममासादिविभक्ताङ्गाङ्गय- ध्ययनकालभेदविषयाः ‘शूद्रसमीपे नाध्येतव्यम्’ इत्याद्युकदेशादिविषयाश्च । ननु " उपनयीत तमध्यापयेत्” इति श्रुत्या आचार्य कर्तव्यताश्रुतौ कथमध्ययना- पेक्षितविधिः ? कथं चात्रोपात्तश्रुत्यादेरपि शास्त्रान्तराव सरनिरोधादिसिद्धिः ? इत्यत्राह - एवमिति प्रदर्शितश्रुतिस्मृतिसहकृतस्वविधिसिद्ध साङ्गाध्ययनविधानप्रकारेणेत्यर्थः । " अभिजनविद्यासमुदेतम्" इत्यादिभिराचार्यगुणग्रहणान्नाध्यापन विधिपरत्वं शङ्कयम्, ऋ- त्विग्गुणोक्तिन्यायादित्यभिप्रायेण सत्संतानेव्यायुक्तिः । अत्राचारात्मगुणौ समाहितशब्दाभिप्रेतौ । वेदविदिति विद्यासमुदेतत्वविशदीकरणम् । निषिध्यते चायोग्यादध्ययनम् ; तद्गुणहानौ प्रतिसमाधीयते च । तथा च " तमसो वा एष तमः तस्मिंश्चैव 66 संस्कर्तारमीप्सेत् " " प्रविशति" इत्यादिभिः शिष्यस्य हानिरुक्ता । विद्याकर्मान्तम्" इत्यादिना च तद्गुणानां माणवकार्थत्वं व्यक्तम् । यथाध्या- पनविधिवादिनामष्टवर्षत्वादिमाणवकविशेषणमाचार्यार्थं तद्वदाचार्यविशेषणं माणव- कार्थमिति प्रतिबन्दीसूचनाय व्रतनियमविशेषयुक्तस्येत्याद्युदाहृतम् । षष्ठयन्त- पदाभ्यामधिकारिस्वरूपेतिकर्तव्यतयोः सिद्धिः । तेनाध्ययनस्याङ्गाध्ययन साहित्यं शास्त्रा- न्तरावसरनिरोधकत्वं च सिद्धम् ; अङ्गाध्ययनस्यापि नियमविशेषत्वादष्टवर्षाद्युपनीतस्याध्ययन- विध्यवरुद्धत्वाच्च । आचार्योच्चारणानूच्चारणमित्यनेन स्वतन्त्रोच्चारणं विचारस्याध्ययन- शास्त्रार्थानुप्रवेशशङ्का चापास्यते । उपनयनस्य यथाध्यापनानुगुणशिष्यासत्तिर्दृष्टफल- CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) तत्त्वटीका २०३ तयोपकारिका मतान्तरे, तथानूच्चारणानुगुणप्रत्यासत्तिरस्मन्मते स्यादिति च भावः । अस्मिन्प्रथमाध्ययनेऽवघातन्यायात्सकृदसकृद्विस्त्रिरित्यादिविशेषानादरेण यावत्फलमावृत्ते- रर्थसिद्धिमभिप्रेत्याह – अक्षरराशिग्रहणफलमिति ; अनेनाक्षरग्रहणकामत्वमधिकारि- विशेषणमित्यपि व्यञ्जितम् । फलत्वेनाश्रितस्यापि तथात्वं वितुषत्ववत् । उपयोगश्च यागादौ ग्रहणस्यापि दुस्त्यजः ॥ २४७ ॥ विधितोऽनुज्ञया वार्थज्ञानं फलमिहेच्छता । फलानुबन्धान्नित्यत्वं प्रहीयेतेति दुर्वचम् ॥ २४८ ॥ ये तु पूर्वपक्षे नित्याध्ययनविधौ विश्वजिन्न्यायात्सर्वाविशिष्टं स्वर्ग फलमिति कल्प- यन्ति सिद्धान्ते चार्थज्ञानं, तेऽप्यनेन प्रतिचिक्षिपिरे । अक्षरग्रहणस्य हि दृष्टस्य सुखादन्य- स्याप्यर्थज्ञानादेवि सुखादिपर्यवसानात्फलत्वं युक्तम् । तदेवम् ’ अनूच्चारणम्, अक्षर- राशिग्रहणफलम्’ इत्युभाभ्यां किंरूपमिति बुभुत्सितमाद्याध्ययनभावार्थस्वरूपं प्रदर्शितम् । तथा च विवरणम्

  • " एकफलावच्छिन्नक्रियाक्षणनिचये हि धातोर्वृत्तिः, यथा ’ ओदनं पचति’ इति ; इतरथा वर्तमाननिर्देशभङ्गप्रसङ्गात्; प्रारब्धोऽपरिसमाप्तो हि वर्तमान- शब्दार्थः । क्षणभङ्गिन्यास्तु क्रियाया धात्वर्थत्वे शब्दप्रयोगात्पूर्वमेव ज्ञातस्य क्रिया- क्षणस्य नष्टत्वादुत्तरस्य च भविष्यत्त्वात्समकालस्याज्ञाततया शब्दाविषयत्वाच्चाक्षुषत्वेऽपि क्षणध्वंसादादिमध्यान्तानिरूपणाच्च न प्रारम्भापरिसमाप्त्योः सिद्धिरित्यतो ग्रहणफलावच्छि- न्नक्रियाक्षणनिचयेऽध्ययनशब्दस्य वृत्तिरित्याह ” इति । अध्ययनस्थाचार्योपनीतकर्तृका- नूच्चारणत्वोक्तिः " उपनयीत, तमध्यापयेत्" इत्युभाभ्यामाचार्य कर्तृकोपनयनादिपूर्वकत्वं विधीयत इति व्यनक्ति । ननु अध्यापयेत् ” इति वृत्त्युपायनियमार्थत्वं स्यात् । मैवम् — अनुपनेतुरपि तदर्थाध्यापनदृष्टेरुपनयनविधाननैरर्थक्यात् । नापि ‘उपनीतमेवाध्या- पयेत्’ इति क्रमनियमोऽपि, तथाहि “अष्टवर्षं ब्राह्मणम्" इत्यादेरनपेक्षितवचनत्वप्रसङ्गात् ; अन्यार्थमिह तदुपदेशस्त्वसङ्गत एव । न चात्रोपनीतौ नियमः शङ्कयः, तत्प्रापकान्त- रादृष्टेः । स्मृतिर्दृश्यत इति चेत् — न; अष्टवर्षायुक्तेरनुपयोगादेव । न चात्र वृत्त्युपाय- द्वयोक्तिः, उपनयनस्य तदुपायत्वेनापरिसंख्यानात् । तथात्वेऽपि प्रापकाभावेन नियमानुप-

66

२०४ श्रीभाष्यम् ; (जिज्ञासाधिकरणम् ) ; पत्तिरुक्तैव; दत्तोत्तरत्वाच्च । अतोऽध्ययनापेक्षितविधिरेवायम् । प्रयोजके चात्र विधिः याजयेत् ” इतिवत् स्यात् ; अध्यापनमपि हि याजनवद्वृत्त्यर्थतया प्राप्तत्वान्न विधेयम् । तदत्र ‘ अष्टवर्षो ब्राह्मणः स्वाध्यायग्रहणकाम उक्तप्रकाराचार्योपनीतस्तदुपगत्या यथोक्तव्रत- नियमवानधीयीत’ इति सोपबृंहणाद्याध्ययनशास्त्रार्थस्थापना | अत एवाध्ययनविधौ नियोज्याश्रवणादन्यप्रयुक्तानुष्ठानत्वक्कप्तिरयुक्ता अध्यापनविधावप्यश्रवणाश्च क्लृप्तेश्वोभय- त्राविशेषात्। न चेह तत्कॢप्तिः; “ब्राह्मणम्" इत्यादेः प्रजाकामादिवद्विभक्तिविपरिणाममात्रेण तत्सिद्धेः । * विप्रोऽधीयीत’ इति स्मृत्यनुग्रहाच्च । बालस्य स्वाधिकाराज्ञानान्न स्वविधिप्रयुक्तिरिति चेत् — न; निषादस्थपतिन्यायादन्यैस्तदभिज्ञैरनुष्ठानोपपत्तेः ; हितैषिण एव हि बालादीनामविदितस्वाधिकाराणां जातकर्मादिसंस्कारानपि स्वयंविदितोपयोगाः कुर्वन्ति । अध्ययने तु बालस्याप्याप्तप्रेरणादिभिः साफल्यानुमानात्प्रवृत्तिर्युक्ता । नित्यमध्ययनं काम्यप्रयुक्तमिति वादिनाम् । यच्च "" कथं तत्र नियोगस्य कृत्युद्देश्यत्वलक्षणम् ॥ २४९ ॥ प्रबुद्धानां स्वविधिनाऽबुद्धानामन्यतस्त्विति । प्रयुक्तिभेदक्लृप्तौ च स्यादर्धजरतीयता ॥ २५० ॥ निस्तीर्णाध्ययनदुःखे माणवके विचारात्पूर्वमध्ययनविधेरधिकारपर्यवसानाय दृष्टमर्थज्ञानं विषयसाध्यप्रयोजनतया स्वीक्रियते " इति, तदपि मन्दम् ; अध्ययनस्यान्यतः सिद्धौ तदप्रयोजकेन सिध्यता कार्येण तस्य प्रयोजनान्तरक्लृप्तेरयोगात् ; नित्यान्तरवद- स्यापि ते नियोगमात्रप्रयोजनत्वोपपत्तेः । दृष्टत्वादन्यदप्यनुज्ञातमिति चेत् —–न; आनु-


*’ विप्रोऽधीयीत ’ इत्यतः पूर्व ’ अतः परं लक्षणं प्रबुद्धमित्यारभ्य भगवन्त- मित्यन्तं ’ इत्यधिकः पाठः केषुचित् कोशेषु दृश्यते । स तु प्रकृतानन्वितः । कदाचित् २४९ तमश्लोकान्ते दृश्यमानं ‘लक्षणम्’ इति पदमारभ्य २०५ पुटे २५ पङ्क्तौ दृश्यमानं ‘भगवन्तम्’ इति पदं यावत् यथास्थानं लिखितुं प्रमाद्यता पश्चात् प्रबुद्धेन लेखकेनान्येन वा शोधकेन २५० तमश्लोकादौ दृश्यमानं ‘प्रबुद्धानाम् इति पदमपि संयोज्य ‘लक्षणं प्रबुद्धानामित्यारभ्य भगवन्तमित्यन्तो ग्रन्थोऽतः परं पठनीयः’ इति सूचयितुं २४९ तमश्लोके ‘कृत्युद्देश्यत्व’ इत्यस्यानन्तरं हंसपादि- कया मातृकायां पार्श्वयोरधस्ताद्वा लिखिता पङ्क्तिरनवधानेन पश्चात्तनले- ख़केनात्र ग्रन्थमध्ये संयोजिता स्यादित्यूहितुं शक्यते ।

( १ – १ – १) तत्त्वटीका षङ्गिकस्य लाभपूजादेरत्र विध्यनुज्ञातत्वेन स्वीकारप्रसङ्गात् । यार्थज्ञानमेव विधिरनुजानाति, नान्यदिति वाच्यम् ; धनादेरपि मतिप्राप्तेः । सर्वविध्युपकारित्वमर्थज्ञानस्य संभवेत् । नैतावता विशेषेण दृष्टमन्यदुपेक्ष्यते ॥ २५९ ॥ धनादेरुपकर्तृत्वं स्वशक्त्यैवेति चेन्मतम् । २०५ न च धर्मानुष्ठानोपयुक्तत तदुपयुक्तत्वेन तस्याप्यनु- अर्थज्ञानं च तद्वत्स्यान्न विधिश्रवशंवदम् ॥ २५२ ॥ अर्थतस्तदनुज्ञातं शब्दशक्त्यैव भावितम् । सापेक्षैर्यागदानादिनियोगैरुपजीव्यताम् ॥ २५३ ॥ अपि चैकस्य वैरूप्यं विध्यनुज्ञात्मकत्वतः । प्रधानगुणकर्मत्वविषये च प्रसज्यते ॥ २५४ ॥ तस्मादध्ययनारम्भवेलायामेव माणवकस्य हितमाचार्यादयोऽभिसंधाय परबुद्धैरुपदिश्य वा तत्र प्रवर्तका इति युष्मद्वामेष्वपि वृत्तान्तः । न पुनरन्यस्याचार्यकं मया भावनीय- मिति बुद्धधा कश्चित्प्रवर्तमानो दृश्यते ; शिक्षयन्तश्च हितैषिणो बालस्यैवागामि फलं व्यपदिशन्ति । छान्दोग्ये च- छान्दोग्ये च – “ ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तम् " इति जाबाल गौतममाह ; तेन च प्रत्युक्तम्- " समिधं सोम्याहर, उप त्वा नेप्ये " इत्यादि ; अतः शिष्यार्थमेवाचार्यः प्रवर्तते ; ततस्तु वरादिकं तेन प्राप्यमिति सिद्धम् । अत एव ‘द्रव्यार्जनादिलुब्धाचार्य रागप्रयुक्तमध्ययनम् ’ इति यत्कैश्चिदुक्तं तत्स्वविधिप्रयुक्त्य- संभवेऽप्यध्यापन विधिप्रयुक्तिस्तावदयुक्तेति स्थापयितुम् । न हि माणवकस्य प्रयोजनम- बोधयित्वा तत्प्रवर्तनतन्मूलद्रव्यार्जनादिसंभव: ; अन्यथा हठात्प्रवृत्तिराचार्यस्य स्यात् । अतः साङ्गाध्ययनविधौ कण्ठोको विप्रादिः स्वहिताभिसंधिकर्तेति नान्यतः प्रयुक्तिः । एतेनाचार्यकरणविधिप्रयुक्तयनङ्गीकारे क्रतुविधिप्रयुक्तेरवश्याश्रयणीयतया तत्तत्फलकामशूद्रा- देरप्यध्ययनाधिकारः स्यादिति कैश्चिदुक्तं निरस्तम्, आधानवन्नियतकर्तृकेण स्वविधिनैवा- ध्ययनस्य प्रयुक्तेः । अध्ययनविधावधिकाराश्रवणचोद्यमपि वैतुष्यवत् दृष्टस्याक्षरग्रहणस्य फलत्वोक्त्या प्रत्युक्तम् । " उपनीय " इत्यादिस्मृतिरपि नाध्यापनं विधत्ते, नाप्या- चायक तत्फलत्वेनोपादत्ते ; अन्यतः प्राप्तविशिष्टाध्यापनानुवा देना चार्यशब्दव्युत्पादनपर-

0 २०६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) त्वात्, उपाध्यायादिशब्दव्युत्पादनवत् ; न ह्यत्र तदतिरिक्ततात्पर्यकॢप्तिहेतुः । न चाचार्य - क्रमेकमन्यादृशम्, मानाभावात् । निमित्तान्तरादृष्ट्या तक्लप्तिरिति चेत् — न ; सनियमको - ‘पनयनाध्यापनात्यन्तायोगव्यवच्छेदमेलकस्य निमित्तस्य दृष्टेः । अत एवोपनयनादेरुत्तर- कालेऽप्युपाध्यायादिनयादाचार्यशब्दप्रयोगोपपत्तिः । पूर्वं त्वनागतावेक्षणस्य दुःशकतया निमित्तज्ञानसंदेहाभ्यामप्रयोगः । अपि च स्मृतेरत्र शब्दव्युत्पादनमात्रपरत्वे वृद्धव्यवहार एव मूलं दृष्टम् ; आचार्यकरणविध्यर्थत्वे त्वलौकिकार्थश्रुतिमूलत्वं कल्प्यम् ; क्लृप्तकल्प्य - योश्च विरोधे क्लृप्तमेव ग्राह्यम् । क्त्वादिश्रुतिश्चात्र " दर्शपूर्णमासाभ्यामिष्टा ” इत्यादि- वदनङ्गत्वेऽपि सूत्रोक्तसमानकर्तृकत्वादिसाधर्म्यमात्रेण घटते । ननु समानकर्तृकत्वस्वार- स्याद्वाधकाभावाच्चैकप्रयोगतयाङ्गाङ्गित्वसिद्धिः स्यात् ; तन्न - क्त्वाश्रुतेः स्मृतिसंस्थत्वादनुवादतयापि च । स्यात्, श्रुतिस्थं लिङ्गमेवात्र बलीयो ह्यविलम्बतः || ३५५ ॥


19 " संमानन “ब्राह्मणम्” इति मणवकैकसंस्कारतया श्रुतमुपनयनं प्रयोज्यप्रयोजकव्यापारतयाध्य- यनाध्यापनयोर्द्वयोः फलवतोः संनिधावपि कर्मस्थतयान्तरङ्गलिङ्गादुपनीतगताध्ययनाङ्गमेव ; अन्यार्थत्वे तु प्रणाड्या स्यात् । एवं श्रौतलिङ्गतोऽध्ययने विनियुक्तस्याध्यापनाङ्गत्व- क्लृप्तौ विनियुक्तविनियोगविरोधः ; न हि स्मृतिस्था क्त्वाश्रुतिः श्रौतं लिङ्ग बाधितुं क्षमा ; स्मृतिः स्वमूलम्, अनूक्तिः पुरोक्तिमपेक्षत इति विलम्बद्वयेन प्रतिरोधात् । ननु " स्वरित- इत्यादिविहितादात्मनेपदादुपनयनमुपनेतृगताध्यापनाङ्गं स्यात् ; इत्यादिसूत्रविहितत्वात् ; " अकर्त्रभिप्रायार्थोऽय- मारम्भः " इति शाब्दाः । कर्तर्येव फलान्वयः कर्त्रभिप्रायत्वम् ; अकर्त्रभिप्रायत्वं तु नियमा- भाव इति चेत् — न ; “ आदधीत " इत्यत्र " स्वरित – ” इत्यादिसूत्रोक्तात्मनेपदेऽपि फलस्योभयान्वयात् । न च क्रियाफलस्य चेतनद्वयेऽनन्वयस्तत् ; " जायापती अग्नि- मादधीयाताम् ” इत्यत्रापि तद्दृष्टेः । कर्तृव्यतिरिक्तचेतनेऽनन्वयस्तदित्यपि निरस्तम्, प्रामाणिकदृष्ट्या सर्वेषु शास्त्रार्थेष्वकर्तर्याराध्ये प्रीतिरूपफलश्रुतेराराधनादिष्वात्मनेपदलोप- प्रसङ्गात् ; “ अभिचरन् यजेत" इत्यादौ भ्रातृव्येऽपि तदुचितफलसंमतेश्च " ऋत्विजो वृणीते " इत्यत्र च वरणीयेष्वपि फलं सिद्धम् । अव्यवहितफलस्य क्रियाफलशब्देन विव- क्षितत्वात्तस्य कर्त्रन्वयः कर्त्रभिप्रायत्वम् ; " संमानन - " इत्यादिसूत्रं तु व्यवहितफलस्य 66 66 ;

मूलभावप्रकाशिका " आदधीत


२०७ इत्यादावेव व्यभिचारात् । (१ – १ – १ ) कर्त्रन्वयार्थं स्यादित्येतदपि दत्तोत्तरम्, अस्ति यत्राग्निसंस्कारव्यवहितमाधातर्याहिताग्नित्वं फलम् । नन्वागामिनित्यकाम्यादि- यागोपजीव्यसंस्कृताग्निसिद्धिरेवाधातुः फलमिति न व्यवहितफलान्वयः ; मैवम् ; अत्राप्युप- नयनसंस्कृताध्येतृसिद्धिरेवोपनेतुः फलमिति " संमानन- -" इत्यादिसूत्रवैयर्थ्यप्रसङ्गात् । अव्यवहितफलस्य कर्त्रभिमतत्वानभिमतत्वाभ्यां सूत्रद्वयसाफल्यमिति चेत्–न; आचार्य- कार्थिनोऽप्युपनेतुरुप नेयसंस्कारानभिमत्ययोगात् । अतः कर्त्रन्वयसिद्धमेवात्रात्मने- पदम् । एवम् “ अध्यापयेत्" इत्यनेनापि न फलस्य कर्तृगामित्वम् । तदेवं न विध्यन्तरप्रयुक्तमध्ययनम् । विचारश्च - किमध्ययनविधिना प्रयुज्यते ? उत अध्यापन- विधिना ? न प्रथमः, विषयफलानुज्ञाया निरस्तत्वात् ; न द्वितीयः, यावच्छ्रतानति- क्रमणात् । स्वाध्यायं ग्राहयित्वा हि गुरुणापि विरम्यताम् । दयादिप्रेरितत्वे तु प्रागप्येवमिति स्थितिः ॥ २५६ ॥ अतो गुरुमते कृत्स्नमीमांसैव न सिध्यति । इति मत्वा विधूतं तत्प्रकृतस्थापनार्थिभिः ॥ २५७ ॥ मूलभावप्रकाशिका सूचितो सूचितम् । अधीतसाङ्गसशिरस्क’ इत्यादिभाष्यसंगृहीतं क्रममुपपादयति–प्रथमं तात्र- दित्यादिना ; ’ प्रथमम् ’ इत्यनेन " अष्टवर्षं ब्राह्मणमुपनयीत " इति विधिलब्धमष्टवर्ष - त्वमभिप्रेतम् । अनेन नित्यानित्यविवेकोपयोगिशास्त्रान्तरश्रवणानवकाशः भवति । " स्वाध्यायोऽध्येतव्यः ” इत्यनेनाध्ययनस्य विधिप्रयुक्तत्वं अध्ययनेनैवेत्येवकारेणाध्ययनविधेर्नियमविधित्वं सूचितम् । अक्षरराशिग्रहणमित्यनेना- ध्ययनविधेरक्षग्रहणमात्रविश्रान्तत्वं नार्थज्ञानपर्यन्तत्वमित्युक्तं भवति । न चाक्षरराशि- ग्रहणस्य फलत्वे फलस्याविधेयतया कथं ’ विधीयते ’ इत्युक्तमिति वाच्यम् ; ’ अध्ययने- नैवाक्षरराशिग्रहणम्’ इति नियमो विधीयत इत्यर्थात् ; " स्वाध्यायोऽध्येतव्यः" इत्यत्र स्वाध्यायशब्दवाच्याक्षर राशेरेव प्रतीतेस्तव्यप्रत्य- यस्वारस्यभङ्गेन तव्यप्रत्ययेनाध्ययनभावनाभाव्यतायाः ’ अधीतेन स्वाध्यायेन, स्वाध्यायाध्ययनेन वार्थज्ञानं संपादयेत् ’ इति वाक्यार्थवर्णनस्यायुक्तत्वादिति भावः । नन्वक्षरराशिग्रहणं न पुरुषार्थ इति चेत्, CC-0 No Rights Reserved. Digitized by eGangotri0 २०८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) किमर्थज्ञानं पुरुषार्थः ? पशुपुत्रादिवत् पुरुषार्थोपयोगितया गौणपुरुषार्थत्वं तु स्वाध्याया- चाप्तेरपि तुल्यम् । अथ अर्थज्ञानमन्तरेणानुष्ठानासंभवात्तस्यानुष्ठानोपयोगितया गौणपुरु- षार्थत्वं सामर्थ्यादवगतं, न स्वाध्यायावाप्तेरिति चेत् ; तां विना जपपारायणाद्यसंभवेन तस्या अपि तथात्वं सामर्थ्यादवगतम् । ननु " यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ” इति श्रुत्या सामर्थ्यतः शीघ्रगामीत्यर्थज्ञानस्य तथात्वं प्रथमतोऽव- गतमिति चेत् — न; तस्याः श्रुतेः प्रकृतोद्गीथविद्याविषयत्वस्य पुरुषार्थाधिकरणे सूत्रकृता वक्ष्यमाणत्वेनार्थज्ञानपरत्वाभावात् । " धन्यं यशस्यमायुष्यं पुण्यं स्वर्गापवर्गदम् । धारणं धर्मशास्त्राणां वेदानां धारणं तथा ॥ 99 इत्यादिस्मृत्या स्वाध्यायावाप्तेरपि तथात्वस्य शीघ्रमवगतेश्च । ननु धारणस्य तत्र फलार्थत्वमुक्तम् ; न त्ववाप्तेरिति चेत् —न; स्वाध्यायस्य धारणमवाप्तिरित्यभेदात् ; स्वाधीनोच्चारणक्षमत्वं ह्यवाप्तिः । तच्च पुरुषस्य स्वाध्यायोच्चारणेच्छायां सत्याम- स्खलिततदुच्चारणोपयोगितालुमूर्द्धादिवर्णस्थानवशित्त्व सहिताविच्छिन्नस्मृतिसंतानजनकयाव- द्वर्णपदवाक्यावलिविषयकसंस्कारदादर्थमेव । धीशक्तिविशेषेण गुणनिकया च संपादितं स्वाध्यायस्य धारणमपि तदेव ; न वस्त्रभूषणादेरिव तस्य मुख्यं धारणमस्ति । अवश्यं चार्थज्ञानं फलमभ्युपगच्छतापि क्वचिदक्षरावाप्तिरपि फलत्वेनाभ्युपगन्तव्या । न खलु हुं फट् ’ प्रभृतीनां स्तोभाक्षराणामर्थोऽस्ति । न वा निषेधवाक्यानामर्थवत्त्वेऽपि तद- ध्ययनस्यार्थज्ञानं फलमभ्युपगन्तुं शक्यम् ; तथा सति निषेधोऽपि निषिद्धानुष्ठान परिहाराय ‘हिंसानृतपारदारिकत्वादिकं प्रत्यवायकरम्’ इतिज्ञानवदधिकारिसापेक्षः स्वतः सिद्ध- तज्ज्ञानेषु त्रैवर्णिकेष्वेव पर्यवस्यति न शूद्राणां तज्ज्ञानमाक्षिपतीति त्वदीयकल्पनाप्रसरेण निषेधवाक्याध्ययनविवेरुक्तरूपज्ञानवतां त्रैवर्णिकानामेव निषिद्धानुष्ठानं प्रत्यवायकरमिति नियमपर्यवसायितया शूद्राणां हिंसानृतादिभिः प्रत्यवायाभावप्रसङ्गात् ; त्रैवर्णिकानामपि वेदाध्ययने सति ’ एतानि निषिद्धानि प्रत्यवायकराणि ’ इति ज्ञानावश्यंभावात् ’ तद- नुष्ठाने प्रत्यवायो भवेत्’ इत्यनिष्टफलत्वप्रतिसंधानेनाध्ययने प्रवृत्त्यभावप्रसङ्गाच्च । अथोच्येत — निषेधवाक्येषु प्रत्यवायफलकं निषिद्धानुष्ठानं न शास्त्रार्थः ; किंतु प्रत्यवाय- परिहारफलकं तदननुष्ठानमिति तद्विषय एव नियमः ; अध्ययनपूर्वकनिषेधवाक्यार्थ ज्ञानवत

(१ - १ - १) मूलभावप्रकाशिका ० २०९ 1 एव निषिद्धाननुष्ठानं प्रत्यवायपरिहाराय भवतीति नियमः संभवति ; तथा च निषिद्धा- नुष्ठानेन प्रत्यवायजनने निषेधवाक्यार्थज्ञानं नापेक्षितमिति शूद्राणां तदनुष्ठाने प्रत्यवाया- भावो न प्रसज्यते ; त्रैवर्णिकानां प्रत्यवायपरिहारोपयोगिज्ञानफलकमध्ययनं नानिष्टफल- मिति तेषामध्ययने प्रवृत्त्यभावोऽपि न प्रसज्यत इति - एवमप्यनधीतवेदानां निषिद्धान- -नुष्ठानेऽपि प्रत्यवायापरिहारादवश्यं भावी प्रत्यवायस्तदनुष्ठानेनैवास्त्विति प्रतिसंधानेनान- धीतवेदानां त्रैवर्णिकानां शूद्राणां च निषिद्धानुष्ठानप्रसङ्गो दुर्वारः । एवं च यद्यपि ब्राह्मणानामश्वमेधादिभागार्थज्ञानं याजनाद्युपयोगि; क्षत्रियवैश्ययोर्बृहस्पतिसवादिभागार्थ- ज्ञानं तदवगमार्थभ्य उपदेशोपयोगि, “आपत्कल्पो ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः " इति स्मरणात्, जाबालिकेकयाजातशत्रुप्रभृतीनां क्षत्रियाणामृषीन्प्रत्यङ्गावचद्धसगुणनिर्गुणब्रह्मविद्यो- पदेष्टृत्वश्रवणाच्च; सर्वेषामप्यश्वमेध मागविचारस्य मीमांसाशास्त्रे कृतस्य न्यायसाम्येन ब्राह्मणा- द्यनुष्ठेयार्थनिर्णयेष्वप्यपेक्षितत्वाच्च ; अतस्तत्राध्ययनजन्यार्थज्ञानवतैव क्रियमाणं याजन- मुपदेशनं च फलाय भवतीति नियमः संभवति — तथापि हुमादिष्वर्थाभावान्निषेध- चाक्येषु विपरीतफलत्वाच्च तथा कचिदर्थज्ञानफलकाध्ययनविधिलभ्यो नियमो वक्तुं न शक्यत इति तत्राक्षरावाप्तिरेव फलत्वेन स्वीकर्तव्या ; एवं चेत्सर्वत्रापि सैव फलमस्तु, व्यापित्वात् । ननु तथाप्यर्थज्ञानमपि संभवस्थले फलत्वेन स्वीकर्तव्यम्, अन्यथा वेद- वाक्यानां तत्रार्थे तात्पर्यासिद्ध्या तन्निर्वाहार्थलक्षणादिकल्पनोच्छेदप्रसङ्गात् ; अर्थावबोध- - मुद्दिश्य शब्दोच्चारणेन हि लोके वाक्यानां तात्पर्यमवगम्य तन्निर्वाहार्थं मुख्यार्थासंभवे लक्षणादिकं कल्प्यते, न तूच्चारणमात्रेण । अत एव ’ गौरवः पुरुषो हस्ती’ इति पदानामुच्चारणमात्रेण लक्षणां न कल्प्यते ; यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यमवगम्यते तदैव तन्निर्वाहार्थम् ‘अयं गौर्बलीवर्दः, अश्वो वेगवान्, पुरुषो नियतचेष्टः, हस्ती महाबलः’ इत्यश्वादिपदानां लक्षणा कल्प्यते । एवं च वेदवाक्यानामर्थावबोध- मुद्दिश्योचारणाभावे तात्पर्यासिद्धया तन्निर्वाहार्थ लक्षणागौणवृत्त्यनुषङ्गाध्याहारावधारण कल्पनो- च्छेद प्रसङ्गादवश्यं वेदेऽप्यर्थावबोधमुद्दिश्योच्चारणस्य वक्तव्यत्वात् वेदे च लोक इव तमुद्दिश्य रागप्रयुक्तोच्चारणाभावाद्विधिप्रयुक्तमेव तदाश्रयणीयम्; विधिश्वाध्ययनविवेरन्यो न दृश्यत इति तेनैवार्थावबोधमुद्दिश्य गुरुमुखोच्चारणानूच्चारणरूपमध्ययनं विधीयत इत्यकामेनापि स्वी- 27

२१० श्रीभाष्यम् अत एवाध्ययन- (जिज्ञासाधिकरणम्) करणीयम् । एवं च दृष्टफलेऽप्यर्थावबोधे विधिरन्यतोऽसिध्यतस्तात्पर्यस्य सिद्धयर्थो न तु स्वाध्यायाध्ययनजन्यार्थज्ञानवत एव तदर्थकर्मानुष्ठानेन तत्तद्वाक्योक्तं फलं भवतीति नियमार्थ इति निषेधवाक्येऽप्यर्थज्ञानकामाधिकारे न कश्चिद्दोषः । विधावपि न दोषः ; तदध्ययनजन्यार्थज्ञानवतैव तद्विधेयमध्ययनमनुष्ठेयमिति नियमपर्यव- सायी विधिरित्यङ्गीकारे ह्यात्माश्रयदोषः स्यात् । स्तोभाक्षरेषु परं विशिष्टार्थपरांणामृचां तदन्तर्गतपदानां तदन्तर्गतवर्णानां च मध्ये प्रविष्टत्वात् कथमप्यर्थपरतया वर्णयितुम- शक्येषु स न संभवतीति तेषु जपपारायणस्तोत्रशस्त्राद्यर्थगीतिविरामोपयोगिन्यक्षरावाप्ति- रेव फलम् । न चैवं विधिवैरूप्यदोषप्रसङ्गः, यदेव किंचन विध्यन्तरोपयोगि स्वाध्याय- संस्काररूपेणाध्ययनेन शक्यं भावयितुं तत्सर्वमनेन भावयेत्’ इत्येकयैव वचनभङ्ग्योभयार्थ - त्वलाभात् । एवं च क्रमफलमपि संगृहीतं भवति । क्रमविशेषविशिष्टवर्णपदवाक्यसंख्यातो हि स्वाध्यायशब्दार्थः । अतोऽध्ययनविधिः क्रमविशेषविशिष्टतयैव स्वाध्यायस्या- ध्ययनं विधत्ते । क्रमविशेषस्य चैतत्प्रयोजनम् - यत्समिदादिविधिवाक्यपाठक्रमेण प्रयाजाद्यनु- ष्ठानोपयोगी, आग्नेयाद्यग्नीषोमीयादिमन्त्रपाठक्रमेण तदनुष्ठानोपयोगी च स्मृतिक्रमः; काम्ये- ष्टिकाण्डसमाम्नातानामैन्द्राग्नीनां याज्यानुवाक्याकाण्डसमाम्नातानाम् "" I 66 उभा वामिन्दान आहुवध्यै इत्यादिमन्त्राणां च यथासंख्यपाठक्रमेणाङ्गाङ्गिभावः ; उच्चैस्त्वादिस्वर- विधिषु वेदोपक्रमेण ऋगादिपदानामृग्वेदादिषु लक्षणा ; बार्हस्पत्ये सप्तदशशरावे शरावातिदेशिकचतुर्मुष्टिनिर्वापासंभवादवश्यंभाविनि संख्यामुष्टयन्यतरबाधे चरमश्रुतमुष्टिबाघ इत्यादि । यत्र तु नैतादृशं फलमस्ति तत्रैव परं क्रमस्य जपयज्ञादिमात्रोपयोगः । तस्माद्युक्तमध्ययनदिधेरर्थज्ञानं फलमिति । उच्यते – तव्यप्रत्ययेन स्वाध्याये भाव्यतया बोध्यमाने तदवाप्तिमतिलङ्घ्यार्थज्ञानस्याध्ययनविधि फलत्वकल्पनं न युक्तम्, स्वाभिमत- प्रयोजनसिद्ध्यर्थं श्रुतफलसाध्यस्यापि वैधफलत्वकल्पनायोगात् ; अन्यथा चित्रापुत्रेष्ट्यादि- वाक्यश्रुतेषु पशुपुत्रादिषु फलेषु प्राप्तेष्वपि तैः संपादनीयस्य स्वभोगस्य कदाचिदप्राप्तिः स्यादिति तत्प्राप्तिनैयत्यसिद्धये पशुपुत्रादिमयुक्तस्य भोगस्यापि चित्रापुत्रेष्ट्यादिविधिफलत्व- कल्पनाप्रसङ्गात् ; लोकव्युत्पत्तिसिद्धस्य शब्दानामर्थपरत्वस्यौत्सर्गिकस्य क्वचित् क्वचिल्लौ- किकवाक्ये वक्तदोषादपवादेऽप्यपौरुषेये वेदे तदभावान्निरपवादस्य स्वत एव सतस्त- स्यार्थ ज्ञानोद्देश्यकशब्दोच्चारणविधिनिरपेक्षत्वाच्च । शब्दानामर्थपरत्वमात्रं व्युत्पत्तिसिद्धमि-

(१–१–१) मूलभावप्रकाशिका . ० २११ त्यग्निहोत्रादिवाक्यं तत्तदर्थविशेषमुद्दिश्योच्चारणमपेक्षत इति तदर्थोऽध्ययनविधिः स्यादिति- चेत् —――न; अध्ययनविधिनापि तदलाभात् ; न ह्यध्ययनविधिः प्रतिवाक्यं तत्तदर्थ- विशेषज्ञानमुद्दिश्य तत्तद्वाक्योच्चारणविधाने व्याप्रियते । ’ स्वाध्यायाध्ययनेन यद्भावयितुं शक्यं तदनेन भावयेत्’ इति विधाने सत्यग्निहोत्रादिवाक्याध्ययनेन न्यायलभ्यतत्त- दर्थविशेषज्ञानमेव भावयितुं शक्यमिति तत्र तत्रार्थविशेषे तात्पर्यमर्थतः सिध्येदिति चेत्, तर्ह्यग्निहोत्रादिवाक्यानामौत्सर्गिकमर्थपरत्वमेव न्यायपर्यालोचनेन तत्तदर्थविशेषतात्पर्य- रूपतया पर्यवस्यतीत्येवास्तु; किमुच्चारणविधिना ? यदि च लोके दृष्टमित्येतावता वेदेऽप्यर्थावबोधमुद्दिश्योच्चारणमाद्रियेत, तदा स्वतन्त्रत्रक्तृविवक्षितेतरार्थावबोधमुद्दिश्य श्रोतृ- भिरुच्चारणे कृतेऽपि तस्य वाक्यस्य तत्र तात्पर्यं न दृष्टं किंतु स्वतन्त्रवक्तुर्यदर्थावबोधमुद्दिश्यो- च्चारणं तत्रैव तात्पर्यं दृष्टमिति वेदस्य तात्पर्यसिद्ध्यर्थं पौरुषेयत्वमपि कल्प्येत । वस्तु- तस्तु लोके नोच्चारणाधीनं तात्पर्यम्, मौनिना लिखित्वा दत्ते परेणापि लिखितं दृष्ट्रा मन- सानुसंहिते श्लोकादावुच्चारणाभावात् । किंतु ‘अस्माद्वाक्यादेतदर्थप्रतीतिर्भवतु’ इति वक्तविवक्षाधीनं तदिति तात्पर्यसिद्ध्यर्थमध्ययनविधेर्नार्थावबोधकत्वकल्पनायाः कथंचिदव- काशः । वक्तृविवक्षा त्वपौरुषेये वेदे न संभवति । लोके व्युत्पत्तिसिद्धमर्थपरत्वं वक्तृविवक्षिते विशेषे पर्यवस्यति ; वेदे तु न्यायलभ्ये विशेषे ; तदनुसारेण च लक्षणादि- कल्पनमित्येवाभ्युपगन्तुं युक्तम् । अत एव वेदस्य तात्पर्यवत्त्वरूपस्वाभिमतप्रयोजन- सिद्धिमेव न्याय्यां मन्वानेनापि न्यायतोऽध्ययनविधिरर्थावबोधमपि फलत्वेन गृह्णातीति तात्पर्यं निश्चित्य तद्बलेन स्वाध्यायावाप्तेरेव फलताप्रत्यायकस्य तव्यप्रत्ययस्य स्वारस्य- मुल्लङ्घितम् । न ह्यध्ययनविधेरुक्तार्थतात्पर्यनिश्चयोऽयमर्थावबोधमुद्दिश्योच्चारणविध्यधीनः, तथाभूतविध्यन्तराभावात् ; अस्यैव विवेरपेक्षायामात्माश्रयापत्तेः ; किंतु केवलं न्याया- वक्तव्यः । तस्मात् तात्पर्यसिद्ध्यर्थमध्ययनविधेरर्थावबोध फलत्वकल्पनमित्ये- तत्तावदयुक्तम् । क्रमफलसंग्रहार्थं ‘यदनेन शक्यं भावयितुं तद्भावयेत्’ इत्यध्ययनविध्यर्थ- पर्यवसानादध्ययनेन भावयितुं शक्यमर्थज्ञानमपि तद्भाव्यकोटावनुप्रविशेदित्येतदप्ययुक्तम्, अनुष्ठान कालापेक्षितस्य समिद्यागादिस्मृतिक्रमस्याध्ययनगृहीतस्वाध्यायपाठ क्रमेणाध्ययनविधि- फलाक्षरावाप्त्यनुनिष्पादितया स्वत एव संभवतोऽध्ययनविधिफलत्वेन संग्राह्यत्वाभावात् । मीमांसाशास्त्रपाठकालापेक्षितक्रमफलस्यापि तथैव विधिफलत्वेन संग्राह्यत्वाभावात् तत्संग्रहार्थं धीन एव

0 २१२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) ’ यदनेन भावयितुं शक्यं तत्सर्वमनेन भावयेत्’ इत्यध्ययनविध्यर्थाङ्गीकारेऽर्थज्ञानवत् ख्यातिलाभादीनां चार्वाकीपादितफलानामपि तद्भाव्यकोटयनुप्रवेशप्रसङ्गाच्च, तेषामपि लोकतः “ शोभतेऽस्य मुखं य एवं वेद " " अस्य प्रजायां वाजी जायते य एवं वेद " 66 इत्यादिश्रौतलिङ्गतश्चाध्ययनेन भावयितुं शक्यत्वावगमात् ; " शोभतेऽस्य मुखं य एवं वेद " इति हि गर्गत्रिरात्रत्राह्मणज्ञस्य तज्ज्ञानफलानुवादः ; त्वात् तज्ज्ञस्य मुखं शोभते ’ इति तदुपपादनं कृतमर्थवादाधिकरणे । ध्ययनावाप्यत्वं लब्धम् । ज्ञस्य ‘शिष्यैरुद्वीक्ष्यमाण- अनेन ख्यातेर- “ अस्य प्रजायां वाजी जायते " इति वेदानुमन्त्रणमन्त्र- संतताध्ययनश्रवणात् तज्ज्ञस्य प्रजासु कृतम् अनेन कैमुतिकन्यायेन ’ विध्यन्तरापेक्षितं यद्भावयितुं शक्यम् ’ ; तज्ज्ञानफलानुवादः ; ‘कुले मेधावी वेदविज्जायते ’ इति तदुपपादनं साक्षादध्येतुर्धनलाभस्याध्ययनावाप्यत्वं लब्धम् । इति विशेषितमिति चेत्, धनलाभोऽपि स त्वर्थज्ञानवत् क्रतुविधिभिरपेक्षित एव । ख्यातिरपि धनलम्भनद्वारा क्रतुषूपयुज्यते । तस्मादध्ययनविधेस्तव्यप्रत्ययोपात्ताक्षरावाप्ति- फलकत्वमेव, न त्वर्थज्ञानपर्यन्तत्वमिति । न चैवं सति स्वाध्यायस्योद्देश्यत्वात् स्वीयत्व- विशेषणाविवक्षाप्रसङ्गः, सर्वशाखानामध्ये तुमशक्यतया संकोचा पेक्षासत्त्वेनोद्देश्यस्यापि विशेषण- सहिष्णुत्वात् ; “ यस्योभावनी अनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्राय- श्चित्तिः” इति निमित्तान्तर्गत तयोद्देश्यविशेषणीभूतस्याग्न्युभयत्वस्याधानेनाग्निद्वयोत्पादकत्व- स्वभावेनैकस्याग्नेरुत्पादयितुमशक्यतया विवक्षितत्वस्य पुनराधेय मोदनवत्" इत्यधिकरणे निर्णितत्वात् । ननु ’ अधीतेन स्वाध्यायेनार्थज्ञानं संपादयेत्’ इत्यर्थज्ञानपर्यन्ताध्ययन- विध्यभावे कल्पसूत्रोपद्रष्टृवचनाद्यधीनज्ञानेनैव क्रत्वनुष्ठान संभवान्मीमांसा नारम्भणीया स्यात् ; ’ अधीतेनैव स्वाध्यायेनार्थज्ञानं संपादयेत्’ इति नियमविधिसद्भावे हि 66 66 " धर्मे प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥ 99 इति न्यायेन मीमांसारम्भणीया स्यादिति चेत्-न; अध्ययन संस्कृतस्य स्वाध्यायस्य प्रयोजनान्तरा संयुक्तस्य भाव्युपयोगमपेक्षमाणस्य हेतुसाकाङ्क्षेषु क्रत्वर्थज्ञानादिषु लिङ्गाद्वि- नियुक्ततया स्वाध्यायव्यतिरिक्तकल्पसूत्रादेः क्रत्वर्थज्ञाने नोपायत्वप्रसक्तिः । नन्वेवमाधान- संस्कृताग्नीनां विनियोगापेक्षायां लौकिकाग्निसाध्यतया संभवदुपायान्तरेषु लौकिकेषु पचन- CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) 66 भूलभावप्रकाशिका २१३ दहनप्रकाशादिष्वपि विनियोगः प्रसज्येतेति विहाराधिकरणविरोधः स्यादिति चेत् — न; आधानसंस्कृतस्याग्नेः गार्हपत्ये हवींषि श्रपयति, दक्षिणाग्नावन्वाहार्यं पचति, आहवनीये जुहोति” इत्यादिवाचनिकविनियोगैर्निराकाङ्क्षीङ्कृतत्वेन “ वि वा एष इन्द्रियेण वीर्येणयते यस्याहिताग्नेरग्निरपक्षा इत्यग्नेरन्यत्र नयने प्रत्यवायश्रवणेन च "" लौकिकेषु दहनपचनादिष्वग्नेर्विनियोगाभावेऽपीह तादृशबाधकाभावेन तदधिकरणसिद्धान्त– न्यायानवतारात् तत्पूर्वपचन्यायेन संभवदुपायान्तरेष्वपि क्रत्वनुष्ठानौपयिकार्थज्ञानादिष्व- धीतवेदस्यैव हेतुत्वमिति नियमलाभेन वेदेन साधयितव्येऽर्थज्ञाने मीमांसाया आवश्य- ननु तथापि वेदभाष्यादिसहकारेणापि वेदार्थज्ञानसंभवात् कथं मीमांसा - कृत्वात् । या नैयत्यमिति चेत् “ सोमेन यजेत इत्यत्र सोमशब्दस्य न कर्मनामत्वं " श्येनेनाभि- चरन्यजेत ” इत्यादौ श्येनशब्दस्य कर्मनामत्वमित्यादिवैषम्यस्य न्यायोपदेशं विना निर्णे– दहरविद्यायां प्रजापतिविद्यायां च " आत्मा अपहतपाप्मा " इत्यादि- तुमशक्यत्वात् ; वाक्ययोः साम्येऽपि दहरविद्यावाक्यं ब्रह्मपरं प्रजापतिविद्यावाक्यं परिशुद्धजीवात्मस्वरूप- परमिति न्यायमन्तरेण दुर्ज्ञानत्वात् । अतो मीमांसारम्भः सिद्ध एव । अत एव मीमां- सितवेदजन्यज्ञानस्यैव ज्ञानसाकाङ्क्षकत्वादिषु विनियोगात् तच्छून्यस्य नाधिकारप्रसक्तिरपि । नन्वध्ययनस्यार्थज्ञानार्थत्वपक्षेऽपि कर्मविचारस्य पूर्ववृत्तत्वं सिध्यति ; तथाहि- तस्मिन्पक्षे हि ’ अधीतेन स्वाध्यायेन स्वाध्यायाध्ययनेन वा ज्ञानं भावयेत्’ इति वचन– व्यक्तिः । ’ अधोतेन स्वाध्यायेनार्थज्ञानं भावयेत्’ इति पक्षे स्वाध्यायस्य करणत्वम्, अध्यय- नस्य मीमांसायाश्च तदङ्गत्वमिति सिध्यति । तत्र पूर्वभाव्यध्ययनस्य प्राथम्यात् पूर्वभाग- विचार एव प्रवृत्तिक्रमात् प्रथमतः प्राप्नोति । एवं चाध्ययनविवेरर्थज्ञानपर्यन्तत्वपक्षे मीमांसाध्ययनाङ्गं भवति । ततश्च मुख्यक्रमानुरोधात् यदध्ययनं पूर्ववृत्तं तद्विचार एव प्रथमतः प्राप्नोति । एवं चाध्ययनविधेरर्थज्ञानपर्यन्तत्वपक्षे कर्मविचारपूर्ववृत्तत्वस्य सूप- पादत्वात् कर्मविचारपूर्ववृत्तत्ववादिनामर्थज्ञानार्थत्वप्रत्याख्यानमनुचितमिति चेत् न पुरु- पार्थाधिकरणेऽध्ययनस्यार्थज्ञानपर्यन्ततया " अधीत्य स्नायात् " इति कृत्स्नाध्ययनजन्यज्ञा- नस्य स्नानोपलक्षितसर्वकर्मसु विनियोगात् वेदान्तार्थज्ञानस्यापि कर्मविशेषत्वप्रतीतेर्वेदान्तः सर्वोऽपि कर्मकर्तृजीवाभिन्नब्रह्मप्रतिपादक एवेति न कर्म कर्तुर्जीवाद्ब्रह्मातिरिच्यत इति " तद्व तो विधानात् " इति सूत्रेण पूर्वपक्षं कृत्वा अध्ययनविधेरक्षरग्रहणमात्रविश्रान्तत्वान्नायं

8 0 २१४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) आचार्यकुला- 66 दोषः प्रसज्यत इति “ अध्ययनमात्रवतः" इति सूत्रेण सिद्धान्तितत्वेनाध्ययनविधेरर्थज्ञान- पर्यन्तत्वस्य • निरसनीयत्वात् । नन्वध्ययनविवेरक्षरग्रहणमात्रविश्रान्तत्वे “ द्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य स्नानपूर्वभाविमीमांसामन्तरेणानुपपत्तेः 99 "" " अधीत्य स्नायात् "" इति श्रुतिस्मृतिभ्यामक्षरग्रहणानन्तरमेव स्नानस्य प्राप्ततया न मीमांसावसर इति चेत् ——न ; स्नानानन्तरभाविदारप्रतिग्रहानन्तर कर्तव्याग्निहोत्रादिनित्यनैमित्तिककर्मानुष्ठानोपयोग्यर्थज्ञानस्य " अधीत्य स्नायात् इति स्नानस्याध्ययना- नन्तर्यप्रतिपादिका तत्वाश्रुतिः कर्मविचारव्यवधानं सहताम्, दारपरिग्रहानन्तरमवश्यकर्तव्या- नुष्ठानौपयिकधनार्जनादाविव क्रत्वनुष्ठानौपयिकार्थज्ञानार्थ कर्मविचारेऽपि गार्हस्थ्य एव प्रवृ- त्त्युपपत्तेः । ननु “ संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूय: श्रुतमिच्छन्निति श्वेतकेतुः इत्यारभ्य " तच्छास्त्रैर्विप्रतिषिद्धं निवेशे हि वृत्ते नैयमि- कानि श्रूयन्तेऽग्निहोत्रमतिथयः" इत्यादिना श्रवणं गृहस्थस्य निषिध्यत इति चेत् — न; साकल्येन मासद्वयं गुरुकुले वासस्यैव नैयमिकविरुद्धस्य निषिद्धत्वात् । न च गुरुशुश्रू- षाव्यग्रस्य कथमग्निहोत्रादिनित्यनैमित्तिकानुष्ठानमिति वाच्यम्, शुश्रूषानिरपेक्षगुरुसंभ- वात् ; गृहस्थानामेव युधिष्ठिरादीनां भीष्मादिभ्यः श्रवणस्य भारते प्रतिपादितत्वाच्चा- ध्ययनस्याक्षरग्रहणार्थत्वे नानुपपत्तिः । स्वाधीनोच्चारणक्षमत्वलक्षणाक्षरराशिग्रहणस्य गुण- निकया विना असंभवाद सकृदावृत्तत्वमप्यध्ययनस्य सिध्यतीत्यलमतिविस्तरेण । किंरूपमिति ; किं स्वतन्त्रोच्चारणरूपम् ? उत परतन्त्रोच्चारणरूपम् ? इत्यर्थः । कथं च कर्तव्यमितिः किमितिकर्तव्यताकमित्यर्थः । तमध्यापयेदिति; अत्र “अध्यापयीत" इति प्रायेण पठन्ति; तत्र " बुधयुधनराजने प्रद्रुस्रुभ्यो णेः " इति ण्यन्तात् ’ इङ् अध्ययने ’ इत्यतः परस्मैपदस्यैव विधानेनात्मनेपदाप्रसत्तत्या " अध्यापयीत" इत्यस्य छान्दसं सा- धुत्वमाश्रयणीयम् । अध्यापयेत्” इति पाठे तु नायं क्लेश इति द्रष्टव्यम् । " अति- रात्रेण प्रजाकामं याजयेत् " """ निषादस्थप्रतिं याजयेत् " इत्यादौ याजनस्येव " अध्या- पयेत्" इत्यत्राध्यापनस्य रागप्राप्तत्वेन णिजर्थस्य तस्याविधेयत्वात् " तमध्यापयेत्" इत्यस्य ’ सोऽधीयीत’ इत्यर्थः । एवं च " अष्टवर्ष ब्राह्मणमुपनयीत " इत्यध्ययनाङ्गतयोपनयने विहिते उपनयनस्य दृष्टार्थत्वायोपनेयासत्तिं द्वारतया परिकल्प्य तस्याश्च स्वतन्त्राध्ययने 66 ।

(१ – १ – १) मूलभावप्रकाशिका २१५ दृष्टद्वारोपकारकत्वासंभवात् गुरुमुखोच्चारणानूच्चाणलक्षणपरतन्त्रोच्चारण एव दृष्टद्वारोपयोग- संभवादुपनयनरूपाङ्गमहिम्नाध्ययनस्य परतन्त्रोच्चारणत्वसिद्धिरिति भावः । ननु” " उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । 66 सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते || ० 99 इति स्मृत्या ’ उपनीयाध्यापनादाचार्यकं भावयेत्’ इति श्रुत्युन्नयनात् " उपनीय ” इति क्त्वाप्रत्ययस्योपनयनसमानकर्तृकत्वावगमनमुखेन प्रयोगैक्य प्रत्यायनद्वाराङ्गाङ्गिभावज्ञापक- त्वादुपनयनाध्यापनयोरङ्गाङ्गिभावो वक्तव्यः । किंच " संमाननोत्सञ्जनाचार्यकरणज्ञानभृति- विगणनव्ययेषु नियः " इति सूत्रे आचार्यकरणेऽर्थे नयतेरात्मनेपदविधानादुपनयनस्याध्या- पनफलभूताचार्यकसाधनत्वस्याध्यापनाङ्गत्वेऽसंभवात् “ तमध्यापयेत्” इत्युपनयनसंस्कार– विशिष्टस्याध्यापनान्वयावगमाच्चाध्यापनाङ्गत्वमेव प्राभाकररीत्या युक्तम् ; तन्नाध्ययनाङ्गत्व- मिति चेत् —न; “ अष्टवर्षं ब्राह्मणमुपनयीत " इति द्वितीयाश्रुत्या माणवकसंस्कारार्थत्वा– वगमात् माणवकसंस्कारस्य चाव्यवहितसमानाधिकरणाध्ययनार्थत्वे संभवत्यध्ययनव्यवहित- पुरुषान्तरगताध्यापनाङ्गत्वासंभवात् ; " उपनीय तु यः शिष्यम्" इत्यस्य " स्यान्निषे- कादिकृद्गुरुः” “ ऋत्विग्यज्ञक्कृदुच्यते " इत्यादिवदाचार्यशब्दार्थनिर्णयप्रवृत्तस्य यच्छब्दानु- विद्धस्य ‘उपनीयाध्यापनादाचार्यकं भावयेत्’ इति विध्युन्नायकत्वासंभवात् ; उपनयनस्या- ध्यापनाङ्गत्वे क्रियोद्देश्यफलस्याध्ययनस्योपनयनकर्तृगततया “स्वरितञितः” इत्यनेनैवा– त्मनेपदसिद्धेः “ संमानन – ” इत्यकर्त्रभिप्रायार्थसूत्रानर्थक्यप्रसङ्गात् । ननूपनयनं प्रत्य- ङ्गित्वेनोद्देश्यस्याध्यापनस्य तत्फलस्याचार्यकस्य च कर्तृगतत्वेऽप्युपनयनजन्यसंस्कारस्याकर्तृ- गतत्वात् “ स्वरितञितः” इत्यनेन नात्मनेपदमुपपद्यत इति चेत् — न; यत्प्रधानं फल मुद्दिश्य क्रियारम्भस्तस्य कर्तृगतत्वा कर्तृगतत्वयोरेव कर्त्रभिप्रायाकर्त्रभिप्रायशब्दार्थत्वात् । अत एव वृत्तिकारेण " स्वरितत्रितः " इति सूत्रे यस्य कस्यचित्फलस्य कर्तृगामित्वमात्रे- णात्मनेपदविधाने ‘यजन्ति याजकाः, पचन्ति पाचकाः ’ इत्यत्राप्यात्मनेपदं स्यादित्या- शङ्कानिराकरणार्थं “ यदर्थमसौ क्रियारभ्यते तत्क्रियाफलम् ” इत्युक्तम् । हरिणा च 66 “ यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ "

२१६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) यदि कामयेत ततश्चोपनयनोद्देश्यफलस्या- इत्युक्तम् । अत एव “ नीचैः सदो मिनुयात् " इति परस्मैपरश्रुत्या वर्षुकः पर्जन्यः स्यात् " इति श्रुतस्य वर्षरूपफलस्याध्वर्युरूपकर्तृव्यतिरिक्तयजमानगामित्व- मुक्तं “ तथा कामोऽर्थसंयोगात् " इति तार्तीयाधिकरणे । ध्यापनस्य कर्तृगतत्वे " संमानन- इत्यादिसूत्रानर्थक्यं प्रसज्यत एव । किंच “ सप्तमे ब्रह्मवर्चसकाममष्टम आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्यकामम् ” इत्याद्युपन- यनाश्रितवयोविशेषलक्षणगुणानां माणवकगतफलार्थत्वावगमात्तदाश्रयस्याप्युपनयनस्य माणव- कगतफलार्थत्वस्य “ तथा कामोऽर्थसंयोगात् ” इति तार्त्तीयाधिकरणन्यायेनावश्यवक्तव्यत्वा- न्माणवकगत।ध्ययनरूपफलार्थत्वमेवोपनयनस्य युक्तं, नाध्यापनाङ्गत्वमिति । न चोपनयन- जन्यसंकारस्य माणवकगतत्वात्तावन्मात्रेणैव गुणतदाश्रयफलयारे कगतत्वान्न तार्त्तीयाधि- करणविरोध इति वाच्यम्, क्रियोद्देश्यफलस्यैव गुणफलसामानाधिकरण्यस्य वक्तव्यत्वात् ; अन्यथा दक्षिणादिलक्षणक्रियाफलस्याध्वर्युगतत्वात् " यदि कामयेत वर्षुकः पर्जन्यः स्यात् ” इति श्रुतगुणफलस्याप्यध्वर्युग तत्वप्रसङ्गात् । न च " तमध्यापयेत्" इत्युप- नयनस्याध्यापनान्वयप्रतीतेस्तद्विरोधः स्यादिति वाच्यम्, ‘कुशलेन तक्ष्णा रथं निर्मापयति’ इत्यत्र तक्षगत कौशलस्य रथनिर्माणद्वारा निर्मापणोपयोगवदुपनयनस्याध्ययनद्वाराध्यापनान्वय- संभवेनोक्तानुपपत्तेरभावात् अध्ययनाङ्गमेवोपनयनं नाध्यापनाङ्गम् । एतेन - अध्ययनविधेर्नियोः ज्यासत्त्वान्नानुष्ठापकत्वम् ; अध्यापनविवेराचार्यकामस्य नियोज्यस्य सत्त्वादनुष्ठापकत्वम् ; न च विश्वजिन्न्यायादध्ययनविधौ नियोज्यकल्पनं युक्तम् ; अनुष्ठानाय हि नियोज्यकल्पनम् ; स्वर्गकाम नियोज्यकदर्शपूर्णमासविधिभिः प्रयाजानामिवाचार्यककामनियोज्याध्यापन विधिनैवा- ध्ययनानुष्ठानसंभवान्नाध्ययनविधौ नियोज्यकल्पनम् । न चाध्ययनमन्तरेणाध्यापनासंभ- वात् अध्यापन विधिनाध्ययनमात्राक्षेपेऽप्यध्ययनविधिविहितस्य सनियमाध्ययनस्य नाक्षेप इति वाच्यम्; अध्यापनविधिना ह्युपनयनाङ्गकमध्यापनं प्रयुज्यते ; उपनयनस्याध्यापनाङ्गत्वं चोपनेयासत्तिरूपदृष्टमुखेनैव युक्तम् ; उपनेयासत्तेरपि द्वाराकाङ्क्षायामुपनयनं प्रक्रम्य विहि- तमेवाध्ययनं द्वारत्वेन कल्प्यते, नाध्ययनान्तरमिति विहितस्य सनियमाध्ययनस्याध्यापनवि- धिनैवानुष्ठानसिद्धेर्नाध्ययनविधिस्तस्यानुष्ठापकः इति प्राभाकरमतं निरस्तम् । अध्या- पनस्य रागप्राप्तत्वेन याजनवद्विषेयत्वाभावान्नियोज्याश्रवणस्याध्यापनविधावपि तुल्यत्वा- न्नियोज्यकल्पनस्याध्ययनविधावपि संभवात् उपनयनस्याध्यापनाङ्गत्वनिरासाच्च नाध्ययनम- ध्यापनविधिप्रयुक्तम् । किंच

( १ – १ – १ ) मूलभावप्रकाशिका “ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः || २१७ इति नित्यतया श्रुतस्याध्ययनस्य काम्याध्यापनविधिप्रयुक्तत्वासंभवश्च । यत्र ग्रामे जनपदे -वार्थवत्त्वादिहेतुभिराचार्यककामो न स्यात्, सन् वा कश्चिदुपनीयाध्यापयितुं प्रवृत्तः प्रव्रज- नादिहेतुभिर्निवृत्ताध्यापनविधिसंबन्धः स्यात्, ततस्तद्द्यामजनपदवासिनामध्ययनस्य तेन तेनाचार्येणोपनीतानामेकदेशान्तराध्ययनस्य च निवृत्त्यवश्यंभावेन नित्यत्वविरोधप्रसङ्ग इत्यास्तां विस्तरः । अर्धपञ्चमानिति ; अर्धं पञ्चमं येषां ते तथोक्ताः ; अर्धमासाधिकांश्चतुरो - मासानित्यर्थः । इत्यादीत्यादिशब्देन " अत ऊर्ध्वं तु छन्दांसि शुक्षु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ " इत्यादिवचनान्यभिप्रेतानि । व्रतशब्देन “ यथाविधि " इत्यनेन परिगृहीतानि वेदव्रतान्यु- च्यन्ते ’ यथाविध्यधीयीत’ इत्यनेनाप्यन्वयात् । नियमशब्देन “ मासान्विप्रोऽर्धपञ्चमान् इत्युक्तकालविशेषनियमादयो गृह्यन्ते । अङ्गविध्युपेताध्ययनविधिलभ्यार्थमाह-एव- मिति । “अभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत्” “ इत्येते चत्वारिंशत्संस्काराः । अथाष्टावात्मगुणाः— दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यम- “ तमसो वा एष तमः प्रविशति यमविद्वानुपनयते " इत्यादिवाक्यानि सत्संतानेत्यत्राभिप्रेतानि । उपनयनविधिलब्धमर्थमाह- आचार्योच्चारणानूच्चारणमिति । हेति 23 श्रीभाष्यम् अध्ययनं च स्वाध्यायसंस्कारः, “स्वाध्यायोऽध्येतव्यः " इति स्वाध्यायस्य कर्मत्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकर- णम्। संस्कार्यत्वं च स्वाध्यायस्य युक्तम् ; धर्मार्थकाममोक्षरूपपुरुषार्थ- चतुष्टयतत्साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्साधनत्वाच्च । एवमध्ययनविधिर्मन्त्रवन्नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति । अध्य- 28 CC-0 No Rights Reserved. Digitized by eGangotri२१८ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) यनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्श- नात् गृहीतात् स्वाध्यायादवगम्यमानान् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेष निर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणे- ऽधीतवेदः पुरुषः स्वयमेव प्रवर्तते । तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरफलत्वं दृष्टाध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापातप्रतीतेस्तन्निर्णयफलवेदान्तवाक्यविचार- रूपशारीरकमीमांसायामधिकरोति । 99 श्रुतप्रकाशिका

  • सक्तून् जुहोति इत्यत्र पुरुषस्य सक्तहोमजन्यादृष्टभाक्त्वात् सक्तहोमो यथा पुरुषसंस्कारस्तद्वदध्ययनस्य पुरुषसंस्कारत्वेऽस्याक्षरराशिग्रहणफलत्वं न स्यात्, अपूर्व- सिद्ध्यर्थत्वाभावात् ; ततश्चाक्षरराशिग्रहणफलत्वाभावेनावृत्त्य सिद्धेः सकृदुच्चारणरूपमेवाध्ययनं स्यादित्याशङ्कयाह — अध्ययनं चेति । उपनयनाङ्गकत्ववत्स्वविधिप्रयुक्तत्ववदिदं चोप- पादनीयमिति चार्थः । स्वाध्यायसंस्कारः ; न तु सक्तहोमवदपूर्वविषयतया पुरुषसंस्कार इत्यर्थः । कुत इत्यत्राह – स्वाध्याय इति । तव्यप्रत्ययात् कर्मत्वावरामः ; स्वाध्यायस्य हि कर्मत्वावगमः, न पुरुषस्य ; कर्तुः क्रिययाप्तुमिष्टतमत्वं हि कर्मत्वम् ; अतोऽध्ययनं स्वाध्यायस्य संस्कारः, न तु पुरुषस्येत्यर्थः । निर्वृत्त्यादेरपि साधारणं कर्मत्वं कथं संस्कार्यत्व- हेतुतयोच्यत इत्यत्र निर्वत्र्त्यत्वविकार्यत्वानुपपत्तिमभिप्रेत्य ‘स्वाध्यायस्य’ इति पुनः कीर्तनम् ; वस्तुसामर्थ्यसचिवकर्मत्वावगमः संस्कार्थत्वे हेतुरिति भावः । फलान्तरें संभवति प्राप्यत्व- मात्रपर्यवसानं चायुक्तम् । ननु न कर्मत्वमात्रावगमात्संस्कार्यत्वम्, “सक्तून् जुहोति " सुवर्णं भार्यम्” इत्यत्र सक्तुसुवर्णयोः संस्कार्यत्वाभावादिति शङ्कायां संस्कारस्वरूपं शोधयति — संस्कारो हीति । हिनामभ्यां प्रसिद्धिः प्रतियोग्यभ्युपगमश्च सूच्यते ; अपि चेतिवदमेकाव्ययतुल्यरूप एकशब्दो वा । यद्यपि " सत उत्कर्षाधानं संस्कारः " इति मूतभाव्युपयोगिसंस्कारानुगतं लक्षणं, तथापि स्वाध्यायस्य भूतोपयोगित्वासंभवात् भाव्युप- 6.6 योगिसंस्कारलक्षणमत्रोक्तम् । संस्कारलक्षणानुपपत्त्या 66 99 सक्तून् जुहोति इत्या

११-१). श्रुतप्रकाशिका २१९. " . द्विषु प्रत्ययस्वारस्यावगतमपि कर्मत्वं भग्नमिति भावः । अत्र तु न तथानुपपन्नमि- त्याह– संस्कार्यत्वं चेति ; चः शङ्कानिवृत्तौ । कुत इत्यत्राह – धर्मार्थेति । पुरु- पार्यचतुष्टयतत्साधनेत्यनेन पूर्वोक्तव्याख्येयैकत्वाय प्रयोजनवदर्थावबोधनमनुगतमिति दर्शितं भवति ; पुरुषार्थपरत्वं वानुगतम् ; इष्टतत्साधनयोरुभयोरपि पुरुषार्थत्वात् । यद्य- व्यर्थकामतदुपायेषु के चिल्लोकसिद्धाः, तथापि धनेशलुरेशा दिविभूतिरूपातिशयितार्थकामत- साधनानां लोकसिद्धपशुपुत्रान्नादेश्चित्रादिसाध्यत्वस्य च लौकिकप्रमाणागोचरत्वात् पुरुषार्थ- चतुष्टयस्य वेदवेद्यस्वोक्तिर्युक्ता । अवबोधित्वात; अनुष्ठानौपयिकबोधजनकत्वादिति भावः । अर्थावबोधकत्वस्य हुमादावव्याप्तत्वादाह – जपादिनेति । स्वरूपेणापि ; अर्थज्ञानानुष्ठानाभ्यामृते जप्यमानेनाक्षरमात्रेणापीत्यर्थः । आदिशब्दादध्यापनग्रहणम् । अनुष्ठानानुगुणं ज्ञानं जपादि चाध्ययनसंस्कृतेन स्वाध्यायेनैवेत्युक्तं भवति । यद्वा पुरु- पार्थतत्साधनावबोधित्वेन सह तत्साधनत्वं चशब्देन समुच्चीयते । तत्साधनत्वं द्विधा - जपादिना, ध्रियमाणेन स्वरूपेण चेति । अतोऽवान्तरसमुच्चेतव्यसमुच्चयपरोऽपिशब्दः । एवं नियमविधित्वं चोपपादितं भवति । अर्थज्ञानपर्यन्तत्वं किं शब्दस्वारस्यादभ्युपगम्यते, उतार्थानुपपत्त्येति विकल्पमभिप्रेत्य तत्र शब्दस्वारस्यं प्रतिवदन्नध्ययनविधिनिरूपणमुपसं- हरति — एवमिति । मन्त्रवदिति पृथङ् निर्देशो व्रतान्तर्भावेन तदनन्तर्भावेन वाध्य- यनोपकारकमन्त्राभिप्रायः । अस्ति हि ’ शं नो मित्रा’ दिमन्त्राणां व्रताननुप्रवेशेनापि जपमात्रेणोपकारकत्वम् । नियमाः पूर्वोक्ताः । यद्वा यथा बालस्योपनयनकाले संध्यो- पासनादिकाले च विधीयमानमुच्चारणं नियमवदक्षरपठनमेव, नार्थधीसंपादनम् ; न हि चालानां पूर्वं मन्त्रार्थावबोधसंभवः; तद्वदिति । अक्षरराशिग्रहणेति ; सनियमकोच्चारण- वेदानां किंचिदधीत्य ब्राह्मण: " एकां शाखामधीत्य मध्ययनशब्दस्य मुख्यार्थः श्रोत्रियः, ” “ अङ्गाध्याय्यनूचानः " कल्पाध्यायी ऋषिः कल्पसूत्रप्रवचनाध्यायी भ्रूगः " इत्यादिप्रयोगात् । न हि स्वशाखैकदेशाध्यायिनोऽर्थज्ञानसंभवः ; अङ्गाध्ययनस्य पृथगुपादानेन तद्विर हेऽर्थज्ञानप्रसङ्गाभावात् । स्वाध्यायशब्दश्च नार्थज्ञानवाची, अपितु स्वशाखामात्रवाचीति तत्कर्मत्वं स्वाध्यायस्यैव युक्तं, न त्वर्थज्ञानस्य । अध्ययनस्य प्रयोजना- काङ्क्षायां दृष्टे संभवत्यदृष्टकल्पनायोगादक्षरग्रहणस्यासन्नत्वात् हुमादिष्वनुगतत्वाच्च तत्स्वी- कारो युक्तः, व्यवहितत्वादसार्वत्रिकत्वाच्च नार्थज्ञानमित्यभिप्रायः । सकृदुच्चारणावधिकत्वव्या- 66 22.620 Au । "” 99 99 99 O

२२० श्रीभाष्यम् (जिज्ञासाधिकरणम् )> वृत्त्यर्थमक्षरग्रहणे पर्यवसानमुक्तम् । मात्रचा विधिव्यापारस्यार्थज्ञानपर्यन्तत्वव्युदासः । पर्यवस्यतीति ; यथा " अग्नीनादधीत" इति वाक्यमाधानमात्रपरं न तूत्तरक्रतु- विनियोगपरम् ; यथा च " कारीर्या वृष्टिकामो यजेत " इति वाक्यं वृष्टिसिद्धिपर्यन्त- कर्मविशेषपरं, न तु घृष्ट्युपरितनोपयोगपरं तथेति भावः । एवं शब्दस्वारस्यादर्थज्ञान– पर्यन्तत्वं निरस्तम्। अथार्थानुपपत्तिं परिहरति ; त्रिधा चानुपपत्तिशङ्का – विधेरक्षरग्रहण - मात्रपरत्वे ग्रहणशेषतया विनियुक्तस्य स्वाध्यायस्यार्थपरत्वे प्रमाणाभावादविवक्षितार्थत्वं स्यात् ; मीमांसायाः प्रवर्तकाभावादनारम्भणीयत्वं स्यात् ; अक्षरराशिग्रहणमात्रस्य दुःखरूपतया विधेः प्रयोजनपर्यवसानं न स्यादिति । एतच्छङ्कात्रयनिराकरणमुखे- नाध्ययनविवेरर्थज्ञानपर्यन्ततां, तन्निमित्तां ब्रह्मविचारानारम्भशङ्कां च व्युदस्यन् वेदाख्यै– कप्रबन्धव्याख्यानरूपतया कर्मब्रह्मविचारयोरैकशास्त्र्यमपि दर्शयति अध्ययन- गृहीतस्येति । इह साङ्गमध्ययनं विवक्षितम् अधीतसाङ्गसशिरस्कवेदस्य च साङ्गवेदाध्ययनात्” इति पूर्वापरानुगुण्यात् । तेन हि प्रयोजनवदर्थापातप्रतीति- सिद्धिः । अर्था यज्ञोपासनादयः ; ते स्वर्गमोक्षादिप्रयोजनवन्तः । प्रयोजनवदर्थश– ब्देन काकदन्तवदपरीक्ष्यत्वशङ्काव्यावृत्तिः । प्रयोजनवदर्थावबोधित्वदर्शनादिति ; अनेन विधेः परंपरया पुरुषार्थपर्यवसायित्वमुक्तं भवति । 66 1 " "" ननु अध्ययनस्य साक्षात्प्रयोजन- अयमर्थः – किं साक्षा- साक्षात्प्रयोजनपर्यवसायित्वं मक्षरराशिग्रहणमित्युक्तम् ’ अध्ययनगृहीतस्य’ इति पदेन । त्पुरुषार्थपर्यवसायित्वं विधेर्विवक्षितम्, उत परंपरया । विधेरर्थज्ञानपर्यन्तत्वेऽपि नोपपद्यते ; अनुष्ठानापूर्वद्वारा स्वर्गस्यैव प्रयोजनत्वात्, अध्ययन- विधेः स्वर्गपर्यन्तत्वानभ्युपगमाच्च । परंपरया चेत्, अस्मत्पक्षेऽपि संभवतीति । स्वभावत इति ; शब्दस्य बोधकत्वशक्तिस्वाभाव्यादित्यर्थः । व्युत्पन्नपदपदार्थं प्रति शब्दस्यार्थाव- बोधकत्वं स्वाभाविकमिति लोकसिद्धम् । एवकारो विधिनैरपेक्ष्यपरः । अन्यत्र विनि- योगस्तु न स्वाभाविकं शब्दस्यार्थपरत्वं निरुणद्धि, जपविधिवत् ; " याजयित्वा प्रति- गृह्य वाऽश्नन् स्त्रिः स्वाध्यायं वेदमधीयीत त्रिरात्रं वा सावित्रीम् " " वेदमेव जपेन्नित्यम्" इत्यादिविधानं हि न वेदस्यार्थपरत्वं निवारयति । स्वाध्यायः स्वतोऽर्थबोधकश्चेत् किं मीमांसयेत्यत्राह – गृहीतादिति ; गृहीतात् गृहीतमात्रात्, अध्ययनगृहीतस्य’ इत्युक्तेः । तेन मीमांसाख्येतिकर्तव्यताराहित्यं विवक्षितम् । आपाततः प्रतीतेः संशय- 6

(१– १ – १) नाय श्रुतप्रकाशिका २२१ विपर्ययसहत्वात्तन्निराकरणाय मीमांसेति भावः । अध्ययनगृहीतस्य’ इत्यादिना वेद- स्यावबोधकत्वस्वभावत्वमुक्तम् ; तत्र प्रयोजनवदर्थशब्दः परंपरंया पुरुषार्थपर्यवसानज्ञाप- उपरि ‘तन्निमित्तापातप्रतीतिजनकतायाः सहकारिवैकल्यनिबन्धनत्वमित्यपौन- रुक्तयम् । न हि वेदस्यापातप्रतीतिजनकत्वं स्वभावः, प्रमितिजनकत्वस्वभावत्वात् । मीमांसाख्यपरिकरशून्यस्य तदभावो न श्रुतेः प्रमितिजनकत्वस्वभावविरोधी ; यथा आलो- कादिसहकारिविरहे रूपाद्यनुपलम्भश्चक्षुरादीनां रूपादिसाक्षात्कारजनकत्वस्वभाव न विहन्ति, तद्वत् । । " आपातप्रतीतावपि प्रयोजनवत्त्वेन प्रतिपत्तिरस्तीति दर्शयितुं पुनः प्रयोजनवदर्थशब्दः ; प्रयोजनवदर्थापातप्रतीतिर्हि तन्निर्णयरागं जनयति ; नह निष्प्रयोजनकाकदन्ताद्यापातप्रतीतिस्तन्निर्णयरागं जनयति । ‘आपाततोऽवगम्यमानान् दृष्ट्टा’ इत्यन्वयः ; अर्थानामवगम्यमानत्वं दृष्टेत्यर्थः, ’ स्वात्मनो बुद्धयुत्पत्तिं दृष्ट्वा “इतिवत् । प्रयोजनवदर्थापातप्रतीतेः स्वानुभवसिद्धत्वान्न तदपह्नवः शक्य इति भावः । व्याकरणादि- फलस्वरूपविलक्षणे मीमांसाफलस्वरूपे दर्शयति — तत्स्वरूपेति । स्वरूपविशेषा अङ्गिनः ; प्रकारविशेषा अङ्गानि । पूर्वपक्षोक्तस्वरूपप्रकारतः सिद्धान्तितस्वरूपप्रकारयो- वैषम्यं विशेषशब्देन विवक्षितम् । प्रयोजनवदर्थस्वाध्यायवेदमीमांसाशब्दाः पूर्वोत्तर- भागसाधारणाः । स्वयमेव ; न तु विधिना | तदुपपादकम् अधीतवेदः पुरुषः इति पदद्वयम् । ’ अधीतवेदः’ इत्यध्ययनविधिव्यापारस्यानुष्ठितांशे पर्यवसितत्वान्मी- मांसायां तस्याप्रवर्तकत्वं द्योतितम् । चेतनत्वात् फलवदर्थापातप्रतीत्या स्वयमेव प्रवर्तत इति पुरुषशब्दस्याभिप्रायः । नन्वक्षरराशिग्रहणपर्यन्तत्वपक्षे रागतः प्रवृत्तिरपि नोप- पद्यते, " वेदाङ्गानि समस्तानि कृष्णपक्षेषु संपठेत् " " निष्कारणः षडङ्गो वेदोऽध्येयः " “ वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च” इत्यादिविहिताङ्गाध्ययनस्याप्यक्षरग्रहण- पर्यन्ततया व्याकरणादेरर्थावबोधाभावात् प्रकृतिप्रत्ययज्ञानाभावेनापातप्रतीत्यभावात् ; मैवम् ; व्याकरणादीनां वेदाङ्गत्वात् अकिंचित्करस्याङ्गत्वायोगात् दृष्टकिंचित्कारे संभवति तत्प्रहाणेनादृष्टकल्पनायोगात् पदाद्यवबोधरूपदृष्टकिंचित्कार एव स्वीकार्य इत्यङ्गत्वान्यथानुपपत्त्यैव व्याकरणाद्यर्थावगमसिद्धेः प्रयोजनवदर्थापातप्रतीतिसिद्धया नामां- सारम्भोपपत्तेः । ’ अधीतवेदः पुरुषः स्वयमेव प्रवर्तते’ इत्यनेन " अथातो धर्मजिज्ञा- १. अर्थावबोधकत्वस्वभावत्वनिमित्तेत्यर्थः ।

२२२ श्रीभाव्यम् (जिज्ञासाधिकरणम् ) सा” इति सूत्रमप्यर्थाद्याख्यातं भवति । विधेरक्षरराशिग्रहणपर्यन्तत्वे प्रवर्तकाभावात् स्वाध्यायस्यार्थपरत्वे प्रमाणाभावाच्च मीमांसा नारम्भणीयेति पूर्वः पक्षः । साङ्गाध्ययना- नन्तरं शब्दस्य स्वतोऽर्थावबोधित्वदर्शनात् प्रवर्तकान्तराभावेऽपि रागात्प्रवृत्त्युपपत्तेरारम्भ- णीयेति सिद्धान्त इति । . ननु कर्मविचारस्य रागप्राप्तत्वे " आधीत्य स्नायात्” इति समावर्तनस्मृतिर्वा - धिका स्यात् ; वैधत्वे स्मृतेरपि श्रुतेर्बलीयस्त्वात् स्मृतिरवकाशप्रदा स्यात् ; नैवम् ; अध्ययनविवेरक्षरराशिग्रहणपर्यन्तत्वार्थज्ञानपर्यन्तत्वयोः किमभिप्रेत्यैतदुक्तम् ? यद्यर्थज्ञान- पर्यन्त्वं तर्हि “ अधीत्य स्नायात्” इति स्मृतिगताध्ययनशब्द्रस्य तत्तुल्यार्थत्वान्न विरोधः । यद्यक्षरराशिग्रहणपर्यन्तत्वं ततोऽपि तुल्यार्थत्वान्न विरोधः । किंच विरोधे सत्यपि प्रत्यक्षश्रुतिरप्यस्ति ; यथा छान्दोग्ये –" आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे ” इत्यादि ; ततश्च स्मृतिवचनोपेता स्नानश्रुतिर्बलीयसी; तस्मात् श्रुतिस्मृतिवचनयोः प्राबल्यदौर्बल्यकथनं निरर्थकम् । नन्वेवं श्रुत्यापि रागतः प्रवृत्तिर्वाध्यत इति चेत्–न; समावृत्तस्यापि रागतः श्रवणोपपत्तेः । नन्वध्ययनानन्तरभावित्वे समावर्तनस्य तत्पूर्वक गृहस्थकर्मानुष्ठानानवरुद्धश्रवणावसराला- भान्मीमांसानारम्भः प्रसज्यते ; नैवम् ; समावृत्तस्यापि श्रोतुः श्रावयितुरिवावसरसंभवात् । आचार्यस्य ह्यध्यापनं विहितम्, न तु गृहस्थस्य श्रवणमिति चेत् — न; अध्यापनस्य याजनप्रतिग्रहवद्रागप्राप्तत्वात् । रागप्राप्तमपि " प्रतिग्रहादिना धनमर्जयेत्" इत्यादि- शास्त्रानुमतमध्यापनमिति चेत् ; श्रवणमपि शास्त्रानुमतम्, अनिषिद्धत्वात् ; यज्ञानुष्ठानो- पयुक्तत्वाच्च । ननु " संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुति- मिच्छन्निति श्वेतकेतुः " इत्यारभ्य " तच्छास्त्रैर्विप्रतिषिद्धम् ; निवेशे हि वृत्ते नैयमिकानि श्रूयन्तेऽग्निहोत्रमतिथयः " इत्यादिना श्रवणं गृहस्थस्य निषिद्धमिति चेत्–न ; सा- कल्येन मासद्वयं गुरुकुलवासस्यानुष्ठानोपरोधित्वेन तस्यैव निषिद्धत्वात् । " निवेशे हि वृत्ते नैयमिकानि श्रूयन्तेऽग्निहोत्रमतिथयः" इति ह्युच्यते ; आचार्यस्याप्यनुष्ठानानुपरोधेन श्रावणस्य हि शास्त्रानुमतत्वम् ; अतोऽनुष्ठानानुपरोधोपरोधप्रयुक्तानुमत्यननुमतिविषयत्वं श्राव- णस्य श्रवणस्य च तुल्यम् । अत एव हि युधिष्ठिरादीनां गार्ह्यस्थ्यनिष्ठानामपि भीष्मा- दिभ्यः श्रवणं भारतादिषु प्रतिपाद्यते । यद्यपि श्रावणकाल एव श्रवणकाल:, तथापि CC-0 No Rights Reserved. Digitized by eGangotriT (१-१—१) 99 " न श्रुतप्रकाशिका २२३ श्रोतुरुदका हरणकाष्ठ संपादनादिभिरनुष्ठानोपरोध इति चेत् — न; अध्ययनविधिप्रयुक्तोदका- हरणादेस्तन्निवृत्त्या निवृत्तत्वात् ; वित्तख्यात्यादिप्रयोजनान्तरस्पृहया शिष्यस्नेहेन च गुरोः श्रावणमुपपद्यते। श्रावयितुर्ज्ञातार्थत्वादनुष्ठानमुपपद्यते ; श्रोतुरज्ञातार्थत्वान्नेति चेत्— न; उपनयनप्रभृत्यनुष्ठानवद्धितैषिवचनादनुष्ठानोपपत्तेः । तर्हि हितैषिवाक्यमेव स्यात्, किमर्थं मीमांसाश्रवणमिति चेत्; हितैषिवचनस्य प्रमाणमूलत्वनिश्चयार्थं प्रष्टृणां परेषां स्वयमुपपादनार्थं च । हितैषिवचनादनुष्ठानसंभवे शूद्रादीनामप्यनुष्ठानप्रसङ्ग इति चेत् — न ; शूद्राय मतिं दद्यात् ’ " न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् इत्यादिनिषेधवचनसद्भावात् । न हि यज्ञादिकं ब्राह्मणाः शूद्रायोपदिशन्ति । न च शुश्रूषाविरहितशूद्रविशेषविषयत्वेनेदृशनिषेधवचनानां संकोचः कार्यः, संकोचकाभावात् । न हि शूद्रस्य यज्ञाद्यर्हत्वविषयं वचनान्तरं दृश्यते । किंच यजमानेन कृत्स्नवेदस्य मन्त्रविशेषाणां च जप्यतावचनात् तेषामध्ययनलभ्यत्वात् अध्ययनस्य चोपनयनसापेक्षत्वात् उपनयनस्य च त्रैवर्णिकाधिकारत्वान्न शूद्राद्यधिकार- प्रसङ्गः । ननूपनयनविधिस्त्रैवर्णिकाध्ययनविषयतया नेतुं शक्यते ; अतः शूद्रस्याध्ययन- मुपनयननिरपेक्षमिति तस्य याजमानाद्युच्चारणसंभव इति चेत् — न; “ तस्माच्छूद्रसमीपे नाध्येतव्यम्, अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रपूरणमुदाहरणे जिह्वा- च्छेदो धारणे शरीरभेदः " इत्यादिना शूद्रस्य वेदश्रवणादेर्निषिद्धत्वात् । अध्ययनं चेदुपनयनाङ्गकं तत् त्रैवर्णिकाधिकारमेवेति न तंत्र शूद्राद्यधिकार इति मन्त्रविशेषोच्चारणा- नुपपत्तेर्न हितैषिवचनाच्छूद्रादेः क्रत्वनुष्ठानप्रसङ्ग इति नापशूद्राधिकरणविरोधः । किंच यथा " यावज्जीवमग्निहोत्रं जुहोति " इत्यादिविधिः नं स्वाङ्गं स्वव्यवधायकम् ’ इति न्यायात् स्वोपयोगिनोऽर्थार्जनादेः रागप्राप्तस्याप्यवसरप्रदः, तथानुष्ठानोपयोगिमीमांसाश्रवणस्य समावर्तनविधिरवकाशप्रदः स्यात् । क्त्वाप्रत्ययस्य च समानकर्तृकत्वपूर्वकालीनत्वमात्रमर्थः, न त्वानन्तर्यम् । नन्वानन्तर्यमेव विधेयम् ; न चेद्विधिवैयर्थ्यम्, दुःखात्मकगुरुकुलवास- निवृत्तेः स्वतः प्राप्तत्वादिति चेत् “न; आनन्तर्यपरत्वेऽपि विधिवैयर्थ्यात् ; तच्च गुरुकुल- अतः सनियमकसंस्कारविशेष एव स्नानमिति तद्विधेयं, न वासस्य दुःखात्मकत्वादेव । "”" त्वाश्रुतेर्न विरोधः । तस्मात्स्वयमेव वानन्तर्यम् । तस्मात् अधीत्य इति प्रवर्तते । ननु “ यो ह वा अविदितार्षेयच्छन्दोदैवतेन मन्त्रेण यजति याजयति वाध्या-

२२४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) पयति वा स्थापयति वा स्थाणुं वच्छेति गर्तं वा पद्यते प्रवा मीयते पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद स सर्वमायुरेति श्रेयांश्च भव- त्ययातयामान्यस्य छन्दांसि भवन्ति तस्मादेतानि मन्त्रे मन्त्रे विद्यात् ” इति श्रुत्या " अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः || ” " इति स्मृत्युपबृंहितयार्थज्ञानविधानं फलितम् मन्त्रप्रतिपाद्यदेवताज्ञानस्यात्र विहितत्वात् ; तुल्यन्यायतया दैवतशब्दस्य मन्त्रप्रकाश्यानुष्ठेयार्थप्रदर्शनार्थतया च विध्यादिभागार्थज्ञानस्य विधेयत्वापत्तेः; योगो मन्त्राणां विनियोगः, तज्ज्ञानस्य ब्राह्मणभागार्थज्ञानसापेक्षत्वाच्चेति चेत्- न; प्रतिग्रहर्तुसंवेशनादेखि रागप्राप्तत्वानिवृत्तेः । न हि " ब्राह्मणः प्रतिग्रहादिना धनमर्जि- येत्” “ऋतावुपेयात्” इति वचनं रागतः प्राप्तिं प्रतिग्रहादेर्निरुणद्धि । किंचानेनैव वाक्ये - नार्थज्ञानं विहितमित्यध्ययनविधेरर्थज्ञानपर्यन्तत्वं नाश्रयणीयम् ; यथा क्रतूनां विध्यन्तर- सिद्धत्वादाधानविधेरुत्तरक्रतुपर्यन्तत्वं नाश्रीयते, तद्वत् । न चेदं वाक्यमध्ययनस्यार्थधीपर्यन्त- त्वमवगमयति ; न च स्वयमर्थज्ञानं विधत्ते ; अर्थज्ञानस्यान्यतः सिद्धत्वात्, अत्र मन्त्र- मात्रस्य ऋष्यादिविज्ञानविधानप्रतीतेश्च । ततश्च वेदस्य साङ्गतयाध्येयत्वं सिध्येत् ; न त्वर्थज्ञानम्, छन्दोदेवतादिज्ञानस्य छन्दः कल्पव्याकरणनिरुक्तादिसापेक्षत्वात् मीमांसा- नपेक्षत्वाच्च । विनियोगविषयसंदेहे सति मीमांसापेक्षा स्यादिति चेत्, तर्हि संदेह पाकर- णाय रागतः प्रवृत्तिः स्यात् । " यदधीतमविज्ञातं निगदेनैव शब्द्यते । 99 अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥ 99 99 इतीदमपि वचनं नार्थज्ञानपर्यन्तत्वमध्ययनविवेरवगमयति, ‘अधीतम्, अविज्ञातम्’ इत्यत्रै- वाध्ययनार्थज्ञानयोः पृथङ् निर्देशात् ; रागप्राप्तस्य विधातुमशक्यत्वाच्च । " वेदानां किंचि- दधीत्य ब्राह्मणः " एकां शाखामधीत्य श्रोत्रियः " " अङ्गाध्याय्यनूचानः इत्यादयः कल्पसूत्रप्रयोगाश्चाध्ययनादर्थज्ञानं पृथग्भूतमवगमयन्ति । अतः श्रवणस्य दुःखरूपत्वेन तन्द्रालुतया वा अर्थार्जनाद्यन्यपरतया वा यो न शृणोति तत्प्ररोचनार्थमिदं " यदधीतम् " इत्यादि वचनम् ; यथा " अक्षैर्मा दीव्यः कृषिवित्कृषस्व वित्ते रमस्व बहु मन्यमानः 18

( १ – १ – १ )
श्रुतप्रकाशिका
२२५
इति वाक्यं तन्द्रालुप्ररोचनार्थम् प्ररोचनया हि प्रवृत्तिरुत्कटा स्यात् ;

न ह्येतावता : कृपेरर्थार्जनस्य च रागप्राप्तत्वभङ्गेन सर्वत्र वैधत्वमेव स्यात् ; तद्वदिदमपि वचनं श्रवणस्य रागप्राप्तत्वं न विहन्ति । तस्माद्रागत एव प्रवर्तते । एवमन्यतः प्रवृत्तौ संभवन्त्यां शब्दशक्तयुल्लङ्घनेन मीमांसाश्रवणस्य विधेयत्वकल्पनमयुक्तम् । ।


ऐकशास्त्र्यं रागतः प्रवृत्तिश्चास्तुः कथं पौर्वापर्यनियमः ? इत्यत्राह तत्रेति । तत्र वेदे । कर्मविधिस्वरूपे निरूपित इतिः कर्मभागस्य वेदोपक्रमत्वादधीतक्रमेणैव निरूपणं प्राप्तमिति कर्मविचारस्य पूर्वभावित्वमिति भावः । ननु न हि कर्मणामल्पास्थिर फलत्वमन- तस्थिर फलत्वं च पूर्वपक्षसिद्धान्तरूपेण क्वचिन्निरूपितम् ; तत्कथमल्पास्थिर फलत्वावगतिः ? इत्यत्राह – स्वरूपे निरूपित इति । केवलं कर्मविधिस्वरूपमेव निरूपितम् ; अल्पा- स्थिरफलत्वज्ञानं चावृत्तिविधानादिना फलितमिति भावः । यद्वा कर्मविधिस्वरूपं निरूपितं, न त्वाराध्यपरदेवतेति भावः ; तदाराधनत्वेन कृते ह्यनन्तस्थिरफलत्वसिद्धिः । अध्य- यनगृहीतस्वाध्यायेति ; अध्ययनस्य कृत्स्नस्वाध्यायविषयत्वादुपनिषदश्च स्वाध्याय- शब्दान्तर्गतत्वादिति भावः । एकदेशशब्देनैकप्रबन्धांशत्वं सूचितम् । साधारणवेद- शब्दनिर्दिष्टे शब्दराशावनन्यपरं प्रदेशं पृथङ् निर्दिशति उपनिषच्छब्देन । वेदान्तशब्देन विचारपौर्वापर्यनियमहेतुर्दर्शितः । मीमांसाशब्दोक्ते व्याख्याने प्रदेशभेदं विशिनष्टि शारी- रकपदेन 1 अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन इत्याद्युक्तानुषङ्गिकाल्पास्थिरफलव्यावृत्त्यर्थम् अमृतत्वरूपशब्दः । आनुषङ्गिकाणामल्पास्थिर- फलत्वेऽपि प्रधानफलस्यानन्तस्थिर फलत्वेनापातप्रतीतिरस्तीत्यर्थः । मनस्कत्वादत्राप्यानुषङ्गिकं प्रधानं च फलं संभवतीति श्रोतुः प्रतीयत एव । दिदमप्यनित्यमिति बुद्धिः स्यात् नैवम् ; विपक्षे बाधकाभावात् । यथा भौमसुखात् स्वर्गादिसुखं विलक्षणं प्रतिपन्नं, तत्रापि परस्परवैलक्षण्यं देशकालस्वरूपभेदात्प्रतिपन्नं, तथैव तस्मादपि विलक्षणं सुखं संभवतीत्यतीव रागजननायास्यापि प्रतीतिः स्यात् । अधि- करोति ; अधिकारी भवति । एवं कर्मविचारलदेवाधिकारी भवति, न तु साधनचतुष्टय- चानित्यभिप्रायः । 66 भावप्रकाशिका 19 कर्ममीमांसा संस्कृत- ननु फलत्वा-: सक्तुहोमो यथा पुरुषसंस्कार इति यथा भूतभाव्युपयोगविधुराणां सक्तनां होम संस्कार्यत्वाभावेन संक्तहोमस्य गुणकर्मत्वाभावेन प्रधानकर्मत्वं तद्वदिति भावः । 29

२२६ श्रीभाष्यम् 66 (जिज्ञासाधिकरणम्) एतदभिप्रायेण पुरुषसंस्कारत्वोक्तिरिति द्रष्टव्यम् । स्वाध्यायस्य हि कर्मत्वावगमो न पुरुषस्येति’; यद्यप्यध्ययनस्य प्राभाकराभिमतमर्थकर्मत्वमेव निरसनीयम् ; न तु पुरुष- संस्कारत्वं, तस्य परानुक्तत्वात् ; न चाध्ययनस्य स्वाध्यायसंस्कारत्वाभावे पुरुषसंस्कार- त्वमापतेदेव, कोटिद्वयविनिर्मुक्ताकाराभावादिति वाच्यम् ; गुणकर्मत्वशून्यानां काम्यानां प्रयाजादीनां च पुरुषसंस्कारत्वस्याभावात् – तथापि प्रधानकर्मत्वनिरासे तात्पर्यम् । प्राप्यत्वमात्रपर्यवसानं चायुक्तमिति ; न चैव वैदिके “ पयो दोग्धि " इत्यत्रापि पयसः संस्कार्यत्वप्रसङ्गः, तत्रापि प्रापणनियमजन्यादृष्टस्याभ्युपेतत्वेन संस्कार्यत्वस्येष्टत्वात् । तत- श्रचाध्ययनेन वेदानां या प्राप्तिः स्वाध्यायोच्चारणेच्छायां सत्यामस्खलिततदुच्चारणोप- योगितालुमूर्धादिवर्णस्थानवशित्वसहिताविच्छिन्नस्मृतिसंततिजनकवर्णपदवाक्यावलीविषयसं- स्कारदाढर्थजनकाक्षरराशिग्रहणरूपा तन्नियमजन्यादृष्टस्य स्वाध्यायनिष्ठस्याभ्युपेयत्वमिति भावः । सुवर्णं भार्यमित्यत्रेति ; तृतीये सुवर्णभरणस्य पुरुषार्थत्वस्य व्यवस्थापितत्वा- दिति भावः । प्रतियोग्यभ्युपगम इति प्रतिवाद्यभ्युपगम इत्यर्थः । ; सक्तून् जुहोतीत्यादिषु प्रत्ययस्वारस्यावगतमपीति ; ननु " मैत्रावरुणाय दण्डं प्रयच्छ- ति" इत्यत्रेव " तथा युक्तं चानीप्सितम् " इत्यनीप्सिते कर्मणि द्वितीया भविष्यतीति कुतो व्यत्ययाश्रयणमिति चेत् — न ; तत्र हि दानकर्मभूतेन दण्डेन मैत्रावरुणस्य संस्कारः न तु दण्डसाधनकेन दानेन ; इह तु सक्तसाधनकेन होमेनापूर्वं न होमकर्मभिः सक्तुभि- रिति वैषम्यात् । नन्वध्ययनस्यार्थज्ञानार्थत्वपक्षेऽपि न कर्मत्वभङ्गः, अर्थसिद्धस्याध्य- यनसंस्कार्यत्वस्य “ चरुमुपदधाति इत्यत्रेव द्वितीययानुवादोपपत्तेः ; अग्निप्रकरणाम्ना- तेन " चरुमुपदधाति " इति विधिना चरूपधाने स्थण्डिलस्याङ्गतया विनियुज्यमाने तस्य साक्षात्स्थण्डिल निर्वर्तकत्वायोगादुपहितेन चरुणा तन्निर्वृत्तिदर्शनाच्चोपधानस्य स्थण्डिला- ङ्गत्वं चरुसंस्कारद्वारकमित्यर्थसिद्धमेव हि चरोरुपधानसंस्कार्यत्वं द्वितीययानूद्यते ; एवमि- हाप्यध्ययनस्य तत्समाप्त्यनन्तरारम्भणीयमीमांसापरिचयोत्तरकालभाविन्यर्थज्ञाने साक्षात्कर- णत्वायोगात् अध्ययनगृहीतस्वाध्यायेन कालान्तरे स्मृतिसमारूढेन द्वारेणार्थज्ञानदर्शनाच्चा- र्थसिद्धं स्वाध्यायस्याध्ययनसंस्कार्यत्वं तव्यप्रत्ययेनानूद्यत इत्युपपत्तेरिति चेत् — न ; ’ अध्ययनगृहीतस्वाध्यायेनार्थज्ञानं भावयेत्’ इत्यर्थाश्रयणेन भट्टमते दोषाभावेऽप्यध्ययनस्य स्वाध्यायसंस्कारत्वानभ्युपगन्तृगुरुमते ’ स्वाध्यायसाधनकाध्ययनेनार्थज्ञानं


भावयेत्

( १ – १ – १ ) भावप्रकाशिका


२२७ । इत्यर्थाश्रयणेन तव्यप्रत्ययार्थत्यागः सिद्ध इति भावः 1 अर्थावबोधनस्य सप्रयो- जनत्वप्रदर्शनार्थमाह- अनुष्टानौपयिकेति । चशब्देन समुच्चीयत इति ; यद्यपीदं पक्षद्वयेऽपि समानं, तथापि पूर्वपक्षे अपिर्विरोधसूचकः, द्वितीयपक्षे तु जपादेः स्वरूपस्य च समुच्चयपर इति विवेकः । मन्त्राणां स्वाध्यायान्तर्ग- तानां पृथङ् निर्देशः किंनिबन्धन इत्याशङ्क्याह —— मन्त्रवदिति पृथङ् निर्देश इति । उपकारकमन्त्रवत्त्वप्रतिपादनस्य प्रकृतेऽत्यन्तानुपयोगाद्वतिप्रत्ययान्तत्वमाश्रित्याह–. यद्वा बालस्येति । सनियम कोच्चारणमिति; यद्यपि नियमोऽङ्गविधायकवाक्यान्तर- प्राप्यो नाध्ययनशरीरान्तः पाती, तथाप्यर्थज्ञानस्य तच्छरीरान्तःपातित्वे तात्पर्यम् । अपितु स्वशाखामात्रत्राचीति ; अध्यायशब्दो वेदपरः, स्वशब्दः पितृपितामहपरंपरा- गतस्वीयत्ववाची । न च ‘स्वाध्यायशब्दवाच्यवेदास्याक्षरराशेः’ इति भाष्येण विरोध इति वाच्यम्, तस्यापि ‘स्ववेदाख्याक्षरराशेः’ इत्यत्र तात्पर्यात् । न च सिद्धान्ते स्वा- ध्यायस्याध्ययनोद्देश्यतयोद्देश्यगतविशेषणस्य ग्रहैकत्ववदविवक्षितत्वात् स्त्रीयास्वीयसाधा- रण्येनाध्ययनं प्राप्नोतीति वाच्यम्, वेदानामानन्त्येन सर्वाध्ययनस्याशक्यत्वेन संकोचेऽपे- क्षिते स्वीयत्वस्योद्देश्यगतस्य विवक्षितत्वोपपत्तेः । मात्रचेति ; ननु ’ क्षीरमात्रं पिब’ इत्यादा- वुत्तरपदत्वनियतं मात्रपदं प्रातिपदिकम् ; न तु " प्रमाणे द्वयसदन मात्रचः " इति विहितो मात्रच् प्रत्ययः, तस्य प्रमाणार्थ एव विधानादिति चेत् — न ; ’ ऊरुमात्रम् ’ इत्यादावपि प्रमाणार्थप्रत्यय इतरव्यवच्छेदप्रतीतेर्मात्रच्प्रत्ययव्यतिरेकेणोत्तरपदत्वनियत- प्रातिपदिकाभ्युपगमे प्रमाणाभावादित्यत्र तात्पर्यात् । यथाग्नीनादधीतेति वाक्यमिति; " *अत्र प्रमाणस्य प्रत्ययार्थत्वकथनं फलितार्थकथनपरतया कथंचिन्नेयम्, महाभा- प्यादिषु प्रमाणं प्रकृत्यर्थोपाधिरित्युक्तेः । ये त्वत्र मात्रचः साधुवे संदिहते त इत्थं प्रति वोधनीयाः - " प्रमाणे द्वयसज्दनञ्मात्रचः इत्यत्र प्रमाण इति प्रकृत्यर्थोपाधिः । प्रमाणं चात्र परिच्छेदकमात्रं विवक्षितं न पारिभाषिकम्, “प्रथमश्च द्वितीयश्च ऊर्ध्व- माने मतौ मम " इत्याकरेष्टेः । एवं च यत् परिच्छेदायावधिनिर्धारणायोपादीयते तद्वाचकात् अस्येत्यर्थे मात्रच् प्रत्ययो भवति । अत एव " यत्तदेतेभ्यः परिमाणे इत्यत्र ’ प्रमाणे’ इत्यनुवर्तमाने ‘परिमाणे’ इति किमर्थमिति प्रश्ने " मात्राद्य- चतुप् प्रतिघाताय " इति भाष्यमुपादाय " यदि प्रमाणे’ इत्यनुवर्त्य प्रमाणोपाधिकेभ्यो यदा- दिभ्यो वतुप् विधीयेत तदासौ विशेषविहितत्वात् ‘सामान्यविहितान् बाधेत; परि- " CC-0 No Rights Reserved. Digitized by eGangotri२२८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) एतच्च “ तत्प्रकृत्यर्थं यथान्येऽनारभ्य वादाः " इति तार्तीयाधिकरणे स्थितम् ; तत्र ह्याधान- विधेः पर्णतादिवत् ऋतुपर्यन्तत्वं पूर्वपक्षीकृत्य अलौकिकस्याहवनीयाद्यग्नेरेव फलाकाङ्क्षा- शामकत्वसंभवात्तन्मात्रविश्रान्त एवाधानविधिः, न क्रतुपर्यन्त इति स्थापितम् । आधानमात्र परमिति ; अग्निसिद्धयर्थाधानमात्र विधिपरमित्यर्थः । ग्रहणशेषतयाविनि- युक्तस्येति ; ननु सिद्धान्ते न स्वाध्यायस्य ग्रहणशेषतया विनियोगः, स्वाध्यायस्य शेषि– त्वावगमादिति चेत् —मैवम् ; ग्रहणशेषतया अविनियुक्तस्येति छेदः ; ग्रहणशब्दश्चार्थ- ग्रहणपरः; अर्थज्ञानशेषतया अविनियुक्तस्य स्वाध्यायस्यार्थपरत्वे प्रमाणाभावादित्यर्थः । `अयं भावः — अर्थावबोधमुद्दिश्य शब्दोच्चारणेन हि लोके वाक्यानां तात्पर्यमवगम्य तन्नि- र्वाहार्थं मुख्यासंभवे लक्षणादिकं परिकल्प्यते, न तूच्चारणमात्रेण; अत एव ’ गौरश्वः पुरुषो हस्ती’ इतिपदानामुच्चारणमात्रेण लक्षणा न कल्प्यते; यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चा- रणमिति तात्पर्यमवगम्यते, तदैव तन्निर्वाहार्थम् ’ अयं गौर्बलीवर्दः, अश्वो वेगवान्, पुरुषो नियतचेष्टः, हस्ती महाबलः’ इति गवादिपदानामध्याहारलक्षणादि कल्प्यते; एवं च वेद- वाक्यानामर्थावबोधमुद्दिश्योच्चारणाभावे तात्पर्यासिद्ध्या तन्निर्वाहार्थलक्षणा गौणवृत्त्यनुष- ङ्गाध्याहारावधारणकल्पनोच्छेदप्रसङ्गादवश्यं वेदेऽप्यर्थावबोधमुद्दिश्योच्चारणस्य वक्तव्य - त्त्वात् वेदे च लोक इव तमुद्दिश्य रागप्रयुक्तोच्चारणाभावाद्विधिप्रयुक्तमेव तदाश्रयणीय- मिति विधिश्चाध्ययनविधेरन्यो न दृश्यत इति तेनैवार्थावबोधमुद्दिश्य गुरुमुखोच्चारणानू- च्चारणरूपमध्ययनं विधीयत इत्यकामेनापि स्वीकर्तव्यम् ; एवं च दृष्टफलेऽप्यर्थावबोधे विधिरन्यतोऽसिध्यतस्तात्पर्यस्य सिद्ध इति । शब्दस्य बोधकत्वशक्तिस्वाभाव्या- दित्यर्थ इति; लोकव्युत्पत्तिसिद्धस्य शब्दानामर्थपरत्वस्यौत्सर्गिकस्य क्वचित्कचिल्लौकिक- वाक्ये वक्तदोषादपवादेऽप्यपौरुषेये तदभावात् निरपवादस्य स्वत एव समर्थस्यार्थज्ञानोद्देश्य- कशब्दोच्चारणस्य विधिनिरपेक्षत्वाच्च । ननु – शब्दानामर्थपरत्वमात्रं व्युत्पत्तिसिद्धम् ; न त्वग्निहोत्रादिवाक्यं तत्तदर्थविशेषपरमित्यपि ; तत्तु तत्तदर्थविशेषमुद्दिश्योच्चारणमपेक्षत इति तदर्थोऽध्ययनविधिः स्यादिति चेत् — न; अध्ययनविधिनापि तदलाभात् ; न ह्यध्ययनविधिः प्रतिवाक्यं तत्तदर्थज्ञानविशेषमुद्दिश्य तत्तद्वाक्योच्चारणे व्याप्रियते । ’ स्वाध्या- माणग्रहणे तु सति भिन्नोपाधिविषयत्वात् बाध्यबाधकभावाभावः । तेन ’ तन्मात्रं, यन्मात्रम्’ इत्यादि प्रमाणोपाधौ प्रकृत्यर्थे सिद्धं भवति " इति कैयटः प्राह ।

( १ – १ – १) P भावप्रकाशिका २२९ याध्ययनेन यद्भावयितुं शक्यं तदनेन भावयेत्’ इति विधाने सत्यग्निहोत्रादिवाक्याध्यय- नेन न्यायलभ्यतत्तदर्थविशेषज्ञानमेव भावयितुं शक्यमिति तत्तदर्थविशेषे तात्पर्यमर्थतः सिध्येदिति चेत् — तर्हि अग्निहोत्रादिवाक्यानामौत्सर्गिकमर्थपरत्वमेव न्यायपर्यालोचनेन तत्तदर्थविशेषतात्पर्यतया पर्यवस्यतीत्येवास्तु ; किमुच्चारणविधिना ? यदि च लोके दृष्टमि- त्येतावता वेदेऽप्यर्थावबोधमुद्दिश्योच्चारणमाद्रियेत तदा स्वतन्त्र वक्तृविवक्षितेतरार्थावबोध- मुद्दिश्य श्रोतृभिरुच्चारणे कृतेऽपि तस्य वाक्यस्य तत्र तात्पर्यं न दृष्टं, किंतु स्वतन्त्रकर्तु- र्यदर्थावबोधमुद्दिश्योच्चारणं तत्रैव तात्पर्यं दृष्टमिति वेदस्य तात्पर्यसिद्ध्यर्थं पौरुषेयत्वमपि कल्प्येत । वस्तुतस्तु लोकेऽपि नोच्चारणाधीनं तात्पर्यम्, मौनिना लिखित्वा दत्ते परे - णापि लिखितं दृष्टा मनसानुसंहिते श्लोकादावुच्चारणाभावात् ; किंतु ‘अस्माद्वाक्या- देतदर्थप्रतीतिर्भवतु’ इति वक्तृविवक्षाधीनं तदिति तात्पर्थसिद्ध्यर्थमध्ययनविधेरर्थावबोध- फलकल्पनायाः कथंचिदपि नावकाशः | लोके व्युत्पत्तिसिद्धमर्थपरत्वं वक्तृविवक्षिते विशेषे पर्यवस्यति, वेदे तु न्यायलभ्ये विशेषे ; तदनुसारेण च लक्षणादिकल्पनमित्येवाभ्युप- अत एव वेदस्य तात्पर्यवत्त्वसिद्धिमेवाध्ययनविधिफलं मन्वानेनापि न्याय- गन्तव्यम् । तोऽध्ययनविधिरर्थावबोधमपि फलत्वेन गृह्णातीति तात्पर्यं निश्चित्य तद्बलेन स्वाध्यायावाप्ते- रेव फलताप्रत्यायकस्य तव्यप्रत्ययस्य स्वारस्यमुल्लङ्घितम् । न ह्यध्ययनविधेरुक्तार्थता- त्पर्यनिश्चयोऽयमर्थावबोधमुद्दिश्योच्चारणविध्यधीनः, तथाभूतविध्यन्तराभावात् ; अस्यैव विधेरपेक्षायामात्माश्रयापत्तेः; किंतु केवलन्यायाधीन एव वक्तव्यः ; तस्मा- तात्पर्थसिद्ध्यर्थमध्ययनविधेरर्थावबोध फलकत्वकल्पनमित्येतत्तावदयुक्तमिति भावः अन्यत्र विनियोगस्त्विति ; अध्ययनस्यार्थज्ञानादन्यस्मिन् स्वाध्याये विनियोग इत्यर्थः । गृहीत - मात्रात्, अध्ययनगृहीतस्येत्युक्तेरिति ; ननु ‘अध्ययनगृहीतस्य’ इति भाष्यस्य कथमध्ययनगृहीतमात्रत्वमर्थः ? येन ‘गृहीतमात्रात्’ इत्यंशे तदुपपादकं स्यादिति चेत् — उच्यते - ’ अध्ययनगृहीतस्य स्वाध्यायस्य’ इति पूर्वभाष्ये ‘अध्ययनगृहीतस्यार्थाव- बोधित्वदर्शनात्’ इत्येवं प्रमितिजनकत्वस्वभावस्योपपादितत्वात् तस्यैवापातप्रतीति- जनकत्वस्य विरुद्धत्वात् पूर्ववाक्यं मीमांसापरिकरयुक्तपरम् ; अतस्तदविरोधायेदं वाक्यम- ध्यनगृहीतमात्रपरमिति भावः । केचित्तु मीमांसापरिकरयुक्तस्येत्यनुक्तेः ’ सर्वं वाक्यं साव- धारणम्’ इति न्यायात्सिध्यतीत्याहुः । आपाततोऽवगम्यमानान् दृष्टृत्यन्वय इति

0 २३० श्रीभाष्यम् (जिज्ञासाधिकरणम्) केचित्तु —अवगम्यमानानर्थान् प्रयोजनवतो दृष्टेत्यपि योजयन्ति । अङ्गत्वान्यथानुपपश्यै- वेति 66 ; ५ " " न च “ वेदाङ्गानि च सर्वाणि " इति द्वितीयाश्रुत्याङ्गानां कर्मत्वावगमात् स्वाध्यायस्येवाङ्गानां प्राप्यत्वं किं न स्यादिति वाच्यम् ; तथा सत्यङ्गाध्ययनस्याक्षरग्रहण- मात्रपर्यन्तत्वेऽङ्गानां वेदानुग्कारकतया अङ्गत्वभङ्गप्रसङ्गेन मुख्यप्रातिपदिकानुरोधेन “सक्तून् जुहोति " इत्यत्रेव विभक्तिविपरिणामेन कर्मत्वपरित्यागेन करणत्वस्याश्रयणीयत्वात् ; ‘पाठ- कर्मभूतैरङ्गैरर्थज्ञानं भावयेत्’ इत्यपि संभवेन प्राप्तपाठकर्मत्वानुवादेनापि दोषाभावाच्च ; यथा “चरुमुपदधाति" इत्यत्र ’ उपहितेन चरुणा स्थण्डिलं निर्वर्तयेत्’ इत्येवं प्राप्तमुप- धानकर्मत्वं द्वितीययानूद्यते, तद्वदिति भावः । किमभिप्रेत्यैतदुक्तमिति ; किमभिप्रेत्य श्रुतिस्मृत्योर्बाध्यबाधकत्वमुक्तमित्यर्थः । ननु- – “ अधीत्य स्नायात् " इत्यादौ ‘अध्ययन- कर्मिकां भावनां परिसमाप्य’ इत्यर्थः ; न तु ’ अध्ययनकरणिकामर्थज्ञानकर्मिकाम्’ इति, “वाजपेयेनेष्ट्रा बृहस्पतिसवेन यजेत” “ उच्चैः प्रवर्येण चरन्ति, अप्स्ववभृथेन चरन्ति इत्यादाविव तृतीयानिर्देशाभावेन तत्करणिकाया भावनाया असंप्रतिपत्तेः । ननु अग्निचिद्वर्षति न धावेत्" इत्यत्र चयनभावनाया एव भूताया निमित्तत्वम्, न धात्वर्थमात्रस्य भूतस्य निमित्तत्वम् ; ततश्च ऋत्वन्त एवाग्निचितानि प्रवर्तन्त इति पञ्चमे स्थितम् ; तद्वदिह किं न स्यादिति चेत् — न ; अत्र " अग्नौ चेः " इत्यग्नौ कर्मणि चिनोतेः विविधानात् अग्निकर्मिकायाश्चयनकरणिकाया भूताया एव भावनाया निमित्तत्वम् ; इह तु वेदमधीत्य स्त्रायात् " इति वेदकर्मिकाया एव भावनाया: पूर्वकालत्वं त्वाप्रत्ययेन प्रतीयते, न त्वर्थज्ञानफलकर्मिकायाः ; ततश्चाध्ययनविवेरर्थज्ञान- फलकत्वपक्षे विरोधः स्यादेवेत्यरुचेराह - किंच विरोधे सत्यपीति । गुरोः कर्माति - शेषेण ; गुरुशुश्रूषानवरुद्ध कालेनेत्यर्थः ; यद्वा अतिशेषेण ; निःशेषमित्यर्थः । निवेशे हि वृत्ते नैयमिकानीति ; निवेशो विवाहः । ननु " ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यविशेषेण स्वर्गकाममात्रप्रवृत्तत्वात् शूदस्यापि स्वर्गकामत्वाविशेषादनुष्ठानप्रसङ्गो दुर्वारः, न शूद्राय मतिं दद्यात्" इत्यादिनिषेधस्मृतेः शुश्रूषारहितशूद्रविषयत्वस्य संभवा- दित्यरुचेराह — किंच यजमानेनेति । अध्ययनलभ्यत्वादिति ; अध्ययन संस्कृत- स्वाध्यायस्य प्रयोजनसाकाङ्क्षस्य स्वाध्यायसाध्यसकलकर्मसु विनियोगो भवतीति भावः । यो ह वा अविदितार्षेयेति ; यो ह वा अविदितार्षेयच्छन्दोदैवत ब्राह्मणेन मन्त्रेण 46 66 19

(?-?-?) भावप्रकाशिका २३१ याजयति वाध्यापयति वा स्थाणुं वर्छति गर्तं वा पद्यते " इति प्रसिद्धश्रुतिपाठः । अस्यायमर्थः–आर्षेयः ऋषिः; छन्दो गायत्र्यादि, दैवतमग्न्यादिकं ब्राह्मणं विनियो- जकवाक्यम् ; आर्षेयादिकमजानानो याजकोऽध्यापको वा स्थावरतां प्राप्नोति, गर्ते वा पतति, म्रियेत वा ; अस्य छन्दांसि निर्वार्याणि भवन्ति ; जानानस्य तु तद्विपर्ययो भवति; तस्मादेतानि मन्त्रे मन्त्रे विद्यादिति । प्रतिग्रहतुसंवेशनादेरिवेति ; न चैतत् " राग- प्राप्तस्य विधातुमशक्यत्वाच्च" इत्युत्तरग्रन्थविरुद्धमिति वाच्यम् ; रागप्राप्तस्य पाक्षिक्याम- प्राप्तौ सत्यां विधेयत्वदर्शनात् रागप्राप्तविधेयत्वयोर्नात्यन्तविरोध इत्येतत्तात्पर्योऽयं ग्रन्थः ; उत्तरग्रन्थस्तु रागतो नित्यप्राप्तविषय इत्यविरोधोपपत्तेः । ननु – एतद्धट्टपर्या- लोचनायामर्थज्ञानस्याध्ययनविधिविधेयत्वरागप्राप्तत्यविचार इव प्रतीयते; न चैष युज्यते, अर्थज्ञानस्याध्ययनविधिविधेयत्वस्य मीमांसकैरप्यनभ्युपेतत्वात् ; अर्थज्ञानस्याध्ययनविधि- फलत्वमेव हि तैः स्वीकृतम्, न तु विधेयत्वम्; फलस्याविवेयत्वात् ; चतुर्थे “ लिप्सा सूत्रे " “ फलं चाकर्मसंनिधौ " इति द्वैतीयाधिकरणे " कर्मस्वप्रवृत्तिः स्यात् " इत्या- ष्टमिकाधिकरणेऽपि फलाविधेयत्वस्य प्रतिपादितत्वात् ; एकादशाद्ये च फलाविधेय- त्वस्य प्रतिपादितत्वाच्चेति चेत् — न ; अत्रार्थज्ञानपदेन विचारस्यैव विवक्षितत्वात् ; विचारवैधत्वस्य मीमांसकैरभ्युपेततया तस्य रागप्राप्तत्वेन प्रतिक्षेप्यत्वोपपत्तेः । किंचाने- नैव वाक्येनेति ; “ “ यो ह वा अविदितार्षेय – ” इत्यादिवाक्यविहितार्थज्ञानाक्षिप्त- तया विचारम्य प्राप्तेर्नाध्ययनाक्षेप्यत्वं विचारस्य युज्यते ; यथा स्वस्वविधिविहितानां ऋतू- नां ज्योतिष्टोमदर्शपूर्णमासादीनामाधानविधिसिद्धैराहवनीयादिभिः स्वसाफल्यसिद्ध्यर्थं ना- नुष्ठाप्यत्वं तथेत्यर्थः । ननु न हि कर्मणामल्पास्थिरफलत्वमनन्तस्थिरफलत्वं चेति, अत्र ’ पूर्वपक्षसिद्धान्तरूपेण ’ इत्यस्य व्युत्क्रमेणान्वयो द्रष्टव्यः । ’ स्वरूपे निरूपिते’ इत्युक्ते ’ स्वरूपमात्रे निरूपितेऽपि कर्मणामनगस्थिर फलत्वमावृत्तिविधानादिभिर्ज्ञात्वा’ इत्य- स्यार्थस्याध्याहारसापेक्षतया विलम्बितप्रतीतिकतया अन्यथा व्याचष्टे – यद्वा कर्मविधि- स्वरूपं निरूपितमिति । अस्मिन्पक्षेऽस्य भाष्यस्येत्थमवतारिका — ननु परमात्माराधन- कर्मसु " स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः" इत्यनन्तस्थिरफलतयावगतेषु कथमल्पास्थिरफलत्वावगतिरित्याशङ्क्याह कर्मविधिस्वरूपे निरूपित इति । अस्मि- नपि पक्षे ‘कर्मविधिस्वरूपे’ इत्यस्य परमात्माराधनविनिर्मुक्तस्वरूपमात्रेऽवगते अल्पा-

२३२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) स्थिरफलत्वावगतिप्रतिबन्धकपरमात्माराधनरूपत्वप्रतीत्यभावेनाल्पास्थिर फलत्वमवगम्येत्यस्या- प्यर्थस्य विलम्बितप्रतीतिकत्वमविशिष्टमित्यस्वरसो बोध्यः । केचिदेवं व्याचक्षते – तत्र कर्मविधिस्वरूपे निरूपित इति ; विधिश्च स्वरूपं च विधिस्वरूपम् ; कर्मविधौ कर्मस्वरूपे च निरूपित इत्यर्थः ; प्रत्यब्दं चातुर्मास्याद्यावृत्तिविधौ निरूपिते चातुर्मा- स्यानां क्षय्यफलत्वनिश्चयो भवति ; यादे चातुर्मास्यानामक्षय्यफलत्वं तदा पुनस्तदनुष्ठान- वैयर्थ्यप्रसङ्गादित्यवगतेः । तथा चातुर्मास्यादिस्वरूपं सहस्रसंवत्सरसाध्यविश्वसृजामय- नादिस्वरूपं च निरूपयता चातुर्मास्यादिष्वल्पवित्तव्ययायाससाध्येषु "" फलस्य कर्म- निष्पत्तेः, तेषां लोकवत्परिणामतो विशेषः स्यात् " इति न्यायालोचनसनाथचेतसा नित्य- नैमित्तिककर्माराधितपरमपुरुषानुग्रहलब्धचित्तनैर्मल्येन पुंसा चातुर्मास्यादिकर्मणामनित्य- फलत्वस्य सुज्ञानत्वादिति भावः । "" 66 श्रुतप्रदीपिका जपा- “ प्रथमं तावत् " इत्यादौ प्रतिज्ञातं संस्कारविधिमुपपादयितुमाह-अध्ययनं चेति । कुत इत्यत्राह - स्वाध्याय इति । स्वाध्यायस्य कर्मत्वावगमान्नापूर्वद्वारा पुरुषसंस्कार इत्यर्थः । सक्तन् जुहोति " इतिवत् किं न स्यादित्याशङ्क्य तत्स्व - रूपं शिक्षयति-संस्कार इति । ततः किमित्यत्राह संस्कार्यत्वमिति ; न सक्तुवदनुप्रयुक्तमिति भावः । कुत इत्याह– धर्मेति ; चतुष्टयकीर्तनेन वेदाख्यप्रबन्ध- स्यानुगतार्थश्च सूचितः । स्वरूपेणाषि ; अर्थज्ञानानुष्ठानाभ्यामृतेऽपीत्यर्थः । दिना स्वरूपेणापि ; जप्यमानेनाक्षरराशिमात्रेणापीत्यर्थः । अनुष्ठानशेषं ज्ञानमदृष्टपर्यन्तो जपश्चाध्ययनसंस्कृतेनैव, न तु पुस्तकाद्यवगतेनेति नियमविधित्वं च सिद्धम् । अर्थ- ज्ञानपर्यन्तत्वं किं शब्दस्वारस्यात्, उतार्थानुपपत्त्येति विकल्पमभिप्रेत्य प्रथमं शिरः प्रति- वदन्नध्ययनविधिचिन्तनमुपसंहरति — एवमिति । व्रतानुप्रविष्टाननुप्रविष्टमन्त्राभिप्रायेण मन्त्रवदित्युक्तम् । अननुप्रविष्टाः “ शं नो मित्रः । " " इत्यादयः । नियमाः पूर्वोक्ताः । अर्थज्ञानव्युदासाय मात्रशब्दः ; शब्दप्रतिपन्नमेतावत्, तत्र तात्पर्यं च पर्यवस्यतीत्यर्थः ; न ह्याधानवाक्यमुत्तरक्रतुविनियोगपर्यन्तम्, तद्वदिति भावः 1 अथ विधेरक्षरग्रहणपर्यन्तत्ये स्वाध्यायस्यार्थपरत्वे मानाभावादविवक्षितार्थत्वं विधेः पुरुषार्थपर्यन्तत्वाभावः, प्रवर्तका- भावान्मीमांसानारम्भणीयत्वं च स्यात् - इति त्रिविधानुपपत्तिमूलामर्थधीपर्यन्ततां तन्नि- , CC-0 No Rights Reserved. Digitized by eGangotri(3-2-2) श्रुतप्रदीपिका २३३ मित्तां ब्रह्मविचारानारम्भशङ्कां च व्युदस्य, एकव्याख्येयव्याख्यानतया शास्त्रैक्यमपि दर्शयति — अध्ययनेत्यादिना । स्वभावत इत्यादिना अविवक्षितार्थत्वपरिहारः । साक्षात्प्रयोजनपर्यवसानं त्वन्मतेऽपि न ; परंपरया चेदस्मन्मतेऽप्यस्तीत्यभिप्रायेण प्रयोजन- विरहं परिहरति प्रयोजनवदर्थशब्दः । स्वर्गमोक्षादिप्रयोजनवन्तोऽर्था यज्ञोपासना- दयः । पूर्वं श्रुतिस्वभावोक्तिः ; पश्चात् तन्निमित्तापातप्रतीतिः । आपातप्रतीतिसम- येsपि प्रयोजनवत्तयैव प्रतीतिसिद्धयर्थं प्रयोजनवतोऽर्थानिति पुनः कीर्तनम् । तत्र हेतुः - गृहीतादिति साङ्गाध्ययनगृहीतादित्यर्थः । दृष्ट्वा । वित्तख्यात्यादि अवगम्यमानान् दृष्ट्वा ; अवगतत्वं स्वरूपमङ्गि; प्रकारोऽङ्गम् । विशेषः पूर्वपक्षितरूपाद्वैषम्यम् । व्याकरणादि- व्यावृत्तं शास्त्रशरीरं विचारः । निर्णयः फलम् । स्वयमेवाधीतवेदत्वे सति पुरुषत्वा- चेतनत्वाद्रागत एव प्रवर्तते, न तु विधिनेत्यर्थः । अनेन प्रवर्तकाभावादनारम्भः परि- हृतः । श्रुतौ स्मृतौ चाध्ययनशब्दस्य तुल्यार्थतया प्राबल्यदौर्बल्यकल्पनमनर्थकम् । श्रुतिश्चास्ति - " वेदमधीत्याभिसमावृत्य " इति । रागप्राप्तस्यापि स्वोपयोग्यर्थार्जना- देवि श्रवणस्यापि विधिरवसरप्रदः । क्त्वाप्रत्ययः समानकर्तृकत्वपूर्व कालत्वपरः, न त्त्वानन्तर्यपरः । स्नातस्यापि श्रवणं घटते, श्रावयितुरिवावसरसंभवात् । न चोदका - हरणादिभिरनुष्ठानोपरोधः, अध्ययनविधिप्रयुक्तानां तन्निवृत्तौ निवृत्तेः । गुरोः फलम् । यावच्छ्रवणसमाप्ति हितैषिवचनादनुष्ठानोपपत्तिः । न च तर्हि मीमां- सानैरपेक्ष्यम्, मूलजिज्ञासया स्वयं प्रतिपिपादयिषया च सापेक्षत्वात् । न च हितैषि- वाक्यादनुष्ठानेऽपशूद्रनयविरोधः, “न शूद्राय मतिं दद्यात् " इत्यादिभिर्ब्राह्मणैस्तस्यानु- पदेशात् ; क्रतुषु जप्यमन्त्रादीनां त्रैवर्णिकाधिकारोपनयनाङ्गकाध्ययनसापेक्षत्वाच्च । अतो रागतः प्रवृत्त्युपपत्तिः । वेदवाक्यविचाररूपशब्देन व्याख्येयैक्याच्छास्त्रैक्यं च सिद्धमित्यभिप्रेतम् । एवमस्तु ; कथं पौर्वापर्यनियमः ? इत्यत्राह तत्रेति । निरू- पिते ; कर्मस्वरूपमेव निरूपितम् ; आवृत्तिविधानादिनाल्पास्थिरफलत्वं फलितमिति भावः । यद्वा कर्म निरूपितं, न त्वाराध्यपरदेवता; तज्ज्ञाने सति हि फलस्यानन्त्य - मिति भावः । " अन्नवानन्नादो भवति इत्यानुषङ्गिक फलव्युदासाय अमृतत्वरूप- स्वाध्याय मीमांसाप्रयोजनवदर्थादिशब्दा उभयभागसाधारणाः । उपनिषदा- दयस्त्वसाधारणाः । एवमैकशास्त्र्यं, पौर्वापर्यनियमः, ब्रह्मविचारारम्भणीयत्वं चेत्यर्थ - त्रयमुपपादितम् । शब्दः । 30 99

२३४ श्रीभाष्यम् ( जिज्ञासाधिकरणम्), 99 नयप्रकाशिका एवमध्ययन- अध्ययनं चेत्यनेन तद्विवेः संस्कारपरत्वं तदुपपत्तिश्चोच्यते । विधिरित्यनेनार्थज्ञानपर्यन्तत्वमपूर्वविषयत्वं च तस्य नास्तीत्युच्यते । मन्त्रवदिति " प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम् । ततोऽधीयीत वेदांस्त्रीन् ” इत्यादाव – वगम्यमानप्रणवादिमन्त्रा उच्यन्ते । नियमवदिति ; “नीचैरासीत चासनम् ” इत्यादा– ववगम्यमाननीचासनासीनत्वाचार्य मुखेक्षणादयो विवक्षिताः । अध्ययनगृहीतस्ये- त्यादिभाष्येण प्रतिज्ञातसंगतिविशेषसिद्धविषयप्रयोजनज्ञस्यैव मीमांसाप्रवृत्तिः ; तत्प्रवृत्तिश्च रागत एवेत्युच्यते । ननु तद्विधेः संस्कारविधित्वस्थैर्य एव पूर्वपक्षावकाश इति भाष्यादौ न द्योतत इति चेत्–न ; वैपरीत्याप्रतीतेस्तस्यैव युक्तियुक्तत्वेन तथाभिप्रायस्यैव कल्प्यत्वात् ; श्रीराममित्रेण तथोक्तत्वाच्च । अत्रास्मदीयैरेव कैश्चिदध्ययनस्य क्रतुविधिप्रयुक्तत्वमुक्तम् । क्रतुविधिप्रयुक्तत्वे शूद्रस्यापि स्यादित्याशङ्क्य सामान्यविषयत्वान्निषेधस्य क्रत्वर्थनिषेधस्यापि शारीरकापशूद्राधिकरणोक्तत्वादित्युक्तत्वा " संस्कारपरामर्शात्” इत्यादिसूत्राप्युदाहृत्य " पर्णमयी 66 पद्यु वा एतत् श्मशानम् इत्यादयस्तदधिकरणोक्ताश्चोदाहृताः । जुहूर्भवति" इतिवत् पदार्थसंबन्धमुखेन नियोगप्रत्यभिज्ञानं नानुपपन्नम्, अव्य– भिचरितक्रतुसंबन्धित्वात् स्वाध्यायस्येति चोक्तम् ; तदनुपपन्नम् - " तच्चाध्ययनं किंरूपम् इत्यादिभाष्ये अध्ययनस्योपनयनाध्यापन पुरस्कारेण स्वरूपस्याभिहितत्वादाचार्यरागप्रयुक्त- त्वमेव भाष्यकाराभिप्रेतमिति गम्यमानत्वात्, वैपरीत्याप्रतीतेश्च; अपशूद्राधिकरणे " यथैव हि त्रैवर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभेन कर्मविधयो ज्ञानतदुपायादी- नपरान्न स्वीकुर्वन्ति" इत्यादिष्वप्याचार्याधीनताध्ययनस्याभिमतेति द्योत्यते । अतोऽत्र भाट्टप्रक्रियानुसारः । भाट्टैः – ‘उपनीतैः किं कर्तव्यम्’ इत्यपेक्षायां तत्संनिधावनिर्दिष्टक- र्तृकत्वेन श्रूयमाणमध्ययनं तत्कर्तृकं भवतीत्युच्यते । अस्मद्भाष्ये तु मुखत एव त्रैवर्णिक- विषयतोच्यते । अतः स्वविधिप्रयुक्तता वा क्रतुविधिप्रयुक्तता वा अध्ययनस्य नेष्टा । यच्च क्रतुविधिप्रयुक्तत्वे शूद्राधिकारप्रसक्तिपरिहारः शारीरकापशूद्राधिकरणेनेत्युक्तम् तच्चासत्, तदधिकरणे शूद्रस्य क्रत्वर्थप्रवृत्तिनिषेधस्यासाधितत्वात् । पद्यु वा एतत् श्मशानम्" इत्यादीन्यपि न तन्निषेधप्रमाणत्वेनोपन्यस्तानि ; किंतु न्यायसिद्धार्थानु- ग्राहकत्वमात्रेण; यत एवमुक्तं तत्रैव – “ न्यायसिद्धः शूद्रस्यानधिकारः श्रुतिभिरनुगृह्यते:


• 66 " "

(१ – १ – १) नयप्रकाशिका २३५ इति । अध्ययनस्य पर्णमयीत्ववत् क्रत्वनुप्रवेशोक्तिरप्यनुपपन्ना, पर्णतावत् क्रत्वङ्गत्वा- पत्तेः । तथात्वेऽन्यत्र " आधानवत्" इति भाष्यविरोधः । अतः पूर्वोक्तैव रीति: साध्वी । ननु वेदाख्याक्षर शिग्रहणमात्रपरताध्ययनविधेरस्तु ; रागतो मीमांसाप्रवृत्तिर- प्यस्तु ; ऐकशास्त्रये हेतुहेतुमद्भावे च किमायातमिति चेत् ; उच्यते—-साङ्गकृत्स्नशाखा- ध्ययननियमादधीतत्वे तत्र सर्वत्रापातप्रतीतेर्विद्यमानत्वात् पुरुषार्थावबोधित्वाविशेषाच्च तन्निर्णयाय रागतो मीमांसाप्रवृत्तेरविशेषात् तस्या वेदेतिकर्तव्यतात्वाविशेषात् तया निर्णीय- मानार्थवेदस्य वेदत्वाविशेषाच्च पूर्वोत्तरयोः शास्त्रैक्यं तावत् सिद्धम् । यद्यपि मीमांसाया - इतिकर्तव्यतात्वेन न शास्त्रत्वम्, वेदस्यैव तु शास्त्रत्वम् ; तथापि शास्त्रेतिकर्तव्यतात् शास्त्र व्यवहारो न विरुद्धः । वेदस्य च शास्त्रत्वोपाधिः सर्वत्राविशिष्टः । अवान्तर- भेदविवक्षया भेदस्वीकारे प्रतिवाक्यं भिन्नशास्त्रत्वात् तद्विषयाधिकरणानामपि भिन्नशास्त्रता स्यात् । एकोपाधिस्वीकारेण हि सर्वत्राध्यायाद्यैक्यम् ; तदत्रापि समानम् | । वृत्ति- कारादिभिरैकशास्त्र्यस्याभिहितत्वादैकशास्त्र्यप्रक्रियैव सांप्रदायिकी ; उपपन्ना च सा । 1 ननु पूर्वकाण्डोक्तार्थैरुत्तरकाण्डोक्तार्थानां विरोधदर्शनान्नैकशास्त्र्यम् ; तथाहि–तत्र कार्यस्यैव वाक्यार्थत्वमुक्तम् ; उत्तरकाण्डे त्विष्टसाधनस्य; इष्टसाधनत्वं च प्राप्ताप्राप्तविवे- केन ब्रह्मण एवेष्टम् ; ब्रह्म च सर्वनियन्तृत्वादिगुणयोगि जीवातिरिक्तमभिमतम् । तत्तु नेष्टं जैमिनीयानाम् । वेदान्तिनां देवतादीनां विग्रहादिमत्त्वात् कर्माराध्यत्वेन प्राधान्यं कर्मादिष्वधिकारिता चेष्टा; तन्नेष्टमन्येषाम् । जगतो युगपत्सृष्टिप्रलयावुच्येते एकत्र ; अन्यत्र तौ निषिध्येते । आत्मनां सर्वगतत्वमागन्तुक चैतन्यस्वरूपत्वं चोच्यते पूर्वत्र उत्तरत्राणुपरिमितत्वं ज्ञातृत्वस्वरूपत्वं चोच्यते । ब्रह्मण एव सर्वकारणत्वमभि- मतमेकत्र ; न तदन्यत्र । एकत्र स्वरूपाविर्भावपूर्वक ब्रह्मप्राप्तिरेवात्मनो मोक्ष इत्यु- च्यते ; 1 ; अन्यत्र बुद्ध्यादिनवगुणोच्छेद इत्याद्यनेको विरोधः । किंच पूर्वकाण्डे शूद्रस्या- धिकारनिरासेऽप्युत्तरत्र पुनस्तन्निरासाच्च तयोर्भेदः ; सर्वशाखाप्रत्ययादिन्यायैरेव विद्याभेदा- दिसिद्धावपि " सर्ववेदान्तप्रत्ययम्" इत्यादौ तन्न्यायानामेव पुनरारम्भाच्च ; ऐक्ये पुनरुक्तिदोषः । सूत्रप्रणेतृभेदश्च । अत एवमादिभिर्न शास्त्रैक्योपपत्तिरिति चेत्- नैवम् ; कार्यवाक्यार्थाभिधानादेर्व्याख्यातृविप्रतिपत्तिमात्रमूलत्वेन पूर्वोत्तरयोर्विरोधाभावात् । - न ह्यपूर्ववाक्यार्थप्रतीतिः सूत्रे; प्रत्युत “ आम्नायस्य क्रियार्थत्वात्" इत्यादिषु क्रियार्थ-

२३६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) तैवोक्ताम्नायस्य, नापूर्वार्थता । ननु कृत्स्नाम्नायस्य क्रियापरत्वेन क्रियाप्राधान्ये ब्रह्म- प्राधान्यहार्निरिति चेत्—न ; तदुक्तेरज्ञानां कर्मश्रद्धाजननार्थत्वात् ; तथैव देवताप्राधान्य- निराकरणमपि क्रियायाः स्वर्गादिसाधनत्वानुपपत्त्या कार्यपरत्वस्य जैमिनेरनिष्टत्वेऽपि कर्म- श्रद्धाजननार्थमेव । अथवा क्रियायाः प्राधान्येऽपि न ब्रह्मणः प्राधान्यहानिः ; क्रिया- यास्तत्समाराधनत्वेन समाराध्यप्राधान्यस्यार्थसिद्धत्वात् । अथवा शिष्येण राद्धान्तैकदेशि-’ मतावलम्बेन क्रियाप्राधान्येऽभिहिते आचार्येण भगवता व्यासेन सम्यग्राद्धान्ताभिधानात् ब्रह्मणो वेदार्थत्वेन प्राधान्यमुक्तमिति न विरुद्धोक्तिमात्राच्छास्त्रभेदः । सम्यग्राद्धान्तत्वं च जैमिनिमतादपि तन्मतस्य युक्तिप्राबल्यात् । ब्रह्मणः प्राधान्योक्तिश्च फलप्रदत्वपरमपुरु- षार्थत्वपराधिकरणेषु । तथा जीवातिरिक्तब्रह्मापि जैमिनेर्नाननुमतम्, " परं जैमिनिर्मु- ख्यत्वात्" इत्यादौ तस्य परत्वाङ्गीकारप्रतीतेः । वेदसिद्धेश्वरनिरासोऽपि वस्तुतो नानु- मतस्तन्निष्ठानामपि ; यत एवमुक्तम्- परोक्तमनुमानं निरस्तं नेश्वरः " इति । न च तत्र तदनुमाननिरासे पुनः शास्त्रयोन्यधिकरणे तन्निरासो न युक्त इति वाच्यम्, 1 ।


६ ब्रह्मणः प्रमाणान्तरासिद्धत्वस्य साध्यत्वेन वक्तव्यत्वात् । अत्रोक्तोपजीवनेन वेदप्रामाण्यसिद्धा- वप्यर्वाचीनव्याख्यातॄणां तत्र तन्निरासो भिन्नशास्त्रत्वमोहात् । तथा न पूर्वकाण्डे युगपत्सृष्टि- प्रलयप्रतिपादकसूत्रोपलब्धिः; तत्परत्वकल्पनायामपि कर्म श्रद्धा जननपरतैव कल्प्या । आत्मनां सर्वगतत्वप्रतिपादनं न सूत्रेषु ; अतः सर्वगतत्वाद्यभिधानं व्याख्यातृणां मोह एव । तथा प्रबाहानादिताकॢप्तिरपि, जगत्सृष्ट्यादेर्जीवाणुत्वादेश्च साक्षाच्छ्रुतावेवोपलब्धेः । तच्छ्रुती- नामनन्यपरत्वमुत्तरत्र वक्ष्यते । तेषां सूत्रकाराभिप्रायत्वक्लृप्तावपि न सम्यग्राद्धान्त इति पुनस्तावन्मात्रनिरास उत्तरत्र । पूर्वकाण्डे शूद्राधिकारनिरासेऽपि पुनस्तन्निरासः शूद्रेत्या- मन्त्र्य विद्योपदेशदर्शनात् विद्यासु तदधिकारित्वशङ्कयेति न दोषः । एवं “ सर्ववेदान्त- प्रत्ययम्" इत्यादेरपि पुनरुक्तिपरिहारस्तत्रैव प्रदर्शितः । यथा पूर्वकाण्डेऽल्पशङ्कामात्रात् तत्र पुनरुक्तिपरिहार:, तथात्रापीति न कश्चिद्विशेषः । विषयभेदश्च नैक्यबाधकः, आदाविवावान्तरार्थभेदेनापि विषयभेदोपपत्तेः । तावन्मात्रेण शास्त्रभेदे लक्षणानामपि तथात्वापत्तेः । वेदार्थत्वोपाधितः शास्त्रक्यं चोपपन्नम् । उपदेशातिदेशविषयभेदवदवा - न्तरभेदश्च । सूत्रकर्तृभेदोऽपि नैक्यबाधकः ; यथा मानवस्मृतेर्मनुनोपक्रान्ताया भृगुणा शास्त्रार्थकथनेनोपसंहारेऽपि न तद्भेदः, यथा चोपकोसलविद्याया उपदेष्टृमेदेऽपि न भेदः ; e

66 ( १ – १ – १ ) I नयप्रकाशिका 99 इत्यादौ A २३७ 66 बादरा- उपकोसलाय हि तदाचार्यो गार्हपत्याद्यनयश्च भागशो विद्यामुपदिदिशुरिति छान्दोग्ये श्रूयते । लोकेऽपि वैयाकरणवृत्त्यादौ कर्तृभेदप्रसिद्धावपि शास्त्रैक्यव्यवहारः प्रसिद्धः । किंच " औपसदवत्तदुक्तम्" इत्यादौ पूर्वकाण्डोक्तानां सूत्रकारैरेव स्वोक्ता- नामिव स्मारितत्वात् तदैक्यं सिद्धम् ; अन्यथा पुनरेव तदर्थानां वक्तव्यत्वापातः ; श्रुति- लिङ्गवाक्यादयोऽप्यत्र व्युत्पाद्याः । वेदप्रामाण्यमप्यत्र प्रसाध्यम् । फलसंयोगरूप- चोदनाश्चात्र वक्तव्याः ; औत्पत्तिकस्तु किंच " यणस्यानपेक्षितत्वात्” इति बादरायणोक्तत्वेन स्वीकार्यत्वाभिधानाच्च । यद्यपि यत्र क्वापिपूर्वोत्तर भागयोः सूत्रेषु परस्परविरोधसंभवः, तथापि न तावता शास्त्रभेद: ; उभयोर्युक्तियुक्तस्यैव ग्रहणादैक्योपपत्तेः यथा “ द्रव्यगुणसंस्कारेष्वेव बादरिः " इत्यादे- र्मतस्य पूर्वपक्षत्वम्, इतरस्य राद्धान्तत्वम् । नित्यत्वेनानुष्ठीयमानाग्निहोत्रादिकर्मणां ब्रह्मविद्याशेषत्वेनैकफलत्वाच्च न शास्त्रभेदः । साध्यानुबन्धभेदाद्धि शास्त्रभेदः । एक- साध्यावघाताग्नेयादिशास्त्राभेदवदग्निहोत्रादिकर्म ब्रह्मविषयशास्त्रयोरैक्यं सिद्धम् । " यज्ञेन दानेन ” इत्यादौ यज्ञादोनां तच्छेषतोच्यते । " सर्वापेक्षा च " इत्यादौ तच्चोपपाद्यते । अङ्गत्वे च न फलभेदः । “ यच्च शास्त्रं यच्छास्त्रानपेक्षं सत् साध्यं भिनत्ति तत्ततो भिन्नम् ” इति हि नीतिविदः । काम्य फलत्वेन श्रुतानामपि कर्मणां विनियोगभेदादशेषवं युक्तम् । प्रकरणान्तरे अग्निहोत्रदर्शपूर्णमासादीनां कर्मान्तरत्ववत् तेषां कर्मान्तरता वास्तु ; तद्वत् सादृश्यात् धर्मप्राप्तिरप्यस्तु । ननु नित्यकर्मणां ब्रह्मवियैक्येऽपि काम्य- । न च कर्मणां साध्यानुबन्धभेदात् शास्त्रभेदान्न ब्रह्मविद्याशास्त्रैक्यमिति चेत् – न इष्टसाधन- त्वस्यैव वाक्यार्थत्वात् ब्रह्मण एव फलदत्वेन सर्वेष्टसाधनत्वाच्छास्त्रैक्यसिद्धेः । || साध्यभेदाच्छास्त्रभेदस्यावर्जनीयत्वमिति वाच्यम्, साधनधर्मभेदेऽपि तदधिष्ठानस्यैकत्वात् । परमात्मसमाराधनरूपकर्मभेदात् फलभेदसिद्धिश्च । तावतैव शास्त्रभेदव्यवहारोऽप्यु- पपन्नः; सर्वशास्त्राणां प्राधान्यतः परमात्मपरत्वात् शास्त्र्यैक्यं चेत्येवमादयः " स्मृत्य - नवकाश- 11 99 इत्यत्रास्माभिः प्रतिपादिताः । अतः शास्त्रैक्यं सिद्धम् । एवमैक्येऽप्य-: वान्तरोपाधिभेदात् पूर्वाचार्यैः पादाध्यायादिभेदः कृतः, तद्वत् द्वादशलक्षण्याः कर्मविषय- त्वमुपाधिः ; अनन्तर चतुर्लक्षण्या देवताविषयत्वम् ; तदनन्तरचतुर्लक्षण्या ब्रह्मविषयत्वम् । तत्र चौपदेशिकार्थपरत्वं पूर्वपट्कस्य ; अतिदेशविषयत्वमुत्तरषट्कस्य । प्राभा-

D२३८ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) करैस्तु — औपदेशिकी प्रतिपत्तिः पूर्वषट्कार्थः, कार्यजा तूत्तरषट्कार्थ इत्युक्तम् । आये स्वाध्यायस्यान्यपरत्वशङ्कानिरासद्वारा मीमांसाया आरम्भणीयत्वं साधितमविशेषेण । तत आद्यं शास्त्रोपोद्घातत्वेन संगतम् । चोदनासूत्रे शास्त्रमारब्धम् । तत्रैव धर्मस्य साध्यात्मकत्वं वेदैकसमधिगम्यत्वं चोक्तम् । अभिचारादिकर्मणामनर्थत्वेनाधर्मत्वं च शब्दानामर्थासंस्पर्शितानिरासश्च कृतः; कार्यार्थे व्युत्पत्तिप्रकारश्च । “ तस्य निमित्त - परीष्टिः” इत्यध्यायारम्भः । प्रथमलक्षणे वेदप्रामाण्यं निरूपितम् । द्वितीये कर्मा- त्पत्तिविधिभेदः । तृतीये विहितानामङ्गाङ्गिभावः । चतुर्थे क्रत्वर्थपुरुषार्थप्रयुक्तानुष्ठेय- परिमाणम् । पञ्चमे तदनुष्ठानक्रमः । षष्ठे विद्याकाङ्क्षिताधिकारिनिरूपणम् । अत एवं पूर्वषट्के स्वसंनिध्यधीयमानप्रयाजाद्यङ्गवद्दर्शपूर्णमासादिप्रकृतिविध्यपेक्षितकर्म- विचारः कृतः । सप्तमे विकृतीनां विकलाङ्गत्वेनाङ्गाकाङ्क्षावतां सौर्यादीनां प्रकृत्युपदि- ष्टानामङ्गानामतिदेशप्रकारः सामान्येन निरूपितः । अष्टमे प्रकृतावाग्नेयादिषूपदिष्टा - ङ्गानां सौर्यादिविकृतौ द्रव्यादिसामान्यविशेषातिदेशः । नवमे प्रकृत्युपदिष्टमन्त्रसंस्कार- कर्मणां विकृतावतिदिष्टानां विकृतप्रयोगात्मक ऊहो निरूपितः । दशमे विकृतावतिदि- ष्टानामवघातादीनां कृष्णलादौ वैतुष्यादिकार्याभावादनुष्ठानबाधः । एकादशेने कशे- ब्याग्नेयविकृतिप्रयुक्तप्रयाजाद्यनुष्ठानतन्त्रत्वम् । द्वादशे पश्वादिविधिप्रयुक्तप्रयाजादेः पशुपुरोडाशादिषूपकारप्रकारप्रसङ्गः । एवं विकृतिगतविचार उत्तरषट्के कृत: । देवताकाण्डस्त्वस्माभिरदृष्टचरः ; अतस्तत्प्रक्रिया मृग्या । ब्रह्मकाण्डे चावान्तरार्थभेदात् द्विकभेदः कृतः । तत्र प्रथमद्विकस्योपेयविषयत्वमुपाधिः । द्वितीयस्योपायविषयत्वम् । तत्र प्रथमे लक्षणे ब्रह्मकारणत्वं निरूप्यते । द्वितीये तदाढर्घमापाद्यते । तृतीये ब्रह्म- प्राप्त्युपायचिन्ता । चतुर्थे ब्रह्मानुभवात्मकफलं निरूपितम् । एवं वेदार्थविषयत्वा- कारेण शास्त्रैक्यम्, अवान्तरोपाधिभेदात् भेद इति सुस्थम् । पूर्वोत्तरयोर्हेतुहेतुमत्ता तु केवलकर्मणां निरूपितत्वात् तत्फलानामल्पत्वेनास्थिरत्वेन च ज्ञातत्वाद्वेदैकदेशोपनि- पत्सु च श्रूयमाणब्रह्मानुभवरूपानन्तस्थिरं फलस्यापातप्रतीतेर्विद्यमानत्वात् तत्कर्मज्ञानस्य विरक्ति हेतुतया ब्रह्मविचारप्रवृत्त्युपयोगित्वात् सिद्धा । विद्यातः कर्मणां प्रथममधीतत्वात्

  • स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकम् । " फलं च देवताकाण्डे देवतानां तु कथ्यते ॥ इति देवताकाण्डार्थसंग्रहो नयमयूखमालिकायामुदाहृतः ।

( १ – १ – १ ) तत्त्वटीका २३९ केवलकर्माधिकार्यर्थत्वेन निरूपणीयत्वाच्च मीमांसायाः सर्वत्र रागतः प्रवृत्त्यविशेषेऽपि प्रथममेव निरूपणीयत्वं सिद्धम् । प्रथममधीतार्थनिर्णये हि प्रथमं बुद्धयवरोहः । यज्ञा- नामृणापाकरणायावश्यकर्तव्यत्वेन च प्रथमं निरूपणीयता । ब्रह्मज्ञानस्य तु नावश्यकर्त- व्यता ; मुमुक्षोरेव हि तत्कर्तव्यता ; मुमुक्षोश्च कस्यचिदेव । तखटीका यद्यप्येवमक्षरग्रहणावधि शास्त्रान्तरावसरो निरुद्ध:, तथापि गृहीताक्षरस्यासौ स्या- दिति शङ्कायामुत्तरत्रापि तन्निरोधार्थमध्ययनस्य नियोगविषयत्वपक्षप्रतिक्षेपेण प्राक् सूचितं स्वाध्यायसंस्कारत्वं व्यनक्ति — अध्ययनमिति । चः शङ्कानिवृत्त्यर्थः; यद्वा भिन्नक्रमः, असकृदनूच्चारणत्वादिना सह संस्काररूपत्वस्य समुच्चयार्थः । “ संस्कारः पुंस एवेष्टो मन्त्रणप्रोक्षणादिभिः” इति वदद्भिरध्ययन संस्कारोऽपि कर्तुरेवेति स्वीकृतम् ; तेन विवक्षि- तासिद्धिरिति शङ्कां निवर्तयितुमाह – स्वाध्याय इति । उक्तं च बृहट्टीकायाम् - “ संस्कारगणनायां च युक्तैवाक्षरसंस्क्रिया । इति । स्वाध्यायो हि स्फुटं कर्म साक्षात्संस्क्रियते हि सः ॥ " पुरुषातिशयाधानं प्रोक्षणाद्यैश्च ये विदुः । तेऽपि संस्कारकर्मत्वं तत्र तत्र न तत्यजुः ॥ २५८ ॥ तत्कर्मक क्रियाजन्यः संस्कारः पुरुषाश्रयः । तत्तत्सहकृतं कार्यं करोतीत्यवधारणात् ॥ २५९ ॥ अत्राध्ययनस्य स्वाध्यायसंस्कारत्वे कर्मत्वं हेतुरिति न वैयधिकरण्यम् । अयं भावः—अत्र हि तव्यप्रत्ययस्यार्थान्तरं न घटते ; ततश्च द्वितीयाश्रुतेस्तव्यादेर्वा कर्मार्थत्वे विशेषाभावात्कारकाणां क्रियार्थत्वेऽपि द्रव्यनिष्ठस्य भावार्थस्य द्रव्यार्थत्वादवहन्त्यादिनयोऽत्र युक्त इति । सिद्धं चावहन्त्यादेस्तत्तद्रव्यसंस्कारत्वं भेदलक्षणे " तानि द्वैधं गुणप्रधान- भूतानि ” इति । स्वाध्यायस्येत्यनेन निर्वर्त्यत्वाद्यनुपपत्तिः सूचिता ; खल्वसौ निर्वर्त्यः, अनादिसिद्धक्रमत्वात्; यथापूर्वोच्चारणे वाक्यनिर्माणव्यवहारा- भावाच्च ; नापि विकार्यः, दुग्धदध्यादिवदन्यथाभावादृष्टेः ; नापि प्राप्यत्वमात्ररूपः, उपयोगान्तरवत्त्वे तदयोगात् ; अतः परिशेषसहकृतकर्मत्वावगतिः संस्कार्यत्वे हेतुरिति । न

२४० श्रीभाप्यम् । 66 47. ( जिज्ञासाधिकरणम् ) ततश्च भूतोपयो- 99 अस्ति नाप्य- ननु कर्मत्वावगमेऽपि श्रुत्यादिभिरविनियुक्तस्याद्रव्यस्य स्वाध्यायस्य कथं संस्कार्य- त्वमित्यत्राह — संस्कार इति । हिः प्रसिद्धौ । नामशब्द: परसंमतिपर्यन्ते तत्प्रकर्षे ; स्वाध्यायसंभावितभाव्युपयोगि संस्काराभिप्रायेणात्र कार्यान्तर योग्यताकरणोक्तिः । यद्वा ’ कस्यचित्सतोऽतिशयाधानं संस्कारः’ इति लक्षणमत्र विवक्षितम् । गिन्यपि तदनुगुणोपयोगविवक्षया कार्यान्तर योग्यताशब्दः कथंचिद्योज्यः । प्रहृता अपि परिधयस्तेनैव रूपेण भूतोपकाररूप कार्यान्तरयोग्याः श्रूयन्ते । अयं भावः - न तावदवि- नियुक्तत्वादसंस्कार्यत्वम् ; विनियोगाभावेऽप्युप योगदृष्टयैव संस्कार्यत्वसंभवात् । च " ऋग्वेदेन होता करोति" इत्यादिभिः सामान्यतो विशेषतश्च विनियोगः । द्रव्यत्वादसंस्कार्यत्वम्, यथोक्ताध्ययनगृहीतत्वे विरोधाभावात् ग्रहणविषयत्वादेश्च गुणादावपि सर्वसंमतेः । चोदितक्रियासाध्यस्येश्वरानुग्रहरूपस्यातिशयस्य स्वाध्यायाधार- त्वाभावेऽप्यध्ययनप्राप्ततया आराध्यवृद्धिसंगृहीतेन तेनैव यथार्होत्तरक्रियायाः शास्त्रतो निय- मान्नातिप्रसङ्गः । त्रीह्यादिष्वपि प्रोक्षणादिभिरतीन्द्रियातिशयो भवतु वा मा वा ; उक्त- न्यायः सार्वत्रिक इति । ननु “ सक्तून् जुहोति सुवर्णं भार्यम् इत्यादिषु निर्वत्र्त्यत्वादिरहितकर्मत्वावगमेऽपि भावार्थस्य न द्रव्यार्थता ; तथा " स्वाध्यायोऽध्येतव्यः " स्वाध्यायमधीयीत " इत्यादिजपविधावपि कर्मत्वावगतिरविशिष्टा ; अतस्तत्रानैकान्त्यम् ; तत्रापि वा संस्कार्यत्वप्रसङ्ग इत्याह-संस्कारीत्वमिति । अयं भावः भूतभाव्युपयोगासंभवात् जपादेश्व गृहीताक्षरविषयत्वावश्यंभावाद नेक संस्कारक्लृप्तौ गौरवा- ज्जपादिसंस्कारसाध्योपयोगान्तरादर्शनात् फलश्रवणाच्च तत्र संस्कारपरित्यागः ; न लिह तथा स्यात्, तथाप्यवगतकर्मत्वस्य निर्वाचत्वादिति । अत्रैव न्यायसुदर्शनम् - " आद्याध्ययनमिच्छामः संस्कारं कर्मतामितेः । स्वाध्यायस्योपयोगित्वात्फलाश्रवणतोऽपि च ॥ जपादेरपि संस्कारकर्मतेप्येत चेत्तदा । आद्यं तु सर्वस्वाध्यायानुपयोगादसंस्कृतिः ॥ सर्वत्र कर्मताबाधः स्वाध्यायस्य प्रसज्यते । तेन संस्कार आद्यं स्यादपरे त्वर्थकर्मणि ॥ आर्थवादिकमेवात्र फलं स्याद्रात्रिसत्रवत् ॥ सत्त्वादीनां

( १ – १ – १ ) तत्त्वटीका अत्रानीप्सितकर्मत्वं स्वाध्यायस्येष्यते बुधैः । आद्ये त्वीप्सितकर्मत्वं तदर्था च क्रिया मता ॥ २४१ जपादेरपि संस्कारकर्मत्वे सर्वसंस्कारसंस्कार्यस्य स्वाध्यायस्यार्थावबोध एव भाव्यु- पयोगः स्यात् । तस्य चानधिकृतकर्मभागे हुमादिषु च वैयर्थ्यात्सर्वाण्यध्ययनान्यर्थ- कर्माणि स्युः ; तदा स्वाध्यायस्य कर्मताभङ्गः स्यात् ; तस्मादाद्याध्ययनमेकमेव संस्कारः । इति । नन्यत्राप्युपयोगादर्शनादयुक्तिः सिद्धा, संस्कार्यत्वादेवोपयोगक्लृप्तावन्योन्याश्रय- णात् ; आहुश्च—–“ संस्कारविधिश्च न संस्कार्यं विनियुङ्क्ते ; प्रमाणान्तरावसितोपयो- गस्य संस्कारपर्यवसायी तु संस्कारविधिर्न संस्कार्यस्य कार्यं कल्पयति " इति ; तत्राह - धर्मार्थ इति । उपयोगादर्शनाद्धि सक्त्वादौ कर्मश्रुतिबाधः; स्वाध्यायस्य तु भाविदृष्टा- दृष्टविविधप्रयोजनदर्शनात्सक्त्वादिवन्नासंस्कार्यत्वं युक्तमिति भावः । अत्र पुरुषार्थचतुष्ट- -यस्य वेदवेद्यत्ववचनं सर्वभागानुवृत्तप्रयोजनसामान्यदर्शनेन कृत्स्नस्य मीमांसितव्यत्वख्या- पनार्थम् ; बाह्यागमोक्तानां तेषामश्रद्धेयत्वार्थं च ; अर्थकामतदुपायानां केषांचिल्लोकसिद्ध- त्वेऽपि त्रैलोक्यविभवादिरूपयोरर्थकामयोस्तत्साधनानां च वेदवेद्यत्वं युक्तम् 1 लौकिकार्थ- कामयोरपि कारीर्यादिषूपायेषु शास्त्र व्यापारः सिद्धः ; धर्मस्तु द्रव्याद्यात्मना प्रत्यक्षोऽपि धृतिसाधनत्वेन शास्त्रग्राह्यः । यथाहु:- " श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते । ताद्रूष्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥ इति । मोक्षश्च नास्मदादिप्रत्यक्षः ; आत्मा कदाचित्समस्तविशेषगुणशून्यः, अनि- त्यविशेषगुणवत्त्वात् घटवत् इत्यादीनां तु विपक्षे बाधकाभावान्नानुमानत्वम् ; मुक्तिपर- शास्त्रोपजीवनेन विपक्षे बाघकोक्तौ चानुमाननैष्फल्यम्; निरतिशयानन्दब्रह्मानुभवात्मनि तु मोक्षे हेतुप्रवृत्तेर्न प्रसङ्गः ; तद्विपरीतसाधने त्वागमबाधः ; अपि च जीवः कदा- चित्समस्तविशेषगुणशून्यो न भवति, आत्मत्वात् ईश्वरवत् इत्यपि वक्तुं शक्यम् । अत्रार्थस्येव धर्मस्यापि समीहितसाधनतया पुमैर्थस्य सतो धर्मविशेषः साधनम् ; अतः -सोऽपि तत्साधनशब्दोक्तः । मन्त्रार्थवादयोरपि यथार्हं चतुर्वर्गबोधकत्वं तद्बोधकोपकारकत्वं च ग्राह्यम् । श्येनेषु वज्रप्रभृतिष्वपि नानर्थचोदना । इष्टस्यारातिनङ्गादेरुपायांशोपदेशतः ॥ २६० ॥ 31

२४२ श्रीभाष्यम् घोरोपायान्तरेभ्यश्च लभ्येतात्र निवारणम् । ‘लघुनिष्कृतिनिस्तार्यं ह्यभिचारं प्रचक्षते ॥ २६९ ॥ किंचानभिचरन् षट्सु पतेदित्यपि शिष्यते । तेन धर्मोपयुक्तत्वमाततायिवधे विदुः ॥ २६२ ॥ (जिज्ञासाधिकरणम्) नन्वलौकिकपुरुषार्थादिबोधकत्वं स्मृत्यादावप्यस्ति; अतोऽन्यसाध्ये प्रयोजने किं वेदस्य संस्कारेण ? अर्थबोधश्च हुमादौ नास्ति ; पुरुषभेदेनानधिगताचिकीर्षितभाग- योश्च सन्नप्यसावनुष्ठानपर्यन्तत्वाभावान्नोपयोगी स्यात् ; तदिह स्वाध्यायस्यान्यलभ्यो- पयोगत्वादध्ययनस्य कृत्स्नस्वाध्याय संस्कारत्वायोगादेकदेशसंस्कारस्य शाब्दत्वाच्च " अध्ये- तव्यः इत्यस्य संस्कारविधित्वाभावे नियोगार्थत्वपक्ष एव प्राप्त इत्यत आह – जपादि- नेति आदिशब्देन धारणं गृह्यते । स्वरूपेणापि ; न केवलमर्थज्ञानद्वारेणेत्यर्थः । यद्वा अध्यापनमादिशब्दग्राह्यम् ; तदा स्वरूपेणापि धृतस्वरूपमात्रेण चेति यावत्, अयं भावः — अध्ययनगृहीतस्वाध्यायसाध्य- " ऋग्वेदं धारयन्विप्रः " इत्यादिस्मृतेः । 99 6 ,


मेव ज्ञानं विधिभिरुपजीव्यम् ; उपबृंहणानां तु न स्वातन्त्र्येण धर्मादिसाधनत्वम् । अस्तिः च श्रुतिः - “ वेदाभ्यासेन सततं सत्येन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ 99 इत्यादिप्रसिद्धमनन्यसाध्यं जपादि प्रयोजनम् । तेनैवानर्थ कानधिकृताचिकीर्षित- भागेष्वपि संस्कार्यत्वोपपत्तिः । जपविधिश्च निरर्थकोच्चारणविषयोऽपि स्वाध्यायस्यार्थ - परतां न बाधते,, सर्वविधिबाधेन स्वव्याघातप्रसक्तेरिति । न चोभयार्थत्वे विनियुक्त- तथाच न्यायसुदर्शनम् - विनियोगविरोधः, एकेनैव रूपेणानेकार्थत्वाभावात् । " स्वरूपेण जपाद्यर्थः स्वशक्त्यार्थावबोधकः । 66 रूपभेदाद्विरोधो न यथामे दहभासयोः || 99


इति । तदिहाध्ययन संस्कृताद्वेदादनन्तृप्रयोजनसंभवे तद्विचार मन्तरेणान्यत्र शास्त्रा- भ्यासे कः प्रयस्येदिति तात्पर्यम् । १. नन्वेवं विदितोपयोगेनाध्येत्रा अर्थज्ञानमपि विधिफलतया स्वीकार्यम्; अविदितो- “ अभिचारमहीनं च त्रिभिः कृच्छैर्व्यपोहति कृच्छ्रत्रयरूपा लघुर्निष्कृतिर्विहिता । " इति मनुना अभिचारे CC-0 No Rights Reserved. Digitized by eGangotri: · (१ – १ – १) तत्त्वीका २४३ पयोगेन त्वक्षरग्रहणमपि न फलत्वेन प्रतिपत्तुं शक्यम् ; अतोऽनुष्ठानं प्रत्यव्यवहितोपयुक्त- - मर्थज्ञानमपि ग्रहणवदध्ययनविधेर्दृष्टं फलमस्त्विति शङ्कां प्रस्तुतोपसंहारव्याजेन प्रतिक्षि- पति - एवमिति ; विधेयस्वरूपफलादिनिरूपणप्रकारेणेत्यर्थः । मन्त्रवत्त्वं नियमवत्वं चानू- च्चारणस्थं तत्फले गृहीतावुपचरितम् । मन्त्राः काण्डव्रताद्यङ्गभूताः, अध्ययनदशाजप्याश्च " शंनो मित्रः " इत्याद्याः । नियमाः प्रागुक्ताः । मन्त्रवत् ” इत्येतत् दृष्टान्तोक्ति- रित्येके—यथा मन्त्रे चोद्यमानमध्ययनमक्षरग्रहणमात्रपर्यवसायीति स्वीक्रियते तथेहापीति । अपरे तु —— यथोपनयनदशोच्चारणीयेषुपनीतमात्रस्य समिदाधानादिमन्त्रेषु च, तथेहापीति वेदितव्यमिति । हुमादिवदित्यन्ये, विषहरणादिमन्त्रविशेषवदिति च ।


66 66 मात्रचा पर्य- अयं भावः - अध्य- 99 • वसानशब्देन चाक्षरग्रहणात्पश्चात्पूर्वं च विधिविश्रान्तिर्निषिध्यते’ । अयं भावः · यनशब्दस्य न तावदर्थज्ञानवाचकत्वम्, अव्युत्पत्तेः ; किंचिदधीत्य ब्राह्मणः इत्यादौ तस्यार्थपरत्वासंभवाच्च । विधिविषयमध्ययनं प्रत्यव्यवहितसाध्यमभिव्याप्तमवर्जनीयं च फलं दृश्यते ; तदन्यस्यापि तत्फलत्वक्लृप्तौ गौरवं स्यात् ; व्यवहितसाध्यस्यापि फलत्वक्लृप्तौ ज्ञानवत्तत्साध्यस्यानुष्ठानस्यापि तत्कृप्तिप्रसङ्गः ; उत्तरविध्यव्यवहितापेक्षितत्वमपि ग्रहण- ज्ञानयोः समम् । यदि चार्थज्ञानं कर्मविषयतयाम्नातं, तदा त्वव्यापिनि व्यवहितेऽपि -तस्मिन् संप्रत्ययः स्यात् ; न त्वेतदस्ति । अतोऽर्थधिय उपयोगितयैव स्वीकार्या इति । ननु समन्वयाधिकरणन्यायादर्थज्ञानस्यैव स्वतः प्रयोजनतया फलत्वकॢप्तिर्युक्ता ; - मैवम् ; निरतिशयानन्दब्रह्मप्रतिपादकभागमात्रे तदुक्तेः ; अत्र तु कृत्स्नाध्ययनफल विमर्शात् विरूपक्लृप्त्ययोगाच्च । ननु ’ वृद्धवाक्यानि शृणु ’ इत्यादौ वाक्यश्रवणविवेरर्थधीपर्यन्तत्वं लोकदृष्टमिति चेत् — न ; वृक्षादिवन्मार्गलक्षणभूतस्य कस्यचिद्वाक्यस्थ श्रोतव्यत्वोपदेशे तात्पर्यात्तदभावस्यापि दृष्टेः । किंच कचिद्वाक्यश्रवणोपदेशस्यार्थपरत्वमगत्या ; इह तु न तथा यथाश्रुते बाधाभावात् । न च वाक्यश्रवणवत्तदनूच्चारणमर्थज्ञानार्थं युक्तम् । आहत्य स्वयंप्रयोगानुगुणाक्षरग्रहणार्थतैव लोके दृष्टा । ननु " यो ह वा अविदि- - तार्षेयच्छन्दोदैवतेन मन्त्रेण " इत्यादिश्रुतिभिः " अविदित्वा ऋषिं छन्दः " यद- धीतमविज्ञातम् ” इत्यादिभिः स्मृतिभिश्च विपर्यये दोषोक्त्या अर्थज्ञानमवश्यसंपाद्यत्वेन 99 १. अनेनात्र “ प्रमाणे द्वयसच" इत्यादिना मात्रजिति गम्यते । तदुपप- त्तिस्तु २२७ पुढे टिप्पण्यां द्रष्टव्या ।

२४४ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) स्थापितम् ; तदभावेऽध्ययनस्य नैष्फलयं तत्सद्भावे सर्वपुरुषार्थावाप्तिश्चोच्यते- 66 स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्रमनुते नाकमेति ज्ञानविधूतपाप्मा ॥ 19 99 इति ; तस्माद्वैधो वेदार्थविचारः ; मैवम् — यथा रागप्राप्तस्य ऋतुगमनादेरकरणे दोषो विधिवत्करणे संतत्यादिलाभश्च फलत्वेन स्मर्यते, एवमिहापि स्यात् । विधिव- त्समाप्ताध्ययनानुवादेन चार्थज्ञानाभावे दोषं वदन्ति वाक्यानि नार्थधीपर्यन्तमध्ययनं विधातुं क्षमन्ते । " तस्मादेतानि मन्त्रे मन्त्रे विद्यात् ” इत्येतत्तु प्रयोगकाले प्रतिमन्त्रं प्रज्ञातऋष्याद्यनुस्मरणपरम् । अत एव अविदितार्षेयत्वादिनिषेधश्च तावन्मात्रविषयः । अतः " यदधीतम् ’ स्थाणुरयम् " यश्च मीमांसतेऽध्वरम् " इत्यादिभिरर्थज्ञान- प्रशंसया स्वतः प्रवृत्तिरुत्तभ्यते । एतैश्चार्थज्ञानस्यावश्यापेक्षितत्वेन विधावपि नाध्ययन- विधेस्तत्पर्यन्तत्वं कल्प्यम्, नैरपेक्ष्यात्; अन्यतः प्राप्ते विधेरौदासीन्याच्च, तावत्पर्यन्त- धावनेऽपि स्वतः पुरुषार्थापर्यवसानाच्च । यत्तु कैश्चित् प्रत्यवस्थीयते — अध्ययनविधेरर्थ- ज्ञानपर्यन्तत्वात् “ आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधत् " इत्यादिश्रुतिभिः " अधीत्य स्नायात्" इत्यादिस्मृतिभिश्चात्मरूपार्थज्ञानस्यापि कर्मार्थतया तत्कर्तृसंस्कारत्वेन विनियोगात् " द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " सोऽन्वेष्टव्यः स विजि- ज्ञासितव्यः " इति जिज्ञास्यतयोक्तस्यात्मनोऽवहन्तव्य त्रीहिवत् स्वरसावगत संस्कार्यत्वाबाधेन कर्मशेषत्वसिद्धया " तत्त्वमसि " " अयमात्मा ब्रह्म " इत्यादिभिः कर्मवश्यस्यैव ब्रह्म- त्वोक्तेः विश्वकर्तृत्वस्य च कर्मद्वारोपपत्तेः क्लृप्तकल्प्यविरोधे क्लृप्तगृहीतेन्यय्यत्वाज्जीवस्य कर्मसु कर्तृतया प्राप्तस्य तदर्थसंस्कारार्हत्वाच्च जीवपरे वेदान्ते सति तदतिरिक्तेश्वरविषय-’ शास्त्रासंभवात्कस्यैकशास्त्र्यं क्रमश्च कल्प्यत इति – तदप्यक्षरग्रहणमात्र पर्यवसानभाषणात्प्र- त्युक्तम् । सूत्रकारोऽप्येतदेव चोद्यं “ तद्वतो विधानात् " इत्यनूद्य अध्ययन- मात्रवतः इति परिहरिष्यति । अध्ययनविधेरर्थज्ञानपर्यन्तत्वेऽपि " अधीत्य “, “ अभिसमावृत्य” इत्यादिभिर्नार्थिज्ञानस्य कर्मशेषत्वेन विनियोगः ; क्त्वाश्रुतेः समान- कर्तृत्वादिमात्रे विश्रमात् । तथा विनियोगेऽपि कर्मानुष्ठानोपयुक्तार्थज्ञानादन्यदेवोपास- नात्मकं ज्ञानं वेदान्तवाक्यैर्विधित्सितम् ; उपास्यश्चात्मा जीवातिरिक्तः श्रुत्यैव सिद्धः, न 99 66

( १ – १ – १) तत्त्वटीका २४५ तु कल्यः ; जीवब्रह्मसामानाधिकरण्यं चाचिद्ब्रह्मसामानाधिकरण्यवदैक्यविरोधादन्यार्थम् । तिष्ठतु च तथाविधज्ञानं, तथापि न विरोधः; कर्तुरिवाराध्यस्यापि कर्मार्थत्वेन विचार्य- त्वात् तस्य च कर्मवश्यादन्यत्वेन श्रुतिसिद्धत्वात् तद्विचारार्थ काण्डान्तरादिसिद्धेः । यद्यप्य- त्राप्यर्थज्ञानस्यानुष्ठानशेषत्वेऽपि यथांश परब्रह्मोपासनशेषत्वमपि स्यादित्युत्तरं प्राप्तं, तथाप्य- र्थज्ञानपर्यन्ततामूले चोद्ये प्रथमपर्वस्थोद्भटापराधोपेक्षायोगादन्वारुह्यवादमनादृत्य मूलच्छेद एवात्र कर्तव्य इत्यभिप्रायेण सूत्रभाष्ययोर्मात्रशब्दः । ननु – अध्ययनविधावक्षरग्रहण- पर्यवसितेऽन्यार्थतयैवाधीतस्य स्वाध्यायस्य प्रतीतोऽप्यर्थस्तात्पर्यविषयत्वायोगादविचार्यः ; ततो निरर्थको वेदः ; अध्ययनविधिश्च न पुरुषार्थपर्यन्तः ; निर्विषयतया " अधीत्य स्नायात्” इति स्मृतिनिरुद्धावसरतया च मीमांसापि नारभ्येत ; कुतस्तदैक्यादि स्यात् ? इति शङ्कामपनुदन् एकविषयतया वेदाख्यैकव्याख्येयव्याख्यानात्मकशास्त्रैक्यमपि दर्शयन् मीमांसारम्भसूत्रार्थं च सूचयति अध्ययनेति । अत्र स्वाध्यायनिर्णयविचाररूपा- धीतवेदशब्दैर्मीमांसाया विषयफलस्वरूपाधिकार्यैक्यव्यञ्जनम् । गृहीतस्येत्यनेन विधि- व्यापारस्य विश्रमोक्तिः । प्रयोजनवदर्थदर्शनोक्तिस्तु पुरुषार्थपर्यवसानज्ञापनार्था ।


स्वभावत एव विधिव्यापारमनपेक्ष्येत्यर्थः ; ’ व्युत्पन्नपदपदार्थादेः’ इति शेषः । अयं भावः- 14 ; ग्रहणार्थमुपात्तोऽपि स्वाध्यायो वह्निवत् स्वयम् । प्रकाशयति यत्तत्र स्वतो मानमबाधतः ॥ २६३ ॥ जपादध्ययनं श्रौततत्तत्फलसमन्वितम् । न रुन्द्धे शब्दसामर्थ्यं ग्रहणार्थं तु किं पुनः ॥ २६४ ॥ विनियोगविशेषेण वेदेऽर्थपरतां क्षिपन् । विनियोगार्थधीबाधात् स्वव्याघातेन बाधितः ॥ २६५ ॥ विवक्षितार्थैव न वा स्यादध्ययन चोदना । आद्ये व्याहतिरन्त्ये तु पूर्वपक्षस्य नोस्थितिः ॥ २६६ ॥ अर्थज्ञानफलत्वेन मानत्वं चात्र दुर्भणम् । तत्फलत्वे हि तन्मानं तन्मानत्वे च तत्त्विति ॥ २६७ ॥

0 २४६ श्रीभाष्यम् स्वीकरोत्यर्थपरतां नियोगार्थोऽपि चेद्विधिः । (जिज्ञासाधिकरणम्) संस्कारार्थोऽपि तद्वत्स्यात् स्वसिद्धयौत्सुक्यसामवत् ॥ २६८ ॥ तद्- वेदः ; निरपेक्षवेदकः, न तु पुंवाक्यवन्मूलभूतमानान्तरमपेक्ष्येत्यर्थः । अत एव न मूलदोषविचारशङ्कया विचारस्तम्भनमिति भावः । प्रयोजनमत्र चतुर्वर्गः । न्तोऽर्थास्तदुपायाः कर्मोपासनारूपाः । अवबोधित्वमिह निर्णयजननानुगुणत्वं दृष्टं दुरपह्नवम् । न च दृष्टेऽनुपपन्नं नाम " इत्यभिप्रायेण दर्शनादित्युक्तम् । बोधकत्वेऽपि साध्याभावान्न मीमांस्यमित्यत्राह–गृहीतादिति । अर्थानापाततोऽवगम्यमानान् दृष्ट्टा’ इति तत्कालविशेषणतयान्वयः । आपातधीरेव दृष्टा ; अतः संशयादिनिरास: साध्य इत्याशयः । पूर्वः प्रयोजनवदर्थशब्दः काक- दन्तोक्तिव्यावृत्त्या श्रुतिप्रामाण्यार्थः । उत्तरस्त्वापातधियः स्वविषयविचाररागजनमेन प्रेरकत्वज्ञापकः । स्वत एव ‘ प्रतीतमप्रतीतं वा न मीमांस्येत किंचन । इति चोद्यमपि क्षिप्तमापातज्ञाततोक्तितः ॥ २६९ ॥ ननु यदि शब्दस्वभावादापातधीः, तर्ह्यव्युत्पन्नानामपि स्यात् ; न चात्र व्यु- त्पत्तिमतामेव तद्विधिरस्ति; अङ्गेष्वप्यङ्गिवदक्षरग्रहणान्ते विधौ तदसंभवात् विध्यैकरूप्ये चाङ्गाध्ययनस्यार्थज्ञानपर्यन्तत्वे विशेष हेत्वभावात् । अत्र ब्रूमः - यस्य संस्कृतभाषैव बाल्यात्प्रभृति शीलिता । तदा तु तस्य सा तत्र स्यादापातमतिः स्वयम् ॥ २७० ॥ निरङ्गाध्ययनेऽप्येवं साङ्गाधीतौ तु किं पुनः । वेदार्थापातधीवृद्धिमङ्गार्थापातधीर्दिशेत् ॥ २७९ ॥ हितैषिवाक्यजातां च केचिदापातसंविदम् । प्राप्नुवन्तो विचारे हि प्रवर्तन्ते मनीषिणः ॥ २७२ ॥ केचित्त्वङ्गघुपकारार्हरूपेणाङ्गाक्षरग्रहे । सार्थज्ञानत्वमाचख्युर्दृष्टार्थत्वं तु लध्विति ॥ २७३ ॥ अस्त्वेवमापातधीः; तदतिरिक्तमपि ज्ञानं विद्यास्थानान्तरैरेव साध्यतामित्य- त्रोक्तम् — तत्स्वरूपेत्यादि । पूर्वपक्षोक्ताद्व्यावृत्तरूपावधारणमिहान्यैरसाध्यं फलमिति


( १ – १ –– १) भावः तत्त्वटीका २४७ । वेदवाक्यविचाररूपेत्यनेन विद्यास्थानान्तरव्यावृत्तमीमांसाशरीरव्यञ्जनम् । । मीमांसाया विचाररूपत्वोक्तिस्तदभेदोपचारात्, विचारशब्दस्य करणव्युत्पत्त्या वा । विधिविषये कृत्यशेषं नास्तीत्यभिप्रायेणाधीतवेदत्वोक्तिः, आपातधीमत्त्वादिति हेत्वभि- प्राया च । पुरुष इति हेतुगर्भं, प्रयोजनार्थित्वादिति । स्वयमेव ; विधिनिरपेक्षस्वेच्छ- येत्यर्थः । आपातस्वोपयुक्तार्थे भाते तन्निर्णयार्थिनः । तदुपाये प्रवृत्तस्य विधानं ह्यनपेक्षितम् ॥ २७४ ॥ स्वेष्टनिश्चय हेतुत्वमन्वयव्यतिरेकतः । सिद्धमेव विचारस्य तत्रापि फलो विधिः ॥ २७५ ॥ संप्रेक्ष्य निधिरत्नादस्तद्यथार्थनिरूपणे अपरप्रेरिता एव प्रवर्तन्ते तदर्थिनः ॥ २७६ ॥ अतो न विधिसिद्धोऽत्र विचारस्तत्क्रमोऽपि वा । अन्यथा दोषदृष्टचैव द्वितीयस्योपपत्तितः ॥ २७७ ॥ स्वयं प्रवृत्तावप्याचार्यनैरपेक्ष्यव्युदासाय श्रवणतदाश्रयणे प्रवृत्तिः । अकरणे त- दोषः स्यात् ; तन्न, तदधीननिश्चयतत्सापेक्षहितप्रवृत्त्यादीनामभावस्यैव दोषत्वात् । तद- भिप्रायेण तदप्युच्यते- " अधीत्य वेदान् साङ्गांस्तु यो विचारमुपेक्षते । स्वप्रयासं च विस्मृत्य प्रभ्रष्टः स्यात्प्रयोजनात् ॥ " इति । नन्वेवं विचारस्यावैधत्वे " अधीत्य स्नायात्” इत्यादिविधिनिरुद्धावसरः कथं मीमांसताम् ; दुःखात्मकगुरुकुलवासान्निवृत्तेः स्वतः प्राप्तत्वादानन्तर्यमेव ह्यत्र विधेयम् । मैवम् ; सनियमकसमावृत्तियुक्तस्नानरूपसंस्कार एव ह्यत्र विधीयते ; अन्यथा निवृत्त्यानन्तर्यस्यापि स्वतः प्राप्तत्वादविधेयत्वं स्यात् । किंच विचारस्य वैधत्वेऽपि कथमवसरः ? श्रुत्या स्मृतेर्बाधादिति चेत्-न; श्रुतावपि " अधीत्य " अभिसमावृत्य " इत्युक्तेः । तत्र समानकर्तृकत्वपूर्व कालत्वमात्रपरतयानन्तयें तात्पर्यं नास्तीति चेत्, स्मृतावपि किं न तथा स्यात् ? न च श्रुतावध्ययनशब्दो- ऽर्थज्ञानपर्यन्तः, स एव स्मृतावक्षरग्रहणपर्यन्त इति नियन्तुं शक्यम् । 66 " यदधतम् " CC-0 No Rights Reserved. Digitized by eGangotri२४८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) इत्यादिवत् स्यादिति चेत्–न, विरोधाविरोधाभ्यां विशेषात् । अस्तु तर्हि श्रुति- स्मृत्योर्द्वयोरप्यर्थज्ञानपर्यन्ताध्ययनानुवादः, तथा सति स्नानविधिर्वैधस्य विचारस्यावसरं न विरुन्ध्यादिति चेत् ; तर्हि रागप्राप्तस्यापि स्वोपयुक्तद्रव्यार्जनादेखि श्रवणस्यावसरं न विरुन्ध्यादेव । ज्ञात्वानुष्ठानमिच्छन्तः स्नानादिविषयः स्वतः । प्राचीमेव स्वविषयां मीमांसां परिगृह्णते ॥ २७८ ॥ किंचात्र मानभेदाङ्गकमकर्त्राद्यवेदिनः । न स्नानविधिमप्येकं यथावद्वेदितुं क्षमाः ॥ २७९ ॥ अगत्याध्ययनादौ प्रागविचार्य प्रवर्तते । स्नाने तु गतिसद्भावान्न स्यादगतिका गतिः ॥ २८० ॥ अनुज्ञातं च सर्वत्र न स्वाङ्गं व्यवधायकम् । अतो मीमांसया नात्र व्यवधानं विरोधकृत् ॥ २८१ ॥ यद्वा अध्ययनस्नाननैरन्तर्येऽपि न विरोधः । अविचारितधर्माणामुत्तरानुष्ठाना- सिद्धिप्रसङ्गाद्विरोध इति चेत् — न, स्नातस्यापि यावद्विचारं हितकामैर्ब्रह्मचारिण इवा- नुष्ठापनोपपत्तेः । न च हितैषिवाक्यादनुष्ठानेऽपशूदनयविरोधः, तत्तदुचितधर्मेषु हितै- षिभिः प्रवर्तनात् " न चास्योपदिशेद्धर्मम्" इत्यादिनिषेधदृष्टेश्च । अन्यथाप्यनुष्ठान- सिद्धौ मीमांसाश्रवणं निरर्थकं स्यादिति चेत् — तन्न, वैपरीत्यशङ्कायां मूलजिज्ञासया पर - नैरपेक्ष्यप्रवचनख्यात्यादिश्रद्धया च तदुपपत्तेः । एवमेव पूर्वेषामुत्तरेषामपीत्यविच्छेद- सिद्धिः । कश्चिदालस्यात्पित्रादीनेव सर्वथा प्रमाणयेदिति चेत्, ततः किम् ? अनल- सैरन्यैः शास्त्रश्रवणोपपत्तेः । स्नातस्य शृण्वतो गुर्वर्थव्यापारैः स्वधर्मोपरोधः स्यादिति चेत् — न; अध्ययनविधिप्रयुक्तानां तेषां निवृत्तेः । यथोक्तं न्यायसुदर्शने- 66 अक्षरग्रहणोपायनियमार्थो ह्ययं विधिः । तद्गुहावधिका धर्मस्थितिरित्यब्रवीत् स्मृतिः ॥ अधीताद्वेदतः पश्चादर्थज्ञानं स्वतो भवेत् । तत्तु नाध्ययनं नापि धर्माणां च प्रयोजकम् ॥ 99 इति | किमर्थं तर्हि मीमांसामाचार्यः श्रावयेत् ? लाभाद्यर्थं धर्मार्थं वा । गृहस्थधर्मो-

*(१–१–१) तत्त्वटीका २४९ ‘परुद्धस्य कः श्रोतुमवसरः ? को वाचार्यस्य प्रवक्तुम् ? तस्य वृत्त्यर्थिनोऽस्ति द्रव्यार्जनकाल इति चेत्, तर्हि विध्यनुज्ञातदृष्टार्थप्रवृत्त्यन्तरवत् श्रवणस्यापि स्यात् । इतिहासाद्यर्थतया -च गृहिणोऽप्यस्ति कश्चिद्विचारकालः ; तदा च वेदोपबृंहणैस्तैः स्वसाध्यानुगुणत्वेन -मीमांसाप्युपादीयेत । वेदाभ्यासं चैवं विभजन्ते - " वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ 99 इति । कुलक्रमागतधनादेर्देवादागतधनादेः कस्यचित् तदार्जनकालोऽप्यपेक्षितश्रवणस्य कालः । गृहस्थादयश्चाविचारितवर्णादिधर्मास्तत्तद्धर्मश्रोतारः श्रुतिस्मृतिषु दृश्यन्ते । गृहस्थस्याप्यतिशयितर्विद्यार्थं प्रत्यब्दं द्वौ द्वौ मासौ गुरुकुलवासश्च केनचिदनुज्ञातः ; - यथानूद्यते- —" निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतिमिच्छन्निति श्वेतकेतुः " " एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालात् श्रुतमकुर्वि " इति । नन्वत्र “ तच्छास्त्रैर्विप्रतिषिद्धम्, निवेशे हि वृत्ते नैयमिकानि श्रूयन्तेऽग्निहोत्रमतिथयः ” इत्यादिनापस्तम्बः स्वमतमाह ; सत्यम् ; तेनापि तदा मासद्वयं निरन्तरगुरुकुलवासमात्रं निषिध्यते ; न तु प्रवक्तृवत् श्रोतुः सिध्यन् विचारावसरः अस्त्वध्ययनानन्तरं विचारः, स च रागतः कृत्स्नविषयश्च ; तथापि,


क्षिप्यते । अवैधत्वे विचारस्य क्रमस्य च यथारुचि । अप्रवृत्तेः प्रवृत्तेश्च प्राप्तौ तत्रेति भाष्यते ॥ २८२ ॥ दुस्त्यजत्वाद्विचारस्य यौगपद्यविरोधतः । व्युत्क्रमे दोषदृष्टया च क्रमः सौत्रो ह्यसाविति । २८३ ॥ ‘तत्र वेदे मीमांसायां वा; स्वेच्छातः प्रवृत्तौ सत्यामिति वार्थः । ; कर्मविधि- रिह काम्यकर्मचोदना, काम्यानुष्ठानं वा; अविशेषाद्वा नित्यादेरपि संग्रहः । स्वरूपशब्देन त्यक्तफलस्य परविद्याङ्गविनियोगो न चिन्तितं इति सूच्यते । स हि साधनलक्षणे शोध्यः ; तन्निरूपणे ह्यनन्तस्थिरफलपर्यन्तत्वं बुध्येत । यद्वा केवलकर्मणामल्पास्थिर- फलत्वस्य क्वचिदमीमांसितत्वेऽपीति भावः । निरूपिते इत्यनेन कर्मनिरूपणस्य वृत्त- स्वावश्यंभावोऽभिप्रेतः । प्रपञ्चितं चैतत्तात्पर्यतूलिकायाम्- 32

0 २५० 66 66 श्रीभाष्यम् “ तत्रेदं नियतं कर्म नैव शक्यमुपेक्षितुम् । तद्धि सर्वास्ववस्थासु पुमांसमनुवर्तते ॥ बुभुक्षुर्वा मुमुक्षुर्वा यो यो गृह्येत पूरुषः । तस्य सर्वस्य बहुना कर्मणानुगमोऽस्ति हि ॥ नित्यं नैमित्तिकं कर्म प्रतिषिद्धं च सर्वदा । सर्वैरपि परीक्ष्यं हि प्रत्यवायजिहासया ॥ न ये बिभ्यति दुःखेभ्यस्ते मा कार्षुर्विचारणा म् । इतरेषामियत्कर्म विचार्यमिति तु स्फुटम् ॥ काम्यं तु कर्म भोगाय विनापि ब्रह्मणा क्षमम् । न कर्मणा विना ब्रह्म मोक्षसामर्थ्यमश्नुते || सर्वापेक्षा च यज्ञादिश्रुतेरिति हि वक्ष्यते । वेदैकदेशचिन्तापि प्रोक्ता कृत्स्नप्रयोजिका ॥ तस्मादवश्यचिन्त्यत्वे कर्मैवाग्रे विचार्यते 11 99 (जिज्ञासाधिकरणम् )> तत्रा- इति । कर्मणामल्पास्थिरफलत्वं दृष्ट्रा तत्तद्वाक्यैरेवार्थतो विशदं निश्चित्ये- त्यर्थः । ज्योतिष्टोमाग्निहोत्रादिस्वरूपनिरूपणे हि यथोपायं गुरुलघुस्वर्गभेदकॢप्तिः स्यात् ।’ “ ज्योतिष्टोमोऽग्निष्टोमः ” इत्यनेन ज्योतिष्टोमस्याग्निष्टोमरूपत्वे निश्चिते च तत्साध्यस्य स्वर्गस्य “ यावदग्निष्टोमेनोपाप्नोति " इत्यादिना देशकालादिपरिच्छेदनिश्चयः । वृत्तिविधिरप्यनावृत्तस्य फलाल्पत्वे लिङ्गम् । नित्यकर्मणामपि कस्मिंश्चिदधिकारिणि “ प्राजापत्यं ब्राह्मणानाम् ” इत्यादिभिर्वर्णाश्रमभेदेन फलतारतम्यं स्मर्यते । वैश्वदेववरुण- प्रघासादीनां चातुर्मास्यानां स्वरूपेऽवगते हि " एषा वै वैश्वदेवस्य मात्रा, एतद्वा एतेषा- मवमम्, अतोऽतो वा उत्तराणि श्रेयांसि भवन्ति ” इति वैश्वदेवादेर्मितफलत्पदर्शनात् " अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम् इत्यत्र चिरोपभोग्यत्वमात्रे तात्पर्यग्रहः । यद्यप्यक्षयफलत्वमिदं विद्याङ्गत्वेन परंपरया नेतुं शक्यम्, तथाप्यत्र तद्विवक्षाविरहान तथा नीयते । एवं परिमितफलसोमहविष्कर्मस्वरूपनिश्चये सत्येव " अपाम सोमम् " इत्यादावमृतत्वस्य " आभूतसंप्लवं स्थानममृतत्वम्" इत्यादिस्मृत्या नियमः । स्वर्ग- स्वाराज्यादिफलभेदसाधककर्मस्वरूपभेदसिद्धौ च तत्र स्वर्गशब्दोक्तस्याल्पत्वसिद्धिः ॥ 66

(१ – १ – १) मूलभावप्रकाशिका २५१ “ यं यं क्रतुमधीते " इत्यादिषु च फलतारतम्यक्कृप्तिगुरुलघु कर्मस्वरूपनिश्चयादेव । उत्पत्ति- -नाशवदाराध्यप्रीणन कर्मस्वरूपनिश्चयाच्च तत्साध्यस्य तत्सायुज्यादेरस्थिरत्वदृष्टिरिति । तदेवं निरस्तप्रतिबन्धब्रह्मविचारार्थस्य शारीरकस्य विद्यास्थानान्तरव्यावृत्तस्वरूपफलाभ्यां मीमां- सैकदेशत्वव्यक्त्यर्थं निर्णेतव्यविशेषसिद्ध्यर्थं च पुनः "" अध्ययन- ” " इत्यादिकमुक्तम् । अत्रामृतत्वशब्देन त्रय्यन्तप्रधानवेद्यफलोक्तिः ; तेनार्वाचीनानामानुषङ्गिकान्नवत्त्वादीनां च व्यवच्छेदः । कर्मभागोत्तममृतत्वमापेक्षिकं संगत्यन्तरघटितदृष्टिविध्यादिफलानां 11

  • साधितम् ; इदं तु बाधादर्शनात् निर्णीतांशसंवादिवेदान्तैकदेशोपष्टम्भाच्च न प्राच्यव- दिति प्रत्यायितप्रायमित्यभिप्रायेण अनन्तस्थिरफलापातप्रतीतेरित्युक्तम् । न ह्यत्र फलत्वाद्यनुमानैरल्पास्थिरफलत्वादिकॢप्तिः शक्या, अतिप्रसङ्गादिति । अनवच्छेदादिह सर्वशरीरः शारीरः, तमधिकृत्य प्रवृत्तं शास्त्र शारीरकम् । वक्ष्यति हि आनन्दमयाधि- -करणे- -" स एव निरुपाधिकः शारीर आत्मा ; अत एवेदं परं ब्रह्माधिकृत्य प्रवृत्तं शास्त्रं शारीरकमित्यभियुक्तैरभिधीयते " इति । सैव मीमांसेति शारीरकमीमांसा ; तस्याम् । अधिकरोति ; स्वार्थबुद्धया तत्रोद्युक्तो भवति, न तु पूर्ववृत्तान्तरादधिकरोतीत्यर्थः । ब्रह्म- विचारानन्तर्ये युक्तिसिद्धे तद्विषयशास्त्रानन्तर्यमपि सिध्येदिति भावः । ग्रहणं च फलत्वं च सार्थता च स्वतः श्रुतेः । रागात् कृत्स्नविचारश्चत्यपूर्वमिह भाषितम् ॥ २८९ ॥ मूलभावप्रकाशिका येनैव तव्यप्रत्ययेन स्वाध्यायस्य कर्मत्वावगमादक्षरादिराशिग्रहणस्य फलत्वसिद्धिः तेनैव तव्यप्रत्ययेनाध्ययनस्य संस्कारकर्मत्वमेव, न तु प्राभाकराभिमतमर्थकर्मत्वमित्याह- - अध्ययनं चेति । शिष्यानुग्रहाय वक्ष्यमाणशङ्काया अवकाशप्रदानाय च संस्कारस्वरूपं दर्श यति - संस्कारो हीति । इदं चोपयोक्ष्यमाणसंस्कारविषयम्; ’ अतिशयाधानं संस्कारः, - इति तु संस्कारसामान्यलक्षणं द्रष्टव्यम् । ननु " तस्मात्सुवर्ण हिरण्यं भार्यम्" इत्यत्र - कृत्यप्रत्ययेन हिरण्यस्य कर्मत्वे श्रुतेऽपि भूतभाव्युपयोगशून्यतया कृत्यप्रत्यय स्वारस्याना- दरेण श्रुतविनियोगं भङ्क्त्वा हिरण्यभरणस्यार्थ कर्मत्वमाश्रितम् ; एवमिहापि स्वाध्यायस्य -तव्यप्रत्ययेन कर्मत्वे श्रुतेऽपि भूतभाव्युपयोगविधुरत्वात् श्रुतविनियोगभङ्गेन स्वाध्यायाध्य-

२५२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) यनस्यार्थकर्मत्वमेवाश्रयणीयमिति शङ्कां निरस्यति – संस्कार्यत्वमित्यादिना । ’ हुं फट् प्रभृत्यनर्थकवेदभागे पुरुषार्थतत्साधनावबोधस्य तत्साध्यस्य प्रयोजनस्य चाभावादनुप- युक्तस्य तदंशस्य न संस्कार्यत्वमित्यत्राह - जपादिनेति । ज्ञानसहितजपादेः प्रयोजनान्तर हेतु- त्वव्यवच्छेदार्थः स्वरूपशब्दः ; हुंफडादिस्थले जपादिस्वरूपमेव प्रयोजनसाधनं, नार्थप्रत्यया– पेक्षेति भावः । उपसंहरति— एवमिति । मन्त्रवत् इत्यत्र मन्त्रशब्देन निरर्थकहुंफडादि- वेदभागा विवक्षिताः । सप्तम्यर्थे वतिः । निरर्थकवेदभागेऽध्ययनस्य सनियमाक्षरग्रहण – फलकत्वस्य संप्रतिपन्नत्वात्तदेव सर्वत्र फलं, नाव्यापकमर्थज्ञानमिति भावः । नन्वक्षर- ग्रहणस्यापुरुषार्थत्वादभाव्यत्वम् ; अध्ययनविवेरर्थज्ञानपर्यन्तत्वाभावे स्वाध्यायस्य विवक्षिता- र्थत्वं न स्यादिति शङ्काद्वयं परिहरति - अध्ययनगृहीतस्येति । लोकव्युत्पत्तिसिद्धं शब्दानामर्थपरत्वं न विधिमपेक्षत इति स्वभावत एवेत्यस्याभिप्रायः । अर्थज्ञानस्यापि स्वतः पुरुषार्थत्वाभावेनानुष्ठानद्वारा स्वर्गादिजनकतयैव पुरुषार्थत्वस्य वक्तव्यतया अक्षर- ग्रहणस्यापि प्रयोजनवदर्थज्ञानद्वारा पुरुषार्थत्वं संभवतीति भावः । अयमर्थोऽनागता- वेक्षणन्यायेन " स्वाध्यायशब्दवाच्याक्षरराशिग्रहणं विधीयते " इति भाष्यव्याख्यानाव- सरे प्रपञ्चितः । नन्वध्ययनविवेरर्थज्ञानपर्यन्तत्वाभावे प्रवर्तकाभावान्मीमांसाया अनारम्भ- णीयत्वं स्यादिति शङ्कां व्युदस्यति — अध्ययनगृहीतात्स्वाध्यायादिति । ’ आपात - तोऽवगम्यमानान् दृष्ट्वा इत्यन्वयः । दृष्टेत्यनेनापाततः प्रतीतेरनुभवसिद्धतया दुर- पह्नवत्वमुक्तम् । स्वयमेव प्रवर्तत इति ; रागादेव प्रवर्तते; न तु मीमांसकमत इवार्थ- ज्ञानपर्यन्ताध्ययनविधिबलादिति भावः । कर्मविधिस्वरूपे निरूपित इति ; विधिश्व स्वरूपं च विधिस्वरूपम् ; कर्मविधौ कर्मस्वरूपे च निरूपित इत्यर्थः । वृत्तिविधौ निरूपिते चातुर्मास्यादीनां क्षयिफलत्वनिश्चयो भवति, अक्षय्य फलत्वे आवृत्ति - वैयर्थ्यात् । तथा चातुर्मास्यादिस्वरूपं सहस्रसंवत्सर साध्यविश्वसृजामयनादिस्यरूपं चं निरूपयता “फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् " इति न्याया- लोचनसनाथचेतसा भगवदनुग्रहविषयेण पुंसा 99 तद्यथा इत्यादिवक्ष्यमाणवाक्यैः कर्म- णामनित्यफलत्वं सुनिश्चयमिति भावः । अधिकरोतीति ; अधिकारिसिद्धिः कर्मविचा- राधीनेति भावः । " 66 प्रत्यब्दं चातुर्मास्याद्या- CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १) २५३ श्रीभाष्यम् 66 तथा च वेदान्तवाक्यानि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञान- स्य चाक्षयफलत्वं दर्शयन्ति — “ तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते” अन्तवदेवास्य तद्भवति १" " परीक्ष्य & Ga " न ह्यध्रुवैः प्राप्यते " " प्लवा ह्येते अदृढा यज्ञरूपाः लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्वि- ज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नायं सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् । " " ब्रह्मविदाप्नोति "" 66 " न पश्यो मृत्युं परम् " न पुनर्मृत्यवे तदेकं पश्यति " पश्यति " स स्वराड् भवति ” “ तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते " पृथगात्मानं प्रेरितारं च मत्वा जुष्ट- स्ततस्तेनामृतत्वमेति" इत्यादीनि । ननु च साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वं स्वर्गादीनां च क्षयित्वं ब्रह्मोपासनस्यामृतत्व- फलत्वं च ज्ञायत एव । अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्त- ताम् ; किमर्था धर्मजिज्ञासापेक्षा ? एवं तर्हि शारीरकमीमांसायामपि न प्रवर्तताम्, साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यमापात- प्रतीतिर्विद्यत एव, तथापि न्यायानुगृहीतस्य वाक्यस्यार्थनिश्चायकत्वा- दापातप्रतीतोऽप्यर्थः संशयविपर्ययौ नातिवर्तते; अतस्तन्निर्णयाय वेदा- न्तवाक्यविचारः कर्तव्य इति चेत् : तथैव धर्मविचारोऽपि कर्तव्य इति पश्यतु भवान् ।

२५४ श्रीभाष्यम् श्रुतप्रकाशिका (जिज्ञासाधिकरणम्) एवमैकशास्त्र्यक्रमनियमारम्भणीयत्वान्युपपादितानि । कैर्वेदान्तवाक्यैरारम्भणीय- त्वौपयिकापातप्रतीतिरित्यत्राह - तथा चेति ; यथा सूत्रं व्याख्यातं तथेत्यर्थः । चः शङ्कानिवृत्तौ प्रसिद्धौ वा । केवलशब्देन ज्ञानाङ्गकर्मव्यावृत्तिः । ननु कर्मविचारेण निर्णीतेऽपि कर्मफलक्षयित्वे पुनश्चाल्पास्थिर फलत्वप्रतीतिजनकवाक्यानि किमर्थमुदाह्रियन्ते ! अनन्तस्थिरफलाप/तप्रतीतिजनकान्येव हि वाक्यान्युदाहर्तव्यानि । उच्यते - अधिगत- कर्मणः पुरुषस्य हि निर्णीतार्थसंवादिवाक्यदर्शनात् कर्मफलास्थिरत्ववत् ब्रह्मज्ञानफलाक्ष- यित्वस्य प्रामाणिकत्वं संभवतीति श्रद्धास्थिरीकरणार्थम् । तद्यथेति ; लोक्यत इति लोकः, फलम् । अन्तवदेवास्य तद्भवति इत्यनेन ज्ञानविधुरकर्मणोऽनेककालानुष्ठि- - तस्य बहुविधस्यापि क्षयित्वमुक्तं भवति, “यो वा एतदक्षरं गार्ग्यविदित्वास्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि " इत्येतद्वाक्यपूर्वकत्वात्तस्य वाक्यस्य । अन्तवदित्युक्ते क्रियास्वरूपस्यान्तवत्त्वं लोकसिद्धतयानुपदेश्यमिति फलस्यैवान्तवत्त्वमर्थ- सिद्धं स्फुटीकर्तुं पूर्वं “ तद्यथा " इति वाक्योपादानम् । सांसारिक फलस्याध्रुवत्वं स्यात् ; कर्मभिरेव ध्रुवं फलं संपाद्यतामिति शङ्काव्युदासायोपादत्ते - न ह्यध्रुवैः प्राप्यत इति । ध्रुवं तत् " इति वाक्यखण्डः । तदुपपादकत्वेन प्रतीयमानं वाक्यान्तरमुदाहरति- प्लवा ह्येते अदृढा यज्ञरूपा इति ; संसारपारं तारयितुं नालम्, मध्ये भङ्गुरत्वादित्यर्थः । सूत्र योजनानुगुणतरं कर्मणामल्पास्थिर फलत्वं ब्रह्मोपासनस्यानन्ताक्षयफलत्वं च दर्शयद्वा- क्यमुपादत्ते - परीक्ष्य लोकानिति ; अस्मिन्वाक्ये न्यायसिद्धार्थानुवादेन गुरूपसत्तिर्वि- धीयते । कर्मचितान् ; कर्मसंचितान् कर्मसंपाद्यान् । पररीक्ष्य ; मीमांसान्यायैर्निरूप्य । अधीतसाङ्गसशिरस्कवेदः। ‘यः’ इत्यध्याहार्यम्, ‘सः’ इत्युत्तरत्र श्रवणात् । अकृतः; नित्यः । अत्र पुरुषो विशेष्यः, लिङ्गवशात् " अक्षरं पुरुषम् " इत्यनन्तरोक्तेश्च । कृतेन ; कर्मणा । नास्ति ; न सिध्यति । इतिकरणं द्रष्टव्यम्; इति यो निर्वेद- मायात् स तद्विज्ञानार्थं गुरुमेवाभिगच्छेत् । एवकारेण नियमविधित्वं गम्यते । समित्पाणिः ; न रिक्तपाणि: ; रिक्तपाणिस्तु नोपेयाद्राजानं दैवतं गुरुम् " इति हि स्मर्यते । श्रोत्रियम् ; श्रुतवेदान्तम् । ब्रह्मनिष्ठम् ; ब्रह्मसाक्षात्कारवन्तम्, श्रुत- वेदान्तोऽपि रुचिभेदादब्रह्मनिष्ठो नोपगन्तव्य इति भावः । अभिगच्छेदित्यन्वयः । शमः 1 ब्राह्मणः; 66 B

1 ( १ – १ – १ ) श्रुतप्रकाशिका २५५ ब्राह्मेन्द्रियनियमनरूपः, ’ प्रशान्तचित्ताय’ इत्यन्तःकरणनियमनस्योक्ततया पारिशेष्यात् ; एतेन श्रवणोपयुक्तमवधानं विवक्षितम् ; न तूपासनोपयुक्तात्यन्तेन्द्रियजयादिः 66 ’ तस्मै स विद्वान् प्रोवाच’ इत्यन्वयः । येनेति निर्देशो ब्रह्मज्ञानाभिप्रायः, ’ तद्विज्ञानार्थम् इति हि प्रकृतम् । सामान्यतः कारणाभिप्रायो वा ; लिङ्गव्यत्ययो वा । अक्षरम् स्वरूपेणाविकारम् । सत्यम् ; गुणतोऽप्यविकारम् । आभ्यामचिज्जीवव्यावृत्तिः । तां ब्रह्मविद्यां प्रोवाच ; प्रब्रूयादित्यर्थः । इति वेदान्तसारे व्याख्यातम् । “छन्दसि लुललिटः ” इति लिट् । ननु “ प्रशान्तचित्ताय शमान्विताय " इति शमादेः पूर्व- वृत्तत्वं प्रतीयते—न; श्रवणोपयोग्यवधानमात्रस्य विवक्षितत्वात् । नात्रोपासनाङ्गभूता-: त्यन्तविषयवैतृष्ण्यं विवक्षितम् ; तद्धि " शमदमाद्युपेतः स्यात् ” इति निरूपयिप्यते । अतो निरूप्य संपाद्यैस्तैर्निरूपणात्प्रागेव विशिष्टत्वमनुपपन्नम् । श्रुतिश्च शास्त्रजन्यज्ञान— वतः पुरुषस्य तदुत्तरभाविशमाद्यङ्गकमुपासनं दर्शयति –“ तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत् " इति । अत्र हि ’ एवंवित् ’ इति शास्त्रजन्यज्ञानवत्त्वमुक्तम् । ’ भूत्वा पश्येत्’ इत्युपासनस्य शमाद्यङ्गकत्वं स्था– पितम् । केवलानन्तस्थिरफलपरवाक्यान्युदाहरति — ब्रह्मविदिति । अत्रानुवाके “ यतो वाचो निवर्तन्ते " इति श्रवणादनन्तफलत्वसिद्धिः । प्राप्यस्य ब्रह्मणोऽनन्तस्थिरत्वेऽपि प्राप्तेः कादाचित्कत्वशङ्काव्यावृत्त्यर्थमपुनर्निवृत्तिमाह-न पुनरिति । यद्वा विद्यया– नन्तस्थिरफलरूपब्रह्मप्राप्तिमाह-ब्रह्मविदिति । विद्यया ब्रह्मप्राप्तेः प्रतिबन्धनिवृत्ति- पूर्वकत्वमाह - न पुनरिति । मृत्युः प्रमादः, मोहो वा ; " मोहो मृत्युः संमतो यः कवीनाम् ” “ प्रमादं वै मृत्युमहं ब्रवीमि " इत्युभयत्र मृत्युशब्दव्यपदेशात् । प्रमादः यथावस्थितात्मस्वरूपस्याज्ञानम् । मोहो भ्रान्तिज्ञानम्, ’ दिङ्मोह: ’ इत्यादिव्यपदेशात् न मृत्युनिवृत्तिमात्रमेव ; तत्कार्यमपि निवर्तत इत्याह - न पश्यो मृत्यु पश्यतीति । अस्य वाक्यस्योपरि “ न रोगं नोत दुःखताम् " इति हि श्रूयते । " न पुनः " इत्यादि वाक्यं ब्रह्मणि दृष्टे मृत्युप्रमुख निवृत्तिरिति ज्ञापनार्थम् । " न पश्यो मृत्युम् ” इत्यत्रापि पश्यशब्दस्य ब्रह्मदर्शीत्यर्थः, " तदेकं पश्यति " इत्यनन्तरोदाहृतवाक्ये विषयस्य दर्शित– त्वात् । सः स्वराड् भवतीति कर्मवश्यो न भवतीत्यर्थः । स्वराट् स्वतन्त्रो विज्ञेयः "” इति नैघण्टुकाः । " तमेवं विद्वान् ” इति वाक्येन निर्विशेषचिन्मात्रज्ञान- 66 99

२५६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) देवतान्तरोपासनाद्युपायान्तरव्यावृत्तिसिद्धिः, पुरुषोत्तमोपासनस्यैवोपायतयोक्तत्वात् । तदु- पासनरूपज्ञानं च नात्मैक्यविषयम् ; अपितु पृथक्त्वविषयमिति दर्शयति– पृथगात्मान- मिति । मत्वा ; ज्ञात्वा । ततः पृथक्त्वज्ञानात् । तेन जुष्टः ; प्रीतिविषयीकृतः ; अनुगृहीतोऽमृतत्वमेतीत्यर्थः । ’ इत्यादीनि वेदान्तवाक्यानि ’ इति पूर्वेणान्वयः । उदाहृतस्पष्टार्थवाक्यमात्रतृप्तः कश्चिश्च्चोदयति– ननु चेति । पूर्वत्र चोद्यान्तराणां कण्ठोक्त्यभावेऽपि परिहारकण्ठोक्तघा तान्यभिप्रेतानि । अतश्चशब्देन तैरर्थसिद्धैः सह समुच्चयो युक्तः । साङ्गेति कर्मज्ञानपूर्ववृत्तत्ववादिनापि साङ्गाध्ययनस्यापेक्षितत्वं स्वीकृत- मिति तदधिकव्युदासार्थ एवकारः । अध्ययनस्य साङ्गत्वादङ्गानां चार्थज्ञानहेतुत्वान्मीमां- सानिरपेक्षं स्वर्गादेरेव केवलकर्मफलत्वं, स्वर्गादेश्च क्षयित्वं ब्रह्मोपासनस्याक्षयफलत्वं च ज्ञायत इत्यर्थः । ब्रह्मोपासनस्येत्यादिग्रन्थो दृष्टान्ताभिप्रायः । ज्ञायत एवेत्येव- कारो ज्ञातत्वसंप्रतिपत्तिसूचकः ; ज्ञानसामग्री हि सिद्धेति भावः । ततः किमित्यत्राह — अनन्तरमिति ; कर्मणोऽल्पास्थिरफलत्वज्ञानेन मुमुक्षासिद्धयर्थं हि कर्मविचारः ; तन्नि- रपेक्षमेवाल्पास्थिर फलत्वज्ञानान्मुमुक्षासिद्धेर्ब्रह्मजिज्ञासैव कर्तव्या, धर्मविचारे प्रयोजनाभावा- दित्यर्थः । परिहरति– एवमिति । एवं तर्हि ; उदाहृतवाक्यमात्रतृप्तोऽसि चेत् । कृत्स्नस्येति ; ब्रह्मणोऽपीति भावः । वेदान्तवाक्यान्यपि स्फुटार्थानि ह्यस्माभिरुदा- हृतानि ; तेषामर्थोऽपि मीमांसानपेक्ष ज्ञायते ; अतोऽनन्तस्थिरफलज्ञानाय न ब्रह्मविचार: कर्तव्य इत्यर्थः । सत्यमित्यार्धाङ्गीकारे ; आपातप्रतीतावभ्युपगमः, ब्रह्मविचारनैरपेक्ष्येऽन- भ्युपगमः । आपातेति ; आपातप्रतीतिरज्ञाननिवृत्तिमात्रेण संशयविपर्ययसहं ज्ञानम् । संशयविपर्ययौ च · कारणवाक्यगतसद्ब्रह्मात्मा काशप्राणवैश्वानरादिशब्दैरर्थतत्त्वस्य दुर्निश्च- यत्वात्, “ विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति " असद्वा इदमग्र आसीत् ” इत्यादिभिरात्मानित्यत्वादिप्रतीतेः, " अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन इत्यादिनाल्पास्थिर फलत्वावगमाच्च स्याताम् । अतः साङ्गाध्ययनमात्रेण तयोरनिवृत्तेस्तद्व्युदासस्य न्यायानुगृहीतवाक्य फलत्वाच्च ब्रह्मविचारः कर्तव्य इति चेदित्यर्थः । भवान् ; अनुदाहृतवाक्यान्तरपर्यालोचनायामपि प्रवृत्तस्त्वमिति भावः । तथैव; एतया दृष्टघात्रापि संशयविपर्ययनिरासस्यापेक्षितत्वं जानन्ननुदाहृत- वाक्यानि पश्येदित्यर्थः । " अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति " " पूर्णा- 66 99 “9 66

(१-१–१) हुत्या सर्वान् कामानवाप्नोति " 99 भावप्रकाशिका २५७ सर्वान् लोकान् पशुबन्धयाज्यभिजयति ” “ अपाम सोमममृता अभूम चिनुते " " नास्येष्टापूर्ते क्षीयेते ; योऽग्निं नाचिकेतं चिनुते " इत्यादीनि हि " अमृतत्वं भजन्ते " " सोऽश्नुते सर्वान् कामान् " " इमान् लोकान् कामान्नी कामरूप्यनुसंचरन् ” इत्यादिब्रह्मवेदनफलवाक्यैस्तुल्यानि वाक्यानि दृश्यन्ते । अत औपनिषदवाक्येष्वि- -वानुदाहृतवाक्येषु संशयविपर्ययवाहुल्यात्तन्निरासाय कर्मविचारः कर्तव्य इत्यर्थः । " अनन्तं ह वा अपारमक्षय्यं लोकं जयति ; योऽग्निं नाचिकेतं भावप्रकाशिका येनेति निर्देशो ब्रह्मज्ञानाभिप्राय इति ; ततश्च " प्रोवाच तां तत्त्वतो ब्रह्म- विद्याम् " इति प्रतिनिर्दिश्यमानाया एव ब्रह्मविद्याया यच्छब्देन पराम्रष्टव्यतया ययेति स्त्रीलिङ्गनिर्देशो न प्रसञ्जनीय इति भावः । अतो निरूप्य संपाद्यैस्तैरिति ; ननु .66 4 ब्रह्म- शमदमाद्युपेतः स्यात् ” इत्यत्र न शमादिस्वरूपं निरूप्यते, अपितु शमादेरुपासनाङ्ग- त्वम् ; तच्च श्रुतिबलप्राप्तस्य श्रवणं प्रत्यङ्गभावस्य नोपजीव्यमिति चेत् — न; तत्राविहित- विषयव्यापारोपरमः शम इत्यस्यार्थस्य तदधिकरणे व्युत्पाद्यत्वादिति भावः । विदाप्नोति " इत्यस्यानन्तस्थिर फलब्रह्मप्राप्तिपर्यन्तप्रामाण्यसंभवे अनन्तस्थिर फलत्वमात्रप्रति- - पादनपरत्वमयुक्तमित्यस्वरसादाह - यद्वा अनन्तस्थिरेति । विषयस्य दर्शितत्वादिति ; ब्रह्मस्वरूपस्येत्यर्थः । ततश्च " पश्यः” इति ब्रह्मदर्शनमेव पर्यवस्यतीति भावः । समुच्चयो युक्त इति ; अत्र केचित् – ’ ननु च ’ इति निपातसमुदायोऽयं नन्वर्थक एव ततोऽति- रिक्तार्थाप्रतीतेः ; ननुशब्दस्य प्रयोक्तधर्मभूतशङ्काद्योतकत्वेन ’ ननु च इत्यस्य शङ्का च ’ इतिशब्दतुल्यार्थत्वाभावात् ; अतोऽत्र चशब्दस्य समुच्चयार्थत्वप्रसाधने नातीवाभिनिवेष्टव्यमिति मन्यन्ते । ननु कर्मविचारनैरपेक्ष्यसिद्धयर्थं कर्मणां वाक्यजन्यं क्षयिफलत्वज्ञानमेव वक्तव्यम् ; न तु ब्रह्मोपासनस्याक्षय फलत्वज्ञानमित्यत्राह — ब्रह्मो- पासनस्येत्यादिग्रन्थ इति । श्रुतप्रदीपिका आपातधीजनकवाक्यानि सन्तीत्याह तथा चेति । यथा सूत्रं व्याख्यातं - तथेत्यर्थः । क्षयिफलत्वपरवाक्योपादानं क्वचिन्निर्णीतार्थ संवाददर्शनादर्थान्तराणामपि श्रद्धे- -यत्वाय । लोक्यत इति लोकः फलम् । फलद्वारान्तवत्त्वमुक्तन् । अन्तवदिति वाक्यं केवल- 33 CC-0 No Rights Reserved. Digitized by eGangotri२५८ 99 श्रीभाष्यम् 6 (जिज्ञासाधिकरणम्) कर्मपरम्, “ अविदित्वा ” इति हि प्रकृतम् । ध्रुवफलासाधनत्वमाह–नहीति ; “ध्रुवं तत्” इतिवाक्यखण्डः । तदुपपादयति - प्लवा हीति । इति कर्मफलक्षयित्वपराणि । अथोभयपरम् - परीक्ष्येति । ब्राह्मणः ; ब्रह्म वेदः, तदधीत इत्यण् । ’ यः’ इत्यध्या- हार्यम् ’ स:’ इत्युक्तेः । अकृतः परमपुरुषः । इतिरध्याहार्यः । एवेति नियमविधिः । श्रोत्रियम् ; श्रुतवेदान्तम् । ब्रह्मनिष्ठम् ; ब्रह्मसाक्षात्कारिणम् । शमदमौ श्रवणौपयि- कतादात्विकावधानमात्र हेतू, न त्वत्यन्त बाह्यान्तःकरणविषयप्रावण्यत्यागः स हि निरूप- यिष्यते । अक्षरं सत्यम् ; स्वरूपतो गुणतश्चाविकारमिति चिदचिद्व्यावृत्तिः । प्रोवाच; प्रब्रूयात् “ छन्दसि लुङ्लङ्लटः ” इति विधौ लिट् । अथानन्तस्थिरफलवाक्यानि । " ब्रह्मविदिति वाक्येनानन्त्यसिद्धिः ; “यतो वाचः” इति हि प्रकरणम् । न पुनरित्या - दिकं मृत्युतत्कार्यनिवृत्तिपरम् । " न रोगं नोत दुःखताम्” इति ह्यनन्तरं श्रयते 1 पश्यशब्दविषय उक्तः —तदेकमिति । स्वराट् ; अकर्मवश्यः ; स हि स्वतन्त्रः । तमेव - मित्युपायान्तरनिवृत्तिः । पृथक्त्वज्ञानस्योपायत्वं पृथगिति । जुष्टः ; प्रीतिविषयीकृतः । उदाहृतवाक्यमात्रतृप्तश्चोदयति – ननु चेति । क्षयिफलत्वज्ञानाय हि कर्मविचारः; तत् सा ङ्गाध्ययनसिद्धमित्यनन्तफलेच्छोस्तदेव जिज्ञास्यमिति चोद्यम् । एवं तर्हि; उदाहृतवाक्यमात्र- तृप्तोऽसि चेत् । कृत्स्नस्य; ब्रह्मणोऽपीति भावः । सत्यमिति ; आपातप्रतीतावभ्युपगमः “ अन्नवान् ” इत्याद्यवगताल्पास्थिर फलादाकाशप्राणादिशब्दैः " तान्येवानुविनश्यति ” इत्यनित्यत्वादिभिश्च संशयाद्यनतिवृत्तिः । भवान् ; अनुदाहृतास्पष्टार्थवाक्यान्तरजिज्ञासुः । .. " अक्षय्यं ह वै " “ अपाम सोमममृता अभूम " इत्यादिकं पूर्वभागेऽपि पश्येत्यर्थः उदाहृतवाक्यैः तृप्तिश्चेत् पूर्वत्रापि स्यात् । सान्तानन्तादिविरुद्धार्थधीरुभयत्र तुल्येति- विचार्यत्वमविशिष्टमित्युक्तं भवति । 66 66 नय प्रकाशिका तद्यथेह " इत्यादिश्रुत्यैव केवलकर्मणः क्षयिफलत्वं ब्रह्मज्ञानस्याक्षयफलत्वं हेतु- हेतुमद्भावश्च प्रतीयते । पुण्यचितो लोकः क्षीयते " इति हि तस्य क्षयित्वं श्रूयते । “ परीक्ष्य लोकान् ” इत्यत्रापि कर्मसंपादित लोकपरीक्ष्यत्वमुच्यते । तत्परीक्षणं च मीमांसयैव, व्यवहितत्वेनायोग्यत्वेन प्रत्यक्षादिना परीक्ष्यत्वानुपपत्तेः । किं तु न्यायसहित श्रुत्यैव; न्यायश्च मीमांसेति पूर्वमीमांसयैव तत्परीक्षणम् । कर्मणां फलपरत्वादिर्हि न्यायैक

(१–१ – १) नयप्रकाशिका २५९

  • साध्यः । ननु श्रुत्यैव तेषां फलपरता सिद्धा ; किमर्था न्यायापेक्षेति चेत्–न ; “यस्य पर्णमयी जुहूर्भवति” इत्याद्यन्यपरवाक्येष्वपि फलश्रवणात् तस्यापि ग्राह्यत्वापतेः ; अश्रुत- फलविश्वजिदादौ फलाभावश्च स्यात् । ननु नित्याग्निहोत्रादेर्न फलमिति चेत् — न ; फलाभावे प्रवृत्त्यनुपपत्तेः । किंतु फलविशेषसंकल्पाभाव एव तस्याप्यपरिमितफल- त्वमेव । अपरिमितफलत्वेऽपि प्राकृतफलत्वेन विनाशः सिद्धः । तेषामपरिमितफल- त्योक्तिस्तु भूयस्त्वाभिप्राया । तच्च मीमांसयैव ज्ञायते । नास्त्यकृतः कृतेनेति ; कृतेन ; केवलकर्मणा, नित्यार्थस्यासंपाद्यत्वमुच्यते । निर्वेदमायादिति; एवंविधकर्मज्ञानस्य निर्वेदहेतुत्वमुच्यते । तथाविधनिर्वेदयुक्तस्य हि गुरोः सकाशाद्वेदान्तश्रवणं श्रूयते । क्षरं पुरुषं वेद सत्यमिति ; अक्षरवेदनस्यात्र फलानन्त्याश्रवणेऽपि " ब्रह्मविदाप्नोति परम् “ न पुनभृत्यवे तदेकम्" इत्यादौ तद्वेदनस्य फलानन्त्यश्रवणात् तदानन्त्यं सिद्धम् । ’ अक्षरं सत्यं पुरुषं वेद ’ इति श्रवणाच्चाक्षयफलता सिद्धा, तत्क्रतुन्यायात् । तस्मै प्रोवाच ; ब्रूयादित्यर्थः; अन्यथा ‘अभिगच्छेत् प्रोवाच’ इत्यनन्वयात् ; अप्राप्तार्थ- त्वाच्च । अतोऽत्र लिट् विध्यर्थे, “ छन्दसि लुललिटः " इति स्मृतेः । ननु -सांङ्गाध्ययनाच्छन्दार्थव्युत्पत्तेः कर्मणां क्षयिफलत्वावगतेः ब्रह्मवेदनफलानन्त्यावगतेश्च प्रथमत एव वेदान्तश्रवणोपपत्तेर्न कर्ममीमांसापेक्षेति चेत् — न; उत्तरमीमांसायामप्यप्रवृत्त्या- पत्तेः, साङ्गाध्ययनादेवार्थावगतेः । अथ वेदान्तवाक्यानामनेकार्थप्रतीतेस्तन्निर्णयाय तंत्र प्रवृत्तिरिति चेत्—–न; कर्मपरवाक्यानामपि तथात्वात्तन्निर्णयाय तत्प्रवृत्त्यापातात् " पूर्णा- हुत्या सर्वान् कामानवाप्नोति " " अक्षय्यं ह वै" इत्यादौ सर्वकामावाप्त्यक्षयफलत्वादि श्रूयते कर्मणामपि । तादृशवाक्यानामर्थानिश्चये तु न कर्मणां क्षयिफलत्वनिश्चयः । " तद्यथेह कर्मचितो लोकः क्षीयते " इत्यादयस्त्वन्यस्तुतिपरा इत्यपि भ्रमः स्यात् । - अत उभयत्रापि संशयाद्यविशेषात् प्रवृत्तिरविशिष्टा, निवृत्तिरप्युभयत्र समेति न कर्ममीमां- - सातो व्यावृत्ता ब्रह्ममीमांसाप्रवृत्त्युपपत्तिः । किंच कर्मणां विद्याङ्गत्वेन विनियोगादङ्ग- त्वेनानुष्ठाने तज्ज्ञानस्यावश्यकत्वादुपादेयतयापि पूर्ववृत्तता सिद्धा । ननु “ विविदिषन्ति " इति विविदिषोत्पत्तावेव विनियोगान्न विद्याङ्गत्वमिति चेत् —-न; ज्ञानसाधनत्वेनैव तेषां विनियोगात्;वेदनप्रधाना हि विविदिषा । विविदिषन्ति; वेदनं प्राप्तुमिच्छन्तीत्यर्थः, - असिना जिघांसति’ इत्यादाविव; असेहननसाधनत्वनिश्चये हि तथा व्यपदेशोपपत्तिः । । "

२६०


श्रीभाष्यम् (जिज्ञासाधिकरणम् ) अतो यावज्ज्ञानप्राप्तिस्तावत् द्वयोरप्युपयोगः । ननु " ब्रह्मविदाप्नोति" इत्यादौ ज्ञान- मात्रस्यैव मोक्षसाधनत्वश्रवणात् कर्मणां विद्योपकारकत्वाभावाच्च तेषां न विद्याङ्गत्वमिति चेत् — न; विनियोगप्रतीतेः । यथा “ दर्शपूर्णमासाभ्याम् ” इत्यादौ दर्शादिवाच्याग्ने- यादिप्रधानस्यैव स्वर्गसाधनत्वश्रवणेऽपि वाक्यान्तरविहितप्रयाजाद्युपकृतस्यैव स्वर्गसाध– नत्वं तथा कर्मणां पापनिबर्हणद्वारा विद्योत्पत्तिहेतुत्वात्, उपकारकत्वसंभवाच्च । निष्पाप – स्यैव विद्योत्पत्तिः ; न पापिनः, “ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते " इत्यादिस्मरणात् 66 " 2 सत्त्वशुद्धौ ध्रुवा स्मृतिः” इति श्रुतेश्च । सत्त्वशुद्धिश्च न सपापस्य । एवं केवलवेद- नस्यैव मोक्षसाधनत्वे शमादेरप्युपादनं न स्यात् ; परेषां शमादयोऽङ्गत्वेनेष्टाः ।) “ विद्यां चाविद्यां च ” इत्यादौ विद्यायाः कर्मणा सहानुष्ठानप्रतीतेश्च । अत्र मृत्यु - शब्दो ज्ञानोत्पत्तिविरोधिपरः । अविद्याशब्दः कर्मपरः । अत एव हि “इयाज सोऽपि इत्यादिस्मृतिः । ननूभयोरत्र फलभेदश्रवणान्नाङ्गाङ्गित्वमिति चेत्–न; अविरुद्धफलत्वेन तदविरोधात् । फलविरोधे हि साध्यभेदाच्छास्त्रभेदः । साध्यभेदमात्रात् : शास्त्रभेदस्वीकारेऽवघाताग्नेयादिशास्त्राणामपि भेदः स्यात् । अत्र ज्ञानं च ध्यानरूपमेव । तच्च यावज्जीवमहरहरावर्तनीयम् । तदावृत्तौ चाङ्गावृत्तिरावश्यकी । न च वाक्यजन्यं ज्ञानमात्र विधेयम्, विधिव्यतिरेकेणापि तत्सिद्धेः । श्रवणमननयोरपि न विधेयता, श्रवणे रागत: एव प्रवृत्तेः; श्रुतार्थप्रतिष्ठापनार्थत्वान्मननस्य । अतो वेदनं ध्यानादिपर्यायमेवात्र विधेयम्, “ मनो ब्रह्म इत्यादौ वेदनस्योपासनपर्यन्ततया प्रतीतेः । एतत्सर्वमुत्तरत्र प्रपञ्चितम् । चिरंतनैर्वाक्यकारादिभिश्च वेदनस्योपासनात्मकत्वमहरहरनुष्ठेयत्वं पञ्चमहाय– ज्ञादेस्तदङ्गतयानुष्ठेयत्वं च " वेदनमुपासनं स्यात् ” इत्यादावुक्तम् । अतोऽपि कर्म - ज्ञानस्य पूर्ववृत्तत्वमुचितम् । उद्गीथादिकर्माङ्गाश्रयोपासनानां ब्रह्मदृष्टिरूपत्वेनात्रैव निरूप्य - त्वात् तेषां च कर्मज्ञानापेक्षत्वाच्च तदज्ञाने तत्र तद्दृष्टेरशक्यत्वात् ; प्रस्तारप्रतिहारोद्गीथो- पद्रवनिधनात्मकसामादिस्वरूपे न्यायतो निरूपिते हि तच्छक्यत्वम् । ननु च तेषामै - हिकफलार्थत्वादपेक्षया पूर्ववृत्तत्वसंभवेऽपि ब्रह्मविद्याया न तदपेक्षेति चेत् — दृष्टयुपासनाना- मपि कर्मणां प्रतिबन्धफलहेतुत्वादनभिसंहितफलत्वेनानुष्ठाने शीघ्रफलापादकत्वेन विद्योप- कारकतया विद्यापेक्षितत्वात् ; वेदप्रामाण्यस्यापेक्षितत्वात् संयोगरूपचोदनाख्यानां शब्दान्त-) राभ्याससंख्यागुणप्रकरणान्तराणां चापेक्षितत्वात् तेषां च पूर्वकाण्डप्रथमद्वितीयलक्षणयोरेवो-’ " ।

( १ – १ – १) क्तत्वात्, नयप्रकाशिका २६१ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां तत्प्राबल्यदौर्बल्ययोरप्यपेक्षितत्वात् तेषां च तार्तीयत्वात् क्रत्वर्थपुरुषार्थयोरपेक्षितत्वात् तयोश्च चातुर्थिकत्वात्, श्रुत्यर्थपाठप्रवृत्तिमुख्यकाण्डानां चापेक्षितत्वात् तेषां च पाञ्चमिकत्वात्, अधिकारज्ञानस्या- पेक्षितत्वात् तस्य च षष्ठलक्षणसिद्धत्वात्, आनन्दादिगुणानामेकत्र श्रुतानां विद्या - न्तरेषु संबन्धसाधनात् तस्य चातिदेशाधीनत्वात् अतिदेशेऽप्यपेक्षितप्रतिपत्तेः सप्तमाष्ट- माधीनत्वात्, कर्मधीद्वारा प्यूहस्यापेक्षितत्वाच्च तस्य च नावमिकत्वात् विद्यासु बाधसमुच्च- योक्तिदर्शनात् तस्य च दाशमिकत्वात्, तन्त्रोक्तेरपि तत्र तत्र दर्शनात् विद्याङ्गकर्मसु स्फुट- त्वाच्च तन्त्रानुष्ठानस्य चैकादशलक्षणसिद्धत्वात्, विद्याङ्गकर्मानुष्ठाने गृहस्थस्याप्यधिकारसिद्धेः प्रासङ्गिकत्वाभिधानात् प्रसङ्गस्य द्वादशलक्षणाधीनत्वात्, देवतासु ब्रह्मदृष्टघादिविधानात् दे- वताज्ञानस्य देवताकाण्डाधीनत्वाच्च पूर्वकाण्डस्य कृत्स्नस्य हेतुत्वमुत्तरकाण्डस्य हेतुमत्त्वं च सिद्धम् । एकदेशतोऽपि हेतुता युक्ता, किमुत बहुतः। अत्रापौरुषेयत्वादिपरिहारेण वेदस्य प्रामाण्यं प्रसाध्यते । ननु – “शास्त्रयोनित्वात् ” “अत एव च नित्यत्वम् ” इत्यादौ तत्प्रामाण्यं प्रसाध्यत इति चेत्-न; ब्रह्मणः शास्त्र कसमधिगम्यत्वपरत्वाच्छास्त्रयोन्यधिकरणस्य; तर्हि वेदः प्रमाणमप्रमाणं वेति विचारः । " अत एव च नित्यत्वम् ” इत्यत्रापि जगतः प्रवाहा - नादित्वाभावे वेदस्यानित्यत्वशङ्कायां तत्परिहारमात्रस्य कृतत्वात् । न हि वेदस्य प्रामा- ण्याभावे तदर्थविचारोपपत्तिः । अथ तावन्मात्रापेक्षास्त्विति चेत्; तर्हि हेतुत्वं सिद्धम्, एकदेशतोऽपि हेतुत्वात् । फलसंयोगादयः शब्दान्तरादयश्च गुणोपसंहारपादे कृत्स्नश उपयुज्यन्ते ; श्रुतिलिङ्गादयस्तु सर्वत्र ; क्रत्वर्थपुरुषार्थता उद्गीथविद्यादौ ; श्रुत्यर्थादयस्तु गतिचिन्तायाम् ; अधिकारिता च साङ्गविद्यानुष्ठाने; विद्याविशेषेषु गुणविशेषाद्विकृतानुष्ठानरूप ऊहो विद्यत एव । नन्वेवं हेतुत्वसिद्धौ पाणिनिस्मृत्यादेरपि हेतुता स्यात्, शब्दलक्ष- णस्य तदपेक्षितत्वादिति चेत् – सत्यम् ; तस्यापि मीमांसा हेतुत्वेन स्वीकारात् ; अति- स्वाध्यायज्ञानहेतुभ्योऽङ्गज्ञानस्यार्थसिद्धत्वात् । अतः काम्यकर्मज्ञानस्य विरक्तिहेतुतया वेदा- न्तार्थविचारप्रवृत्तिहेतुत्वात् कर्मज्ञानमात्रस्य विद्याङ्गत्वेनोपयोगाद्वेदप्रामाण्यादेरुपयोगाच पूर्वोत्तरयोर्हेतुहेतुमत्ता सिद्धा । अत्र हेतुहेतुमद्भावोपपादनमभ्युच्चययुक्त्यपेक्षयोपन्यास- सौकर्याय । । |

२६२ श्रीभाष्यम् तटीका (जिज्ञासाधिकरणम्) ननु कर्मफलाल्पत्वादौ लिङ्गमात्रं दृष्टम् ; यथाश्रुतविरुद्धप्रत्ययदाढर्घाय प्राप्तिरपि वक्तव्या; कर्मस्वरूपनिरूपणं चात्र स्वयं प्रवृत्तेः प्रतिबन्धशान्त्यर्थम् ; हेतुस्त्वनन्तस्थिरफला- पातप्रतीतिरेव; सा कुतस्त्येत्यत्राह - तथेति; उक्तप्रकारेणास्य सूत्रस्याप्यैदमर्थ्यं यथा स्यात्त- थेत्यर्थः। चोऽवधारणे । अत्र क्षयित्वोक्तिरक्षयित्वोक्तिश्चाल्पत्वादेरुपलक्षिका । निश्चितसंवादे- नानिश्चितेऽर्थान्तरेऽपि श्रद्धासंवृद्धयै पूर्वं “तद्यथा” इत्यादिवाक्योदाहृतिः । लोकः ; लोक्यः, भोग्यः । देशपरत्वे तु ‘इह, अमुत्र’ इत्याभ्यामनन्वयः । कर्मचितः ; लौकिककर्मलब्धः । पुण्यचित इत्यविशेषोक्त्या निवृत्तिधर्मसाध्यस्यापि क्षयित्वभ्रमं निवारयितुमाह- अन्तवदिति । उपात्तवाक्यैकार्थ्यात् क्रियास्वरूपान्तवत्त्वस्यानपेक्षितवचनत्वाच्च फलद्वारात्रान्तवत्त्वोक्तिः । “ यो वा एतदक्षरं गार्ग्यविदित्वास्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि ” इति पूर्ववाक्यात् “यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रेति स कृपणः 99 इत्युत्तर- वाक्याच्च ’ अन्तवत्’ इत्यस्य ब्रह्मवेदनरहितकर्मविषयत्वसिद्धौ ’ पुण्यचितः ’ इत्य- त्रोत्तरेषु च तद्विषयत्वं सुगमम् । ज्ञानरहितकर्मसु स्वर्गस्वाराज्यादिफलभेदवत् केषु- चिन्नित्यफलभेदसंभवात् “ सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः" इति श्रवणाच्चात्रोपात्तं वाक्यं प्रायिकविषयं स्यादित्यत्राह - न हीति । अधवैः ; अधवफलसाधनतया चोदितैरित्यर्थः " ध्रुवं तत् " इति वाक्यखण्डान्वयान्नित्यफलार्थत्वाभावः ख्याप्यते । ৩


पुनरावृत्तिनिय - मवतः सर्वकर्मनिर्मूलनत्वायोगेन ध्रुवफलसाधनत्वाभावं द्रढयति - प्लवा इति । अदृढाः; तमसः पारं गमयितुमक्षमाः । “ अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ।" इति ह्यत्र वाक्यशेषः । अथ सूत्रार्थानुगुणं कर्मणां नित्यफलसाधनत्वाभावनिश्चयस्य निर्वेदहेतुत्वं ब्रह्मज्ञानस्यानन्तफलत्वं च समुच्चित्य चदद्वाक्यमाह – परीक्ष्येति । इयं श्रुतिः सारे व्याख्याता - " ब्राह्मणः ; वेदाभ्यास- रतः । कर्मचितान् ; कर्मणा संपादितान् । लोकान्; आराध्यक्षयित्वेन क्षयस्वभावान् । कर्ममीमांसया परीक्ष्य । अकृतः ; नित्यः परमपुरुषः । कृतेन कर्मणा । नास्ति ; न संपद्यते । इति यो निर्वेदमायात्, स तद्विज्ञानार्थं गुरुमेवाभिगच्छेत् समित्पाणिः । श्रोत्रियम् ; वेदान्तवेदिनम् । ब्रह्मनिष्ठम् ; साक्षात्कृतपरमपुरुषस्वरूपम् । गुरुः सम्यगुपसन्नाय तस्मै येन विद्याविशेषेण तमक्षरं सत्यं परमपुरुषं विद्यात् तां ब्रह्मविद्यां ; स च ;. CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) 66 तत्त्वटीका २६३ अत्र प्रोवाच ; प्रब्रूयादित्यर्थः, ‘स गुरुमेवाभिगच्छेत् तस्मै स विद्वान् प्रोवाच’ इत्यनन्वयात् अप्राप्तत्वाच्च ; विधावपि लिटो विधानात् ‘छन्दसि लुङ्लङ्गलिटः इति ’ इति । न्यायसिद्धानुवादांशे जातिवाचिनोऽपि ब्राह्मणशब्दस्य प्रकृतकर्मपरीक्षणौपयिकसाङ्गाध्येतृ- समर्पणेनाजहल्लक्षणया त्रैवर्णिकविषयत्वार्थं " वेदाभ्यासरतः " इत्युक्तम् । ब्रह्म अण- तीत्यपि ब्राह्मणशब्दं निर्बुवन्ति । आराध्यक्षयित्वेन " इति सुकृतविनाशोपलक्षणम् " कर्ममीमांसया " इत्यर्थलभ्योक्तिः । अकृतशब्दस्य पुंलिङ्गतानुरोधात् वाक्यशेष- शक्त्या च परमपुरुषो विशेष्यो दर्शितः । अत्र नास्तिशब्देनाकृतस्य स्वरूपनिषेधायोगात् कर्मणेत्यनेन चानन्वयात् उत्पत्तिनिषेधस्यानपेक्षितत्वात् " न संपद्यते " इत्युक्तम् । कृत- शब्दस्य भावार्थव्यक्त्यै कर्मणेति प्रतिपदम् । तद्विज्ञानार्थम् ; आपातधीस्थस्याकृतस्य तस्य विशदबोधायेत्यर्थः । समित्पाणित्वमिह ब्रह्मविद्याश्रवणार्थोपनयनान्तरव्यञ्जनार्थमिति केचित् । उक्तं हि छान्दोग्ये जाबालं प्रति गौतमेन – “ नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेप्ये " इति । अन्ये त्वाहुः — अनुपनीते जाबाले युक्तमुपनय- नम् ; अन्यत्र तु समित्पाणित्वोक्तिररिक्तपाणित्वोपलक्षणार्थी; दृश्यते हि वैश्वानर- विद्यायाम् – " ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच " इति । प्रजापतिवाक्ये चैकस्यैवेन्द्रस्य बहुषु प्रश्नेषु " समित्पाणिः पुनरेयाय " इत्या- वर्त्यते । न हि तत्र बहुवारमुपनयनं दृष्टमिष्टं वा । सूत्रकारश्च " संस्कारपरामर्शात् ” इत्येतावन्मात्रं वक्ष्यतीति । " एकां शाखामधीत्य श्रोत्रियः " इत्युक्तस्याधीतस्वाध्याय- मात्रस्य प्रकृतानुपकारकतया " वेदान्तवेदिनम्” इति श्रोत्रियशब्दस्यात्राकामहतश्रोत्रिय- परत्वं दर्शितम् । स्फुटप्रवचनक्षमत्वमदृष्टत उपकारकतमत्वं च ब्रह्मनिष्ठशब्दाभिप्रेत- मित्याह- साक्षात्कृतपरमपुरुषस्वरूपम् " इति । " प्रशान्तचित्ताय " इत्युक्तत्वात् शमोऽत्र बाह्यकरणव्यापारान्तरनिवृत्तिः । शमदमाविह श्रवणौपयिकावधानार्थो ; “तस्मा- देवंविच्छान्तो दान्तः इत्यादौ तु श्रवणतो विदितार्थस्य विद्यार्थी । " येन इत्यत्र लिङ्गव्यत्ययस्य क्लिष्टत्वात्सामान्योपक्रमत्वं द्योतयति – “ विद्याविशेषेण " ” इति तथा च प्रयुञ्जते " तत्र बाधकमभवत् क्षणभङ्गो वा बाह्यार्थभङ्गो वा ” इत्यादि । स्व- रूपतः स्वभावतश्च विकारं निवर्तयद्भयामक्षरसत्यपदाभ्यां प्रधानक्षेत्रज्ञव्यवच्छेद इत्यभि- प्रायेणाह “ परमपुरुषम् ” इति । संशयविपर्ययार्हवचनमपूर्णवचनं च क्षेप्तुं “तत्त्वतः " "


99 9.

२६४ श्रीभाप्यम् (जिज्ञासाधिकरणम्) " इति विशेषणम् ; " आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः " इति स्मरन्ति । वृत्तार्थकथने भ्रमनिरासायाह - " प्रब्रूयात्” इति । ’ अभिगच्छेत्’ इत्युपक्रमप्रतीत- विधिबाधेन व्यत्ययानुसरणं क्लिष्टम् ; अतः ‘प्रोवाच’ इत्यस्य भूतपरत्वेऽनन्वय इत्यभि- प्रायेणाह - " स गुरुमेव " इति । नियमविधित्वमवधारणेन व्यञ्जितम् । प्रोवाचेत्यस्य विधिपरत्वे हेत्वन्तरमाह – “ अप्राप्तत्वात् " इति । यद्यपि लाभाद्यपेक्षया कस्यचिद्रागतः प्रवृत्तिः, तथापि तन्निरपेक्षस्य गुरोः सच्छिष्यविषये धर्मार्थमिदं विधीयत इति न विरोधः । लिटो लिङर्थत्वस्य विशेषतोऽनुशिष्टत्वमप्याह- .” विधावपि इति । ब्रह्मज्ञानस्य परशब्दनिर्दिष्टब्रह्मप्रापकतया प्राकरणिकनित्यनिरतिशयानन्दप्रापकत्वमभिप्रे- त्याह-ब्रह्मविदिति । ब्रह्म प्रातस्यापि स्वर्गादिन्यायात् " इमान् लोकान् ” इत्यादिभिश्च पुनरावृत्त्यादिशङ्कां परिहर्तुमाह-न पुनरिति । मृत्युरिह मरणम्, " मोहो मृत्युः संमतो यः कवीनाम् " इत्याद्युक्तं वा । पाप्मनां निःशेषक्षये मृत्यूपलक्षितं सर्व- मनिष्टं न स्यात्, लोकानुसरणं चैच्छमिति भावः । तदेकदर्शनमिहोपायः फलं वा । “न प्रेत्य संज्ञास्ति” इति विद्याप्रकरणस्थवाक्येन मुक्तस्य ज्ञानलोपशङ्कां निवर्तयन् मृत्युतत्कार्य- निवृत्तिं च व्यनक्ति न पश्य इति । मुक्तस्य तदातनपरदुःखप्राक्तनस्वदुःखदर्शनेऽपि तयोः स्वाश्रितत्व वर्तमानत्वाभावान्न तं प्रति प्रतिकूलत्वम् । एवं हि बन्धदशायामपि दृष्टम् । तत्र तु परदुःखदुःखित्वं गतानुशोचनं च कर्मोपाधिकमेव ; " न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति " इत्यादिना विशेषेण दृश्यमानेष्वपि स्वप्रातिकूल्य- दर्शनं नास्तीति हि स्थाप्यते । पश्योऽत्र " तदेकं पश्यति " " इति समानप्रकरणात् ब्रह्मदर्शी जीवः । पश्यतीति व्युत्पत्त्या परमात्मन्यपि, “पश्यः पश्यति पश्यन्तम्” इत्यादि- प्रयोगदृष्टेः । ब्रह्मात्मकतया सर्वस्य दर्शनात्तदेकदर्शन सर्वदर्शनयोर्न विरोधः । न केवलं निर्व्यापारसार्वश्यमात्रम्, “अन्यराजानस्तेऽक्षय्यलोका भवन्ति " इत्याम्नातकर्म- मूलानीश्वरपारतन्त्र्यनिवृत्त्या स्वच्छन्दवृत्तिश्च स्यादित्यभिप्रेत्याह-स स्वराडिति । अत एवेश्वरपारतन्त्र्यस्थितावपि " स्वराट् स्वतन्त्रः " इति नैघण्टुकोक्तिर्न विरुध्यते । अमृतत्वस्योपायान्तरनिषेधश्रुत्या कर्मसाध्यामृतत्वोक्तेरन्यपरत्वं द्रढयति – तमेवमिति । अत्र च गुणविभूतिविशिष्टमहापुरुषपरामर्शात् जीवस्यैव निर्विशेषस्वरूपधिया पुरुषान्तरधिया वा मुक्तिः स्यादिति परेष्टं निरस्तम् । ऐक्यभेदाभेदबुद्धयोरमृतत्वहेतुत्वं श्रुत्यैव क्षिप्तमित्याह- —

( १ – १ – १) तत्त्वटीका २६५ पृथगिति । ततः उपासनरूपात् पृथक्त्वमननादित्यर्थः। तेन जुष्टः, प्रेरकेण प्रीतिविषयी- । कृतः। अनेन स्थिरस्य परानुग्रहस्यैव फलद्वारतोक्तिः; “धातुः प्रसादात्” इति च श्रूयते । नन्वत्र " आमानं प्रेरितारं च " इति समुच्चित्य मननमुक्तम् ; अतोऽन्यज्ञानस्यापि मोक्ष- हेतुत्वं भाति ; सत्यम् ; न तावता प्रेरकप्राधान्यमपहियते । " कश्चिद्धीरः प्रत्यगात्मा- नमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ” इत्याद्यपि परविद्याङ्गजीवदर्शनपरम् । आदिशब्दो भावः ; ; “भूयसां स्याद्बलीयस्त्वम्” इति न्यायेन वाक्यान्तरैरप्युक्तदृढीकरणार्थः । अथैभिरेव वाक्यैर– पेक्षितज्ञप्तिं यथारुचि विचारप्रवृत्तिसंभवं च मन्वानः कश्चिद्ब्रह्मविचारस्य कर्मविचारान- पेक्षत्वं चोदयति –नन्विति । चकार उद्गन्धैरपि प्रत्युक्तिव्यञ्जितैः पूर्वचोद्यैः समुच्चयार्थः । आद्य एवकारो विचारनैरपेक्ष्यपरः; द्वितीयस्तु ज्ञानानुत्पत्तिनिरासार्थः । मुमुक्षुः प्राग्भ- वीयपुण्यमहिमक्षीणकाम्यरुचिरित्याशयः । किमर्था; न दृष्टार्था, अन्यथापि मुमुक्षुत्वस्य ब्रह्मविचारस्य च संभवात् ; नाप्यदृष्टार्था, अवैधत्वादिति भावः । अत्र प्रतिबन्धा प्रति- वक्ति — एवं तर्हीति; धीमात्रतुष्ट्या त्यक्तकर्मविचारश्चेदित्यर्थः ; ‘एवं न प्रवर्तताम्’ इति वान्वयः । अपिशब्दाभिप्रेतं हेतुं विवृणोति – साङ्केति । त्वदुक्तादेवेत्यवधारणाभि- प्रायः । कृत्स्नस्य; ब्रह्मतदुपास्त्यादेः । अत्रापातधीश्चेदिष्टप्रसङ्गः ; न तया विचार्यत्वा- निर्णयस्त्वमीमांसिते कथं स्यादिति मत्वा चोदकः पुनराह – सत्यमिति । अङ्गीकृतमर्थं व्यनक्ति —– अपातेति । तावतापि न्यायैरनिर्णीततया " अन्नमत्ति " इत्या- दिभिरल्पास्थिरफलधीः, असकृदव्याकृताकाशप्राणादिकारणत्वसंशयः, तान्येवानुविन- श्यति ” इत्यादिभिरात्मनाशभ्रमश्च न निवर्तेतेत्यभिप्रायेणाह – तथापीति । अनिस्तीर्णा प्रतिबन्दिरिति पश्यन् तत्फलत्वेनोत्तरमाह – ; तथैवेति । भवान् ; क्वचिदप्यापातधीमात्रा- दतृप्तो वाक्यान्तराण्यपि निर्दिधारयिषुस्त्वमिति भावः । अत्र हि कर्मभागेऽपि " अनन्तं हवा अपारमक्षय्यं लोकं जयति ; योऽग्नि नाचिकेतं चिनुते " इत्यादिभिरापाततोऽनन्त- स्थिरफलधीरस्ति । ब्रह्मज्ञानफलं चानुविनाशादिश्रुत्या आत्यन्तिकप्रलयस्मृत्या चान- र्थरूपमिव भाति । अतः स्वरसवृत्त्या प्रथमातिक्रमे कारणाभावात्कर्मविचारनैरपेक्ष्य है- तुर्नास्ति ; तदिदमभिप्रेत्योक्तं सारे - " अधीतवेदस्य हि पुरुषस्य कर्मप्रतिपादनोपक्रम - द्वेदानां कर्मविचारः प्रथमं कर्तव्य इति ’ अथातो धर्मजिज्ञासा ’ इत्युक्तम् " इति । 4 66 34

२६६ ब्राह्मण:; श्रीभाष्यम् मूलभावप्रकाशिका (जिज्ञासाधिकरणम्) तथा चेति ; चस्त्वेवकारार्थः । यथा कर्मविचारन्यायानां कर्मफलानित्यत्वावगम- कत्वं तथैवेत्यर्थः । दहरविद्यावाक्यमुदाहरति — तद्यथेति । कर्मचितः; राजसेवादि- कर्मणा चित आर्जितः । लोकः ; लोक्यत इति लोकः, फलमित्यर्थः । अक्षरब्राह्मण- गतवाक्यमुदाहरति — अन्तवदेवेति । “यो वा एतदक्षरं गार्ग्यविदित्वास्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति” इति श्रुतिः ; भगवत्स- माराधनत्वज्ञानपूर्वकमनुष्ठितमनभिसंहितफलं कर्म ब्रह्मविद्यां निष्पाद्य मुक्ति हेतुर्भवति, नान्य- दित्यर्थः । ’ न ह्यध्रुवैः प्राप्यते ध्रुवं तत्” इति कठवल्लीश्रुतिः, अध्रुवैः कर्मभिः ध्रुवं नित्यं तद्ब्रह्म न प्राप्यत इत्यर्थः । आथर्वणश्रुतिमुदाहरति– प्लवा ह्येत इति । अदृढाः प्लवाः ; संसारसागरतारणासमर्था इत्यर्थः। आथर्वणवाक्यान्तरमाह – परीक्ष्यति । कर्मचितान् ; कर्मसंचितान् कर्मसंपाद्यान् ; लोकान् परीक्ष्य ; मीमांसान्यायैर्निरूप्य; अधीतसाङ्गसशिरस्कवेदः । यः ’ इत्यध्याहार्यं सः’ इत्युत्तरत्र श्रवणात् । अकृतः; नित्यः; अत्र पुरुषो विशेष्यः, लिङ्गवशात् " अक्षरं पुरुषम् " इत्यनन्तरोक्तेश्च । कृतेन; कर्मणा ; नास्ति ; न सिध्यति, न लभ्यते । इतिकरणं द्रष्टव्यम्; इति यो निर्वेद- मायात्स तद्विज्ञानार्थं गुरुमेवाभिगच्छेत् । एवकारेण नियमविधित्वमवगम्यते । समित्पाणिः; न रिक्तपाणि:; ‘“ रिक्तपाणिस्तु नोपेयाद्राजानं दैवतं गुरुम् " इति हि स्मर्यते । श्रोत्रियम् ; श्रुतत्वेदान्तम् ; ब्रह्मनिष्ठम् ; ब्रह्मसाक्षात्कारवन्तम् ; श्रुतवेदान्तोऽपि रुचिभेदादब्रह्मनिष्ठो नो पगन्तव्य इति भावः । अभिगच्छेदित्यन्वयः । शमः बाह्येन्द्रियनियमनरूपः, ‘प्रशान्तचित्ताय ’ इत्यन्तःकरणनियमनस्योक्ततया पारिशेष्यात् । एतेन श्रवणोपयुक्तमवधानं विवक्षितम्, न तूपासनोपयुक्तात्यन्तेन्द्रियजयादिः । तस्मै स विद्वान् प्रोवाचेत्यन्वयः । येनेति निर्देशो विज्ञानाभिप्रायः; तद्विज्ञानार्थमिति हि प्रकृतम् ; सामान्यतः कारणाभिप्रायो लिङ्गव्यत्ययो वा । अक्षरम् ; स्वरूपेणाविकारम् । सत्यम् ; गुणतोऽप्यविकारम्; आभ्यामचिज्जीवव्यावृत्तिः। तां ब्रह्मविद्यां प्रोवाचः प्रब्रूयादित्यर्थः । इति वेदान्तसारे व्याख्यातम् । कर्मफलानित्यत्वप्रतिपाद- कवाक्यान्युक्त्वा ज्ञानफलनित्यत्वप्रतिपादकवाक्यान्युदाहरति — ब्रह्मविदिति । न पुनरिति; मृत्युः प्रमादो मोहो वा ; “मोहो मृत्युः समतो यः कवीनम् ” “प्रमादं वै मृत्युमहं ब्रवीमि " इत्युभयत्र मृत्युशब्दव्यपदेशात् । प्रमादो यथावस्थितात्मस्वरूपाज्ञानम् ; मोहो भ्रान्तिः ।

(१ – १ – १) मूलभावप्रकाशिका २६७ o । तत् ब्रह्म एकम् ; निःसमाभ्यधिकमित्यर्थः । " न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् " इति भूमविद्यावाक्यम् । पश्यः ब्रह्मदर्शी । दुःखताम् ; जगतः प्रतिकूल- तामित्यर्थः । " स वा एष एवं पश्यन्नवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्म- मिथुन आत्मानन्दः स स्वराड् भवति " इति भूमविद्यावाक्यम् । अत्र भूमशब्दितपरमात्म- विषयकमनननिदिध्यासनसाक्षात्कारवानात्मरतिर्भवति ; आत्मन्येव रतिर्यस्य स तथोक्तः 1 - स्रक्चन्दनादिजन्यप्रीतिस्तु रतिः । उद्यानादिजन्या प्रीतिः क्रीडा । स्त्रीसंभवा प्रीति- मिथुनम् । विभूतिजन्या प्रीतिरानन्दः ; सर्वविधसुखानुभवोऽप्यात्मसुखान्तर्गत इत्यर्थः । स्वराट् ; स्वयमेव राजा, विधिनिषेधाकिङ्करः, अकर्मवश्य इति यावत् । तमेवं विद्वान - मृत इह भवति, तच्छब्देन " वेदाहमेतं पुरुषम् " इति पूर्वनिर्दिष्टः पुरुषः परामृश्यते । * एवंशब्देन " आदित्यवर्णं तमसस्तु पारे " इति पूर्वनिर्दिष्टादित्यवर्णत्वतमःपारवर्तित्वादि- * प्रकारः परामृश्यते । अमृत:; मुक्तः । ईयते प्राप्यत इति अयनं मोक्षः । श्वेताश्वतरवाक्य- मुदाहरति — पृथगात्मानमिति । आत्मानं नियन्तारमीश्वरं च नियाम्यत्वनियन्तृत्व | दिना पृथङ् मत्वा । ततः ; पृथक्त्वज्ञानात् । तेन; परमात्मना । जुष्टः ; प्रीतिविषयीकृतः; अनुगृहीतोऽमृतत्वमेतीत्यर्थः । नन्वित्यादिग्रन्थो निगदव्याख्यातः । परमुखेन समाधातुं प्रति- -बन्दीमाह — एवं तहींति । CC-0 No Rights Reserved. Digitized by eGangotriलघुपूर्वपक्ष: श्रीभाष्यम् ननु च ब्रह्मजिज्ञासा यदेव नियमेनापेक्षते तदेव पूर्ववृत्तं वक्तव्यम्। न धर्मविचारापेक्षा ब्रह्मजिज्ञासायाः, अधीतवेदान्तस्यानधि- गतकर्मणोऽपि वेदान्तवाक्यार्थविचारोपपत्तेः । कर्माङ्गाश्रयाण्युद्गीथा- द्युपासनान्यत्रैव चिन्त्यन्ते ; तदनधिगतकर्मणो न शक्यं कर्तुमिति चेत् — अनभिज्ञो भवान् शारीरकशास्त्रविज्ञानस्य ; अस्मिन् शास्त्रे - ऽनाद्यविद्याकृत विविधभेददर्शननिमित्तजन्मजरामरणादिसांसारिकदुःख- सागरनिमग्नस्य निखिलदुःखमूलमिथ्याज्ञाननिबर्हणायात्मैकत्वविज्ञानं प्रतिपिपादयिषितम् अस्य हि भेदावलम्बिकर्मज्ञानं कोपयुज्यते ? ; प्रत्युत विरुद्धमेव । उद्गीथादिविचारस्तु कर्मशेषभूत एव ज्ञानरूपत्वा- विशेषादिहैव क्रियते । स तु न साक्षात्संगतः । अतो यत्प्रधानं शास्त्रं तदपेक्षितमेव पूर्ववृत्तं किमपि वक्तव्यम् । बाढम् तदपेक्षितं च कर्मविज्ञानमेव, कर्मसमुचिताज्ज्ञानादपवर्गश्रुतेः ; वक्ष्यति च “सर्वा- पेक्षा च यज्ञादिश्रुतेरश्ववत् " इति । अपेक्षिते च कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातुम् । अतस्तदेव पूर्व- वृत्तम् । नैतद्युक्तम् ; सकलविशेषप्रत्यनोक चिन्मात्र ब्रह्मविज्ञाना- देवाविद्यानिवृत्तेः । अविद्यानिवृत्तिरेव हि मोक्षः । वर्णाश्रमविशेषसा- ध्यसाधनेतिकर्तव्यताद्यनन्तविकल्पास्पदं कर्म सकलभेददर्शननिवृत्ति- रूपाज्ञाननिवृत्तेः कथमिव साधनं भवेत् ? श्रुतप्रकाशिका एवं फलद्वारा हानाय कर्मज्ञानापेक्षा दर्शिता । अथ स्वरूपेणोपादानाय च नियमेन कर्मज्ञानापेक्षास्तीति दर्शयितुं मुमुक्षोः कर्मणो नियमेनानपेक्षितत्वलक्षणं परपक्ष- मुपक्षिपति – ननु चेति । नियमेनापेक्षितत्वस्य विवक्षितेतरगामित्वव्युदासार्थः प्रथम

( १ – १ – १ ) श्रुतप्रकाशिका २६९ एवकारः ; द्वितीयस्तु नियमेनानपेक्षितस्य पूर्ववृत्तत्वनिवृत्त्यर्थः । ततः किमित्यत्राह नं धर्मेति । कुत इत्यत्राह — अधीतेति । ये ब्रह्मविद्याधिकारिणस्तेषां सर्वेषामपेक्षितं हि नियमेनापेक्षितम् ; वेदान्तमात्राध्यायिनस्तु तत्रैवापातप्रतीतिर्बुभुत्सा च स्यात् ; त कर्मविषयापातप्रतीत्यभावान्न कर्मविचारस्य नियमेनापेक्षेत्यर्थः । यद्वा अधीत कृत्स्नवेदस्यापि जन्मान्तरसुकृतवशाद्वेदान्तवाक्य एव बुभुत्सा जायते चेत्तस्य न कर्मविचारापेक्षेति । तदा ’ अधीतवेदान्तस्य’ इति पदमयोगव्यवच्छेदपरं, न त्वन्ययोगव्यवच्छेदपरम् । कृत्स्नवेदाध्यय- नादपेक्षितवेदान्तभागोऽप्यधीत एवेत्यर्थः । एवं हानार्थमपि कर्मणो ज्ञातव्यत्वं निषिद्धम् । उपादानार्थमपि न ज्ञातव्यमित्युपपादयितुं वेदान्तमात्र बुभुत्सोरपि कर्मविचारापेक्षां शङ्कते - कर्माङ्गेति । एकस्य साम्नः पञ्च भागाः सन्ति ; ते प्रस्तावोद्गीथप्रतिहारोपद्रव- निधनाख्याः । एते भागा भक्तिशब्दाभिधेयाः । तासु पञ्चसु भक्तिषु प्रस्तावो हिंकारपूर्वं गीयते ; उद्गीथः प्रणवपूर्वं गीयते । । तत्र पञ्चविधसामोपासनमपि कचिद्विधीयते लोकेषु पञ्चविधं सामोपासीत " इति । क्वचित्सामावयवेषु पञ्चस्वैकैकावयवोपासनं 66


विधीयते । क्वचिच्चावयवावयवभूतप्रणवाद्युपानं विधीयते १ – “ ओमित्येतदक्षरमुद्गीथ- मुपासीत ” इति । कर्माङ्गाश्रयाणि ; कर्माङ्गभूतोद्गीथादिविषयाणि । अनधिगत- कर्मण उद्गीथाद्युपासनचिन्तनं न शक्यं कर्तुमिति प्रतिज्ञा । ’ कर्माङ्गाश्रयाणि ’ इति हेतुगर्भविशेषणम् । कर्माङ्गोद्गीथाद्याश्रयाण्युपासनानि’ इत्युक्ते सति हेतावुद्गीथ- शब्दस्य वैयर्थ्यं स्यात् ; उपासनमात्रस्य च पक्षीकारः प्रतीयेत । अतो यथोक्तैव वचनव्यक्तिर्युक्ता । अनधिगते कर्मण्युद्गीथादिविषयोपासनचिन्ताया अशक्यत्वात् कर्म- विचारोऽपेक्षित इति चेदित्यर्थः । सोपालम्भं परिहरति- सोपालम्भं परिहरति — अनभिज्ञ इति । शास्त्रे प्रधानतया प्रतिपाद्यं ज्ञानम् ’ इदम्’ इति त्वया न ज्ञातमित्यर्थः । अत्र किं प्रधान- प्रतिपाद्यं ज्ञानमित्यत्राह — अस्मिन्निति । भेदो ज्ञातृज्ञेयज्ञानरूपः । वैविध्यं तद्- वान्तरविधाबाहुल्यम् । एवंविधभेददर्शनस्य हेतुरविद्या; तस्याः को हेतुरित्यनवस्था- परिहारार्थमनादिशब्दः । एवमविद्याकृतभेददर्शननिमित्तकं जन्मजरामरणादिकमेव सां- सारिकं दुःखम् | आदिशब्देन नरकगर्भवासादिग्रहणम् । संसारः प्रकृतिसंबन्धः, तत्प्रभवं


। १. ’ विधीयते ’ इत्यस्यानन्तरं क्वचित्कोशेषु ‘तत्रोद्गीथावयवभूतप्रणवोपासनं विधीयते’ इत्यधिकः पाठो दृश्यते ; स तु न संगत इति भावप्रकाशिकायामुक्तम् ।

२७० श्रीभाष्यम् (जिज्ञासाधिकरणम्) सांसारिकम् ; निरसनीयत्वाय दुःखरूपत्वोक्तिः । सागरशब्दस्तदानन्त्यपरः । निमग्नस्येति दुःखनिवृत्त्युपायापेक्षाहेतुतयोक्तमधिकारिस्वरूपमुक्तम् । प्रयोजनमाह – निखिलेति । मिथ्याज्ञानं भ्रान्तिज्ञानम्;“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायात् " इति प्रयोगात् । भ्रान्तिज्ञानं च भेददर्शनम् । यद्वा मिथ्याभूतमज्ञानं मिथ्याज्ञानम् ; ज्ञाननि- वर्त्यत्वाय मिथ्याशब्दः; तस्य निबर्हणाय । तन्निबर्हणमेव मोक्ष इत्यभिप्रायः । तत्साधनं कि- मित्यत्राह - आत्मैकत्वंविज्ञानमिति । सर्पभ्रमस्य रज्जुयाथात्म्यज्ञानं हि निवर्तकं, न तु कर्मविशेषः ; एवं भेददर्शनस्याविद्या कृतत्वादैक्यज्ञानमेव तन्निवर्तकमिति तत्रैव तात्पर्यं वेदान्तवाक्यानामित्यर्थः । ततः किमित्यत्राह - अस्य हीति । कोपयुज्यते ? न कुत्रचित् ; ज्ञानस्वरूपोत्पत्तौ तत्फलोत्पत्तौ, ज्ञानोत्पत्तिसाधनानुग्रहे वा नोपयुज्यत इत्यर्थः । न केवलमुपयोगाभावः, प्रतिकूल फलत्वमपीत्याह — प्रत्युतेति ; द्वैतवासना- जनकत्वादित्यभिप्रायः । तथाप्युपनिषत्स्वधीतत्वात् ब्रह्ममीमांसायां निरूप्यमाणत्वाच्चो- श्रीयाद्युपासनं ब्रह्मविद्यापेक्षितमित्युद्गीथादिविचारः साक्षात्संगत इत्यत्राह – उद्गीथादीति । तर्हि कथमुपनिषत्स्वध्ययनं, ब्रह्मविचारे तद्विचारश्चः इत्यत्राह – ज्ञानरूपत्वाविशेषादिति । ज्ञानरूपत्वसाम्याद् बुद्धिस्थतया कृतः, न तु प्रधानार्थोपयोगित्वादित्यर्थः । ततः किमि- त्यत्राह - स त्विति । तुशब्दद्वयं शङ्काद्वयव्यावर्तकम् । प्रधानप्रतिपाद्योपयुक्तस्यैव पूर्ववृत्तत्वं निगमयति-अत इति । किमपि कर्मविचारादन्यदिति भावः । प्रधानार्थोपयो- गित्वेन संगतिः साक्षात्संगतिः ; येन केनाप्याकारेण साम्याहुद्धिस्थत्वं प्रसंगात्सङ्गतिः । अतः प्रासङ्गिकोद्गीथाद्युपासनचिन्तापेक्षितस्य प्रधानार्थविरुद्धस्य कर्मविचारस्य न पूर्ववृत्तता -युक्ता, अपितु प्रधानप्रतिपाद्यात्मैकत्वविज्ञानापेक्षितमेव किमपि पूर्ववृत्तं वक्तुं युक्तमित्युक्तं भवति । अत्र भास्करीयाः प्रत्यवतिष्ठन्ते - बाढमिति । बाढमित्यर्धाङ्गीकारे ; यत्प्रधानं शास्त्रं तदपेक्षितमेव पूर्ववृत्तमित्येतावन्मात्रविषयोऽङ्गीकारः । तदपेक्षितं चेति प्रतिज्ञा । त्वया यदनपेक्षितमित्युक्तं तदेवापेक्षितमित्येवकाराभिप्रायः । कुत इत्यत्राह - कर्मसमुच्चिता- दिति ; समुच्चितशब्दः साहित्यमात्रपरः, न समसमुच्चयपरः । " अस्मद्विद्यात्मविद्या ति -समुच्चित्योपदेशात्” इत्यत्र समुच्चित्यशब्दवत् । ‘कर्मज्ञानाभ्याम् ’ इति न निर्दिष्टम् ; अपि तु ‘कर्मसमुच्चिताज्ज्ञानात्’ इति विशेषणविशेष्यभावेन निर्दिष्टम् ; अतो ज्ञानप्रा- धान्यमवगम्यते ; कर्माङ्गकाज्ज्ञानादित्यर्थः । श्रुतिश्च " यज्ञेन दानेन ” इत्यादिर्विवक्षिता चेति

C
(१–१ – १)
"
श्रुतप्रकाशिका
२७१
कर्मणो विद्याङ्गत्वे सूत्रकाराभिमतिं दर्शयति — वक्ष्यति चेति । चः प्रतिपादकसमु- न्चये । अङ्गतया कर्मणोऽनुष्ठानमपेक्षितमस्तु ; तज्ज्ञानस्य कथं पूर्वभावित्वम् ? कर्मज्ञानं ब्रह्मविचारपाश्चात्यं किं न स्यात् ? इत्यत्राह - अपेक्षिते चेति । प्रयाजादिवन्निष्पन्नस्य करणस्य फलोत्पत्तिदशायामनुग्राहकत्वेनाङ्गतयापेक्षा विवक्षिता । तृतीयस्य चतुर्थे पादे समावृत्ताक्कृतदारमृतदारादीनामाश्रमविशेषवर्तिनां च ब्रह्मविद्यानिष्ठानां कर्मस्वनुष्ठेयाननुष्ठेय- विभागस्य निरूपयिष्यमाणत्वमभिप्रेत्योक्तम् - केन समुच्चयः केन नेतीति । यद्वा नित्यनै- मित्तिकयोः समुच्चयः, न तु काम्यनिषिद्धयोरिति विभागो न ज्ञायत इत्यर्थः । अयमर्थः पदार्थज्ञानपूर्वकं हि वाक्यार्थज्ञानम् ; " यज्ञेन दानेन ” इत्यादिवाक्ये यज्ञादिकर्मणां पदार्थभूतत्वात् वाक्यार्थज्ञानस्य च पदार्थज्ञानपूर्वकत्वाद्यज्ञादिकर्मविचारस्य पूर्वभावि - त्वम् ; न हि " व्रीहीनवहन्ति ” इत्यादि वाक्यार्थज्ञानं व्रीह्यादिपदार्थज्ञानेन विनोपपद्यते पदार्थसंसर्गरूपत्वाद्वाक्यार्थस्य । ननु ’ गामानय ’ इत्यादिवाक्यात् व्युत्पत्तौ गवानयनादि- रूपं वाक्यार्थं पूर्वं प्रतिपद्यावापोद्वापमुरदेन पश्चात् पदार्थप्रतिपतेर्न पदार्थपूर्वकत्वनियमो वाक्यार्थज्ञानस्य । उच्यते — व्युत्पन्नाच्छन्दादर्थप्रतिपत्तौ सर्वत्र पदार्थज्ञानपूर्वकमेव वाक्यार्थज्ञानम् । व्युत्पत्तिदशायां तु प्रमाणान्तरेण शब्दान्तरेण वा वाक्यार्थावगमः पूर्वं स्यात् ; न तु तस्मादेव शब्दात् तस्यागृहीतसंबन्धत्वेन बोधकत्वायोगात् । त्पत्तावपि न वाक्यार्थधियः पूर्वभावनियमः ; अम्बातातमा तुलादिपदानां पदान्तरासंसृष्टाना- मेव प्रथमव्युत्पत्तिदर्शनात्, ’ अस्य शब्दस्यायमर्थः ’ इति व्युत्पत्तौ वाक्यार्थज्ञानस्य पूर्वभावा- भावाच्च । न चास्मिन्नेव वाक्ये यज्ञादिशब्दव्युत्पत्तिसंभवः, विविदिषानिष्पत्तिरूपवाक्या- र्थस्याप्रत्यक्षत्वेन गवानयनादाविव व्युत्पत्त्यनुपपत्तेः । अतः पदार्थज्ञानपूर्वकं वाक्यार्थज्ञान- मित्युक्तम् । बाढमित्यादिकं सिद्धान्तिनश्चोद्यपरमिति च व्याख्यातृभिर्व्याख्यातम् ; तदानी- मपि पदार्थवाक्यार्थभावः क्रमविशेषहेतुतया विवक्षितः । किंच ’ अपेक्षिते च’ इत्यङ्ग- तयापेक्षितत्वस्य विवक्षितत्वात् कर्मणां च ज्ञानोत्पादकतया तदङ्गत्वात्, उत्पादको - त्पाद्ययोः पौर्वापर्यनियमाद्विचारविषययोः कर्मज्ञानयोः पूर्वापरभावेन तच्छेषभूतयोर्विचारयोरपि तत्क्रमभात्त्वं न्याय्यमिति चाभिप्रायः । शेषभूतस्य शेषिक्रमानुरोधित्वं हि न्यायसिद्धम् ; यथा- सारस्वतौ होमौ भवतः " इति : युगपदुत्पन्नयोरपि सारस्वतहोमयोर्याज्यापुरोनुवाक्या -1 मन्त्रानुसारेण सरस्वतीयागस्य पूर्वभावे सरस्वद्यागस्य पश्चाद्भावे च प्राप्ते तदङ्गा-
66

व्यु-

२७२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) — नामपि तेनैव क्रमेणानुष्ठानं निर्णीतम् । दृष्टान्ते दाष्टन्तिके च शेषिणोः क्रमनिश्चायक- हेतुवैषम्यमेव । तयोः क्रमे निश्चिते शेषस्य शेषिक्रमानुरोधित्वं तत्र चात्र च तुल्यम् । एवं चोपासनस्यैव विचारं प्रति शेषित्वात् तृतीयलक्षणे कृतस्योपासनचिन्तन- स्यैव कर्मविचारापेक्षया पश्चाद्भाव इति न वाच्यम् ; विद्याविषयतत्फलचिन्तनस्यापि तदपेक्षितत्वेन कृत्स्नाया अपि ब्रह्ममीमांसायाः कर्मविचारपश्चाद्भावप्राप्तेः । निगमयति- अत इति । बाढमित्यादेः सिद्धान्तिचोद्यपरत्वादपि भास्करमतपरत्वं तूचितम् ; " कर्म- समुच्चिताज्ज्ञानादपवर्गश्रुतेः” इत्यस्य ग्रन्थस्य भास्करीयभाष्ये श्रूयमाणत्वात् अङ्ग- भावस्य तदभ्युपगतत्वेन तद्विषयसूत्रोपादानाविरोधाच्च शब्दतोऽर्थतश्च भास्करमतप्रत्यभिज्ञा- नात्, सिद्धान्तिचोद्यस्यापि तदन्तर्भावाच्च । भास्करपक्षं यादवपक्षं चोपजीव्य बाढमित्या-’ दिना पार्श्वस्थश्चोदयतीति च निर्वाह: सांप्रदायिकः । तत्रैवं योजना - कर्मसमुचितादिति ; समसमुच्चयो विवक्षितः । कर्मसमुचिताज्ज्ञानादिति विशेषणविशेष्यभावेन निर्देशो ज्ञानस्य मोक्षोपायत्वप्रसिद्धिप्राचुर्यनिबन्धनः । श्रुतिश्च " विद्यां चाविद्यां च " इत्यादिः । अस्मिन्वाक्ये मृत्युशब्द उपेयप्राप्तिविरोधिकर्मवाची । प्रतिबन्धनिवृत्तिः ब्रह्मप्राप्तिश्चेति साध्यद्वयम् क्रमेण कर्म ज्ञानं चेति साधनद्वयमिति हि यादवप्रकाशीयैरभ्युपगतम् । अतो " विद्यां चाविद्यां च ” इति वाक्ये पूर्वखण्डः साधनद्वित्वपरः, साध्यद्वित्वपर इति तेषां निर्वाहः । वक्ष्यति चेति चशब्दः प्रतिपाद्यसमुच्चये; अङ्गभाव उत्तरखण्डस्तु च वक्ष्यतीत्यर्थः । ज्ञानोत्पत्तेः पश्चात्कर्मणो ब्रह्मप्राप्तौ प्रतिबन्धनिवर्तकत्वं, ज्ञानात् पूर्वं कर्मणो ज्ञानोत्पादकतया तदङ्गत्वमपि हि तदभ्युपगतम् । अङ्गभावपरं सूत्रमुपादत्ते- सर्वापेक्षेत्यादि । इदं सूत्रमङ्गाङ्गिभावपरम्, “सहकारित्वेन च ” इति सूत्रं सम- समुच्चयप्रतिपादकमिति हि तेषां प्रक्रिया । अङ्गभावे समुच्चये च श्रुतिवाक्ये सूत्रे चोदा- हर्तव्येऽपि ग्रन्थलाघवार्थं समुच्चये श्रुतिरङ्गभावे सूत्रं चोदाहृतम् । अङ्गभावप्रतिपादक- वाक्यविषयसूत्रोपादानेन भास्करमतं चावलम्बितं भवति । एवमुभयथा कर्मणोऽपेक्षा दर्शिता ; ततः किमित्यत्राह - अपेक्षिते चेति ; , । 2 " " समप्रधानतया


अङ्गतया चापेक्षित इत्यर्थः । अन्यत्सर्वं पूर्ववत् । यद्यपि यादवप्रकाशमते कर्मविचारस्य पूर्ववृत्तत्वमनभिमतं तथापि समुच्चयेनाङ्गतया च कर्मणोऽपेक्षितत्वस्य तदुपपादि- तत्त्वात्तावन्मात्रमुपजीव्य पाश्वस्थेन मतद्वयावलम्बिना चोदयित्रा पूर्ववृत्तत्वापादनमुखेन CC-0 No Rights Reserved. Digitized by eGangotri(१–१ – १) श्रुतप्रकाशिका २७३ चोदितमिति न निगमनग्रन्थविरोधः । समुच्चयशब्दस्य प्रधानतयान्वयस्वारस्यात् अङ्ग- त्वं परसूत्रोपादानात् तदनन्तरं साध्यद्वित्वस्य साधनद्वित्वस्य च निराकरिष्यमाणत्वाच्च मतद्वयावलम्बेन चोदितमिति निर्वाह: पूर्वाचार्यैः कृतः । अत्र प्रतिवदति - नैतद्युक्तमिति । हानार्थं कर्मणां ज्ञातव्यत्वं प्रागेव प्रतिक्षिप्तम् । वेदान्तमात्राध्यायिनः कर्मविषयापात- प्रतीत्यभावेन कर्मविचारनैरपेक्ष्यवचनात् सुकृतवशाद्वेदान्तमात्र बुभुत्सावतः कर्मज्ञानानपेक्षा- वचनाच्चात्रोपादानार्थं कर्मणो ज्ञातव्यत्वं निराचिकीर्षुः समसमुच्चयेनाङ्गभावेन च द्विविधेऽप्यु- पादाने समसमुच्चयार्थमुपादानं प्रथमं निराकर्तुं साधनद्वित्वं साध्यद्वित्वं च वाक्यद्वयेन प्रतिक्षिपति — सकलविशेषेत्यादिना । यदा बाढमित्यादिग्रन्थो भास्करमतेन सिद्धान्तिमतेन वा चोद्यपरः, तदानीं पूर्वपक्षी संभावितसमस्तप्रकारेण कर्मणोऽपेक्षां प्रतिक्षेतुकामः किं त्वया समसमुच्चयो विवक्षितः, उताङ्गभाव इति विकल्पमभिप्रेत्य प्रथमं समसमुच्चयपक्ष प्रतिक्षि- पतीति निर्वाह्यम् । सकलविशेषाः ; सजातीयविजातीयस्वगतव्यावृत्त्यन्वयरूपविशेषाः; तेषां प्रत्यनीकं सर्पाद्याकाराणां रज्जुत्वमिव तेषां निवर्तकमिति भावः। चिन्मात्रमिति; मात्रचा ’ ज्ञातृत्वज्ञेयत्वव्यावृत्तिः । यद्वा सकलविशेषप्रत्यनीकशब्देन सजातीयविजातीयभेदप्रत्यनीकत्वं, चिन्मात्रमिति मात्रचा स्वगतभेदशून्यत्वं च विवक्षितम् । प्रत्यनीकशब्देन नित्यानर्हत्वं विवक्षितम् ; न हि शुक्तिशकलं कदाचिद्रजतत्वसंबन्धार्हम् ; नित्यानर्हत्वादेव हि शुक्ति- ज्ञानस्य रजतत्वनिवर्तकत्वम् । ब्रह्मविज्ञानादेवाविद्यानिवृत्तेरिति ; रज्जुत्वज्ञानादेव हि सर्पत्वनिवृत्तिः, न तु कर्मणेति भावः । एवं साधनद्वित्वं निरस्तम् । द्वित्वनिरासः ? साध्यद्वित्वं हि विद्यत इति शङ्कायां साध्यद्वित्वं व्युदस्यति — अविद्या- निवृत्तिरेव हि मोक्ष इति ; ब्रह्मणो नित्यप्राप्तत्वात् प्रतिबन्धनिवृत्तिरेव हि साध्या, न तत्प्राप्तिः । हिशब्दस्यायमभिप्रायः – या प्रतिबन्धनिवृत्तिः कर्मसाध्या त्वयोक्ता, सैव ज्ञात्वा देवं मुच्यते ज्ञानसाध्या श्रुतिस्मृतिसूत्रैरभिहिता “ तमेव विदित्वातिमृत्युमेति -सर्वपाशैः “ निचाय्य तं मृत्युमुखात् प्रमुच्यते तस्मिन् दृष्टे परावरे " " एवमेवंविदि पापं कर्म न लिप्यते भस्मसात्कुरुते तथा 99 66 कथं साधन- " क्षीयन्ते चास्य कर्माणि ’ 99 66 ज्ञानाग्निः सर्वकर्माणि " तदधिगम उत्तरपूर्वाघयोः” इत्यादिभिः । तस्माद्वाक्यद्वयेन •. - साध्यसाधनद्वित्वं नास्तीत्युक्तं भवति । अविद्यानिवृत्तिरेव मोक्षोऽस्तु ; ततः किं कर्म - १. मात्र प्रत्ययोपपत्तिः २२७ पुढे द्रष्टव्या । 35

D २७४ भवति । श्रीभाष्यम् (जिज्ञासाधिकरणम् ) रपेक्ष्यस्य ? इत्यत्राह–वर्णाश्रमेति ; अनेन पदेन पूर्वोक्तं कर्मणो भेदावलम्बित्वं विवृतं “आदिशब्देन निषिद्धानि प्रायश्चित्तकर्माणि च विवक्ष्यन्तेः अनन्तशब्देन सकलभेददर्श ननिवृत्तिरूपाज्ञाननिवृत्तेरिति ; मूलाज्ञाननिवृत्तेः फलं हि भेददर्शननिवृत्तिः ; अतो भेददर्शननिवृत्तिरज्ञाननिवृत्त्यन्तर्गतेत्यर्थः । वर्णादीनां बाहुल्यम् । विकल्पो भेदः । कथमिव साधनम् ? न कथंचिदपीति यावत् । भावप्रकाशिका ; विवक्षितेतरगामित्वव्युदासार्थः प्रथम एवकार इति विवक्षितं साधनचतुष्ट– यम्, तदितरः कर्मविचारः । अत्र केचित् — यच्छब्दान्वित एवकारः तावत्खल्वादि- शब्दवत् वाक्यालङ्कारार्थ एव ; न हि ’ ब्रह्मजिज्ञासा यन्नियमेनापेक्षते तदेव पूर्ववृत्तं वक्तव्यम्’ इत्यस्मादधिकस्यार्थस्यैवकारसहिताद्वाक्यात्प्रतिपत्तिरस्ति ; अस्य वाक्यस्य नियमेनानपेक्षितकर्म विचारपूर्ववृत्तत्वव्युदासमात्रपरत्वेन कर्मविचारे नियमेनापेक्षितत्वव्युदास- परत्वाभावादिति वदन्ति । तदेतदेवकारार्थानभिज्ञानंविजृम्भितम् । विशेष्यसंगतो ह्येवकारो विशेषणस्य तदितरयोगव्यवच्छेदार्थः ; ‘पार्थ एव धनुर्धरः’ इत्युक्ते हि धनुर्धरत्वरूप- विशेषणस्य पार्थेतरगामित्वं व्यवच्छिनत्त्येवकारः ; ’ पार्थ एव धनुर्धरः’ इति वाक्य पार्थादन्यो धनुर्धरो न’ इत्यर्थः । अत एव षड्शितिरित्येव ब्रूयात्” इत्यत्र एवकारोपबन्धात् षड्डुिंशतिमन्त्रो न विधीयते ; अपि तु तदितरमन्त्रो निषिध्यत इति पूर्वतन्त्रे निर्णीतम् । ततश्च ’ यदेव नियमेनापेक्षते’ इति वाक्यस्यायमर्थः यद्यति- रिक्तं नियमेन नापेक्षितं तद्व्यतिरिक्तं न पूर्ववृत्तमिति । ततश्च प्रथम एवकारो नियमेना- पेक्षितत्वस्य यच्छदार्थातिरिक्तगामित्वव्यवच्छेदार्थकः, द्वितीयस्तु यच्छन्दनिर्दिष्टात् तच्छब्दार्थादतिरिक्तस्य पूर्ववृत्तत्वव्युदासकः । इयांस्तु विशेषः — प्रथम एवकारोऽनुवादी; द्वितीयस्तु पुरोवादीति । वेदान्तमात्राध्ययनस्याशास्त्रीयत्वादाह - यद्वा अधीतकृत्स्न- वेदस्यापीति । न त्वन्ययोगव्यवच्छेद परमिति ; पूर्वभागाध्ययनव्यवच्छेदपरं 99 66 — नेत्यर्थः । । ननु “ साम्ना स्तुवीत इति साम्न एव स्तोत्रद्वारा कर्माङ्गत्वं नोद्गीथादे- रिति शङ्कामुद्गीथादिस्वरूपप्रकाशनेन निराकुर्वन्नादिपदग्रा चाह – एकस्य साम्न इत्यादिना । ननु कथं साम्नः पञ्चभागात्मकत्वम् ? हिंकारः, प्रस्तावः, आदिः, उद्गीथः प्रतिहारः, उपद्रवः, निधनम् इति सप्तविधत्वं दृश्यते ; अत एव हि " सप्तविधं 9

e 6 (१ – १ – १) भावप्रकाशिका २७५ सामोपासीत ” इति विधिरित्याशङ्कय हिंकारस्य प्रस्तावेऽन्तर्भावात्, आदिशब्दितस्यों- कीरस्य चोद्गीथेऽन्तर्भावात् पाञ्चविध्ये नानुपपत्तिरित्यभिप्रयन्नाह - प्रस्तावों हिंकारपूर्वं गीयत इति । एकैकोपासनं विधीयत इति ; " सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता, सैषा देवतोद्गीथम- न्वायत्ता " इत्यादिष्विति शेषः । क्वचिच्चावयवावयवभूतप्रणवाद्युपासनं विधीयते - ओमित्येतदक्षरमुद्गीथमुपासीतेति’ इति पाठः समीचीनः । मध्ये ‘तत्रोद्गीथावयवभूत, प्रणवोपासनं विधीयते’ इति कचित्पठ्यते, न तस्य सामीचीन्यं पश्यामः । " ओमित्येतद- -क्षरमुद्गीथमुपासीत” इति वाक्यस्योद्गीथावयवप्रणवोपासनविधिपरत्वं च “व्याप्तेश्च समञ्जसम् " इत्यत्र स्पष्टीभविष्यति । केचित्तु कर्माङ्गाश्रयेति भाष्यस्यायमर्थः – कर्माङ्गाश्रयोद्गीथस्या- दिरुद्गीथादिः प्रणवः, तस्योपासनमिति ; अत एवैतदभिप्रायेण ‘तत्रोद्गीथावयवभूतप्रण- वोपासनं विधीयते’ इत्युक्तमिति वदन्ति । " स्वायत्ते शब्दप्रयोगे" इति न्यायेन कर्माङ्गोद्गीथादिविषयाण्युपासनानि ’ इति वक्तव्ये ’ कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि ’ इति भाष्ये वचनव्यक्तिः किमर्थमाश्रितेत्याशङ्क्याह– कर्माङ्गोद्गीथाद्याश्रयाण्युपासनानीत्युक्त इति । उपासनमात्रस्य च पक्षीकारः प्रतीयेतेति ; ननु कर्माङ्गाश्रयत्वस्य हेतूकरणा- -देव यावति हेतुर्विश्राम्यति तावत एव ग्रहणं भविष्यति, ’ यथा पर्वतो धूमवत्त्वाद्वह्निमान् ’ इत्यत्र धूमवतः पर्वतस्य ग्रहणं तथेति चेत्; सत्यम् ; तादृशन्यायप्रतिसंधानाभावदशाया- मुपासनमात्रपक्षीकारप्रतीतिर्जायेत । अत एव ‘प्रतीयेत’ इति प्रतीतिमात्रमापादितम् । भाष्ये – अनभिज्ञो भवान् शारीरकशास्त्र विज्ञानस्येति ; शास्त्रप्रतिपाद्यं विज्ञानं शास्त्र - विज्ञानम् ; मध्यमपदलोपी समासः ; तदेतदाचष्टे – शास्त्रे प्रतिपाद्यमित्यादिना ; प्रतिपाद्यशब्द उत्पाद्यपरः ; “ आत्मैकत्वविद्याप्रतिपत्तये " इति परव्यवहारानुसारा- दुत्पत्तिः प्रतिपत्तिशब्देन व्यवहृता । वक्ष्यति च - " प्रतिपादकानि निष्पादकानि इति । अतो लाक्षणिकप्रयोगो न दोषायेति द्रष्टव्यम् । मिथ्याज्ञानं भ्रान्तिज्ञान- मिति ; मिथ्याविषयं ज्ञानं मिथ्याज्ञानमिति मध्यमपदलोपी समास इति भावः । मूला- ज्ञाननिवृत्तेरेव प्रयोजनत्वमभिप्रयन्नाह – यद्वा मिथ्याभूतमज्ञानमिति । तुशब्दद्वयं शङ्काद्वयव्यावृत्यर्थमिति ; उपनिषत्स्वधीतत्वात् ब्रह्ममीमांसायां निरूप्यमाणत्वाच्चोद्गीथा- चुपासनं ब्रह्मविद्यापेक्षितमित्येका शङ्का; " ततः किम् " इत्यनेनाभिप्रेता संगतत्वशङ्का 66 ११

२७६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) द्वितीया ; एतच्छङ्काद्वयस्य यथाक्रमं व्यावृत्त्यर्थमित्यर्थः अत्र भास्करीयाः प्रत्यव- तिष्ठन्त इति ; अत्र च हेतुरुत्तरत्र स्पष्टः । न समसमुच्चयपर इति; तन्मते “ 66 66 | 99 तमेतं वेदानुवचनेन ” इत्यत्र “ सहयुक्तेऽप्रधाने " इति तृतीयया वेदानुवचनादीनां " विविदिषन्ति ” इति निर्दिष्टवेदनापेक्षया अप्राधान्याभ्युपगमेन कर्मणां विद्यायाः फलोप- कार्यङ्गत्वमात्रस्याभ्युपगतत्वेन तैरपि समसमुच्चयस्यानभ्युपगमादिति भावः । समुचि- त्योपदेशादित्यत्र समुच्चित्यशब्दवदिति ; इदं हि वाक्यम् अन्तर उपपत्तेः इत्यधिकरणभाष्यस्थमग्निविद्यात्मविद्याविषयम् ; तयोः समुच्चयानभ्युपगमादिति भावः । विशेषणविशेष्यभावेन निर्दिष्टमिति ; न च समुच्चितशब्दो वैषम्यं न सहत इति वाच्यम्, अङ्गाङ्गिसमुच्चयेऽपि समुच्चयशब्दप्रयोगदर्शनात् ; न ह्यत्र समसमुच्चयः श्रूयत इति भावः । चः प्रतिपादकसमुच्चय इति ; श्रुतिसूत्रयोः प्रतिपादकयोः समुच्चय इत्यर्थः । तज्ज्ञानस्य कथं पूर्वभावित्वमिति ; ब्रह्मविचारपूर्वभावित्वमित्यर्थः । निरूप- यिष्यमाणत्वमभिप्रेत्योक्तमिति ; " अन्तरा चापि तु तद्दृष्टेः " सर्वापेक्षा च यज्ञादि - श्रुतेरश्ववत्" इत्यादावधिकारिविशेषे ब्रह्मविद्यायाः कर्मविशेषैः समुच्चयतदभावयोः प्रतिपादयिष्यमाणत्वादित्यर्थः । अधिकारिविशेषनिष्ठब्रह्मविद्याया अनिर्दिष्टत्वात्समुच्चय- तदभावयोः सामान्येन विद्याविषयत्वमेवोचितमिति मत्वाह - यद्वा नित्यनैमित्तिकयो- रिति ; विद्यायाश्चेति शेषः । नित्यनैमित्तिकाभ्यां समुच्चयः, न काम्यनिषिद्धाभ्यामि- त्यर्थः । पदार्थज्ञानपूर्वकत्वादिति ; यद्यपि यज्ञादिपदार्थावगमाय न मीमांसापेक्षा, व्याकरणकोशाप्तवाक्यादिभिर्व्युत्पत्तिसंभवात्, मीमांसाया अपि लोकप्रसिद्धपदार्थव्यवहारि- तया पदार्थावगतिप्रयोजनकत्वाभावाच्च ; तथापि ग्राह्यग्राह्यकर्मविभागो मीमांसाधीन इति भावः । यद्वा पूर्वमीमांसायामपि " यजतिचोदना द्रव्यदेवताक्रियं समुदाये ” इत्यादि- दर्शनात् ‘व्यापन्नादिपदार्थनिर्णयदर्शनाच्च पदार्थनिर्णायकत्वमपि संभवतीत्यपि द्रष्टव्यम् । आशयमजानानश्चोदयति – ननु गामानयेति वाक्यादिति । वाक्यार्थं पूर्वं प्रतिपद्येति ; प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य गवानयने प्रवृत्तिमुपलभ्य ’ इयं च गवानयने प्रवृत्तिर्गवानयनकार्यताज्ञानसाध्या गवानयनप्रवृत्तित्वात् संप्रतिपन्नगवानयनप्रवृत्तिवत्’ इति १. 66 " व्यापन्नस्याप्सु गतौ यदभोज्यमार्याणां तत्प्रतीयेत " (मी ६. ५.४८.) इति सूत्रे यदार्याणामभोज्यं केशकीटावपन्नादि तत् व्यापन्नमिति शब्दार्थ निर्णयः कृतः ॥

(१–१–१) भावप्रकाशिका २७७ न तस्याः प्रवृत्तेर्गवानयनकार्यताज्ञानसाध्यतां निश्चित्य ’ तच्च ज्ञानं वाक्यात्पूर्वमजातत्वात् वाक्या- नन्तरं जातत्वाच्च वाक्यजन्यम् ; तस्मात् गवानयनं वाक्यार्थः’ इति प्रतिपद्येत्यर्थः । ततश्च ‘अस्य वाक्यस्यायमर्थः’ इति वाक्यार्थत्वज्ञानपूर्वकमेव ‘अस्य पदस्यायमर्थः’ इति ज्ञानम्, तु ‘अस्य पदस्यायमर्थः’ इति पदार्थत्वज्ञानपूर्वकम् ’ अस्य वाक्यस्यायमर्थः ’ इति वाक्यार्थ- त्वज्ञानमुत्पद्यत इत्यर्थः । शाब्दज्ञानत्वावच्छिन्ने वृत्त्या पदजन्यपदार्थोपस्थितेर्हेतुत्वमित्येतदेव हि वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वम् ; न तु वाक्यार्थत्वज्ञानस्य पदार्थत्वज्ञानपूर्वकत्वं, येनास्याक्षेपस्यावकाशः स्यादिति स्वाशयमाविष्करोति — उच्यते ; व्युत्पन्नात् शब्दादिति । व्युत्पत्तावपि न वाक्यार्थधिय इति ; यद्यपि शाब्दज्ञानत्वावच्छिन्ने पदजन्यपदार्थोप- स्थितेर्हेतुत्वकथनेनैव प्रकृतोपयोगसिद्धेयुत्पत्तिदशायां वाक्यार्थत्वज्ञानस्य पूर्वभावप्रत्याख्यानं न प्रकृत उपयुज्यते, तथापि पराभिमानखण्डनार्थतयोपन्यस्तमिति द्रष्टव्यम् । याज्या- पुरोनुवाक्यामन्त्रानुसारेणेति ; सरस्वतीदेवत्ययाज्यापुरोनुवाक्ययोः प्राक् पठितत्वादिति भावः । तेनैव क्रमेणानुष्टानं निर्णीतमिति श्रुत्यर्थपाठादिक्रमनियामकाभावाद- नियम इति प्राप्ते प्रधानप्रत्यासत्तिसिद्धयै मुख्यक्रमात् स्त्रीदेवत्यस्य यागस्य निर्वापादय- वोदकप्राप्ता धर्माः प्रागनुष्ठेया इति निर्णीतं पञ्चमे “ अङ्गानां तदर्थत्वात्" इत्यत्र । क्रमनियामकहेतुवैषम्यमेवेति ; दृष्टान्ते याज्यापुरोनुवाक्याक्रमः शेषिक्रमनियामकः; दाष्टन्तिके तु कार्यकारणभाव इति हेतुवैषम्यमिति भावः । उपासनस्यैव विचारं प्रति शेषित्वादिति ; उपासनस्य स्वविचारं प्रत्येव शेषित्वात् शेषिक्रमादापतन् शेषयोः क्रमः शारीरकतृतीयाध्यायकर्मविचारविषय एव स्यात्, न तु कृत्स्नशारीरककर्ममीमांसाविषय इत्यर्थः । तदपेक्षितत्वेनेति ; उपासनापेक्षितत्वेनेत्यर्थः । कृत्स्नाया अपि ब्रह्म- मीमांसायाः इत्यस्यानन्तरम् ’ उपासनशेषत्वेन’ इत्यध्याहर्तव्यम् । यादवपक्षं चोप- जीव्येति ; समसमुच्चयाङ्गाङ्गिभावयोस्तदभिमतयोरपि प्रतीतेरिति भावः । पार्श्वस्थ- श्चोदयतीतिं ; यादवानभिमतकर्मविचारपूर्ववृत्तत्वोपन्यासात् सिद्धान्तिग्रन्थत्वे साधनसाध्य- द्वित्वनिरासकपरिहारग्रन्थासामञ्जस्यप्रसङ्गाच्चेति भावः । चशब्दः प्रतिपाद्यसमुच्चय इति ; द्वितीयान्तेनाध्याहृताङ्गभावशब्देन चशब्दस्यान्वय इति भावः । 46 ननु यदा बाढम् ” इत्यादिग्रन्थो भास्करसिद्धान्त्यन्यतरचोद्यपरः, तदा साध्यसाधनद्वित्वनिरासक- १. “ मुख्यक्रमेण वाङ्गानां तदर्थत्वात् " (मी ५. १. १४.) इति संपूर्ण सूत्रम् । CC-0 No Rights Reserved. Digitized by eGangotri२७८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) भाष्यग्रन्थस्याप्रसक्तप्रतिषेधकत्वं स्यादित्याशङ्कां प्रतिक्षिपति - यदा बाढमित्यादीति । व्या- वृत्यन्वयरूपा विशेषा इतेि ; भावाभावरूपा इत्यर्थः । सकलविशेषप्रत्यनीकमित्यंत्र विशेषशब्देन स्वगतधर्मस्यापि ग्रहणे तत एव ज्ञातृत्वज्ञेयत्वव्यावृत्तेरपि सिद्धत्वान्मात्रचा ज्ञातृत्व ज्ञेयत्वव्यावृत्ति कथनमस्वरसमित्यस्वरसादाह – यद्वा सकलविशेषप्रत्यनीकशब्दे- नेति । अज्ञाननिवृत्त्यन्तर्गतेत्यर्थ इति ; कार्यकारणयोरभेदोपचारादविद्यानिवृत्तेर्भेददर्शन- निवृत्तिरूपत्वोक्तिरिति भावः । श्रुतप्रदीपिका


0 तत्किमित्यत्राह — अस्मि सोऽविद्याकृतः । अनव- अथ स्वरूपेणोपादानाय निरूप्यत्वमुपपादयितुं नियमेनानपेक्षितत्वमुखेन चोद- यति - ननु चेति । प्रथम एवकारोऽपेक्षितद्वित्वव्युदासाय ; द्वितीयस्त्वनपेक्षितस्य पूर्ववृत्तत्वव्युदासाय । ततः किमित्यत्राह धर्मेति । कुत इत्यत्राह — अधीतेति ; वेदान्तमात्राध्यायिनस्तत्रैवापातप्रतीतेरित्यर्थः । यद्वा कृत्स्नाध्यायिनोऽपि सुकृतवशादु- तत्रापेक्षोत्पत्तेरिति । तदा अपेक्षितांशस्याप्यधीतत्वमधीतेतिपदार्थः । शङ्कते - कर्मेति । प्रस्तावोद्वीथप्रतिहारोपद्रवनिधनाख्येषु सामावयवेषु द्वितीय उद्गीथः । उपासनस्य कर्मा- ङ्गताप्रतीतिव्युदासायाश्रयशब्दः । हेतुगर्भं पदमिदमशक्यत्वे । सोपालम्भं प्रतिवक्ति- । अनभिज्ञ इति ; प्रधानप्रतिपाद्यं ज्ञानं न वेत्सीत्यर्थः । न्निति । ज्ञातृज्ञेयज्ञानरूपो भेदोऽवान्तरभिदया विविधः । स्थापरिहारोऽनादिशब्देन । आविद्यभेददर्शन हेतुकजन्मजरादिनिरसनीयत्वाय दुःखसा- मिथ्याज्ञानं भ्रान्तिज्ञानम् ; / मिथ्याभूतमज्ञानं वा । ज्ञाननिवर्त्यत्वाय मिथ्यात्वोक्तिः । ‘आत्मैकत्वविज्ञानम् ; चन्द्रैकत्वज्ञानं हि तद्वेदभ्रमनिवर्तकं, न कर्मे- त्यर्थः । क्व ; न क्वापि ; ज्ञानोत्पत्तितत्साधनानुग्रहतत्फलेषु न क्वापीत्यर्थः ; प्रत्युत भेदवा- सनाहेतुत्वादिति भावः । उद्गीथादिधियामौपनिषदत्वात् ब्रह्मविद्यापेक्षितास्ताः ; अतः शारीरके तच्चिन्तनं साक्षात्संगतमित्यत्राह – उद्गीथेति । कुत इह चिन्तेत्यत्राह - ज्ञानेति । तुशब्दौ शङ्काद्वयव्यावर्तकौ । अत इति ; प्रासङ्गिकापेक्षितं न पूर्ववृत्तं, किंतु प्रधानापेक्षितमेवेत्यर्थः । अत्र भास्करीयाः प्राहुः - बाढमिति । इति च संप्रदायः, अङ्गत्वोपगमसाम्यात् । पूर्वं तूचितम् कर्मेत्यादेस्तद्गन्थस्थत्वात् । बाढमिति ; नियमापेक्षितस्य वृत्तत्वे संमतिः, न कर्मेत्यत्र विमतिः । किं नियतापे- गरशब्दः । (5 सिद्धान्तिन

( १ – १ – १) तत्त्वटोका २७९ क्षितमित्यत्राह – तदिति ; त्वदनभिमतमेवेति भावः । कुत इत्यत्राह - कर्मेति । श्रुतिश्च “ यज्ञेन ” इत्यादिः । कर्मसमुच्चयः कर्मसंबन्धमात्रम् । चः प्रतिपादकस- मुच्चये । ततः किमित्यत्राह - अपेक्षिते चेति ; पदार्थाप्रतिपत्तौ न वाक्यार्थधीरिति भावः । केनति ; नित्यनैमित्तिकयोः समुच्चयः, न तु काम्यनिषिद्धयोरिति विभागो न ज्ञायेते- त्यर्थः । निगमयति —– अत इति । समसमुच्चयवादिमतावलम्बेन पार्श्वस्थश्चोदयति- बाढमित्यादिनेति च निर्वाह: सांप्रदायिकः । तदा समप्रधानतयान्वयलक्षणः समुच्चयो विवक्षितः । श्रुतिश्च " विद्यां चाविद्यां च" इत्यादिः । चः प्रतिपाद्यसमुच्चये; अङ्गभावं च वक्ष्यतीत्यर्थः ; ज्ञानोत्पत्तेः प्रागङ्गभावस्य तदभ्युपगमात् । उपरि पूर्ववत् । यद्यपि यादवप्रकाशमते कर्मधियः पूर्ववृत्तत्वमनभिमतं तथापि तदभिमतं कर्मण उभयथा- पेक्षितत्वमुपजीव्य पार्श्वस्थेन चोदयित्रा पूर्ववृत्तत्वमापाद्यत इति निगमनग्रन्थाविरोधः । मृषावादी प्रतिवदति – नैतदिति । कथमयुक्तत्वमित्यपेक्षायां कर्मणोऽपेक्षितत्वे संभावितं कृत्स्नं प्रकारं दूषयिष्यन् किं समुच्चयशब्देन समप्रधानतयान्वयो विवक्षितः, उत समुच्चय- शब्दस्य संबन्धमात्रपरत्वं विवक्षित्वा तेनाङ्गतया संबन्धोऽभिधित्सित इति विकल्पमभि- प्रेत्य प्रथमे शिरसि साध्यद्वित्वं साधनाद्वत्वं च ग्रन्थद्वयेन व्युदस्यति — सकलेत्यादिना । सकलभेदाः सजातीयविजातीयस्वगताः ; तेषां प्रत्यनीकं सर्पादीनां रज्जुवत् । व्यावृत्तिरूपभेदव्युदासः । कर्मसाध्यतयाभिमतप्रतिबन्धनिवृत्तेर्ज्ञानसाध्यत्वस्य " तमेव विदित्वातिमृत्युमेति ” इत्यादिभिः प्रतिपादनान्न साधनद्वित्वमित्यर्थः । अविद्यानिवृत्ति- वे ; प्रतिबन्धे निवृत्ते नित्यप्राप्तस्य प्राप्तिर्न साध्येति भावः । ततः किमित्यपेक्षायां कर्मणो मोक्षविरोधित्वं ‘प्रत्युत विरुद्धमेव’ इति प्रागुक्तं विवृणोति – वर्णेति । आदि- शब्दो निषिद्धादिपरः । भेददर्शननिवृत्तिरूपेति ; कारणाज्ञाननिवृत्तिः कार्याज्ञाननि- वृत्तिगर्भेति तद्रूपत्वम् । कथमिव ; न कथंचित् । तत्त्वटीका मात्रचा अथ विद्यापेक्षितमेव तत्त्वविवेकादिकं विचारापेक्षितमिति भ्राम्यन् कर्मणश्च विद्या- विरुद्धतया तद्विचारवृत्तत्वायोगं मन्वानो गूढाभिप्रायः परश्चोदयति–नन्विति । यदेवेति स्वाभिमतचतुष्कव्यतिरिक्तनैरपेक्ष्यपरम् । तस्य परंपरयोपयोगेऽपि विचारजन्मनि तन्नि- यमो नास्तीति व्यक्यै नियमशब्दः । नियतापेक्षितचतुष्कव्यतिरिक्तस्यापि न सूत्रसूच्य-

0 २८० श्रीभाष्यम् (जिज्ञासाधिकरणम्) त्वमित्यभिप्रायेण तदेवेत्युक्तम् । तदिहानपेक्षितमेव त्वदुक्तमित्याह–न धर्मेति । स्वेष्टमपेक्षितांशं सूचयितुमाह- अधीतवेदान्तस्येति । अवयुत्याध्ययने मानाभावेऽप्या- पदि वेदान्तमात्राध्यायिन इत्यर्थः । तस्य हि न कर्मण्यापातधीः, नतरां बुभुत्सा, नतमां विचार इति नियमभङ्गः । यद्वा कृत्स्नाध्येतुरपि स्वापेक्षितांशस्याप्यधीततया सुकृतंविशेष मृदितकषायतया च ब्रह्मविचारस्य शक्यत्वादधीतत्वमात्रेण हानार्थमपि न कर्म - णश्चिन्त्यत्वमपीति भावः । एतेन " धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासो- पपत्तेः” इति ब्रह्माज्ञानवादिभाष्योक्तमनूदितं मन्तव्यम् । सिद्धान्तिसंमतां प्रधानयुक्ति- मप्रधानीकृत्य तत्तद्दृष्टिविधीनां साक्षाद्ब्रह्मविद्यापेक्षितत्वं प्रकल्प्य वा कर्मविचारवृत्तत्त्वं शङ्कते — कर्मेति । उद्गीथाद्युपासनानीति पक्षोक्तिः; अनधिगतकर्मणोऽशक्यचिन्त- नत्वं साध्योऽर्थः ; कर्माङ्गाश्रयाणीति हेत्वंशपरम् । प्रणयनाश्रयगोदोहनादिवदुङ्गीथादिकमङ्गमाश्रित्य प्रविशत उपासनस्य फलान्तरार्थतया कर्मा- आश्रयशब्द इह विषयार्थः ; नङ्गत्वसूचनपरश्च । आदिशब्देनोनोथैकदेशभूतंप्रणवस्य पञ्चविधसामादेश्च ग्रहणम् । अत्रैव ; न तु कर्मकाण्डे चिन्तितानीति भावः । अनधिगतकर्मण इत्यनेन कर्मतद- ङ्गरूपपदार्थानवगमे वाक्यार्थस्य दुर्महत्वं सूच्यते । ननु अव्युत्पन्नपदोपेतवाक्यार्थप्र- त्यभिज्ञानमुपमानम्” इति कैश्चिदुक्तम् । अन्यैरनङ्गीकारात् तत् तथा न । अथापि प्रकृताविरोधं ब्रूमः - न हि ते ’ गोसदृशो गवयः ’ इत्यादिवाक्ये गवयत्वादिविशिष्टः पिण्डः पदार्थतया अन्तीत्याहु:, ‘गोसादृश्यवान् गवयशब्दवाच्यः गवयशब्दादयस्तु पदेन बोधितास्तत्रान्वीयेरन्निति । , इत्येतावति तात्पर्यात् ; वाक्यभेदस्य वाक्यार्थधीरस्ति । ननु चाद्यव्युत्पत्तिदशायामविदितपद- ततः किम् ? तत्र हि प्रत्यक्षादिसिद्धे विशिष्टार्थेऽनु- मानतो वाक्यस्य बोधकत्वग्रहः, न तु व्युत्पित्सोस्तत्र वाक्याद्वाक्यार्थधीः । विचारिते तदन्तर्गतोद्गीथादिधीः, ततस्तद्विषयोपास्तिधीः स्यात् । कर्मणि थादिषूपास्तिर्विधीयते, गोदोहनादिवद्गुणफलाधिकारत्वादिति भावः । उक्तमशक्यत्वं नत्र कर्नानङ्गेषूद्गी- दुष्परिहरं संछाद्य धाष्टर्थ्यात् स्वकपोलकल्पितप्रकारेण समाधित्सुरूपालभते – अनभिज्ञ इति । शारीरकस्य खल्विदं शास्त्रम् ; अत आत्मविज्ञानप्रधानमिति भावः । “शरीरमेव शरीरकं, तत्र निवासी शारीरको जीवात्मा" इति हि वाचस्पतिः । तद्विज्ञानप्राधान्यं विवृ- गोति–अस्मिन्निति । शुद्धस्याविद्यान्वये हेत्वनुयोगमुपरोद्धुमनादिशब्दः 1 मत-

(१ – १ – १) तत्त्वटीका २८१ प्रवाहपक्षेऽनवस्था बीजाङ्कुरा- भेदादविद्यायाः स्वरूपतः प्रवाहतो वानादित्वम् । दिनयनिरूढेत्याकूतम् । भेद: ’ अहमिदं जानामि ’ इति ज्ञात्रादिरूपः । स प्रत्येकमवान्तरभेदैर्विविधः । तस्य मिथ्यात्वं व्यङ्क्ङ्कुमविद्याकृतत्वोक्तिः ; तद्दर्शन वा तत्कृतमित्युच्यते ; तदध्यस्तमित्यर्थः । भेददर्शनं निमित्तं येषामिति विग्रहः । निर्विकारस्य जन्मादिकमात्मभ्रान्तिविषय देहधर्मारोपात् । आदिशब्देन निरयादिग्रहः । तैर्दुःखम् ; सांख्यवन्मृषावादिनां तादृशोऽन्तःकरणविकारः । मिथ्यात्वेऽपि प्रतिकूलतया जिहासितव्यत्वाय जन्मादिषु वा दुःखत्वोक्तिः । तद्भान्तिप्रवाहाविच्छेदव्यक्त्यै सांसारिक- शब्दः । अनात्मभिरात्मानमेकीकृत्य पौनःपुन्येन सरणं हि संसारः । मोघप्रयत्नत्व- परो निमग्नत्वोपचारः, उन्मिमङ्क्षार्थश्च । मिथ्याज्ञानमिहात्मनि भेदग्रहः, अनिर्वाच्य- रूपमज्ञानं वा । अज्ञानतत्प्रतिभासयोस्तत्कार्यप्रतिभासप्रवाहस्य च मिथ्यार्थत्वात् तत्त्व- धीमात्रेण बाध्यत्वे किमत्र कर्मणेति भावः । चन्द्रद्वित्वादिधीर्हि तदैक्यधीबाघ्या ; तद्व- ..दिहेत्यभिप्रायेणात्मैकत्वविज्ञानोक्तिः । अशुद्धस्य प्रसिद्धत्वाच्छुद्धस्यावाच्यभावतः । अज्ञातं त्वंतदोरैक्यं ख्याप्यमित्यत्र मन्यते ॥ २८४ ॥ स्वाध्यायस्य हि कात्स्न्र्त्स्न्येन मानत्वे सत्यपि स्वतः । नावाद्ये नानुवाद्ये च नापवाद्ये च मानता || २८५ || अविचारितबुद्धयादिव्युदासार्थो विज्ञानशब्दः । एवमिहाधिकारिप्रयोजनसाध- नानि ज्ञापितानि । प्रतिपिपादयिषितम् ; प्रदातुं प्रापयितुं वेष्टम् । शब्दजन्यज्ञा- नादेव पवर्गः । यद्वा आत्मैक्यज्ञानमवैधमपि मोक्षसाधनतया शारीरके प्रतिपाद्यम् । ततः किं प्रकृतस्य तत्राह - अस्येति ; तस्य प्रधानतात्पर्यविषयत्वाय सन्प्रयोगः । हिशब्दोऽनुपयोगस्थैर्यार्थः । भेदावलम्बीति विरोधपरम् । कर्मज्ञानमिह विचाररूपं तत्फलरूपं वा । क । इत्येतत् स्वरूपोत्पत्तौ कार्ये वेति विवरिष्यते । तच्च तत्साधनानु- 1


ग्राहकस्याप्युपलक्षणम् । द्वैतवासनाहेतुतयात्यन्तयत्वाय वैपरीत्यं प्रथयति – प्रत्युतेति । अंशतो वा फलसङ्गादिगुणतो वा निर्वैरत्वं दुर्वचमित्यभिप्रायेणाह - विरुद्धमेवेति । उक्तं –च नैष्कर्म्यसिद्धौ- 36

२८२ इति, इति च । यदि श्रीभाष्यम् " अयथावस्त्वविद्या स्याद्विद्या तस्या विरोधिनी । समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ " “ तमोऽङ्गत्वं यथा भानोरग्नेः शीताङ्गता यथा । वारिणश्चोष्णता यद्वज्ज्ञानस्यैवं क्रियाङ्गता || 99 ( जिज्ञासाधिकरणम् ) कर्म विरुद्धं, तर्हि तदङ्गाश्रयोपासनचिन्ताप्यत्र विरुद्धत्वान्न संगच्छेत ; कर्मचिन्तायामेव तु निविशतामित्यत्राह – उद्गीथादाति । इहोद्गीथाद्युपासनं लक्ष्यते, तत्स्वरूपस्यात्रामीमांस्यत्वात् । गुणफलसंबन्धमपह्नुत्य तद्विचारस्य कर्मशेषत्वोक्तिः, फलान्तरार्थत्वेऽपि न परविद्याङ्गत्वमिति च भावः । यद्वा शिष्यत इति शेषः; कर्मविचारैः परिशिष्ट इत्यर्थः । अत्र विचार्यमाणानामुद्गीथाद्युपासनानां ज्ञानरूपत्वं विवक्षितम् ; न तु तद्विचारस्य, अतिप्रसङ्गात् । इहैव ; विरुद्धशास्त्र एवेत्यर्थः । ननु साजात्याधीन - प्रसक्त्यापि समुद्र्ध्यानवत्प्रधानस्यानुपयुक्तं विरुद्धं च न चिन्त्यम् ; अतः परविद्याप्रकरणे पाठाद्विचारणाच्चाश्रमादिवत् गत्यादिवच्च तदुपयुक्तत्वं कल्प्यमित्यत्राह – स इति । तु- शब्दौ शङ्कानिवर्तकौ । यद्यपि साक्षात् प्रधानोपयुक्ततया वा न संगतिः, तथापि ज्ञानरूप- त्वसाम्यात् तदन्वितस्य वीर्यवत्तरत्वोत्त्या चापरिच्छिन्नफलत्वशङ्कोदयमपाकृत्य धूमादिमार्ग- वज्जिहासादाढर्घमुत्पादयितुमिह तच्चिन्तेति भावः । तर्ह्यत्यन्तानुप योगाभावात्तदुपयुक्तमपि पूर्ववृत्तमस्तु ; तत्राह - अत इति । यत्प्रधानम् ; यदुपपादनप्रधानम् । एवकारेण प्रासङ्गिकापेक्षितमपि प्रधानस्यानुपयुक्तं विरुद्धं च व्यावर्त्यते । प्रधानापेक्षितानुक्तिश्च न युक्ता । अप्रधानापेक्षितस्य च वृत्तत्वे वक्तव्ये दूष्यमतविचारादेरपि तथात्वप्रसङ्ग इति भावः । किमपि ; त्वदुक्तात्कर्मविचाराद्विलक्षणम् । 4 अत्र भास्करादिमतस्थो वा सिद्धान्ती वा सर्वावमर्शी पाश्वस्थो वा परोक्तेस्तात्पर्य- विषयांशानङ्गीकारेण प्रतिवक्ति - बाढमिति । भास्करोक्तमत्र हेतुग्रन्थतः साध्यतश्च प्रत्यभिज्ञायते । अनङ्गीकृतमर्थं विशिषन्ननिष्टं च क्षिपति - तदिति । एवकारोऽन्य- नैरपेक्ष्यं, प्रासङ्गिकापेक्षितस्यैव प्राधान्येनाप्यपेक्षितत्वं, विरोधाभावं च व्यनक्ति । प्रधानो- त्पत्त्यादावनुपयुक्तस्य विचारः कथं तद्विचारापेक्षित इत्यत्राह - कर्मेति । अयं भावः– CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १) 66 तत्त्वटीका 66 २८२ ; अत्कमधु लाभशङ्कामतिक्रम्य यथाविधि कर्मसमुच्चिते ज्ञाने प्रवृत्तिः केवलकर्मणामनन्त फल- साधनत्वाभावनिश्चयपूर्विकेति । एतेन ’ अधीतवेदान्तस्य ’ इत्यादि प्रागुक्तं प्रत्युक्तम् । इह भास्करपक्षे “ तमेतं वेदानुवचनेन " इत्यादिः श्रुतिः । समुच्चितत्वं चात्र “ सहयुक्तेऽप्र- धाने " इति तृतीयाश्रुत्या गुणप्रधानतया संबन्धः । गुणत्वं च प्रयाजादिवत् । प्रकृतानु- पयोगात्तिरोधानेन समुच्चयोक्तिः । यादवप्रकाशमते " सर्वापेक्षा" इति सूत्रमङ्गाङ्गिभाव- परम् । सहकारित्वेन च " इति सूत्रं तु समुच्चयार्थम् । तत्र तु " विद्यां चाविद्यां च" इत्यादिका श्रुतिः । समुच्चितत्वं तु विशदज्ञानोत्पत्तेः पूर्वं तदुपपादकतया कर्मणां ज्ञानाङ्गत्वेन; पश्चात्तु मृत्युतरणब्रह्मप्राप्तिरूपफलभेदात्समत्वेन । सिद्धान्ते तु संनिपत्यो- पकारित्वविवक्षया समुच्चयशब्दः । स्वरूपेण कर्मणोऽपेक्षितत्वे सूत्रकृत्संमतिमप्याह- वक्ष्यतीति । न ह्यस्मिन् सूत्रे साध्यत्वेन विविदिषोपात्ता, येन तदर्थेयमपेक्षोक्तिः स्यात् विद्या तु प्रकरणसिद्धा । अतो " विविदिषन्ति " इत्यत्र न विविदिषा विवक्षितेति भावः । चकारः क्वचिन्मते सिद्धान्ते च प्रतिपादकं समुच्चिनोति । मतान्तरे तु प्रतिपाद्यम- प्रधानत्वं समत्वेन सह संघटयति । अस्तु ज्ञानस्यानुष्ठाने यथामतं कर्मापेक्ष्यम् ; तद्विचारे तु किं कर्मविचारेणेत्यत्र दत्तोत्तरत्वेऽपि युक्तिवैभवादुत्तरान्तरमाह – अपेक्षिते चेति । यथा- मतं यथाधिकारमपेक्षितत्वम् । केन समुच्चयः ; साधनलक्षणसमर्थयिष्यमाणस्वाधिकारानु- गुणनित्यनैमित्तिकवर्गेण । केन न; निबन्धककाम्येन स्वाधिकारनिषिद्धेन चेत्यर्थः । अयं भावः - अनुष्ठानदशायां समुच्चेतव्यस्य तथा निर्णयाय विमर्शदशायामपि बुद्धधारो - होऽवश्यंभावी । अतः पदार्थभूतकर्मविचारपूर्वकस्तदन्वितविद्याविधिवाक्यार्थविचारः । ततश्च विषयविशेषावच्छिन्नब्रह्मोपासनचिन्तनस्य कर्मचिन्ता सापेक्षतया कृत्स्नस्य शारीरक- चतुरध्याय्यार्थ विचारस्य कर्मविचारः प्राग्भावीति । तदिह कर्मनिरूपणस्य फलान्तरार्थकर्म- परिहारः फलं, विद्यानुबन्धेन कर्मस्वरूपमात्रोपादानं चेति न मोघप्रवृत्तित्वम् ; नापि विरोधः । यद्यपि विद्यापेक्षितो यज्ञादिपदार्थः साधनलक्षणे स्वयमिह सूत्रकृता चिन्तयितुं शक्यः, तथापि कृत्स्नवेदार्थनिश्चायके मीमांसाशास्त्रे कामाधिकारस्यापि क्वचिच्चिन्त्यत्वादत्र प्राक् चिन्तिते कर्मस्वरूपे लाघवाद्विनियोगपृथक्त्वमात्रस्थापनं युक्तम् । तापत्रयपूर्ववृत्तत्वमतेऽपि विषमत्वेन समत्वेन च कर्मणः समुच्चेतव्यत्वार्थम् । ततः कर्मविचारपूर्ववृत्तत्वं दुस्त्यज- मित्यभिप्रायेण मतचतुष्टयेऽपि फलितमाह – अत इति । कर्मपरामर्शी तच्छब्दस्तच्चि-

२८४ श्रीभाप्यम् (जिज्ञासाधिकरणम्) न्तनं लक्षयति ; दूरस्थमपि कर्मविज्ञानं वा परामृशति । अवधारणं विरोधाभावद्यो - तकम् । अत्रात्यन्तनैष्कम्र्म्यवादी प्रतिवक्ति - नैतद् युक्तमिति । श्रुतिप्रतीतमप्ययुक्त त्याज्यम् ; अन्यधातिप्रसङ्गादिति भावः । कुत इत्यत्र समुच्चयवादिकल्पितं साधनद्वित्वं तावन्निरस्यति — सकलेति । भास्करसिद्धान्तिपक्षयोरिह संप्रतिपन्नस्थापनार्थं स्वकल्पित- विकल्पकोटिनिष्कर्षणार्थं वा ब्रह्मेत्याद्युक्तम् । विशेषाः ; भेदाः सजातीयविजातीयस्व– गताः । स्वगतभेदों हि श्रुतोऽप्याविद्यैरुपासनविधिभिः कल्प्यत इत्यभिप्रायेण सकल– शब्दः । प्रत्यनीकत्वमिह शुक्त्यादिवदारोप्यात्यन्ताभावाश्रयत्वं तत्स्वरूपत्वं वा, स्वगोचर - ज्ञानेन स्वाध्यस्तनिवर्तकत्वं च । ईदृशस्य मानार्हस्य शून्यत्वं परिहर्तुं चिच्छन्दः । चिद्र- पतया स्वप्रकाशस्य मानान्तरापेक्षया च द्वैतप्रसङ्गः । असद्व्यावृत्त्या च समाधिष्ठानत्वसिद्धिः । मात्रचा चिच्छब्दोत्थापितज्ञातृज्ञेयादिसंबन्धशङ्कान्युदासः । प्रत्यनीकत्वमप्यन्ततः कल्पित- मनतिरिक्तं वेति च भावः । ब्रह्मशब्देन " ब्रह्म वेद ” इत्यादिचनम् । विज्ञानात् श्रवणाद्यनुगृहीतवाक्यजन्यप्रत्यक्षात् । अवधारणेनाधिष्ठानयाथात्म्यज्ञानस्यासत्यनिवर्तने कर्मनैरपेक्ष्यं व्यज्यते । " तमेव विदित्वा " इत्यादिभिः प्रतिबन्धक मृत्युतरण- स्यापि ज्ञानैकसाध्यत्वोक्तेः " अविद्यया मृत्युं तीर्त्वा" इत्येतन्न मोक्षस्य कर्मसाध्यत्वार्थ- मिति । अत्र ‘अविद्यया मृत्युं प्राप्य स्थितः’ इति तु योजना | साधनद्वित्वनिदान - तयेष्टं साध्यद्वित्वमप्यत्र नास्तीत्याह — अविद्यानिवृत्तिरिति । एवकारः कण्ठचामीकर– नयात् प्राप्तप्राप्तेरसाध्यत्वं व्यनक्ति; हिशब्दस्तु मुक्तेर्ज्ञानमात्रसाध्यतया श्रुतिस्मृतिसूत्र- प्रसिद्धत्वं मोक्षशब्दस्वारस्थं च : ज्ञानकार्ये कर्मणोऽनुपयोगं सर्वथा विरोधं च प्रागुक्तं विवृणोति – वर्णेति । आदिशब्देन निमित्तगुणादेर्वर्णाद्यवान्तरभेदस्य च संग्रहः । अनन्तशब्दो व्यक्त्यानन्त्यं बाहुल्यं वा विवक्षति । विकल्पः भेदः, तद्भमो वा । भ्रमपक्षे त्वास्पदशब्दो विषयार्थः । निवृत्तेरात्यन्तिकत्वव्यक्त्यै सकलशब्दः । कारण- निवृत्तेः कार्यनिवृत्त्यभेदोपचारेण तद्रूपत्वोक्तिः, तन्निरूप्यत्वाद्वा । अविद्ययैव हि भेदधीः । अतस्तया तन्निवृत्त्या च तत्सदसद्भावौ निरूप्यौ । कथमिव ; न कथंचित् । अत्य- न्तासंभावितं कर्मणामविद्यानिवर्तकत्वम् ; प्रत्युत तदनुवृत्त्या संसारप्रापकत्वमेव स्यादिति भावः ।

( १ – १ – १) मूलभावप्रकाशिका २८५ 66 66 मूलभावप्रकाशिका । 99 5 परमतं प्रतिक्षेप्तुमुपक्षिपति – नन्विति । ’ यदेव ’ इत्यत्रैवकारोंऽशविवक्षाद्योतकः एकस्मिन्नप्यर्थे यावानंशोऽपेक्षित इत्यर्थः । ततश्च यदपेक्षितं तदेव पूर्ववृत्त वक्तव्यमित्ये- तावतैव चारितार्थ्यात् यच्छब्दान्वित एवकारो व्यर्थ इति शङ्का परास्ता । अनधिग- तकर्मण इति ; अविचारितकर्मण इत्यर्थः । शङ्कते – कर्माङ्गाश्रयाणीतिः कर्माङ्ग- विषयाणीत्यर्थः । अनेन कर्माऽन्यदृष्टिरूपाणामन्यस्मिन् कर्माङ्गदृष्टिरूपाणां पुरुषविद्या - दीनां संग्रहः । पृथिवी हिंकारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम् ” इत्यादिषु हिंकार प्रस्तावोद्गीथप्रतिहारनिधनाख्यसामावयवेषु स्तोत्रसाधन- तया कर्माङ्गेषु पृथिव्यादिदृष्टयो विहिताः ; तेषां च कर्माङ्गोद्गीथाद्युपासनानां " तन्निर्धारणा- नियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ” “अङ्गेषु यथाश्रयभावः " इत्यधिकरणयोः क्रत्वर्थ- पुरुषार्थत्वचिन्ता क्रियते । तत्र च कर्मस्वरूपमजानानस्य नेयं चिन्ता निर्विचिकित्सं हृदयमधिरोहति । स्वामिनः फलंश्रुतेरित्यात्रेयः इत्यधिकरणे तेष्वेवोपासनेषु यजमानकर्तृकत्वऋत्विकर्तृकत्वचिन्ता क्रियते । " अङ्गावबद्धास्तु न शाखासु हि प्रति- वेदम्" इत्यत्र रसतमत्वाद्युपासनानां सर्वशाखागतोद्गीथसाधारण्यमस्ति नेति चिन्त्यते । तथा “ पुरुषविद्यायामपि चेतरेषामाम्नानात् " इति सूत्रे " पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातः सवनं, यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यंदिनं सवनं, यान्यष्टा- चत्वारिंशद्वर्षाणि तत्तृतीयसवनं, स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः, अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति, अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुत- शस्त्रैरेव तदेति, तन्मरणमेवावभृथः " इति छान्दोग्योपात्तायाः पुरुषविद्या संबन्धिषु यज्ञावय- वत्वदृष्टिरूपायाः पुरुषविद्यायाः “ तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीर- मिध्ममुरो वेदर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निः- शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमनीद्यावद्भियते सा दीक्षा यदश्नाति यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यत्संचरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यो यन्मुखं तदाहवनीयो यदस्य विज्ञानं तज्जुहोति यत्सायं प्रातरत्ति तत्समिधो यत्सायं प्रातर्मध्यन्दिनं च तानि सवनानि ये अहोरात्रे ते दर्शपूर्णमासौ येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणा: (G

२८६ श्रीभाष्यम् 99 ( जिज्ञासाधिकरणम्) सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथः इति पुरुषसंबन्धिषु यज्ञावयवत्वकल्पन- रूपायास्तैत्तिरीयकाम्नातपुरुषविद्यायाश्च भेदाभेदौ विचार्यते । न ह्ययं विचारः कर्म- विचारशून्यस्य हृदयमधिरोहति । तथा " पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् " इत्यत्र षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः, ते मन- सैवावीयन्त मनसैवाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन् ” इत्यादिवाक्यविहितेषु मनोव्यापारविषयकेषु सांपादिकेषु स्थण्डिलाग्न्याधाना- दिग्रहस्तोत्रलोकंपृणादिषु क्रियमाणः क्रियामयक्रत्वर्थतदभावविचारो वा अविचा- रितकर्मणां कथं धियमधिरोहेत् ? अतः कर्मविचारो ब्रह्मविचारापेक्षित इति भावः । तदिति ; चिन्तनमित्यर्थः । अनभिज्ञ इति ; शारीरकशास्त्रजन्यं ज्ञानमेतद्विषयकमिति त्वं न जानासीत्यर्थः । अनाद्यविद्यति ; अनवस्थापरिहारायाविद्याया अनादित्वविशे- षणम् । अनेन भ्रान्तिलक्षणाविद्यापि निरस्ता । मिथ्याज्ञानेति ; मिथ्या च तदज्ञानं चेति विग्रहः ; ज्ञाननिवर्त्यत्वप्रदर्शनाय मिथ्यात्वविशेषणम् । प्रतिपिपादयिषितमिति उत्पिपादयिषितमित्यर्थः । अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्ते व्यवहृतत्वात् विज्ञानं प्रतिपिपादयिषितमित्युक्तमिति द्रष्टव्यम् । कोपयुज्यत इति; आत्मैकत्वज्ञानस्वरूपे अविद्यानिवृत्तिरूपतत्कार्ये वानुपयोगादित्यर्थः । प्रत्युत विरुद्धमेवेति ; साध्यसाधनेति कर्त- व्यताद्यनन्तभेदास्पदकर्मज्ञानस्य भेदवासनाजनकत्वादित्यर्थः । नन्वस्त्वात्मैक्यमस्मिन् प्रति- पिपादयिषितम् ; तद्वदेवोद्गीथविद्यादीनामपि विचार्यतया तदुपयुक्तत्वेन कर्मविचारोपयोगः किं न स्यादित्यत आह—उद्गीथादीति । कर्मशेपभूत एवेति ; उद्गीथाद्युपासनस्यापि कर्मान्तर्गतत्वात् तद्विचारोऽपि कर्मविचारान्तर्गत एवेत्यर्थः । तर्हि तद्विचारो ब्रह्ममीमां- सायामसंगत एव स्यादित्यत आह– ज्ञानरूपत्वेति ; उद्गीथाद्युपासनस्य कर्मविचारान्तर्ग- तत्वेऽप्युपासनत्वरूपावान्तरधर्मसामान्यात् ब्रह्मोपासनविचारात्मकेऽस्मिन् शास्त्रे प्रसङ्गात्त- च्चिन्ता कृतेत्यर्थः । तदपेक्षितमेवेति ; प्रासङ्गिकविचारोपयुक्तस्यापि पूर्ववृत्तत्वे " न संख्यो- पसंग्रहादपि नानाभावादतिरेकाच्च एतेन योगः प्रत्युक्तः ’ “ योगिनः प्रति स्मर्यते 99 66 99 66 ; स्मार्ते चैते " इत्यादिविचारापेक्षितकर्मानुष्ठानस्य विचाराधीननिर्णयाधीनत्वात् कर्मविचा- रस्य पूर्ववृत्तत्वं युक्तमिति तटस्थश्चोदयति – बाढमिति । अपवर्गश्रुतेरिति ; विद्यां चाविद्यां च यस्तद्वेदोभयं सह ” इति श्रुतिस्वारस्याद्विद्याविद्याशब्दित योज्ञनकर्मणोः समुच्च- 99

(१–१—१) मूलभावप्रकाशिका "" २८७ योऽस्तीति भावः । सर्वापेक्षेति ; विविदिषन्ति यज्ञेन दानेन ” इति श्रुतेः । ब्रह्म- विद्या यज्ञादिसर्वकर्मापेक्षा तज्जन्या, अश्वगमने परिकरापेक्षावदिति सूत्रार्थः । ब्रह्म- विद्यास्वरूपोत्पत्तावपि कर्मण उपयोगोऽस्तीति भावः । उत्तरत्र उत्तरत्र " ब्रह्मज्ञानादेवाविद्यानि- वृत्तेः " इति कर्मणो ज्ञानेन समुच्चयस्य, " यदपि चेदमुक्तम् " इत्यादिना ज्ञानं प्रति स्व- रूपोपकार्यङ्गत्वस्य च निराकरणात् फले स्वरूपे चोपकारित्वमिह शङ्काग्रन्थे विवक्षितम् । समुच्चयस्य सिद्धान्त्यनभिमतत्वात् तटस्थ चोद्यमेवेदमिति द्रष्टव्यम् । ननु कर्मज्ञानस्यापेक्षि- तत्वं प्रतिज्ञाय कर्मणोऽपेक्षितत्वप्रतिपादनमसंगत मित्याशङ्कयाह – अपेक्षिते चेति । कर्म- स्वरूपाज्ञाने ज्ञानेन समुच्चेतव्यं कर्म नित्यनैमित्तिकरूपं नान्यदिति कृत्वा अपेक्षितकर्मानुष्ठा- नासंभवात् समुच्चेतव्यकर्मानुष्ठानोपयोगि कर्मनिर्णयाय कर्मविचारः प्राक् कर्तव्य इत्यर्थः । कर्मसमुच्चयं दूषयति — सकलेति । चिन्मात्र ब्रह्मेत्यनेन निर्विशेषज्ञानस्यानाद्यविद्यानिवर्त- कत्वमित्युक्तं भवति । सकलविशेषप्रत्यनीकेत्यनेन मात्रपदं विवृतं भवति । न हि ज्ञानेनाज्ञाने निवर्तनीये उपायान्तरमपेक्षितमिति भावः । ननु यद्यप्यविद्यानिवृत्तिर्ज्ञानै- कसाध्या ; मोक्षस्य तु ज्ञानकर्मसाध्यत्वं संभवतीति मन्दाशङ्कां निरस्यति — अविद्या- निवृत्तिरेव हीति । अविद्यानिवृत्तेः कर्मसाध्यत्वे को दोष इति शङ्कां निरस्यति- वर्णाश्रमेति । विकल्पास्पदमिति भेदज्ञानगर्भमित्यर्थः । कथमिवेति ; भेदवा- सनाजनकत्वात् प्रत्युत विरुद्धमेवेति भावः । ; श्रीभाष्यम्


श्रुतयश्च कर्मणामनित्यफलत्वेन मोक्षविरोधित्वं ज्ञानस्यैव मोक्ष- साधनत्वं च दर्शयन्ति - " अन्तवदेवास्य तद्भवति " " तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते ८८ ब्रह्मविदाप्नोति परम् " ब्रह्म वेद ब्रह्मैव भवति ब्रह्म वेद ब्रह्मैव भवति " " तमेव विदि- त्वातिमृत्युमेति ” इत्याद्याः । यदपि चेदमुक्तं यज्ञादिकर्मापेक्षा विद्येति, तत् वस्तुविरोधात् श्रुत्यक्षरपर्यालोचनया चान्तःकरणनैर्मल्य- द्वारेण विविदिषोत्पत्तावुपयुज्यते, न फलोत्पत्तौ ; " विविदिषन्ति “D CC-0 No Rights Reserved. Digitized by eGangotri२८८ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) इति श्रवणात् । विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवा- न्तरङ्गोपायतां श्रुतिरेवाह―” शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्” इति । तदेव जन्मान्तरशतानुष्ठितानभि- संहितफलविशेषकर्ममृदितकषायस्य विविदिषोत्पत्तौ सत्यां " सदेव सोम्येदमग्र आसीत् । एकमेवाद्वितीयम् ” “सत्यं ज्ञानमनन्तं ब्रह्म 95 66 " 99 66 5 " " निष्कलं निष्क्रियं शान्तम् अयमात्मा ब्रह्म तत्त्व- मसि" इत्यादिवाक्यजन्यज्ञानादविद्या निवर्तते । वाक्यार्थज्ञानो- पयोगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नाम ‘वेदान्त- वाक्यान्यात्मैकत्वविद्याप्रतिपादकानि ’ इति तत्त्वदर्शिन आचार्यान्न्याय युक्तार्थग्रहणम् । एवमाचार्योपदिष्टस्यार्थस्य स्वात्मनि ’ एवमेव युक्तम् इति हेतुतः प्रतिष्ठापनं मननम् । एतद्विरोध्यनादिभेदवासनानिरस- नायास्यैवार्थस्यानवरतभावना निदिध्यासनम् । श्रवणादिभिर्निरस्त- समस्तभेवासनस्य वाक्यार्थज्ञानमविद्यां निवर्तयतीत्येवंरूपस्य श्रवण- स्यावश्यापेक्षितमेव पूर्ववृत्तं वक्तव्यम् । तच्च नित्यानित्यवस्तु- विवेकः शमदमादिसाधनसंपत्, इहामुत्रफलभोगविरागः, मुमुक्षुत्वं चेत्येतत् साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेरर्थस्वभावा- देवेदमेव पूर्ववृत्तमिति ज्ञायते । एतदुक्तं भवति - * ब्रह्मस्वरूपाच्छा- दिकाविद्यामूलमपारमार्थिकं भेददर्शनमेव बन्धमूलम्; बन्धश्चापार- मार्थिकः स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवर्त्यते निवर्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् ; तस्यैतस्य वाक्यजन्यज्ञानस्य स्व-

  • अत्र सुधीभिः प्राचीन श्रीकोशानवलोक्य समीचीनः पाठो निर्णयः । अधिकं भावप्रकाशिकाटिप्पण्यां द्रष्टव्यम् ।
  • (१–१ – १) श्रुतप्रकाशिका २८९. रूपोत्पत्तौ कार्ये वा कर्मणो नोपयोगः ; विविदिषायामेव तु कर्मणामुप- योग: ; स च पापमूलरजस्तमोनिबर्हणद्वारेण सत्त्वविवृद्धया भवतीती- ममुपयोगमभिप्रेत्य " ब्राह्मणा विविदिषन्ति ” इत्युक्तमिति । अतः कर्मज्ञानस्यानुपयोगादुक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् । श्रुतप्रकाशिका " न हि वचनविरोधे न्यायः प्रभवतीति " नयात् श्रुतिसिद्धं कर्मणोऽपेक्षितत्वं न बाध्यमिति शङ्कायामुक्तोपपत्तेः श्रुत्यानुकूल्यं दर्शयति - श्रुतयचेति । न केवलोप- पत्तिः, तदनुग्राह्यमप्यस्तीति चशब्दस्य भावः । पूर्वं भेदावलम्बितया विरोध उक्तः, अत्र तु फलानित्यतया विरोधश्च युक्तयन्तरत्वेन दर्शितः । अनित्यफलत्वेनेति ; नित्यफलस्य मोक्षस्य कथमनित्यफलदं कर्म साधनमित्यर्थः । श्रुतय इत्येकस्मादनेकवा- क्यानां प्राबल्यं विवक्षितम् । दर्शयन्तीत्यनेनास्फुटार्थात् स्फुटार्थानाम् । अन्तवदे- वास्यति ; कर्मसाध्यत्वे मोक्षस्यानित्यत्वं, नित्यत्वे कर्मणस्तत्साधनत्वं वा न स्यात् ; कर्मणोऽन्तवत्फलत्वनियमादिति भावः । अनेन वाक्येन कर्मणामनित्यत्वमुक्तम् । तद्यथेत्यनेन कर्मक्षयस्य फलद्वारकत्वमुक्तम् । पूर्ववाक्यमनेककालानुष्ठितसकलकर्म- णामन्तवत्त्वज्ञापनार्थम् ; “ अस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्रा - ण्यन्तवदेवास्य तद्भवति ” इति हि श्रूयते । तत एव कर्मनैरपेक्ष्यवादेऽस्य वाक्यस्य प्रथमत उपादानम् । ब्रह्मविदामोतीति ज्ञानस्य मोक्षसाधनत्वमुक्तम् । प्राप्यप्राप्तृ- भेदनिषेधार्थः ’ ब्रह्म वेद ब्रह्मैव भवति’ इत्युपात्तम् । तमेवेति प्रतिबन्धनिवृत्तेर्ज्ञानफलत्वं ज्ञापितम् । ज्ञानव्यतिरिक्तस्य कर्मादेरुपायत्वनिषेधश्चानेन सिद्धः ; " नान्यः पन्थाः इति ह्यनन्तरवाक्यम् । एवं ज्ञानस्यैव मोक्षोपायत्वपरतर्कानुगृहीतस्पष्टार्थानेकवाक्यो- पादानेन “ विद्यां चाविद्यां च " इति समसमुच्चयपरत्वेन परोक्ता श्रुतिश्चातदर्थेत्युक्तं भवति, तस्या एकत्वादस्फुटार्थत्वादतकपेतत्वाच्च श्रुत्यन्तराविरोधेन वर्णनीयत्वात् । एवं ज्ञानस्यैव मोक्षोपायत्वे प्रमाणतया श्रुतय उपपत्तयश्च दर्शिताः ; अथ यज्ञादिश्रुतेः कर्मापे- क्षितत्वपरतां व्युदस्यति - यदपि चेत्यादिना । सिद्धान्तिभास्करयादवप्रकाशानां त्रयाणामपि कर्माभिमतमितीदृशं प्राधान्यं सूचयत्यपिशब्दः । 37 99 समुच्चयपरवाक्यस्य

२९० श्रीभाष्यम् (जिज्ञासाधिकरणम् )- ; श्रुत्यन्तरानुगुण्येन निर्वाहे सति यज्ञादिश्रुतिश्च निर्वाह्येति समुच्चयाभिप्रायश्चशब्दः । अपिचेत्यखण्डोऽयं शब्दो वा ; तदानीमप्युक्तप्रकारेण समुच्चयपरः । यदुक्तम् ; ’ यज्ञा- दिकर्मापेक्षा विद्या’ इत्यनया वचनव्यत्त्या समुच्चयेन विद्यापेक्षितं यत्कर्मोक्तमित्यर्थः । . वस्तुविरोधः द्वैतवासनाजनकत्वम् अनित्यफलदत्वं च । श्रुत्यक्षरपर्यालोचना ; सन्प्रत्यवार्थनिरूपणम् । चः समुच्चये । विविदिषोत्पत्तावुपयोगप्रकारमाह- अन्तःकरणेति । न फलोत्पत्तौ ; न मोक्षोत्पत्तौ । " यज्ञेन दानेन तपसाना- शकेन ब्राह्मणा विविदिषन्ति " इति हि श्रुतिः ; न तु ’ मुच्यन्ते’ इतीति भावः । अक्षरपर्यालोचना कथमित्यत्राह - विविदिषन्तीति श्रवणादिति ; एवं च यज्ञादिश्रुतिपर्यालोचनया च ज्ञानकर्मणोः समुच्चयः प्रत्युक्तः । ‘न फलोत्पत्तौ’ इति फलशब्दस्य मोक्षे स्वारस्यादेवं योजना कृता । यद्वा यज्ञादिकर्मापेक्षा विद्येति वचो - भङ्ग्या अङ्गतयापेक्षितं यत्कर्मोक्तमित्यर्थः । न फलोत्पत्तौ; न वेदनोत्पत्तावित्यर्थः विविदिषापेक्षया हि फलं वेदनम् । अन्यत्सर्वं पूर्ववत् । अस्यां योजनायां ‘यज्ञादि- कर्मापेक्षा विद्या’ इति निर्देशस्वारस्यमस्ति, अङ्गाङ्गिभावसूत्र स्मारकत्वादस्य निर्देशस्य । अथवा यज्ञादीति प्रयाजादिवन्निष्पन्नस्य करणस्य फलोत्पत्तिदशायामनुग्राहकतया यत्कर्मोक्तं तन्नोपयुक्तमित्यर्थः । न फलोत्पत्तौ ; न मोक्षोत्पत्तौ ; करणभूतविद्यानु- ग्राहकत्वेन नोपयुक्तमित्यर्थः । अस्यां योजनायामङ्गाङ्गिभावसूत्र स्मारकनिर्देशस्य फलो- त्पत्ताविति निर्देशस्य च स्वारस्यमस्ति । विविदिषन्तीत्युक्तिः ’ असिना जिघांसति इतिवदिति यज्ञादेर्वेदनोपयोगित्वं स्यादिति शङ्कायां वेदनोत्पत्तौ हेतुत्वे कर्मण इति - कर्तव्यतात्वं करणत्वं चानुपपन्नमित्याह – विविदिषायामित्यादिना वाक्यद्वयेन । तत्र शमादिभिः सह समुच्चयेन विकल्पेन चेतिकर्तव्यतात्वं प्रथमं व्युदस्यति – विविदि- पायामित्यादि । एवकारद्वयेन कर्मणः समुच्चयो विकल्पश्च व्युदस्यते । शमादीनामि- न्द्रियव्यापारोपरतिरूपत्वेन यज्ञादिकर्मणस्तत्प्रवृत्तिरूपत्वेनान्योन्यविरोधित्वान्न समुच्चय उप- पद्यत इत्यभिप्रायेण शमादीनामेवेत्युक्तम् । तुल्यबलयोर्हि विकल्पः ; " भूत्वात्मानं पश्येत्” इति शमादीनामात्मदर्शनं प्रति साक्षात्साधनत्वस्य न्यायनैरपेक्ष्येण शीघ्रप्रति– पन्नतया बलीयस्त्वात् “ विविदिषन्ति" इति यज्ञादेरिच्छासाधनत्वे खरसतः प्रतिपन्नेऽपि स्वारस्यभङ्गेन ’ असिना जिघांसति’ इत्यादिदृष्टान्तपर्यालोचनरूपन्यायसापेक्षतया कर्मणो 66

« (१ – १ – १) श्रुतप्रकाशिका २९१ P विद्यासाधनत्वस्य विलम्बेन प्रतिपन्नतया दुर्बलत्वाच्च न विकल्प इत्यभिप्रायेणाह – श्रुति- वाहेति । तथापि विविदिषापेक्षितत्वात् कर्म च ज्ञानोपयोगि; तत्कथमेतत् त्यज्यते ? शमादिरुपादीयते ? इति शङ्कायां कर्मणः शमादेर्वेषम्यमाह – अन्तरङ्गोपायतामिति ; भूत्वा पश्येत्’ इत्यन्तरङ्गत्वं स्पष्टम् । विविदिषायाः पूर्वं हि कर्मोपयोगः ; शमादि तु पश्चादप्युपयुज्यत इत्यभिप्रेत्य जातायामित्युक्तम् । ज्ञानं प्रति कर्मणः करणत्वमपि – नास्तीत्याह - तदेवमिति ; करणत्वं संभवतीत्याशङ्क्य निरस्यते, न त्वभ्युपगतत्वात् । विशुद्धं मनो हि करणम् “मनसा तु विशुद्धेन” इति श्रुतेः । तत् ; उक्तेभ्यो हेतुभ्यः । एवम् ; समुच्चयेन विकल्पेन चेतिकर्तव्यतात्वेऽनुपपन्ने । खर्गादिसाधनस्य कर्मणो विवि- दिषासाधनत्वानुपपत्तिपरिहाराय अनभिसंहितफलशब्दः । विविदिषाया अपि तत्साध्यत्वेन फलत्वात्तस्यानभिसंहितत्वव्यावृत्त्यर्थं फलविशेषेत्युक्तम् । विविदिषासिद्ध्यर्थ- मिदानीमप्यनुष्ठानाय कर्मज्ञानापेक्षाशङ्काव्यावृत्यर्थं जन्मान्तरशब्दः । " अनेकजन्म- संसिद्धः” इत्यादिवचनादिदानीमप्यनुष्ठेयमित्याशङ्कापरिहारार्थः शतशब्दः । कार्यकल्प्यं हि कारणम् इदानीं विविदिषोत्पत्तिदर्शनेन जन्मान्तरशतानुष्ठानं कल्पनीयमिति भावः । तेन कर्मणा मृदितकषायस्य ; नष्टपापस्य ; " कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । " “ कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते ॥ 99 S । इति हि स्मृतिः । एवं विविदिषोत्पत्तौ सत्यां ज्ञानोत्पत्तिकरणमाह - सदेवेति । सदेवेत्यादि कारणवाक्यम् । सत्यं ज्ञानमिति शोधकवाक्यम् । सत्यज्ञानादिवाक्य- “फलितव्यावृत्तिविशदीकरणाय निष्कलमित्यादि वाक्यमुपात्तम् । अयमात्मा ब्रह्मत्यै- क्यवाक्यम् । उपक्रमादिषडिधतात्पर्यलिङ्गोपेतमैक्यवाक्यं दर्शयति – तत्त्वमसीति । अस्मिन्वाक्ये ब्रह्मणा जीवविशेषस्यैक्यं श्रुतम् ; श्रुतमैक्यं सर्वात्मनामिति ज्ञापनार्थम् " अयमात्मा ब्रह्म " इति वाक्यम् । इत्यादि वाक्यं ज्ञानोत्पत्तौ करणं, न कर्मेत्यर्थः । वाक्यजन्यज्ञानमविद्यानिवर्तकं चेत् श्रवणादिपूर्वकध्यानविधिवैयर्थ्यमित्याशङ्क्याह - वाक्या- र्थेति । चः शङ्काव्यावर्तकः । तेषां खरूपमाह – श्रवणं नामेति । प्रतिपादकानि ; निष्पादनक्षमाणि ; ‘ वाक्यजन्यज्ञानात्’ इति युक्तम् । एतद्विरोधि ; आत्मैकत्वविद्या- विरोधि । श्रवणादीन्येवंरूपाणि स्युः कथमेषां वाक्यार्थज्ञानोपयोगः ? इत्यत आह–

O 0 २९२ श्रवणादिभिरिति ; श्रीभाष्यम् वाक्यार्थज्ञानोत्पत्तिविरोधिनिरसनमुपयोग उक्त हेतोः ; ज्ञानकर्मसमुच्चयाङ्गाङ्गिभावानुपपत्तिहेतुभ्य 6 (जिज्ञासाधिकरणम् ) * इत्यर्थः । इति ; इत्यर्थः । एवं रूपस्य ; अपेक्षितं च किमित्यत बन्धनिवृत्तौ कर्मनिरपेक्षवाक्यार्थज्ञानोपक्रम भूतस्य । श्रवणस्य 99 न तु प्रास- ङ्गिकार्थस्य । अवश्यापेक्षितम् ; नियमेनापेक्षितम् । आह तच्चेति । कुत एतदपेक्षितमित्यत्राह – अनेन विनेति । जिज्ञासानुपपत्तेः; विचारानुपपत्तेः । अनुपपत्तिमुपपादयति- अर्थस्वभावादिति । कथमर्थस्वभावः ? इत्थम् – नित्यानित्यवस्तुविवेकादनित्यसांसारिक फलभोगविरागो नित्यपुरुषार्थेच्छा च स्यात् : ततः श्रवणादौ प्रवृत्तिः ; मनोऽवधानहेतुतया तदुपयोगिनी शमादिसंप- त्तिरिति । अर्थस्वभावादेव ; पूर्वप्रकृतादेवेत्येवकाराभिप्रायः । ज्ञानस्यैवोपायत्वं कर्मणो ऽनपेक्षितत्वं चार्थस्वभावाद्धि पूर्वमुक्तम् । यद्वा • अनेन विना जिज्ञासानुपपत्तेः’ इति शमाद्यथेस्वभावादित्यर्थः । शमादि पूर्ववृत्तमस्तु ; कर्म च पूर्ववृत्तं स्यादित्यत आह– अर्थस्वभावादेवेति ; येनार्थस्वभावेन शमादेः पूर्ववृत्त्वं तेनैवार्थस्वभावेनान्यस्य पूर्ववृत्तत्व- निषेध इति प्रथमस्यैवकारस्य भावः । पूर्ववृत्तान्तरस्य व्यावृत्त्यर्थं द्वितीय एवकारः । अत्रार्थस्वभावशब्देन शमाद्यर्थस्वभाव उक्तः । ज्ञानार्थस्वभावः कर्मार्थस्वभावश्चाभिप्रेतः, ज्ञानस्य कर्मनिरपेक्षोपायत्वस्वाभाव्यात्, कर्मणो भेदावलम्वित्वेन विरुद्धस्वभावत्वाच्च । शमादेर्निवृत्तिरूपत्वेन प्रवृत्तिरूपकर्मविरोधित्वभावत्वाच्च साधनचतुष्टयमेव पूर्ववृत्तं न त्वन्यदित्युक्तं भवति । इदमेव पूर्ववृत्तमिति ज्ञायत इति ; इदमेवशब्दावयोगान्ययो- गव्यवच्छेदपरौ ; इदंशब्दो हि साधनचतुष्टयपूर्ववृतत्वपरः, एवकारः कर्मव्युदासपरः ; शमाद्यर्थत्वभावात्तदयोगव्यवच्छेदः, तस्माज्ज्ञानकर्मणोरथैस्वभावाच्चान्ययोगव्यवच्छेदः । सकलविशेषप्रत्यनीकं ब्रह्म चेत् कथं संसारप्रवृत्तिः ? कथं वाक्यार्थज्ञानादेवाविद्यानिवृत्तिः ? अन्तःकरणस्य क्रेन वा मालिन्यम् ? कथं कर्मणा नैर्मल्यम् ? ते चायोगान्ययोगव्यव– ‘च्छेदहेतुभूतार्थस्वभावाः कथम् ? इति शङ्कायामुक्तार्थं संकलय्य दर्शयन् शङ्काश्च परि- हरति- एतदुक्तमिति । ब्रह्मस्वरूपाच्छादिकाशब्देन सकलविशेषप्रत्यनीकत्वेऽपि स्वरूपतिरोधानाद्भेददर्शनं संभवतीत्युक्तम् । भेद : ; ज्ञातृज्ञेयादिः । अपारमार्थिकं भेददर्शनमेव बन्धमूलम् ; न कर्मेत्यर्थः । कर्मापि भ्रान्तिमूलमिति भावः । यद्वा, अपारमार्थिकं भेददर्शनमेव ; न सत्यभूतं किंचिदपीति भावः ; तथा सति हि कर्मा- CC-0 No Rights Reserved. Digitized by eGangotri(१–१–१) पेक्षा । ; श्रुतप्रकाशिका २९३ बन्धो जन्मजरामरणादिः । बन्धवापारमार्थिक इति ; अविद्यामूलापारमा- थिंकभेददर्शनकार्यत्वादिति भावः । ततः किं कर्मनैरपेक्ष्यस्येत्यत्राह – स चेति । अपा- रमार्थिकत्वादेवेति पूर्वोक्ता देवापारमार्थ्यात् कर्मनैरपेक्ष्यसिद्धिरित्येवकाराभिप्रायः । ज्ञानेनैव ; न कर्मणेत्यर्थः । न ह्यपरमार्थसर्पनिवृत्तौ रज्जुज्ञानेन विना वैनतेयोपासन- कर्मापेक्षा । एवं समसमुच्चयः प्रत्युक्तः । ज्ञानं प्रत्यपि कर्मणो न साधनत्वमित्याह- निवर्तकं चेति ; निवर्तकबोधः प्रमाणजन्य इति यावत् ; प्रमाणजन्यशुक्तिज्ञानं हि रजत- निवर्तकम् | अत्र शमादेरितिकर्तव्यतात्वेन कर्मण इतिकर्तव्यतात्वमपि विरोधान्नेत्यभि- प्रेतम् । ततः किमित्यत्राह –तस्येति । तस्य ; कर्मनिरपेक्षस्य । एतस्य ; अद्वैतविषयस्य । तदेतच्छन्दयोः प्रस्तुतवाचित्वाविशेषेऽपि दूरस्थान्तिकस्थविशेषणविशिष्ट- परामर्शित्वं ह्युचितम् । अद्वैतविषयत्वे हेतुमाह-वाक्यजन्यस्येति ; तत्त्वमस्यादिवाक्यजन्य- त्वादद्वैतविषयत्वमित्यर्थः । कार्ये; मोक्षे । तर्हि कुत्रोपयोग इत्यत्राह - विविदि- पायामिति । तुशब्देन करणेतिकर्तव्यतात्वव्युदासः । उपयोगः कथमित्यत्राह – स चेति । पापमूलेत्यादिना ’ अन्तःकरणनैर्मल्यद्वारेण ’ इति पूर्वोक्तं विवृतं भवति । रजस्तमोनिबर्हणादिकं नास्मिन्वाक्ये श्रुतमित्यत्राह - - इतीममिति । अभिप्रेत्यशब्देन शङ्कापरिहारः । इतिर्हेतौ वस्तुविरोधादितिकर्तव्यतात्वकरणत्वानुपपत्त्यादिहेतुभ्य ; इत्यर्थः । इममुपयोगम् ; रजस्तमोनिवर्हणसत्त्वविवर्धनरूपं परंपरयोपयोगमित्यर्थः । विविदिषन्तीत्युक्तमिति; एतदुक्तं भवतीत्यन्वयः । प्रकृतमुपसंहरति–अतः कर्म- ज्ञानस्येति । अतः; हानार्थमुपादानार्थं च कर्मज्ञानस्यानपेक्षितत्वादित्यर्थः । अत्र व्याख्या- तृभिरुक्तौ संग्रहश्लोकौ — "" विरोधादप्रमाणत्वाच्चित्तशुद्ध्युपयोजनात् । ज्ञानमात्रस्य हेतुत्वश्रुतेः सामर्थ्यतोऽपि च ॥ शमाद्यङ्गकताम्न्नानान्न धीकर्मसमुच्चयः । श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका ॥ इति । विरोधादिति; कर्मणामनित्यफलतया भेदवासनाजनकतया च विरोधो विव- क्षितः । सामर्थ्यत इति ; ज्ञानस्य मिथ्यार्थनिवर्तकत्वे कर्मनिरपेक्षत्वरूपं वस्तुसामर्थ्यं विवक्षितम् ।

C २९४ श्रीभाष्यम् भावप्रकाशिका 0 6 (जिज्ञासाधिकरणम् ) 66 19 एकस्मादनेकवाक्यानामिति; “विद्यां चाविद्यां च” इति वाक्यमेकमिति भावः । अस्फुटार्थात् स्फुटार्थानामिति ; ’ प्राबल्यं विवक्षितम्’ इत्यनुषङ्गः । ननु कर्मणोऽन्तव- त्त्वे श्रूयमाणे कथं तत्फलप्त्यान्तवत्त्वमुच्यते ? इत्याशङ्क्याह–अनेन वाक्येनेत्यादिना । फलद्वारकत्वमुक्तमिति ; कर्मणः स्वत एवान्तवत्त्वेन तस्यानुपदेष्टव्यत्वात् “ तद्यथा इत्यादिश्रुतिवशाच्च फलस्यैवान्तवत्त्वम् " अन्तवदेवास्य तद्भवति" इत्यादिवाक्यप्रति- पाद्यमित्यर्थः । समुच्चयपरवाक्यस्य श्रुत्यन्तरानुगुण्येनेति ; यद्यपि ‘यदपि चोक्तम्’ इत्यत्र ’ साध्यसाधनद्वित्ववत् कर्मापेक्षितत्वमपि यदुक्तम्’ इत्युक्तिक्रियायामेव समुच्चयः प्रतीयते, न निर्वाहक्रियायाम्, तथाप्येतत्फलितार्थकथनमिति द्रष्टव्यम् । यदपि चेदमुक्त यज्ञा- दिकर्मापेक्षा विद्येति ’ इत्यत्र ’ यज्ञादिकर्मापेक्षा ’ विद्येति यदुक्तम्’ इत्युक्ते ’ यद्विद्यायां कर्मसापेक्षत्वमुक्तम्’ इति सापेक्षत्वस्यैव यच्छब्दनिर्दिष्टतया स्वरसतः प्रतीयमानत्वात् तस्योत्तरवाक्ये विविदिषोपयोगप्रतिपादनमनुचितमित्याशङ्क्य ’ यज्ञादिकर्मापेक्षा विद्या ’ इत्यनया वचनव्यक्त्या अर्थाद्विद्यापेक्षितत्वेन यत्किंचित्कर्मोक्तमिति कर्मण एव यच्छब्द- निर्दिष्टत्वात् तस्य विविदिषोपयोगप्रतिपादनमविरुद्धमित्यभिप्रायेणाह – अनया वचन- व्यक्त्येति । निर्देशस्वारस्यमस्तीति ; फलपदस्वारस्यमात्रं नास्तीत्यर्थः । यादव- मतप्रतिक्षेपकतया प्रथमव्याख्यानम् ; अस्मिन् पक्षे फलपदस्वारस्यमस्ति ’ यज्ञादिकर्मापेक्षा विद्या’ इति निर्देशस्याङ्गाङ्गिभावसूत्रस्मारकस्य न स्वारस्यम् । द्वितीयव्याख्याने ‘यज्ञादिकर्मापेक्षा विद्या’ इति निर्देशस्वारस्यमस्ति, फलपदस्वारस्यं नास्ति ; अत उभयपदस्वारस्यसिद्ध्यर्थं भास्करपक्षप्रतिक्षेपपरतया व्याचष्टे - अथवा यज्ञा- दीति । प्रयाजादिवदिति । ननु भास्करेण यज्ञादिवाक्यस्य वेदनं प्रति फलोपकार्यङ्ग- त्वमात्रप्रतिपादकत्वाभ्युपगमेऽपि फलार्थत्वानभ्युपगमान्मोक्षार्थप्रतिपादनपरत्वनिषेधेऽप्रसक्त- प्रतिषेधः स्यादिति चेत् न ; प्रयाजादीनां करणानुग्राहकाणां करणानुग्रहद्वारा फल- पर्यन्तत्वसंभवादित्यभिप्रायान्नात्यन्ताप्रसक्तप्रतिषेध इति ध्येयम् । असिना जिघां- सतीति ; असेहनने करणत्वं प्रतीयते, न जिघांसायाम्, एवं “विविदिषन्ति " इति चाक्येन वेदानुवचनशब्दितस्य ब्रह्मयज्ञस्य यज्ञस्य दानस्य कामानशनरूपस्य तपसश्च वेदन हेतुत्वं प्रतीयत इति भावः । वाक्यद्वयेनेति ; विविदिषायां जातायाम्- सिद्धान्तिमतप्रतिक्षेप के

( १ – १ – १) भावप्रकाशिका २९५ इत्येकं वाक्यम् ; ’ तदेवं जन्मान्तरशत- इत्यपरम् । अन्तरङ्गत्वं स्मष्टमिति ; विद्यासंयोगश्रवणादिति भावः । उक्तं च शांकरभाष्ये सर्वापेक्षाधिकरणे- 66 विद्यासंयो- गात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि ; विविदिषासंयोगात् बाह्यतराणि यज्ञादीनि " इति । विविदिषायाः पूर्वं हि कर्मोपयोग इति ; " प्रत्यक्प्रवणतां बुद्धेः कर्माण्यापाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ इति तदुक्तेः । प्राम्बीजावापात्कर्षेण तदनन्तरमकर्षणमिति कर्षणाकर्षणाभ्यामङ्कुरादि- निष्पादनवत् आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ इत्यादिवचनानुसारेण ‘चेतसः शुद्धया विविदिषारूपप्रत्यक्प्रावण्यपर्यन्तं कर्मानुष्ठानं ततः सन्यास इति कर्मतत्सन्यासाभ्यां विद्यानिष्पत्त्युपगमादिति भावः । इदानीमप्यनुष्ठानायेति ; अत्र केचित्~~अनुत्पन्नविविदिषस्य पुंसो यावद्विविदिषोत्पत्त्यस्मिन्नपि जन्मनि कर्मानुष्ठान- स्येष्टत्वान्नैतच्छङ्काव्यावर्तको जन्मान्तरशब्दः ; अपितु अन्तःकरणशुद्धिरनेकजन्मानुष्ठित- नित्यनैमित्तिककर्मसाध्येति दर्शयितुमेवेति वदन्ति । अनेकजन्मसंसिद्ध इति; जन्मा- न्तरशब्दस्वारस्यादव्यवहितजन्मन एव ग्रहणं स्यात् ; तत्र चानेकजन्मत्त्वासंभवादस्थापि जन्मनो ग्रहणं भविष्यतीत्यभिप्रायः । शोधकवाक्यमिति ; कारणत्वशङ्कितदोषव्युदासकं वाक्यमित्यर्थः । न कर्मेत्यर्थ इति; यज्ञादिकं कर्म न करणमित्यर्थः । भाष्ये ―― न्याय- युक्तार्थग्रहणामिति; तात्पर्यनिर्णायकोपक्रमादिन्यायानुसंधानपूर्वक सर्वाण्यपि वेदान्तवाक्या- न्यात्मैकत्वतात्पर्यकाणीत्येवं तात्पर्यरूपार्थग्रहणमित्यर्थः ; न तु वाक्यार्थग्रहणं, तस्य तन्मते श्रव णफलत्वात् । पूर्वप्रकृतादेवेत्येवकाराभिप्राय इति; यद्यपि ज्ञानकर्मार्थस्वभावः प्राक्प्रस्तुतः, न तु शमाद्यथस्वभावः, व्यक्तिभेदात् – तथाप्यर्थस्वभावत्वेनैक्यमाश्रित्य एवकारः प्रयुक्त इति द्रष्टव्यम् । जिज्ञासानुपपत्त्युपपादकतया ’ अर्थस्वभावादेव’ इत्युत्तरग्रन्थं व्याख्याय अधुना ’ कर्म च पूर्ववृत्तमस्तु’ इति शङ्कापरिहारपरतया व्याचष्टे - यद्वा अनेन विना जिज्ञासानुपपत्तेरिति; ‘अनेन विना जिज्ञासानुपपत्तेः’ इत्यंशस्य फलितमर्थ-

२९६ श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) माह - शमाद्यर्थ स्वभावादित्यर्थ इति । प्रथमस्यैवकारस्य भाव इति ; अर्थस्व- भावातिरिक्तस्थ हेतुत्वप्रतिक्षेपक इत्यर्थः । शमाद्यर्थस्वभाव उक्त इति ; इदमुपलक्ष- णम् ; तयोरपि स्वभाव इत्यर्थः । तत्र ज्ञानकर्मार्थस्वभावद्वयस्यात्यन्ताप्रकृतत्वमभिप्रेत्या- भिप्रेतत्वोक्तिः, न त्वर्थस्वभाव शब्दानुक्तत्वात् ; अत एवार्थत्वभावशब्दितस्येतर निरपेक्षस्य साधनचतुष्टयपूर्ववृत्तत्वायोगान्ययोगव्यवच्छेदहेतुत्वं वक्ष्यमाणमुपपद्यत इति द्रष्टव्यम् । इदंशब्दो हि साधनचतुष्टय पूर्व तत्वपर इति ‘इदमेव पूर्ववृत्तम् इतीदंशब्दो हीत्यर्थः । तस्मादिति ; शमाद्यर्थस्वभावादित्यर्थः । भाष्ये ब्रह्मस्वरूपाच्छादिकाविद्यामूलमिति ; आच्छादिका च सा अविद्या चेति न कर्मधारयः, येन पुंवद्भावात् ‘आच्छादकाविद्या इति स्यात्, किंतु " धात्वर्थे ण्वुल् " इति भावे वुलि कारिकाशायिकादिवदाच्छादिका; ततस्तादर्थ्यचतुर्थीसमासः; आच्छादन कारिण्यविद्येत्यर्थ इति । एवं निर्वाहान्तरमपि द्रष्टव्यम्’ । यद्वा अपारमार्थिकं भेददर्शनमेवेति ; बन्धमूलभेददर्शनमपारमार्थिकमेवे- " " १. अत्रेदमवधेयम् – “ ब्रह्मस्वरूपाच्छादिका विद्यामूलम् " इत्येवोपलभ्यमा- नेषु कोशेषु पाठो दृश्यते । श्रुतप्रकाशिकायामपि " ब्रह्मस्वरूपाच्छादिकाशब्देन इति प्रतीकग्रहणेन ‘आच्छादिका’ इत्येव पाठ आदृतः । अत्र ब्रह्मस्वरूपाच्छादिका च सा अविद्येति कर्मधारयं कृत्वा सा मूलं यस्येति यदि बहुव्रीहिर्विवक्षितः, तदा ब्रह्मस्वरूपाच्छादकाविद्यामूलमिति स्यात्, आच्छादिकाशब्दस्य भाषितपुंस्कत्वेन पुंवत्कर्मधारय जातीय देशीयेषु” इति पुंवद्भावस्य दुर्वारत्वात् । न च " न कोप- धायाः " इति निषेधः शङ्कनीयः, “प्रतिषेधार्थोऽयमारम्भः " इति भाष्ये पुंवत्कर्मधार- येत्यस्य प्रतिप्रसवार्थतायाः सिद्धान्तितत्वात् । अत एव पाचिका च सा स्त्री च पाचकस्त्री’ इति सिध्यति । अतः आच्छादिका विद्येत्यत्र पुंवद्भावविरहः क्लिष्टगत्या कर्मधारयानाश्रयणेनैव साधनीयः । तत्र द्वयी विधा - आच्छादिकाशब्दों न कर्त- रिवलन्तः; किंतु भावे ण्वलन्तः; आच्छादनमाच्छादिका ; ततस्तादर्थ्य संबन्ध- सामान्यषष्ट्या समास इत्येका । आच्छादिका अविद्या मूलं यस्येति त्रिपदो बहुव्रीहिरित्यपरा । तत्र प्रथमपक्षे “तादर्थ्यचतुर्थीसमासः” इति भावप्रकाशिका यथा- कथंचित् संबन्धसामान्यषष्ठीसमासपरतया नेया, तादर्थ्यचतुर्थीसमासस्य प्रकृति- विकृतिभाव एव प्रवृत्तेराकरादौ सिद्धान्तितत्वात् ‘चतुर्थी’ इति योगविभागस्तु सुसुपा” इति समासवर्णनं तु सुतरामगतिकगतिः । अत एव “ सिद्धे शब्दार्थसंबन्धे" इत्यादिवार्तिकं व्याचक्षाणेन भाष्यकृता ‘धर्मनियमः इति पदे ‘धर्माय नियमः’ इति विगृहीते, तद्भाष्यं “ चतुर्थ्यां तादर्थ्य प्रतिपाद्यते; न भाष्यारूढः । 66 I

★ (१ – १ – १) भावप्रकाशिका २९७ त्यभिप्रायः । " एषोणुरात्मा चेतसा वेदितव्यः ’ दृश्यते त्वग्र्यया बुद्ध्या इत्यादिप्रमाणानुसाराद्वाक्यार्थभावना परिपाकसहितमन्तः करणं त्वंपदार्थस्यापरोक्षतत्पदार्थता- माविर्भावयति" इति वाचस्पतिवचनानुसारेण मनस एव ब्रह्मसाक्षात्कारकारणत्वमिति मन्य- मानमप्यनुगृह्णन्नाह – निवर्तकबोधः प्रमाणजन्य इति यावदिति । दूरस्थान्ति- कस्थविशेषणविशिष्टेति ; ‘सोऽयं देवदत्तः’ इत्यादिवन्न वैयर्थमित्यर्थः । अभिप्रेत्य- शब्देन शङ्कापरिहार इति ; अनुक्तशङ्कापरिहार इत्यर्थः । “धर्मेण पापमपनुदति” " कषायपक्तिः कर्माणि " इत्यादिप्रमाणान्यभिप्रयन्नाह - - परंपरयोपयोगमिति । संबन्धसामान्ये तु षष्ठीं विधाय समासः कर्तव्यः ; चतुर्थीसमासस्य प्रकृतिविकृति- भाव एव विधानात् " इति कैयटो व्याख्यत् । तत्त्वटीकायां ब्रह्मजिज्ञासापदं विवृण्वा- नाः श्रीमन्निगमान्तगुरवोऽपि “तादर्थ्ये चतुर्थ्यास्त्विह समासः प्रतिषिद्धः, तादर्थ्य- समासे प्रकृतिविकृतिग्रहणं कर्तव्यमिति कात्यायनोक्तेः । आहुश्च- 6 प्रकृत्या विकृतिर्यस्माच्चतुर्थ्यन्ता समस्यते । तादर्थ्ये यूपदार्थादौ तेनास्मिन्न समासता ॥’ इति" इति तत्र चतुर्थीसमासं निरास्थन् । (१२३ पुटे द्रष्टव्यम् ) त्रिपद- बहुव्रीहिरिति द्वितीयपक्षे यद्यपि " स्त्रियाः पुंवत् इति पुंवद्भावः शक्यशङ्कः; तथापि स्त्रीलिङ्गोत्तरपदपरकत्वाभावान्न भवति । 66 अलुगु- त्तरपदे" इत्यधिकृत उत्तरपदशब्दो हि समासचरमावयवे रूढः । अत्र समासचरमावयवस्य मूलशब्दस्य न स्त्रियाः परत्वं नापि स्त्रीलिङ्गत्वम् ॥ अवि- द्याशब्दो यद्यपि परः स्त्रीलिङ्गश्च तथापि न स समासचरमावयवरूपमुत्तरपदम् । अतएव चित्रा जरख्यो गावो यस्येति त्रिपदे बहुव्रीहौ ‘चित्राजरद्गुः’ इति भाष्यम् । तथा कृत्वा चिन्तायामपि " न कोपधायाः " इति निषेधो जागर्ति। अयं त्रिपदबहु- व्रीहिपक्षांऽपि ‘एवं निर्वाहान्न्तरमपि द्रष्टव्यम्’ इति वदतो भावप्रकाशिकाकृतो विव- क्षित एव स्यादिति मन्यामहे । मूलभावप्रकाशिकायाम् ‘आच्छादिका हेतुरविद्या आच्छादिकाविद्या’ इति मध्यमपदलोपिसमासरूपं प्रकारान्तरमुपन्यस्तम् । तत्तु “ समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च इति वार्तिकरीत्या ज्ञेयम् । “ शाकभोजित्वात् तत्साहचर्यात् तद्व्यपदेशान्नार्थ उत्तर- पदलोपेनेत्याहुः इति कैयटरीत्या तु आच्छादिकाहेतोरण्याच्छादिकाशब्देन व्यपदेशात् कर्मधारय एव । अत एव " धर्मार्थो नियमो धर्मनियमः " इति भाष्यं “ धर्मार्थत्वान्नियम एव धर्मशब्देनाभिधीयते " इति कर्मधारयपरतया तेन योजितम् । यद्यपि प्रवृत्तिनिमित्तारोप लक्षणेति वैयाकरणसिद्धान्तात् आच्छा- 38 " CC-0 No Rights Reserved. Digitized by eGangotri२९८ श्रीभाष्यम् श्रुतप्रदीदिका " (जिज्ञासाधिकरणम् )" श्रौतोऽर्थो न तर्कवाध्य इत्यत्राह — श्रुतयश्चेति । पूर्वं वस्तुविरोध उक्तः । अनित्यफलत्वेनेति ; फलद्वारा विरोधः । अन्तवदिति ; बहूनां बहुकालानुष्ठिताना– मप्यन्तवत्त्वम् । तद्यथेति फलद्वारा विरोधो दर्शितः । ज्ञानस्योपायचं, प्राप्तप्राप्यभेद- विरहः, प्रतिबन्धनिवृत्तेरेव साध्यत्वम् उपायान्तरनिषेधश्च " ब्रह्मवित्" इत्यादिवाक्यैः- सिध्यति । एवं तर्कानुगृहीतस्फुटार्थानेकश्रुत्यनुगुणार्थी “ विद्यां चाविद्यां च " इति । श्रुतिरिति भावः । अथ यज्ञादिश्रुतेर्विद्यायाः कर्मसापेक्षत्वपरतां व्युदस्यति — यदिति । ’ यज्ञादिकर्मापेक्षा विद्या’ इति वचनव्यक्त्या समप्रधानतया वाङ्गतया वा यत्कर्मापेक्षित - मुक्तं, तद्भेदवासनाहेतुत्वात् सन्नन्तृपदश्रवणाच्च मनःशुद्धिद्वारेणेच्छार्थमित्यर्थः । सम- समुच्चयप्रतिपादकताव्युदासपरत्वे फलशब्दो मोक्षपरः । अङ्गत्वपरताव्युदासपरत्वे वेदनपरः । “ विविदिषन्ति ” इत्येतत् ’ असिना जिघांसति’ इतिवत् स्यादिति शङ्कायां प्रथममिति - कर्तव्यतात्वेन ज्ञानोत्पत्त्युपायतां व्युदस्यति – विविदिषायामिति । शमादीनामेव ; निवृत्तिरूपशमादेः प्रवृत्तिरूपयज्ञादिभिर्विरोधान्न समुच्चय इति भावः । विविदिषन्तीति शब्दस्वारस्यभञ्जकन्यायनिरीक्षणविलम्बेनातुल्यत्वान्न विकल्प इत्यभिप्रेत्य श्रुतिरेवे- त्युक्तम् । क्त्वाश्रुत्या हि शीघ्रप्रतिपत्तिः । इच्छार्थमपेक्षितत्वेऽपि कथं कर्म त्यज्यते ? शमादि स्वीक्रियते ? इत्यत्राह — अन्तरङ्गेति; कर्मापेक्षा ज्ञानस्येच्छाद्वारेण व्यवहिता ; उत्पन्नायामपीच्छायां ज्ञानोत्पत्तौ शमाद्यपेक्षितमिति तदन्तरङ्गमिति भावः ।


अथ विवि– दनरूपे समाने प्रवृत्तिनिमित्ते पुमांसमप्याच्छादिकाशब्दो भाषितुं समर्थ इति भाषित पुंस्कत्वात् कर्मधारयपक्षे पुंवद्भावः शक्यापादनः, तथापि शक्त्या भाषितपुंस्कत्व- स्य विवक्षणान्न दोष इति ज्ञेयम् । ब्रह्मस्व- एवावति विचारपदे जोषंभूयमातस्थुषां श्रुतप्रकाशिकाकृतां तत्त्वटीका- कृतां च को वाभिप्राय इति विमृश्यमाने, ब्रह्मस्वरूपाच्छादका विद्यामूलमिति वा ; ब्रह्मस्वरूपाच्छादिकाविद्या, अविद्यामूलमपारमार्थिकमितिरीत्या वा ; रूपाच्छादिकाविद्या, तन्मूलमपारमार्थिकमित्यादिरित्या वा, पाठस्तेषामभिमतः स्यादिति शक्यते वक्तुं, तथापि ऋते मूलभावप्रभाशिकां न कोऽपि श्रीभाष्यकोशो मुद्रितोऽमुद्रितोवा तत्र हस्तावलम्बं ददातीति ततो विभीमः । मूलभावप्रकाशिका - कारः ‘आच्छादका विद्यामूलम् ’ इत्येव प्रधानपाठमवालम्बतेति स्पष्टं तद्विदाम् ।

« (१ – १ – १ ) श्रुतप्रदीपिका २९९ दिपार्थं कर्मज्ञानं पूर्ववृत्तं स्यादिति शङ्कां च व्युदस्यन् ज्ञानोत्पत्तौ करणत्वं व्युदस्यति - तदेवमित्यादिना । इदं संभवतीति निरस्यते न त्वभ्युपेतमिति । एवम् ; उक्तोपप- त्तिमिः, समुच्चयेन विकल्पेन चेतिकर्तव्यतात्वेऽनुपपन्न इत्यर्थः । इच्छार्थं तज्ज्ञानस्या- स्मिन् जन्मनि संपाद्यताव्युदासाय जन्मान्तरशब्दः । अनेकजन्मसंसिद्ध्यपेक्षत्वेनेह जन्मन्यप्यनुष्ठेयत्वशङ्काव्युदासाय शतशब्दः । कार्यकल्प्यं हि स्वर्गादिप्रदस्य कथमिच्छार्थत्वमित्यत्राह – अनभिसंहितेति । 66 कारणमिति भावः । मृदितकषायस्य ; सत्यम्" इत्यादि शोधकम् । मृदितपापस्य । सदेव " इति कारणवाक्यम् । व्यावृत्तिवैशद्याय निष्कलमित्यादि । ऐक्यवाक्यम् – " अयमात्मा 99 अवैयर्थ्यज्ञापनाय इति । ता- त्पर्यलिङ्गपुष्कलं – तत्वमसीति ; सामान्यतो विशेषतश्च ऐक्यसिद्धिः । वाक्यं करणमिति न कर्मेत्यर्थः । निदिध्यासनवैयर्थ्यमाशङ्कयाह – वाक्यार्थेति । तानि शिक्षयति — श्रवणमिति । विद्याप्रतिपादकानि ; विद्यानिष्पादकानीत्यर्थः । इति ; समुच्चयाङ्गाङ्गिभावयोरनुपपन्नत्वात् । एवंरूपस्य ; बन्धनिवृत्तौ कर्मानपेक्ष- वाक्यार्थज्ञानोपक्रमभूतस्य । तच्च किमित्यत्राह — तच्चेति । साधनचतुष्टयस्य वृत्तत्वे हेतुं वस्तुसामर्थ्यमाह - अनेनेति । नित्यानित्यविवेकान्नित्येच्छा अनित्यजिहासा च ; -तदुपयोगी शमादिरिति कथमनेन विना जिज्ञासेति भावः । शमादिकं वृत्तमस्तु ; कर्म चापेक्षितमस्त्विति शङ्कायामाह – अर्थ स्वभावादेवेति । अयोगव्यवच्छेदहेतुरर्थस्वभाव एवान्ययोगव्यवच्छेदस्यापि हेतुरित्यर्थः । शमादिकं हि निवृत्तिरूपत्वात्कर्मप्रतिक्षेपकम् । -कर्मणो भेदावलम्बित्वं, ज्ञानस्य कर्मानपेक्षत्वं चेति ज्ञानकर्मणोरर्थस्वभावौ गर्भितौ । कथं विशेषप्रत्यनीकेऽध्यासः ? कथं तन्निवृत्तौ कर्मानपेक्षा ? मनसः कथं मालिन्यनैर्मल्ये ? कश्चार्थस्वभावः ? इत्याशङ्कायामुक्तं संकलय्य दर्शयति - एतदुक्तमिति । स्वरूपतिरो- ‘रध्यासः । भेददर्शनमेव ; न सत्यं किमपि ; तथा सति हि कर्मापेक्षा । ततः किं -बन्धस्य ज्ञानमात्रनिवर्त्यत्वे ? इत्यत्राह – बन्धश्वेति । समूल: ; अविद्याभेददर्शन- सहितः । ज्ञानेनैव ; न तु कर्मणा । न हि सर्पभ्रमनिवृत्तौ रज्जुधीः कर्मापेक्षा ॥ एवं समुच्चयव्युदासः । अथ करणत्वं व्युदस्यति - निवर्तकं चेति । पेक्षस्य । एतस्य ; अद्वैतविषयस्य । तस्य ; कर्मान- तत्र हेतुर्वाक्यजन्यत्वम् । कार्यम् ; बन्ध– निवृत्तिः । तर्हि कुत्रेत्यत आह– विविदिषायामेवेति ; श्रुतिप्रतिपन्नायामेवेति भावः -

३०० I श्रीभाष्यम् (जिज्ञासाधिकरणम्) स च कथमित्यत्राह—सु चेति । नैवं श्रुतमित्यत्राह - इतीममिति । इति ; वस्तुविरोधा– दिभिः करणेतिकर्तव्यतात्वायोगात् । इमम् ; प्रणाड्योपयोगम् ; अभिप्रेत्योक्तमित्यर्थः । प्रकृतमुपसंहरति–अत इति ; अतः ; हानार्थमुपादानार्थं च कर्मज्ञानस्यानपेक्षि– तत्वादित्यर्थः । अत्र व्याख्यातार आहुः - ― विरोधादप्रमाणत्वाच्चित्तशुद्धयुपयोजनात् । ज्ञानमात्रस्य हेतुत्वश्रुतेः सामर्थ्यतोऽपि च ॥ शमाद्यङ्गकताम्नानान्न धीकर्मसमुच्चयः । श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका ॥ " इति । " ; तत्त्वटीका ननु कथं वचनविरुद्धे न्यायःस्यात् ? युक्तिविरोधाद्भीतस्य च ते श्रुतिविरोधापत्ति- रित्यत्राह - श्रुतय इति ; युक्तेरनुग्राह्यमध्यस्तीति चकाराभिप्रायः । स्वरूपतो विरुद्धत्वं यौक्तिकं प्रागुक्तम् ; फलतस्तु श्रौतमिहोच्यते — अनित्यमेव हि कर्मफलं, नित्यस्तु मोक्ष इति । ज्ञानस्यैव न तु कर्मभिः समुच्चितस्य विकल्पितस्य अनुगृहीतस्य चेत्यर्थः ; युक्तयनुगुणस्यैवेति वा । दर्शयन्तीत्युक्तया स्पष्टस्य तर्केणानुसंधानमप्यधिकम्, अस्फुटार्थश्रुत्यन्तरं च दुर्बलमिति सूच्यते । " अविदित्वा " इत्यस्य वाक्यस्य मोक्ष- साधनवित्तिरहितो हि कर्म करोतीति तात्पर्य मत्वाह– अन्तवदिति । बहूनां चिर- कालानुष्ठितानामपि कर्मणामनित्यफलसाधनत्वमित्यवधारणाभिप्रायः । तद्यथेत्यादौ पुण्य- शब्दो न संकोचाई इत्याकूतम् । ब्रह्मविदामोतीति वाक्येऽप्यवधिः कर्मसमुच्चयश्च न श्रुत इति ज्ञानस्य नैरपेक्ष्यसिद्धिः । नन्वत्रापि वेद्यत्ववेदितृत्वप्राप्यत्वप्राप्तृत्वैर्भेदधीरस्ती- त्यत्राह ब्रह्म वेदेति ; अनेन नित्यं ब्रह्मभूतस्य भ्रान्तिसिद्ध ब्रह्मत्वनिवर्तके वाक्ये कर्मकर्तृव्यपदेशः काल्पनिक इति ख्याप्यते । न केवलं कर्मसमुच्चयस्याश्रुतत्वं, प्रतिबन्ध - निवृतेर्ज्ञानमात्रनिवर्त्यत्व कण्ठोक्तेर्वावश्चास्तीत्यभिप्रायेणाह – तमेवेति । वेद्यावधारणमप्यत्र वेदनस्य नैरपेक्ष्यमभिप्रैति । सनत्सुजातवाक्यान्मृत्युरिहाविद्या । आदिशब्देन “किमर्था वयं यक्ष्यामहे " " न कर्मणा न प्रजया " इत्यादिसंग्रहः ।

(१ – १ – १) तत्त्वटोका एताः सयुक्तिका बह्वयः स्फुटार्थाः प्रतिरुन्धते । अन्यामनुपपन्नार्थामव्यक्तविषयां श्रुतिम् ॥ २८६ ॥ 11 २०१ विषमसमसमुच्चयद्वये सिद्धान्ते च श्रुतिसूत्राभ्यामुक्तमपेक्षितत्वमनुवक्ति - यदिति । अपिरत्र गर्हार्थः ; यथाभिमानं पक्षत्रयपरिग्रहप्रयुक्तप्राधान्यपरो वा । चः प्रतिक्षिप्तश्रुत्य- न्तरोक्तसमुच्चये । स्वेष्टश्रुत्यादेर्दुर्वारत्वादत्र तालर्यान्तरक्लृप्त्योत्तरमाह तदिति । “यज्ञा- दिकर्मापेक्षा विद्या’ इति स्वरूपोत्पत्तौ फलोत्पत्तौ वापेक्षितत्वेन यत्कर्मोक्तं तदित्यर्थः । उक्तिमात्रपरामर्शे तु न फलोत्पत्तौ कर्मोपयुज्यत इत्येवंप्रकारेण तत्परिहर्तव्यमिति योज्यम् । उक्तार्थगोचरश्रुतिसूत्रपरामर्शे तु " अविद्यया मृत्युं तीर्त्वा तु इत्यादिवदर्थान्तरकल्पना- नर्हमपीत्यपिशब्दार्थः । अध्याहारश्च प्राग्वत् । वस्तुविरोधात् ; भेदवासनासंवर्धक- तयान्तवत्फलतया चात्मद्वैतज्ञानस्य तत्फलस्य च विरुद्धत्वादित्यर्थः ; यद्वा द्वैताद्वैतवासन- योस्तत्फलभूतबन्धमोक्षयोश्च वस्तुनोर्मिथो मिथः प्रातिभटघादिति । अधीतस्य सन्प्रत्ययस्य वैयर्थ्यमयुक्तमित्यभिप्रायेण श्रुत्यक्षरपर्यालोचनयेत्युक्तम् । अन्तःकरणनैर्मल्य- 99 द्वारेणेति ; इदं तावत् सिद्धान्तिनोऽप्यभिमतम् । तथोत्तरत्राप्युपयुज्यतामित्यत्राह- न फलेति ; फलशब्द इह शास्त्रफलं ज्ञानं तत्साध्यमोक्षं च सामान्यतो ब्रूते । विद्याया अपि हि फलत्वं वदन्ति - " ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्ह- णात् " इति । वित्तिमोक्षयोः कर्मोपयोगे श्रुत्यक्षरविरोधंव्यनक्ति – विविदिषन्तीति ; न हि ’ विदन्ति’ इति श्रूयते, न च ’ अपवृज्यन्ते ’ इति । ननु यदि श्रुतत्वाद्विवि- दिषासाधनत्वं तर्हि “क्रियावानेष ब्रह्मविदां वरिष्ठः” इत्यादिश्रुत्या विविदिषायाः पश्चात् वेदनसाधनत्वमपि स्यात् ; तत्राह - - विविदिषायामिति । कर्मणां शमादीनां च विद्यार्थतया श्रुतत्वाविशेषेऽपि श्रुत्यैव व्यवहिताव्यवहितहेतुत्वेन व्यवस्थापनमित्य- भिप्रायेण जातायामित्युक्तम् । शमादीनामेवेत्यवधारणेन तेषां कर्मनिवृत्तिरूपतया कर्मसमुच्चयानर्हत्वं व्यज्यते । उत्पत्तिशिष्टशमदमादिगुणावरोधे हि न कर्मणां ज्ञाने विनियोगः शक्यः, किं पुनर्विरुद्धगुणावरोधे ; कर्मणः स्तावकं, न विनियोजकम् । ; 66 क्रियावान्” इत्यादि वाक्यं तु 99 66 यद्वा यज्ञेन इत्यादौ च वेदन- सहयोगलक्षणतृतीयाकॢप्तिर्न समीचीना; अतः कर्मणां वित्त्यर्थविनियोगासिद्धौ न तादर्थ्येन सत्त्वशुद्धिलक्षणद्वारकॢप्तिः ; विविदिषायां तु विनियोगात्तक्कप्तिर्युक्तेति-

३०२ भावः । श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) कर्मण इव शमादेर्न द्वारसापेक्षत्वमित्यभिप्रायेण अन्तरङ्गोपायतामि- त्युक्तिः । अतोऽपि शमादिभिः कर्मणः समुच्चयक्लृप्त्यनर्हतां श्रुतिरेवाह ; न तु बहिष्ठ- युक्तया श्रुतेर्लिङ्गादिभिर्वा साध्यत इत्यर्थः । यद्वा श्रुत्या हि कर्मापेक्षत्वशङ्का ; श्रुतिरेव तद्विरुद्धत्वं वक्ति ; अविशिष्टं च श्रुतित्वमनयोः ; युक्तयनुग्रहात्तु बलीयस्त्वमस्याः विविदिषन्ति " इत्यत्र वेदनलक्षणा च पदान्तरविमर्शपक्षिणी वाक्य कक्ष्यानिवेशाद्वि- प्रकृष्टा ; श्रुतिस्तु प्रथमकक्ष्यायां स्थितेति भावः । समुच्चयवदेवात्र विकल्पोऽपि न कर्मणः । शमाद्यैरव्यवहितैरसाम्यादिति मन्यते ॥ २८७ ॥ भूत्वेति क्त्वाश्रुतेरेषां साक्षादङ्गत्वमीयते । हित्वा विविदिषादीनां कल्प्यमन्यत्तु कर्मणः ॥ २८८ ॥ इति दान्तः ; विषयदोषदृष्ट्या काम्यादिषु निवृत्तवाह्याक्षः * । " मनसो दमनं दमः दान्तिः स्मर्यते ; " मनसो विजयः शमः ; विजितस्य तस्य तत्त्वविषयनियोगयोग्यता दमः " इति वाचस्पतिः । उपरतः ; देहयात्रायामपि यदृच्छालाभसंतुष्ट्या नाति- प्रवृत्तः । तितिक्षुः ; ‘दुर्निवाराणि द्वन्द्वानि ’ इति शेषः । समाहितः ; ब्रह्मण्येका- प्रधीः । आत्मनि ; शरीरे; अवधारणमासत्त्यतिशयपरम् । ’ राहोः शिरः’ इति - चद्वा भेदक्लृप्त्या ‘ आत्मन्येवात्मानम्’ इत्युच्यते ; न हि वस्तुतः स्वस्मादन्योऽन्यत्र वा मृग्य इति भावः । पश्येत् इत्यनेन प्रत्यक्षभ्रमस्य तादृशमेव बाधकमिति सूच्यते । यदि न कर्मणा धीः, केन तर्हि स्यात् ? विद्योत्पत्तौ चानपेक्षितमपि कर्म खल्वेवं वर्तयन् ” इत्यादिश्रुतिबलाद्विद्यया विकल्पतः समुच्चयतः प्रधानतयानुग्राहकत्वेन वा मुक्तावपेक्ष्यतामित्यत्राह – तदिति ; स्वरूपफलविरोधादित्यर्थः । एवम् ; यज्ञादीनां तृतीया श्रुत्या विविदिषायां विनियुक्तानां विद्यासाधनत्वासंभवप्रकारेणेति यावत् ।

  • “दमः बाह्यकरणानामनर्थविषयेभ्यां नियमनम् । शमः 6" स अन्तःकरणस्य तथा नियमनम् " इति गीताभाष्यम् । अत्र तात्पर्यचन्द्रिका - शमदमशब्दयोरेकै- । कस्योभयाभिधानसामर्थ्यsपे पौनरुक्त्यपरिहाराय विषयभेदे वक्तव्ये नियमन - क्रमेण दमरामयोर्वाह्मान्तरकरणविषयत्वोक्तिरिति । (गोता. 10. 4). CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) फलेति । तत्त्वटीका जन्मान्तरशतेत्यादि कचित्तादृशसंभवे । अस्मिन् जन्मनि धर्माणामनाघ्राणाय भाषितम् ॥ २८९ ॥ अतो विविदिषार्थत्वं नास्मिन् जन्मनि कर्मणः । विचारवृत्तता सूत्रे वक्तव्येत्यभिमन्यते ॥ २९० ॥ ३०३ ननु फलतो बन्धकं कर्म कथं विविदिषा साधनमपि स्यादित्यत्राह - अनभिसंहित- अनिष्टोऽपि भवेद्दण्डः प्रतिषिद्धेषु लोकवत् । काम्येषु तु फलं तत्तद्विनियोगानुसारतः ॥ २९९ ॥ -चित्तशुद्धयादिव्यवच्छेदाय विशेषशब्दः " कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते " इत्यादि स्मृतिवाक्यं श्रौतविनियोगबाधाद्व्यवधानस हमित्यभिप्रायेणोक्तम् — मृदितकषायस्य विविदिषोत्पत्तौ सत्यामिति । कषायः; कल्मषं रागादिश्च । नात्र कर्मणामव्यवधानेन प्रमाजनकत्वम्, प्रमाणेब्वनन्तर्भावात्; अतो निर्विशेषत्रह्मात्मैक्यधोस्तत्त्वावेदकवाक्यजन्ये- त्यभिप्रायेण तादृशवाक्योपादानम् । तत्र कारणत्वेन लक्ष्यत्वाद्ब्रह्मणः प्रथमं कारणवाक्य- माह – सदेवेति । अवधारणाभ्यामद्वितीयपदेन चौचित्याद्विजातीयसजातीयस्वगतभेद- निरासः । षड्विधतात्पर्यलिङ्गोपेतसद्विद्याबलाद्गुणोक्तिमत्कार गवाक्यानि स्तुत्यादिपराणि वे सद्विद्योक्तमीक्षणादिकमपि बाध्यमित्यभिप्रायेण शोधकैरपि निर्विशेषत्वमाह - सत्यमिति ; अनृतजडपरिच्छिन्नत्वव्यावृत्तिरिहाभिप्रेता । सत्यादिवाक्यस्य व्यावृत्ति- परत्वव्यक्त्यै शाब्दं विशेषनिषेधमाह - निष्कलमिति निरंशमिति यावत् । निष्क्रियम् ; निष्पदं निर्व्यापारं वा । शान्तम् ; वस्तुतः षड्भिर्विकारैरूर्मिभिश्च त्यक्तम् । सर्वजीवोद्देशेन तद्व्यापकतया ब्रह्मैक्यविधिमाह-अयमिति । सद्विद्या- यामप्याप्ततमेन पित्रा पुत्रं प्रति तात्पर्यभूम्ना तद्विधिं वक्ति–तत्त्वमिति । आदि शब्देन " आत्मा वा इदमेक एवाग्र आसीत् " “आनन्दो ब्रह्म” “यत्तददेश्यम- ग्राह्यम् तद्योऽहं सोऽसौ " इत्यादिग्रहः । वाक्यादेव जन्म यस्य तद्वाक्य जन्म, भावः । 99 66 तस्मात् ज्ञानात् * ; प्रत्यक्षरूपादिति शेषः । तत एवाविद्या निवर्तते ; राजत्वोपदेशेन व्याधत्वादिभ्रमनिवृत्तिवदिति भावः ।
  • अनेन ’ वाक्यजन्मज्ञानात्’ इति मूलपाठ आचार्याभिमत इति प्रतीयते ।

३०४ " स खलु नन्वदृष्टस्य श्रीभाष्यम् ज्ञानादेवेति निर्धारः कर्मणो मुक्तिसाधने । समुच्चयविकल्पाङ्गप्रधानत्वापनुतये ॥ २९२ ॥ इत्यादिकमन्यपरम् । । (जिज्ञासाधिकरणम्) ध्याननियोगजन्यज्ञानपक्षं तु दूषयिष्यति । सर्वकार्य हेतुतया कर्मणो वाक्यसहकारित्वादविधेयज्ञानान्मुक्तिरिति पक्षे श्रवणमननपूर्वकध्यानविवेस्त्रयाणां वा विधीनां वैयर्थं च स्यादित्यत्राह - वाक्यार्थ इति । अदृष्टं हि दृष्टोपनायकम् ; तत्सिद्वैः श्रवणादिभिः शमादिभिश्च वाक्यं चरिता- र्थम् ; ततो विश्वबाधकज्ञानोत्पत्तौ दृष्टोपकारितया श्रवणादित्रयसाफल्यमित्याशयः । ननु नित्यनिर्विशेषस्वप्रकाशे शास्त्रवैयर्थ्यम् ; " ब्रह्मवित्” इत्यादिषु कर्मकर्त्रादिभेदोक्तिवि- रोधः ; ऐक्यतत्त्वदर्शी च न शिष्यं पश्येत्; भेदभ्रमोपेतश्च कथं वाक्यं श्रावयेदित्यत्राह - श्रवणमिति ; अत्रेत्युपस्कार्यम् । तत्त्वदर्शिन इत्यपि स्वाभीष्टविशेषाभिप्रायम् । प्रतिपादकानि ; प्रदायकानि उत्पादकानीति वा । कर्ममीमांसा ह्यविद्वदर्था कर्तव्य- स्थापिका ; ब्रह्ममोमांसा तु तत्त्वबोधोत्पादनेन सर्वकर्तव्यनिवर्तिकेति विशेषः । आपा- तधीव्यावृत्त्या मीमांसा फलव्यञ्जनाय न्याययुक्तत्वोक्तिः वस्तुतोऽत्र न्याययुक्तत्वं स्वरूपत एव ग्रहणमिति केचित् । भेदभ्रमनिवर्तकधीहेतुतया शास्त्रादेः सफलत्वम् । आविद्यभेदानुवादेन तन्निषेधे तात्पर्यादविरोधः । ऐक्यदर्शिनोऽपि बाधितानुवृत्तेराचार्य- त्वाभिमानेन श्रावकत्वमिति भावः । न्याययुक्तग्रहणे किं पुनर्मननेन ? अत आह- एवमिति । स्वात्मनि ; स्वचित्ते । हेतुतः प्रतिष्ठापनम् ; संशयादेरपुनरङ्कुरत्वाय युक्तिसंस्कारपटिन्ना दृढावस्थापनमित्यर्थः । ननु ताभ्यामेव विपरीतविस्रम्भो निवर्तेत, अन्यथा तद्वैफल्यात् ; किमत्र ध्यानेनेत्यत्राह – एतदिति । एतदुपकृतवाक्यजन्याद्वैत- साक्षात्कारविरोधिनीनां भेदवासनानां निरासकतया ध्यानं सफलमिति भावः । श्रूयते च - " तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः" इति । स्यादे- तत् — ध्यानपर्यन्तोपकारेण शास्त्रे कृतकृत्ये योगबलान्निवर्तकधीः ; ; अन्यथा चक्रकं स्यादित्यत्राह - श्रवणादिभिरिति । निवृत्ते हि प्रतिबन्धे हेतूनां यथावत्कार्यकरत्वम् ; हेत्वन्तरान्वेषणे तु गौरवम्; अतो वाक्यत एव वैशद्यवती निवर्तकधीः ; श्रवणात्पूर्वमिव श्रवणतोऽप्यविशदधीरेव ; तदुपजीवनेन मननादिक्रमेण ज्ञानान्तरस्य साध्यत्वान्न चक्रक- मिति भावः । इतेिर्हेतौ ; एतेषु पर्वसु कथंचिदपि कर्मनैरपेक्ष्यादित्यर्थः ; एवंरूपस्य । ।

( १ – १ – १ ) तत्त्वटीका ३०५ 66 99 कर्मनिरपेक्षनिवर्तकज्ञानमूलकारणस्येति यावत् । साधारणानियतानुपयुक्तानां व्यावृत्त्यै श्रवणस्यावश्यापेक्षितम् इति पदत्रयम् । तादृशं त्वदिष्टं किंमित्यत्र हार्दमुद्गिरति— तदिति । नास्त्यक्कृतः कृतेन शान्तो दान्तः " " येनाहं नामृता स्यां किमहं तेन कुर्याम् " " “ तं मा भगवान् शोकस्य पारं तारयतु" इत्यादिभिरेतच्चतुष्टयसिद्धिः । अस्यावश्यापेक्षितत्वं कुतः ? तत्राह – अनेनेति । अनित्यजिहासा नित्योपादित्सा च तद्विवेकतः । तत्पूर्वको विचारस्तु स्वरूपफलयोश्चित्तविक्षेपनिवर्तकशमाद्यपेक्षः । अन्य- विरागश्च शमाद्यर्थः । एतेषां न कर्मविचारवत् व्यभिचारो व्यवधानं वा । एतदन्यतमवै- कल्येऽपि त्याज्योपादेयजिहासोपादित्सयोरसिद्धेरुक्तप्रकारश्रवणं न सिध्येदिति भावः । कर्मविचारोऽपि विवेकोपयोगाद् वृत्तत्वेन वक्तव्य इत्यत्राह – अर्थेति । शमादेः कर्मनि- वृत्तिरूपत्वं, कर्मणोऽनुपयुक्तविरुद्वत्वे, तत्त्वज्ञानस्याध्यस्तनिवर्तनेऽन्यनिरपेक्षत्वं चार्थस्व- भावः । ज्ञानस्यैवापेक्षितत्वे तत्साधनचतुष्कस्य वृत्तत्वे च यो हेतुस्तस्मादेवेत्याद्या- वधारणम् । एवं वाक्यद्वयेन चतुष्कस्यायोगान्ययोगव्यवच्छेदावुक्तौ । नन्वज्ञानादि- प्रत्यनीकस्वमात्रप्रकाशे निर्विशेषे नित्यमुक्ते ब्रह्मणि कथमविद्यातिरोधानभेददर्शनबन्ध- तन्निवृत्तिनिवर्तकादीनां संभव: : कर्मकृतस्य बन्धस्य निष्कृतिनयात् कर्मविशेष एव निवर्तकः स्यात् । निवर्तकज्ञानं च " ततो ज्ञानं प्रवर्तते " इति स्मरणात् कर्मसाध्यम् । कथं च . बन्धकत्वभावस्य कर्मणः क्वचिन्मुमुक्षोपयोगः ? अन्तःकरणस्य कुतः कीदृङ् मालिन्यम् ? कुतश्च कीदृङ् नैर्मल्यम् ? कर्मणश्च प्रमाणतन्त्रं ज्ञानं प्रतीव विषयानुकूल्यधीनिनां विविदिषां प्रत्यपि कारणत्वं न दृष्टम् । निवृत्तिधर्मस्य मोक्षहेतु- त्वाभावे तद्वाक्यवैयर्यप्रसङ्ग इत्यादिशङ्काशङ्कनुद्धरन् कण्ठोकमाभिप्रायिकं च संकल्य्य दर्शयति– एतदिति । प्रपञ्चितस्य संक्षेपः संक्षिप्तस्य प्राञ्चनम् । एतदुक्तं भवतिना समाधिर्व्याकुलस्य च ॥ २९३ ॥ आच्छादकत्वोक्तया भावरूपत्वं सूच्यते । तत एव तदुपहितस्योपादानत्व- संभवः । अविद्यया मनागिव छन्नत्वाद्ब्रह्मण्यध्यासाद्युपपत्तिः । स्वप्नदृष्ट पुरुषान्तरादि- भेददर्शनसाम्यसूचनाय अपारमार्थिक शब्दः । भेददर्शनमेवेत्यत्र देहात्मैक्यबुद्धावपि कर्तृत्वभोक्तृत्वदेवत्वमनुष्यत्वादिभेददर्शनमन्तर्णीयते । तेन देहातिरिक्तत्वज्ञानमेवालं, कि- 39

३०६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) प्रायः । मकर्तृत्वादिविशेषितब्रह्मज्ञानेनेति च शङ्का निरस्ता । कर्मणोऽपि न स्वयं बन्धकत्वम्,- दृष्टोपनायकसाधारणनिमित्तत्वात् । अतो भेदभ्रमसिद्धस्य कर्मणोऽप्यपारमार्थिकत्वात्. भेदभ्रमद्वारेणैव बन्धकत्वाच्चात्र ज्ञानेतरनिवर्त्यं सत्यं किमपि न बन्धकमस्तीत्यवधारणाभि- नन्वसत्यात्सत्यसिद्धिस्त्वन्मतेऽस्तीत्यत्राह - बन्धश्चेति । बन्धस्याबाधितत्वे हि सत्यत्वशङ्का ; ब्रह्मणो नित्यमुक्तत्वविरोधश्चेति भावः । निष्कृतिन्यायपरिहारा– याह – स चेति । सत्कर्मणा पापनिवृत्तिश्च भ्रान्तिसिद्धा । अतो मूलभूतावि– द्याप्रभृति बन्धपर्यन्तं कृत्स्नं मन्त्रनिरपेक्षरज्जुसर्पनयात् कर्मनिरपेक्षाद्वैतबुद्धचैव वाध्यमित्य- भिप्रायेण ज्ञानेनैवेत्युक्तम् । मोक्षसाधनस्य कर्मसमुच्चयाभावेऽपि स्मृतिवशात्तदुत्पादकस्य स्यादित्यत्राह – निवर्तकमिति । अयं भावः — विगीतं प्रमाणजन्यं निवर्तकज्ञानत्वात्. अविगीतवत् ; न कर्मजन्यमिति वा साध्यम् । स्मृतिस्त्वन्यपरा । परिशेषाद्वाक्य हेतु- कत्वं स्वोक्तयुक्तिवलादिति परोक्तः कर्मोपयोगः प्रमाणशून्य इत्यभिप्रायेणाह — तस्यै- तस्येति । तस्य; अद्वैतगोचरस्य कर्मव्यतिरिक्तकरणतदनुग्राहकवतः । एतस्य ; स्वविषयविरुद्धबाधे स्वयमेव समर्थस्य । अन्वयव्यतिरेकवतः कारणान्तरव्यपोहाय वाक्यजन्य– त्वोक्तिः । “ यज्ञेन विविदिषन्ति ” इति श्रुतेर्यज्ञादीनां विनियोगपृथकवेन पृथक्फलत्वो– पपत्तिरिति ख्यापयति– विविदिषायामिति । यथाश्रुतायामित्यवधारणाभिप्रायः । तत्राप्यव्यवहितहेतुत्वं तुशब्देन व्यावर्त्यते । ’ असिना जिघांसति’ इत्यादिवत् क्लिष्टग तिर्वाधसिद्धौ । अथ मनोमालिन्यादिकं विवृणोति - स चेति । धर्मस्य पापनिवृ- त्त्यादि साध्यान्तरं विहितम् । श्रद्धायाः सत्त्वरूपसाध्यान्तरं च शास्त्रसिद्धम् । सत्त्वस्य ज्ञानसाधनत्वोक्तिश्च परंपरया स्यात् । पापमूलरजस्तमोविवृद्धिमनोमालिन्यम् । धर्मेण तदपनुत्त्या सत्त्वशुद्धिर्नर्मल्यम् । कर्मभिः शुद्धचित्तस्य तत्त्वे स्यादनुकूलधीः । निर्णिनीषा ततस्तस्मिन् कर्मजैवं भवेदिति ॥ २९४ ॥ अत्र प्रथम इतिर्हेतौ ; सोपबृंहणश्रुतिस्वारस्यानुगुणनिर्वाहादित्यर्थः । श्रुत्यन्त- इमम् ; विविदिषो- त्पत्तावपि त्रिचतुरकक्ष्याव्यवहितमिति यावत् । अभिप्रेत्य ; शाब्दत्वाभावेऽपि रेण स्मृत्या च स्वीकृत्य । ईदृशोपयोगान्निवृत्तिधर्मविवेश्व साफल्यमिति भावः । अत्रो- पायशोधने वक्तव्यशेषं न किंचिदित्यभिप्रायेण निगमयति-अत इति । उपादातुं हातु

< (१ – १ – १) मूलभावप्रकाशिका

  • वा ज्ञानतद्विचाराभ्यां कर्म तद्विचारयोरनपेक्षणादित्यर्थः । अत्रायं संग्रहस्तूलिकास्थः 9 66 विरोधादप्रमाणत्वाच्चित्तशुद्धयुपयोजनात् । ज्ञानमात्रस्य हेतुत्वश्रुतेः सामर्थ्यतोऽपि च ॥ शमाद्यङ्गकताम्नानान्न धीकर्मसमुच्चयः । श्रवणादिक्रमोन्निद्रवाक्यजा वीर्विमोचिका " ॥ ; ३०७
  • इति । विरोधात् ; स्वरूपतः फलतश्चेति शेषः । अप्रमाणत्वात् ; कर्मणां ज्ञान- - तत्फलयोः साधनत्वे प्रमाणशून्यत्वात् ; यद्वा प्रमाणत्वाभावात् । सामर्थ्यतः ; मिथ्याभू- तबाधे ज्ञानस्यैव पर्याप्तत्वात् । धीकर्मसमुच्चयः ; मतत्रयोक्तप्रकारः । उन्निद्रत्वं प्रति- बन्धनिवृत्त्या पुष्कलत्वंम् । मूलभावप्रकाशिका “वक्ष्यति च – सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् " इति भाप्योक्तं कर्मणः स्वरूपोपकार्यङ्गत्वं निरस्यति – यदपि चेदमुक्तमिति ; यच्छब्द: कर्मपरामर्शी ; कर्मा- पेक्षा विद्या’ इति यत्कर्म विद्याहेतुत्वेनोक्तं तत्कर्मेत्यर्थः । वस्तुविरोधादिति ; अनन्तविकल्पास्पदं कथमिव साधनं भवेदिति प्रागुपन्यस्ताद्वस्तुविरोधादित्यर्थः । अन्त:- करणेति; “ कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते " इत्यादिप्रमाणानुसारादिति भावः । न फलोत्पत्ताविति; विविदिषाफलभूतज्ञानोत्यत्तावित्यर्थः । श्रुत्यक्षरपर्यालोचनयेत्युक्तं दर्शयति- विविदिषन्तीति । न हि विदन्तीत्युक्तमितिभावः । विविदिषायामिति; ‘सत्याम्’ इति शेषः * । अन्तरङ्गेति; विविदिषासाधनकर्मापेक्षयेत्यर्थः । उक्तं च शांकरभाष्ये सर्वापेक्षाधि- करणे – “विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शर्मादीनि विविदिषासंयोगात्तु बाह्य -तराणि यज्ञादीनि " इति । शान्त इतिः शमः; अन्तरिन्द्रियनिग्रहः । दमः; बहिरिन्द्रिय निग्रहः । उपरतिः ; कर्मत्यागलक्षणः संन्यासः, परमते उपरतिशब्दस्य संन्यासार्थकत्वात् । आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । 66 योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 99 इत्यादिवचनानुसारेण चेतसो विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानं, ततः कर्म- संन्यासस्यैव विद्यानिष्पादकत्वमित्यभ्युपगमान्न कर्मणो विद्याहेतुत्वप्रसक्तिरिति भावः ।
  • अनेन ’ विविदिषायां जातायाम्’ इति स्थाने ’ विविदिषायाम् ’ इत्येव मूल- भावप्रकाशिकानुदाहतो मूलपाठ इति गम्यते । CC-0 No Rights Reserved. Digitized by eGangotri३०८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 99 तितिक्षा ; क्षमा । समाहितत्वम् ; अवहितचित्तता । " आत्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति” इति प्रसिद्धः श्रुतिपाठः । सर्वमात्मस्थमात्मनमेव पश्यति आत्माभिन्नं पश्यतीति परेषामभिमतोऽर्थः। नन्वस्तु शमदमादिरन्तरङ्गोपायः, किं तदविद्यानिवर्तकब्रह्मप्रमितिकारणम् ? इति जिज्ञासायामाह —तदेवमिति । जन्मान्तरशतेति ; अत्र " अनेकजन्मसंसिद्धः इत्यादिवाक्यान्यभिप्रेतानि । सदेवेति ; इदं जगत् अग्रे सृष्टेः प्राक् एकमेवाद्वितीयं सजातीयविजातीयभेदरहितं समैवासीदिति पराभिमतार्थः । सत्यमिति ; अनृतजडपरि- च्छिन्नव्यावृत्तमित्यर्थः । निष्कलमिति ; कलोऽवयवः । शान्तम् : अशनायाधूर्मिषट्क- रहितमित्यर्थः । तर्हि श्रवणादिविधिवैयय्यमित्यत्राह - वाक्यार्थेति । प्रतिपादकानि ; निष्पादकानीत्यर्थः । तत्त्वदर्शिन आचार्यात् इत्येतत् " स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” इति श्रवणाङ्गोपसदनविधिलब्धमभिप्रेत्योक्तमिति द्रष्टव्यम् । न्याययुक्तार्थग्रहणमिति तात्पर्यनिर्णायकोपक्रमादिन्यायानुसंधानपूर्वकं सर्वाण्यपि वेद- वाक्यान्यात्मैकत्वतात्पर्यरूपार्थप्रतिपादकानीत्येवंरूपार्थग्रहणमित्यर्थः ; न तु वाक्यार्थ- ग्रहणम्, तस्य तन्मते उक्तरूपश्रवणफलत्वात् । आचार्योपदेशजन्यमात्मज्ञानमेव श्रव- णम्; “आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यः" इत्यात्मविषयतया निबध्यमानस्य श्रवणस्य तात्पर्यावधारणरूपत्वासंभवादिति वाचस्पतिमतावलम्बनेन न्याययुक्तार्थग्रहणं श्रवणमित्यु- क्तम् । हेतुत इति ; “मन्तव्यश्चोपपत्तिभिः" इति स्मृत्यनुसारादिति भावः । एतद्विरो- धीति ; श्रुतात्मैकत्वविरोधीत्यर्थः । निरस्तेति ; भेदवासनाया असंभावनाविपरीतभावनाख्य– चित्तविक्षेप हेतुतया अविद्यानिवर्तकवाक्यार्थावगतिप्रतिबन्धकत्वात्तन्निरासोऽपेक्षितः । अद्वि- तीयं ब्रह्मणि तात्पर्यावधारणरूपेण वा तात्पर्यावधारणानुकूलन्यायानुसंधानात्मकचेतोवृत्ति– विशेषरूपेण वा श्रवणेनाद्वैते प्रमाणासंभावना निरस्यते; उपपत्त्यनुचिन्तनात्मकेनानेन प्रमेया- संभावना निरस्यते ; अनवरताभेदभावनालक्षणनिदिध्यासनेन विपरीतभावना निरस्यत इति `परेषां मतम् । एवंरूपस्येति ; भेदवासनानिरासकस्यात्मैकत्वतात्सर्यावधारणरूपश्रवण- -स्येत्यर्थः । । शमदमादिसाधनसंपदिति ; यद्यपि नित्यानित्यविवेकस्य वैराग्यहेतु- त्वाद्विवेकानन्तरं वैराग्यस्यैव पाठ उचितः, तथाप्यत्र पाठक्रमो न विवक्षित इति द्रष्टव्यम् । जिज्ञासानुपपत्तेरिति ; ब्रह्मजिज्ञासाशब्दितब्रह्मविचारानुपपत्तेरित्यर्थः । ननु साधनचतुष्टय- चत्कर्मापि पूर्ववृत्तमस्त्विति शङ्कां निरस्यति - अर्थस्वभावादेवेदमेवेति । यथा शम-

( १ – १ - - १) मूलभावप्रकाशिका


३०९ भासमा- दमादेरन्तरङ्गोपायत्वलक्षणार्थस्वभावात् पूर्ववृत्तत्वमवसीयते, एवमेव कर्मणां ब्रह्मात्मैकत्वज्ञान- विरोधित्वलक्षणार्थस्वभावादेव न पूर्ववृत्तत्वमिति भावः । ननु मृषावादिमते ब्रह्मणः अहम्’ इति भासमानत्वात् कथं तद्विषयकाज्ञानसंभवः ? संभवे वा ज्ञानेनाज्ञानमात्रस्य निवृत्तावपि कर्तृत्वादिबन्धस्य कथं निवृत्तिः ? कर्मणां कथं विविदिषायामुपयोगः ? इति जिज्ञासां शमयन् बुद्धिसौकर्यायोक्तमर्थं निष्कृष्य दर्शयति – एतदुक्तमिति । नेऽपि चन्द्रे ’ कश्चन्द्रः ? ’ इत्यज्ञानकार्यभूतजिज्ञासाया अनुभूयमानत्वाद्भासमानत्वमात्रं नाज्ञानविरोधीति ब्रह्मस्वरूपाच्छाद के तिभाप्याभिप्रायः । ‘आच्छादिकाविद्या- इति क्वचित्पाठो दृश्यते ; तत्पक्षे आच्छादनमाच्छादिका ; ’ कारिका, शायिका’ इति “ धात्वर्थे ण्युल्” इति भावे ण्युल् ; तद्धेतुरविद्या आच्छादिकाविद्येति मध्यमपदलोपी वत् 66 समासः ; न तु कर्मधारयः, येन " पुंवत्कर्मधारयजातीयदेशीयेषु " इति पुंवद्भावादा- च्छादकाविद्येति स्यादिति द्रष्टव्यम् । । इति लघुपूर्वपक्ष: । C


लघुसिद्धान्तः श्रीभाष्यम् अत्रोच्यते — यदुक्तमविद्यानिवृत्तिरेव मोक्षः, सा च ब्रह्मविज्ञा- नादेव भवतीति तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यै - विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम् - - किं वाक्याद्वाक्यार्थ- ; ,


ज्ञानमात्रम्, उत तन्मूलमुपासनात्मकं ज्ञानमिति । न तावद्वाक्य- जन्यं ज्ञानम् ; तस्य विधानमन्तरेणापि वाक्यादेव सिद्धेः, तावन्मात्रे - णाविद्यानिवृत्त्यनुपलब्धेश्च । न च वाच्यम् — भेद वासनायामनिर- स्तायां वाक्यमविद्यायानिवर्तकं ज्ञानं न जनयति ; जातेऽपि सर्वस्य सहसैव भेदज्ञाना निवृत्तिर्न दोषाय, चन्द्रैकत्वे ज्ञातेऽपि द्विचन्द्रज्ञाना- निवृत्तिवत्; अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवतीति– सत्यां सामग्रयां ज्ञानानुत्पत्त्यनुपपत्तेः, सत्यामपि विपरीतवासनाया- माप्तोपदेश लिङ्गादिभिर्बाधकज्ञानोत्पत्तिदर्शनात् । सत्यपि वाक्यार्थ- ज्ञानेऽनादिवासनया मात्रया भेदज्ञानमनुवर्तत इति भवता न शक्यते वक्तुम्, भेदज्ञानसामग्रया अपि वासनाया मिथ्यारूपत्वेन ज्ञानोत्प- त्यैव निवृत्तत्वात् । ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्तकान्तराभावात् कदाचिदपि नास्या वासनाया निवृत्तिः । वास- नाकार्यं भेदज्ञानं छिन्नमूलम्, अथ चानुवर्तत इति बालिशभाषितम् । द्विचन्द्रज्ञानादौ तु बाधकसंनिधावपि मिथ्याज्ञानहेतोः परमार्थतिमि- रादिदोषस्य ज्ञानबाध्यत्वाभावेनाविनष्टत्वान्मिथ्याज्ञानानुवृत्तिरविरुद्धा ; प्रबलप्रमाणबाधितत्वेन भयादि कार्यं तु निवर्तते । अपिच भेद-

( १ – १ – १) श्रुतप्रकाशिका ३११ वासनानिरसनद्वारेण ज्ञानोत्पत्तिमभ्युपगच्छतां कदाचिदपि ज्ञानोत्प- तिर्न सेत्स्यति, भेदवासनाया अनादिकालोपचितत्वेनापरिमितत्वात् तद्विरोधिभावनायाश्चाल्पत्वादनया तन्निरसनानुपपत्तेः । अतो वाक्या- र्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यैर्विधि- त्सितम् । श्रुतप्रकाशिका 51 99 राद्धान्तमारभते – अत्रोच्यत इति ; अस्मिन् पूर्वपक्षे सिद्धान्त उच्यत इत्यर्थः । पूर्वपक्षोक्तेष्वर्थेष्वविरुद्धांशाभ्युपगमेन प्रतिवदति यदुक्तमिति । अविद्यानिवृत्ति: ; प्रतिबन्धनिवृत्तिः; साध्यसाधनद्वित्वनिरासोऽभिमत इत्यर्थः । यः प्रतिबन्धनिरासः कर्मसाध्य उक्तः, तस्य " तमेव विदित्वातिमृत्युमेति इत्यादिषु ज्ञानसाध्यत्वमुक्तम् । ब्रह्मप्राप्तिस्तु स्वतः सिद्धा । एवकाराभ्यां साध्यान्तरं साधनान्तरं च व्यावर्त्यते । यद्यप्यनिष्टनिवृत्तिरिष्टप्राप्तिश्च द्वयमस्ति, तथापीष्टतमब्रह्मप्राप्तेः स्वतः सिद्धायाः पृथगुपाय– साध्यत्वाभावात् प्रतिबन्धनिवृत्तिरेव साध्या । स्वत एव सर्वसाक्षात्कारक्षमं ज्ञानं प्रति- बन्धके निवृत्ते सति ब्रह्मस्वरूपरूपगुणविभवादिकं सर्वं साक्षात्कारोति, यथा सेतौ भग्ने जलं स्वयमेव गच्छति न केनचिन्नेतव्यं तद्वत् ; यथाश्मापनयने मार्गसमीकरणतत्प्रापणे उभे अपि पृथग्यत्नसाध्ये, न तथेत्यर्थः । यद्वा भावान्तरस्यैवाभावत्वादविद्यानिवृत्तिरेव ब्रह्मप्राप्तिरित्यर्थः । साध्यसाधनद्वित्वनिरासोऽभ्युपेतश्चेत्, विप्रतिपत्तिविषयः क इत्य- त्राह — अविद्येति ; साधनस्वरूपविशेषे विप्रतिपत्तिरित्यर्थः । किंरूपम् ; किं कर्माङ्ग- त्वानर्हं भवदुक्तं ज्ञानम्, उत कर्माङ्गत्वाहमस्मदुक्तं ज्ञानमित्यर्थः । किंरूपमित्यभिप्रेतं । विवृणोति — किमिति ; ‘किं वाक्यात्’ इत्यादिना परमतं स्वमतं चानुवदति, न तु परमतविकल्पः । प्रथमं परपक्षप्रतिक्षेपः क्रियते : स्वपक्षस्थापनं तु पश्चादित्यभिप्रेत्याह- न तावदिति ; न तु दूष्यशिरसोरन्यतरदूषणं क्रियते । कुत इत्याह– तस्येति । विधानमन्तरेणापीति ; प्रमाणज्ञानं वस्तुतन्त्रं न पुरुषतन्त्रम्, कर्तुमकर्तुमन्यथा कर्तुं चाशक्यत्वात् ; अतः पुरुषतन्त्रत्वाभावान्न तद्विधेयमिति तैरेवोक्तमिति भावः । वाक्यादेव ; ब्रह्मस्वरूपपरवाक्यादेव। व्युत्पत्तिमन्तं पुरुषं प्रति न्यायानुगृहीतस्य वाक्यस्यार्थबोधकत्वं स्वत:-

३१२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) सिद्धं, न तु विध्यधीनम् ; तच्छ्रवणे पुरुषस्य प्रवृत्तिश्च रागादेवेत्युपपादितम् । यद्यपि न रागात्, तदप्यध्ययनविधिरेवाधीतकृत्स्नवेदवाक्यविचारे प्रवर्तक इति " प्रज्ञां कुर्वीत " इत्यादिविधिर्निरर्थक एव । न च प्रमाणजन्यज्ञानस्य श्रेयः साधनत्वमलौकिकमिति ताद्रूप्येण तस्य विधेयत्वम्, शुक्तिरूप्यादिभ्रमनिवर्तकज्ञानस्येव बन्धनिवर्तकज्ञानस्य दृष्टार्थ- त्वाभ्युपगमात् । अतो विधिवैयर्थ्यम् । तेनासकृदावृत्ति साक्षात्कार भक्तिरूपत्वयाव- ज्जीवानुष्ठेयत्वपराणां, “ यावन्न विमोक्ष्येऽथ संपत्स्ये " इत्यादीनां मुक्तेः शरीरपातानन्तर- भावित्वपराणां, नाडीविशेषनिष्क्रमणवादिनीनां मार्गपराणां चानेकश्रुतीनां नैरर्थक्यं प्रसज्ये - तेति । एवमनेकश्रुतिविरोधस्य प्रदर्शनार्थं तस्य विधानमन्तरेणापीत्युक्तम् । अथ प्रत्यक्षविरोधं दर्शयति — तावन्मात्रेणेति । तावदंशस्ततोऽधिकेऽप्यस्तीति तद्व्यावृत्त्यर्थं तावन्मात्रेणेत्युक्तम् । बहुशास्त्रविरोधप्रत्यक्षविरोधरूपमिदं दूषणद्वयं वदता भगवतापहत- म्बेनापि वाक्यार्थज्ञानमात्रस्य मोक्षसाधनत्वं निरस्तम् ; यथा - " बुद्धे क्षेमप्रापणं तच्छा- स्त्रैर्विप्रतिषिद्धिम् ; बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत ; एनेन परं व्याख्या- तम् ” इति ; शास्त्रैरिति बहुवचनेन पूर्वोदाहृतानेकश्रुतिविरोधोऽभिप्रेतः। विप्रतिपेधोऽधि- कबलेन प्रतिषेधः, न तु प्रकरणसमवत्तुल्यबलेन प्रतिरोधः ; बहुशास्त्रविरोधः प्रबलतरः; भूयसां स्याइलीयस्त्वम् ” इति न्यायादित्यभिप्रायेण विप्रतिषिद्धमित्युक्तम् । परैरस्य दूषणस्य प्रतिवचनं द्वेषा कृतं, तदनुभाप्य दूषयति न च वाच्यमिति । वाक्यं ज्ञानोत्पत्तिमिदानीं न जनयतीति कश्चिन्निर्वाहः; तमाह–भेदेति । इदानीं ज्ञानोत्प- तिर्दृश्यत इति चेत्, तत्परिहारायाह – अविद्यानिवर्तकमिति । पश्चादपि वाक्यादेवा- विद्यानिवर्तकविशदज्ञानोत्पत्तिश्चेदिदानीमेव जनयत्वित्यत्राह भदवासनायामिति ; प्रतिबन्धकाभावश्च सामग्रद्यन्तर्भूतः ; अतः सामग्रीवैकल्यात् ज्ञानमनुत्पन्नम् ; ध्यानादि- विधयः प्रतिबन्धनिरासौपयिका इति भावः । अनेन शास्त्रप्रत्यक्षविरोधौ परिहृतौ भवतः । सनकानीनां ज्ञानाधिकत्वेन श्रुतिस्मृति प्रसिद्धानामपि ज्ञानानुदयोऽनुपपन्न इति शङ्कायां निर्वाहान्तरमाह – जातेऽपीति ; अविद्याया एकत्वात् प्रपञ्चप्रतिभासस्यैकस्य ब्रह्मणः स्वप्नरूपत्वाच्च सर्वस्येत्युक्तम् । न दोषाय; अनिवर्तकत्वं दोषाय न भवति । दयेऽपि भ्रमानिवृत्तौ दृष्टान्तं दर्शयति – चन्द्रैकत्व इति । 66


—— यत्तु ज्ञानो- अनिवृत्तं चेत् भेददर्शनं बन्धकं स्यादित्यत आह — अनिवृत्तमपीति । छिन्नमूलत्वेन ; छिन्नाविद्याख्यमूलत्वेना CC-0 No Rights Reserved. Digitized by eGangotri- (१–१–१) श्रुतप्रकाशिका ३१३ कार्यकारि ; यथा दग्धः पटः पूर्वसंनिवेशेन प्रतीयमानोऽप्याच्छादनादिकार्यायोग्यः क्रमेण विनश्येत्, यथा कुलालभ्रमितं चक्रं भ्रमयितृव्यापारोपरमेऽपि पूर्ववेगवशात् कंचित्कालं स्वय- मेव भ्रमत् क्रमेोपरमेत तद्वदिति भावः । अत्रेतिकरणस्य ‘ न च वाच्यम्’ इत्यने- नान्वयः । प्रथमं ज्ञानानुत्पत्तिं दूषयति — सत्यामिति । न्यायानुगृहीतवाक्यमेव सामग्री । प्रतिबन्धिका भेदवासनास्तीति चेत्, तत्राह — सत्यामपीति । निवर्त्या वासना निवर्तकोत्पत्तिप्रतिबन्धिका न भवतीत्यर्थः । आदिशब्दादिन्द्रियं गृह्यते । यथा चिरतरतिमिरवासितगुहायां प्रदीपो न नोत्पद्यते, तस्मिन् दीप्तिमति दीपिते सद्य एव तमो विनश्येत्, यथा क्वचिदेशे ’ सर्पः’ इति वाक्याच्चिरभ्रमितोऽपि पुरुषो न तत्र सर्पः ’ इत्याप्तोपदेशाज्जानाति यथा च ‘वनं न दग्धम्’ इति श्रुत्वा चिरं भ्रान्तस्य पश्चात्तत्र गत्वाङ्गारादिलिङ्गदर्शनेन ’ दग्धम्’ इति ज्ञानं जायते, यथा चिरं सर्पत्वेन वासिते वस्तुनि समीपगमनानन्तरमिन्द्रयव्यापारेण रज्जुज्ञानं सहसैव जायते, तद्वदित्यभिप्रायेणाप्तोपदेश- लिङ्गादिभिर्वाधिकज्ञानोत्पत्तिदर्शनादित्युक्तम् । वेदान्तवाक्यं हि दाष्टन्तिकम् ; अत आप्तोपदेशस्य प्रथमोपादानम् । अथ द्वितीयनिर्वाहमनूद्य निरस्यति – सत्यपीति । मात्रया ; अल्पमित्यर्थः । भवता; ब्रह्मव्यतिरिक्तकृत्स्नमिध्यात्ववादिनेति भावः । भव- तेति सूचितमर्थं विवृणोति — भेदेति । वासनाया अपि मिय्यात्वाविशेषात्तस्या अपि ज्ञानेन निवृत्तत्वमवश्याश्रयणीयमिति भावः । किं ज्ञानोत्पत्तावपि वासना न निवृत्ते - त्युच्यते, उत तन्निवृत्तावपि निर्हेतुकं भेददर्शनं भवतीति शङ्काद्वयं हृदि निधाय प्रथमां परिहरति – ज्ञानोत्पत्तावपीति; ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्यात्वाद्वासनापि ज्ञानैकनिव- र्त्या, नो चेन्निवर्तकान्तरमपि ज्ञानत्वाविशेषान्न निवर्तयेदित्यर्थः । स्वयमेव वासना ‘नश्यतीति चेत्, तदयुक्तम्; स्वयमेवेति बाधकज्ञाननैरपेक्ष्यस्य विवक्षितत्वे, वासनाया नश्यन्त्या अपि सत्यत्वप्रसङ्गात् । स्वयमेव नश्यीति स्वेनैव स्वविनाशकरणं विवक्षितं चेत्, व्याघातः । फलोपान्त्यका रणनाशादिनाश्यत्वेऽपि सत्यत्वप्रसङ्गोऽवर्जनीय एव; कर्मशब्दादिषु तथैव वैशेषिकैर्वर्णितत्वात्, तेषां च पारमार्थ्यदर्शनात् । किं च स्वाप्नार्थोत्पत्त्यादिवद्वासनाया अपि मिय्यात्वेन तदुत्पत्तिस्थिती अपि मिथ्याभूते इति तद्विनाशोऽपि मिथ्याभूतः; अतो विनाशविषयभ्रमः पुनस्तिष्ठतीति निःशेषभ्रमनिवृत्तिर्न स्यात् । अथ द्वितीयां शङ्कां परि– -हरति- वासनेति । छिन्नमूलम् ; छिन्नवासनाख्यमूलम् । बालिशभाषितमिति 40

३१४ श्रीभाष्यम् (जिज्ञासाधिकरणम् )> अकारणकार्योत्पत्तिप्रसङ्ग इत्यर्थः । यद्यकारणं भेददर्शनं भवति, तर्हि मुक्तिरपि ज्ञान- निरपेक्षा स्यात् ; श्रवणादिभिर्विना वाक्यार्थज्ञानं स्यात् ; अविद्यया विना जगद्भ्रमचं स्यात् ; अधिष्ठानेन विना अविद्यापि कार्यकरी स्यादिति भावः । कथं सत्यपि बाधक- ज्ञाने चन्द्रद्वित्वानिवृत्तिरित्यत्राह - द्विचन्द्रेति । तुशब्दो विवक्षितार्थवैषम्यपरः । बाधक– संनिधावपि; तज्ज्ञानसंनिधावपि । तिमिरादिदोषस्य पारमार्थ्याज्ज्ञानबाध्यत्वाभावः । तत्पारमार्थ्यं च व्यावहारिकतयापि परेणाभ्युपगन्तव्यम् ; अन्यथाप्तोपदेशानन्तरं रज्जुसर्प- व्यवहारोच्छेदवदोषो मिथ्येति वचनानन्तरं दोषनिवृत्त्या चन्द्रद्वित्वादिव्यवहारोच्छेदप्रसङ्गात् ; अतो दोषस्य विद्यमानत्वात् भेदभ्रमस्य समूलत्वम् । अनेन – बाधकसंनिधौ बाध्य – सद्भावः, अकारणककार्योत्पत्तिश्चेति दूषणद्वयं दृष्टान्ते परिहृतं भवति । परमते तु दूषणद्वयं तिष्ठत्येव । तह्यप्तोपदेशादिवैयर्थमित्यत्राह – प्रबलेति । रज्जुसर्पादिभ्रान्ति– मत्पुरुषापेक्षया भयादिकार्यनिवृत्तिः फलत्वेनोक्ता । आदिशब्दात् पलायनादि गृह्यते । द्वि- चन्द्रज्ञाने च स्वस्यादुष्टकरणत्वधीनिवृत्तिरौषधादिप्रवृत्तिश्च फलम् । ऐन्द्रजालिकभ्रमादिषु भ्रम हेतोः प्राबल्यात् वस्तुतो भ्रमत्वेऽप्यसत्यविषयत्वनिश्चयप्रतिबन्धः स्यादिति तद्यावृत्त्यर्थः प्रबलप्रमाणशब्दः । निवर्तत इति ; प्रतिभासे विद्यमानेऽपि विषयसत्यत्वाभावनिश्चय– द्वारा भयादिनिवृत्तिहेतुरातोपदेशादिरित्यर्थः । यद्वा यथावदर्थस्वरूपापरोक्ष्यप्रवृत्तिद्वारा भयादिनिवृत्तिहेतुरित्यर्थः । तुशब्दः शङ्काव्यावर्तकः । ज्ञानानुत्पत्तिपक्षस्य बहुभि- मतत्वाम् सिंहावलोकितकेन तं दूषयति-अपि चेति । ’ नायं सर्पः, रज्जुः’ इति - वत् दृष्टद्वारा हि भेदनिरासः; अदृष्टमुखेन चेद् भेदसत्यत्वप्रसङ्गात् । अतो भूयस्या भेद- वासनाया अल्पीयस्याऽद्वैतवासनया निरासोऽनुपपन्न इत्यर्थः । नवदृष्टद्वारा निवर्त्यत्वे निवर्त्यसत्यत्वं नानिष्टम्, ध्याननिवर्त्य सर्पवद्व्यवहारदशायां वासनायाः सत्यत्वाभ्युपगमात् ;- उत्पन्ने तु ज्ञाने तदुत्पत्तिस्थितिविनाशाश्च बाधिताः स्युरिति ; नैवम् – ध्याननिवय सर्प- स्यानित्यत्वमेव, न कदाचिदपि बाध्यत्वं सिद्धमिति तद्वदेवा दृष्ट निवर्त्यवासनाया अपि वास्त– विकसत्यत्वप्रसङ्गात् । नन्वैक्यभावनारूपं निदिध्यासनं प्रतिबन्धनिवर्तकं चेदुक्तदोषः स्यात् ; तत्तु न प्रतिबन्धनिवृत्त्यै, किं तु वाक्यार्थज्ञानोदय सहकारीति ; मैवम् – स्मृतिरूपस्य निदिध्यासनस्यानुभवसापेक्षतया तस्य वाक्यार्थज्ञानजननसहकारित्वायोगात् । ननु यद्यपि परोक्षानुभवस्य ध्यानमनुपकारकं, तथापि निदिध्यासन सहकृतं वाक्यमपरोक्षधी हेतुः


(१ - - १ – १) भावप्रकाशिका ३१५ -स्यात् ; नैवम्—निदिध्यासनसहकृतत्वेऽपि शब्दत्वादेवापरोक्षधी हेतुत्वायोगात्, ज्यो- तिष्टोमवाक्यवत् । एवं शास्त्रप्रत्यक्षविरोधात्तदविरोधनिर्वाहानुपपत्त्या च वाक्यार्थज्ञान- मात्रस्य निवर्तकत्वासंभवात् पारिशेष्यात् वाक्यार्थज्ञानादन्यदेव मुक्त्युपायज्ञानं विधित्सित- मित्याह - अत इति । भावप्रकाशिका पूर्वपक्षोक्तेष्वर्थेष्वविरुद्धांशाभ्युपगमेन प्रतिवदतीति ; मिथ्या संप्रतिपत्त्या वा प्रत्यवस्कन्दनेन वा । प्राङ्न्यायविधिसिद्धया वा उत्तरं स्याच्चतुर्विधम् ॥ 99 -इति संप्रतिपत्तिशब्दितस्याप्युत्तरत्वं संभवतीति भावः । पराभिमतसदसदनिर्वचनीया- विद्यानिवृत्तेरभ्युपगमानर्हत्वादाह – प्रतिबन्धकनिवृत्तिरिति । कर्मसाध्य उक्त इति ; साध्यद्वित्ववादिनेति शेषः । मार्गसमीकरणतत्प्रापणे इति; मार्गे प्रतिबन्धकाभाव- संपादनलक्षणसमीकरणमात्रेणाश्मनो विशिष्ट देशप्राप्त्यभावात् तत्प्रापणार्थं तत्र पृथग्यत्नोऽपे- क्षित इति भावः । ननु प्रतिबन्धकनिवृत्तिरेव ज्ञानसाध्या, ब्रह्मप्राप्तिस्तु स्वत एवेत्ययुक्तम्, “ब्रह्मविदाप्नोति परम्” इति ब्रह्मस्वरूपप्राप्तेरपि ज्ञानसाध्यत्वावगमादित्याशङ्क्य प्रति- बन्धकनिवृत्तिब्रह्मप्राप्त्योरैक्याश्रयणेन परिहरति — यद्वा भावान्तरस्येति । परमतं स्वमतं चानुवदतीति ; ननु वाक्यजन्यं ज्ञानमविद्यानिवृत्तये वेदान्तैर्विधित्सितमिति -न परमतम्, ज्ञानस्याज्ञाननिवर्तकत्वस्य लोकसिद्धत्वेन विध्यनपेक्षणात् ; ज्ञानस्य प्रमाण-

  • परतन्त्रतया पुरुषतन्त्रत्वाभावात् द्रष्टव्यः" इत्यनुवाद इत्यभ्युपगमाच्च ; अत एव ‘तस्य विधानमन्तरेणापि वाक्यादेव सिद्धेः’ इति भाष्यग्रन्थो न युक्तः, विधानस्यानभ्युपगमे सिद्धवत्कृत्य व्यवहारस्यायुक्तत्वादिति चेत् – सत्यमेतत् ; तथापि " आत्मानं " पश्येत्” इति विधिप्रत्ययश्रवणात् तन्मतेऽपि विधेयत्वं बलादभ्युपगमनीयमित्यभिप्रेत्यै- - तदुक्तमिति द्रष्टव्यम् । ननु वाक्यार्थज्ञानस्य प्रमाणपरतन्त्रत्वेन विधेयत्वा संभवेऽपि -तदनुकूलश्रवणरूपव्यापारस्य विधेयत्वं भविष्यतीत्याशङ्क्याह — तच्छ्रवणे पुरुषस्येति ; अध्ययनविधिरेवेति ; वाचस्पतिमते अध्ययनविधेरर्थज्ञानपर्यन्तत्वाभ्युपगमादधीतेन स्वा- ध्यायेनार्थज्ञानसंपादनस्य विचारमन्तरेणासंभवात् प्राप्नोत्येव विचारः । उक्तं च मीमांसकैः 66 " द्रष्टव्यः "

३१६ इति । दिति भावः । श्रीभाष्यम् " धर्मे प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥ तावानेव विलम्बः । 1 99 (जिज्ञासाधिकरणम् )> यद्य ततश्च पूर्वभागविचारवदुत्तरभागविचारोऽप्यध्ययनविधिवशादेव सिध्यति । घ्यध्ययनविधिरक्षरग्रहणमात्रफलः, तथापि पूर्वभागतुल्यशीलत्वादुत्तरभागविचारोऽपि सिध्य- त्येवेति’ विधिवैयर्थ्यमिति भावः । न च प्रमाणज्ञानस्य श्रेयःसाधनत्वमलौ- किकमिति ; वेदनादेः रागप्राप्तस्यापि " अक्षैर्दीव्यति " इति ऋत्वपूर्वार्थतया विधानव- यावन्न विमोक्ष्येऽथ संपत्स्य इति ; तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये " इति हि श्रुतिः । तस्य ; ब्रह्मविदः । तावदेव चिरम् ; यावन्न विमोक्ष्ये; यावत् शरीरारम्भकप्रारब्धकर्मणा न विमोक्ष्यत इत्यर्थः । अथ संपत्स्ये ; अथ संपत्स्यत इत्यर्थः पुरुषव्यत्ययश्छान्दसः । यद्वा तस्य ; ‘मे’ इत्यध्याहारः ; अतो न पुरुषव्यत्ययः । नैरर्थक्यं प्रसजेदिति ; वाक्यजन्य- ज्ञानस्यैव निरपेक्षतया अविद्यानिवर्तकत्वादित्यर्थः । विधिवाक्यविशेषकीर्तनं विना ‘विधा- नमन्तरेणापि सिद्धेः’ इति सामान्योपदेशस्य प्रयोजनमाह — अनेकश्रुतिविरोधस्य प्रदर्शनार्थमिति । विप्रतिषेधोऽधिकवलेन प्रतिषेध इति ; विशब्दो हि विशिष्ट- वाची ; विशिष्टः प्रतिषेधो विप्रतिषेधः; तस्य च विशिष्टत्वमधिकवलनिरूपितत्वम् । यद्यपि “ विप्रतिषेधे परं कार्यम् " इत्यत्र विप्रतिषेधशब्दस्य परस्परविरोध एव लोकप्रसि- द्धोऽर्थ इति भाष्यकैयटयोः स्पष्टीकृतं, तथापि प्रकृते विप्रतिषेधशब्दस्य परस्परविरोध- रूपप्रसिद्धार्थाश्रयणे शास्त्रैरिति तृतीयानुपपत्तिरिति भावः । ननु सर्वस्य पुंसोऽज्ञान- निवृत्तेः कः प्रसङ्ग इत्यत आह- अविद्याया एकत्वादिति । अनिवर्तकत्वं दोषाय न भवतीति ; ’ ज्ञानस्य’ इति शेषः । ननु — एकैवाविद्या, एकमुक्तौ सर्वमुक्तिः, अथापि कस्यचित् ज्ञानमुत्पन्नम्, अथापीदानीं वर्तमानः सर्वस्य पुंसः प्रपञ्चप्रतिभासो दग्धपटन्यायेनानुवर्तत इति केनापि नाभ्युपगतमिति चेत् — सत्यम् ; ‘सर्वस्य पुंसः इत्यत्र सर्वशब्दः कायव्यूहस्थलीयैकाविद्योपाधिकैक जीवसंबन्धिनानान्तःकरणोपाधिकम देश- भेदाभिप्राय इत्यदोषात् । केचित्तु ‘सर्वस्य’ इति पदं न सर्वपुरुषपरम्, अपितु उत्पन्नज्ञानपुरुषमात्रपरमिति व्याचक्षते । छिन्नाविद्याख्यमूलत्वेनेति ; न च कथं मूल- निवृत्तौ मूल्यनुवृत्तिरिति वाच्यम्, अविद्यासंस्कारादपि तदनुवृत्त्युपपत्तेः । न च क्रिया- 9

(१ – १ – १ ) भावप्रकाशिका ३१७ ज्ञानयोरेव स इति वाच्यम्, निःसारितपुष्पायां संपुटिकायां पुष्पवासनानुवृत्तिदर्शनात् संस्कारनाशव्यतिरिक्तनाशमात्रस्य संस्कारव्याप्ततया अविद्यानाशस्यापि संस्कारव्याप्ततया अविद्यानाशस्थलेऽपि संस्कारावश्यंभावेन तद्वशेन भेदप्रतिभासोपपत्तेरित्यर्थः । परैर्हि जीवन्मुक्तौ त्रयः प्रकारा वर्णिताः – अविद्या सर्वात्मना नष्टा, संस्काररूपा तद्वासनानु- वर्तते, तन्मूलोऽयं देहादिप्रतिभासः कुलालचक्रवदित्येकः । आवरणविक्षेपशक्तिमत्या मूलाविद्यायाः प्रारब्धकर्मणा वर्तमानदेहाद्यनुवृत्तिप्रयोजको विक्षेपशक्त्यंशोऽविद्यालेशरूपोऽनु- वर्तते, तन्मूलोऽयं प्रतिभास इत्यपरः । दग्धपटन्यायेन मूलाविद्यैवानुवर्तते, तन्मूलोऽयं प्रतिभास इत्यपरः । एतत्सर्वं ’ छिन्नमूलत्वेन ’ इति भाष्ये ’ छिन्नाविद्याख्यमूलत्वेन इति टीकायां च विवक्षितम् । आप्तोपदेशादीनां क्रमेणोदाहरणान्याह – क्वचिदेशे , सर्प इति वाक्यादित्यादिना । भ्रमित इति ; ण्यन्तात् कर्मणि क्तः । न च कथं वाक्यस्य चिरतरानुवृत्तभ्रम हेतुत्वमिति वाच्यम्, वाक्यार्थस्मृतिपरंपरासंभवेन चिरानुवृत्त - भ्रमहेतुत्वसंभवादिति भावः । अत्र साक्षात्कारिभ्रमस्य साक्षात्कारिविशेषदर्शन निवर्त्य - त्वेनाप्तोपदेशनिवर्त्यत्वाभावात् ’ सर्प इति वाक्याच्चिरभ्रमितः ’ इत्युक्तम् । निवर्तका- न्तरमपि ज्ञानत्वाविशेषादिति ; न चेष्टापत्तिः, त्वया वासनाया अध्यावृत्तात्मसाक्षा- त्कारनिवर्त्यत्वाभ्युपगमादिति भावः । स्वेनैव स्वविनाशकरणं विवक्षितं चेदिति ; पूर्वपक्षे एवकारेण बाधकज्ञानमात्रस्यैव व्यवच्छेद्यत्वम् ; इह तु स्वव्यतिरिक्तं सर्वं व्यवच्छेद्य- मिति विवेकः । व्याघात इति ; प्रतियोगिव्यतिरिक्तनिरपेक्षत्वे वासनायाः स्थिरत्व- व्याघातः, स्वस्य स्वनाशे निरपेक्ष कारणत्वे अपेक्षणीयान्तराभावात् क्षणिकत्वमेव स्यादिति । केचित्तु स्वस्यैव नाश्यत्वनाशकत्वयोरभ्युपगमे कर्मकर्तृव्याघात इत्यर्थ इति वदन्ति । फलोपान्त्येति ; अपूर्वादिकं फलनाश्यम् ; उपान्त्यनाश्यः शब्दः, सुन्दोपसुन्दन्यायेना- न्त्योपान्त्यनाश इत्यभ्युपगमात्; आश्रयनाशजन्यरूपादिनाशस्थले कारणनाशनाश्यत्वमिति द्रष्टव्यम् । विनाशविषयभ्रमः पुनस्तिष्ठतीति ; मिथ्यात्वस्य प्रतीतिव्याप्तत्वादिति भावः । छिन्नवासनाख्यमूलमिति ; यद्यपि ‘छिन्नमूलत्वेन न बन्धाय भवति’ इति भाष्ये ‘छिन्नाविद्याख्यमूलत्वेन ’ इत्यर्थ उक्तः, स एवेह दूषयितुमुचितः ; तथापि वासना- कार्यत्वकथनात् वासनाया एव मूलत्वं वक्तव्यमिति तथोक्तमिति द्रष्टव्यम् । व्यावहा- रिकतयापि परेणाभ्युपगन्तव्यमिति ; यद्यपीदं व्यावहारिकत्वं दाष्टन्तिके वासनादावप्य- CC-0 No Rights Reserved. Digitized by eGangotri३१८ श्रीभाष्यम् 6 (जिज्ञासाधिकरणम्) 9 स्त्येव, तथापि ब्रह्मात्मैकत्वविज्ञानस्य विश्वबाधकत्ववत् चन्द्रैकत्वविज्ञानस्य तिमिरादिदोषा- धिष्ठानयाथात्म्यानवगाहिनस्तिमिरादिदोषनिवर्तकत्वं नास्तीत्यत्र तात्पर्यम् । द्विचन्द्र- ज्ञानस्य विस्मयादिजनकस्य भयाद्यजनकत्वमभिप्रयन्नाह - रज्जुसर्पादिभ्रान्तिमत्पुरु- षापेक्षयेति ; द्विचन्द्रस्यौत्पादिकतया भयहेतुत्वेऽपि न दोष इत्यपि द्रष्टव्यम् | आप्तो- पदेशस्यापरोक्षविषयासत्यत्वनिश्चयाधायकत्वे ’ शास्त्रप्रत्यक्षयोर्विरोधे प्रत्यक्षप्राबल्यम् इति सिद्धान्तो व्याकुप्येतेत्यस्वरसादाह - यद्वा यथावदर्थस्वरूपेति; आप्तोपदेशेन संदि- हानः सावधाननिरीक्षणे प्रवर्तते; निरीक्षणेनैव तादृशस्थले भ्रमनिवृत्तिरिति भावः । द्वारा हि भेदनिरास इति ; अदृष्टद्वारत्वे ह्यल्पस्यापि निदिध्यासनस्य भूयोवासन। निवर्त- कत्वं स्यात् ; दृष्टद्वारको हि वासनारूपभेदनिरासः । अतश्चिरानुवृत्तवासनानिवर्तकत्वं न संभवतीत्यर्थः । ततश्च ’ नायं सर्पः’ इत्यस्य साक्षान्निवर्तकत्वात् दृष्टद्वारत्वं नास्तीति शङ्का पराकृता, अदृष्टाद्वारकत्वमा त्रस्यैव दृष्टद्वारेत्यनेन विवक्षितत्वात् । नन्वदृष्टद्वारा निवर्त्यत्वे किं व्यवहारदशायां बाधाभाव आपाद्यते ? उत सर्वदा ? नाद्यः, इष्टापत्तेः ; न द्वितीयः, दृष्टान्तासंप्रतिपत्तेः, 66 “ तत्त्वमस्यादिवाक्योत्थसम्यग्धी जन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥ 99


इत्युक्तरीत्या ध्याननिवृत्तसर्पस्यापि चरमज्ञानेन बाधादिति शङ्कते – नन्वटद्वारेति । न कदाचिदपि बाध्यत्वं सिद्धमिति ; यद्विषयकज्ञानेन यददृष्टद्वारा निवर्त्य, न तत् तज्ज्ञानबाध्यमिति हि व्याप्तिः ; ततश्चादृष्टद्वारा गरुडध्याननिवर्त्यसर्पस्य तत्त्वमस्यादि- वाक्यजन्यचरमज्ञाननिवर्त्यत्वेऽपि न गरुडज्ञानबाध्यत्वम् । बाधो हि मूलभूताज्ञानेन सह निवृत्तिः ; न गरुडज्ञानात् सर्पमूलाज्ञाननिवृत्तिः, येन बाधः स्यात् । ततश्च भेद वासनाया अदृष्टद्वारा ध्यानरूपब्रह्मज्ञाननिवर्त्यत्वे चरमवृत्तिरूपब्रह्मज्ञानबाध्यत्वं न स्यात्; इष्यते च त्वया तज्ज्ञानबाध्यत्वमिति भावः । यद्वा भदवासनाया अदृष्टद्वारा ध्यानरूपब्रह्मज्ञान- निवर्त्यत्वे सत्यत्वमात्रमापाद्यते, उत अदृष्टाद्वारकज्ञाननिवर्त्यत्व लक्षणमिथ्यात्वाभावो वा । नाद्यः, इष्टत्वात् ; न द्वितीयः, निवृत्ताया अपि भेदवासनाया अदृष्टाद्वारकचरमवृत्तिनिव- र्त्यत्वेन ध्याननिवर्त्यसर्पवन्मिथ्यात्वसंभवादित्याशङ्कते - नन्वदृष्टद्वारेति । अदृष्टद्वारा पूर्व- निवृत्तसर्पस्य चरमवृत्तिनिवर्त्यत्ववाचोऽसंगतत्वात्, नष्टस्य नाशनासंभवात् । भदवासनाया

C (१ – १ – १) श्रुतप्रदीपिका ३१९ अदृष्टाद्वारकचरमवृत्तिनिवर्त्यत्वासंभवेन मिय्यात्वं न स्यात् । न च मुद्गरप्रहरादिविनष्ट- घटेस्यापि सत्यत्वप्रसक्त्या ध्याननिवर्त्यसर्पमात्रदृष्टान्तीकरणमसंगतमिति वाच्यम्, तद्ह- ष्टान्तस्यापीष्टत्वात् । ततश्च मुरादिनिवर्त्यघटवत् ध्याननिवर्त्यसर्पवच्च सत्यत्वं स्यादित्य- भिप्रेत्य परिहरति — नेति । ज्योतिष्टोमवाक्यवदिति ; इतरथा भावनासहकृतज्यो- तिष्टोमवाक्यस्यापि ज्योतिष्टोमादिधर्मप्रत्यक्षजनकत्वप्रसङ्ग इति भावः । श्रुतप्रदीपिका । अस्मिन् पूर्वपक्षे सिद्धान्त उच्यत इत्याह – अत्रेति । साध्यसाधनद्वित्वनिरास - मभ्युपगमेन प्रतिवक्ति –यदिति । तर्हि कुत्र विमतिरित्यत्राह - अविद्येति । किंरूपम् ; किं कर्माङ्गत्वार्हं मदुक्तं ज्ञानम् ? उत तदनहँ त्वदुक्तम् ? इतेि साधनप्रकारविशेषे विमतिः। परमतं स्वमतं चाह - किं वाक्यादिति ; न तु परमतविकल्पः । त्वन्मतमयुक्तमित्याह- न तावदिति ; न तु दृष्यशिरसोरन्यतरदूषणम् । कुत इत्यपेक्षायां विधिवैयर्थ्यं हेतु- माह – तस्येति । न हि व्युत्पन्नशब्दश्रवणादर्थबोधो विध्यपेक्षः । विरोधं च हेतुमाह– तावदिति । इदं दूषणमापस्तम्बेन चोक्तम् – “बुद्धे क्षेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धम् ; बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत" इति । उपासनध्रुवानुस्मृतिदर्शनभक्तियाव- ज्जीवानुष्ठानादिविशेषमार्गविशेषपरब हुशास्त्रविरोधः शस्त्रैरिति विवक्षितः । विशेषतः प्रति- षेधो विप्रतिषेधः, प्रबलैः प्रतिषेधः ; न समैरुपरोध इत्यर्थः । अनयोः परिहारद्वयं परोक्तमनूद्य निरस्यति – न चेति । इदानीमुत्पद्यमानज्ञानव्यावृत्त्यर्थमाह – अविद्याया निवर्तकमिति । पश्चादपि तद्वाक्यतश्चेदद्यैव ततस्तत्स्यादित्यत आह-भेदेति । व्यासादी- नामपि ज्ञानानुदयः श्रोतृधियो दुरारोह इति बाधितानुवृत्तिमाह – जातेऽपीति । सर्व- मूलाविद्यैक्यात् सर्वस्येत्युक्तम् । न दोषाय ; मूल ज्ञानानिवर्तकत्वं न दोषाय । ज्ञानो- दयेऽपि भ्रमानिवृत्तौ दृष्टान्तं दर्शयति – चन्द्रकत्व इति । तर्हि बन्धकं स्यादित्यत्राह- अनिवृत्तमिति । छिन्नमूलत्वेन ; छिन्नाविद्याख्यमूलत्वेन । श्रवणादेर्वाक्यार्थज्ञा- नोपयोगाच्छास्त्रविरोधपरिहारश्चार्थात्सिद्ध इत्यभिप्रेतम् । अनुत्पत्तिपक्षं दूषयति -सत्या - मिति । न्यायानुगृहीतव्युत्पन्नपदपङ्क्तिरूपं वाक्यं सामग्री । प्रतिबन्धस्थित्या तद्वैक ल्यमाशङ्कयाह – सत्यामपीति । बाधकोत्पत्तौ बाध्या वासना न प्रतिबन्धित्यर्थः । क्वचिद्देशे ’ सर्पः’ इति वाक्याच्चिरभ्रमितः पुरुषो ’ न तत्र सर्प:’ इत्याप्तोपदेशाज्जा-

३२० श्रीभाष्यम् (जिज्ञासाधिकरणम्) नाति ; यथा च ’ वनं न दग्धम्’ इति श्रुत्वा चिरं भ्रान्तस्य पश्चात्तत्र गत्वाङ्गारादि- लिङ्गदर्शनेन " दग्धम्’ इति ज्ञानं जायते, तद्वृदित्यभिप्रायेण आप्तोपदेश लिङ्गादिभिर्बाध - कज्ञानोत्पत्तिदर्शनात् इत्युक्तम् । अथ बाधितानुवृत्तिं दूषयति - सत्यपीति । मात्रया ; अल्पमित्यर्थः । भवता ; कृत्स्नमिय्यात्ववादिना । भवतेत्यभिप्रेतं विवृणोति — भेदे - ति । ऐक्यज्ञानोदयेऽपि किं वासना स्थिता, उत तन्निवृत्तावपि भेदधीरिति शिरोद्वये प्रथमं दूषयति- ज्ञानोत्पत्तावपीति । स्वयं नाशे तत्कृतिश्रमस्तस्य वितथ इति भावः। द्वितीयं दूषयति - वासनेति । छिन्नमूलन्; छिन्नवासनाख्यमूलम् । बालिशभाषितमिति ; अकारणककार्योत्पत्तिप्रसङ्ग इत्यर्थः । तथा सति मुक्तिर्विना ज्ञानेन स्यात्, तच्च श्रवणादिभि- विना स्यात्, विनाप्यविद्यया जगद्भ्रमः स्यात्, सा च विनाधिष्ठानेन स्यादिति भावः । तर्हि कथं सत्यपि बाधकज्ञाने द्विचन्द्रज्ञानानुवृत्तिरित्यत्राह – द्विचन्द्रेति । तिमिरं परमार्थं न मिथ्या, तस्य ज्ञानाबाध्यत्वात् । तद्युपदेशवैयर्थ्यामित्यत्राह – प्रबलेति । ऐन्द्रजालिक- कृतभयादिव्युदासाय प्रबलेत्यादि पदम् । रज्जुसर्पादिश्रान्तिमत्पुरुषापेक्षया भयादिनिवृत्तिः फलत्वेनोक्ता । द्विचन्द्रज्ञाने च स्वस्यादुष्टकरणत्वधीनिवृत्तिरित्यादि फलम् ; यथावदर्था- परोक्ष्यार्थप्रवृत्तिद्वारा वा सार्थत्वम् । एवं परपक्षे बाधकस्थितौ बाध्यस्थितिरहेतुककार्योदयश्च ; स्वपक्षे तदुभयाभाव इति वैषम्यं दर्शितम् । सिंहावलोकितकेन ज्ञानानुत्पत्तिपक्षं दूष- यति — अपि चेति । अदृष्टद्वारा चेन्निवर्त्यत्वं सत्यं स्यादिति दृष्टद्वारा अनिवर्त्यत्वे दूषणमिदम् । अतः पारिशेष्यान्मुक्त्युपायज्ञानं वाक्यार्थधियोऽन्यदित्याह -अत इति । तत्त्वटीका अविरोधविहीनत्वात् ख्यातत्वादुपपन्नवत् । पक्षेऽस्मिन् दूषणं वाच्यमत्रोच्यत इतीर्यते ॥ २९५ ॥ • इह तावत् साध्यसाधनद्वित्वनिरासं विरुद्धांशभङ्गाय ’ यदुक्तम्’ इत्यादिना सामान्यतोऽनुमन्यते । अविद्यातन्निवृत्तिब्रह्मतद्विज्ञानेषु तत्तत्प्रकारविशेषतो विमतिरस्त्येव । स्वमते ह्यविद्यानिवृत्तिर्नाम स्वाभाविकधीप्रसरप्रतिबन्धकस्य कर्मणोऽत्यन्तोच्छेदः; स च भावान्तररूपः । ‘अविरोध ’ इत्येव सर्वकोशेषु पाठः । ’ अवरोध’ इति भाव्यमिति भाति । अवरोधो विरोधः । विरोधादप्रमाणत्वात्’ इत्यस्योत्तरमिदम् । I

(१ – १ – १) तत्त्वटीका ३२१ प्रतिबन्धनिवृत्त्यंशोऽनिष्टभङ्ग इहोदितः । धीविकासः स्वतः सिध्यन्निष्टप्राप्तिर्विवेचकैः ॥ २९६ ॥ अतो नावधारणविरोधः । ब्रह्मतद्विज्ञाने च परमार्थबाकारे; न वयं तद्विज्ञानस्य कारणत्वाभावं कर्मसमुच्चितत्वं फले तत्सहकृतत्वं वाभ्युपगच्छाम इत्यभिप्रायेण ब्रह्मविज्ञा- नादेवेत्युक्तम् । अभ्युपगम्यते चेत् किं दूष्यमित्यत्र निवर्तकज्ञानप्रकारे तावद्विगान- माह — अविद्येति । विधित्सितम् ; स्वमते साधनतया चोदयितुमिष्टं, परमते तूत्पिपादयिषितम् । एवं तन्त्रोक्तं विभजते – किंरूपमिति ; कर्मनिरपेक्षतया त्वदुक्तम्, उत कर्माङ्गतयास्मदुक्तमित्यर्थः । विवेचनीयम्; अन्यतर कोटिनिरासेन कोट्यन्तरतया परिशेषणीयमिति यावत् । संकलितं विविङ्क्ते – किमिति । वाक्यार्थगोचरस्मृतिरूप- विधेयव्यावृत्त्यै वाक्यादित्युक्तिः । इन्द्रियसंबन्धाद्वाक्यतस्तत्स्वरूपधीः स्यात्, पुत्रा- द्यनुमा च; तद्यवच्छित्यै वाक्यार्थग्रहणम् । ध्यानादिद्वारनैरपेक्ष्यं मात्रचोक्तम् । परस्य वाक्यार्थज्ञानं जीवपरयोरैक्यधीः ; स्वस्य तु प्रकारप्रकारित्वबुद्धिः ; अतस्तन्मूलत्वो- क्तिरविरुद्धा । मननादिव्यावृत्त्यर्थमुपासनात्मकत्वोक्तिः । परेष्टं दूषयति– दिति । तिष्ठतु पक्षान्तरम् ; इदं तु नैवेत्यर्थः । परकल्पितपश्चिमवाक्यार्थज्ञानस्या- " द्रष्टव्यः" इत्यादिविधिवैयर्थ्य- संभवं वक्ष्यन् सर्वसंमतप्रथमवाक्यार्थज्ञानस्योपायत्वे : प्रसङ्ग विधित्सितपदसूचितमुद्घाटयति - तस्येति । विधेः शब्दजन्यज्ञाने निर्व्यापारत्वं “परैरेवोक्तम् ; " प्रमाणजज्ञानं वस्तुतन्त्रं न पुरुषतन्त्रं कर्तुमकर्तुमन्यथा कर्तुं चाशक्यत्वात् " इत्युक्तरित्याशयः । वाक्यात् ; स्वरूपपरवाक्यादिति यावत् । एवकारो विधिनैरपेक्ष्यं बाध्यवासनायाः प्रतिबन्धकत्वायोगं च व्यनक्ति । सिद्धेः ; उत्पत्तेः । न तावदिह वाक्य- “जन्यं ज्ञानं तत एव वाक्याद्बोध्यम्, संसर्गतया संसृष्टतया वा प्रवेशाभावात् ; नापि “प्रज्ञां कुर्वीत " इत्यादिवाक्यान्तरैः सिद्धस्याविधेयत्वात् । साधनत्वेन बोधनं चानपेक्षितम् अष्टार्थत्वानभ्युपगमात् ; कल्पितबाधे च सामर्थ्यतः साधनत्वावगतेः । अतो विधि- न विध्यनुसारित्वान्न वैयर्थ्यामिति चेत्, तथापि तादृशान्नान- यदुरतिक्रमम् । विधिवैयय्योंक्तिरामायणानुष्ठेयविधेया कारवर्गवादिनां ब्रह्मनाडीनिष्क- वैयर्थ्यमित्याशयः । मणदेवयानगत्यादिवादिनां च शास्त्राणां वैयर्थ्यमप्युपलक्षयति । अत्र प्रत्यक्षविरोध- मप्याह - तावन्मात्रेणेति । न ह्युत्पन्नं ज्ञानमविद्या निवर्तनेऽन्यदपेक्ष्य विलम्बेत, यतोऽनुप- 41

३२२ श्रीभाष्यम् 19 (जिज्ञासाधिकरणम् ) " लब्धिरबाधिका स्यात् ; सा च स्वपरयोः प्रत्यक्षानुमानसिद्धा ; प्रत्यक्षविरुद्धं च न शास्त्रवेद्यम् ; न च तादृशविज्ञानमात्रादविद्यानिवृत्तिः, अन्वयव्यतिरेकासिद्धेरिति भावः । अत्रैवमापस्तम्बेन शास्त्रविरोध उक्तः - " बुद्धे क्षेमप्रापणम् ; तच्छास्त्रैर्विप्रतिषिद्धम् इति । विशेषेण प्रतिषिद्धमित्यर्थः ; न हि तुल्यबलविरोधोऽत्र घटते । प्रत्यक्षविरोध- श्श्रोक्तः – “ बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत; एतेन परं व्याख्यातम् " इति । श्रुतिप्रत्यक्षविरोधयोर्द्विधोत्तरमनूद्य निषेधति – न चेति । न्यायोपेतश्रवणे पश्चादिव प्रागपि कथं ज्ञानानुत्पत्तिरित्यत्रोक्तम् — भेद वासनायामिति । प्रतिबन्धकवासनानिरासे विधीनामुपयोगः ; दिग्भ्रमादयो हि उपदेशलिङ्गाभ्यामनिवृत्ताः कदाचित् कुतश्चिद्वासना– विच्छेदे निवर्तन्ते तद्वदिति भावः । दृश्यमानपरोक्षज्ञानव्यावृत्त्यर्थम् अविद्याया निवर्तकमित्युक्तम् * । न जनयतीत्यनेना विद्यानिवृत्त्यनुपलब्धिविरोधोऽपि परिहृतः । अत्रैवमद्वैतसंप्रदायरहस्यम्– आपातिकं ज्ञानमविद्यां न निवर्तयति, अनिश्चयात्म- कत्वात् । विचारजन्या तु धीः परोक्षाध्यवसायरूपा भेदसत्यत्वभ्रम जनकमविद्यांश निवर्त - यति । तथाप्यपरोक्षानादिभेदभ्रमोपचिता तद्वासना तादृशं भ्रममाधत्ते । तदवष्टम्भो- ऽविद्यांशस्त्वद्वैत साक्षात्कारेण निवर्तते । निवृत्तेऽपि तस्मिन् प्रारब्धकार्यकर्मावष्टम्भः कश्चि- दविद्यांशोऽनुवर्तते ; तां दशां जीवन्मुक्तिमाहुः । सोऽप्यंशोऽन्तिमाद्भोगसंवेदनादात्म- संवेदनाद्वा निवर्तते । ईदृशाविद्यांशभेदाभिप्रायेण " इन्द्रो मायाभिः पुरुरूपः " इत्यु- च्यते । उक्तक्रमेण मायांशानां निवृत्तिमभिप्रेत्य “ भूयश्चान्ते विश्वमायानिवृत्तिः " विमुक्तश्च विमुच्यते " इति श्रुतिराहेति । तत्र द्वितीयांश इहाविद्याया इत्युक्तः । परोक्षरूपस्यैव ज्ञानस्य निवर्तकत्वमन्वारुह्यापि प्रत्यक्षविरोधं परिहरति- जातेऽपीति । यद्वा सर्वविदां सनकादीनामनुत्पन्नसाक्षात्कारत्वमविद्यावत्त्वं च न युक्तम् ; उत्पन्नसाक्षा- त्काराणां तु शिष्यादिप्रतिभासायोगादुपदेष्टृत्वादिकं न स्यात् । न हि परोक्षज्ञानमात्र – 66 अनेन ’ अविद्याया निवर्तकं ज्ञानम् ’ इत्येवाचार्याभिमतो 66 अथ गम्यते । तृजकाभ्यां कर्तरि " इति समासनिषेधात् युक्तोऽयं व्यस्तपाठः । मूलपाठ इति श्रुतप्रकाशिकायां ‘अविद्यानिवर्तकमिति’ इति प्रतीकग्रहणात् हेतुश्च” इत्यादिप्रयोगावगतसमास निषेधानित्यत्वमूलकः समस्तपाठोऽपि सांप्र- " तत्प्रयोजको दायिको ज्ञेयः । CC-0 No Rights Reserved. Digitized by eGangotri- ( १ – १ – १) तत्त्वटीका ३२३ अत वानत्रोपदेष्टा, “ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः " इति विशेषणात् । उभयतःस्पाशा रज्जुरित्यत्र तृतीयाविद्यांशस्थितिदशानुसारेण प्रतिवक्ति–जातेऽपीति । यस्यैकैव ब्रह्माविद्या, एक एव च जीवः, तस्यैकाविद्यानिवृत्तौ न कापि जीवपदास्पद भेद- भ्रमानुवृत्तिर्वन्धमुक्तिव्यवस्था च स्यादिति चोद्यानुवादसूचनायान्तःकरणभेदोपाधिका- भिव्यक्तिविकल्पानुसारेण सर्वस्येत्युक्तम् । सहसैवेत्येतन्निवृत्त्या योज्यम् । अविद्यां- न दोषाय ; शान्तरावष्टब्धप्रवृत्तफलकर्मावसाने हि सर्वभेदधीनिवृत्तिरिति भावः । अविद्यानिवृत्तौ भ्रमोऽपि निवर्तेत, अकारणककार्यायोगात् ; अतो रागादिदृष्ट्या भ्रमानु- वृत्तेरविद्यापि न निवृत्तेति ज्ञानस्य निवर्तकत्वाभावप्रसक्त्यै न स्यात्, वाधितस्याप्यनु- अङ्गुल्युपष्ट- वृत्तिसंभवादित्यभिप्रायः । स्वेष्टं लोकदृष्टया प्रत्याययति - चन्द्रेति ; म्भादिमतश्चन्द्रैकत्वे वाक्यतो ज्ञातेऽपीति भाव्यम् । इदं निदर्शनमन्वारुह्य वादे सुगमम् ; अन्यत्र तु निवर्तकज्ञानस्य प्रत्यक्षत्वं निगृह्य नेतव्यम्, प्रत्यक्षतश्चन्द्रद्वित्वमेवाधि पुनस्तदनुवृत्त्ययोगात् । यद्वा प्राच्यादुपष्टम्भाद् भ्रमे प्रत्यक्षवाधिते । पुनरङ्गुल्युपष्टम्भाद् भ्रमावृत्तिर्न दृश्यते ॥ २९७ ॥ अविद्याजनिता भ्रान्तिर्वाक्यजाध्यक्षबाधिता । युक्ता तदनुवृत्तिर्हि भूयः संस्कारशेषतः ॥ २९८ ॥ मूलच्छेदात् ननु तत्त्वदर्शनात्प्रागपि भेदज्ञानमेव बन्धमूलम् ; पश्चादपि तदनुवृत्तौ रागाद्यनु- वृत्त्या बन्धानिवृत्तिः स्यात् ; न हि कारण निवृत्त्या कार्य स्वकार्याय घटते; मन्यसे चाविद्याशेषानुवृत्तिमित्यत्राह—अनिवृत्तमिति । अपिर्विरोधद्योतकः । - खण्डितलतान्यायेन क्रमाद्विनश्येत् न पुनः प्ररोहेत् । स्वविषयसत्यत्ववासनारू हि भेदज्ञानं रागादिहेतु:, प्रतिमायोषिदादिषु तथा भावादित्यभिप्रायेण छिन्नमूलत्वोक्तिः । - दग्धपटचक्रभ्रमादिन्यायोऽत्राभिप्रेतः । अत्र ’ ज्ञानं न जनयति’ इत्युक्तं तावन्निरस्यति - सत्यामिति । व्युत्पन्नपदमाकाङ्क्षादिविमशेषितं वाक्यमपेक्षणीयान्तररहितमित्यभिप्रायेण - सामग्रीशब्दः; अन्यथातिप्रसङ्ग इति भावः । नन्वप्रतिबन्धोऽपि सामग्रीति न्यायाद्भेदवा- सनैव स्वनिवृत्तिरूपकारणाभावात्मा सामग्रीवैकल्यं स्यात् ; यद्वा पुष्कलाया अपि साम- घाः शक्तयपहारेण प्रतिबन्धिकेत्यत्राह – सत्यामपीति । अयं भावः - यदि विपरीत-

३२४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) वासनैव प्रतिबन्धः प्रतिबन्धिका वा स्यात्, तदा अनिरस्तसंस्कारे रज्जुसर्पादिभ्रमे कदा- चिदपि बाधकधीनोंदियात् ; उदेति चासाविति प्रसङ्गतद्विपर्ययाभ्यां व्यतिरेकव्यभिचारदृष्टेर्न विरुद्धवासनानिवृत्तिरत्र हेतुः ; रज्जुसर्पवासनानुवृत्तावपि हि ‘नायं सर्पः’ इत्याप्तवाक्येन दण्डसंघट्टनादिनिरूपितेन निश्चेष्टत्वादिलिङ्गेन च परोक्ष बाधकज्ञानं जायते । चन्द्रभेद वास- नानुस्यूतावङ्गुल्युपष्टम्भादिदोषापगमे चन्द्रैक्यप्रत्यक्षधीरपि भवति । न च वाक्यादपरो- क्षबुद्धयुत्पत्तौ विरुद्धवासनानिवृत्तिरपेक्षितेति वाच्यम्, अविशिष्टशक्तेर्वाक्यस्य परोक्षधी- जननेऽपि तदपेक्षाप्रसङ्गात् ; अभेदवासनया गेंदवासनानिवृत्तिं वदतश्चक्रकं च स्यात् — अभेदाध्यवसाये तद्भावना, तया भेदवासनानिवृत्ति:; तत एवाभेदाध्यवसाय इति । अध्यवसाये वासनानिवृत्तिरनपेक्षितेति चेत् साक्षात्कारेऽपि नापेक्ष्येत, अविशेषात् । दशमान्वेषिणश्च दशमाभाववासनास्थितावपि दशमस्त्वमसि’ इत्युपदेशेन प्रत्यक्षधी- जननं च त्वयैवोक्तम् “ तत्त्वमसि " ’ दशमस्त्वमसि’ इत्यनयोर्वाक्ययोरपरोक्षात्मविष- यत्वं च समानं त्वमेवात्थेति । अथ प्रत्यक्षविरोधं परिजिहीर्षतो बाधितानुवृत्तेरसंभव – मभिप्रेत्याह – सत्यपीति । मात्रया ; न तु कात्स्र्त्स्न्येन ; आत्मभेद सत्यत्वाध्यवसायादे- निवृत्तत्वात् बाह्येषु भेदधियः किंचिदिव स्थितत्वादिति भावः । भवतेत्यशक्यता हेतु- गर्भम् ; न हि ब्रह्मव्यतिरिक्तं किंचित्सत्यमिच्छसीति भावः । हेतुं विवृणोति – भेदेति । सामग्रीशब्द इह प्रारब्धकर्मावष्टम्भपौष्कल्यसूचकः । अविद्याविनाशे कर्मवासना च कथं तिष्ठेत् ? न हि मृगतृष्णिकानिवृत्तौ तदीयतरङ्गायनुवृत्तिः; अत उपदेष्टृत्वाद्यनुपपत्तिश्च स्यादिति भावः । ननु मिथ्यात्वाविशेषेऽप्येकाधिष्ठानेषु च भ्रमेषु किंचिदेव केनचिद् बाध्यते; तद्वत्स्यादित्यत्रोक्तम् - ज्ञानोत्पच्यैवेति । सद्व्यतिरिक्तं सर्वं मिथ्येति बाधकधीः; ईदृशज्ञानोत्पत्तौ वासनास्थितिस्ते विरुद्धा । न च वासनावान्तरभेदाद्गतिः ; मिथ्यात्वान- पायात् । न हि ’ रज्जुः’ इत्यवगते सर्पाद्यन्यतमधीरनुवर्तेत । किं च निरस्ताया- मेव भेदवासनायां बाधकज्ञानोत्पत्तिं वदतस्ते तदुत्पत्तौ कथं सा तिष्ठेत् ? स्थिता का - चित् केन निवर्तेत ? यदि ज्ञानान्तरेण; तन्न, अविशेषात् ; अथ भोगक्षयात्, तर्हि ज्ञानवाध्यत्वाभावात् सत्या स्यात्, एवं कर्मापि । अद्वैतसाक्षात्कारेऽपि वासनानुवृत्ताव- निर्मोक्षप्रसङ्गमभिप्रेत्याह – ज्ञानोत्पत्ताविति । ज्ञानैकनिवर्त्यत्वाय मिथ्यारूपत्वोक्तिः । निवर्तकान्तराभावात् ; सत्यत्वप्रसङ्गभीतैर्ज्ञानेतरवाध्यत्वस्यानभ्युपगमात् स्वकल्पितान्तिम-

तत्त्वटीका ३२५. ; ( १ – १ – १ ) भोगसंवेदनादिज्ञानशतागमेऽपि तेषां पूर्वज्ञानवन्निवर्तकत्वायोगादिति भावः । अस्याः मूलाविद्याबाधकप्रबलज्ञानेनापि दुर्बाधाया इत्यर्थः । अहेतुकविनाशस्तु न कापि नैगमि- कैरिष्यते । तदभ्युपगमेऽपि तेषां पूर्वज्ञानवासनाविनाशादेर्भ्रान्तिसिद्धत्वेन नित्यं भ्रमानु- न हि वासना- वृत्त्या पुनरपि वासनासंततेरनिवार्यत्वमभिप्रेत्य कदाचिदपीत्युक्तम् । निवृत्तिः सतः स्वरूपम्, साध्यत्वात् । अतिरिक्ता च न सत्या, अद्वैतभङ्गात् । अभावसत्य- त्वेऽपि सदद्वैतं सिद्धमिति चेत्-न, क्वचिद्भेदसत्यत्वे अन्यत्राप्यविशेषाद्भावान्तरसत्यत्वेऽपि तद्वदेव ब्रह्माद्वैतानपायाच्चेति । ‘अनिवृत्तमपि ’ इत्यादिनोक्तं स्वव्याघातेनोपालभते —वास- नेति । स्वोक्तिविरोधानभिज्ञः किमन्यद्वेत्स्यतीत्यभिप्रायेण बालिशत्वोक्तिः । अयं भावः- छिन्नमूलमित्यत्र किं मूलशब्देनाविद्या विवक्षिता, ? उत भेदवासना ? आधे मूलभूताविद्या- च्छेदे तत्समानबाधकस्य संस्कारस्यापि बाधाद् भेद मो दुर्वच इत्युक्तम् । द्वितीये कथं वासनोच्छेदे तत्कार्यं संतन्येत । यदि हेत्वभावेऽपि क्वचित्कार्यं स्यात्, तदा स्वपरमत- साधारणैः स्वाभिमतैश्चाविद्यादिभिर्विनापि तानि तानि कार्याणि स्युः । अतो नेदं यौक्तिकवाक्यमिति । बाधितानुवृत्तौ परोक्तो दृष्टान्तरिछन्नमूलत्वाभावादसमञ्जस इत्याह- द्विचन्द्रेति ; तिमिरादिदोषस्य सत्यतया बाधकधीशतैरप्यबाध्यत्वात् त्वया तस्य व्यावहा- रिकसत्यत्वेनाभ्युपगमात् असत्यत्वेऽपि चन्द्रैकत्वज्ञानस्य तदधिष्ठानगोचरत्वाभावेन तद्राध- यथा तत्र दृष्टान्ते भयादिनिवृत्त्या बाधकसाफल्यं, न तथा कत्वायोगाच्चेति भावः । दिष्टे स्यादिति सूचयन् ’ न बन्धाय’ इत्युक्तं निरस्यति — प्रबलेति ; प्रमितप्रामाण्य- अत एवात्र कुहकोत्पादितभयादिव्यावृत्तिः । क्षे प्रमाणबाधितत्वादित्यर्थः । बाध्यबाधकधियोर्द्वयोरपि दोषोत्थत्वेन ज्ञातत्वान्न बाधफलसिद्धिः । लोके बाधितानु- वृत्तेरन्यतर विस्रम्भफलहीनस्य यथावन्निरूपणार्थप्रवृत्तिहेतुत्वं च बाधकस्य फलमित्याशयः । सर्पादिभ्रमापेक्षया भयादिकार्योक्तिः । आदिशब्देन विस्मयादिग्रहणम् । एवं भयाद्य- नुत्पादकत्वमभिप्रेत्य न्यायतत्त्वे “बाधितानुवृत्तिदशाज्ञानमकिंचित्करत्वादुदासीनम् ” इत्यु- क्तम् । तुशब्देन परोक्ताद्वैषम्यं द्योत्यते । सद्भावः ; न च हेत्वभावे कार्योदय इति । न ह्यत्र नाशक सामग्र्यां सत्यां नाश्य- ननु भयाद्यपि क्षणिकत्वामवन्न बाधक- विनाश्यम् ; उत्तरभयानुत्पत्तिश्च भ्रमान्तरानुत्पत्तिवत्प्राक् सिद्धैव ; तर्हि बाघतः कथं भयादिनिवृत्तिर्भाष्यते ? उच्यते — बाधके सति सामग्रीवैकल्याद्भयान्तरानुत्पत्त्यनुवृत्तिमपेक्ष्य

३२६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) भयादिनिवृत्तिभाषणमिति । ’ जातेऽपि ’ इति पक्षस्य मन्दत्वव्यत्यै सिंहावलोकितेन बहुव्याख्यातृसंमतायां ज्ञानानुत्पत्तौ दूषणान्तरमाह – अपिचेति । कदाचिदपि ; ध्या- नात्प्रागिव पश्चादपीत्यर्थः ; कल्पकोटिसहस्रध्यानेऽपीति भावः । ननु यज्ञादिभिः परिमितै रेवानाद्युपचितापरिमितकल्मषनिवर्हणेन ज्ञानोत्पत्तिमिच्छतामिव श्रवणादिभिर्वासनानिरासेन ज्ञानोत्पत्तिः स्यादित्यत्राह - भेवासनाया इति । न ह्यत्र “ सकृत्स्मृतोऽपि " इत्यादिन्यायः, अदृष्टद्वारा निवर्तकत्वे निवर्त्य सत्यत्वप्रसङ्गात् । न च मन्त्रनिवत्यवत् व्यावहारिकसत्य- त्वाददृष्टनिवर्त्यत्वोपपत्तिः, तद्वदेव प्रपञ्चस्यापि तदुपपत्तौ बाघकधीगवेषणवैयर्थ्यात् । स्वरूपत एव निवर्तकत्वे तु तादृशशक्तिवैचित्र्ये प्रमाणाभावेन भूयस्त्वादेर्बलाबलप्रयोजक- त्वात् । न च भावना स्वरूपत एव वाक्यस्य सहकारिणी ; परोक्षानुभव इवापरोक्षानु- भवेऽपि तदन्वयव्यतिरेकादृष्टेः, अदृष्टद्वारा सहकारित्वस्यानभ्युपगमात् ; अभ्युपगमे तु वाक्यमनपेक्ष्य तस्यैव मनः सहकारिणः साक्षात्कारजनकत्वोपपत्तेः । अतः कथंचिदपि न वाक्याद्वाधकप्रत्यक्षोदय इत्याशयः । किमित्यादिना प्राग्विकल्पिते मतद्वये दूषितस्य दूषणान्तराण्यवधारणेन सूचयन् स्वमतपरिशेषं तावदाह - अत इति वाक्यजन्यज्ञानस्य विधे - यत्वनिवर्तकत्वादेर्युक्तिप्रत्यक्षादिविरुद्धत्वादित्यर्थः । वाक्यार्थज्ञानादन्यदेवेति ; अयं भावः —वाक्यार्थबोधमात्रस्योपायत्वविधाने स्वतस्तत्प्रवृत्तौ दुस्तरं चक्रकम् ; न हि ब्रह्मस्वरूपं तज्ज्ञानं चाविदित्वा तज्ज्ञानकामना स्यात् । तद्रहितस्य च न तदर्थोपायविधिप्रवृत्ती स्तः । न चोपायानुष्ठानमन्तरेण ब्रह्मधीसिद्धिरिति । ननु स्वाध्यायाध्ययनवद्धितैषिप्रेरणया प्रवृत्ति- रस्तु ; मैवम् – हितैषिभिरपि ’ निर्विशेषचिन्मात्र ब्रह्मज्ञानं संपादय’ इत्युपदेष्टव्यम् ; तदा ह्येवंविधन्रह्मधीसदसद्भावयोस्तदुपायानुष्ठानं न स्यात् । अस्मत्पक्षे तु बहाकार विशिष्टे ब्रह्मण्यावृत्तिनैरन्तर्यादिविशिष्टकालान्तरभाव्यतिशयितज्ञानार्थप्रवृत्तौ यथालोकं न विरोधः । लोकसिद्धप्रक्रियानभ्युपगमे स्वप्रवृत्त्यादिविरोधः स्यात् । न च नित्यप्रत्यक्षनिर्विशेषवस्तु- वादिनस्तव वाक्यतोऽन्यतो वा तद्विषयातिशयितधीः शक्येति । मूलभावप्रकाशिका कर्मनिरपेक्ष वाक्यार्थज्ञानस्य मोक्षहेतुत्वे हि कर्मविचारपूर्ववृत्तत्वासंभवः; कर्माङ्ग- कोपासनस्य मोक्षसाधनत्वात् कर्मविचारपूर्ववृत्तत्वं संभवतीति सिद्धान्तयति — अत्रोच्यत इति । विधित्सितमिति ; ननु - अविद्यानिवृत्तये वेदान्तवाक्यैर्ज्ञानं विधीयत इति

(१ – १—१) मूलभावप्रकाशिका ३२७ न परमतम्, अनिच्छतोऽपि दुर्गन्धज्ञानादिदर्शनात्प्रमाणवस्तुतन्त्रत्वेनाविधेयत्वाल्लिङादयः श्रूयमाणा अपि शिलातलप्रयुक्तेषुक्षुरतैक्ष्ण्यवत् कुण्ठीभवन्तीति परैर्ज्ञानविधेर्निरस्तत्वादिति चेत् —न ; " पत्न्यवेक्षितमाज्यं भवति” इत्यादौ दर्शने विधिदर्शनात् । न च तत्र दर्शनानुकूलेन्द्रियसंयोगो विधेयः, अनिच्छतोऽपि प्रतिकूलविषयेन्द्रियसंयोगदर्शनेन तस्या- प्यविधेयत्वप्रसङ्गात् । भक्षमन्त्रे " नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम् " " इत्य- वेक्षणप्रकाशकमन्त्रभागस्यावेक्षणे विभज्य विनियोगः, अवेक्षणस्यानुष्ठेयत्वात्, मन्द्राभि- भूतिः” इत्यादितृप्तिप्रकाशकमन्त्रभागस्य तु न तृप्तौ विभज्य विनियोगः, तृप्तेरननुष्ठेय- त्वादिति शेषलक्षणे स्थितत्वाज्ज्ञानस्वरूपस्यावेक्षणस्य कृतिसाध्यत्वं सिद्धम् । किंच ज्ञानस्याविधेयत्वे ’ न चाविहितमङ्गं भवति’ इति न्यायेन कर्मज्ञानस्य कर्माङ्गत्वं न स्यात् । विधेयत्वेन पराङ्गीकृतस्य ध्यानस्य ज्ञानानात्मकत्वे ध्यानेन ध्येयविषयव्यवहारस्मृत्योरभाव- प्रसङ्गात्, तयोर्ज्ञानकार्यत्वात्; “मनो ब्रह्मेत्युपासीत” इति विवेयत्वेन पराङ्गीकृतायामुपास- नायां “य एवं वेद ” इति ज्ञानार्थविदिधातुप्रयोगस्य बहुश उपलम्भात्, सर्वस्य ज्ञानस्य पुं- तन्त्रत्वाभावेऽपि शास्त्रार्थज्ञानस्य पुंतन्त्रत्वदर्शनात्, ब्रह्मणश्च शास्त्रार्थत्वात्, दुर्गन्धादिज्ञान- स्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वात्, ज्ञानान्तराणामनियमादसाध्यत्वेऽपि ब्रह्म- ज्ञानस्येच्छाप्रयत्नसाध्यत्वसंभवात्, श्रोत्रगतानेकगकारेषु बुभुत्साप्रयत्नाभ्यामभीष्टगकारज्ञान- दर्शनेन ज्ञानविशेषस्येच्छाधीन कृतिसाध्यत्वस्यावश्याभ्युपेयत्वात्, वृथैव वैदिकलिङ्गादेरस्वा- रस्यकल्पनायोगादिति । न चाक्रियार्थत्वेन ज्ञानस्याविधेयत्वमिति वाच्यम्, ज्ञान- स्यापि ज्ञाधात्वर्थक्रियात्वात् ; परिस्पन्दरूप क्रियात्वाभावस्य यागादावपि तुल्यत्वात् । तस्मादकामेनापि परेण ज्ञानविवेरभ्युगन्तव्यत्वमभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । अत एव विधानमन्तरेणेत्युत्तरग्रन्थस्यापि नानुपपत्तिः । वस्तुतो ज्ञानविधेः परानभ्युपगमात् दूष- णान्तरमाह - तावन्मात्रेणेति । ननु – किं श्रवणादिभिर्निरस्तसमस्तभेदवासनानां शुक- वसिष्ठवामदेवापान्तरतपःप्रभृतीनां वाक्यार्थज्ञानादविद्यानिवृत्त्यनुपलब्धिरुच्यते ? उतातथा- भूतानाम् ? नान्त्यः, सत्यां भदवासनायां वाक्यस्य सत्तानिश्चयरूपाविद्यानिवर्तकज्ञानानु- त्पादकत्वात् ; दूरे सत्तानिश्चयानात्मकजलप्रत्यक्षे सत्यप्यज्ञानकार्यसंशयादिदर्शनेन सत्ता- निश्चयरूपज्ञानस्यैवाज्ञाननिवर्तकत्वात् ; भेदवासनादशायां वेदान्तवाक्यजन्यज्ञानस्यापरोक्ष– ब्रह्मविषयत्वेन ’ दशमस्त्वमसि’ इतिवाक्यजन्यज्ञानस्येवापरोक्ष्ये सत्यपि भेदवासना- CC-0 No Rights Reserved. Digitized by eGangotriG श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) ३२८ 66 नाद्यः, वसिष्ठा- " तस्य रूपप्रतिबन्धकमहिम्ना सत्तावधारणात्मकाविद्यानिवर्तकज्ञानानुत्पत्तेः । दीनामविद्यानिवर्तकज्ञानमुत्पन्नमेव ; अविद्या च नष्टैव । न च सद्यः शरीरतत्प्रतिभा- सादिनिवृत्तिप्रसङ्गः, नष्टायामप्यविद्यायां तत्संस्काराद्वा देहादिप्रतिभासरूप विक्षेप हेत्वविद्या- लेशानुवृत्त्या वा दग्वपटन्यायानुवृत्ताविद्यया वा देहादिप्रतिभासोऽनुवर्तत इति तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये " इति ज्ञानानन्तरमपि प्रारब्धकर्मणो ब्रह्म- प्राप्त्यन्तरायत्वप्रतिपादकशास्त्रमहिम्नाङ्गीक्रियते । दृश्यते च चन्द्रैकत्वनिश्चये सत्यप्य- ङ्गुल्यवष्टम्भादिदोषमहिम्ना द्विचन्द्रभ्रमानुवृत्तिः । न चैवं नष्टायामप्यविद्यायां तन्मूल- देहप्रतिभासादिलक्षणभेददर्शनानुवृतौ तस्य निवृत्तिः कदापि न स्यात् ; तन्मूलः प्रति- भासमानदेहादौ सत्यत्वभ्रमरूपवन्धश्च स्यादिति शङ्क्यम्, अविद्यासंस्कारस्य वा तल्ले- शस्य वा भेददर्शनानुवृत्तिहेतुभूतस्य प्रारब्धावसानवृत्त्यभिव्यक्तेन ब्रह्मचैतन्येन वा तत्का- लोत्पन्नवृत्त्या वा नाशे भेदप्रतिभासस्यापि नाशान्नानिवृत्तिप्रसङ्गः; सत्यत्वभ्रम हेतुभूता- विद्यानाशान्न बन्धप्रसङ्गोऽपीति जीवन्मुक्तिशास्त्रानुसारेणाभ्युपेयते । अत एव श्रूयते - भूयश्चान्ते विश्वमायानिवृत्तिः " इति ; अनुवृत्ताविद्यालेशस्यापि निवृत्तिर्भवतीति हि तदर्थः इति मृषावादिचोद्यं निरस्यति न च वाच्यमिति । सर्वस्येति उत्पन्नतत्त्वसाक्षात्कारस्य सर्वस्येत्यर्थः । छिन्नमूलत्वेनेति ; अच्छिन्नमूलस्यैव भेददर्शनस्य तत्सत्यत्वभ्रमरूपबन्धहेतुत्वादिति भावः । ननु भेद वासनायाः सत्तावधारणात्मकाविद्या- निवर्तकज्ञानोत्पत्तिप्रतिबन्धकत्वात् सामग्र्येव नास्तीत्याशङ्क्याह – सत्यामपीति । चिरानुवृत्तभ्रमवतः सत्यामपि वासनायामाप्तोपदेशलिङ्गादिना सत्तावधारणात्मकज्ञानोत्पत्ते- रित्यर्थः । मात्रया ; अल्पश इत्यर्थः । भवतेति ; ब्रह्मव्यतिरिक्तसर्वमिय्यात्ववादि- नेत्यर्थः । निवृत्तत्वादिति ; ननु संस्कारस्य कार्यत्वेऽपि ध्वंसवन्निरुपादानत्वाभ्युपग- मेऽविद्यावच्चिदचिदाश्रितत्वेनाविद्या सापेक्षत्वेऽविद्यासंस्कारत्व भङ्गप्रसङ्गेन चाविद्या निरपेक्ष- स्थितिकत्वात् तत्त्वज्ञानेन नष्टायामप्यविद्यायां तत्संस्कारानुवृत्तिः संभवति । ज्ञानक्रित्रयोरेव नाशः संस्कारनियतः, नान्यस्य ; नाशमात्रस्य संस्कारव्याप्तत्वे संस्कार- नाशस्यापि तथात्वप्रसङ्ग इति वाच्यम्; अनवस्थापत्त्या तत्र संस्कारानभ्युपगमेऽपि संस्का- रनाशातिरिक्तस्य सर्वस्यापि नाशस्य संस्कारव्याप्तत्वात् ; क्षालितलशुनभाण्डे गन्धोपलम्भेन लशुनद्रव्य संस्कारानुवृत्तेरभ्युपेयत्वेन ज्ञानक्रिययोरेव संस्कार इत्यस्यासंभवादस्त्येवाविद्या- — न च

(१ – १ – १) मूलभावप्रकाशिका " ३२९. संस्कारः, तन्महिंमैन कुलालचक्रभ्रमानुवृत्तिवत् देहतत्प्रतिभासादेरा विद्यकस्यानुवृत्तिरिति चेत् — न; क्षालितलशुनभाण्डे सूक्ष्मलशुनावयवानुवृत्त्यैव गन्धोपलब्ध्युपपत्तेर्ज्ञानक्रियादि- व्यतिरिक्तनाशस्य संस्कारव्याप्तत्वाभावात् भावकार्यस्य सर्वस्याप्यविद्योपादानकत्वनियमेना- विद्यासंस्कारस्य निरुपादानकत्वकल्पनायोगात्, जीवन्मुक्तस्य निरतिशयानन्दस्फुरणप्रसङ्गात् संस्कारस्यानावारकत्वात्, ‘कार्याभिन्नं कारणमुपादानम्, अभिन्नसत्ताकं कारणमुपादानम् ’ इति वदतां मृषावादिनां मते नष्टेऽप्युपादाने उपादेयसत्तावार्ताया वा उपादेय देहादिप्रतिभा- सोत्पत्तिवार्ताया वा असंभवादिति । न च कुलालचक्रसंस्कारवत् स्वयमेव वा वृत्त्यभिव्यक्तानु- वृत्तब्रह्मचैतन्येन वा तत्कालोत्पन्नवृत्त्या वा अविद्यासंस्कारनाशः स्यादिति वाच्यम्, स्वय- मेव नाशे ज्ञाननिवर्त्यत्वाभावेन मिथ्यात्वाभावप्रसङ्गात् । न च दण्डनिवृत्तघटस्य ज्ञाना- निवर्त्यत्वेऽपि मिथ्यात्ववत् संस्कारस्य ज्ञानानिवर्त्यत्वेऽपि मिथ्यात्वमुपपन्नमिति वाच्यम्, दण्डनिवृत्तघटस्य खोपादानाविद्यायां लीनस्याविद्यया सहैव ज्ञाननिवर्त्यत्वसंभवात्, अविद्यायाः स्वकार्येण प्रविलीनेन वर्तमानेन च सहैव ज्ञानान्निवृत्तिरित्यभ्युपगमात् अविद्यासंस्कारे ज्ञाननिवर्त्यत्वस्य तथा निर्वोढुमशक्यत्वात् । अज्ञानाधीनप्रतिभासस्य संस्कारस्यात्म- ज्ञाननिवर्त्यत्वा योगेनानुवृत्तसाक्षात्कारेण वा तत्कालोत्पन्नवृत्त्या वा निवर्त्यत्वायोगात् । प्रारब्धावसानसमये नियमेन तत्त्वमसीत्यादिशब्दप्रमाणावश्यंभावेन “ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति गतशोकः ॥ " " इति भवदुदाहृतवचनविरोधप्रसङ्गेन च तत्कालोत्पन्नवृत्त्या संस्कारनिवृत्त्ययोगाच्च ; प्राथ- मिकवृत्त्यभिव्यक्तब्रह्मचैतन्यस्यैवानुवृत्तस्य कालान्तरेऽज्ञाननिवर्तकत्येकदाचिदुत्पन्नघटाकार- वृत्त्यभिव्यक्तघटावच्छिन्नचैतन्यस्य कालान्तरेऽपि तद्वृत्तिं विना तदज्ञाननिवर्तकत्वप्रसङ्गात् । न च कालान्तरीयघटावच्छिन्न चैतन्यस्य पूर्वकालावच्छिन्नचैतन्याभिव्यञ्जकवृत्त्यनभिव्यक्त- त्वादज्ञानान्तरेणावृतत्वाच्च कालान्तरेऽज्ञानानिवर्तकत्वेऽपि प्रकृते ब्रह्मसाक्षात्कारेण चैतन्यस्य सर्वात्मनाभिव्यक्तत्वादज्ञानान्तरेणानावृतत्वाच्च कालान्तरेऽप्यज्ञाननिवर्तकत्वं युक्तमिति वाच्यम्, चैतन्यस्य सर्वात्मनानावृतत्वे जीवन्मुक्तस्य निरतिशयानन्दस्फुरणापातात् संस्कारस्यानावारकत्वात्, आवारकत्वे चावृतस्य चैतन्यस्य प्रारब्वावसाने निवर्तकत्वा- संभवात् । छिन्नमूलमिति ; छिन्नाविद्याख्यमूलमित्यर्थः । ननु संस्कारपक्षे एतद्दोष- 42

३३० श्रीभाष्यम् सद्भावेऽपि प्रपञ्चे परमार्थसत्यत्वप्रतिभास हेत्वविद्यांशनाशेऽपि " ० (जिज्ञासाधिकरणम् )> देहादिप्रतिभास हेत्व– विद्यांशोऽनुवर्तन इति पक्षे दग्धपटन्यायेनाविद्यानुवर्तत इति पक्षे वा नायं दोष इति चेत् न ; निरवयवे लेशस्य दग्वनटन्यायस्य चासंभवात् दग्धपटस्य नष्ट– तयानुवृत्त्यसंभवाच्च, अनुवृत्तस्य ज्ञानानिवर्त्यत्वेन सत्यत्वापाताच्च । ननु लेशो नाम आकार एव; “ इन्द्रो मायाभिः " इति श्रुत्या अविद्याया अनेकाकारत्वेन प्रपञ्च परमार्थसत्यत्वभ्रम हेत्वाकारनिवृत्तावपि देहाद्यपरोक्षप्रतिभास हेत्वाकारोऽनुवर्तते, प्रारब्धव- शादिति चेत् — न ; आकारिनिवृत्तावाकारानुवृत्त्ययोगात् ; किंच आकारस्याविद्याभिन्नत्वे तस्यानुपादानत्वे देहादिप्रतिभासाद्युत्पत्त्ययोगात्, उपादानत्वेऽविद्यात्वप्रसङ्गात्, अविद्या- रूपत्वे ज्ञानेन निवृत्त्यवश्यंभावात् अनिवृत्तस्य तस्य तदनधिकविषयेणानुवृत्तेनावृत्तेन वाप्युत्तरेण ज्ञानेन निवृत्त्ययोगात् । अत एव कृतनिदिध्यासनस्य ब्रह्मसाक्षात्कारेण प्रपञ्चे परमार्थसत्यत्वप्रतिभास हेतुभूताविद्याशक्तिमात्रस्य प्रारब्धकर्मणा प्रतिबन्ध इति निरस्तम् ज्ञानस्याविद्ययैव विरोधात् । पूर्वज्ञानस्य शक्तिमात्रप्रतिबन्धकत्वे तदनधिकविषयस्य चरमस्यापि तत्त्वापत्त्या कदाचिदप्यज्ञाननिवृत्तिर्न स्यात् । न च प्रारब्धकर्मप्रति– बन्धनिवृत्तावप्रतिबन्धसाक्षात्कारेणानुवृत्तस्याज्ञानस्य निवृत्तिरस्त्विति वाच्यम्, ज्ञाननिवृत्तस्य प्रारब्धकर्मणस्तत्प्रतिबन्धकत्वासंभवात् । ननु – प्रारब्धकर्म न ज्ञाननिवर्त्यम्, ज्ञानेनाज्ञाने निवृत्ते उपादाननिवृत्या उपादेयप्रपञ्चनिवृत्त्यभ्युपगमात् । न च प्रपञ्चस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वं न स्यादिति वाच्यम्, उपादाननिवृत्तिद्वारा ज्ञाननिवर्त्यत्वेन साक्षात्परंपरासाधारण- ज्ञाननिवर्त्यत्वस्य मिय्यात्वप्रयोजकस्य सत्त्वात् । ततश्च ज्ञानानिवर्त्यस्य प्रारब्धकर्मणः स्वोपादानाविद्यालेशनिवृत्तिप्रतिबन्धकत्वसंभव इति चेत् — न; सत्तानिश्चयात्मकज्ञानस्य स्वप्रागभावनिवृत्ताविवाज्ञाननिवृत्तौ प्रतिबन्धासंभवात् । न च दर्पणाद्युपाधिसंनिधानप्रति- बन्धस्य बिम्बज्ञानस्य तदज्ञानानिवर्तकत्वमवश्यं वक्तव्यम्, इतरथा दर्पणस्थत्वप्रत्यङ्मुखत्वं- विम्बभेदादिभ्रमो न स्यादिति वाच्यम्; उपाध्यसंनिधिकालीनबिम्बतत्त्वसाक्षात्कारेण निवृत्ततदज्ञानस्यापि पुंसः तदुत्तरक्षण एवोपाधिसंनिधाने भ्रमदर्शनेन सोपाधिकभ्रमस्य बिम्बाद्यावारकावस्थाज्ञानोपादानकत्वासंभवेन मूलाज्ञानोपादानकत्वस्यैव वक्तव्यत्वात् । चैवं सोपाधिकभ्रमस्य व्यावहारिकत्वापत्तिरिति वाच्यम्, अविद्यातिरिक्तोपाधिसंनिधानादि- लक्षणदोषजन्यत्वेन प्रातिभासिकत्वोपपत्तेः । तस्मात् ज्ञानेनाज्ञाननिवृत्तौ प्रतिबन्धस्य न

(१ – १ – १ ) मूलभावप्रकाशिका ३३१ कुत्राप्यदर्शनात् प्रारब्धकर्मप्रतिबन्धकत्ववादो न संभवति । ननु तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये” इति श्रुतेरज्ञाननिवृत्तौ प्रारब्धस्य प्रतिबन्धकत्वमुपेयत इति चेत्, तदनुसारेण ज्ञानानिवृत्र्त्यस्याज्ञानभिन्नत्वं सत्यत्वं चोपेयताम् । न च " भूयश्चान्ते विश्वमायानिवृत्तिः” इति श्रुतिबलात् किंचिदज्ञानं नश्यति किंचिदनुवर्तते, तस्य च प्रारब्धावसाने निवृत्तिरिति प्रतीयत इति वाच्यम् ; " तदधिगम उत्तर पूर्वाघयोरश्लेष- विनाशौ " इति सूत्रोक्तन्यायेन केषांचित्कर्मणां विद्योदये विनाशः, अवशिष्टानां च कर्मणां भगवत्संकल्परूपाणां विचित्राश्चर्यशालितया मायाशब्दवाच्यानां सांपराये तर्तव्या- भावात् " इति सूत्रोक्तरीत्या शरीरपातसमये नाशो भवतीत्यर्थो “ भूयश्चान्ते विश्वमाया- निवृत्तिः” इति श्रुत्योच्यते । नात्र पराभिहितजीवन्मुक्तिप्रत्याशा | " अथ मर्त्यो- इत्यत्रापि विनष्टाश्लिष्टपूर्वोत्तरदुरितत्वलक्षणममृतत्वमत्रत्य- जीवन्मुक्तौ प्रमाणं पश्यामः । अत एव " तद्यथा- ऽमृतो भवत्यत्र ब्रह्म समश्नुते " ब्रह्मसाक्षात्कारश्वोच्यत इति न 66 हिनियनी वल्मीके मृता प्रत्यस्तः शयीतैवमेवेदं शरीरं शेते ; ऽमृतः 59 अथायमशरीरो- इति वाक्यशेषे ब्रह्मविच्छरीरस्य वल्मीकप्राप्तनिष्प्राणसर्पनिर्मोकसादृश्यप्रतिपादनं ब्रह्मविदोऽशरीरत्वप्रतिपादनं च ब्रह्मसाक्षात्कारानन्तरभाविनिरूढ देहात्मविवेकस्तुतिपर- मिति न पराभिमतजीवन्मुक्तौ प्रमाणं पश्यामः । अत एव विरोधिसाक्षात्कारोदये लेशतोऽप्यविद्यानुवृत्त्यसंभवं मन्यमानैः कैश्चिदद्वैतिभिर्जीवन्मुक्तिशास्त्रस्यार्थवादत्वमेवा- श्रितमित्यलमतिचर्चया* ननु पारमार्थिक दोषानुवृत्त्या भ्रान्तेरनुवृत्तौ तत्कार्यभय-

  • तथा च संक्षेपशारीरकम् - 66 जीवन्मुक्तिप्रत्ययं शास्त्रजातं जीवन्मुक्ते कल्पिते योजनीयम् । तावन्मात्रेणार्थवत्त्वोपपत्तेः सद्यो मुक्तिः सम्यगेतस्य हेतोः ॥ " 4-39. जीवन्मुक्तिबोधकं " तस्य तावदेव चिरं यावन्न विमोक्ष्ये” इत्यादि शास्त्रं वस्तु- तोऽसंभाविते ऽपि कल्पिते जीवन्मुक्ते योजनीयम् । श्रुतेः कल्पितविषयत्वेऽप्रामाण्य- प्रसङ्ग इति चेत्, नैष दोषः अस्याः श्रुतेरर्थवादत्वादित्याह - तावन्मात्रेणेति | स्वार्थे फलवत्त्वाभावेऽपि विद्यास्तुत्यर्थत्वेन कल्पितजीवन्मुक्तविषयत्वान्नाप्रामाण्यमिति -तदर्थः । तत्रैवैतदुपरि सप्त कारिका जीवन्मुक्तिविषया अत्रावगन्तव्याः ।

३३२ 66 ; श्रवणात्, श्रीभाष्यम् " (जिज्ञासाधिकरणम् ) कम्पादेरप्यनुवृत्तिः स्यादिति तटस्थशङ्कां वारयति - प्रबलेति । चन्द्रैकत्वज्ञानस्य प्राबल्यं दोषाजन्यत्वेन निश्चितत्वम् । बाधितत्वं च भ्रमत्वेन निश्चितत्वम् । निवर्तत इति एतेन निश्चिताप्रामाण्यदेहेन्द्रियान्तःकरण कर्तृत्वभोक्तत्वादिलक्षण जगत्प्रतिभासकार्यस्य भिक्षाटनादेरनुवृत्तिर्जीवन्मुक्तस्य न स्यादित्युक्तं भवति । अतो वाक्यार्थज्ञानादन्यदे- वेति; अनेन वाक्यजन्यब्रह्मज्ञानस्य परोक्षतया अपरोक्षप्रपञ्चाध्यास निवर्तकत्वं ना— स्तीति दर्शितं भवति । ननु–” – “ तद्धास्य विजज्ञौ " इति सद्विद्यायां " तमसः पारं दर्शयति " इति भूमविद्यायां चाचार्योपदेशानन्तरमेव ब्रह्मसाक्षात्कारप्रतिपादनात्, विजज्ञौ ” इति शब्देन ज्ञानसाक्षात्त्वस्य प्रतिपादनात् " आचार्यवान् पुरुषो वेद " " तस्य तावदेव चिरं यावन्न विमोक्ष्ये " इत्यादिश्रुतिप्याचार्योपदेशानन्तरमेव ब्रह्मसाक्षा त्कारोदये जीवन्मुक्तिश्रवणात्, “वेदान्तविज्ञान सुनिश्चितार्थाः " इति ज्ञानान्तरनैरपेक्ष्य- “ तं त्वौपनिषदम् ” इति ब्रह्मण उपनिषदे गम्यत्वश्रवणाच्चौपनिषदं महा– वाक्यमेव ब्रह्मसाक्षात्कारे करणम् । न च मनसः " करणत्वं शङ्कनीयम्, " यन्मनसा न मनुते ” इति तस्य ब्रह्मज्ञानकरणत्वनिषेधात् ; न च “ मनसैवानुद्रष्टव्यम् ” इति श्रुतेः " यन्मनसा न मनुते ” इत्येतदपकमनोविषयं भविष्यतीति वाच्यम्, येनाहुर्मनो मतम् " इति वाक्यशेषगतमनः शब्दस्य मनोविषयतया " यन्मनसा " इत्यत्रापि मनो- मात्रविषयत्वावश्यंभावात् । 66 न च यद्वाचानभ्युदितम् " इति शब्दस्यापि ब्रह्मज्ञान- करणत्वं निषिध्यत इति शङ्कयम्, परोक्षज्ञानकरणत्वस्य प्रत्याख्यातुमशक्यत्वात् ; वाचो निवर्तन्ते, अप्राप्य मनसा सह इति श्रुत्यनुरोधेन शब्दस्यार्थप्राप्तिरूपशक्ति- मुखेन तत्करणत्वनिषेधे “ यद्वाचनिभ्युदितम् ” इति श्रतस्तात्पर्यस्य वक्तव्यतया शक्यसंबन्ध- रूपलक्षणामुखेन शब्दस्य ब्रह्मज्ञानकरणत्वाविरोधात् ; " मनसैवानुद्रष्टव्यम्” इत्यस्य शब्देन साक्षात्कारे जननीये चित्तैकाग्र्यस्य हेतुत्वमात्रप्रतिपादनपरत्वेन करणत्वप्रतिपादनपरत्वाभा - वात् । न च चक्षुषः श्रौत्रज्ञान इव शब्दस्य प्रत्यक्षज्ञानजनकत्वं विरुद्धमिति शङ्कययम्, केवलस्य, होमस्यापूर्वाजनकत्वेऽपि शास्त्रीय संस्कार संस्कृताग्न्यधिकरणकस्य होमस्यापूर्वजनकत्व- वत् श्रवणादिसंस्कृतचित्तानुगृहीतस्य शब्दस्यापरोक्षज्ञानजनकत्वं कल्प्यते । " तरति शोक - मात्मवित्” इति शास्त्रानुरोधादपरोक्षस्य कर्तृत्वाच्यासलक्षणशोकस्य परोक्षज्ञानान्निवृत्त्य- संभवादौपनिषदे च ब्रह्मणि मानान्तराप्रवृत्तेः शब्दादप्यपरोक्षज्ञानानुत्पत्तावनिर्मोक्ष एक 99 " यतो. CC-0 No Rights Reserved. Digitized by eGangotri6 ( १ – १ – १ ) मूलभावप्रकाशिका 9 ३३३ स्यात् ; भावनाप्रचयसाहित्ये सति बहिरसमर्थस्यापि मनसो नष्टवनितासाक्षात्कारजनकत्व- दर्शनात्, निदिध्यासनसाहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वस्य युक्तत्वाच्च । किं- चापरोक्ष्यं न तावज्जातिः, ’ दण्डययमासीत्’ इति संस्कारोपनीतदण्डविशिष्टपुरुषवि- पयस्य चाक्षुषज्ञानस्य दण्डांशेऽपि चाक्षुषज्ञानरूपतया तद्विषयगताज्ञाननिवृत्त्यापत्तेः, दण्डं साक्षात्करोमि ’ इति तदंशेऽप्यापरोक्ष्यानुभवापाताच्च । अननुभवेऽपि संस्कार- संनिकर्षं परिकल्प्येन्द्रियसंनिकर्षजन्यतया तत्र काल्पनिका परोक्ष्याभ्युपगमेऽनुमित्यादावपि लिङ्गज्ञानादिकं संनिकर्षं परिकल्प्य तदङ्गीकारापत्तेः ; दण्डांशे आपरोक्ष्यासत्वेऽव्याप्य- वृत्तित्वेन जातित्वायोगात् ; अवच्छेद कोपाधिभेदानिरूपणेनाव्याप्यवृत्तिजातित्वस्याप्यभ्युप- गन्तुमशक्यत्वात् । नाप्युपाधिः, तदनिर्वचनात् । इन्द्रियजन्यत्वं तदिति चेत्, न ; साक्षिप्रत्यक्षाव्यापनात् ; उपनीतगुरुत्वादिविशिष्टघटादिप्रत्यक्षे विशेषणांशेऽतिव्याप्तेश्च, कर- णान्तराभावेन तदंशे परोक्षेऽप्युपनयसहकारिसामर्थ्यादिन्द्रियस्यैव जनकत्वात् ; अनुगत- जन्यतावच्छेदकाग्रहेऽनेकेन्द्रियजन्यत्वस्य दुर्ग्रहत्वात् ; तद्गुहे तस्यैवापरोक्ष्यरूपत्वोपपत्तौ प्रत्यक्षानुभवयोग्यस्येन्द्रियजन्यत्वस्य तद्योग्यापरोक्ष्यरूपत्वकल्पनायोगात् । एतेन इन्द्रिय- संनिकर्षजन्यत्वमापरोक्ष्यम् ; उपनयसहकृतेन्द्रियजन्यपरोक्षांशे च न संनिकर्षजन्यत्वम् ; अनुमितावप्युपनीतभानत्वेन प्रमाणान्तरसाधनस्योपनयस्यासंनिकर्षत्वादित्यपि शङ्का निरस्ता; संयोगादिष्वनुगतस्य संनिकर्षत्वस्यानिर्वचनात् । किं तर्ह्यपरोक्षत्वं ज्ञानस्येति चेत् , अपरोक्षार्थविषयत्वस्यैव तथात्वात् । अर्थस्यापरोक्ष्यं च तत्तत्प्रमातृचैतन्याभेद एव, अन्तःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्त्वात् ; बाह्यचैतन्यकल्पितानां घटादीनां वाह्मचैतन्ये वृत्तिगततत्तत्पुरुषीय चैतन्याभेदाभिव्यक्तथा प्रमातृचैतन्याभेदसत्त्वाच्च । न चान्तःकरणधर्माणां ज्ञानादीनामिव धर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वाविशेषा- दापरोक्ष्यापत्तिः, तेषामनुद्भूतत्वात् उद्भूतस्यैव चैतन्याभेदमापरोक्ष्यमित्यभ्युपगमात् । एवंच सर्वदा सर्वप्रमातृचैतन्याभिन्नत्वात् " यत्साक्षादपरोक्षास " इति श्रुत्युक्तरीत्या स्वत एवापरोक्षं ब्रह्मेत्यपरोक्षब्रह्मविषयत्वात् शाब्दस्यापि ब्रह्मज्ञानस्यापरोक्षत्वं युक्तमेव ; तस्मा- .च्छब्दस्यापरोक्षज्ञानजनकत्वे कानुपपत्तिरिति चेत्; उच्यते " तद्धास्य विजज्ञौ " इत्यादेः परोक्षज्ञानेनापि चारितार्थ्यस्य " तद्दर्शयति" इत्यादेश्च मार्गोपदेष्टरि ‘ग्रामं दर्शयति’ इतिवत् परंपरया साक्षात्कारसाधनत्वेनापि चारितार्थ्यात् ; अन्यथा एषोऽणुरात्मा चेतसा " 66

३३४ " श्रीभाष्यम् 66 (जिज्ञासाधिकरणम्) 29 वेदितव्यः " दृश्यते त्वय्यया बुद्धघा मनसैवानुद्रष्टव्यम् " इति मनःकरणत्वप्रतिपादक- बहुश्रुतिविरोधप्रसङ्गात् ; विवरणे " मन एव ब्रह्मसाक्षात्कारकारणं, तस्यैव सोपाधिका- त्मन्यहंवृत्तिरूपप्रमाकरणत्वक्लृप्तेः " इति प्रतिपादितत्वात् । वाक्यार्थभावनापरिपाक- सहितमन्तःकरणं त्वंपदार्थस्यापरोक्ष्यस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामाविर्भावयति " इति वाचस्पत्युक्तेश्च । " अहमेवेदं सर्वोऽस्मीति मन्यते ; सोऽस्य परमो लोकः इति श्रुत्युक्ते स्वप्ने ब्रह्मसाक्षात्कार एव मनसः करणत्वप्रतिपत्तेश्च तदा करणान्तराभावात् । तस्मात् भावनाप्रचयसंस्कृतं मन एव ब्रह्मसाक्षात्कारकारणं " ज्ञानप्रसादेन विशुद्धसत्वस्त- तस्तु तं पश्यते निष्कलं ध्यायमानः " इति श्रुतौ विशुद्धान्तःकरणस्य दर्शनसाधनत्वप्रती- तेश्च परोक्षज्ञानजननैकस्वभावस्य शब्दस्यापरोक्षज्ञानजनकत्वकल्पने मूलं न पश्यामः । यदुक्तम् — अपरोक्षकर्तृत्वादिलक्षणप्रपञ्चाध्यासस्य ब्रह्मापरोक्षज्ञानैकनिवर्त्यत्वात् ब्रह्मसा- क्षात्कारजनकस्यान्यस्याभावादगत्या शब्दस्यापरोक्षज्ञानजनकत्वं कल्प्यते, " तरति शोक - मात्मवित्” इति श्रुतिबलात् ; अन्यथा अनिर्मोक्षप्रसङ्ग इति – तन्न ; एवं ज्ञाते तु भगवाननादिः पुरुषोतमः । प्रसीदत्यच्युते तस्मिन् प्रसन्ने क्लेशसंक्षयः ॥ इति बन्धस्य परमात्मप्रसादनिवर्त्यत्वात्, मानससाक्षात्कारसंभवाच्च । 99 66 यद्वाचानभ्युदि- तम् “यन्मनसा न मनुते” इत्यनयोश्च " यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह" इति श्रुत्यनुसारेण वाङ्मनसापरिच्छेद्यत्वमर्थः । • अप्राप्य इत्यस्य शब्दस्य विषये शक्तिरूपमुख्यसंबन्धनिषेधपरत्वे सहपठितस्य मनसोऽप्युपकरणोपकरणिलक्षणमुख्यसंबन्धस्य वा उपादानभूते ब्रह्मणि जीववत्संयोगलक्षणमुख्यसंबन्धस्य वा निषेधपरतया " यन्मनसा न मनुते " इत्यत्र तदनुरोधेन तेन संबन्धेन मनसो ब्रह्मप्रतीतिहेतुत्वनिषेधेऽपि संबन्धान्तरेण ब्रह्मप्रतीतिहेतुत्वसंभवाच्च ; युक्त्यानुचिन्तनात्मक ब्रह्ममनने करणान्तराभावेन मनसः करण- त्वस्य निषेद्धुमशक्यतया ब्रह्मपरिच्छेदहेतुत्वस्यैव निषेद्धव्यत्वाच्च । यदुक्तम् – ‘अप्राप्य इति शक्तिर्निषिध्यत इति – तन्न; तथा सति लक्ष्यपदाशक्यतया कर्मार्थविहितकृत्प्रत्यया- शक्यतया च लक्ष्यत्वस्य कर्मत्वस्याप्यनापाताच्च । यदुक्तम् – “ दशमस्त्वमसि " इत्यस्य वाक्यस्य साक्षात्कार हेतुत्वं दृष्टमिति - तन्न; संशयोत्तरप्रत्यक्ष इव समाने विषये प्रत्यक्ष- सामग्र्याः प्राबल्यात् परामर्शसहकृतेन्द्रियस्य प्रत्यक्षजनकत्ववत् प्रत्यक्षसामग्री रक्तत्वप्रत्यक्ष 66

( १ – १ – १) । मूलभावप्रकाशिका ३३५ इव सहकृता प्रत्यक्षं जनयति ; प्रत्यक्षसामग्र्यसत्त्वे तु न प्रत्यक्षप्रसक्तिरिति नात्र वक्तव्य- मंवशिष्यते । यदुक्तम् — प्रमातृचैतन्याभेदोऽर्थस्यापरोक्षत्वम्, अन्यानिरुक्तेरिति–तन्न ; पराभिमतवृत्तिक्रमव्यवस्थाया एवाप्रामणिकत्वेन वृत्तिकृतसाक्षिब्रह्मचैतन्याभेदाभिव्यक्तौ प्रमाणाभावात् ; तत्संभवेऽपि जडाजडयोरभेदासंभवेन घटादेरर्थस्य प्रमातृचैतन्याभेददर्शना- संभवात् । आरम्भणाधिकरणे भामत्यां " न खलु तदनन्यत्वमित्यभेदं ब्रूमः, किंतु भेदं व्यासेधामः" इत्यभेदस्य प्रतिषिद्धत्वात् । यदुक्तम् — धर्मादिश्रुतिप्रसङ्गवारणार्थमु- द्भूतत्वविशेषणं देयमिति – तन्न ; उद्भूतत्वस्य त्वदभिमतमात्रवर्तिनो निर्वर्त्तुमशक्यत्वात् ; तस्यानावृतप्रकाशसंसर्गे सत्यप्युद्भूतत्वाभावापराधेन परोक्षत्वे ब्रह्मवृत्त्यापरोक्ष्यं न स्यात् । किंच इदमाकारवृत्त्यभ्रिव्यक्तचैतन्यसंसर्गेण शुक्तिरूप्यप्रकाशवत् चन्दने तद्रूपाकारचाक्षुष- वृत्त्यभिव्यक्तचैतन्यसंसर्गिणो गन्धस्यापि प्रकाशापातात् । न च गन्धाकारवृत्त्यभावेन गन्धावच्छिन्नचैतन्यानभिव्यक्त्या तदप्रकाश इति वाच्यम्, चैतन्यस्य द्विगुणीकृत्य वृत्त्य- भावेनैकद्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथक् गगनावच्छेदकत्वस्येव चैतन्यावच्छेदकत्वस्यासंभवात् ; अन्यथा इदमाकारवृत्त्यभिव्यक्तचैतन्येन रूप्यस्याप्य- प्रकाशापत्तेः । अत एव – साक्षादपरोक्षाद्ब्रह्म ” इति श्रुतेः स्वतोऽपरोक्षत्वमात्मन एव ; विषयस्य च तत्तादात्म्यादपरोक्षत्वप्रतिभासः, जगति सत्ताप्रतिभासवत् रूपये इदंत्वप्रति- भासवच्च ; न च सर्वस्यापरोक्षब्रह्मतादात्म्यात् सर्वस्य सर्वदा सर्वं प्रत्यपरोक्षत्वं स्यादिति शङ्क्यम्, यज्जडमुद्भूतं यदा यदभिन्नचैतन्याभिन्नं तदा तस्यापरोक्षमित्यभ्युपगमात् वृत्तिकृताभिव्यक्तिदशायामेव तं प्रमातारं प्रति तस्यार्थस्यापरोक्षत्वम् ; अपरोक्षार्थविषयतया वृत्तेरापरोक्ष्यमिति वादो निरस्तः । " साक्षादपरोक्षाद्ब्रह्म" इति श्रुतेर्ब्रह्मापरोक्षत्व एव प्रमाणत्वेनात्मसंविदपरोक्षत्वेऽप्रमाणत्वात् । ब्रह्मणश्च वृत्तिव्यवधानमन्तरेण साक्षादे- वापरोक्षत्वे सर्वान् प्रत्यपि वृत्तिमन्तरेण ब्रह्मापरोक्ष्यं स्यात् । न चाज्ञानावृतत्वान्नापरो- क्ष्यमिति वाच्यम् स्वतोऽपरोक्षत्वस्याज्ञानावृतत्वाविरोधात् ; अनुद्भूतजडे ईश्वरयोगि- जनापरोक्षे चैतन्याभेदमनादृत्यान्यस्यैवापरोक्षत्वस्य वक्तव्यतया तस्यैवोद्भूतस्थलेऽपि संभवात् ; उद्भूतानुद्भूतयोरपरोक्षत्वभेदकल्पनस्याप्रामाणिकत्वात् ; चन्दनाकार- चाक्षुषवृत्त्यभिव्यक्तचैतन्याभिन्नगन्धापरोक्ष्यस्य दुर्वारत्वाच्च ; ’ साक्षात्करोमि इति ज्ञानस्योद्भूतत्वादिघटितापरोक्षत्वाविषयत्वाच्च ; अपरोक्षत्वस्यान्यस्य निर्वक्तुमशक्यत्वा-

३३६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) चैतन्याभिन्नार्थविषयत्वं वृत्तेरापरोक्ष्यम्, तच्छब्दजन्यज्ञानेऽप्यस्तीति वादस्य प्रतियोगि- त्वादिघटितव्याप्तेर्निर्वक्तुमशक्यत्वात्सामानाधिकरण्यविशेषो व्याप्तिः, सा च व्यभिचारिण्य- अनुमितित्वशाब्दत्वानधिकरणानुभूतित्वस्यैव जन्याजन्य- व्यस्तीति वादे तुल्यत्वात् ; प्रत्यक्षसाधारणप्रत्यक्षलक्षणत्वस्य वक्तुं शक्यत्वात् । सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः, न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम्’ इति न्यायेन लोकमर्यादाविरुद्ध लक्षणो- त्यसंभवाच्च नापरोक्षं शाब्दज्ञानमिति भावः । ध्यानोपासनादीति ; आदिशब्देन दर्शनादिशब्दा विवक्षिताः । श्रीभाष्यम् तथा च श्रुतयः – " विज्ञाय प्रज्ञां कुर्वीत "" 35 " अनुविद्य विजानाति " ओमित्येवात्मानं ध्यायथ " निचाय्य तं मृत्युमु- खात्प्रमुच्यते " 66 आत्मानमेव लोकमुपासीत "" 66 आत्मा वारे 55 " सोऽन्वेष्टव्यः द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः , स विजिज्ञासितव्यः” इत्येवमाद्याः । अत्र ’ निदिध्यासितव्यः ’ इत्यादिनैकार्थ्यात् " अनुविद्य विजानाति " " विज्ञाय प्रज्ञां कुर्वीत ” इत्येवमादिभिर्वाक्यार्थज्ञानं ध्यानोपकारकत्वात् ‘अनु- विद्य’ ’ विज्ञाय’ इत्यनूद्य ‘प्रज्ञां कुर्वीत’ ‘विजानाति ’ इति ध्यानं विधीयते । ’ श्रोतव्यः’ इति चानुवादः, स्वा- ध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात्त- निर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात् । प्रतिष्ठार्थत्वान्मननस्य ’ मन्तव्यः’ इति चानुवादः । श्रवण- तस्माद्ध्यान- मेव विधीयते । वक्ष्यति च - " आवृत्तिरसकृदुपदेशात्” इति । तदिदमपवर्गोपायतया विधित्सितं वेदनमुपासनमित्यवगम्यते ; विद्युपा- स्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् — “मनो ब्रह्मेत्युपासीत” इत्यत्र

((१ – १ – १ ) श्रुतप्रकाशिका “भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद G 66 न स वेद; अकृत्स्नो ह्येषः । यत्स वेद स मयैतदुक्तः " इत्यत्र ३३७ 99 आत्मेत्येवोपासीत " “यस्तद्वेद 1 " अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से " इति । ध्यानं च तैलधारावदविच्छिन्न- स्मृतिसंतानरूपम्, “ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः " इति ध्रुवायाः स्मृतेरपवर्गोपायत्वश्रवणात् । स्मृतिर्दर्शन समानाकारा, " भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ सा च इत्यनेनैकार्थ्यात् । एवं च सति " आत्मा वारे द्रष्टव्यः” इत्यनेन निदिध्यासनस्य दर्शनरूपता विधीयते । भवति च स्मृतेर्भावना- प्रकर्षादर्शनरूपता । * वाक्यकारेणैतत्सर्वं प्रपञ्चितम् । " वेदनमुपा- सनं स्यात्तद्विषये श्रवणात् ” इति सर्वासूपनिषत्सु मोक्षसाधनतया 66 " सकृत्प्रत्ययं कुर्याच्छन्दार्थस्य विहितं वेदनमुपासनमित्युक्तम् । कृतत्वात्प्रयाजादिवत्” इति पूर्वपक्षं कृत्वा “सिद्धं तूपासनशब्दात् " इति वेदनमसकृदावृत्तं मोक्षसाधनमिति निणींतम् । " " उपासनं स्याडुवानुस्मृतिर्दर्शनान्निर्वचनाच्च ” इति तस्यैव वेदनस्योपासनरूप- स्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम् । सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्तिः । श्रुतप्रकाशिका न केवलं पारिशेष्यम्, तदनुग्राह्याः श्रुतयश्च सन्तीत्याह - तथा चेति । “ विज्ञाय ’ इत्यादिवाक्यद्वये ज्ञानसामान्यशब्दः । वाक्यद्वयोपादानं चोपसर्गभेदेऽपि वाक्यकारोऽत्र ब्रह्मनन्दी | 43 CC-0 No Rights Reserved. Digitized by eGangotri३३८ श्रीभाष्यम् (जिज्ञासाधिकरणम् )> विधिप्रत्ययान्तत्वतद्राहित्ययोश्चार्थभेदो नास्तीति ज्ञापनार्थम् । ध्यायथेति विशेषशब्दः । निचाय्येति ध्यानस्य प्रत्यक्षसामानाकारता दर्शिता ; 99 चाय दर्शने इति हि. धातुः । उपासीतेत्यनेन ध्यानस्योपासनशब्दवाच्यत्वं सिद्धम् । अन्वेष्टव्य इति मननशिरस्कश्रवणोक्तिः । ’ निदिध्यासितव्यः ’ ’ विजिज्ञासितव्यः’ इत्युपादानेन सन्न- न्तत्वेऽपीप्यमाणज्ञानपरं वाक्यमिति दर्शितम् । सन्नन्तपदद्वयस्योपादानं सामान्यविशेष- शब्दत्वात् । इत्येवमाद्या इति ; इतिशब्द उपात्तश्रुतिवाक्यस्वरूपमात्रपरः । एवंशब्दः सन्नन्तत्वविधिप्रत्ययान्तत्वतद्राहित्योपसर्गभेदादिप्रकारपरः । उदाहृतवाक्येषु ज्ञानसामा- न्यवाचिपदानां विशेषाकाङ्क्षायां वाक्यार्थज्ञानरूपो विशेषः पर्यवसानभूमिः स्यादिति शङ्का- निवृत्त्यर्थमाह – अत्रेति । अत्र ; उपात्तेषु वाक्येषु । ’ इत्येवमादिभिर्ध्यानं विधीयते इत्यन्वयः । निदिध्यासितव्य इत्यादिनेति ; आदिशब्देन सत्रहितज्ञानविशेषवाचि वाक्यान्तरं विवक्षितम् । ऐकार्थ्यं च सर्वशाखाप्रत्ययन्यायात् ; स ह्यनुक्ताकाङ्क्षित- स्वीकारफलः । तत्र " छागो वा मन्त्रवर्णात् " इति न्यायात् सामान्यवाचिशब्दानां विशेषे पर्यवसानम् । अनुविद्य विजानाति ” “ विज्ञाय प्रज्ञां कुर्वीत ” इत्यत्र केन पदेन वाक्यार्थज्ञानमनूद्यते ? केन वा ध्यानं विधीयते ? इत्यपेक्षायामाह – अनुविद्य विज्ञायेत्यनूद्येति । अनुवादः किमर्थः इत्यत्राह – ध्यानोपकारकत्वादिति । دو 66 6 " 66 “ज्ञ कुर्वीत ” “ विजानाति ” इति वाक्यद्वयोपादानस्य पूर्वोक्तमेव फलम् । एवं स्मृति- ष्वमि सामान्यशब्दः सति विशेषोपस्थापके तत्पर्यवसितो दृष्टः । निषिद्धभक्षणं जैह्ममुत्कर्षे च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ॥ इत्यत्र निषिद्धसामान्यस्य भक्षणसामान्यं पातित्यहेतुरवगतम् । 0 “ छत्राकं विडुराहं च लशुनं ग्रामकुक्कुटम् । 99 पलाण्डु गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ " इत्यत्र निषिद्धविशेषस्य भक्षणविशेषः पातित्यहेतुर्दृष्टः ; अत्र पूर्वग्रन्थश्चरमग्रन्थार्थे पर्य- वस्यति । भवतु सामान्यशब्दो विशेषपर्यवसायी ; अत्र तु ज्ञानसामान्यवाचिनः शब्दाः ’ श्रोतव्यः’ इति श्रवणरूपज्ञानविशेषे पर्यवस्यन्त्वित्यत्राह — श्रोतव्य इति चेति चः शङ्कानिवृत्तौ समुच्चये वा । ’ विज्ञाय ’ ’ अनुविद्य ’ इतिवदयं चानुवाद इत्यर्थः ।

० १९ (१ – – १ – १) 66 श्रुतप्रकाशिका ३३९ तत्संक्षेपेणोपपादयति – स्वाध्यायस्येति । आपातप्रतीत्या स्वतः प्राप्तिः श्रवणस्य स्यात् ; मननस्य तादृशहेत्वभावात्तत्र पर्यवसानमस्त्वित्यत्राह - श्रवणप्रतिष्ठार्थत्वादिति । चः पूर्ववत् । तस्माद्ध्यानमेवेति ; न तु वाक्यार्थज्ञानमित्यर्थः । ननु " श्रोतव्यः " इति पुस्तकनिरीक्षणादिव्यावृत्त्यर्थो विधिः किं न स्यात् ? नैवम् ; वेदान्तवाक्यानामपि पुस्तकनिरीक्षणादिव्युदासस्याध्ययनविधिसिद्धत्वात् ; ब्रह्ममीमांसाया विलेखनपठनादेरप्रति- षिद्धत्वात् ; गुरूपसत्तौ श्रवणशब्दस्य मुख्यार्थत्वाभावात् ; तस्याश्चात्राविहितत्वेऽपि " गुरुमेवाभिगच्छेत् " इति वाक्यान्तरसिद्धत्वाच्च । ननु न्यायोपेतवाक्यमात्रानवगम्य- केवलोपदेशगम्यार्थविशेषश्रवणं “ श्रोतव्यः " इति विधेयमिति चेत् —न; मननपूर्व भावि - तयास्य श्रवणस्य न्यायानुगृहीतवाक्यजन्यज्ञानरूपत्वावगमात् शब्दस्वारस्याच्च । न च मन्तव्यः " इत्यारम्भणसंशीलनरूपमननविधिरिति वाच्यम्, श्रवणशब्दस्य न्यायो- “पेतवाक्यजन्यज्ञान इव मन्तव्यशब्दस्य तत्प्रतिष्ठापने प्रसिद्धिप्राचुर्यात्, तस्य चापवादा- भावात् ; उभयोरप्राप्तार्थद्वयविधायित्वे वाक्यभेदप्रसङ्गात् ; सति गत्यन्तरे विशिष्टविधाना- श्रयणस्यान्याय्यत्वाच्च । विधिर्हि पदावगतेष्वर्थेष्वेकत्रोपक्षीणशक्तिर्लाघवाय तदितरेषु स्वतोऽनुवादमपेक्षमाणः प्रापकाभावाद्विशिष्टे तात्पर्यं भजते ; अत्र त्वनुवादसंभवान्न विशि- ष्टविषयत्वकल्पनं युक्तम् । तस्मादनुवादः । अनेन श्रवणशब्दस्य यादवमिश्रोक्त- निर्वाहो निरस्तः । अत्र द्रष्टव्यशब्द उपायोपेयदशासाधारणत्वादुपरि नियामकस्फुटार्थ- वाक्यान्तरेण सह व्याख्यास्यते । ननु न साधारणत्वम्, द्रष्टव्यः इति तव्थता दर्शनस्य विधेयत्वप्रतीतेः फलस्य चाविधेयत्वात् ; उच्यते— निदिध्यासनवत् दर्शनस्य च विधाने वाक्यभेदप्रसङ्गात् ; निश्चितानुवादश्रवणमननसाहचर्याच्च विधित्वनिश्चयप्रतिब- -न्धात् ; उपायस्य दर्शनरूपत्वविषयप्रमाणादर्शने विशिष्टविधित्वाश्रयणायोगात् ; " मन- “सैतान् कामान् पश्यन् रमते " “ य एते ब्रह्मलोके परात्परं पुरिशयं पुरुषमीक्षते " इत्यादिभिः फलदशायां दर्शनस्य प्रामाणिकत्वाच्च । “ श्रोतव्यः " इतिवत् तव्यदर्थमनादृत्य फलसमर्पकत्वं द्रष्टव्यशब्दस्य शङ्कितुं युक्तमित्यत उपरिष्टाद्व्याख्येयत्वम् । अथोपास- नस्य विधित्सितत्वद्रढिम्ने सूत्रकारोक्तिं दर्शयति-वक्ष्यति चेति । तादृशसूत्रासंभ- चव्युदासाय सूत्रमुपादत्ते – आवृत्तिरिति । उपासनशब्दाश्रवणात् सूत्रस्य तत्परत्वम- - स्फुटमिति तस्यार्थमाह – तदिदमिति । आवृत्तिद्वयत्रयव्यावृत्त्यर्थम् ’ असकृत् ’ इति 99

३४० 66


श्रीभाष्यम् (जिज्ञासाधिकरणम् )> 66 सौत्रं पदम् । कस्यावृत्तिरित्यपेक्षायामाह तदिदं वेदनमिति ; तदिदम् ; तृतीया- ध्यायावसाने “एवं मुक्तिफला नियमस्तदवस्थावधृतेः " इति प्रस्तुतं मोक्षफलं ज्ञानमित्यर्थः । यद्वा " प्रज्ञां कुर्वीत " इत्यादिसामान्यशब्दोक्तं वेदनमसकृदावृत्तिरूपमुपासनमित्यर्थः । अवगम्यते इत्यन्तेन ‘ आवृत्तिरसकृत् ’ इति सूत्रांशी व्याख्यातः । ’ उपदेशात् ’ इति पदं व्याचष्टे –– विद्युपास्योरिति । स्थलत्रयमुदाहरति-मन इति । " मनो ब्रह्म " इति वाक्यं रात्रीरुपेयात्” इतिवत् " प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्ति ” इत्यत्र एता रात्री: " इति सत्रानुवादवत् " य एवं वेद " इति पूर्वविहितोपासनस्य फलार्थम- नुवादः । वितरणविक्रमादिहेतुभेदात् कीर्तियशसोर्भेदः । “ मनो ब्रह्मेत्युपासीत इत्यादिप्रकरणे “यस्तद्वेद” इत्यादिप्रकरणे च वेदनोपासनवाचिशब्दयोर्विप्रकर्षात् प्रक- रणैकत्वज्ञापनाय अत्रेत्युक्तम् । अनु म इति ; यां देवतामुपास्से एतां देवतां मेऽनुशाधि; अनुपूर्वः शासिर्विविच्य ज्ञापनार्थः ; विविच्य ज्ञापयेत्यर्थः । य 99 99 " व्यवहिताश्च " इति सूत्रेण छन्दस्युपसर्गाणां व्यवहितप्रयोगः । " न स वेद” इत्यत्र संनिकर्षात् ’ अत्र ’ शब्दाप्रयोगः | " न स वेद” इत्यस्य " अथ योऽन्यां देवतामुपास्ते इत्येतद्वाक्योपक्रमत्वादुपक्रमोपसंहारयोरुपासनशब्दः मध्ये वेदनशब्दः । इदं च पूर्व- स्मिन्वाक्ये उपक्रमोपसंहारदर्शनादित्यनेनाभिप्रेतम् । यस्तद्वेद; तस्य ब्रह्मणो वेदिता यो रैक्वः, यत् स वेद ; तस्य रैकस्य वेद्यं यद् ब्रह्म, सः वेदिता रैक्वः, एतत् वेद्यं च, उभयं तव मयोक्तमित्यर्थः । सामान्यविशेषन्यायेन प्रकरणान्तरोक्तज्ञानसामान्य- वाचिनां शब्दानां प्रकरणान्तरोक्तविशेषपर्यवसायित्वं पूर्वमेव स्वयमेव भाष्यकारेण दर्शितम् । सूत्रव्याख्याने त्वैकैकप्रकरणे व्यतिकरेणोपक्रमोपसंहारदर्शनम् ’ उपदेशात् ’ इति पदस्यार्थत्वेनोक्तम् । उभयत्रोभयं हेतुत्वेन वाच्यम् ; तथाप्यविस्तरार्थमेकैकमुक्तम् । अत एव हि चतुर्थाध्याये उभयमपि हेतुत्वेन वक्ष्यते । ’ तदिदम्’ इत्यादिकं सूत्रव्याख्या- नम् ; अन्यथा तदिदमपवर्गोपायतया विधित्सितं वेदनम् ’ इति नोच्येत ; किंतु ’ ध्यानमुपासनम् ’ इत्येवोच्येत ; इतरथा शृङ्खलितोक्तिप्रकरणानौचित्यात् ; पश्चादपि ध्यानं च तैलधारावदविच्छिन्नस्मृतिसंतानरूपम्’ इति पूर्वप्रकृतध्यानशब्देन निर्देशात् । पूर्वग्रन्थे ध्यानस्योपासनरूपत्वं विवक्षितं चेत्, पश्चात् ’ उपासनमविच्छिन्नस्मृति- संतानरूपम्’ इत्युपासनशब्देनोच्येत एवं प्रकृतसूत्रार्थेऽवधूते पूर्वप्रकृतस्य ध्यानस्य 6 ।

(१–१–१) श्रुतप्रकाशिका ३४१ ध्रुवानुस्मृतित्वमुपपादयति — ध्यानं चेति । ; वेदनस्यासकृदावृत्तिं वदतः सूत्रकार- स्यायं भावः —यथा ज्ञानसामान्यवाचिनां शब्दानां विशेषपर्यवसायित्वेनासकृदावृत्ति- रूपज्ञानपरत्वं सिद्धम्, एवं विशेषान्तरोपस्थापकेषु सत्सु तत्तद्विशेषपर्यवसायित्वं न्याय्य- मिति । तस्मात् सूत्रकारेण कण्ठोक्तां ज्ञानस्यासकृदावृत्तिरूपतामुपपाद्य, तेनाभिप्रेतं श्रुत्यन्तरोपस्थापितं विशेषान्तरमाह – ध्यानं चेति । अनेन ग्रन्थेनासकृदावृत्तेर्व्यबहित- त्वशङ्कानिरासार्थं विजातीयप्रत्ययान्तराव्यवहितत्वमुक्तम् । अत्र विच्छिन्नाविच्छिन्नस्मृति- संततिसाधारणो ध्यानशब्दश्चेत् ‘ध्यानं च’ इत्यादिना विशेषान्तरे पर्यवसानमुक्तं भवति; ध्यानशब्दस्याविच्छिन्नस्मृतिसंतत्य साधारणत्वे ध्यानशब्दो व्याख्यातो भवति । अविच्छिन्न- स्मृतिसंततित्वे वचनमाह – ध्रुवेति । स्मृतेर्ध्रुवत्वं नाम विजातीयप्रत्ययान्तराव्यवहित- संततित्वम् , स्मृतिव्यक्तीनां क्षणिकत्वात् । अपवर्गोपायत्व श्रवणादिति ; तत्रापर्गोपाय- भूतवेदनस्यासकृदावृत्तिरुक्ता अत्रापि तदुपायत्वप्रत्यभिज्ञानात्तस्यैवाविच्छिन्न स्मृतिरूपत्वं विवक्षितमिति भावः । तस्या दर्शनरूपत्वमुच्यते – सा चेति । न केवलं विषयैक्यतः साम्यम्, अपि त्वापरोक्ष्येणापीत्याकार शब्दस्य भावः । हृदयस्य मनस, ग्रन्थयोः रागादयः । यद्वा ’ मञ्चाः क्रोशन्ति’ इतिवत् हृदयशब्दस्तत्स्थजीवपरः, हृत् स्थानमय- तीति व्युत्पत्तेर्वा ; तस्य ग्रन्थिः प्रकृतिसंबन्धः ; हृदयशब्दोपलक्षितं वा शरीरं ग्रन्थिः संशयशब्दो विपर्ययस्यापि प्रदर्शनार्थः ; देहात्माभिमानादिरूपाविद्येत्यर्थः । कर्माणि पुण्यपापरूपाणि ; अविद्यासंचितकर्मकृतप्रकृतिसंबन्धनिवृत्तिर्दर्शनसमानाकारोपासनेनेत्यर्थः । एवं च सतीति ; उपायदशापन्नज्ञानस्य दर्शनरूपत्वे स्फुटार्थवाक्यान्तरसिद्धे सतीत्यर्थः । शब्दो द्रष्टव्यशब्दस्य फलदशाभिप्रायत्वशङ्कानिवत्त्यर्थः । दर्शनशब्दस्य ज्ञानसामान्य- परत्वसंभवेऽपि " द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " " आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्” इति श्रवणादीनां पृथगुक्तत्वात् ’ द्रष्टव्यः’ इति पदं साक्षात्काररूपत्वपरम् ; दृष्टशब्दश्च तत्तुल्यार्थः ; स चोपायदशाभिप्रायः तस्मिन् हृदयग्रन्थिर्भिद्यत इत्युक्तत्वात् ; " येना है नामृता स्याम्” " अमृतत्वस्य तु नाशास्ति वित्तेन ” “ एतावदेवारे खल्वमृतत्वम्” इति पूर्वापरवाक्येषु फलस्य निर्दिष्ट- त्वात् ; प्रकरणान्तरोक्तस्य साक्षात्कारत्वस्येहापि वक्तुमपेक्षितत्वात्; अपेक्षितविधेरनपेक्षि- तविधान दौर्बल्याच्च । ननु ध्रुवानुस्मृतेरेव दर्शनरूपत्वविधिरयुक्तः, ध्रुवानुस्मृतिदर्शनयो-

३४२ 6 श्रीभाष्यम् ‘द्रष्टव्यो निदिध्यासितव्यः’ इत्येकवाक्यविहितत्वात् । (जिज्ञासाधिकरणम्) भिन्नप्रकरणान्नातयोर्दहरशाण्डिल्यादिवेदनानामिव परस्परनिरपेक्षोपायत्वं हि प्रतीयते; नैवम् ; न च तत्रापि विद्याद्वयविधानं शक्यम्, रूपभेदाभावात् ; तत एव वाक्यैकत्वे संभवति वाक्यभेदाश्रयणायोगात् ; विद्यान्तराणामिव तयोर्विकल्पप्रसङ्गाच्च । तयोर्निरपेक्षोपायत्ववादिनो विकल्प इष्ट इति चेत् न ; तस्याष्टदोषदुष्टस्य सति गत्यन्तरेऽभ्युपगन्तुमयुक्तत्वात् । दृश्यते हि त्रीहि- यवशास्त्रयोस्तस्याष्टदोषदुष्टत्वम् - - - त्रीह्यनुष्ठाने यवशास्त्रस्य प्रामाण्यत्यागः (१), अविद्य- मानाप्रामाण्यकल्पनम् (२), यवानुष्ठाने तस्य त्यक्तप्रामाण्यस्वीकारः (३), स्वीकृता- प्रामाण्यत्यागश्च (४) इति यवशास्त्रे चत्वारो दोषाः । यवानुष्ठानवेलायामेव प्रथम- प्रयोगे स्वीकृतत्रीहिशास्त्रप्रामाण्यत्यागः (१), तदप्रामाण्यकल्पनं च (२), तृतीये प्रयोगे व्रीहिषूपादीयमानेषु द्वितीयप्रयोगे स्वीकृतित्रीहिशास्त्रप्रामाण्यत्यागः ( ३ ),, त्यक्तप्रामाण्य- स्वीकारश्च ( ४ ) इति त्रीहिशास्त्रे चत्वारो दोषाः । इहापि यथासंभवं दोषप्राप्तिः । यद्वा प्रतिपत्तिबाधः (१), अनुष्ठानबाधः (२); अपूर्वबाधः (३), फलबाधश्च ( ४ ) इत्येकैकशिरसि दोषचतुष्टयादष्टदोषदुष्टत्वम् । अतो गत्यन्तरे सति विकल्पायोगाच्च न ध्रुवा- नुस्मृतिदर्शनयोः पृथगुपायत्वम् । नापि समुच्चयः ; चशब्दाश्रवणात् दर्शपूर्णमास- योरिव द्वन्द्वनिर्देशाभावाच्च । परमात्मनोऽतीन्द्रियत्वात् तत्साक्षात्कारस्य चक्षुषा शब्दग्रह- णस्येव प्रक्रान्तयोगं प्रत्यशक्यविधानत्वाच्च शब्दविषययोः स्मरणचाक्षुषज्ञानयोरिव समुच्च- योऽनुपपन्नः । ननु परमात्मनो योगपरिशुद्ध मनोग्राह्यत्वान्न तद्दर्शनस्य चक्षुषा शब्दज्ञान- तुल्यतेति दर्शनोपायभूतस्य व्यापारस्य विधेयत्वोपपत्तेः समुच्चयः संभवति — सत्यम् ; कस्तद्दर्शनोपायः ? " ततस्तु तं पश्यते निष्कलं ध्यायमानः " इति श्रुतेर्ध्यानमेवेति चेत्, तर्हि द्रष्टव्यनिदिध्यासितव्यपदयोः पुनरुक्तिः स्यात्; उभयोरपि दर्शनोपायध्यानविधिपरत्वा- विशेषात् । ’ द्रष्टव्यः’ इति दर्शनोपाये विहिते ’ क उपायः ?’ इत्यपेक्षायां निदिध्यासनं विधीयते ; द्रष्टव्यपदाभावे निदिध्यासनस्य तदुपायत्वं न ज्ञायत इति तज्ज्ञापनार्थत्वान्न पुनरुक्तिरिति चेत्–न; द्रष्टव्यपदश्रवणेऽपि दर्शनस्य ध्यानसाध्यत्वाप्रतीतेः । न हि दर्शनकामेनेति श्रूयते ; तथा सति हि स्वर्गयागयोरिव साध्यसाधनभावावगमः स्यात् । न च ध्यानं प्रति श्रवणमननयोरिव दर्शनं प्रति ध्यानस्य दृष्टिकिंचित्कारः । मानान्तरेण तयोः साध्यसाधनभावावगम इति वैयर्थ्यम् । किं च ध्यानसाध्यं दर्शनं " अतो न CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) श्रुतप्रकाशिका ३४३ चेत्, ध्यानदर्शनयोः समुच्चयश्च न संभवति ; दर्शनं प्रति समुच्चये दर्शनस्य दर्शनं साधन- मित्यात्माश्रयप्रसङ्गात् । न च मोक्षं प्रति समुच्चयसंभवः; ध्यानस्य स्वसाध्यदर्शनव्यव- हितस्य मोक्ष प्रति दर्शनेन सहाव्यवहितकिंचित्कारायोगात् ; न हि यागनिष्पत्त्यर्थानां प्रोक्षणावघातादीनामपूर्वनिष्पत्तौ यागेन सह समुच्चयः । यदि साक्षात्कारं प्रति ध्यानेन सहाव्यवहितकिंचित्कारोपपत्तये दर्शनसमानाकारं ज्ञानान्तरं विधेयमित्युच्यते; तदयुक्तम्, स्वर्गं प्रति ज्योतिष्टोमस्येव निदिध्यासनस्य स्वसाध्यं प्रति निरपेक्षोपायताप्रतीतिस्वारस्य- भङ्गप्रसङ्गात् ; न हि “ ज्योतिष्टोमेन स्वर्गकामो यजेत " इति वाक्यप्रतिपन्नं ज्योतिष्टोमस्य स्वर्गसाधनत्वं कर्मान्तरसापेक्षमवगम्यते । न चात्र चशब्दो द्वन्द्वसमासो वा । अतो दर्शनसमानाकारतारूपविशेषणस्य ‘किं विशेष्यम् ?’ इत्याकाङ्क्षायां विशेष्यान्तरं च न दृश्यते; निदिध्यासनं च संनिहितम् ; अतस्तदेव दर्शनसमानाकारतया विधि- त्सितमिति युक्तमभ्युपगन्तुम् । ततश्च वाक्यभेदोऽपि न स्यात् ; निदिध्यासन- स्य निरपेक्षोपायताप्रतीतिस्वारस्यं च न बाध्येत । ननु विशिष्टविध्याश्रयणं चेदु- पदेशैकगम्यार्थश्रवणशुभाश्रयमननदर्शनरूपताविशिष्टनिदिध्यासनविधिः किं न स्यात् ? नैवम् ; चतुर्व्वंशेषु तात्पर्य कल्पनादपि द्वयोस्तत्कल्पनस्य लघुत्वात्, लघुपक्ष- संभवे गुरुपक्षाश्रयणायोगाच्च । न चास्मिन् वाक्ये विधानाभावादौपदेशिकार्थाधि- गमारम्भणसंशीलनयोरसिद्धिः शङ्कनीया, तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः इत्यनन्यथासिद्धवाक्यान्तर- सिद्धत्वात् । तद्धि निरूपयिष्यते – “ सहकार्यन्तरविधिः " इति सूत्रेण । तस्माद्दर्शन- समानाकारत्वगुणविशिष्टनिदिध्यासनविधिः । नन्वेवमपि न सर्वोपासनानां दर्शनसमाना- कारनिदिध्यासनरूपतासिद्धिः, “ द्रष्टव्यो निदिध्यासितव्यः " इति वाक्यस्य मैत्रेयीब्राह्मणे सत्त्वात् ; अतस्तत्र प्रतिपाद्यस्यैवोपासनविशेषस्य तादृग्रूपता प्रतिपाद्या स्यात्–नैवम् ; " आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् " इति तत्रत्येनैव वक् जगत्कारणत्रिषयसर्वोपासनानां दर्शनसमानाकारनिदिध्यासनरूपतावगमात् । न हीदं वाक्यं विद्याविशेषविधायकम्, कारणज्ञानेन सर्वज्ञातताप्रतिज्ञापरत्वात् । कारणमेव सर्वविद्योपास्यम्, " कश्च ध्येयः ? " इत्युपक्रम्य “ कारणं तु ध्येयः " इति कारणस्यैव ध्येयत्वविधानात् । कारणविषयं चोपासनमत्र दर्शनसमानाकारनिदिध्यासनरूपमवगम्यते । 66 19

३४४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) सितव्यः " 66 " 66 अस्मिन्वाक्ये विज्ञातशब्दो हि निदिध्यासनपरः 66 ; द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- " दृष्टे श्रुते मते विज्ञाते " इति स्थानप्रामाण्यात् । अतोऽस्य वाक्यस्य सर्वविद्यासाधारणकारणमात्रविषयत्वात् जगत्कारणोपासनं चेत् दर्शनसमानाकारनिदिध्यासन- रूपमित्यवगम्यते । किंच – नानाविद्यानां विकल्पस्य वक्ष्यमाणत्वात् गुरुपक्षविषयशास्त्र- वैयर्थ्यपसङ्गेन गुरुलघुयत्नविकल्पायोगात् वस्तुसामर्थ्यस्य प्रकरणाद्बलीयस्तया च ध्रुवानु- स्मृतिरूपत्वं दर्शनरूपत्वं वक्ष्यमाणभक्तिरूपत्वं च सर्वविद्यासाधारणाकारा भवितुमर्हन्ति । नन्दिन्द्रियजन्मनोऽनुभवस्य ह्यपरोक्षरूपत्वम् तत्कथं स्मृतेः संभवतीत्यत्राह - भवति चेति । भावना; वासना । दर्शनरूपता ; दर्शनसमानाकारता | पश्यामि " इत्यादिष्वपि दर्शनसमानाकारत्वं स्मृतेश्च दृष्टमिति भावः । तच्च विशदत- वृक्षे वृक्षे च रावभासरूपत्वम् । न चैतदनुभवासाधारणम्, स्मृतेरपि तत्स्वाभाव्यस्य प्रामाणिकत्वात् । ननु दर्शनसमानाकारत्वविधानमयुक्तम् ; दर्शनवाचिशब्देन तत्समानाकारोपस्थानस्यामुख्य- त्वात्; न विधौ परः शब्दार्थः " इति न्यायविद इति चेत् — न ; तैरेव " दर्शपूर्ण- मासाभ्यां स्वर्गकामो यजेत ” इत्यत्र दर्शपूर्णमासशब्दयोर्लक्षणया, श्येनदिवाक्ये श्येनादि - शब्दानां गौण्या वृत्त्या कर्मनामधेयत्वाभ्युपगमात् ; “ अर्धमन्तर्वेदि मिनुयादर्धं बहिर्वेदि” इत्यत्रापि मध्यदेशलक्षणाया अङ्गीकृतत्वाच्च । विशदतरत्वस्य फलरूपत्वादपुरुषतन्त्रस्य कथं विधानमिति चेत् — न; आज्यावेक्षणस्येव विधानोपपत्तेः । भूतव्यापारविषयो विधिरिति चेत्, इहापि विशदतरत्वावहस्मृतिसंततिविषयमनोव्या- तत्राज्यसाक्षात्कार हेतु- पारविधिरित्युपपन्नम् । अथ सूत्रकाराभिप्रायविदां वचनं दर्शयति - वाक्यकारेणेति । एतत्सर्वमिति ; सूत्रकारेण - कण्ठोक्तमभिप्रेतं चेत्यर्थः । प्रपञ्चितमिति पूर्वपक्ष- सिद्धान्तरूपेणोक्तमित्यर्थः । प्रपञ्चनं च " वेदनमुपासनं स्यात् ” इत्यादिना वाक्य- चतुष्टयेन । वाक्यमेकैकं व्याचष्टे – सर्वासूपनिषत्स्विति ; न केवलं छान्दोग्य इत्यर्थः। मोक्षसाधनतया विहितं वेदनमिति घटादिज्ञानव्यावृत्तिः । विहितमित्यनूदितश्रवणादि- व्यावृत्तिः । अस्यार्थस्य पूर्वपक्षसिद्धान्तरूपेण स्फुटीकरणार्थं, “ सकृत्प्रत्ययं कुर्यात् इति वाक्यश्रवणेन “ वेदनमुपासनं स्यात् ” इति वाक्यस्य पूर्वपक्षपरत्वशङ्काव्यावृत्त्यर्थं च “ सकृत् ” इत्यादि वाक्यमेव पूर्वपक्षपरं, 66 66 सकृत् ” इत्यादिकं व्याचष्टे – सकृदिति । 66 66 ; " न तु " वेदनमुपासनं स्यात्” इति वाक्यम्; अनन्तरमेवोपासनरूपत्वस्य सिद्धान्ति-

( १ – १ – १) तत्वादिति भावः । भावप्रकाशिका ३४५ तथा सिद्धान्तितत्वं दर्शयति – सिद्धं त्विति । सिद्धं तु ; सिद्धा- “न्तस्त्वित्यर्थः । यद्वा वेदनमुपासनं सिद्धमित्यर्थः । उपासनशब्दादित्येतद्व्याचष्टे- वेदन मसकृदावृत्तमिति । अस्याविच्छिन्नस्मृतिसंतानरूपत्वं सूत्रकाराभिप्रेतं वाक्यकारेण कण्ठोक्तं दर्शयति – उपासनं स्यादिति । दर्शनात् लोके दर्शनात् । निर्वच- ; उपासनरूप- नात् ; श्रुतिवाक्यात् । तस्यैवेति ; मोक्षसाधनतया विहितस्येत्यर्थः । स्येति हेतुगर्भम् ; उपासनरूपत्वात् उपासनशब्दवाच्यत्वादसकृदावृत्तस्येत्यर्थः ; असकृदा- वृत्तं ज्ञानं ह्युपासनम् । एवमविच्छिन्नस्मृतिसंततिरूपत्वमुपपादितम् । सूत्रकारकण्ठोक्तमस- कृदावृत्तिरूपत्वं तदभिप्रेतं च वदतो वाक्यकारस्यायं - भावः – एतत्तुल्यन्यायतया विशेषा- न्तरोपस्थापकवाक्ये सति वेदनादिशब्दास्तत्पर्यन्ताः स्युरिति ; तस्मात् पूर्वोक्तं दर्शनसमा- नाकारत्वमपि वाक्यकाराभिप्रेतमित्यभिप्रयन्नाह – सेयमिति । सेयम्; असकृदावृत्ति- रूपा ध्रुवानुस्मृतिरूपा चेत्यर्थः । दर्शनशब्दस्य ’ अर्थदर्शी तत्त्वदर्शी ’ इत्यादि- प्रयोगात् परोक्षापरोक्षसाधारण्यमाशङ्क्याह - दर्शनरूपता च प्रत्यक्षतापत्तिरिति ; प्रत्यक्ष- " आत्मनि वल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं समानाकारतापत्तिरित्यर्थः । आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ” इति श्रवणादि- परोक्षज्ञानपर्वसूक्तेष्वपि पृथङ् निर्देशादिति भावः । विदितम्’ ; भावप्रकाशिका ध्यानस्य प्रत्यक्षसमानाकारता दर्शिता ; 66 " ‘चाय दर्शने " इति हि धातु- रिति ; “ चाय पूजानिशामनयोः” इति पठितत्वादिति भावः । सत्रहितज्ञानविशेष - वाचि वाक्यान्तरं विवक्षितमिति ; " ओमित्यात्मानं ध्यायथ” इति वाक्यं विवक्षित- मिति भावः । सर्वशाखाप्रत्ययन्यायादिति ; ननु नानाशाखापठितानामग्निहोत्रज्यो- तिष्टोमादीनां संभवत्यैक्यम्, संयोगरूपचोदनाख्याविशेषात् ; इह चोदनाया अविशेषाभावा- दाख्यैक्याभाच्च कथमेतन्न्यायप्रवृत्तिः ? इतरथा “ श्रोतव्यः " इत्यनेनैकार्थ्यं किं न स्यादिति चेत्-न; सर्वशाखाप्रत्ययन्यायस्य प्रत्यभिज्ञापक सद्भावो हि मूलयुक्तिः ; अस्ति चेहापि मोक्ष- रूपफलसंयोगसाम्यं, ब्रह्मविषयत्वलक्षणरूप साम्यं च ; तथा “ मन्तव्यो निदिध्यासितव्यः ’ " विज्ञाय प्रज्ञां कुर्वीत ” इति निदिध्यासनप्रज्ञाशब्दयोः स्थानसाम्यम्; अतस्तदेव अतएवेत्यधिकरणे " सदेव सोम्येदमग्र आसीत् ” इति सच्छब्द- प्रत्यभिज्ञायते । 44

C ३४६ श्रीभाष्यम् ( जिज्ञासाधिकरणम् )> शब्दितं ब्रह्मैव, गतिसामान्यात् ; सर्ववेदान्तेषु " आत्मा वा इदमग्र आसीत् י, " 66 ब्रह्म वा इदमग्र आसीत्” इत्येवं गतिसाम्यादिति वर्णितम् । तदेव गतिसामान्यं सर्वशाखा - प्रत्ययन्यायः । किंच प्रज्ञाशब्दितज्ञानसामान्यस्य ब्रह्मप्राप्तिसाधनत्वे ध्यानलक्षणगुरू- पासनानर्थक्यप्रसङ्गश्च ; तस्मात्तत्र पर्यवसानं वक्तव्यमित्यैकार्थ्यं संभवतीति भावः । स ह्यनुक्ताकाङ्क्षित स्वीकारफल इति ; न तूक्तपरित्यागफल : ; एवं च " निदिध्या- सितव्यः ” इत्यत्र ज्ञानमात्रविधावुक्तपरित्याग एव सिध्येत् । अतो ज्ञानसामान्यवाचि- नापि शब्देन विशेष एव विधेय इति भावः । ननु सामान्यवाचिशब्देन विशेषाभिधाने लक्षणा स्यादित्याशङ्क्य सामान्यस्य प्रतिव्यक्ति पर्यवसितत्वात् सामान्येन विशेषाभिधानं न दोषायेति " छागो वा मन्त्रवर्णात् ” इत्यत्र निर्णीतमित्यभिप्रयन्नाह - तत्र छागो वा मन्त्रवर्णादिति । " छागों वा मन्त्रवर्णात् ” इत्यत्र विधिवाक्यस्थ सामान्यशब्दानां मन्त्रवर्णप्रतिपाद्यविशेषे पर्यवसानमात्रं विषयः ; अतः कथं विधिवाक्यस्थसामान्यशब्दानां विधिवाक्यस्थविशेषे पर्यवसानमित्याशङ्क्य न्यायस्य न केवलं विधिमन्त्रमात्रविषयत्वम्, अपि तु सर्वसामान्यविषयत्वमिति दर्शयितुं स्मृतिष्वपि सामान्यशब्दानां विशेषपर्यवसानं दृष्टमित्याह–एवं स्मृतिष्वपीति । विलेखनपठनादेरप्रतिषिद्धत्वादिति ; अप्रतिषे- ध्यत्वादित्यर्थः ; एतद्वाक्यबोध्य नियमेनाव्यावर्त्यत्वादिति यावत् । यद्वा अप्रतिषिद्ध- त्वादिति ; अनुमतत्वादित्यर्थः । अत्र लेखनोपन्यासो दृष्टान्तार्थः । ननु गुरु- मुखान्रधीनविचारव्यावृत्त्यर्थः श्रवणविधिर्भविष्यतीत्याशङ्क्याह – गुरूपसत्ताविति । ननु श्रवणशब्दस्य गुरूपसत्त्यर्थकत्वाभावेऽपि श्रवणस्य गुरूपसदनाङ्गकत्वादङ्गविध्युपेत- श्रवणविधिवलादेव गुरुमुखानधीनविचारव्यावृत्तिः सिध्यतीत्यरुचेराह – तस्याचात्रावि- हितत्वेऽपीति । न चाङ्गिविध्यभावे कथं तदनुवादेनोपसदनविधिरिति वाच्यम्,- ’ स्नात्वा भुञ्जीत’ इत्यत्र रागप्राप्तभोजनानुवादेन स्नानविधानवदुपपत्तेरिति भावः । सहकार्यन्तरविधिः ’ इत्यत्र विधेयत्वेन समर्थयिष्यमाणयोः पाण्डित्य मौनयोः " श्रोतव्यो मन्तव्यः " इत्याभ्यां विधिरस्त्वित्याक्षिप्य परिहरति — न्यायोपेतेत्यादिना । सतिं गत्यन्तरे विशिष्टविधानाश्रयणस्यान्याय्यत्वाच्चेति ; ननु श्रवणमननयोः पाण्डित्य मौनरूपयोः परस्परविशेषणत्वं न सिद्धम्, येन विशिष्टविधिः स्यात् ; यदि हि श्रुत्वा मन्तव्यः इत्याकारा वचनव्यक्तिः स्यात्, तदा विशिष्टविधि– 66 6 99


० 0 (१ – १ – १) 66 भावप्रकाशिका " دو ३४७ शङ्का; इतरथा विष्णुरुपांशु यष्टव्यः " प्रजापतिरुांशु यष्टव्यः " अग्नी- षोमावुपांशु यष्टव्यौ” इत्यादावपि यागद्वयविशिष्टतृतीययागविधिसंभवात् वाक्य- भेदेन सिद्धान्तोऽनुपपन्नः स्यात् ; " समिधो यजति” इत्यादावपि समिदादिचतुष्टय- विशिष्टस्योत्तमप्रयाजस्य विधिरित्यापाद्येतेति चेत् — अत्र केचित् – “ आर्षेयं वृणीते त्रीन् वृणीते” इत्यत्राख्यातभेदसत्त्वेऽपि त्रित्वविशिष्टार्षेयवरणविधानवत् “ श्रोतव्यो मन्तव्यः " इत्यत्रापि श्रवणविशिष्टमननविधिशङ्काया उत्थितिसंभवादिति वदन्ति । यादव- मिश्रोक्तनिर्वाह इति ; श्रवणमनने अदृष्टार्थतया विधीयेते इति निर्वाह इत्यर्थः । स तु " नानाशब्दादिभेदात् " इत्यत्र स्पष्टीभविष्यति । व्याख्यास्यतीति ; अधुना भाष्ये तदव्याख्यानं न दोषयिति भावः । द्रष्टव्य इति तव्यतेति ; यद्यपि तव्येनापि रूपं सिध्यति, अथापि स्वरविशेषमभिप्रेत्याचार्यैस्तव्यत्प्रत्यय उपात्तः । केचित्तु – बृहदारण्य- कवाक्ये स्वरासंप्रतिपत्तेस्तव्यतेति तित्त्वमविवक्षितम् ; तव्यत्तव्ययोरन्यतरस्मिन् प्रत्यय उपादा- तव्येतव्यतः प्रथमोपदिष्टत्वात्तदुपादानमिति मन्यन्ते । आवृत्तिद्वयत्रयव्यावृत्त्यर्थमसक- दिति सौत्र पदमिति ; यद्यप्यसकृच्छन्दोऽनेकत्वमात्रपरः ; अनेकत्वं च द्वित्रादिसाधा- रणम् ; तथापि बहुतरेष्वेव प्रसिद्धिप्राचुर्यादेवमुक्तमिति द्रष्टव्यम् । अत्र ’ सूत्रमुपादत्ते आवृत्तिरिति । आवृत्तिद्वयत्रयव्यावृत्त्यर्थमसत्रुदिति सौत्रं पदम् । उपासनशब्दाश्रव- णात् सूत्रस्य तत्परत्वमस्फुटमिति तस्यार्थमाह – तदिदमिति’ इति पाठः समीचीनः केचित्तु सिंहावलोकितकेनाह – आवृत्तिद्वयतीति वदन्ति । रात्रीरुपेयादितिवदिति : यद्यपीदं वाक्यं नास्त्येव ; “ ज्योतिर्गौरायुः " इत्येव रात्रिसत्रोत्पत्तिवाक्यम् ; तत्रापि सत्र- विषये उपेयादित्येकवचनं च न संभवति, उपेयुरित्येवं बहुवचनान्ततयैव वाक्यस्य कल्पनीयत्वात् – तथापि नोदाहरणमादरणीयमिति न्यायेन वैश्वानरं द्वादशकपालं निर्वपति यस्मिन् जात एतामिष्टिं निर्वपति” इति वाक्यद्वयं दृष्टान्ततयोदाहर्तव्यम् । एतद्वाक्यपूर्वकत्वादिति ; " अथ योऽन्यां देवतामुपास्ते ‘अन्योऽसावन्योऽहमस्मि’ इति न स वेद । अकृत्स्नो ह्येषः, आत्मेत्येवोपासीत " इति हि श्रुतिः । सिंहावलोकितकेना- व्याख्यातच्छान्दोग्यवाक्यांशं व्याचष्टे – यस्तद्वेदेत्यादिना । " यथा कृतायविजि- तायाधरेऽयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्तः " इति हि श्रुतिवाक्यम् । इदं च " यो नु कथं सयुग्वा " 66 CC-0 No Rights Reserved. Digitized by eGangotri३४८ श्रीभाष्यम् (जिज्ञासाधिकरणम् )) यथा कृतायविजि - रक्कैः ?” इति हंसेन रैकस्वरूपं पृष्टस्य हंसान्तरस्य प्रतिवचनम् । ताय, कृतो नामायो द्यूतसमये प्रसिद्धः ; स यदा जयति तदा इतरे त्रिव्काङ्काः अधरे अयाः संयन्ति संगच्छन्ते, अन्तर्भवन्ति ; चतुरके अये कृते त्रिकाकानां तत्र विद्यमान- त्वात् तस्मिन्नन्तर्भवन्तीत्यर्थः । एवमेनं रैक्कं कृतायस्थानीयं सर्वं तदभिसमेति संगच्छते । यत्किंच लोके सर्वाः प्रजाः साधु शोभनं कर्म कुर्वन्ति धर्मजातं कुर्वन्ति, तत्सर्वमेतस्य धर्मेऽन्तर्भवति ; तस्य फले सर्वप्राणिफलमन्तर्भवतीत्यर्थः । यस्तद्वेदेत्यादि ; अत्रायम-. न्वयः — यत्स वेद ; स रैक्को यद्वेद्यं वेद तद्वेद्यं योऽन्योऽपि वेद, एनमपि रैक्कमिव सर्वशुभ- धर्मजातफलमप्यभिसमेतीत्यनुषङ्गः । स मयैतदुक्तः ; स रैक्वः मया एतत् इत्थमुक्त इत्यर्थ इति रैक्ववेद्यब्रह्मवेदितमाहात्म्यकथनाद्वैकस्य ब्रह्मणश्च माहात्म्यं कथितं भवतीत्य- भिप्रायेणाचार्यैः रैक्वस्तद्वेद्यं ब्रह्म चोभयं मयोक्तमित्यर्थ इत्युक्तम् ; न तु स मयैतदुक्त इति शब्दार्थतयेति द्रष्टव्यम् । असकृदावृत्तेर्व्यवहितत्वशङ्कानिरासार्थमिति ; ‘मासस्य द्विरधीते ’ इति न्यायेन विच्छिद्य विच्छिद्य कृतस्मृतेर्न ध्यानत्वमिति भावः । रागादीनां जीवधर्मत्वेनान्तःकरणधर्मत्वाभावादित्यस्वरसादाह - यद्वा मञ्चाः क्रोशन्तीतिवदिति । “ स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम्” इति वाक्य- मभिप्रयन्नाह — हृत्स्थानमयतीति । हृदयग्रन्थिशब्दे कर्मधारयमभिप्रयन्नाह हृदयशब्दोपलक्षितमिति । ननु “ तस्मिन् दृष्टे परावरे ” इत्येतदुपायदशायां ज्ञानस्य दर्शनरूपतां कथमवगमयेत् ? तत्रत्यदर्शनशब्दस्य ’ शास्त्रार्थदर्शी ’ इत्यादाविव ज्ञानसामा - न्यपरतयाप्युपपत्तेरित्यत्राह—–दर्शनशब्दस्य ज्ञानसामान्यपरत्वसंभवेऽपीति । श्रवणा- दीनां पृथगुक्तत्वादिति ; ततश्च सामान्यवाचिपदस्य वैयर्थ्यप्रसङ्ग इति भावः । न चैवं निदिध्यासनदर्शनयोरपि " न वायुक्रिये पृथगुपदेशात् " इति न्यायेन पार्थक्यापत्तिः, परमात्मनो दर्शनायोग्यत्वात् दर्शनशब्दस्य चाक्षुषज्ञान एव मुख्यत्वात् गौणत्वस्याश्रयणी- यत्वादिति भावः । दृष्टशब्द तत्तुल्यार्थ इति ; " तस्मिन् दृष्टे परावरे " इत्यत्र दृष्टशब्दश्च तत्तुल्यार्थः साक्षात्कारार्थः, तत्प्रत्यभिज्ञानात् । न च " तस्मिन् दृष्टे " द्रष्टव्यः" इत्यनयोरर्थनिर्णये परस्परसापेक्षत्वेनान्योन्याश्रय इति वाच्यम्, “ तस्मिन् दृष्टे ” इत्यत्र दृष्टशब्दस्य न ज्ञानसामान्यपरत्वमित्यत्र द्रष्टव्यादिपदसापेक्षत्वम्, द्रष्टव्यादि शब्दस्योपायदशापन्नवृत्तित्वमित्यत्र " तस्मिन् दृष्टे " इति वाक्यसापेक्षत्वमिति 66

( १ – १ —- १) भावप्रकाशिका द्वारभेदेनान्योन्याश्रयस्यादोषत्वात् । 99 ३४९ पूर्वपरवाक्येषु फलस्य निर्दिष्टत्वा- ; दिति ; " आत्मा वारे द्रष्टव्यः इत्यस्य पूर्वपरवाक्येप्यमृतत्वस्यैव फलस्य निर्दिष्टतया न साक्षात्कार एव फलमित्यर्थः । तस्याष्टदोषदुष्टत्वमिति ; विकल्पस्ये- त्यर्थः । श्रीहियवयोरेकेनानुष्ठात्रा प्रयोगभेदेनोपादानसंभवा युक्तमष्टदोषदुष्टत्वम् एकेन विद्याद्वयोपादानायोगात् कथमत्राष्टदोषदुष्टत्वमित्याशङ्क्याह — इहापि यथासंभवं दोष- प्राप्तिरिति ; अनुष्ठातृभेदेनैकैकस्मिन् दोषद्वयप्राप्त्या चतुष्टयसंभव इति भावः । तद्दर्श- नोपायभूतव्यापारस्येति ; यद्यपि दर्शनस्यैव विधेयत्वसंभवात् दर्शनध्यानयोः समुच्चयः संभवतीत्याक्षेप एवोचितः ; न च दर्शनस्य विधानायोग्यत्वम्, " पत्न्यवेक्षितमाज्यम् ” इत्यादाविव ज्ञानविधेरभ्युपेतत्वात् ; तथापि पररीतिमनुसृत्य व्यापारविधेयत्वमुपक्षिप्तमिति द्रष्टव्यम् । अतो न मानान्तरेण तयोः साध्यसाधनभाव इति ; मानान्तरसत्त्वे तत एव साध्यसाधनभावप्रतीतेस्तत्सापेक्षमिदं व्यर्थमित्यत्र तात्पर्यम् । यदि साक्षात्कार प्रति ध्यानेन सहेतिः साक्षात्कारमित्युपलक्षणम्, साक्षात्कारं मोक्षं प्रति वा ध्यानेन सह समुच्चित्य दर्शनसमानाकारज्ञानान्तरं दृष्टमित्यनेन विधेयमिति यद्युच्येतेत्यर्थः । तस्य च ध्यानस्य द्वारद्वारिभावानापन्नतयैकत्र किंचित्कारान्वयः संभवतीति समुच्चयसंभवः । न च दर्शनसमानाकारज्ञानस्य ध्यानसाध्यतया द्वारद्वारिभावापन्नत्वादेकत्र किंचित्कारान्वयः कथं सिध्येदिति वाच्यम्, तन्नास्तीत्यभिमानवतः शङ्केयमिति संभवादिति । चतुर्व्वंशेषु तात्पर्य कल्पनादपीति; औपदेशिकार्थाधिगमारम्भणसंशीलनदर्शनसमानाकारत्वध्यानरूपे- ष्वित्यर्थः । ननु " द्रष्टव्यः " इति दर्शनसमानाकारध्यानविधाने " निदिध्यासितव्यः " इत्यत्रापि निदिध्यासनसमानाकारं मननं विधीयत इति किं न स्यात् ? " स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः " इतिवत् " मत्वा धीरो न शोचति ” इति मननानन्तरमेव मोक्षप्रतिपादनात् । यदि मनननिदिध्यासनशब्दयोर्भिन्नार्थत्वादेकस्य गौणत्वे प्रमाणा- भावान्न निदिध्यासनशब्दस्य गौणत्वमाश्रयणीयमिति, तर्हि " निचाय्य तं मृत्युमुखा - त्प्रमुच्यते " " तं मुच्यते योगी दृष्ट्रा तस्मिन् दृष्टे परावरे ततस्तु तं पश्यते निष्कलं ध्यायमानः " इत्यादिश्रुत्यनुग्रहाय विशुद्धमनोजन्यसाक्षात्कारस्यापि विधेयत्वसंभवात् विधिस्तु धारणेऽपूर्वत्वात् " इति न्यायेन विधेः स्वीकर्तव्यात् प्रकृते विस्पष्टविधिश्रवणा- च्चेति चेत् — न; मानससाक्षात्कारे चाक्षुषज्ञानवाचिनो दृशेर्गौणत्वस्य तथाप्यविशेषात् मान- 66 99 66 " 66

० ३५० श्रीभाष्यम् ( जिज्ञासाधिकरणम्) ससाक्षात्कारस्य मोक्षकालम्साक्षात्कार सदृशस्य फलरूपत्वेनाविधेयत्वाच्च ध्यानं दर्शनसमा- नाकारं विधीयत इत्येव युक्तमिति भावः । जगत्कारणविषयं चेत् दर्शनसमानाकार- निदिध्यासनरूपमित्यवगम्यत इति ; ननु कथमनेन वाक्येनास्यार्थस्य प्रतीति: ? आत्म- मननश्रवणादिकमेव सर्वविषयम्, उपादानोपादेययोरभेदादित्यर्थः परमनेन प्रतीयते, न तु जगत्कारणविषयं सर्वं दर्शनसमानाकारमितीति चेत् — न; आत्मनि दृष्टे विज्ञाते दर्शन- समानाकारध्यानविषये सत्येव सर्वं विदितं भवति, सार्वश्यं भवति, मोक्षो भवतीत्यस्यार्थस्य प्रतीयमानतया तथोक्त्युपपत्तेः । एतदस्वरसा देवाह - किं च नानाविद्यानामिति । सामर्थ्ययस्य प्रकरणाद् बलीयस्तया चेति ; अत एव सत्यत्वज्ञानत्वादीनां विद्यावि- शेषप्रकरणपठितानामपि " आनन्दादयः प्रधानस्य " अक्षरधियां त्ववरोधः सामान्यतद्भा- वाभ्याम्” इत्यधिकरणेषु सर्वविद्यासाधारण्यं वक्ष्यति । दर्शपूर्णमासशब्द यो लक्षणयेत्यादि; कालविशेषवाचिनो दर्शपूर्णमासशब्दयोः कर्मलक्षकत्वदर्शनात् ; तथा “ श्येनेनाभिचरन् यजेत" इत्यादौ श्येनादिशब्दानां यथा वै श्येनो निपत्यादत्ते " इति वाक्यशेषेण निपत्यादानरूपगुणयोगेन कर्मणि श्येनशब्दो गौण इत्यभ्युपेतत्वाच्चेत्यर्थः । देशलक्षणाया अङ्गीकृतत्वाच्चेति 66 ; “ अर्धमन्तर्वेदि मिनोत्यर्थं बहिर्वेदि" इत्यत्रान्त- र्वेदीति वेद्येकदेशो यूपाङ्गत्वेन चोद्यते, उत बहिर्वेदिसहितो यूपमानदेश लक्षयतीति विशये, “ अर्धं बहिर्वेदि " इति अर्धमन्तर्वेदि ” इत्येकस्य यूपार्धस्यान्तर्वेदिमाने 39 चेद्येकदेशो यूपाङ्गत्वेन विधीयते, लक्षणाया अन्याय्यत्वात् ; चासिद्धानुवाद इति पूर्वपक्षं कृत्वा, " मध्य- यूपार्थान्तरस्यान्तर्वेदि बहिर्वेदि वा मानमिति शास्त्रस्याभावेनार्थान्तरमपि कदाचित्पुरुषे- च्छावशादन्तर्वेद्यपि प्राप्नोति । न चेष्टापत्तिः, “ अर्ध बहिर्वेदि ” इत्यस्य पाक्षिकानु- वादत्वप्रसङ्गात् ; तस्यापि विधाने वाक्यभेदः ; अतो यस्मिन् देशे मीयमाने अन्तर्वेद्यर्धं भवति बहिर्वेद्यधं च, तादृशे देशे मिनुयात् ; ; प्रक्षिपेदित्यर्थ इति देशविशेषलक्षणेति पूर्वतन्त्रे शेषलक्षणे स्थितमिति भावः । डुमिञ् प्रक्षेपणे " इति हि धातुः ; चतुष्टयेनेति ; " वेदनमुपासनं स्यात् तद्विषये श्रवणात् " र्थस्य कृतत्वात् प्रयाजादिवत् ” “ सिद्धं तूपासनशब्दात् " स्मृतिर्दर्शनान्निर्वचनाच्च ” इति वाक्यचतुष्टयं द्रष्टव्यम् । 66 " वाक्य- “ सकृत्प्रत्ययं कुर्याच्छब्दा- " उपासनं स्याद् ध्रुवानु- न केवलं छान्दोग्य इत्यर्थ इति ; " ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ” इति छान्दोग्ये भूमवि-

( १ – १ – १) श्रुतप्रदीपिका ३५१ द्यायां श्रूयते । संवर्गविद्यायां " यां देवतामुपास्ते " इति श्रूयते । तेन तत्रैव ि न मन्तव्यमित्यर्थः । श्रुतप्रदीपिका । तथा चेति; न परं पारिशेष्यादवगम्यते, श्रूयते चेत्यर्थः । उपसर्गविशेषसन्विधि- प्रत्यययोगायोगयोरप्यैकार्थ्यज्ञापनार्थं सामान्यशब्दानां छागपशुन्यायाद्विशेषपर्यवसानंज्ञाप- नार्थं चानेकवाक्योपादानम् । निचाय्येति ; “चाय दर्शने” इति धातुः । इत्येवमाद्या इति; एवंशब्द उपसर्गयोगादिप्रकारे । प्रज्ञां कुर्वीत " इत्यादिषु ज्ञानमात्रं विधेयं प्रतीयते, न ज्ञानविशेष इत्यत्राह – अत्रेति । 66 शब्दात् " आत्मानं ध्यायथ " इत्यादेर्ग्रहणम् । अत्र ; उदाहृतवाक्यसमुदाये । आदि- छागपशुन्यायाद् ध्यानरूपविशेषे पर्य- " अथ योऽन्यां देवतामुपास्ते " इति वसानमित्यर्थः । तर्हि ल्यबन्तपदाभ्याम् " अन्वेष्टन्यः " इत्यनेन च किमुच्यत सामान्यशब्दः श्रवणे विशेपे पर्यवस्येदित्यत्राह- इत्यत्राह – वाक्यार्थेति । श्रोतव्य इति । श्रवणादिपर्यवसाने विध्यानर्थक्यादप्राप्तस्य ध्यानस्य विधेयत्वमाह - तस्मादिति । उक्तार्थस्य सौत्रतामाह – वक्ष्यतीति । सूत्रार्थमाह तदिदमिति । तृतीयलक्षणावसाने प्रकृतं श्रुतिषु सामान्यशब्दोक्तं वा तदिदमित्युक्तम् । हेतुमाह- " न स " इत्यादौ व्यवधानाभावान्न विदीति । स्थलत्रयमुदाहरति — मन इति । ’ अत्र ‘शब्दः । अत्रादौ चोपासिः श्रुतः । क्वचिदादौ क्वचिदाद्यन्तयोः क्वचिदन्ते च विशेषशब्दः ; क्वचिदन्ते कचिन्मध्ये क्वचिदादौ च सामान्यशब्द इत्युदाहरणत्रयविभागः । इदं वाक्यं रात्रिसत्रवाक्यवद् द्रष्टव्यम् ; तत्र हि विधिवाक्यनिर्दिष्टा रात्रीरर्थवादे " य एता रात्री: " इत्यनूच फलत्वेन प्रतिष्ठा " य एवं वेद” इति समाप्यते ; तद्वदत्रापि विधिवाक्यनिर्दिष्टमुपासनमर्थवादे “ भाति च ” इत्यादिना भानतपने समाप्येते । यस्तदिति विदिनानूद्य तत्फलत्वेन ’ मे अनुशाधि यो वेदिता रैक्वः, यत्तद्वेद्यं ब्रह्म, स एतच्चोभयं तवोक्तमित्यर्थः । इत्यन्वयः । कस्मिंश्चित्प्रकरणे सामान्यशब्दनिर्दिष्टस्य तत्तुल्यप्रकरणान्तरे विशेष- शब्देनोक्तिः । प्रागुक्तैकैकस्मिन् प्रकरणे व्यतिकरेणोक्तिरत्रोक्ता । एतद् द्वयमपि सूत्रे पूर्वत्र च हेतुतया विवक्षितम् । एकत्रैकैकोक्तिर्लाघवाय । तदिदमित्यादि सूत्रव्या- ख्यानम् ; न चेत् अपवर्गोपायतया विधीयमानं ध्यानमित्युच्येत, न तु वेदनमिति ; अन्यथा

३५२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) " इत्या- शृङ्गलितोक्तिप्रकरणवैरूप्यात् । पूर्वप्रकृतं ध्यानं विशिनष्टि – ध्यानं चेति । स्मृतीनां ध्रुवत्वं विजातीयस्मृत्यव्यवधानम् । अपवर्गोपायत्यश्रवणात् " निदिध्यासितव्यः दिविहितं ध्यानमेव ध्रुवा स्मृतिरित्यपि फलैक्यादवगतमित्यर्थः । कतिपयविशेषं प्रदर्शयतः सूत्रकृतोऽभिप्रेतं विशेषान्तरमाह – सा चेति । समानाकारत्वं विशदाव- C 99 भासरूपत्वम् । कुत इत्यत्राह - भिद्यत इति । हृदयग्रन्थिरज्ञानम् ; यद्वा हृदयः हृद्भुत आत्मा; तस्य ग्रन्थिः प्रकृतिसंबन्धः । उपायफलानुभवदशा साधारण्यात् प्रागविवृतस्य " द्रष्टव्यः " इति पदस्यार्थमाह – एवं सतीति; निर्णायकवाक्यान्तरे सतीत्यर्थः । कथं स्मृतेर्दर्शनरूपतेत्यत्राह - भवतीति । " वृक्षे वृक्षे च पश्यामि इतिवदिति भावः । अयमर्थः सूत्रतात्पर्यज्ञैरप्युक्त इत्याह – वाक्येति । प्रपञ्चितम् ; पूर्वपक्ष- सिद्धान्तरूपेणेत्यर्थः । तद्विषते श्रवणात्; व्यतिकरेण प्रयोगादित्यर्थः । वाक्यं व्याचष्टे – सर्वास्विति; न परं छान्दोग्य इति भावः । मोक्षसाधनतया विहितमिति; अर्थान्तरधीश्रवणादिव्युदासः । उक्तार्थस्य पूर्वपक्षत्वशङ्काव्युदासायाह — सकृदिति । सिद्धम् ; सिद्धान्तः । द्वित्रावृत्तिमात्र व्युदासायास कृच्छन्दः । सूत्राभिप्रेतस्य वाक्यकार- कण्ठोक्तिं दर्शयति–उपासनमिति । तस्यैव; मोक्षसाधनस्यैव । उपासनशब्दवा- च्यत्वादसकृदावृत्तत्वं वाक्यकृतोऽप्यभिप्रेतम् । विशेषान्तरं प्रागस्मदुक्तमित्याह - सेय- – मिति । वाक्यकारैरेव तुल्यन्यायतयार्थादुक्तमिति वार्थः । सेयम् ; असकृदा- वृत्ता ध्रुवाच । ’ दीर्घदर्शी’ इतिवत् दर्शनशब्दस्य धीसामान्यपरत्वं मा भूदित्याह - दर्शनेति ; प्रत्यक्षसमानाकारतापत्तिरित्यर्थः । श्रोतव्यः " इत्यादिधीविशेषान्तरवाचि- पदैः समभिव्याहारात् " द्रष्टव्यः " इत्यस्यापरोक्षरूपधीविशेषपरत्वमेव न्याय्यमिति भावः । 66 तत्त्वटीका ननु मोक्षोपाये विधित्मितत्वोक्तिरयुक्ता, विधिशब्दानामिह पुरुषार्थभूतवाक्यजन्य- ज्ञानानुवादनिष्ठत्वात् ; ध्यानादेस्तु तदर्थतया चोदनात् ; न चान्यानुपपत्तिमात्रात्तदन्यत्सर्व- मुपपद्यते ; विविधानि च ज्ञानानि स्मृतिदर्शनादिशब्दैर्व्यपदिश्यन्त इत्यत्राह – तथा चेति । यथा वाक्यजन्यज्ञानादन्यो मोक्षोपायो " द्रष्टव्यः इत्यादिभिर्विधित्सितः, स च ध्यानाद्यनेकशब्दोपात्तोऽप्येकतया सिध्येत्, तथैवेत्यर्थः । चः पारिशेष्येण सह समुच्चयार्थो वा । अत्र वेदनादिशब्दानां ध्यानादिशब्दोक्तविशेषपरतामुपसर्गभेदसन्विधि- CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) तत्त्वटीका ३५३ `प्रत्ययसदसद्भावैरर्थभेदाभावं च व्यङ्क्तमीदृशबहुवाक्योपादानम् । उपात्तवाक्यप्रकारवै- तेषां विधिपरत्वसाम्यार्थ एवं शब्दः । अनुपात्तेष्वपि न्याय- " प्रज्ञां कुर्वीत 99 " " चित्र्यपर इतिशब्दः । संचारार्थम् आयोक्तिः । विजानाति " इत्यादौ न वाक्यार्थज्ञाना- दन्यत्वं भातीत्यत्र “ छागो वा मन्त्रवर्णात् " इति न्यायमभिप्रेत्याह – अत्रेति ; श्रुतेषु तेषु वाक्येष्वित्यर्थः ; निर्धारणे सप्तमी । ऐकार्थ्यमिहैकप्रयोजनत्वमेकविषयत्वं वा । तच्चात्र शाखान्तरनयपुरस्कारेण सामान्यविशेषन्यायसिद्धम् । प्रथमेनादिशब्देन " ध्यायथ" इत्यादेः, द्वितीयेन " विजिज्ञासितव्यः " इत्यादेश्च ग्रहणम् । अनुवादे तात्पर्यसिद्ध्य- र्थमनुवाद्यस्य विधेयान्वयार्थं च ध्यानोपकारकत्वोक्तिः । तच्च ध्येयोपस्थापकत्वम् । नन्वत्र “ अनुविद्य " इत्यादौ “ दघ्ना” इत्यादिवङ्गुणविधिरस्तु ; सगुणकर्मश्रवणे हि वाक्यं गुणपरमिति नीतिविदः, विशिष्टविधौ गौरवात् कर्ममात्रविधौ गुणश्रुतिवैयर्थ्यात् ; कर्मपदं तु विधेयस्य गुणस्याश्रयार्पणेन सार्थकं स्यादिति – मैवम् ; होमवदिह ज्ञानार्थस्य प्राप्तत्वे ह्यनूद्य गुणो विधीयेत । तर्ह्यगत्या विशिष्टविधिरस्त्विति शङ्कानिरासार्थम् अनूद्ये- त्युक्तम् । अयं भावः–क्त्वान्तस्याख्यातान्तस्य चैकायै पौर्वापर्यविरोधः । कस्य च केन वैशिष्ट्यम् ? सजातीयाभ्यासे तु ज्ञानमभ्यस्येदित्येवालम् । उपसर्गभेदश्च विफल: स्यात् । भिन्नार्थत्वे " विजानाति " इत्यादेरप्राप्तविषयस्य ध्यानवत् पश्चात्पठितस्य पश्चाद्भाविनि विधेये ध्याने विश्रान्तिन्यय्या । वाक्यार्थधीस्तु प्राप्तत्वान्न विधेयो गुणः । तत एव न तदर्थं श्रवणादि ; तत्प्रधानध्यानविधानस्य युक्ततमत्वाच्च । न चान्यकिमपि ज्ञानमिह गुणत्वेन विधेयतया शङ्कनीयम् । यदि तु " विजानाति ” इत्यादेर्वाक्यार्थ- ज्ञाने विश्रमः, तदा अनुविद्य " इत्यादेर्न • विधेयमनुवाद्यं वा ज्ञानान्तरं दृश्यते । न च ध्यानं तद्गुणतया विधेयम्, परोक्षं प्रत्यक्षं वा वाक्यार्थ- ज्ञानं प्रति तत्साधनत्वासंभवस्य दर्शितत्वादिति । स्थानैक्याद्विधिप्रत्यय- रहितेऽपि विधिपरत्वव्यक्त्यै बुद्धिस्थक्रमेण " प्रज्ञां कुर्वीत" इत्यस्य पूर्वं पाठः । ध्यानस्य " निचाय्य इत्याद्युक्तवैशद्यविशिष्टत्वादुपास्युक्तप्रकर्षविशिष्टत्वाच्चोपसर्ग- द्वयसाफल्यम् । अनुवादयोरप्युपसर्गद्वयमनुवाद्यस्याभ्यासं स्पाष्टयं च व्यनक्ति । " अविज्ञातं, विज्ञातम् " इति विज्ञानशब्दस्य " निदिध्यासितव्यः इत्यस्य स्थाने पाठात् श्रवणानन्तरभाविमननविषयान्वेषणशब्दानन्तरपाठाच्च " विजिज्ञासितव्यः " इत्ये- 45 66 " 99

३५४ तन्निदिध्यासनस्थानापन्नम् । श्रीभाष्यम् ( जिज्ञासाधिकरणम् ). तव्यप्रत्यया- उपायविषयविज्ञानवेदनादिसामान्यशब्दानां न्तोक्तश्रवणरूपज्ञानविशेषे विश्रमः किं न स्यादित्यत्राह - श्रोतव्य इति । कथमत्रा हेतु - कस्तव्यप्रत्ययबाध इत्यत्राह – स्वाध्यायस्येति । अयं भावः — श्रुतेरर्थपरत्वाभावाद्वा विचारस्य प्रवर्तकाभावाद्वा तदवसराभावाद्वा मीमांसानारभ्येति शङ्का निरस्ता । " श्रोतव्यः " इत्यस्य च गुर्वभिगमनादौ शब्दशक्तिर्नास्ति । अतो निर्णयार्थव्यापारपरत्वे प्राप्तार्थत्व- मिति । नन्वस्ति विधेयमारम्भणसंशीलनरूपं मननम् ; तच्च " मन्तव्यः " इति विवक्षितुं युक्तम् ; तत्र वेदनादीनां विश्रान्तिः स्यादित्यत्राह - - श्रवणेति । अप्रतिष्ठितस्य श्रवणस्य ध्यानानुपकारित्वात्तत्प्रतिष्ठापकतयाकाङ्क्षितं तदनन्तरपठितं यौक्तिकं मननम् । अत . स्तदपि रागाद्यनुवृत्त्या प्राप्तत्वादनुवाद्यमेवेति भावः । एतेन श्रवणादित्रिकं दर्शनसाधन– तया विधीयत इति कैश्चिदुक्तस्य युक्तिविरोधः ख्यापितः । ननु " श्रोतव्यो मन्तव्यः इत्येताभ्यामुपदेशकगम्यार्थश्रवणमात्रं विधेयस्तु आहुश्च केचित् – “ सांख्ययोगोपदेश- श्रवणादिकम्” इति ; अत्राह — तस्मादिति । प्राप्ताप्राप्तविवेकात् तत्सिद्वाद्वा परि– शेषादित्यर्थः । एवकारः श्रवणमननयोर्ज्ञानमात्रस्य सन्प्रत्ययवाच्येच्छायाश्च व्यवच्छे- इत्यस्यापि ध्यानविशेषणवादितया पृथग्विधितात्पर्यव्युदासार्थो 3 99 ; + 99 99 दार्थः ; 29 " द्रष्टव्यः वा । अयं भावः – " श्रोतव्यो मन्तव्यः इत्यनयोरवैधप्रसिद्धोपकारकत्वसंभवे तद्वि- परीतक्लृप्तेरयुक्तत्वात्, " श्रोतव्यः " इत्यादेः श्रवणादिचतुष्टयविधिपरत्वे वाक्यभेदापत्तेः, अत्र विकल्पस्याष्टदोषदुष्टतया गुरुलघुविषयतया चात्यन्तासंभवात् क्रमभाव्युपकारस्य श्रवणादेः समाधिरूपाङ्गिना समुच्चयासंभवात्, विशिष्टविधेर्गत्यन्तराभावनियतत्वात्, ध्यानस्य दर्शनरूपतायाः श्रुत्यन्तरानुसारेण साधयिष्यमाणत्वात्, अत एव निपूर्वस्यापि ध्यायतेरिह पदान्तरस्फुटोपात्तदर्शनरूपता वैशिष्टयोक्ताबुदासीनत्वात्, " द्रष्टव्यः इत्यस्यानुवाद- समभिव्याहारेऽपि स्वरसावगत विधिपरत्वप्रहाणेन फलानुवादपरत्वकल्पनानुपपत्तेः, " श्रोत व्यः श्रुतिवाक्येभ्यः इत्यादिश्लोकेऽपि श्रवणादित्रिकस्य क्रमाद्दर्शन हेतुत्वमात्रोक्तौ साध्यस्यापि विधेयत्वे विरोधाभावाच्च रागप्राप्तश्रवणादिपूर्वकं विधिपदान्तरोपात्तदर्शनाकार- विशेषितध्यानमेवात्र विधेयमिति । एवं वेदनादिशब्दानां स्वोक्तविशेषविधिविश्रमानभ्यु पगमे सूत्रविरोधमपि सूचयति – वक्ष्यति चेति । चिन्तनार्थो हि ध्यायति- रेक विषयम सकृदावृत्तं ज्ञानं वक्ति । अतो ध्यानविषये उपदिष्टं वेदनं ध्यानमेवेति १,

0 ( १ – १ – १) तथोपास्तिरपि 66 तत्त्वटीका ३५५ प्रकृतसिद्धिः । तस्मिन्यदन्तस्तदुपासितव्यम् " इत्यादिभिरुपात्तः । अतो यज्ञादिसापेक्षत्वानुगुणम् ’ उपदेशात्’ इत्यनेनैव संगृहीतम् । प्राक् प्रति ज्ञातमुपासनाख्यविशेषे वेदनादिसामान्यशब्दानां विश्रममाह —– तदिति । तत् ; तदुक्तावनिर्धारितविशेषम् । इदम् ; गुरुतरध्यानादिसाध्यसाधनतया विधानाद्विशेष- दृष्टौ तदेकतापत्त्यर्हम् । तद्धेतुं व्यनक्ति – अपवर्गोपायतया विधित्सितमिति । - उपासनमित्यवगम्यत इति ; तुल्यप्रकरणस्थोपासिसमानविषयवेदनादिशब्दनिर्दिष्टत्वा- उपदेशात् ” इति सूत्रितमेकप्रकरणस्थविशेषमन्यमपि हेतुमाह- " यस्तत् 99 इत्यत्र दिति भावः । विद्यपास्योरिति । तु तद्विपरीतम् । " मनः इत्यादावुपासिरादौ, विदिरन्ते । " "" न स वेद ” इत्यत्र तूभयत उपास्तिः, “ अथ योऽन्यां देवतामु- पास्ते " इत्युपक्रमात् । एवं मिथः स्थानाक्रान्तिरिह व्यतिकरः । नन्वत्र • मनो ब्रह्म’ इति दृष्टिविधिः ; अन्यच्च वाक्यद्वयं विद्याविशेषस्थम् । एकत्र शब्दवृत्तिर्या स्थिता सान्यत्र संचरेत् । तत्तुल्येऽपीत्यभिप्रेत्य दर्शनादिति भाष्यते ॥ २९९ ॥ “ य एवं वेद ” इति न शास्त्रार्थवेदनमात्रोक्तिः ; विहितस्याकाङ्क्षितं फलमनिर्दिश्यावि- हितान्यानुवादेन तत्फलोक्तेरयुक्तेः । ननु भूमविद्योपक्रमे " स यो ब्रह्मेत्युपास्ते यावन्म- नसो गतं तत्रास्य यथाकामचारो भवति" इति फलविशेष उक्तः ; तेनैव नैराकाङ्क्ष्यं स्यात्—मैवम् ; तृतीयप्रपाठकस्थस्यास्योपासनप्रकरणभेदात् पुनः श्रुतिवैयर्थ्याच्च विधेया- न्तरत्वे सिद्धे संनिहितफलेनैव समन्वयोपपत्तेः । अतोऽस्मिन्नर्थवादे विदिनोपासनमनूद्य तत्फलविधिर्युक्तः । रात्रिसत्रन्यायश्चात्राभिप्रेतः । दानादिजन्या प्रथा कीर्तिः । पराक्रमादिजन्या तु यशः । कीर्त्या यशसा च भाति, ब्रह्मवर्चसेन तपतीति योज्यम् । मध्यमवाक्ये ’ अत्र’ इत्यनुक्तिरासन्नत्वात् । यस्तत्" इत्यादौ यस्तत् ब्रह्म वेद, यच्च ब्रह्म स वेद स वेदिता रैकः तद्वेद्यमेतत् ब्रह्म चेति द्वितयं तवोक्तमित्यर्थः । " गामश्वं पुरुषं जगत् ” इत्यादिष्विव चकारानुक्तिः । नपुंसकसमभिव्याहारादुक्तमिति विपरिणमनीयम् । वेद्यं प्रति स वेदितृत्वेनोक्त इति वा नेयम् । । अथवा यत् स रैक्को वेद, तदेवान्यो यो वेद, एनं सर्वं तदभिसमेति यत्किंचित्प्रजाः साधु कुर्वन्तीति पूर्वत्रान्वयः ; “ स मयैतदुक्तः” इत्यत्र ‘एतत् ’ इति क्रियाविशेषणम् ; स मयैवमुक्त ।

6 ३५६ इत्यर्थः । श्रीभाष्यम् (जिज्ञासाधिकरणम्) 99 अस्यां व्याख्यायां प्रकरणानुगुण्यात् रैक्वशिष्येण भवितव्यमिति जानश्रुतेः सूच्यते । अनुशाधि ; विविच्य ज्ञापयेति यावत् । एवं वेदनस्य प्रस्तुतध्यानो- पासनशब्दवाच्यत्वमित्युक्तम् ; न तु ध्यानस्योपासनत्वमिहोच्यते ; वेदनमुपा- सनमित्यवगम्यते ’ ’ विद्युपास्यो:’ इत्यादिभाषणात्, वेदनमुपासनं स्यात् इति प्रदर्शयिप्यमाणवाक्यसंवादाच्च । ध्यानोपासनशब्दयोरेकविषयत्वं ध्यानस्य प्रतिकूलध्यानाद्व्यावृत्तिश्चहार्थादेव सिध्यतः । यदि ध्यानमिहोपासनत्वेन शब्दतो विशेष्यते, तदा ध्यानस्य पुनराकारान्तरोक्तौ शृङ्खला भज्येत । ननु ध्यानशब्दः चिन्तामात्रवाची व्यवहितस्मृतिसंतानेऽपि स्यात् ; स्मृतिमात्रे च क्वचित्प्रयुज्यते ; सूत्रे च ध्यानोपासनशब्दाभ्यामसकृदावृत्तिमात्रमुक्तमित्यत्र तदभिप्रेतं श्रौतं नैरन्तर्यरूपविशेषमाह– ध्यानं चेति । यावज्जीवाग्निहोत्रनयाद्वा स्वरूपेण चिरकाल- स्थायितया वा ध्रुवत्वं स्यादिति शङ्कानिरासाय सदृष्टान्तः संतानशब्दः । एवं विच्छिं- न्नाविच्छिन्नवेदनसाधारणस्य ध्यानस्य विशेषे विश्रम उक्तः ; अविच्छिन्नासाधारण्यं वा स्थापितम् । स्वस्थाने चैतत् सूत्रयिष्यति – “ ध्यानाच्च । ." अचलवं चापेक्ष्य " उपासनशब्दस्याविच्छिन्नविषयत्ववत् ध्यानशब्दस्याप्यविच्छिन्नविषयत्वमिह स्थाप्यते " इति तूलिका । उक्तं श्रुत्योपपादयति– ध्रुवेति । स्मृतेर्भुवत्वं विसदृश- बुद्धिव्यवधानरहितप्रवाह त्वम् ; तद्रूपप्रत्यये चैका संततिश्चान्यनिस्पृहा " इत्यादिना तथोक्तेः । यद्यपि " नाना शब्दादिभेदात् " इत्यत्र फलसंयोगैक्यमात्रान्न विद्यैक्य- मिति वक्ष्यते ; ध्यानत्वोपासनत्वध्रुवत्वादयश्च विशेषा विद्यान्तरपठिताः – तथापि साधार- णानां वेदनादिशब्दानां विशेषविषयत्वाभावे फले च तारतम्यरहिते गुरुलघूपायभेदविधि- दौस्थ्यम् ; गुरुलघुविकल्पायोगलक्षणं च वस्तुसामर्थ्यं प्रकरणाद्वलीयः ; अतः स्मृतेर्ध्रुवत्व- मिदमेकत्र श्रुतमपि सर्वासु विद्यासु योज्यमित्यभिप्रायेण अपवर्गोपायत्वश्रवणात् इत्युक्तम् । स्मृतिलम्भे; आहारशुद्ध्यादिक्रमेण प्रस्तुतश्रुवानुस्मृतिसिद्धावित्यर्थः । ग्रय्यत एभिः क्षेत्रीति ग्रन्थयः — धर्माधर्मरागद्वेषमोहादयः कर्मोपनीताश्च त्रिगुणविकार- भेदाः ; ते च मायापाशग्रन्थितयाप्तागमोक्ताः । विप्रमोक्षः ; विभज्यात्यन्तिकमोचनम् । ननु भ्रान्त्या बन्धः सर्वेष्टः, तस्य कथमप्रमा स्मृतिर्वाधिका ? भ्रान्त्यधीन कर्मजन्यस्य स्वयं भ्रान्तिविषयत्वासिद्धेभ्रमोत्थस्यापि भयशङ्काविषजन्यज्वरादेरिव बन्धस्य सत्यतया इति । 66 66

तत्त्वटीका ३५७. तदत्र ( १ – १ – १) युक्तोऽयमीदृशः प्रतीकारविधिः । मिथ्यात्वपक्षेऽपि प्रायश्चित्तादिन्यायो दुस्त्यजः । अतो निवर्त्यस्य सत्यमिध्यात्वे निवर्तकस्य मानामानत्वे अनादृत्य चोदितत्वात् स्वफल- साधनत्वं ग्राह्यम् । भेद्रवासनायाश्च ध्यानरूपा स्मृतिर्नाशनी त्वयैवोक्ता । शुक्तिरजतवन्न बन्धस्य बाधः ; नाशस्तु यथाविधि स्मृत्या प्रमित्या वा स्यात् । न स्मृतिरप्रमाप्ययथार्था, स्वहेतुप्रमित्यनन्यविषयत्वात् । उक्तं च सामान्यतः श्रीमद्गीता - भाष्ये – “ स्मृतिर्नाम पूर्वानुभूतविषयमनुभवसंस्कारमात्रजं ज्ञानम् " इति । पूर्वानुभूत- विषयत्वं न लक्षणप्रविष्टम् ; किं तु विषयसत्यत्वासत्यत्वयोः स्वहेतुधी सामान्यज्ञप्त्यर्थम् । निवृत्ततदवस्थस्य तदवस्थतया स्मृतौ । याथार्थ्यं न प्रतिक्षेप्यं भूतभाविप्रमाक्रमात् ॥ ३०० ॥ स्मृतिप्रमोषे चार्थस्य तादवस्थ्यं न भासते । अयाथार्थ्यं कथं तत्र तत्रेदंताविवर्जिते ॥ ३०९ ॥ अतो मूलानुसारेण यथादर्शनमिष्यताम् । यथार्था चायथार्था च स्मृतिरप्यनुभूतिवत् ॥ २०२ ॥ अन्यदृष्टिस्तथान्यत्र क्ष्वेलध्वंसादिकृन्मता । परविद्यास्वपि ह्येषा क्वचिदंशेषु गृह्यते ॥ ३०३ ॥ अतः श्रुतिस्मृतिशतैश्चोदिना स्मृतिरूपिणी । भाष्यते परविद्येयं भवारम्भस्य निष्कृतिः ॥ ३४ ॥ चेयं ननु ध्यानमेवेत्याद्ययुक्तम् ; तदपि धारणावत्समाध्यर्थतयोक्तम् ; समाधिरेव तु दर्शनात्मकः " आत्मानं पश्येत्" इत्यादिभिर्मुक्ति हेतुरुक्तः ; न च योगिप्रत्यक्षमनभ्युपग- तम्, तस्य बहुषु प्रदेशेषु भाषिप्यमाणत्वादित्यत्राह – सा चेति ; ध्रुवत्वविशेषितेत्यर्थः । आकारान्तरेणापि सूत्रसूचितगत्या विशेष्यत इति व्यक्त्यै चकारः एवार्थो वा । सैव हि स्मृतिर्वैशद्यातिशयात्समाध्याख्या ; न तु ध्यानफलमन्यद् दर्शन " पश्येत् ” इत्यादिषु च विधेयमित्यर्थः । स्मृतेर्दर्शनत्वव्याघातशमनाय समानत्वोक्तिः ; परोक्षेऽप्यपरोक्षत्वो- पचार इति भावः । परोक्षा चापरोक्षाच स्मृतिर्द्वधा स्वमूलवत् । कृत्स्ना वा स्यात्परोक्षैव द्विधाप्यत्रापरोक्षता ॥ ३०५ ॥ CC-0 No Rights Reserved. Digitized by eGangotri३५८ श्रीभाष्यम् विधौ च परशब्दार्थो गत्यभावेऽनुमन्यते । लक्षणेष्टा हि दर्शादौ गौणी श्येनादिनामसु || ३०६ ॥ अर्धमन्तर्बहिर्वेदि मिनुयादिति च श्रुतौ । मध्यदेशस्य लक्ष्यत्वं सर्वत्रैवं यथायथम् || ३०७ || (जिज्ञासाधिकरणम्) यत्तु निरुच्यते निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहव नन्वत्र स्ववाक्ये ध्रुवत्वं न दर्शनरूपत्वं विशेषणतयोपात्तम् ; यतः समाधेः पार्थक्यं परिहियेतेत्यत्राह – भिद्यत इति । अत्र ग्रन्थिशब्द उपात्तकर्मादिव्यतिरिक्तविषयः ; हृदयस्य मनसः सम्यक्प्रवृत्तिप्रतिबन्धकतया ग्रन्थयो रागाद्याः । यद्वा हृच्छन्दोक्तं स्थानमयतीति हृदयो जीवः ; तात्स्य्याद्वासौ तच्छब्देन लक्ष्यते ; तस्य ग्रन्थिः पूर्वो- तस्त्रिगुणविकारवर्गः । हृदयं वा ग्रन्थिः ; उपलक्षणमिदम् । छान्दोग्ये—“ स वा एष आत्मा हृदि तस्यैतदेव एवंवित्स्वर्गं लोकमेति" इति, तदुपास्यब्रह्मपरम् । भ्रमितव्यम् ; ग्रन्थिसंशयादिविरुद्धधर्माध्यासात् । संशयशब्दोऽत्र विपर्ययस्याप्युपलक्षकः ; ते छिद्यन्ते हेतूच्छेदान्न संतन्यन्त इत्यर्थः । कर्माणि बन्धकसुकृतानि दुष्कृतानि च । प्राप्तिविरोधिक्षयस्यात्र विवक्षितत्वान्न विद्योत्पत्तिकर्मनिवृत्त्योरन्योन्याश्रयः । परावरे; परत्वं सर्वातिशायिता ; अवरत्वं सौलभ्यार्थेन्द्रानुजत्वाद्यैः । यद्वा " सब्रह्म ब्रह्म दाशाः इत्याद्युक्तपरावरजन्तु- शरीरके । अपरावरे वा ; निम्नोन्नतविश्वविलक्षणे । अथ वा परा एवावरा भूत्या यस्य स परावरः । 66 न च तदेवात्र हृदयशब्दवाच्यमिति सर्वविषयाः संशयाः सर्वे वा संशयाः ; 99 न चात्र । इदमत्राकृतम्- " दृष्टे " इत्यत्र दर्शनशब्दो न तावन्मुक्तत्यवस्थाभावि दर्शनपरः, ध्रुवस्मृतिशब्दवत् ग्रन्थिमोक्षसाधनविषयत्वात् । न च साधनविषयत्वेऽपि स्मृतिदृष्टयोर- पवर्गं प्रति समुच्चयः, दर्शपूर्णमासादिवत् द्वन्द्वस्य चकारस्य वानुपलब्धेः । समुच्चयः शक्यः, प्रक्रान्तयोगेन ब्रह्मणः साक्षात्कर्तुमशक्यत्वात् ; शक्यत्वेऽपि यौगपद्य - स्यासंभवात् ; क्रमस्य च व्यवस्थापकाभावात् । न च प्राचीनं ध्रुवस्मरणं पश्चिमं च योगिप्रत्यक्षं करणतया समुच्चीयेत, धारणावत्तादर्थ्योपपत्तौ समुच्चयक्लृप्त्ययोगात् ; अन्यथाति- प्रसङ्गात् ; ध्रुवस्मृतेर्व्यवहितसाधनत्वक्तौ श्रुतहानादिप्रसङ्गाच्च । प्रमाणफलं च दर्शनं न स्वरूपेणोपादातुं शक्यम्, येन समुच्चित्य विधीयत । ननु संस्कारोद्बोधफले स्मर-

(१–१–१) तत्त्वटीका ३५९. णेऽपि समानमेतत् ; अत आज्यावेक्षणन्यायात्तदुपायभूतशक्यव्यापारार्थो दर्शनविधिरिहा- स्त्विति चेत् — न ; तथा सत्येकस्मिन्वाक्ये द्रष्टव्यनिदिध्यासितव्यपदयोः पुनरुक्तिप्रसङ्गात्, अन्ततो निदिध्यासनार्थचित्तप्रेरणस्यैव पुरुषतन्त्रस्य दर्शनोपायतया विधातव्यत्वात्, अन्यस्य चादृष्टेः । नन्वेक एव दर्शनोपायः सामान्यतो विशेषतश्च पदद्वयोक्त इत्यपुनरुक्तिः स्यात् ; हन्तैवं सति समुच्चयं त्यक्त्वास्मत्पदवीमासीदसि, " द्रष्टव्यो निदिध्यासितव्यः इत्युभाभ्यामेकस्यैव विधेयत्वात् । अस्मदुक्ते तु ध्यानं वैशद्यतो विशेष्यत इति वैषम्यम् । न च दर्शनसमानाकारध्यानान्तरेण ध्रुवस्मृतेः समुच्चयः, तादृशस्यान्यस्यादृष्टेः ; क्लृप्तौ गौरवात् ; ध्रुवस्मृतेर्निरपेक्षसाधनत्वश्रुतिभङ्गाच्च । न च मोक्षे साध्ये साक्षात्कारस्मृत्योर- नेकदोषदुष्टो विकल्पः स्वीकार्यः । विकल्प बुद्धयनुष्ठानापूर्व तत्फलबाधतः । कोटिभ्यामष्टदोषत्वं प्रयोगद्वितयेऽब्रुवन् ॥ ३०८ ॥ प्रामाण्यत्यागतोऽन्यस्य स्वीकृतेस्त्यक्तसंग्रहात् । स्वीकृतत्यागतश्चान्ये प्रयोगद्वितये विदुः || || ३०९ ॥ ; 19: गुरुलघुवैषम्याच्चात्र न तत्संभवः ; अन्यथातिप्रसङ्गात्, विषमफलेष्वेव तद्धेतुत्वदृष्टेः । न चात्र द्वारद्वारिता, मानाभावात् । न हि श्रवणमननयोर्ध्यानोपकारकत्ववत् ध्यानस्य दर्शनोपकारकत्वं दृष्टम् । परोक्तं भावनाबलजप्रत्यक्षं तु शास्त्रयोन्यधिकरणे निरसिष्यते । न चात्र श्रुतम्, एवं क्रमाद्यनुक्तेः । " ततस्तु तं पश्यते निष्कलं ध्यायमानः ध्यान निर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्" इत्यादिकमस्तीति चेत् — सत्यम् ; ध्यान- फलं ह्येतद्दर्शनमणिमादिवत्सिद्ध्यन्तरमस्तु न साधनम्, तथानुक्तेः । परविद्याप्रकरणे क्वचित्तदुक्तिस्तु तत्तत्प्रभावप्रदर्शनार्था “ तमक्रतुं पश्यति वीतशोकः " " पुरिशयं पुरुष- मीक्षते " इतिवत् ध्यानसाध्यतयोक्तं दर्शनं मुक्तस्यास्तु ; ध्यानसाध्यतयोक्तं दर्शनं मुमुक्षो- श्चेत् विशदध्यानरूपं स्यात् ; तथाहि - दर्शनशब्दस्य श्रावणज्ञानादिष्वप्रयुज्यमानस्य चाक्षुषज्ञानमेव हि मुख्यम् ; तत्तु " न चक्षुषा गृह्यते नापि वाचा विशुद्धेन " इत्यादिभिरिह प्रतिक्षिप्तम् ; अतो मनोजन्यज्ञानविशेषे दर्शनत्वोपचार इलि तथासति वरं मोक्षसाधनतया कण्ठोक्तस्यैव ध्रुवानुस्मरणस्य तादृशवैशद्यविव- क्षया तदुपचार इति । ननु दर्शनशब्दः स्मृतिं साक्षात्काररूपत्वेन विशिनष्टु वाच्यम् ; 99 " मनसा तु P

३६० श्रीभाष्यम् (जिज्ञासाधिकरणम्) मैवम्—तस्य स्मृतावसंभवात् ; मूलभेदानुसारेण संभवाभिमानिनामपि परोक्षानुभवसाध्य- स्मृतौ तदसिद्धेः । " मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते " इति समाधेर्ध्या- ननिष्पाद्यत्वोक्तिश्च विशदाविशदवैषम्यात् । उक्तं च समाधाववस्थाद्वयं तस्यैव योगाङ्ग- त्वमङ्गित्वं च निर्वहद्भिः । अस्त्वेवमिह स्मृतिदर्शनवाक्ययोरैकार्थ्यम् ; तथापि स्मृति- शब्देन दर्शनमुपचर्यताम् ; तन्न – मुख्यार्थबाधाबाधाभ्यां विपरिवर्तस्यैव स्थापितत्वात् । किं च स्मृतिर्हि वैशद्योक्तद्या स्तूयेत, दृष्टिस्तु स्मृतित्वोत्तथा निन्दिता स्यात् । परोक्ष- ज्ञाने च वैशद्यविवक्षया “ तमसः पारं दर्शयति " इत्युच्यते । लोके च ‘पारदर्शी, दूरदर्शी ’ इत्यादि । नन्वपरोक्षस्य संसारस्य दर्शनसमानयापि परोक्षया स्मृत्या कथं बाधः ; न कथंचित्, मिय्यात्वासिद्धेः । अपरोक्षस्यापि ज्वालैक्यदेहात्मत्वचन्द्रद्वित्वादेरनु- मानादिना बाधो दृष्टः, सर्वेश्चाभ्युपगतः । अत: “ तस्मिन् दृष्टे " इत्यनेनापवर्गोपाय- विषयेण स्मृतेर्वैशद्यलाभात्तादृशी सैव समाधिरिति नाष्टमलोपप्रसङ्गश्चेति । तथापि 66 द्रष्टव्यः " इत्यादौ ध्यानसामर्थ्याक्षिप्तश्रवणमननयोर्ध्यानार्थत्ववत् अग्र्यप्रायन्यायेन ध्यानस्यापि दर्शनार्थ बुद्धयन्तरत्वोपपत्तेर्न दर्शनशब्दस्तद्विषयः स्यादिति शङ्कायां ‘ध्यानमेव ’ इत्यत्राभिप्रेतं विवृणोति — एवं च सतीति ; ध्रुवस्मृतित्वेनेव दर्शनसाम्येनापि निदिध्या- सनस्य विशेषितत्वे श्रुत्यन्तरसिद्धे सतीत्यर्थः । चः शङ्कानिवृत्त्यै, स्वतः प्राप्तविधिपर- त्वयुक्त्या सह स्फुटार्थश्रुत्यन्तरानुगुण्यसमुच्चयार्थो वा । अयं भावः – ध्यानस्यापि श्रवणा- दिवदविधेयत्वे यज्ञादिभिरेवा दृष्टद्वारेण दर्शनसिद्धिः कल्प्येत ; तथा च मध्ये ध्यानं विफलं स्यात्, भावनाबलजप्रत्यक्षानुपपत्त्या तादृशदृष्टोपकारकाभावात् । विवेयत्वे तु ‘एकत्र निर्णीत: शास्त्रार्थः सर्वत्र स्वतः प्राप्तः " इति न्यायात् ध्रुवानुस्मृतिवाक्यवदिहापि निदिध्यासनं दर्श- नसमानतया विशेष्टव्यम् । " द्रष्टव्यः इत्यत्र परोक्ते फलपरत्वे तु प्रत्ययवैघट्यम् । पूर्वापर वाक्येषु च येनाहं नामृता स्याम् 66 19 66 अमृतत्वस्य तु नाशास्ति वित्तेन 29 एतादेव खल्वरे अमृतत्वम् " इति फलस्योक्तत्वात्तदुक्तिरत्रानपेक्षिता । वैशद्यं त्वन्यत्रोक्तम- त्राप्याकाङ्क्षाबलायत्तम् । अत उपायपरतया “ तस्मिन् दृष्टे " इतिवद्विधेयविशेषकत्वे " विकल्पसमुच्चयश्रुतहानादेरयोगादेकफलसिद्धधर्थविशिष्टैकसाधनविधितात्पर्यसंभवे. संभवति पृथक् फलविधिभेदस्याग्राह्यत्वात् " दघ्ना " इतिवदनूद्य विधाने विशिष्टविधेयैक्यसंभवाच्च वैशद्यविशेषितध्यानविधिपरमिदं ’ द्रष्टव्यः’ इत्यादि वाक्यमिति । अत एवास्य युगप- 6

<(१ – १ – १) तत्त्वटीका ३६१ देकस्य विध्यनुवादशङ्काप्यपास्ता । 59 स्वानन्दसाक्षात्काररूपस्यात्मदर्शनस्य स्वयमेवेप्सि- तस्य कथं विधेयत्वमिति चोद्यं विशदस्मृतिविधानोक्त्या प्रत्युक्तम् । एतेन " निचाय्य तं मृत्युमुखात्प्रमुच्यते यदा पश्यः पश्यते रुक्मवर्णम् " " तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति" इत्याद्यपि यथार्हं निर्व्यूढम् । नन्वेवं योगिप्रत्यक्ष- मेवलुप्येत, तत्तद्वाक्येषु दर्शनादिशब्दानां योगिप्रत्यक्षसद्भाववचनानामपि प्रत्यक्षसमाना- कारविषयतया नेतुं शक्यत्वात् । न च धर्मादयः कस्यचित्प्रत्यक्षाः, प्रमेयत्वात् ’ इत्यादिभिस्तत्सिद्धिः, ईश्वरप्रत्यक्षेणार्थान्तरापत्तेः । ‘इन्द्रियग्राह्याः’ इति साध्यप्रयोगेऽपि शास्त्रवेद्यस्यापि मनोविषयत्वेन सिद्धसाधनात् ; ‘इन्द्रिय साक्षात्कर्तव्याः’ इत्यत्राप्यतीन्द्रियाणा- मप्यनुव्यवसायवेद्यत्ववादिनामर्थान्तरत्वेन दत्तोत्तरत्वात् ; सुखादिवदाहत्य साक्षात्कार्य- त्वविवक्षायां विपक्षे बाधकासंभवेन प्रतिबन्धासिद्धेः ; अन्यथा बौद्धवद्धर्मादीनां चाक्षुषत्व- स्यापि साधनप्रसङ्गात् । शक्यं हि ’ विगीतं कस्यचित् चाक्षुषं प्रमेयत्वात्’ इत्यादि प्रयोक्तुम् । किंच ’ योगोन्द्रियं न धर्मादिप्रत्यक्ष जनकम्, इन्द्रियत्वात् अस्मदादीन्द्रि- यवत्’ इति प्रतिप्रयोगः सुलभ इति । मैवम् — मुक्त्युपाये हि कथिता दर्शनोक्तेरमुख्यता । अन्यत्र बाधकाभावाद्यथाश्रुतपरिग्रहः ॥ ३१० ॥ 99 संयमिनां ह्यतीतानागतातीन्द्रियादिवेदनं कण्ठोक्तम् । न च स्मरणमेतत्, अननुभूतविषयत्वात् । अत एव न तत्र वैशद्यमात्रेण प्रत्यक्षत्वोपचारसंभवः । न च तत्रानुमानाद्यवकाशः, “ तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यति इत्यादिभिस्तत्प्रतिक्षेपात् ; “ पाणावामलकं यथा ” इत्यादि च निर्दिश्यते ; धर्मोपचयभेदैरनधीतसूक्तकाण्डमन्त्रसाक्षा- त्कारश्च कीर्त्यते ; " दिव्यं ददामि ते चक्षुः " इत्यादि च प्रसिद्धम् ; अतो नासिद्धि- र्योगिप्रत्यक्षस्य, बाह्येन्द्रियाणां मनसश्च सुकृतविशेषैर्यथार्हं लोकोत्तरातिशयाधानात् । न चातिप्रसङ्गः ; यथाश्रुतातिलङ्घने हेत्वभावात्, अनुमानस्य विपक्षे बाधकाभावाच्च । न चानुमानतः श्रुतभङ्गः, तस्यागमेनैव बाधात्; अन्यथातिप्रसङ्गात् । ननु शास्त्र शक्ये शक्तं विनियुङ्क्ते ; स्मृतेस्तु दर्शनसाम्यं न पुरुषतन्त्रम् ; न च तदपि तस्याः संभवि; दर्शनत्ववदेवासंभावितं च न विधिराघ्रातुमर्हति ; न दृष्टाधिकारो विधिरसंभावितदृष्टफले भवतीत्यत्राह - भवतीति । भावना; अनुभवजन्यः संस्कारः, चिन्तैव वा । । 46 सा

३६२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) च सादरं निरन्तरं च कर्तुं शक्या । ततः स्मृतिवैशद्यसिद्धिः । ’ दर्शनस्य रूपमिव रूपं यस्याः सा’ इत्युपमानबहुव्रीहिरत्र ग्राह्यः । भीतकामुकादिप्रतिभाश्चात्र निदर्शयि- तव्याः । परैरप्युच्यते - “दृष्टं परोक्षमपि ध्यायमानं साक्षाद्भावमापन्नं कामाद्युपप्लवे ; 99 इति । " वृक्षे वृक्षे च पश्यामि " इत्यादिषु भ्रान्तिमिश्रत्वं दोषायत्तम् इह तु यथा– श्रुतचिन्तनान्न दोषबाधाविति भावः । यदि स्याद्भावनाभून्ना स्मृतेर्दर्शन तुल्यता । किमत्र कर्मणा मैवं मानसिद्धोभयग्रहात् ॥ ३११ ॥ उक्तस्य न्यायवर्गस्य दाढर्घाय सूत्रे शाब्दमार्थं च सर्वं मुखभेदेन तदभिप्रायविद्भि- विमृश्य निर्धारितमित्याह – वाक्यकारेणेति । तद्विषये श्रवणात् उपासनशब्द- स्थाने वेदनशब्दस्यैकत्रान्यत्र च प्रकरणे प्रयोगादित्यर्थः । अत्रोक्तस्य प्रायिकत्वशङ्का- व्युदासाय वाक्यं व्याचष्टे – सर्वास्विति । " मनो ब्रह्मेत्युपासीत इति दृष्टिविधायुक्त - मपि न्यायसाम्यात्परविद्यास्वपि योज्यम् ; किं पुनस्तास्वेवैकत्र दृष्टमिति व्यक्त्यै मोक्षसा- धनतया विहितमित्युक्तम् । एतेनापातधीश्रवणमनननिर्णयादेव्र्यवच्छेदः । वेदन- मुपासनम् ” इत्युक्तस्योत्तरवाक्यासत्त्या मन्दानां पूर्वपक्षत्वशङ्कां स्पष्टोक्त्या निवर्तयितु- माह — सकृदिति । विधिर्हि स्वतः प्रवृत्त्युन्मुखं पुरुषं प्रेरयन् स्वसिद्धयै प्रयाजादिशास्त्रेष्विवात्रापि सकृत् प्रवर्तयेत् ; विशेषवचने सति खल्वावृत्तिभरः सोढव्य इत्यभिप्रायेणोक्तम् — शब्दार्थस्य कृतत्वादिति विधिविषयस्य धात्वर्थस्य तावतैव पूर्णानुष्ठितत्वादित्यर्थः । उत्तरवाक्यस्थेन उत्तरवाक्यस्थेन तुशब्देन सूचितमाह – पूर्वपक्षं कृत्वेति । तत्प्रतिक्षेपोक्तिं दर्शयति — सिद्धमिति ; न्यायत उपासनं सिद्धमित्यर्थः । सिद्धम् ; सिद्धान्त इति वा । उपासनशब्दात् ; न हि सकृद्बुद्धावुपासनशब्दस्य प्रख्यातिरिति भावः । एतद्वाक्यं व्याचष्टे – वेदनामित्यादिना । दित्यनेन " वेदनमुपासनम् " इति वाक्यस्यापि शब्दप्रत्यभिज्ञया सिद्धान्तपरत्वं दर्शितं भवति । ध्यानस्य ध्रुवत्वं सूत्रानुक्तमपि न्यायसाम्यात्सूचितं प्राक् स्वेन विवृतम् । वाक्ये तु ध्यानादभिन्नस्योपासनस्यापि तदुक्तमुपादत्ते – उपासनमिति । दर्शनम् ; स्वारसिकी लोकदृष्टिः । निर्वचनम् ; निर्णायकतया प्रागुक्तं श्रुतिवाक्यम् । यद्वा दर्शनम् ; प्रत्यक्षश्रुतिः । निर्वचनम् ; निष्कृष्य वचनमुपबृंहणम् । तस्यैव ; 66


उपासनशब्दा- CC-0 No Rights Reserved. Digitized by eGangotri- १ – १ – १) मूलभावप्रकाशिका ३६३ मुक्तिसाधनतया विहितस्यैव, न तु परेष्टस्य मुक्तिसाधनहेतोरित्यर्थः । सकृदावृत्तावुपासेः प्रयोगाभावात् ‘उपासनरूपस्यासकृदावृत्तस्य’ इति वाक्यस्थोपासनशब्दविवक्षितत्वोक्तिः । ननु एतत्सर्वं प्रपञ्चितम् ’ इति पूर्वोक्तम् ; तत्र दर्शनरूपत्वं न दृष्टमित्यत्र तस्यानुक्तस्यापि तदुक्ताभ्यामावृत्तिरूपत्वभ्रुवत्वाभ्यां तुल्यन्यायत्वव्यक्त्यर्थमन्यविधानार्थं चानुभाषते — सेयमिति ; ध्यानत्वोपासनत्वाभ्यामसकृदावृत्ता वाक्यान्तरेणोक्तध्रुवत्वविशिष्टा चेत्यर्थः । प्रतिपादिता; दर्शनरूपत्वमपि वाक्यकारेणार्थादुक्तमिति भावः । यद्वा न्यायसाम्यादभिप्रेतमिदमस्माभिः प्रागुक्तमिति । ननु यद्यप्यन्यस्यान्यत्वं न विधातुं शक्यम् ; स्मृतिदर्शनयोश्च सामग्रीनियमात् विरुद्ध जातीययोरन्यत्रैक्यमसंभवि, तथापि संस्कारमात्रजन्ये स्वप्नज्ञानेऽदृष्टविशेषसहकारात्साक्षात्काररूपत्वमिवात्रापि चक्षुर्जन्यत्वासं- भवेऽपि तदविनाभूतप्रत्यक्षत्वेऽपि ध्रुवानुस्मृतेर्धीत्वमात्रसाम्यात् दर्शनशब्दोपचारः कथं न स्यादित्यत्राह – दर्शन रूपतेति । प्रत्यक्षतापत्तिः; न तु साक्षात्प्रत्यक्षत्वम्, असंभ- वात् । अयं भावः – स्वप्नधीरपि न तावन्मुख्यदर्शनम्, चक्षुर्व्यापाराभावात् ; किंतु तत्र बाह्यकरणवृत्तिनिरोधे सत्यनन्यसंचारिणा मनसा संस्कारपटिम्ना प्रागनुभूतेषु विशदस्मृ- तिराधीयते, तदतिरिक्तधीकल्पनेऽनन्यथासिद्ध हेत्वभावात् । तत्र चक्षुराद्यजन्येऽपि तज्ज- न्यत्वधीरसंसृष्टधीश्च दोषवशान्मानसम्रान्तिः । संध्याधिकरणानुरोधे तु संस्कारमात्र- जन्यत्वाभावादसंकीर्णं दर्शनत्वम् । अतो न स्वप्ननिदर्शनेन प्रस्तुते प्रत्यक्षत्वकॢप्तिः शक्या । धीत्वमात्रेण दर्शनसाम्यादुपचारश्च वाच्यासन्नतमस्तुत्यनुगुणविशेषसिद्धौ न युक्त इति । मूलभावप्रकाशिका निचाय्योति ; दृष्टेत्यर्थः ; 66 “ चाय पूजानिशामनयोः " इति हि धातुः । अनुविद्य विज्ञायेत्यनूद्येति ; अनुवादार्हत्वात् श्रवणमननात्मकं वाक्यार्थज्ञानं ’ विज्ञाय अनुविद्य’ इत्यनूद्य विधानार्हं निदिध्यासनमेव “ प्रज्ञां कुर्वीत 99 66 99 " विजानाति " इति विधीयते । “श्रुते मते विज्ञाते” “येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इत्यादौ विपूर्वस्य जानातेर्निदिध्यासने प्रसिद्धत्वाच्च ’ विजानाति’ इति निदिध्यासनमेव विधीयत इति भावः । श्रवणस्य प्राप्तत्वादिति ; अध्ययनविवेरक्षरग्रहणपर्यन्तत्वेन कर्मविचारे यथा रागत एव प्रवृत्तिः, तथा कर्मणामल्पास्थिरफलत्वप्रतीतो सत्यामनन्तस्थिर-

0 ३६४ श्रीभाष्यम् फलरागादेव ब्रह्मविचारस्य प्राप्तत्वादित्यर्थः । श्रवणविधिः किं न स्यादिति शङ्कयम्, (जिज्ञासाधिकरणम्) न च गुरुमुखानधीनविचारव्यावृत्त्यर्थं तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इति गुरूपसदनविधिनैव गुरुमुखानधीनविचारव्यावृत्तिसिद्धेः । न चैवमुपनयनविधिनैव लिखि – तपाठादिव्यावृत्तिसिद्धेरध्ययनविधिव्यैर्थः स्यादिति शङ्कयम्, अध्ययनविध्यभावे विधीयमा- नस्योपतयनस्याक्षरावाप्त्यर्थत्वेनाविधानात् गुरुमुखोच्चारणानूच्चारणासिद्धेः । प्रकृते तु . " तद्विज्ञानार्थम् " इति विज्ञानार्थत्वश्रवणादेव गुरुमुखाधीनविचारस्य द्वारत्वसिद्धेः भाषाप्रबन्धपुराणादिविचारव्यावृत्तेरपि कर्मकाण्डे कल्पसूत्रादिव्यावृत्तिवत् सिद्धेः श्रवणविधि- वैयर्थ्यमिति भावः । ध्यानमेव विधीयत इति ; ननु विषयानुकूल्यात् कामिनीध्यान– वद्भगवद्ध्यानमपि प्राप्तमेव ; न च ध्यानमात्रस्य प्राप्तत्वेऽपि सत्यकामत्वहिरण्यश्मश्रुत्वादि- गुणविशेषविशिष्टस्याप्रयाणमनुवर्तनीयस्य दर्शनाकारस्याप्राप्तत्वाद्ध्यानविधिरुपपद्यत इि वाच्यम्, तथा सति ध्यानानुवादेन तेषां गुणविधित्वप्रसङ्गेन ध्यानस्याविधेयत्वादिति चेत् — न; कामिनीवदत्यन्तानुकूलविषय एव ध्यानमाप्तेर्भगवतोऽत्यन्तानुकूलत्वस्य ध्याना- नन्तरभावित्वात् । अतो ध्यानं विधेयमिति भावः । ननु " ब्रह्मविदाप्नोति परम् ’ ब्रह्म वेद ब्रह्मैव भवति " तमेव विदित्वातिमृत्युमेति 66 66 99 19- " तमेवं विद्वानमृत इह भवति” इति वेदनमात्रं श्रूयते ; कथं ध्यानं विधीयत इत्याशङ्कय छागपशुन्यायेन वेद ध्याने विश्रान्तम् ; ध्यानं च ध्रुवस्मृतौ; सा च दृष्टित्वमभ्येति ; दृष्टिर्भक्तित्वमृच्छतीति प्रतिपादयति-वक्ष्यति चेत्यादिना । आवृत्तिरसकृत् " इति सूत्रार्थमाह- तदिदमिति । उपासनमित्यवगम्यत इति इदमुपलक्षणम् - ध्यानमित्यप्यवगम्यत इत्यपि द्रष्टव्यम् ’ तस्माद्ध्यानमेव विधीयते’ इति पूर्वं भाषितत्वात् ’ ध्यानं च तैलधारावदविच्छिन्नस्मृतिसंतानरूपम्’ इति भाषिष्यमाणत्वात् तन्मध्यपातिनोऽस्य भाष्यस्य ध्यानत्वसमर्थनार्थत्वावश्यंभावात् ; " आवृत्तिरसकृदुपदेशात् " इति सूत्रभाष्ये " निदि- ध्यासितव्यः " " निष्कलं ध्यायमानः” इत्यादिवाक्योदाहरणपूर्वकं वेदने ध्यानरूपत्व- स्यापि समर्थनाच्च । विद्युपास्योरिति ; " मनो ब्रह्म" इत्यत्रोपासिनोपक्रम्य विदिनोप- संहारस्य " न स वेद " यस्तद्वेद" इत्यनयोर्विदिनोपक्रम्योपासिनोपसंहारस्य च दर्शनादित्यर्थः : । वितरणविक्रमरूप हेतुभेदात् कीर्तियशसोर्भेदः । न स वेदेति ; " योऽत एकैकमुपास्ते न स वेद ; अकृत्स्रो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीत ; अत्र ह्येते 66

  • (१ – १ – १) 6 मूलभावप्रकाशिका ३६५ ; सर्व एकं भवति" इति वृहदारण्यकश्रुतिः । नामप्रपञ्चविषयत्वात् ब्रह्मण एकैकं विशेषणांश विशेष्यांश वा पृथक्सिद्धतया य उपास्ते न स वेद, एकैकोपासनमुपासनमेव न भवति ; कुत इत्यत्राह–अकृत्स्नो ह्येष इति ; एष विशिष्टः पदार्थ एकैकेन विशेषणांशेन विशेष्यांशेन वा अकृत्स्नः अपूर्णो भवति ; आत्मेत्येवोपासीत ; अतो नामरूपात्मकप्रपञ्च- शरीरकतयोपासीत ; अत्र ह्येते सर्व एकं भवति ; अत्र हि विशिष्टे पदार्थे सर्वे पदार्था अन्तर्भवन्तीत्यर्थः । यस्तद्वेदेति ; “यथा कृतायविजितायाधरेऽयाः संयन्त्येवमेनं सर्वं - तदभिसमेति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्तः " इति छान्दोग्यश्रुतिः । इदं च ‘यो नु कथं सयुग्वा रैक्कः ? " इति हंसेन रैक्वस्वरूपं पृष्टस्य हंसान्तरस्य प्रतिवचनम् । यथा लोके कृतनामायः द्यूतसमयप्रसिद्धः चतुरङ्कादिः, तत्र विजितं जयो यस्य स कृतायविजितः पुरुषः, अथवा विजितं विजयस्तस्मा इत्यर्थः । तदर्थमितरे त्रिद्वयेकाका अधरे अयाः संयन्ति संगच्छन्ते अन्तर्भवन्ति, चतुरङ्के कृताये एकाङ्क- द्वयङ्कयङ्कानां शतं सहसे संभवति’ इति न्यायेन विद्यमानत्वात् ते तत्रान्तर्भवन्ति चतुरङ्कविजयिन एकाङ्कादिविजयोऽप्यस्तीति भावः । एवमेव लोके प्रजा यच्छोभनं कर्मानु- तिष्ठन्ति तत्सर्वमेनं कृतायस्थानीयं रैक्कमभिसमेति संगच्छते ; तत्कर्मणि सकलं शोभनं कर्मान्तर्गतमिति यावत् । यस्तद्वेद यत्स वेद ; स रैको यद्वेद तदेवान्योपि यः कश्चिद्वेद ; तज्ज्ञातमेवान्ये जानन्ति तज्ज्ञाने सर्वज्ञानमन्तर्गतमित्यर्थः । स मयैतदुक्त इति ; तादृशो रैक्को मया ’ सयुग्वानमिव रैक्कमात्थ’ इत्येतेन वाक्येनोक्त इत्यर्थः । वक्ष्यति च भगवान् भाष्यकारोऽपशूद्राधिकरणे – " लोके यत्किंचित् साध्वनुष्ठितं कर्म यच्च सर्वचेतनगतं विज्ञानं तदुभयं यदीयज्ञानकर्मान्तर्गतं स रैक्व इत्याह " इति । अनु म इति ; हे भग- वन् यां देवतामुपास्से तां देवतां मे अनुशाधि उपदिशेत्यर्थः । विच्छिन्नाविच्छिन्नस्मृ- तिसंतानसाधारणस्य ध्यानशब्दस्याविच्छिन्नस्मृतिसंताने पर्यवसानं दर्शयति-ध्यानं चेति । ध्रुवा स्मृतिरिति ; " आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्व- ग्रन्थीनां विप्रमोक्षः” इति भूमविद्यावाक्यम् । सात्त्विकाहारेणान्तःकरणशुद्धिर्भवति ; शुद्धे चान्तःकरणेऽविच्छिन्नस्मृतिसंततिर्भवति ; तस्यां च सत्यां ग्रन्थिवद्दुर्मोचानां प्रकृति- संबन्धप्रयुक्तरागद्वेषादीनां नाशो भवति, मुक्तिर्भवतीति श्रुत्यर्थः । भिद्यत इति ; हृदयस्य मनसो ग्रन्थयो रागादयः । ’ मञ्चाः क्रोशन्ति’ इतिवत् हृदयशब्दः तत्स्थजीवपरः, B

0 0° ३६६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) हृत्स्थानमयतीति व्युत्पत्तेर्वा ; तस्य ग्रन्थिः प्रकृतिसंबन्धः ; हृदयशब्दोपलक्षितं शरीरं ग्रन्थिः; संशयशब्दो विपर्ययस्यापि प्रदर्शनार्थः ; देहात्माभिमानरूपाविद्येत्यर्थः । कर्माणि ; पुण्यपापरूपाणि । परावरे; परे ब्रह्मादयः यस्मादवरे अपकृष्टास्तस्मिन् सर्वोत्कृष्ट इति यावत् ; परावरात्मक इति वार्थः । दृष्टे ; दर्शनसमानाकारज्ञानविषयीकृत इत्यर्थः । ननु मुख्यस्यैव दर्शनस्य संभवात् दर्शनसमानाकारत्वं दृशेः कुतः समाश्रीयत इति चेत्, उच्यते –“ दृशिर् प्रेक्षणे दृशिर् प्रेक्षणे " इति दृशिधातोर्मुख्यार्थस्य चाक्षुषज्ञानस्य " न चक्षुषा


गृह्यते " इति चक्षुरग्राह्यत्वेन श्रुते परमात्मन्यसंभवेन चाक्षुषज्ञानसमानाकारार्थत्वस्यावश्या- श्रयणीयत्वात् । ननु " दर्शनरूपता च प्रत्यक्षतापत्तिः 19 इति दर्शनसमानाकारत्वस्य प्रत्यक्षत्वरूपताया अनुपदमेव भाष्ये वक्ष्यमाणत्वात् प्रत्यक्षत्वस्य च स्मृतावसंभवात् कथं सा स्मृतिर्दर्शनसमाना कारेत्युच्यत इति चेत्-न ; 66 ध्याननिर्मथनाभ्यासात् पाशं दहति पण्डितः " 66 66 स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः " 19 ध्यात्वा देवं मुच्यते सर्वपाशैः “यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत स सामभिरुन्नीयते ब्रह्मलोकम् " इत्यादिना ध्यानस्य मोक्षहेतुत्वप्रतिपादकवाक्यानां भूयस्त्वात् अल्पीयसां दर्शनस्य मोक्ष- हेतुत्वप्रतिपादकवाक्यानां भावनाप्रकर्षकृतवैशद्यातिशयेन दर्शनसमानाकारस्मृतिपरत्वमेव युक्तम्, भूयोऽनुग्रहन्यायात् । ’ प्रत्यक्षतापत्तिः’ इति भाष्यस्यापि वैशद्यापत्तिरित्येवार्थः । केचित्तु- तस्मिन् दृष्टे परावरे " " निचाय्य तं मृत्युमुखात् प्रमुच्यते " निचाय्येमं शान्तिमत्यन्तमेति ” इति मोक्षस्य दर्शनहेतुकत्वस्यापि बहुप्रमाणसिद्धत्वात्, द्रष्टव्यो निदिध्यासितव्यः” “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते सर्वमिदं विदितं भवति” इति दर्शनस्य श्रवणमननवद् भेदेन प्रतिपादनात् " ततस्तु तं पश्यते निष्कलं ध्यायमानः इति ध्यानदर्शनयोः साध्यसाधनभावश्रवणात्, जीवस्वरूप साक्षात्कारे तद्ध्यान हेतुत्वस्य


66 66 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || 66 इति गीतायां प्रतिपादितत्वात्, “ मनसैवानुद्रष्टव्यम् 99 99 66 " दृश्यते त्वय्यया बुद्धधा 29 " 66 य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते " इति विप्रतिपन्नयोगजब्रह्मसाक्षात्कारस्य दुरपह्नवत्वात् दर्शनसमानाकारध्यानस्य मोक्ष हेतुत्ववादेऽपि दर्शनसमानाकारत्वरहित- ध्यानस्य विधेयत्वसिद्धयर्थं विधिगतध्यानशब्दस्य दर्शनसमानाकारध्यानविश्रान्तत्वस्य १

( १ – १ – १ ) मूलभावप्रकाशिका ३६७ वक्तुमशक्यत्वाच्च दर्शनमेव विधीयते । न च - - - दर्शनसमानाकारध्यानमेव विधीयते, तद्धेतुभूतं दर्शनाकारं ध्यानं तु रागप्राप्तमिति शक्यं वक्तुम् ; अग्निहोत्राद्यङ्गकस्य गुणविशेषविशिष्टविषयकस्याप्राप्तत्वात् । न च . दर्शनसमानाकरध्यानमेव मोक्षसाधनं, तत्पूर्वभाव्य तदाकारध्यानं तु ततस्तु तं पश्यते निष्कलं ध्यायमानः " इति वाक्येन तदुद्देशेन विधीयत इति वाच्यम्; तर्हि तद्वाक्यस्वारस्यानुरोधेन दर्शन एव ध्यानस्य हेतुत्वमस्तु, किं गौणदर्शनाश्रयणेन ? न च " स्मृतिलम्भे " इति स्मृतिर्दर्शन व्यवधानं न सहते; तस्माद्ध्यानस्याव्यवहितहेतुत्वं वक्तव्यमिति वाच्यम्, तर्हि अत एव दर्शनशब्द- स्यापि तत्रैव विश्रमोऽस्त्विति वाचालवचसोऽप्यवकाशप्रसङ्गात् । सम् । 99 ध्यानसाध्यसाक्षा- त्कारध्यानस्य तु " ततस्तु तं पश्यते निष्कलं ध्यायमानः इत्यादिप्रमाणानुसारात् तद्वारा हेतुत्वम् । अत एव “दर्शनरूपता च प्रत्यक्षतापत्तिः” इति भाष्यमपि स्वर- न च प्रत्यक्षरूपत्वे दर्शनत्वस्यैव संभवात् दर्शनसमानाकारेति भाष्यं कथमुप- पद्यतामिति शङ्क्यम्, दर्शनशब्दस्य चाक्षुषज्ञानप्रसिद्धिमभिप्रेत्य तदुक्त्युपपत्तेः । तथापि स्मृतेर्दर्शनसमानाकारत्वप्रतिपादकानेकभाष्यविरोध इति चेत्-न; मृद्रद्रव्यस्य पिण्ड - त्वावस्थाप्रहाणेन घटत्व प्राप्तावपि मृत्पिण्डस्य घटत्वापत्तिरिति व्यवहारवत् स्मृतित्वावस्था- प्रहाणेन ज्ञानद्रव्यस्य दर्शनसमानाकारत्वलक्षणप्रत्यक्षावस्थाप्राप्तावपि स्मृतेः प्रत्यक्षताप- त्तिरिति व्यवहारे दोषाभावात् ; सिद्धान्ते ज्ञानद्रव्यगतत्वात् स्मृतित्वप्रत्यक्षयोरिति न कस्यापि भाष्यस्य विरोध इति वदन्ति । ननु " द्रष्टव्यो निदिध्यासितव्यः " इति पृथङ निर्दिष्टयोर्ध्यानदर्शनयोः " न वायुक्रिये पृथगुपदेशात्” इति न्यायेन भेदो वक्तव्य इत्याशङ्क्याह – एवं च सतीति । " स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः" इति स्मृतेरपवर्गाव्यवहितोपायत्वप्रदर्शकवाक्यानुसारेण " क्षोयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ” इत्यपवर्गाव्यवहितोपायत्वप्रतिपादकवाक्यस्थितस्य ’ दृष्टे’ इत्यस्य दर्शनसमाना- कारार्थत्वनिर्णये सति तेनैव न्यायेन ‘द्रष्टव्यः’ इत्यस्यापि दर्शनसमानाकारत्वमेवार्थः । पृथगा - ख्यातयुक्ताभ्याम् " आर्षेयं वृणीते, त्रीन् वृणिते " इत्याभ्यां त्रित्वविशिष्टोर्षयवरण- विधानवत् पृथक् तव्यप्रत्यययुक्ताभ्यां " द्रष्टव्यो निदिध्यासितव्यः " इत्याभ्यां दर्शन- समानाकारत्वविशिष्टध्यानविधानानुपपत्त्यभावात् । केषांचित्पक्षे तु ध्यानस्य दर्शनरूपता प्रत्यक्षतेत्यर्थः । ’ घटं कुर्यात् ’ इत्यनेन मृत्पिण्डस्य घटता विधीयत इतिवदयं निर्देशः । CC-0 No Rights Reserved. Digitized by eGangotri३६८ श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) स्मृतेः कथं दर्शनरूपत्वमित्याशङ्क्याह – भवति चेति । दर्शनरूपतेति ; वैश- द्यमित्यर्थः । नष्टवनिताध्याने भावनाप्रकर्षात् वैशद्यदर्शनादिति भावः । " वेदनमु- पासनं स्यात्तद्विषये श्रवणात् ” “ सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात्प्रयाजादिवत् ” " 6 " " सिद्धं तूपासनशब्दात् “ उपासनं स्याद्धुवानुस्मृतिर्दर्शनान्निर्वचनाच्च ” इति वाक्य- चतुष्टयैन वाक्यकृतायमर्थः समर्थित इत्याह– वाक्यकारेणेति । इत्युक्तमिति ; प्रथमवाक्येन प्रतिज्ञातमित्यर्थः । तद्विषये श्रवणात्’ इति वाक्यखण्डस्य “मनो ब्रह्मेत्युपासीत ” इति श्रुत उपासनाविषये " य एवं वेद ” इति विदिधातुश्रवणा- दित्यर्थः । प्रथमवाक्येन सिद्धान्तः प्रदर्शित इति भावः । प्रयाजादिविधिवत् " ब्रह्म- वेद ब्रह्मैव भवति ” इति वेदनविधेरपि सकृदनुष्ठानेन चारितार्थ्यात् " क्वचिदुपासने विधि- शब्दः प्रयुक्त इत्येतावता सर्वत्र विदेरुपासनार्थत्वे प्रमाणाभावात् सकृदेव ब्रह्म ज्ञातव्यमिति द्वितीयवाक्येन पूर्वपक्षं कृत्वा वेदमात्रस्य मोक्षहेतुत्वे गुरुतरोपासन विधेरननुष्ठानलक्षणा- प्रामाण्यप्रसङ्गात् ’ वेदनमुपासनं सिद्धम्’ इति तृतीयवाक्येन प्रतिपाद्य तच्चोपासनं ध्रुवस्मृतिरूपमेव, लोक उपासनस्य ध्रुवस्मृतित्वदर्शनात् " सत्त्वशुद्धौ ध्रुवा स्मृतिः इति निर्वचन शब्दितात् श्रुतिवाक्याच्चेति चतुर्थवाक्येनोपासनस्य ध्रुवस्मृतित्वं च वर्णित - मित्याह — सकृत्प्रत्ययमित्यादिना श्रुवानुस्मृतित्वमुपवर्णितमिस्यन्तेन । ननु वाक्य- कारेण ध्रुवानुस्मृतिविश्रान्तिमात्रं प्रदर्शितम्, न तु दर्शनसमानाकारविश्रान्तिरित्याशङ्क्य न्यायसाम्यात्तदपि प्रतिपादितमेवेत्याह- सेयं स्मृतिरिति । प्रतिपादितेति ; अर्था- दिति शेषः । प्रत्यक्षतापत्तिरिति ; प्रत्यक्षसमानाकारतापत्तिरित्यर्थः । केषांचित्पक्षे तु मुख्य एवार्थः । श्रीभाष्यम् एवं प्रत्यक्षतापन्नामपवर्गसाधनभूतां स्मृतिं विशिनष्टि — 66 39 नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥” इति । अनेन केवलश्रवणमनननिदिध्यासनानामात्मप्राप्त्य- नुपायत्वमुक्त्वा ‘यमेवैष आत्मा वृणुते तेनैव लभ्यः’ इत्युक्तम् ।

(१ – १ – १) श्रीभाप्यम् ३६९ प्रियतम एव हि वरणीयो भवति । यस्यायं निरतिशयप्रियः स एवास्य प्रियतमो भवति । यथायं प्रियतम आत्मानं प्राप्नोति तथा स्वयमेव भगवान् प्रयतत इति भगवतैवोक्तम्- " तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । , ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ " इति ; " प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” इति च । अतः साक्षात्काररूपा स्मृतिः स्मर्यमाणात्यर्थप्रियत्वेन स्वयम- प्यत्यर्थप्रिया यस्य स एव परेणात्मना वरणोयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति । एवंरूपा ध्रुवानुस्मृतिरेव भक्ति- शब्देनाभिधीयते, उपासनपर्यायत्वाद्भक्तिशब्दस्य । अत एव श्रुति- स्मृतिभिरेवमभिधीयते –“ तमेव विदित्वातिमृत्युमेति " " तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते " 66 66 नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ॥ ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप । 59 पुरुष: स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ॥ "" इति । एवंरूपाया ध्रुवानुस्मृतेः साधनानि यज्ञादीनि कर्माणीति 66 । यज्ञादिश्रुतेरश्ववत्" इत्यभिधास्यते । यद्यपि “ यद्यपि " विविदिषन्ति " इति यज्ञादयो विविदिषोत्पत्तौ विनियुज्यन्ते, तथापि तस्यैव वेदनस्य ध्यानरूपस्याहरहरनुष्ठीयमानस्याभ्यासाधेयातिशयस्याप्रयाणादनुवर्तमा– 47

0° 0 ३७० यानि ; श्रीभाष्यम् (जिज्ञासाधिकरणम्) "" नस्य ब्रह्मप्राप्तिसाधनत्वात्तदुत्पत्तये सर्वाण्याश्रमकर्माणि यावज्जीवमनुष्ठे – वक्ष्यति च " आप्रयाणात्तत्रापि हि दृष्टम् " अग्नि– होत्रादि तु तत्कार्यायैव तद्दर्शनात्" “सहकारित्वेन च” इत्यादिषु । वाक्यकारश्च ध्रुवानुस्मृतेर्विवेकादिभ्य एव निष्पत्तिमाह — " तलब्धि- विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यः संभवान्निर्वचना- च्च " इति । विवेकादीनां स्वरूपं दुष्टादन्नात्कायशुद्धिर्विवेकः" इति । शुद्ध सत्त्वशुद्धिः सत्त्वशुद्ध ध्रुवा कामानभिष्वङ्गः” इति । 966 66 चाह — " चाह - " जात्याश्रयनिमित्ता- अत्र निर्वचनम् - - " आहार- स्मृतिः” इति । शान्त उपासीत " आरम्बणसंशीलनं पुनः पुनरभ्यासः " इति । 66 " विमोकः - इति निर्वचनम् । निर्वचनं च स्मार्त मुदाहृतं भाष्यकारेण - " सदा तद्भावभावितः " इति । 66 पञ्च- महायज्ञाद्यनुष्ठानं शक्तितः क्रिया" इति । निर्वचनम् - “क्रियावानेष ब्रह्मविदां वरिष्ठः " " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन " इति च । सत्यार्जवदद्यादानाहिंसानभि- ध्याः कल्याणानि " इति । निर्वचनम् - " सत्येन लभ्यः " " तेषामे- دو 66 9. • आरम्भण’ इति क्वचित्पाठः । ’ आरम्बण’ इत्येव बहुषु प्राचीनतालपत्र कोशेषु. पाठो दृश्यते । " रबिलबि " इति लबिसमानार्थी रबिरपि धातुपाठे पठ्यते । तत एव 66 आरम्बण- मालम्बनम् ” इति प्रसिद्धपदेन व्याख्यासु विवरणं क्रियते । आलम्बनपदं च विभावभेदे नायकादौ आलंकारिकसमयप्रसिद्धम् । प्रायिकं रलयोरभेदमाश्रित्य आरम्बणमालम्बनमिति द्विधा प्रयोग उपपद्यते । आरम्भणपदस्यालम्बनपदेन विवरणं तु नातीव चारु । २. भाष्यकारोऽत्र द्रमिडाचार्य इति व्याख्यातारः । ब्रह्मनन्दिकृतानां छान्दोग्योपनिषद्वाक्यानां भाष्यं द्रमिडाचार्यकृतमिति मीमांसापादुकापरित्राणे श्रीवरदनाथपादाः |

4 ( १ – १ – १ ) श्रीभाष्यम् “वैष विरजो ब्रह्मलोकः” इत्यादि । 66 66 ३७१ देशकालवैगुण्याच्छोकवस्त्वा- द्यनुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः " इति । तद्वि- पर्ययो ऽनवसादः । निर्वचनम् - " नायमात्मा बलहीनेन लभ्यः " तद्विपर्ययजा तुष्टिरुद्धर्षः " इति । तद्विपर्ययोऽनुद्वर्ष: । अतिसंतोषश्च विरोधीत्यर्थः । निर्वचनमपि “शान्तो दान्तः” इति । एवं नियमयुक्तस्याश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति । इति । तथा च श्रुत्यन्तरम् — इति । । " विद्यां चाविद्यां च यस्तोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ " अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अवि- द्यया; कर्मणा । मृत्युम् ; ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म । तीर्त्वा ; अपोह्य । विद्यया ; ज्ञानेन । अमृतम् ; ब्रह्म । अश्नुते : प्राप्नोती- त्यर्थः । मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरद्विहितं कर्मैव । यथोक्तम् — 66 इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥ " इति । ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानो- त्पत्तिनिरोधित्वेनानिष्टफलतयोभयोरपि पापशब्दाभिधेयत्वम् । अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वविरोधिरजस्तमोविवृद्धि- द्वारेण । पापस्य च ज्ञानोदयविरोधित्वम् — “ एष एवासाधु कर्म कारयति तं यमधो निनीषति ” इति श्रुत्यावगम्यते । रजस्तमसो-

0° ३७२ श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) यथार्थज्ञानावरणत्वं सत्त्वस्य च यथार्थज्ञानहेतुत्वं भगवतैव प्रतिपादि- तम् — “ सत्त्वात्संजायते ज्ञानम्” इत्यादिना । 66 अतश्च ज्ञानोत्प- त्तये पापं कर्म निरसनीयम् । तन्निरसनं चानभिसंहितफलेनानुष्ठि- तेन धर्मेण । तथा च श्रुतिः - " धर्मेण पापमपनुदति " इति । तदेवं ब्रह्मप्राप्तिसाधनं ज्ञानं सर्वाश्रमकर्मापेक्षम् । आतोऽपेक्षितकर्म- स्वरूपज्ञानं केवलकर्मणामल्पास्थिरफलत्वज्ञानं च कर्ममीमांसावसेयमिति सैवापेक्षिता ब्रह्मजिज्ञासायाः पूर्ववृत्ता वक्तव्या । श्रुतप्रकाशिका सूत्रकारवाक्यकारयोः कतिपयविशेषं वदतोः सति विशेषान्तरोपस्थापके तत्पर्य - वसायित्वस्याभिप्रेतत्वात् श्रुत्यन्तरसिद्धं विशेषान्तरमस्तीत्याह - एवमिति । अनेन श्रव – णादीनां मुक्त्युपायत्वनिषेधान्नोपासनस्य मोक्षोपायत्वमिति शङ्काव्युदासश्च भवति । • यथा 66 एवम् ; उक्तेन प्रकारेण ; सामान्यविशेषन्यायेन प्रत्यक्षतापन्नामित्यर्थः । अपवर्गसाधन- भूतामिति प्रतीकोपासनव्यवच्छेदः । नायमात्मेति ; प्रवचनशब्देन मननं लक्षयति, मननफलत्वात् प्रवचनस्य, मननस्याचार्यप्रवचनफलत्वाद्वा; प्रोच्यतेऽनेनेति करणव्युत्पत्त्या वा प्रवचनं मननम् । मेधा निदिध्यासनम् ; परिशेषात् । अस्मिन् वाक्ये श्रवणादीना- मनुपायत्वं प्रतीतम् ; ध्रुवानुस्मृतिविशेषणत्वेन न किंचित्प्रतिपन्नम् ; अतस्तद्याचष्टे अनेनेति । केवलश्रवणमनननिदिध्यासनानाम् ; वक्ष्यमाणविशेषरहितानामित्यर्थः न पृथिव्यामग्निश्चेतव्यः” इत्यत्र हिरण्योपधानरहितपृथिव्यां चयनं निषिध्यते न तु पृथिवीमात्रे, तद्वदिति भावः । विवक्षितं विशेषं वाक्यतात्पर्यनिरूपणेन दर्शयि – ष्यन् वाक्यस्यार्थान्वयं दर्शयति – यमेवैप आत्मा वृणुते तेनैव लभ्य इत्युक्तमिति । वरणीयेन लभ्योऽस्तु ; ततः कथं ध्रुवानुस्मृतेर्विशेषितत्वमिति शङ्कायां तद्दर्शयितुं लोक- सिद्धप्रतीतिमाह – प्रियतम एव हीति । प्रीतिविषयमात्रस्य न वरणीयत्वम्, किंतु स्वयमुपस्थितस्य स्वीकार एव ; अतस्तद्व्यावृत्त्यर्थं प्रियतम इत्युक्तम् । ततः किमित्य- त्राह – यस्येति ; यस्योपासकस्यायं परमात्मा निरतिशयप्रीतिविषयः, स एवास्य परमा- त्मनो निरतिशयप्रीतिविषयो भवति । चेतनत्वे सति भगवता वरणीयत्वं भगवति निर- CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) 99 श्रुतप्रकाशिका ० ३७३ तिशयप्रीतिमत एव भवति । यद्वा स्वतः प्रियत्वं वरणीयत्वं च स्वस्मिन् प्रीतिमत एव । पुण्यक्षेत्रादिषु भगवतः प्रीतिः स्वस्मिन् प्रीतिमत्पुरुषवरणार्था; पत्रपुष्पफलादिषु तत्संबन्धनिबन्धना । स एवेति ; एवकारेण केवलश्रवणादिमध्यावृत्तिः । भगवति प्रीतिमत एव भगवत्प्रीतिविषयत्वमिति कथमिदमवगम्यत इत्यपेक्षायामंत्र प्रमाणतया स्मृति- वचनमर्थोपन्यासपूर्वकं दर्शयन् वरणप्रकारमपि विवृणोति – यथेति । अयम् ; भगवति निरतिशयप्रीतिमान् । प्रियतमः ; निरतिशयभगवत्प्रीतिविषयो भवन्नित्यर्थः । " ददामि बुद्धियोगं तम् इत्यस्यार्थविवक्षया स्वयमेव भगवान् प्रयतते इत्युक्तम् । अनेन वरणप्रकारो दर्शितः । भगवतैवोक्तमिति; एवकारेण भगवदाप्त्यतिशयः सूचितः । सततयुक्तानाम् ; सबतयोग काङ्क्षमाणानाम् ; “आशंसायां भूतवच्च" इति कर्तरि क्तः । प्रीतिपूर्वकं ददामीत्यन्वयः ’ ; अनेन परस्परविषयप्रीतिरुपास्योपासकयोर्दर्शिता । सतत- युक्तशब्दार्थस्फुटीकरणायाह – प्रियो हीति । अत्यर्थम् ; अतिक्रान्ताभिधेयम् प्रिय- त्वं वाचामगोचरमित्यर्थः । ’ ध्रुवानुस्मृतिं विशिनष्टि’ इति हि पूर्वमुक्तम् ; अत्र यो भगवति प्रीतिमान् भवति, तस्मिन्नुपास के भगवतः प्रीतिमत्त्वमुक्तम् ; तत्कथं ध्रुवानुस्मृते- विंशेषितत्वमित्यत आह–अत इति । अतः ; उक्तार्थस्य लोकस्मृतिभ्यां सिद्धत्वादि- त्यर्थः । यद्वा ध्रुवानुस्मृतिवचनात् वरणीयत्ववचनात् वरणीयस्य च भगवति निरतिशय- प्रीतिमत्त्ववचनाच्चेत्यर्थः । साक्षात्काररूपा स्मृतिरिति ; अनेन पूर्वोक्ताकारविशिष्टाया एव विशेषान्तरमिति दर्शितम् । स्मर्यमाणात्यर्थमियत्वेन स्वयमप्यत्यर्थप्रयेति ; " “अर्थेनैव विशेषो हि निराकारतया धियाम् " इति भावः । स्वयमप्यत्यर्थ प्रिया; 9 ; १. सततयुक्तानामिति सततयोगा शंसयैव भजने प्रीतिरूपत्वस्य फलितत्वात् प्रीतिपूर्वक- मित्यस्य भजतामित्यनेनान्वये कृतकरत्वं मा प्रसाङ्क्षीदिति ददामीत्यनेनान्वयो वर्णितः । अनेन भजनावान्तरव्यापारकथनं परमोदारत्वादिभगवद्गुणप्रकाशनं च महत् प्रयोजनं सिध्यति । २. अत्रेदमवधेयम् - भगवद्विषयक स्मृतिसंततावाकारद्वयमस्ति; शेषित्वस्वामित्वादिनात्यर्थ- प्रियभगवद्विषयस्मरणरूपत्वं स्वाश्रयायात्यन्तानुकूलत्वलक्षणमानन्दत्वं चेति । तत्र स्वानुभवादि- पराणामानन्दत्वेन रूपेणैव भगवच्चिन्तनमत्यर्थप्रियं भवति - यथा सुषुप्तेर्ब्रह्मसंपत्तिरूपत्वेऽप्या- त्मानुकूलत्वरूपेणैव प्रियत्वम् । ज्ञानिनां तु भगवदत्यर्थप्रिय भगवत्स्वरूपविषयत्वेनैव प्रियं भवति । स्वानुकूल्यलक्षणमानन्दत्वं तु आनुषङ्गिकमेव । तथा च स्मर्यमाणात्यर्थ प्रिय भाष्ये अभेदे प्रयोज्य प्रयोजकभावे वा तृतीया । तत्र भगवतः प्रियत्वं स्रक्चन्दनादीनामित्र

0 ३७४ श्रीभाष्यम् ; (जिज्ञासाधिकरणम्) अत अनुभूयमानोऽनुभवः’ इतिवदयं निर्देश औपचारिकः अत्यर्थप्रीतिरूपेत्यर्थः । यद्वा अत्यर्थप्रिया ; अत्यर्थानुकूलस्वरूपा ; स्मर्यमाणस्य भगवद्विषयस्य निरुपाधिकनिरवधि- कानुकूलत्वेन तद्विषयत्वात् स्मृतिरपि हि निरतिशयानुकूला भवति । यद्वा ध्रुवानुस्मृतिः स्वयमत्यन्तानुकूलत्वादयुक्तावस्थायामपि प्रीतिरूपज्ञानेन प्रतिसंधीयत इति प्रिया । एव हि “ या प्रीतिरविवेकानाम् " इत्यादिना सा प्रार्थ्यते । प्रीतिरूपध्रुवानुस्मृतेरपव- र्गोपायत्वमुक्तम् ; अन्यत्र भक्तेरुपायत्वं दृश्यते ; कथमनयोरैकार्थ्यम् ? इत्यत्राह - एवंरूपोत । यद्वा ’ शेमुषी भक्तिरूपा’ इति भक्तिरूपज्ञानस्योपायत्वं प्रागुक्तम् ; कथ- मिदानीं प्रीतिरूपध्रुवानुस्मृतेरुपायत्वं प्रतिपाद्यते ? इत्यत्राह – एवंरूपेति । एवंरूपा ; प्रीतिरूपज्ञानविषयत्वम् । स्मृतेः प्रियत्वं नाम प्रीतिरूपत्वं प्रियविषयकत्वं प्रीतिरूपज्ञानान्तर- विषयत्वं वा । तत्र विषय आनन्दः प्रीतिश्चेति त्रयमप्यनुकूलमेव । तत्र विषयः स्रकूचन्द- नादिः । आनन्दः स्वक्चन्दनादिस्तदनुभवश्च " तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ; स एको मानुष आनन्दः " इति भोगोपकरणानामप्यानन्दत्वश्रुतेः । प्रीतिः सुखरूपं ज्ञानम् । अत्र विषयत्वलक्षणमनुकूलत्वमानन्दत्वलक्षणमनुकूलत्वं च स्मर्यमाणपरमात्मतत्स्मृत्युभयसाधारणे । प्रीतित्वलक्षणमनुकूलत्वं तु स्मरणमात्रासाधारणम् । तत्र प्रीतिसामान्यस्य प्रियवस्तुविषयकत्वं प्रीति- स्वस्य विषयगतप्रियत्वप्रयोज्यत्वं च सर्वलोकप्रसिद्धमेवेति नात्र तद्वचने किंचित्प्रयोजनमस्ति । अतोऽभक्षादिवत् स्मर्यमाणात्यर्थप्रियत्वेनैव स्वयमप्यत्यर्थ प्रियेत्यवधारणं विवक्षितम् । एतेन स्वात्मसंतोषकारिणां स्वार्थानुभवादिपराणां भावनात्रयान्वितानां स्मृतिसंततिर्न वरणीयताप्रयोजिकेति न तेषां परमात्मलाभ इति सिद्धम् । एतत्सर्वमभिप्रेत्य प्रकृतभाष्यं चतुर्धा योजितं श्रतप्रकाशि- कायाम् — अर्थेनैवेत्यादिना । इति भाव इति ; स्मर्यमाणात्यर्थ प्रियत्वेनेत्यभेदे तृतीयां प्रयुञ्जा- नस्य भाष्यकृतो भाव इत्यर्थ: । ‘घट इत्याकारकं ज्ञानम्’ इत्यादिज्ञानाकाराभिलापदर्शनेन विषयाकार एव ज्ञानस्याप्याकार इति स्मर्यमाणभगवत्स्वरूपरूपगुणविभूतिगतमत्यर्थप्रियत्वमेव स्मृतिसंतानस्याप्याकार इति स्वयमप्यत्यर्थप्रियेति निर्दिश्यत इति भावः । अथ स्मृतिसंतानस्यात्यर्थप्रियत्वं नात्मात्मीयविषयकत्वप्रयोज्यं, किंतु भगवत्स्वरूपरूपगुण- विभूतिविषयकत्वप्रयोज्यमिति दर्शयितुं द्वितीययोजनामाह - अनुभूयमानोऽनुभव इतिवदिति । पूर्वयोजनायां विषयगताकारस्य विषयिणि ज्ञाने स्वाश्रयघटितपरंपरासंसर्गेण निर्वाहः कृतः । अत्र तु परंपरासंसर्गं परित्यज्य निरुह्यते । यथा सिद्धान्ते स्वयंप्रकाशस्यानुभवस्यानुभवान्तर- विषयत्वतात्पर्यमन्तरेणैव स्वात्मसाक्षिकत्वद्योतनाथं स्वतोग्राह्यत्वतात्पर्येणोपचारादनुभूयमानत्वं व्यपदिश्यते, तथैव प्रियशब्दस्य प्रीतिविषयेष्वर्थेष्वेव मुख्यत्वेऽपि प्रीतेः स्वात्मसाक्षिकत्वज्ञापनार्थ स्वतवतात्पर्येण प्रीतावेवोपचारात् प्रियत्वनिर्देश इति भावः ।

0 (१–१–१) श्रुतप्रकाशिका ३७५ साक्षात्कारप्रीतिरूपत्वपर्यन्ता ध्रुवानुस्मृतिरेव भक्तिशब्दवाच्येत्यर्थः । कुत इत्यत्राह- उपासनपर्यायत्वादिति ; उपासनादिशब्दस्य चैकार्थवृत्तित्वं विवक्षितम्, न तु घटकुम्भ- सेवा भक्तिरुपास्तिः ” इति नैघण्टुको- शब्दयोरिव पर्यायत्वम् । एकार्थवृत्तित्वं च 66 तेरवगम्यते । 66 स्नेहपूर्वमनुध्यानं भत्तिरित्यभिधीयते । भज इत्येष धातुर्वै सेवानां परिकीर्तितः ॥ तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी । 99 इत्यादि चानुसंधेयम् । यद्यपि साक्षात्काररूपत्वभक्तिरूपत्वादिपराणां वाक्यानां विद्या- विशेषविषयप्रकरणप्रगृहीतत्वेऽपि सर्वोपासनसाधारणत्वं लघुगुरुयत्नविकल्पानुपपत्तेः प्राप्तं, तथापि प्रपदने तु लघुगुरुयत्नविकल्पानुपपत्तिरूपन्यायो वचनबलप्रतिक्षिप्तः; न हि वचन- विरोधे न्यायः प्रभवति ; वचनविरोधाभावादुपासनेषु तस्य प्रवृत्तिः । वेदान्तेषूपासन- पराणां वाक्यानामैकार्थ्यसिद्ध्यर्थं भक्तिदशापन्नोपासनस्यैवापवर्गोपायवेदनत्वमुक्तम् ; स्मृति- वचनप्रदर्शनं च श्रुत्यर्थवैशद्याय कृतम् ; इदानीं तु श्रुतिस्मृत्योरैकार्थेन मुक्तत्युपायवेदनस्य भक्तिरूपोपासनत्वमुपपाद्यते - अत एवेति । रूपोपासनत्वादेवेत्यर्थः । “ तमेव विदित्वा " अत एव ; अपवर्गोपायवेदनस्य भक्ति- इति वाक्यं श्वेताश्वतरोपनिषदि श्रूयते ; एवं भाष्यगतात्यर्थ प्रियेतिपदद्वयस्यापि स्मर्यमाणविषयगतात्यर्थप्रियत्वपरतयैव प्रथमयो- जना । द्वितीयात्यर्थमियशब्दस्यौपचारिकार्थान्तरपरतया द्वितीययोजना कृता । पदयोरेकयैव मुख्यवृत्त्या तृतीययोजनामाह - यद्वा अत्यर्थप्रिया अत्यर्थनुकूलेति । अथोभयोः अयं भावः- “ प्रियो हृद्येऽन्यवत्पुंसि वृद्धिनामौषधे धवे " इति कोशबलात् प्रियशब्दस्यानुकुलत्वं प्रवृत्तिनिमित्त- मादाय हृद्यसामान्ये रूढिरिति । अथानुकुलत्वशक्तेः प्रीत्येक निरूपणीयत्वात् यया प्रीत्या शक्तिर्निरूप्यते तादृशप्रीतिविषयक- त्वस्यैव निमित्तत्वे शीघ्रोपस्थितिः स्यादिति तुरीयां योजनामाह – यद्वा धवानुस्मृतिरित्यादि । अस्यां योजनायां प्रियशब्दः प्रीतिविषय एव वर्तते । न च प्रीतिरूपाया: स्मृतेः प्रीतिविषयत्वा- नुपपत्तिः, तस्याः प्रीतिरूपस्मृतेर्वर्तमानदशायां स्वतो भासमानत्वेऽपि अतीतानागतदशयोर्ज्ञाना- न्तरग्राह्यत्वसंभवात् । ग्राहकज्ञानान्तरस्यापि ग्राह्यगतानुकूलत्वशक्त्या प्रीतिरूपत्वापत्तिसंभ- वात् ध्रवानुस्मृतेरत्यर्थप्रियाया अत्यर्थप्रीतिरूपज्ञानान्तरग्राह्यत्व लक्षणमत्यर्थप्रियत्वं नानुपपन्नमिति भावः ।

0 ३७६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 99 ८८ तत्र " तस्मात्सर्वगतः शिवः” इति शिवशब्दग्रहणात् शिवस्य परमात्मविषयत्वभ्रमः कस्यचिन्मन्दधियः स्यादिति तन्निवृत्त्यर्थं " वेदाहमेतं पुरुषं महान्तम् महान् प्रभुर्ते पुरुषः सत्त्वस्यैष प्रवर्तकः” इत्युपक्रमोपसंहारयोरवगतपरमपुरुषपरैव सोपनिषदिति पुरुष- सूक्तैकार्थ्यं दर्शयितुं तमेवं विद्वानिति वाक्यमुपात्तम् । " तमेवं विद्वान् " इति वाक्येन “ नान्यः पन्थाः" इति परमपुरुषवेदनव्यतिरिक्तोपायनिषेधः कृतः ; " नाहं वेदैः” इत्यादिना तद्भक्तिव्यतिरिक्तोपायनिषेध उक्तः । उभयोरप्युपबृंहणोपबृंहणीयवच- नयोः प्रमाणतमत्वेन सर्वाविगीतयोरैकार्थ्यं वेदनादिशब्दानां भक्तिपर्यन्तत्वे सिध्यतीति भावः । उपायान्तरनिषेधकण्ठोत्त्या भक्तेरेव ज्ञानदर्शनप्राप्तिसाधनत्व कण्ठोत्तया च " नाहं वेदैः " इति वचनमुपात्तम् । ननु " भक्त्या मामभिजानाति " " ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्" इति भक्तिजन्यज्ञानस्यैवाव्यवहितोपायत्वमवगम्यते, न तु भक्तेरिति शङ्का च " नाहं वेदैः " इत्यनेन परिहृता भवति ; अत्र ज्ञानदर्शनयो- रिव प्राप्तेरपि भक्तिसाध्यत्वावगमात् ; ’ भक्त्या प्रवेष्टुं च शक्यः C , इति ह्यन्वयः । " तदनन्तरम् ” इत्यनेन " भक्त्या माम् " इति वचनेऽपि " ततो मां विशते ” इति तच्छब्दपरामृष्टाया भक्ते- रेव प्राप्त्युपायत्वमवगम्यते ; " ततः " इति भक्तिपरामर्शाभावे पौनरुक्तयप्रसङ्गात् । ततश्च भक्तिरेवाव्यवहितोपायः । पुरुषः स परः पार्थ " इत्यत्र च " भक्त्या लभ्यः " इति भक्तेः प्राप्तिसाधनत्वं स्वरसतोऽवगम्यते । । अनेन पुरुषशब्दप्रत्यभिज्ञापितपुरुषसूक्तप्रतिपाद्यवस्त्वैक्यवत् तत्प्रतिपाद्योपायैक्यं न्याय्यमिति सूचितम् । अस्त्वेवं वेदनस्य भक्तिरूपोपासनत्वसिद्धिः ; ततः प्रकृतस्य कर्मापेक्षित - त्वस्य किमायातमित्यत्राह - एवमिति । एवंरूपायाः ; आपरोक्ष्यप्रीतिरूपत्वविशेषण- विशिष्टायाः ; वाक्यकारसूत्र काराभ्यामभिप्रेताः कण्ठोक्ताश्च मोक्षोपायज्ञानावस्थाविशेषाः कर्मसाध्या इति भावः । ध्रुवानुस्मृतेः साधनानीति ; यथा “ आसिना जिघांसति इत्यत्रासेर्हननसाधनत्वं न त्विच्छासाधनत्वं, तथा " यज्ञेन विविदिषन्ति” इत्यत्रापि विद्यासाधनत्वमेवोक्तं न तु तदिच्छासाधनत्वम्, यज्ञादेर्वेद नेच्छासाधनत्वेन विनियोगा- योगादिति भावः । तथाहि – सर्वेषां पुरुषाणामवान्तरसाध्योपाये प्रवृत्तिः परमसाध्येच्छया विना नोपपद्यते; यथा यागाद्युपायभूतद्रव्यार्जनादौ प्रवृत्तिर्यागादिसाध्या पूर्वादिविषयेच्छया विना नोपपद्यते, तथेच्छा सिद्धयर्थमनुष्ठानमिच्छा संपाद्यवेदनेच्छया विना नोपपद्यते । अतो


99

( १ – १ – १ ) श्रुतप्रकाशिका ३७७ वेदनेच्छायां जातायां वेदनोपायभूतेच्छासिद्ध्यर्थानुष्ठानम् ; तस्यां जातायां च तदर्थमनुष्ठान- मनपेक्षितमिति तदनुष्ठानविधिवैयर्थ्यं स्यात् । किंच स्वसिद्धयपेक्षा स्वसिद्धिरित्यात्माश्रयः ; वेदनेच्छया इच्छासिद्धयर्थकर्मनुष्ठानम्, इच्छासिद्ध्यर्थकर्मानुष्ठानाद्वेदनेच्छासिद्धिरित्यन्यो- न्याश्रयणं वा । अतो विविदिषासाधनत्वं कर्मणां न युक्तम् । ननु – इच्छासिद्ध्यर्थ कर्मानु- ष्ठानस्यात्माश्रयादिग्रस्तत्वे क्वचिदपीच्छा न संभवेत्, इच्छा हेतुभूतकर्मानुष्ठानायोगात् ; न चेच्छाया विषयवैलक्षण्यज्ञानमात्राधीनत्वम्, विषयवैलक्षण्ये ज्ञातेऽपि कस्यचिदिच्छानुत्पत्ति- दर्शनात् ; अतः कस्यचिदिच्छोत्पत्तेः कर्महेतुकत्वमाश्रयणीयम् ; तच्च तवानुपपन्नम् - नैवम् ; भोगादृष्टोद्बोधितपूर्ववासनासचिवाद्विषयवैलक्षण्यज्ञानादिच्छोत्पत्त्युपपत्तेः । न चाज्ञात- सुकृतवशाद्धर्मरुचिवद्यज्ञादिना वेदनेच्छासिद्धिरिति वाच्यम्, बह्वर्थव्ययायाससाध्यानां यज्ञादीनामज्ञातसुकृतरूपत्वासंभवात्, " यज्ञेन विविदिषन्ति ” इति वाक्यस्याश्चिन्त्यते । अतो वुद्धिपूर्वकमेव यज्ञाद्यनुष्ठानम् । तत्र मोक्षोपाय वेदनेच्छाया अभावे बह्वर्थयत्न- साध्यकर्मणां फलान्तराभिसंधिपूर्वकत्वनियमान्न विविदिषां साधयति । फलान्तराभिसंधि- विधुरं तु यज्ञादिकं वेदनेच्छया विना नोपपद्यते, प्रयोजनानुद्देशेन प्रेक्षावतः प्रवृत्त्ययो - गात् ; प्रकृष्टप्रयोजनतदुपायेच्छाविरहे क्षुद्रप्रयोजनपरित्यागायोगाच्च । अतोऽवान्तरसा- ध्येच्छासिद्ध्यर्थमनुष्ठानं परमसाध्यवेद नेच्छया विना नोपपद्यत इति स्वसिद्धयर्थधर्मानुष्ठानस्य स्वसिद्धिसापेक्षत्वादात्माश्रयादिदोषः स्यादेव । अभिधास्यत इति ; तत्रोपपादयिष्याम इत्यर्थः । विविदिषासाधनत्वे यज्ञादेरात्माश्रयादिदोषाभावमभ्युपगम्याह – यद्यपीति । तस्यैव ; इच्छाविषयभूतस्यैव । ध्यानरूपस्येति वाक्यार्थज्ञानव्युदासः । ध्यानस्या- प्येकदिनानुष्ठेयत्वव्युदासार्थमाह – अहरहरिति । अहरहरनुष्ठानफलमाह – अभ्यासेति । अहरहरनुष्ठानेऽपि मासवय नवत्सराद्यवधित्वव्यावृत्त्यर्थमाह – आ प्रयाणादिति । आ प्रयाणादनुवर्तमानत्वेऽपि द्वित्रदिनान्तरव्यावृत्त्यर्थमहरहरनुष्ठीयमानस्येत्युक्तम् । तत्रापि स्मृतिविच्छेदव्युदासार्थं ध्यानरूपस्येत्युक्तम् । तदुत्पत्तये ; विविदिषोत्पत्तये । वेदन- स्याव्यवहितप्रकृतत्वेऽप्यर्थवशात्तच्छन्दो विविदिषापरः; विविदिषासाधनत्वं ह्यभ्युपगम्यो- च्यते । आ प्रयाणादहरहरुपासनानुवृत्तौ यावज्जीवं कर्मणोऽपेक्षितत्वे च किं प्रमाणमि- त्यत्राह – वक्ष्यति चेति । चः शङ्कानिवृत्तौ । सूत्रसंदर्शनेन तद्विषयभूतश्रुतिवाक्य- मपि दर्शितं भवतीत्यभिप्रायेणोपासनानुवृत्तिपरं सूत्र दर्शितम् - आ प्रयाणादिति । 48 CC-0 No Rights Reserved. Digitized by eGangotri60 ३७८ " श्रीभाष्यम् (जिज्ञासाधिकरणम् ) यावच्छब्दस्य साकल्यार्थत्वादहर– " 99 “ स खल्वेवं वर्तयन् यावदायुषम् ” इति श्रुतिः । हरनुष्ठानसिद्धिः । तावत्कर्मापेक्षामाह– अग्निहोत्रेति । आश्रमधर्माणामाश्रम शेवत्वेऽपि विद्याङ्गत्वमप्यस्तीत्याह—सहकारित्वेन चेति । इत्यादिषु सूत्रेष्विममर्थं वक्ष्यती -. त्यर्थः । उक्तं कर्मणो विद्याङ्गत्वमुपासनस्य शमाद्यङ्गकत्वविरोधान्नोपपद्यत इत्याश- ङ्क्य विरोधं परिजिहीर्षुस्तद्विषयश्रुतिवाक्यप्रदर्शनेनाप्रमाणतां च निराचिकीर्षुराह - वाक्येति; सूत्रकाराभिप्रायज्ञैरप्येवमुक्तमिति भावः । ध्रुवानुस्मृतिशब्देन " तल्लब्धिः इत्यत्र तच्छब्दो व्याख्यातः । विवेकादिभ्य एव न तु केवलकर्मणा केवलशमा दिना वेत्यर्थः । वाक्यकारग्रन्थ उपादीयते - तल्लब्धिरिति । " उपासनं स्याद् ध्रुवानुस्मृतिः इति हि प्रकृतम् ; अतो ध्रुवानुस्मृतिलब्धिरित्यर्थः । विवेकविमोकाभ्यासक्रिया- कल्याणानवसादानुद्धर्षेभ्य इति द्वन्द्वसमासः ; स चेतरेतरयोगार्थे; एष्वन्यतमेन तल्लब्धेर्दुष्करत्वात्; समुच्चये संभवति पाक्षिकबाधगर्भविकल्पो ह्ययुक्तः; तस्याष्टदोषदुष्टत्वात्; समुच्चयस्य चात्र संभवात् । एवं विवेकादिविधायिनां वाक्यानां समुच्चये तात्पर्यमिति दर्शयितुमितरेतरयोगद्वन्द्वेन वाक्यकार निर्देशः । ननु – समुच्चयादर्थान्तरमितरेतरयोगः ; तत्कथमितरेतरयोगद्वन्द्वेन समुच्चयलाभः ? उच्यते — अन्वाचयसहपठितात् समुच्चयात् विकल्पप्रतिसंबन्धी समुच्चयोऽर्थान्तरम् । एकस्मिन्नेव कार्ये मिथो निरपेक्षसाधका- नामन्वयोऽन्वाचयसहपठितः । विकल्पसमभिव्याहृतसमुच्चयस्तु एकस्मिन् कार्य मिथः सापेक्षाणामन्वयः ; स एव चेतरेतरयोग इत्यविरोध इति । निवृत्तिरू- पशमादेः प्रवृत्तिरूपयज्ञादेश्व विरोधान्न समुच्चय इति चेत् न, भिन्नविषयत्वेन विरोधाभावात् ; अविहिताप्रतिषिद्धनिषिद्धकाम्यविषया हि शमादयः । संभवात् उपपन्नत्वात् । निर्वचनाच्च ; श्रुतिवचनाच्च ; प्रमाणोपपत्तिभ्यामित्यर्थः । विवे- कादयः किंरूपाः ? कथं वा शमादेः कर्मणश्चाविरोधः ? इत्यत्राह - विवेकादीनां स्वरूपं चाहेति । न केवलं परिगणनमात्रम्, तत्स्वरूपं च वाक्यकार एवा– हेत्यर्थः । प्रथमं विवेकस्वरूपविषयवाक्यमुदाहरति-— जात्याश्रयेति । आहार- विषयविवेचनं विवेकशब्देन विवक्षितं भवति । दुष्टाहारात् सात्त्विकाहाराणां विवेचनं विवेकः । जातिदुष्टाः कलञ्जगृञ्जनादयः । आश्रयो द्रव्यस्वामी पुरुषः अभिशस्तपतितचण्डालादिद्रव्यमाश्रयदुष्टम् । उच्छिष्टकेशाद्युपहतं निमित्तदुष्टम् । एत-

(१–१ – १) श्रुतप्रकाशिका ३७९ यद्वा विविक्ता- त्तिविधदोषरहिताहारविवेचनफलभूतकायशुद्धौ विवेकशब्द उपचरितः । हारसेवया राजसतामसाहाराप्यायितदेहात् स्वदेहस्य विवेचनं विवेकः ; अशुद्धेभ्यो विवे- चनं हि शुद्धिः । इतिशब्दो भाष्यकारीयः । अत्र निर्वचनमिति च भाष्यग्रन्थः । निर्वचनं निष्कृष्टं वचनम् ; अप्रमाणेभ्यो निष्कृष्टं प्रमाणभूतं वचनमित्यर्थः । रशुद्धौ” इत्यादि निर्वचनम् । कामानभिष्वङ्गः ; विषयमभुक्त्वा स्थातुं न शक्नोति कामात्क्रोधोऽभिजायते" इत्यादिवचनात् क्रोधाद्यभाव- येन स विकारोऽभिष्वङ्गः । , “आहा- श्चात्र फलितः । शान्त उपासीतेति निर्वचने शान्तशब्देन रागद्वेषाद्यभावो विवक्षितः । आरम्बणम् ; आलम्बनम् शुभाश्रयः; तस्य संशीलनम् । कथमेतत् साधनम् ? साध्यं हीदम् । न; " शुचौ देशे प्रतिष्ठाप्य” इत्याद्युक्त देशकालविशेषाभ्यसनीययोग- शब्दवाच्या ध्रुवानुस्मृतिर्हि साध्या ; इदं तु योगकालकर्तव्यध्यानानुग्राहकं सदा संशील- । नम् ; सदा तद्भावभावितः " इति हि वक्ष्यति । सदा भगवत्संशीलनाभावे योग- कालेषु कालान्तरसंशीलितं विषयान्तरं बुद्धिस्थं स्यात् । अतो न साध्याविशिष्टत्वमारम्व- णसंशीलनस्य । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेणेत्यनेन पूर्वोपात्तान्यपि निर्वच- नानि द्रमिडभाष्योक्ता नीति ज्ञायते । “ अथ मुनिः” इति श्रौतनिर्वचनम् । तस्य न्यायोपन्याससापेक्षत्वेन “ सहकार्यन्तरविधिः” इत्यधिकरणे व्याख्येयत्वात् स्मार्तनिर्वच- नस्य स्पष्टार्थत्वाच्च स्मार्तनिर्वचनमुदाहृतम् । " तस्मात्सर्वेषु कालेषु मामनुस्मर" इत्ये- वमन्तं वचनजातमिहाभिप्रेतम् । पञ्चमहायज्ञेति । शक्तितः; न हि शास्त्रमशक्यं विद- धाति । क्रियावानेष इति सन्रहितवचनम् । ब्रह्मविदां वरिष्ठः ब्रह्मविदां मध्ये वरिष्ठः न हि ब्रह्मविविदिषूणामित्युक्तम् । क्रियाशब्दार्थविशदीकरणायाह - तमेतमिति । सत्यम् ; भूतहितम् । आर्जवम् ; मनोवाक्कायानामैकरूप्यम् । दया; स्वार्थनिरपे- क्षपरदुःखासहिष्णुत्वम् । अहिंसा; करणत्रयेण परपीडानिवृत्तिः । दानम् ; लोभरा- हित्यम् | अभिध्या ; परकीये स्वत्वबुद्धिः ; यद्वा निष्फलचिन्ता ; अथवा परकृताप- कारचिन्ता; तद्राहित्यम् अनभिध्या । इत्यादीत्यादिशब्देनार्जवादिप्रतिपादकवाक्यजातं क्रोडीकृतम् । देशेत्यादि ; अनवसादानुद्धर्षयोरवसादाद्धर्षविपर्ययरूपत्वात् अवसादो- लक्षणमात्रमुक्तं वाक्यकारेण । तद्विपर्ययरूपो नञर्थोऽर्थात्सिध्यतीति वाक्यकाराभि- प्रायः । शोकवस्तु; शोकनिमित्तवस्तु – अतीत पुत्रमरणादि । आदिशब्देन भयनि-

३८० श्रीभाष्यम् (जिज्ञासाधिकरणम् )> मित्तमागामि विवक्षितम् । अतीतविषयो हि शोकः ; आगामिविषयं च भयम् । । अभास्वरत्वमिति; दैन्यशब्दविवरणम् । अभीष्टकार्यप्रवृत्त्यक्षमत्वरूपं दैन्यमित्युक्तं भवति । भास्वरत्वविरोधीति वा दैन्यविशेषणम् । चशब्दो भिन्नक्रमः । तज्जं च; दैन्यजदैन्यं चेत्यर्थः; बन्धुजनदैन्ये दृष्टेऽपि हि दैन्यं स्यात् । देशकालवैगुण्यशोकवस्त्वाद्यनुस्मृतिहेतुकं मनसो भास्वरत्वाभावरूपं भास्वरत्वविरोधि वा दैन्यं दैन्यजदैन्यं च मनसोऽवसाद इत्यर्थः । यद्वा भिन्नवाक्यतया योजनीयम्— देशकालवैगुण्यशोकवस्त्वाद्यनुस्मृतिजनितं मनसोऽभास्वरत्वमव- सादः । *किमुक्तं भवतीत्यत्राह - तज्जं दैन्यमिति ; तच्चाभास्वरत्वं तज्जम् उक्तहेतुजं दैन्य- मिति व्याख्येयव्याख्यानरूपं वाक्यद्वयमिति । तद्विपर्यय इत्यादिर्भाष्यग्रन्थः । बलहीनेन ; मनोबलहीनेन । तद्विपर्ययजा देशकालसागुण्यप्रियवस्त्वाद्यनुस्मृतिजा तुष्टिरुद्धर्ष " ; इत्येतावदेव वाक्यम् । तद्विपर्ययोऽनुद्धर्ष इत्यर्थसिद्धकथनम् । कथं " स्वाध्यायशौ- चसंतोषतपांसि नियतात्मवान् ” इत्यपेक्षितस्य संतोषस्य त्याज्यत्वमित्यत्राह - अतिसंतो- पश्च विरोधीत्यर्थ इति । न केवलमसंतोष एव विरोधी, अतिसंतोषश्च विरोधीति चार्थः ! यथान्यविषयेष्वेव प्रवृत्तिः स्यात्तथा संतोषोऽतिसंतोष: ; स त्याज्य इत्युक्तं भवति । निर्वचनमपीति ; अपिशब्दः सर्वनिर्वचनसमुच्चये । एवं पदार्था व्याख्याताः ; ब्धिः " " तल्ल- इत्यादेर्वाक्यकारग्रन्थस्य वाक्यार्थमाह – एवमिति । एवंनियमयुक्तस्या- श्रमविहितकर्मानुष्ठानेनेति ; पृथङ निर्देशेन प्रवृत्तिनिवृत्तिरूपकोटिद्वयविभागो दर्शितः । एतेन पदद्वयेन केवलशमादि केवल कर्म च व्यावर्तितम् । शमादिः कर्म च समुच्चित्या- ङ्गमित्यर्थः । यद्विविदिषासाधनमिति त्वयोक्तं तेनैव विद्यानिष्पत्तिरित्येवकाराभिप्रायः । इत्युक्तं भवति ; इति वाक्यार्थो भवतीत्यर्थः । " विद्यां चाविद्यां च " इति श्रुतेः शंकर यादवप्रकाशाभिमतयोजनाव्युदासार्थं तां व्याचिख्यासुरुपादत्ते - तथा चेति । अनेन कर्मणोऽपेक्षितत्वे सत्रहितश्रुत्यन्तरं च दर्शितं भवति । तथाच श्रुत्य- न्तरं यदन्यथा भवद्भिर्व्याख्यातं तच्चास्मदुक्तार्थानुगुणमिति तथाशब्दमन्तरशब्दं च प्रयुञ्जानस्य भावः । सन्रहिततया यज्ञादिवाक्यवैलक्षण्यं चान्तरशब्दाभिप्रेतम् । अस्मि- न्वाक्येन कर्मवाची शब्दः श्रूयत इत्यत्राह - अत्रेति । अत्र ; श्रुतिवाक्ये; न तु " अनात्मन्यात्मबुद्धिर्या ” इत्यादिषु । अविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्मोस्तु ; دو *अवसादस्वरूपमभास्वरत्वं किंरूपमुक्तं भवतीत्यर्थः ।

0 ( १ – १ – १) श्रुतप्रकाशिका ३८१ ततः किमुक्तं भवतीत्याशङ्कायां पदान्तराण्यपि विवृण्वन् वाक्यार्थमाह- अविद्ययेति । अविद्यया कर्मणा विद्यया ज्ञानेनेति ; अत्र च कर्मज्ञानशब्दाभ्यां " कषायपक्तिः कर्माणि ज्ञानं तु पुरमा गतिः । कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते ॥ 99 कषाय- इति स्मृतिः स्वोपजीव्यार्था स्मारिता भवति । कर्माणि कषायपक्तिः ; कषायपक्तिनिमि- तानि । कषायशब्दः पापपरः ; " धर्मेण पापमपनुदति " इत्यनेनैकार्थ्यात् । शब्दस्य रागादिपरत्वेऽपि तत्पत्तिहेतुत्वं पापनिबर्हणद्वारा । ज्ञानं परमा गतिः ; परमगत्यु- पायः । उभयत्र कारणे कार्योपचारः । कर्मभिः कषाये पक्के ततो ज्ञानं प्रवर्तते ; प्रसरतीत्यर्थः । अत्रोपायविरोधिनिरासकत्वं कर्मणः स्पष्टम् ; न हि ’ विविदिषा प्रवर्तते’ ‘मोक्षः प्रवर्तते’ इति वोक्तम् ; अपितु ‘ज्ञानं प्रवर्तते’ इत्येवोक्तम् । अस्य वाक्यस्यार्थ- मुपजीव्याह – मृत्युं ज्ञानोत्पत्तिविरोधीति ; न तु ब्रह्मप्राप्तिविरोधि, न च विविदिषा- विरोधीत्यर्थः। उपेयविरोधिकर्मणो ज्ञाननिवर्त्यत्वं श्रुतिस्मृतिशतसिद्धम् ; यथा—“तमेव विदि- त्वातिमृत्युमेति ; नान्यः पन्थाः دو 66 एवमेवंविदि पापं कर्म न लिप्यते कर्माणि तस्मिन् दृष्टे परावरे " " निचाय्य तं मृत्युमुखात्प्रमुच्यते " " 66 99 66 क्षीयन्ते चास्य ज्ञात्वा देवं मुच्यते एवमुपेयविरोधिनो 66 सर्वपाशैः ” “ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा " इति । ज्ञाननिवर्त्यत्वश्रवणेन परिशेषात्, “ नान्यः पन्थाः " इत्युपेयविरोधिनिरासे उपायान्तरनिषे- धस्वारस्यात्, समसमुच्चयपक्षे कर्मणोऽप्युपायतया वेदनव्यतिरिक्तकृत्स्नगोचरान्यशब्दस्य संकोचप्रसङ्गात्, “ यज्ञेन विविदिषन्ति ” इति कर्मण उपायहेतुत्वस्य कण्ठोत्त्या, “ कषाये कर्मभिः पत्रे ततो ज्ञानं प्रवर्तते " इति स्मृत्यानुगुण्याच्च सामन्येन मृत्युशब्देन प्रतिपन्न - मपि निरसनीयमुपायविरोधिकर्मरूपे विशेषे पर्यवस्यति । तथा विविदिषासाधनत्वस्य च प्रागुक्तान्योन्याश्रयनिरस्तत्वेन परिशेषात्, विविदिषन्ति " इत्यत्र प्रकृतिप्रत्ययार्थयो- र्वेदनतदिच्छयोरविशेषेण यज्ञादीनां साधनत्वे प्रतीतेऽपि " ततो ज्ञानं प्रवर्तते ” इति स्मृत्यानुगुण्यात्, इप्यमाणप्रकृत्यर्थप्राधान्यस्य नीतिविद्भिर्निर्णीतत्वाच्च प्रकृत्यर्थभूतवेदनसाध- नत्वं सिद्धम् । तस्मादुपायविरोधि कर्मैवात्र मृत्युशब्द वाच्यम विद्यानिवर्त्यमित्यभिप्रायः । उपासनरूपं न्यासरूपं चोपेयविरोधिनिरासकं ज्ञानमुत्तरपूर्वाघयोरुभयोरपि निरासकं स्यदिति तद्व्यावृत्त्यर्थं प्राचीन मित्युक्तम् । उपायविरोधिनिरासककर्म प्राचीनमेव पापं शमयति, "

३८२ श्रीभाष्यम् मृत्युशब्दव्याख्यानेन (जिज्ञासाधिकरणम्) " 19 न तूत्तराघमित्यर्थः । तीर्खेति पदं व्याचष्टे –अपोह्येति ; न तु " एतं सेतुं तीर्त्वा इतिवत् प्राप्तिवचन इत्यर्थः । अविद्यया तीर्खेति पदद्वयव्याख्यानेन शंकरमतयोजना- व्यावृत्तिः ; ‘अज्ञानेन संसारं प्राप्य स्थितः’ इति हि तद्योजना ; तन्मते अविद्याया ज्ञातव्यत्वं च हेत्वेन । अविद्याशब्दो विविदिषाविरोधिनिवर्तककर्मवाचीति वा शंकराभिमत योजना स्यात् । अविद्याशब्द उपेयविरोधिनिवर्तककर्मवाचीति यादवप्रकाशाभिमतयोजना | ज्ञानोत्पत्तिविरोधीति मृत्युशब्द व्याख्यानेन तदुभयव्युदासः । अयमविद्याशब्दः संसार- हेतुभूताज्ञानपरः किं न स्यात् ? कथं च तस्य कर्मवाचित्वम् ? इत्यत्राह - मृत्युतरणेति । तरतेरुत्तरणवाचित्वं स्वरससिद्धम् ; प्राप्तिवाचित्वे तु स्वारस्यभङ्ग इत्यभिप्रेतम् । अविद्या- शब्दस्य कर्मवाचित्वं दर्शयति — विद्येतरदिति; तदन्यार्थे नञिति भावः । विहितं कर्मैवेत्येवकारेणाज्ञानमविहितं कर्म च व्यावर्त्यते । अत्र " विद्यां चाविद्यां च इति चशब्दावनुक्तसमुच्चयपरौ । विद्यानुबन्धि कर्मानुबन्धि च यदनुक्तं तत्समुच्चेतव्यम् । विद्यानुबन्धि शमदमादिकम् कर्मानुबन्धि फलाभिसंधिकर्तृत्वाभिमानराहित्यादिकम् । तदुभयं चशब्दसमुच्चेतव्यम् | यद्वा " धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ " इत्थत्र चशब्दवदत्राप्युक्तार्थविरोधिसमुच्चयपरौ चशब्दौ स्याताम् । विद्याविरोधि कर्मविरोधि च चशब्दाभ्यां हानार्थं ज्ञातव्यतया समुच्चिते भवतः । विद्या ब्रह्मविद्या ; तद्विरोधि तदितरविषयज्ञानतद्विषयरागद्वेषादिकम् ; अविद्या विद्याङ्गं कर्म ; तद्विरोधि संसरणहेतुभूतं फलाभिसंध्यादिसहितं कर्म पापं च तदुभयं हानार्थं ज्ञातव्यमिति चशब्दयोरभिप्रायः । यद्वा प्रतिपदद्योतकौ चशब्दौ स्याताम् ; यथा “ धर्मे चार्थे च कामे च " इति; प्रतिपदं यदभिधेयं तस्य समुच्चयद्योतकत्वं प्रतिपदद्योतकत्वं, तदत्रापि स्यात् । अस्मिन् वाक्ये अविद्यातरणशब्दयोरुक्तार्थपरत्वस्थापना योपबृंहणवचनं च दर्श- यति - यथोक्तमिति । ज्ञानव्यपाश्रयः; आगमोत्थज्ञानवान् । ब्रह्मविद्यामधिष्ठाय; उपासनात्मकज्ञानं साध्यत्वेनावलम्ब्येत्यर्थः । ज्ञानविद्याशब्दयोरर्थभेदबुभुत्सायामागमोत्थ- विवेकादिजन्यज्ञानयोः प्रकृतत्वात् तत्परत्वाश्रयणं हि युक्तम् । त मृत्युमित्यनेन तरतेः प्राप्तिवाचित्वशङ्का व्युदस्ता ; न हि संसारं प्राप्तुं ब्रह्मविदा केशिध्वजेन नृपेण यज्ञादिकर्मानुष्ठीयते । मृत्युशब्दस्य विविदिषाविरोधिकर्मपरत्वमपि न शङ्कनीयम् ; ‘ज्ञानव्य- पाश्रयः’ इत्यनेन शास्त्रजन्यज्ञानवत्ताया अभिहितत्वात्, ‘ब्रह्मविद्यामधिष्ठाय ’ इत्युक्तत्वाच्च । CC-0 No Rights Reserved. Digitized by eGangotri0 ( १ – १ – १) श्रुतप्रकाशिका ३८३ 1 न हि ‘ब्रह्मविद्येच्छामधिष्ठाय ’ इत्युक्तम् । कथं ‘ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म’ इति पुण्य- पापसाधारणकर्मशब्देन कर्ममात्रं निरसनीयमित्युक्तम् ? श्रुतिर्हि “धर्मेण पापमपनुदति” इति पापरूपकर्मविशेषस्य निरसनीयत्वमाहेति शङ्कायां तत्रापि पापशब्दस्य पुण्यपापपरत्वं दर्शयितुं पुण्यपापयोरुभयोरपि पापशब्दवाच्यत्वोपपादनाय तयोर्ज्ञानोत्पत्तिविरोधित्वमाह- ज्ञानविरोधि चेति । चः शङ्कानिवृत्तौ । पुण्यपापे उभे अपि ज्ञानविरोधिनी येत् कथं तयोरन्यतरस्य पापस्य निरसनीयत्वमन्यतरस्य पुण्यस्य निरासकत्वं च श्रूयते ? इत्यत्राह - उभयोरपीति । तयोर्द्वयोरपि निवर्त्यत्वं फलाभिसंध्यादिरहितस्य धर्मान्तरस्यैव निवर्त- कत्वं च विवक्षितमिति भावः । कथमुभयोः पापशब्दवाच्यत्वमित्यत्राह — ब्रह्मज्ञानोत्प- त्तीति । अनिष्टफलतयेति प्रवृत्तिनिमित्तसूचनम् । अलौकिकत्वे सत्यनिष्टफलासाधा- रणकारणत्वं पापत्वमिति भावः । अत एव शस्त्रादावीश्वरे च नातिव्याप्तिः ।


11 66 वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ एते वै निरयास्तात स्थानस्य परमात्मनः । 66 इत्यादिभिः पुण्यस्यापि मुमुक्षु प्रत्यनिष्टफलप्रदत्वं सिद्धम् । श्रुतिश्च दुष्कृतेन सह पूर्वनिर्दिष्टं सुकृतमपि पाप्मशब्देन निर्दिशन्ती निगमयति – “ नैतं सेतुमहो- रात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मा- नोऽतो निवर्तन्ते ” इति । न चानुक्तपापान्तरविषयः पाप्मशब्द: ; दुष्कृत- शब्दस्य संप्रतिपन्नसमस्तपापसाधारणतयानुक्तपापान्तरासंभवेन तद्विषयत्वायोगात् । संभवेऽपि न तन्मात्रपापान्तरविषयः पाप्मशब्दः, उक्तसर्वहेयनिवृत्तिसंवादितयोपात्ते “ अप- हतपाप्मा ह्येष ब्रह्मलोकः " इत्यनन्तरवाक्ये पाप्मशब्दस्य सर्वहेयविषयत्वदर्शनात् ; न ह्यनुक्तकतिपयपाप निवृत्त्युक्तायुक्त सर्व हेयनिवृत्तिसंवादसिद्धिः । शोकादिषु पाप्मशब्दस्या- मुख्यत्वेऽपि सुकृतदुष्कृतयोः प्रवृत्तिनिमित्तसंभवान्न मुख्यत्वं त्याज्यम्, कचिदमुख्यस्य सर्वत्रामुख्यत्वनियमाभावात् । अतः “सर्वे पाप्मानः” इत्यत्राजहल्लक्षणा छत्रिन्यायात् ; " धर्मेण पापम् " इत्यत्र तु मुख्यत्वमेव । कथं पापस्य ज्ञानविरोधित्वम् ? रजस्तमः सोहि तदवगम्यत इति शङ्कायां द्वारद्वारिभावादविरोधमाह – अस्येति । स्तमसोश्च ज्ञानविरोधित्वे प्रामाणिके सति हि द्वारद्वारिभावः कल्प्येतेत्यत्राह - पापस्य


पापस्य रज-

३८४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) न चोन्नय- इत्यवगतस्य " 99 चेति । नन्वियं श्रुतिर्निरयनिनीपाविषया किं न स्यात् ? उन्नयन प्रत्यनीकत्वादधोनय- नस्येति ब्रूमः । अत्र विवक्षितमुन्नयनहेतुत्वं ह्युपासननिष्पादनरूपम् । नमपि नाकादिनयनमिति शङ्कनीयम्, “ यमेभ्यो लोकेभ्य उन्निनीषति " " समस्तलोकेभ्य उन्नयनस्यापवर्गप्रापणरूपत्वात् । तर्हि गर्भजन्मजरामरणादिसंसारप्राप- णमधोनयनं स्यात्, न तूपासननिरोध इति चेत् — न; उन्नयनस्य ज्ञानोत्पादनद्वारकत्वा- वगमात् । " यं त्वं मनुष्याय हिततमं मन्यसे " इत्युपक्रमवाक्येन " मामुपास्स्व इति विधित्सितस्योपासनस्य ह्यव्यवहितोपायत्वमवगतम् । " नान्यः पन्थाः इत्या- दीनि च श्रुत्यन्तराणि तथावगमयन्ति ; तच्च कर्मणामपवर्गं प्रत्यव्यवहितोपायत्वे विरुध्येत । अत उपक्रमाद्यविरोधात् साधुकर्मणामपवर्गं प्रत्युपायत्वमुपासनद्वारकभवसीयते । अतः कर्मणामुन्नयनहेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमवोनयनमुपासनप्रतिबन्धरूपमिति स्फुटतरमवगम्यते । किंच ययप्युन्नयनाधोनयने स्वर्गनरकप्रापणरूपे, तथाप्यसाधुकर्मणां ज्ञानविरोधित्वं सिध्यति ; तथा हि– उन्निनीपाधोनिनीपयोर्निर्हेतुकत्ले परमात्मनो वैषम्य- नैर्वृण्यप्रसङ्गात् नेतव्यचेतनगोचरं यद्वृत्तद्वयं गतिद्वयनिनीषानिमित्तातिप्रभूतपुण्यपापकर्तृ- विषयं विज्ञायते । तत्र च गतिद्वयपर्याप्तोत्तरोत्तरसाध्वसाधुकर्म कारयितृत्वमीश्वरस्य न भूता- वेशादिवज्जीवबुद्धयनपेक्षितं भवति तथा सति ज्ञानचिकीर्षाद्यभावाद्वायूदकादिनुन्नतॄणा- देवि संसारिणां शास्त्रवश्यत्वाभावेन कर्मफलभोगानुपपत्तेः । एवं संसारिणां कर्मफलभो- क्तृत्वान्यथानुपपत्तिरूपंन्यायानुगृहीतम् “ एष एव " इत्यादिकं वाक्यद्वयं ज्ञानप्रदानद्वार- ककारयितृत्वविषयमवसीयते ; तथा सति स्मृत्यनुग्रहश्च भवति- " न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुद्धया संयोजयन्ति तम् ॥ यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽपनीतो न पश्यति ॥ इति ह्युच्यते । तथा. “ पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥

0 (१ – १ – १ ) श्रुतप्रकाशिका पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव नित्यमारभते नरः || " । ३८५ इति च । तत्र " बुद्धिमपकर्षन्ति " " प्रज्ञां नाशयति ” इति च सम्यग्ज्ञानहानिपूर्वकत- द्विपरीतज्ञाननिष्पत्तिर्विवक्षिता, अन्यथा कर्मान्तरप्रारम्भानुपपत्तेः । यद्यपीदं वचनजातं सर्वकर्म देवतासामान्यविषयं, तथापि भगवज्ज्ञानस्य सम्यग्ज्ञानसामान्यावहिर्भावादसाधु- कर्मणस्तद्विरोधित्वसिद्धिः । तथा विशेषतश्चोच्यते- — " ददामि बुद्धियोगं तं येन मामुपयान्ति ते । आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि ॥ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । "


इति च । एवं न्यायस्मृत्युपबृंहितयानया श्रुत्या सामान्येन ज्ञानविरोधित्वमसाधुकर्मणां सिद्धम् । अस्मादपि निर्वाहात् पूर्वोक्त उपपन्नतरः, प्रकरणानुगुण्यात्’ । एवं पापस्य ज्ञानविरोधित्वे प्रमाणं दर्शितम् ; अथ रजस्तमसोर्ज्ञानविरोधित्वे सत्त्वस्य ज्ञानहेतुत्वे च प्रमाणं दर्शयति — रजस्तमसोरिति । ततः किं प्रस्तुतस्य कर्मापेक्षितत्वस्येत्यत्राह- अतश्चेति । अतः पापस्य ज्ञानविरोधित्ववचनात् । ततोऽपि किमित्यत्राह - तन्निरसनं चेति । पापशब्दाभिधेययोः पुण्यपापयोरुभयोरपि निरसनीयत्वेन पापनिरासककर्मा सिंभवमा- शङ्क्योक्तम् – अनभिसंहितफलेनेति । अनेन स्वर्गादिफलप्रद कर्मव्यावृत्तिः । अनुष्ठितेन; न तु ज्ञातमात्रेणेति भावः । तत्र किं प्रमाणमित्यत्राह - तथाच श्रुतिरिति । इदानीं निरासकविशेषे प्रमाणतयोदाहृतस्य वाक्यस्यार्थनिर्णयोपयोगितयैतद्वाक्यस्थनिरसनीयवाचिपद- स्यार्थः पूर्वमेव शिक्षितः ; निरासकवाचिपदस्यार्थोऽनन्तरमुक्तः । नन्वयं धर्मशब्दः कृच्छ्रचान्द्रायणादिप्रायश्चित्तरूपधर्ममात्रविषयः किं न स्यात् ? अनभिसंहितफलधर्मविषय इति कुतो निर्णीयते : उच्यते " यज्ञेन दानेन तपसानाशकेन " " शान्तो दान्त उपरतस्तितिक्षुः " " कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते । " यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । 99 यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥” १. पापशब्दवाच्य सुकृतदुष्कृत योज्ञ निविरोधित्वप्रकरणानुगुण्यात् । 49

३८६ 66 श्रीभाष्यम् (जिज्ञासाधिकरणम् ) न “ शमो दमस्तपः शौचम् ” इत्यादिश्रुतिस्मृतिभिर्मुमुक्षोरपेक्षितत्वेनोक्तानां यज्ञदानतपःशमा- दीनामत्र श्रूयमाणत्वात् “ विज्ञानादानन्दो ब्रह्मयोनिः " इत्यादिनास्य प्रकरणस्य ब्रह्मविद्या - विषयत्वावगमाच्चायं धर्मशब्दो मुमुक्ष्वपेक्षितानभिसंहितफलधर्मविषय इत्यवगम्यते । अत्र यज्ञदानादिपर्यायेषु “ दानेन द्विषन्तो मित्रा भवन्ति ” इत्यादिना सांसारिक फल कीर्तनम् “अन्नवानन्नादो भवति” इत्यादिवत् ब्रह्मवेदनानुगुणानुषङ्गिकफलविषयं मन्तव्यम्, भूयो न मृत्युमुपयाहि विद्वान् ” इति प्रधानफलश्रवणात् । किंच यद्यपीदं वाक्यं न मुमुक्षुमात्रविषयं, तथाप्यमुमुक्षुमात्रविषयं च न भवेत् ; प्रवृत्तिनिमित्तसाधारण्यात् । हि काम्यफलदत्वं धर्मशब्दार्थः; अलौकिकेष्टासाधारणसाधनेनालौकिकानिष्टासाधारण- कारणमपनुदेदिति ह्यर्थः स्यात् ; ततश्च मुमुक्षं प्रति काम्यकर्मणोऽनिष्टफलत्वेन धर्मशब्द- वाच्यत्वायोगात् पापशब्दवाच्यान्तर्भावाच्च पक्षधर्मतावलाद्नभिसंहितफलेन धर्मेण पुण्यपा- पयोरुभयोरपनोद्यत्वमुक्तं स्यात् । ज्ञानस्य कर्मसापेक्षत्वं निगमयति - तेदवमिति । तत् श्रुतिस्मृतितदनुग्राहकोपपत्तिसूत्रवाक्यकारवचनेभ्यः । एवम् ; उपायप्रतिबन्धनिरासार्थम् । सर्वाश्रमिणां तत्तदाश्रमधर्माङ्गकोपासनाधिकारस्य वक्ष्यमाणत्वं हृदि निधाय सर्वाश्रम - कर्मापेक्षमित्युक्तम् । ततः किं कर्मविचारस्य ब्रह्मविचारपूर्ववृत्तत्व इत्यपेक्षायामनुष्ठानस्य ज्ञानापेक्षत्वात् ज्ञानस्य मीमांसाधीनत्वाच्च तदधिगमः पूर्ववृत्त इत्याह – अत इति । अतः ब्रह्मज्ञानस्य फलाभिसंधिरहिताश्रमकर्मसापेक्षत्वात् । ज्ञानं हि हानार्थम्, उपादानार्थं वा; अत्र तूभयार्थमित्याह— अपेक्षितेति, फलद्वारकं हानम् ; स्वरूपेणोपादानम् । मीमांसा- शब्दस्य पूर्वोत्तरसाधारणत्वात् कर्ममीमांसावसेयमित्युक्तम् । सैव; या त्वया विरुद्धेति निरस्ता सैवेत्यर्थः । C भावप्रकाशिका स्वयमुपस्थितस्य स्वीकार एवेति ; अप्रियत्वे स्वयमुपस्थितमपि परित्यज्यते ; प्रयत्वे स्वयमुपस्थितं गृह्यते ; प्रियतमत्वे तु प्रार्थनीयत्वरूपं वरणीयत्वमिति भावः । ननु पत्रपुष्पादीनां भगवति प्रीतिरहितानामपि प्रीतिविषयत्ववरणीयत्वयोर्दर्शनात् कथं ‘यस्य’ इत्या- दि भाष्यमुपपद्यत इत्याशङ्कयाह - चेतनत्वे सति भगवता वरणीयत्वमिति ; चेतन सति भगवत्प्रियतमत्वमित्यर्थः, तस्यैव तस्मिन् वाक्ये प्रस्तुतत्वात् । यद्वा प्रियतमत्व- पूर्वकं वरणीयत्वमित्यर्थः । स्वतः प्रियत्वं स्वस्मिन् प्रीतिमत एवेति । यस्य च

( १ – १ – १ )


भावप्रकाशिका 99 99 ३८७ इति कथकप्रत्य - मोदकः’ इतिवत् स्वतः प्रियत्वं तस्यैव स्वतो वरणीयत्वमिति भावः । आशंसायां भूतवचेति कर्तरि क्त इति ; “गत्यर्थाकर्मक- .” इत्यकर्मकत्वविवक्षायां यः क्तो विहितः सः " आशंसायां भूतवच्च " इत्यनेनाशंसायां भविष्यतीति भावः । ननु " आशंसायां भूतवच्च इति प्रयोक्ताशंसायामेव दृष्टम् ; यथा - - ’ देवश्चदृष्टः, संपन्नाः शालयः " ’ उपाध्यायश्चेदा- गतः, अधीतं व्याकरणम्’ इति ; यथा “आशिषि लिङ्लोटौ” इति लिङ्लोटौ प्रयोक्ता- शंसाविषयावेव तद्वदिति चेत् — न ; प्रयोक्ताशंसायामेवेति ग्रन्थकृतां व्यवहारादर्शनात्, उदाहरणमात्रप्रदर्शनेन तद्विषयत्वस्य निश्चेतुमशक्यत्वात् । लिङ्लोविषये तु प्रयोक्ताशं- सायामेव प्रयोगात् तथात्वमुचितमिति भावः । अनुभूयमानोऽनुभव इतिवदिति ; प्रियशब्दस्य प्रीतिविषयत्वमेवार्थ इति प्रथमतृतीयपक्षयोः समानम् ; प्रथमपक्षे प्रीतावेव प्रीतिविषयत्वनिर्देश औपचारिकः ; तृतीये आगामिप्रीतिरूपज्ञानस्यापि प्रीत्यन्तरविषयत्व- संभवान्मुख्य इति विवेकः । द्वितीयपक्षे तु ‘प्रिया’ इत्यस्यानुकूलत्वमेवार्थः, न प्रीति- विषयत्वमिति भिदा । यद्यपि प्रियशब्दः " इगुपधज्ञाप्रीकिरः कः यान्तः, “ कर्तरि कृत् " इति विधानात् ; तथापि ’ देवदत्ताय रोचते विषयत्वपर्यवसित एवेति विषयत्वार्थकत्वे नानुपपत्तिरिति द्रष्टव्यम् । प्रीतिरूपत्वस्यैव समर्थनीयतया " स्वायत्ते शब्दप्रयोगे " इति न्यायेन ’ स्वयमपि प्रीति- रूपा ’ इत्येव निर्देष्टव्ये भाष्ये ’ प्रिया’ इति निर्देशो न युक्तः ; अतः ’ प्रिया’ इति निर्देशस्यानुकूलत्वमेवार्थ इति द्वितीयपक्ष एव युक्त इति प्रतिभाति । यद्वा ध्रुवानु- स्मृतिः स्वयमत्यन्तानुकूलत्वादिति ; ’ प्रीतिरूपा ’ इति शेषः । ततश्च हि या प्रीतिरित्यादिना सा प्रार्थ्यते " इति युज्यते, । प्रोतिरूपा’ इति शेषाभावे " सा प्रार्थ्यते ’ इत्युक्ते ध्रुवानुस्मृतिः प्रार्थ्यत इति प्रतीयेत ; न च तद्युक्तम्, “ या प्रीतिः " इति श्लोके प्रीतेरेव प्रायत्वदर्शनेन ध्रुवानुस्मृतेः प्रायत्वादर्शनादिति द्रष्टव्यम् । ननु या प्रीतिः” इति श्लोके प्रीतिरूपापन्नध्रुवानुस्मृतेः प्रार्थ्यत्वं न प्रतीयत इति चेत्- त्वामनुस्मरतः सा मे ” इति स्मृतिसमभिव्याहारात् प्रीतिरूपस्मृतिः प्रार्थ्यत इत्यर्थ- लाभसंभवात् । प्रीतिरूपधुवानुस्मृतेरिति ; न च " स्वयमत्यर्थ प्रिया । भाष्यस्थप्रियशब्दस्य प्रीतिविषयार्थकत्वपक्षे प्रीतिरूपत्वस्य ध्रुवानुस्मृतावलाभात् कथं प्रीति- रूपा ध्रुवानुस्मृतिरित्युच्यत इति शङ्क्यम्, प्रीतिविषयत्वप्रतिपादनस्यापि प्रीतिरूपत्व- न ; 66 (6 26 इदं त्ववशिष्यते " अत एव 99 66 इत्यत्र CC-0 No Rights Reserved. Digitized by eGangotri.0 ३८८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) ; प्रतिपादनफलकत्वेन प्रीतिरूपत्वोक्तौ विरोधाभावात् । ननु नैघण्टुकोत्तत्या पर्यायत्वमेवा- वगतं स्यात् ; न त्वेकार्थपर्यवसानमात्रमित्यत्राह — एकार्थवृत्तित्वं चेति ; च एवार्थः एकार्थवृत्तित्वमेवावगम्यते, न तु पर्यायत्वमपि ; तथाहि सति सेवाया अपि पर्यायत्वे भूयसी सेवा भक्तिशब्दवाच्या’ इत्यभियुक्तव्यवहारविरोधादिति भावः । बलप्रतिक्षिप्त इति ; “ भक्त्या त्वनन्यया वापि प्रपत्त्या वा महामते । प्राप्योऽहं नान्यथा प्राप्यः ॥ 99 वचन- इति वचनबलेन " सकृदेव हि शास्त्रार्थः " इति वचनबलेन च प्रतिक्षिप्तः; शक्ताशक्त- भेदेन च व्यवस्था कृतेति भावः । इदानीं तु श्रुतिस्मृत्योरैकार्थ्येनेति ; उपायान्तर– निषेधकश्रुतिस्मृत्योरविरोधसिद्धधर्थमित्यर्थः । इदं चोपबृंहणोपबृंहणीययोरित्युत्तरत्र स्पष्टम् । पुरुषसूक्तैकार्थ्य दर्शयितुमिति पुरुषसूक्तैकार्थ्यमुपजीव्याय गतपरमपुरुषतात्पर्या श्वेता- श्वतरोपनिषदिति दर्शयितुमित्यर्थः । नाहं वेदैरिति वचनमुपात्तमिति ; " नाहं वेदैः " " भक्त्या त्वनन्यया ” इति लोकद्वयमुपात्तम् ; तत्तुल्यार्थत्वमभिप्रेत्य " पुरुषः स परः इति श्लोकोऽप्युपात्तः । 66 " नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवं विधो ज्ञातुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ 99 इति त्रयः श्लोकाः । तदनन्तरमित्यनेन पौनरुक्त्यप्रसङ्गादिति ; " भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ७ ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 99 99 इति लोके ’ ततः’ इत्यनेन ज्ञानस्य परामर्शे ’ तदनन्तरम्’ इत्यनेन पौनरुक्तयमित्यर्थः ननु ‘तदनन्तरम्’ इत्यत्र तच्छब्दो ज्ञानपरः ; ’ ततः ’ इति तच्छब्दो ज्ञानहेतुभूतभक्ति- परः; ’ ततः भक्त्या मां तत्त्वतो ज्ञात्वा ज्ञानानन्तरं मां विशते ’ इत्युक्तौ न पौनरुतय-

O ( १ – १ – १ ) भावप्रकाशिका ३८९ मिति चेत्—न; भक्तेर्ज्ञानहेतुत्वस्य " भक्त्या मामभिजानाति " इत्यनेनैव सिद्धतया पुन - रुक्तिप्रसङ्गात् ’ ततो विशते ’ इत्यन्वयस्यैव वक्तव्यत्वादिति भावः । न च " भक्त्या मामभिजानानि " इति पूर्वनिर्दिष्टभक्तेः प्राप्तिहेतुत्वाभावात् कथं ’ ततः’ इत्यनेन तस्या भक्तेः परामर्श इति वाच्यम्, ’ ततः’ इत्यस्य तद्व्यक्तिपरामर्शित्वासंभवादेव तज्जातीय- व्यक्तिपरामर्शित्वमित्यदोषः । अन्योन्याश्रयणं वेति ; वा शब्दः समुच्चये, अन्योन्या- श्रयणे आत्माश्रयस्यापि सिद्धत्वात् । अज्ञातसुकृतवशादिति ; स्ववृत्त्यर्थं व्याधक्कृत- व्याघ्रमरणेन संपादितं गोरक्षणादिकमज्ञातसुकृतमित्युच्यते । यज्ञेन विविदिषन्तीति वाक्यस्य चिन्त्यत इति ; न तु स्वल्पायाससाध्यकर्म विधायक वाक्यार्थ इति भावः । आत्माश्रयादिः स्यादेवेति ; नन्वन्नद्वेषेण कार्यं प्राप्तस्य तत्परिहारायान्नविषयौन्मुख्य- लक्षणेच्छायां सत्यामप्युत्कटाजीर्णादिप्रयुक्तधातुवैषम्यदोषात् तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायत इति तद्रोचकौषधवत् ’ निरतिशयानन्दं ब्रह्म ; तत्प्राप्तौ विद्या साधनम्’ इत्य- स्मिन्नर्थे प्राचीनानन्तजन्मशतानुष्ठितानभिसंहितफलनित्यनैमित्तिककर्मोपसंजातचित्तप्रसादम- हिम्ना संपन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ तद्विद्यायां चौन्मुख्यलक्षणेच्छायां सत्यामप्यनादि- भवसंचितानेकदुरितदोषेण विषयप्रावण्यं संपादयता प्रतिबन्धात् विद्यासाधने श्रवणादौ प्रवृ- त्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धकनिरासपूर्वकतादृशरुचिसंपत्त्यर्थं कर्मसु प्रवृत्तिरुपप- द्यत एव ; इतरथा " या प्रीतिरविवेकानाम्" इत्यादिष्वगतेरिति चेत् — न; यद्यनन्यथासिद्धं विविदिषासाधनत्वग्राहि प्रमाणमुपलभ्येत, स्यात्तदा यथा कथंचिन्निर्वाहः; न त्वेतदस्ति; " प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यम् ” इति सामान्यन्यायापेक्षया ’ सन्प्रत्ययाभिहि- तेच्छाविषयस्य प्राधान्यम्’ इति विशेषन्यायस्य ’ अश्वेन जिगमिषति’ इत्यादौ दृष्टस्य प्रबलत्वादिति भावः । अभिधानमात्रस्य प्रागपि कृतत्वात् तन्मात्रमप्रयोजकमित्यभि- प्रेत्याह – उपपादयिष्याम इत्यर्थ इति । तच्छन्दो विविदिषापर इति ; न च ध्यानोपक्रमात् प्रागेव विविदिषायाः सिद्धत्वात् पुनस्तदनुष्ठानं व्यर्थमिति शङ्क्यम् ; प्रत्यह- मनुष्ठेयोपासनाया हेतुभूतविविदिषाया अपि प्रत्यहमनुवृत्त्यर्थं कर्मणामपेक्षितत्वादिति भावः । यावज्जीवं कर्मणोऽपेक्षितत्वे चेति ; साक्षाद्वा परंपरया वा कर्मणस्त- दपेक्षितत्व इत्यर्थः । ततश्च विविदिषार्थत्वपक्षेऽप्यपेक्षितत्वमात्रसत्त्वात् प्रमाणजिज्ञासायां श्रुतिवाक्ये प्रदर्शनीये तदुपेक्ष्यं सूत्रसंदर्शनस्य प्रयोजनमाह – सूत्रसंदर्शनेनेति । आश्रम- J

9 0. 0 0 ३९० श्रीभाष्यम् (जिज्ञासाधिकरणम्) शेषत्वेऽपि विद्याङ्गत्वमपीति ; विद्यापेक्षितत्वमित्यर्थः । ततश्च विविदिषार्थत्वपक्षेऽप्य- पेक्षितत्वमात्रसत्त्वान्नानुपपत्तिरिति भावः । वाक्यकारनिर्देश इति ; इतरेतरद्वन्द्वस्य सा- हित्यरूपसमुच्चयावगमकत्वात् । अत एवैकादशाचे " दर्शपूर्णमासाभ्याम् " इति द्वन्द्वा- वगतं साहित्यं मा बाधीति समुच्चितानामेव षण्णां यागानां फलसाधनत्वमिति समर्थितमिति भावः । समुच्चयोऽर्थान्तरमिति ; यद्यपि समुच्चयान्वाचयेतरेतरसमाहाराश्चत्वारोऽपि चार्था वाशब्दार्थभूतविकल्पप्रतिद्वन्द्विसमुच्चयरूपा एव न हि ’ गामश्वं चानय’ इति समुच्चये वा ’ भिक्षामट गां चानय’ इत्यन्वाचये वा ’ देवदत्तयज्ञदत्तौ कुरुतः’ इतीतरेतरयोगे वा ’ छत्रोपानहमानय’ इति समाहारे वा वाशब्दार्थभूत विकल्पप्रतीतिरस्ति – तथापि वाशब्दवत् समुच्चयशब्दोऽन्वाचयसहपठिते समुच्चयावान्तरविशेषे विकल्पप्रतिद्वन्द्वि- समुच्चयसामान्ये च वर्तत इति भावः । " जात्याश्रय - इत्यत्र " कायशुद्धिर्वि- वेकः " इति सामानाधिकरण्यं कथमित्याशङ्क्य " जात्याश्रयनिमित्तादुष्टादन्नात् ” इति वाक्ये दुष्टेभ्यो विविक्तादन्नात् कायशुद्धेः साध्यत्वावगमात् कारणवाचिना विवेकशब्देन कार्यभूता शुद्धिलक्ष्यत इत्याह- आहारविषय इत्यादिना । जातिदुष्टाः कलञ्जगञ्ज- नादय इति ; 66 लशुनं गृञ्जनं चैव पलण्डु कवकानि च । " वार्ताकनालिकालावून् जानीयाज्जातिदूषितान् ॥ " इत्थादि द्रष्टव्यम् । मुख्ये संभवत्युपचारस्यान्याय्यत्वादाह – यद्वेति । देहविवेचनं विवेकोऽस्तु ; सामानाधिकरण्यं कथमित्यत्राह - अशुद्धेभ्य इति । मामनुस्मरेत्येव- मन्तमिति ; 66 “ यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम् | तं तमेवेति कौन्तेय सदा तद्भावभावितः ॥ तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । ’ इति हि श्लोकक्रमः । सत्यं भूतहितमिति ; " सत्यं भूतहितं प्रोक्तमार्जवं समचित्तता । दया भूतहितैषित्वं क्षमा द्वन्द्वसहिष्णुता ॥ " " 19 इत्यादि प्रमाणं द्रष्टव्यम् । आर्जवादिप्रतिपादकवाक्यजातं क्रोडीकृतमिति ;

( १ – १ – १) भावप्रकाशिका ३९१ " दानं यज्ञः सतां पूजा वेदधारणमार्जवम् । एष धर्मः परो ज्ञेयः फलवान् प्रेत्य चेह च ॥ " 7 इति वचनजातमिति भावः । भावान्तरमेवाभाव इत्यभिप्रेत्याह – अभास्वरत्वमिति दैन्यशब्द विवरणमिति । भास्वरत्वाभावो दैन्याद्भिद्यत इति मतमालम्व्याह- भास्वरत्वविरोधीति । च शब्दो भिन्नक्रम इति; ’ तज्जं च’ इत्ययं भिन्नक्रम इत्यर्थः । देशकालवैगुण्यात् शोकवस्त्वाद्यनुस्मृतेर्देन्यं तज्जं चेत्यर्थः । दैन्यशब्दस्य तज्जशब्दात् प्राक् प्रयोगाभावे तच्छब्दस्य दैन्यपरामर्शाभावप्रसङ्ग इति द्रष्टव्यम् । यद्वा भिन्नवाक्यतयेति ; अस्मिन् पक्षे ’ तज्जं दैन्यम्’ इत्यस्य वाक्यस्य भेदः, तस्य च पश्चात् प्रयोगः, ‘तच्च तज्जं दैन्यम् ’ इति तच्चेत्यस्याध्याहारदोष इत्याद्यस्वरसो बोध्यः । अस्य वाक्यस्यार्थमुपजीव्येति ; " कषायपक्तिः कर्माणि ” इति वाक्यस्यार्थमित्यर्थः । उभयोरपि निरासकं स्यादिति तद्व्यावृत्त्यर्थमिति ; उभयोरपि निरासकं दृष्टम् ; तद्वत् कर्मापि स्वप्राचीनं कर्मेव स्वोत्तराघमपि निरस्यत्विति शङ्काव्यावृत्त्यर्थमित्यर्थः । केचित्तु - ’ प्राचीनम् ’ इत्येतत् न कर्मापेक्षया प्राचीनपरम् ; अनेकजन्मशतानुष्ठीयमानकर्मजातमनुद्भू- तावयवभेदम् ’ अविद्यया ’ इति परामृश्यते ; तत्र च यदि प्राचीनपदं तत्प्राचीनपरामर्श, तदा तादृशस्यैव कर्मणो विनाशे तदनन्तरभाविनां विनाशो नास्तीत्युपपादितं स्यात् ; न चैतदिष्टम् । न चाविद्याशब्दोऽन्त्यकर्ममात्रपरामर्शीति शक्यं वक्तुम्, कषाये “कर्मभिः पक्के " इत्यादिविरोधात् । तैस्तैः कर्मभिस्तत्तत्पूर्वभाविनां विनाश इत्येतत्परमपि न वाक्यम्, तथा हि सति आद्येनैव कर्मणा तत्पूर्वभाविनां विनाशप्रसङ्गात् ; ’ तीर्त्वा ’ इत्युक्ते उत्तराश्लेषशङ्काया अप्यभावेन तच्छकाया अप्यव्यावर्त्यत्वात् ; तदुत्तरक्षण एव ज्ञानोत्पत्तिप्रसङ्गाच्च । अतो भाष्ये प्राचीनपदमनेकजन्मार्जितमपि सर्वं ज्ञानप्राचीनं कर्म व्यपोह्येति साकल्यसूचनार्थमेव; न तु कर्मप्राचीनपरतया केषांचिन्मृत्युशब्दितानां निवर्त्य - त्वपरम्, तस्यानुपयुक्तत्वादिति मन्यन्ते । प्राप्य स्थित इति हि तद्योजनेति ; तन्मते तरतिः प्राप्तिवचन इति भावः । इति वा शंकराभिमतयोजना स्यादिति ; संभावनायां लिङ् ; संभवार्थिकेत्यर्थः । ततश्च विद्याम् अन्तःकरणवृत्तिम्, अविद्यां तत्कारणं च कार्यकारणरूपेण सहिते यो वेद सः अविद्योपादानकत्वेन तन्मय्या अन्तःकरणवृत्त्या तदुपादानं मृत्युमविद्यां तीर्त्वा विद्यया स्वरूपभूतज्ञानेनोपलक्षितममृतत्वमश्नुत इति ,

O ३९२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) अङ्गिज्ञातव्यत्वोक्तावङ्गज्ञातव्य-


66 CL " 99 परैर्योऽर्थो वर्णितः सोऽनुवादस्याप्य इति सूच्यते । त्वस्यानुक्तसिद्धत्वात् तत्समुच्चये प्रयोजनमान्द्यादन्यथा व्याचष्टे – यद्वा धर्मे चेति । समु- च्चेतव्ययोर्विरोधिनोः क्लेशगम्यत्वादुक्तार्थसमुच्चयपरतया व्याचष्टे - यद्वा प्रतिपदद्योतका विति । “ धर्मे चार्थे च " इति श्लोके चशब्दस्य विरोधिसमुच्चयपरत्वमुक्तसमुच्चयपरत्वं च व्याख्यातृभिर्व्याख्यातमिति तस्य दृष्टान्ततयोभयत्राप्युपादानं युक्तमिति द्रष्टव्यम् । पुण्यपापे उभे अपीति ; " ज्ञानविरोधि च कर्म पुण्यपापरूपम् " इति भाष्यावतारिकानु- सारात् “ ब्रह्मज्ञानोत्पत्तिविरोधित्वेन " इत्युत्तरभाष्यम्य ततः किमित्यत्रा हेत्यवतारिका देयेति मन्यते । न तन्मात्र पापान्तरविषयः पाप्मशब्द इति ; सर्वे पाप्मानः इत्यत्र पाप्मशब्दस्य दुष्कृतशब्दानुक्तपापमात्रविषयत्वसंभवेऽपि पापशब्दस्य तन्मात्रविषयत्वा- संभवात् “ अपहतपाप्मा ह्येष इति " सकलहेयनिवृत्तिसंवादिसमनन्तरवाक्ये सुकृतविषय- त्वावश्यंभावात् तावताप्यस्माकं समीहितसिद्धेरिति भावः । केचित्तु - सर्वे पाप्मानः इत्यत्र पाप्मशब्दो न दुष्कृतशब्दानुक्तपापान्तरखा चीत्येवार्थः, शब्दस्वारस्यात् । न चैवं समनन्तरवाक्यस्थपाप्मशब्दस्य सर्वपरत्वं पूर्ववाक्यस्थपाप्मशब्दस्य सर्वपरत्वे कथं हेतुः स्यादिति वाच्यम्, एकप्रकरणस्थयोः शब्दयोर्वैरूप्यस्यासति बाधकेऽयुक्तत्वादिति वर्णयन्ति । ननु " अपहतपाप्मा ह्येषः " इति वाक्येऽपि पाप्मशब्दस्यानुक्तकतिपय- पापनिवृत्तिरित्यर्थोऽस्त्वित्याशङ्क्याह न ह्यनुक्तकतिपयपापनिवृत्ताविति । शोका- दिषु पाप्मशब्दस्यामुख्यत्वेपीति ; “अपहतपाप्मा विरजो विमृत्युर्विशोकः” इति वाक्ये शोकादीनां पाप्मशब्दापेक्षया पृथक्कीर्तनादनुगतप्रवृत्तिनिमित्ताभावाच्च शोकादिषु पाप्म- शब्दस्य गौणत्वसंभवेऽपि सुकृतेऽनुगतप्रवृत्तिनिमित्तसत्त्वेन गौणत्वासंभवात् । न च छत्रिन्यायेन लक्षणास्वीकारे वृत्तिद्वयविरोधान्न कस्यापि मुख्यत्वमिति वाच्यम् ; तथापि " “ सृष्टीरुपदधाति " इत्यादाविव भूम्ना लक्षणासंभवे " प्राणभृत उपदधाति " इत्यादिवत् लिङ्गसमवायमात्रेण गौण्या वृत्त्या अनाश्रयणीयत्वादिति भावः । केचित्तु वृत्तिद्वयविरोधो न दूषणमित्यभिप्रेत्यैतदुक्तमिति वदन्ति । अन्ये तु " कालजरामृत्युशोकादयः संख्या- तत्वात् " इति वाक्यकारवचनानुसारात् शोकादिष्वपि पापशब्दस्य मुख्यत्वमेव । अमुख्य- त्वेऽपि न क्षतिः, तावता पाप्मशब्दप्रयोगविषयत्वसाधारण्यस्य हेतुत्वाभावेऽपि प्रवृत्तिनिमित्त- साधारण्यात् “ धर्मेण पापम् ” इत्यत्र मुख्यत्वमेवेत्यर्थ इति वदन्ति । यद्वृत्तद्वयमिति ; 99 6 CC-0 No Rights Reserved. Digitized by eGangotri0 66 (१ – १ – १) भावप्रकाशिका ३९३ यमुन्निनोपति यमथो निनीषति " इति यच्छन्द्रद्वयमित्यर्थः । ज्ञानप्रदानद्वारककार- ‘यितृत्वविषयमवसीयत इति । यद्वृत्तद्वयाभिप्रेतस्य पुण्यपापाख्यस्य कर्मणः स्वर्गनरक- हेतु भूतकर्म कारयितृत्वप्रयोजकोन्निनीषा हेतुत्वमस्माद्वाक्यात् प्रतीयत इत्यर्थः । ततश्च कर्मणां कर्मप्रयोजकत्वं ज्ञानद्वारकमिति सिध्यतीत्यर्थः । नन्वेतावता पापशब्दितस्यासाधु- कर्मकर्तव्यताज्ञानद्वारा नरकहेतुभूतकर्मानुष्ठानहेतुत्वसिद्धावपि न सम्यग्ज्ञानोत्पत्तिप्रतिबन्ध- कत्वं सिध्येदिति चेत्, निषिद्धे कर्मणि बलवदनिष्टजनकत्वलक्षणसम्यग्ज्ञानप्रतिबन्ध- कत्वाभावे तत्र तत्र प्रवृत्तेरेवानुदयप्रसङ्गेनावश्यं सम्यग्ज्ञानप्रतिबन्धकत्वस्य सिध्यति वक्तव्य- त्वात् ब्रह्मज्ञानप्रतिबन्धकत्वमपि ; इतरथा दुरितकर्मप्रवृत्तेरेवासंभवात् । सर्वकर्मदेवता सामान्यविषयमिति 66 ; बुद्धघा संयोजयन्ति तम्” इति बुद्धेर्वेद्यरूपकर्मवि- शेषानुपादानात् सर्वविषयकज्ञानप्रतिबन्धकत्वमेव सिध्येत्, न तु भगवद्विषयमोक्ष हेतुज्ञानप्र- तिबन्धकत्वम्; तथा " न देवा यष्टिमादाय " इति देवतासामान्योपादानात् 66 " एष ह्येव" इति विवक्षितस्य भगवत एव कारयितृत्वस्य न लाभ इत्यर्थः । सम्यग्ज्ञानसामान्यावहिर्भावादिति ; इदमुपलक्षणम्-भगवतोऽपि देवतासामान्या- बहिर्भावादित्यपि द्रष्टव्यम् । पूर्वमेव शिक्षितमिति ; ; अत इदानीमनुवृत्तिर्न दोषायेति भावः । अत्र श्रयमाणत्वादिति ; " धर्मेण पापमपनुदति " इति प्रकरणे । “ तस्माद्यज्ञं परमं वदन्ति ” “ तस्मात्सत्यं परमं वदन्ति ” इत्यादिवाक्येषु श्रूयमाणत्वा- दित्यर्थः । अपनुदेदिति ह्यर्थः स्यादिति ; ननु पापशब्दस्य तादात्विकानिष्टसाधनत्व- रूपार्थाश्रयणे स्वर्गार्थेन कर्मणा कस्यचित् पुंसस्तत्कालविशेषेऽनिष्टपुत्रपश्वादिसाधनकर्म- णामपि विनाशप्रसङ्ग इति चेत्-न; फलान्तरार्थमनुष्ठितस्य कर्मणस्तस्मिन्नेव प्रयोगेऽनिष्टपश्वादिसाधनपापनिवर्तकत्वासंभवात् । प्रकृते च " यज्ञेन " इत्यादि वाक्येन विनियुक्तानां यज्ञादीनां द्वारविशेषाकाङ्क्षायां " धर्मेण पापमपनुदति- इत्यस्य द्वारविशेषसमर्पकतया विद्यार्थमनुष्ठितेनापि पापनिवृत्त्युपपत्तेः । पापशब्दवाच्या- -न्तर्भावाच्चेति ; ननु धर्मत्वेन प्रसिद्धानां ज्योतिष्टोमादीनां मुमुक्षु प्रत्यनिष्टसाधनत्वेन तं प्रति पापत्वे यस्य पुंसो यदा यदनिष्टं तं प्रति तदा तस्याधर्मत्वप्रसङ्गेन व्यवस्था न स्यादिति चेत् —न; इष्टापत्तेः, पुरुषविशेषं प्रत्येव धर्माधर्मव्यवहारात् । तस्मादित्यर्थकत्वमभिप्रेत्य व्याचष्टे - श्रुतिस्मृतीति । अत्र १. तत् इत्यस्य " एवम्’ इति व्याख्येयं 3 50

३९४ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) पदम् । उपायप्रतिबन्धकनिरासार्थमिति छेदः । ब्रह्मज्ञानस्य फलाभिसंधिरहिता- श्रमकर्मसापेक्षत्वादिति ; नन्वेतावता ब्रह्मोपासनस्य कर्मसाध्यस्य तद्विचार सापेक्षत्वेऽपि न ब्रह्मविचारस्य तदपेक्षेति चेत् — न; कर्मोपासनयोः शेषिणोरनुष्ठानक्रमेणैव शेषभूतयोस्त- द्विचारयोरपि क्रम इत्याशयात् । ब्रह्मविचारापेक्षिताधिकारिविशेषणी भूतकर्मास्थिर फलत्व- ज्ञानादिनिष्पादकत्वमप्यस्तीत्याह – ज्ञानं हीत्यादिना । श्रुतप्रदीपिका विशेषान्तरपरा श्रुतिरस्तीत्याह - एवमिति । एवम् ; सामान्यविशेषनयादिति भावः । प्रवचनम् ; मननम् ; कारणे कार्योपचारः । अत्र कथं स्मृतेर्विशेषितत्वम् ? ध्यानादेरनुपायत्वमेव हि प्रतीयत इत्याशङ्कायां प्रथमप्रतीतमर्थमाह – अनेनेति । पृथिव्यामग्निश्चेतव्यः इतिवदिति केवलशब्दस्य भावः । 99 " न ततः किमित्यपेक्षायां लोक- नीतिं दर्शयति-प्रियेति । ततोऽपि किमित्यत्राह - यस्येति । यस्यः उपासकस्य । अयम् ; परमात्मा । परमात्मविषयप्रीतिमत एव तत्प्रीतिविषयत्वमित्यत्र मानतया प्रियतमत्व कार्य- वरणविवरणाय स्मृतिमर्थपूर्वकं दर्शयति – यथेति । अयम् ; अयम् ; भगवति प्रीतिमान् । सततयुक्तानाम् ; आशंसायां क्तः । तद्विवरणायाह – प्रियो हीति । लोकस्मृत्यनु- गृहीतश्रुत्या ध्रुवानुस्मृतेर्विशेषितत्वं दर्शयति – अत इति । स्मर्यमाणात्ययप्रियत्वेन “ अर्थेनैव विशेषो हि निराकारतया धियाम् " इति भावः । कूला 1 तर्हि कथं भक्तेरुपायत्वोक्तिरित्यत्राह - एवमिति । “ सेवा भक्तिरुपास्तिः इति हि नैघण्टुकाः । बहुश्रुत्यैकार्थ्यान्मोक्षोपायवेदनस्य भक्तिरूपत्वमुपपाद्य श्रुति- स्मृत्यैकार्थ्यादेतदुपपादयति – अत एवेति । अत: ; भक्तिरूपोपासनस्य मुक्त्युपाय - वेदनत्वात् । " यस्मात्परं नापरमस्ति किंचित् 22 ; अत्यर्थमिया ; अत्यर्थानु- 66 99 " इति वाक्यार्थ- " " महान् प्रभुर्वे पुरुषः इति पूर्वापरावगतभगवत्परो मध्यस्थशिवशब्दः पुरुषसूक्तैकार्थ्यादिति ज्ञापनाय श्वेता- श्वतरवाक्यमुपात्तम् । उपायान्तरनिषेधकण्ठोत्त्या " ततो मां तत्त्वतः निश्चायकतया ज्ञानदर्शनप्राप्तीनां भक्तिसाध्यत्व कण्ठोत्तया च “नाहं वेदैः” विषयैक्यप्रत्यभिज्ञायां तद्वदुपायैक्यमिति ज्ञापनाय " पुरुषः स परः" एवमस्तु; ततः किं कर्मसापेक्षत्वस्येत्यत्राह - एवंरूपाया इति । उक्तानेकविशेषणविशिष्टायाः ; तत्तदवस्थाभेदः कर्मसाध्य इति भावः । इत्युदाहृतम् । इत्याद्युपात्तम् । एवंरूपायाः ; ध्रुवानुस्मृतेः ;

१ – १ – १) श्रुतप्रदीपिका ३९५ ; न तु विविदिषाया इत्यर्थः । परमसाध्येच्छोरेवावान्तरसाध्ये, प्रवृत्तेर्वेदनेच्छोरेव तदर्थे- च्छार्थमनुष्ठानमित्यात्माश्रय इति भावः । अभ्युपेत्याह – यद्यपीति । तदुत्पत्तये ; विविदिषोत्पत्तये । विद्यायाः कर्मणश्च यावज्जीवानुवृत्तावाश्रमशेषस्य विद्याङ्गत्वे च सूत्राणि दर्शयति – वक्ष्यति चेति । अथाप्रमाणतां शमादिविरोधं च परिजिहीर्षन्नाह- वाक्येति । ध्रुवानुस्मृतेरित्यनेन वाक्यस्थतच्छन्दो व्याख्यातः । केवलस्य यज्ञादेः शमादेश्च व्युदासायैवकारः । इतरेतरयोगे द्वन्द्वः । तेन विकल्पव्युदासः । सहि प्रतीत्यनुष्ठित्यपूर्वफलानां पाक्षिकबाधैरष्टदोषः । संभवः ; युक्तिः । निर्वचनम् ; आगमः ! के पुनस्ते ? कथं च शमाद्यविरोधः ? इत्यत्राह - विवेकेति । इतीति भाष्योक्तिः अत्रेत्यादि च । विषयानभुक्त्वा स्थातुमशक्तिर्येन स विकारोऽभिष्वङ्गः ; अनभिष्वङ्गेण क्रोधाद्यभावश्च फलितः ; कामाद्धि क्रोधः । आरम्बणम् ; आलम्बनं शुभाश्रयः । नात्र साध्याविशिष्टता, कालान्तरसंशीलनस्य योगोपकारकत्वात् । भाष्यकारो द्रमिडाचार्यः । अतः सर्वं निर्वचनं तेन दर्शितमिति विज्ञायते । स्मार्तमिति ; श्रौतस्य " अथ मुनिः इत्यस्यास्फुटार्थत्वात् स्फुटार्थं स्मार्त दर्शितम् । शक्तितः ; न ह्यशक्यं विधीयते । ब्रह्मविदाम् ; न तु ब्रह्मविविदिषूणाम् । क्रियाशब्दविवरणमाह-तमेतमिति । अभिध्या ; परकीये स्वत्वबुद्धिः, परकृतापकारानवरतस्मरणं वा, निष्फलचिन्ता वा । आदिशब्दः " अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्" इत्याद्यार्जवादिपरवाक्यपरः । शोकवस्तु ; शोकनिमित्तं वस्तु । आदिशब्देन भयनिमित्तं वस्तूक्तम् । अतीतागम्य- निष्टज्ञाननिमित्तविकारौ शोकभये । चशब्दो भिन्नक्रमः । तज्जं च ; बन्धुजनदैन्यदर्शनजं च दैन्यमित्यर्थः । अभास्वरत्वम् ; स्वप्रवृत्त्यक्षमत्वं दैन्यशब्दविवरणम् ; भास्वरत्ववि- रोधीति दैन्यविशेषणं वा । यद्वा भिन्नवाक्यतया योजनीयम् - देशकालवैगुण्यात् शोक- वस्त्वाद्यनुस्मृतेश्च जनितमभास्वरत्वं मनसोऽवसादः । किमुक्तं भवतीत्यत आह— तज्जं दैन्यमिति । देशकालवैगुण्यादिजनितं मनसो दैन्यं मनसोऽवसाद इत्युक्तं भवति । अवसादलक्षणमात्रं वाक्योक्तम् ; तद्विपर्यय इति तु भाष्यम् । बलम् ; मनोबलम् । तद्विपर्ययजेति ; देशकालसागुण्यातीतानागतप्रीतिनिमित्तवस्तुज्ञानादिजा । उद्धर्षलक्षणेन तद्विपर्ययः फलित इति नोक्तः । कथं “ 99 स्वाध्यायशौच संतोष इत्या- दिषु योगाङ्गतयोक्तस्य संतोषस्य हेयत्वमित्यत्राह – अतीति । पदेषु व्याख्यातेपु 0

३९६ श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) वाक्यार्थमाह – एवमिति । प्रवृत्तिनिवृत्तिरूपताविभागात् पृथङ् निर्देशः । त्वदनभि- मतेनैवेत्येवकाराभिप्रायः । अविहितनिषिद्धकाम्यनिवृत्तिरूपशमादेर्विहितप्रवृत्तिरूपयज्ञादे- श्वाविरोध इत्यभिप्रायः । मानं च दर्शितम् । अथ स्वमते श्रुत्यन्तरं च प्रमाण – यन् शंकरयादवप्रकाशमतयोजने च व्युदस्यन् “विद्यां च ” इति श्रुतिमुपादाय व्याचष्टे – तथा च श्रुत्यन्तरमित्यादिना । श्रुत्यन्तरमिति ; सन्रहिततया यज्ञादिश्रुतिविलक्षणा समसमुच्चयवादिभिश्च तत्परतया च स्वीकृता श्रुतिरित्यर्थः । अत्र किं कर्मवाचीत्य- त्राह – अत्रेति । अत्र ; न तु " श्रूयतां चाप्यविद्यायाः " इत्यादौ । पदद्वयेन विहित- कर्मज्ञानव्युदासः । वाक्यार्थं योजयति – अविद्ययेति । ज्ञानोत्पत्तिविरोधि ; न तु फलविविदिषाविरोधीति भावः । प्राचीनम् ; न तु विद्यावदुररपूर्वाघविरोधित्वमिति भावः । अपोह्य ; “ प्राप्य स्थितः " इत्यस्वारस्यम् ; अध्याहारश्च गत्यन्तरसद्भावान्न युज्यत इति भावः । कर्मज्ञानशब्दाभ्यां " कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते " इति स्मृतिः फलोपायविरोधिसाधारणस्य मृत्युशब्दस्य प्रकृतिप्रत्ययार्थवेदन तदिच्छा हेतुसाधार- णस्य यज्ञादिवाक्यस्य चार्थनिष्कर्षार्थं स्मारिता / अस्यां स्मृतौ हि " ततो ज्ञानं प्रव- र्तते" इति कर्मसाध्यतया ज्ञानमेवोच्यते, न तु मोक्षो वा विविदिषा वा । अविद्या- शब्दस्य कर्मवाचित्वं सहेतुकं दर्शयति – मृत्युतरणेति । प्रतीता ; प्रतीतिस्वारस्यादि- त्यर्थः । विद्येतरत् ; तदन्यार्थे नञित्यर्थः । न त्वविहितं कर्म ज्ञानं चेति भावः । उक्तं स्पष्टयितुमाह – यथोक्तमिति । ज्ञानमागमोत्थम् । विद्या विवेकादिजा । तर्तुमिति ; तरते: प्राप्त्यर्थत्वव्युदासः । " प्राचीनं कर्म " इति कर्ममात्रस्य निरसनीयत्वोक्तिरयुक्ता, पापमेव हि धर्मनिरसनीयं श्रूयत इत्याशङ्कयाह – ज्ञानेति । कथं पुण्यपापरूपस्य कर्मणः " पापमपनुदति इति पापशब्देन निर्देश इत्यत्राह - ब्रह्मेति । एतेन " न सुकृतं न दुष्कृतं सर्वे पाप्मानः इति प्रयोगोऽप्यभिप्रेतः । रजस्तमसी हि तद्विरोधिनी इत्यत्राह - अस्य चेति । अस्य तयोश्च तादृशत्वे प्रामाणिके हि द्वारद्वारिभावकॢप्तिरित्यत्राह - पापस्य चेति । अधोनयनमुपास्तिवैमुख्यकरणं संसार– पतन हेतुतया तत्रोक्ता । रजस्तमसोस्तथात्वं दर्शयति — रसस्तमसोरिति । एवेत्याप्त - तमत्वसूचनम् । ततः किमित्यत्राह — अतश्चेति । चस्त्वर्थः शङ्कानिवृत्तिपरः ; अन्वय- व्यतिरेकसमुच्चयपरो वा । केन निरास इत्यत्राह - तदिति । अनुष्ठितेन ; न तु ज्ञातमात्रेण । " 99 ।

( १ – १ – १) तत्त्वटीका ३९७ अविद्याशब्दार्थस्य निरासकस्य धर्मत्वं मृत्युशव्दार्थस्य निरसनीयस्य च पापत्वं स्पष्टयन्तीं श्रुतिं दर्शयति तथा चेति । ततः किमित्यत्राह —तदेवमिति । तत् ; श्रुतिस्मृत्युप- पत्तिसूत्रकारवाक्यकारवचनैः । एवम् ; स्वोत्पत्तिविरोधनिरासाय । ततः किं ब्रह्म- विचारस्य कर्मविचारापेक्षत्वे : इत्यत्राह - अत इति । अतः ; ब्रह्मविद्यायाः कर्मसापेक्ष- त्वात् । अपेक्षितेति ; हानायोपादानाय चेत्यर्थः । सैव ; त्वत्प्रतिक्षिप्तैवेति भावः । ? तत्त्वटीका सामान्य- ननु " नायमात्मा" इत्यादौ श्रवणादि त्रिकं प्रतिषिध्य, अपर्यनुयोज्यस्वतन्त्रवरण- मांत्रेण तल्लाभ इत्युक्तम् ; तस्मात् ‘दैवमेव वरं मन्ये पौरुषं तु निरर्थकम् " इति न्यायादुक्तं सर्वं वितथमित्यत्र सूत्रवाक्ययोर्धुवत्वादिविशेषितायाः स्मृतेरुपासनशब्दार्थ- तयाभिप्रेतं भक्तिरूपत्वविशेषणमेव तत्र विवक्षितमित्याह — एवमिति । शब्दानां सूत्राद्युक्तेन विशेषविश्रमप्रकारेणेत्यर्थः । प्रत्यक्षतापन्नाम् इत्येतत् वक्ष्यमाणस्य भक्त्यात्मकत्वस्य न्यायसाम्यसूचनार्थम् । अहेतुकवरणमयुक्तम् ; तस्यादिमत्त्वे निर्हेतुकत्वा- योगात् ; अनादित्वे मुक्तेरप्यनादित्वापातात्, मुक्त्युपायविवेश्च वैयर्थ्यप्रसङ्गात् ; जीव- व्यापाररूपभेदविशेषनिषेधपरस्य वैषम्यनैर्नृण्यनिषेधकसूत्रादेर्विरोधापत्तेश्चेत्यभिप्रायेण अपवर्ग- साधनभूतामित्युक्तम् । फलान्तरार्थोपास्तिपरत्वशङ्का चानेन निरस्ता । परो ह्यात्मात्र लभ्य इष्यते । विशिनष्टि ; न तु प्रमाणप्राप्तं निवर्तयतीत्यर्थः ; अन्यथा उपायान्तर- विधानवैयर्थ्यम् " मत्वा धीरो न शोचति प्रज्ञानेनैनमाप्नुयात् " इति पूर्वापरविरो- धश्च स्यात् । नायमात्मेत्यादौ ब्रह्मशब्देन श्रवणमुपात्तम् ; मेधाशब्दश्च ध्यानार्थः “ मेधामनीपे मा विशतां समीची भूतस्य भव्यस्यावरुद्ध्यै” इति श्रुत्यनुसारात् ; स्यात् ; " धीर्धारणावती मेधा" इति च निघण्टुः । पारिशेष्यात्प्रवचनशब्दः श्रवणध्यान- सहोक्तमननपरः, प्रोच्यतेऽनेनेति करणव्युत्पत्तेः । शिष्यमननार्थगुरुप्रवचनेन वा मनन- लक्षणा ; प्रवचनहेतौ वा तत्कार्योपचारः । ननु स्वरूपनिषेधकस्य कथं तद्विधायकत्वम् ; अत्र च क्वचिदङ्गाङ्गिप्रतिषेधाद्वैयर्थ्यम्, क्वचित्तु विहितप्रतिषेधाद्विरोध इति शङ्कायां श्रव- णादिवैयर्थ्यप्रसङ्गं च परिहरन्वाक्यस्य ध्रुवानुस्मृतिविशेषकत्वं व्यनक्ति –अनेनेति । यथा “ न पृथिव्यामग्निश्चतव्यः " इत्यत्र निषेधस्य हिरण्यवैकल्यपरिहारार्थतया हिरण्योप- हितत्वविधौ तात्पर्यम्, तथात्रापि पृथिव्या इव श्रवणादेर्यथार्हं प्रणाड्या साक्षाच्चावश्यं- 66 99 66 CC-0 No Rights Reserved. Digitized by eGangotri● ३९८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 66 " भावित्वात्प्रीतिवैकल्यनिषेधमुखेन त्रिष्वपि प्रीतिविशेषविधौ तात्पर्यमित्यभिप्रायवान् केवल- शब्दः । यद्वा “ नान्तरिक्षे न दिवि " इत्यभागिप्रतिषेधेन सह पठितः " न पृथिव्याम् ” इति प्राप्तप्रतिषेधो यथा केवल पृथिव्या अन्तरिक्षादिवदधिकरणत्वव्युदासेन हिरण्योपधान- त्ववैशिष्ट्यविधौ विश्राम्यति, तथानुपायभूतश्रवणमननाभ्यां सहोपायभूतनिदिध्यासनस्य प्रतिषेधः केवलनिदिध्यासनस्य श्रवणादिवदनुपायत्वोक्तिमुखेन भक्तत्यात्मकत्वविधौ पर्यवस्य- तीति । अनियमेन यथेष्टं स्वतन्त्रवरणशङ्काव्युदासाय यद्वृत्तानूक्तिचलेन नियतविषयवरण- व्यक्त्यर्थं यमेवेत्युपादानम् वैषम्यादिदोषानाघ्रातसर्वमुहहरणस्य नियतविषयत्वायोगात् । “ यदाज्ञेयः " इति वाक्यस्थभवतिवत् ’ वृणुते’ इत्यस्य प्रयोजकव्यापारविधौ तात्पर्यं ’ लप्स्यमानवरणप्रयोजकव्यापारवता भवितव्यम्’ इति । ननु हिरण्योपधानस्य पृथि वीस्थत्वावश्यंभाववदेतद्वाक्यस्थ यद्धतव्यङ्गयवरणीयता हेतुगुणविशेषस्य ध्रुवानुस्मृतिसंबन्धनिय- मादृष्टेर्न तस्यास्तेन वैशिष्ट्यलाभ इत्यत्राह – प्रियतम इति । फलान्तरार्थभक्त्याभासव्यव- च्छेदार्थं तमप्प्रयोगः । हि: शास्त्रतो लोकतश्च `परावरपुरुषस्वभावप्रसिद्धौ । नन्वेता- । वतापि वरणीयस्य प्रियतमत्वापादकः कश्चिदन्यो व्यापारः सिध्यतु; ध्रुवानुस्मृतेर्विशेषितत्वं तु न लब्धमित्यत्राह —यस्येति । स एव ; सुकृतान्तरवान् ; न च केवलध्रुवानु- स्मृतिमान्, नापि निर्व्याजप्रियः कश्चिदिति भावः । अस्य ; समोऽहं सर्वभूतेषु इत्यादिना स्वेनैवोक्तस्वभावस्येति यावत् । अयं भावः - - अन्येषां स्वप्रीतिहेतुव्यापारा- णां. स्वलाभार्थवरण हेतुत्वाभावात् स्वविषयनियतात्यन्तिकप्रीतिमानेव परस्य प्रियतमो भवन् स्वप्रापणाय वरणीयः स्यात् । इयं च निरतिशयप्रीतिरूपा बुद्धयवस्था मुक्तिसमुत्पादने विकल्पसमुच्चयविद्वेषिण्यनन्यगतिकप्रमाणवशान्मुक्तिसाधनतया स्थापितवानुस्मृतिमाथ- यन्ती तां विशिनष्टिीति । ननु स्वशेषतया नित्योपात्तस्य किमद्य वरणम् ? सर्वव्या- पितया नित्यप्राप्तस्य किं वेदानीं लभ्यत्वम् ? प्रियतम एवास्य वरणीय इति च कुतस्त्यम् ? इत्यत्र तत्सर्वमुपबृंहणेन स्पष्टयति – यथेति । अयम् ; भगवति निरुपाधिकभोग्यता - विभवेन निरतिशयप्रीतिमान् । अत एव प्रियतम आत्मानं प्राप्नोति ; रमते स्वात्मनि । प्रसेदुषस्तस्यापवर्गाव्यवहितहेतुभूतबुद्धियोगादिप्रदानेऽन्येषामिव परसापेक्षत्वं नास्तीति व्यक्त्यै स्वयमेवेत्युक्तम् ; उपासितुरचिन्त्यमेव हितमाचरतीति वा सूच्यम् । भगवतैव ; “ यमेवैष वृणुते " इति वरणकर्तृतया श्रुतेनैव । एतेन स्वतः सर्वज्ञतया 66 । 66 99

( १ – १ - - १ ) तत्त्वटीका ३९९ परमाप्तत्वमपि व्यज्यते । सततयुक्तानाम् ; सततयोगमाशंसमानानाम् ; भूतवच्च " इति क्तः । " " आशंसायां सततयुक्तानां भजताम्’ इत्यनेनैवोपासकबुद्धेः प्रीतिरूप- त्वस्य सिद्धत्वात् ’ प्रीतिपूर्वकं ददामि इत्यन्वयः । उपचारापचाराभ्यां प्रीतिद्वेषौ परस्य न । निमित्तशक्त्या तु फलं तयोरिति नयोज्झितम् ॥ ३१२ ॥ वरणं चोन्निनीषा चाधोनिनीषा च शासितुः । श्रुतत्वादनिषिद्धानि तत्तत्कर्मफलार्पणात् ॥ ३१३ ॥ कस्यचिद्वरणोयतानिदाने प्रियतमत्वे श्रुत्यभिप्रेतः सततयुक्तशब्दोक्तश्च हेतुस्तत्रैव विवृत इत्याह– प्रीयो हीति । अत्यर्थम् ; अत्यभिधेयम् ; मयापि दुर्वचमिति भावः । अत्र वरणं ’ मामयं प्राप्नुयात्’ इत्यमोघः संकल्पः । अत्र लभ्यत्वं चास्य इत्यनेनाभिप्रेतम् निवृत्तप्रतिबन्धनिरुपाधिकानुभवविषयत्वमित्यर्थादुक्तं 66 विवृणुते 39 ; भवति । अत्र सोपबृंहणयापि श्रुत्या ध्रुवानुस्मृतेः प्रीत्यात्मकतया विशेषितत्वमनभि- व्यक्तं व्यनक्ति—अत इति ; लोकानुसारात् उपात्तश्रुतिस्मृतितात्पर्यवृत्त्या चेत्यर्थः । अत्यर्थप्रिया ; अतिमात्रानुकूल्यस्वभावतया स्वयमेव भासमाना अयुक्तदशायामपि " या प्रीतिरविवेकानाम्" इति न्यायेन प्रीतिरूपज्ञानान्तरेण विषयीकृता ; विषयविशेषायत्तं हि सर्वत्र विषयिणो ज्ञानस्य प्रीतिरूपतं प्रीतिविषयत्वं चेत्यभिप्रायेण स्मर्यमाणात्यर्थप्रियत्वोक्तिः । वरणविवरणयोः कर्तुस्तकर्मणो वरणीयादार्थी प्राकरणिकी व्यावृत्तिः पुरेणेति दर्शिता । ननु " शेमुषी भक्तिरूपा इति पुराणादिप्रसिद्धं भक्तेरुपायत्वं प्रक्रान्तम् ; ध्यानोपासनादिशब्दवाच्यम्’ इत्यादिशब्देन भक्तिशब्दोऽपि विवक्षितः ; उपात्तासु श्रुतिषु तु न तद्धीरस्ति; अतः कथमविरोधस्तत्राह – एवंरूपेति ; उक्तशृङ्खलाक्रमेण विशेषितेत्यर्थः । प्रतिज्ञामात्रमेतदित्यत्राह – उपासनेति । ध्रुवानुस्मृतेः प्रीतिरूपत्वेनो- पासनशब्दवाच्यतया च विशेषणात् " स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते " इति तल्लक्ष णानुरोधात् “ सेवा भक्तिरुपास्तिः " इति पर्यायपाठात् शब्दभेदेऽप्यैकायसिद्धौ विधेय- भेदाभावान्न विरोधप्रसङ्ग इति भावः । वेदनादिशब्दानां भक्तिपर्यवसायित्वमुपबृंहणोप- बृंहणीययोर्मिथः प्रतिक्षेपकत्वप्रसङ्गरूपयुक्तत्यन्तरेण दृढीकृतमित्याह – अत इति । इदं

0 ܘܘ8 श्रीभाष्यम् (जिज्ञासाधिकरणम्) फलरूप हेतु परम् ; वेदनोपासनादिशब्दै भक्तेरेवोक्तत्वादित्यर्थः । अन्यथा श्रुतीनामिव श्रुतिस्मृत्योरपि मिथो विरोधः स्यादित्यभिप्रायवानेवकारः । एवम् ; श्रुतौ वेदनव्यतिरिक्तः स्मृतौ तु भक्तिव्यतिरिक्तश्चरमोपायो नास्तीत्युक्तप्रकारेणेति यावत् । " ननु “ तमेव विदित्वातिमृत्युमेति " इति श्वेताश्वतरवाक्यं शिवादिशब्दसमभिव्या हाराद्रुद्रविषयम् ; " तमेवं विद्वान् " इति तु महापुरुषविषयम् ; तत्र चात्र च " नान्यः इत्याम्नातम् ; अतो मिथो व्याघात इति मन्दशङ्कापनुत्त्यै तदुभयवाक्यो- पन्था अयनाय


66 वेदाहमेतं पुरुषं महान्तम् " इत्याद्यैः पूर्ववाक्यैः " महान् पादानम् । अयं भावः प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तक : ’ دو 66 सहस्रशीर्षा पुरुषः इत्याद्यैरुत्तरवाक्यैश्च सत्त्व- " "" भक्त्या प्रवर्तकस्यानन्यपरपुरुषसूक्तोदितस्य महापुरुषस्य शब्दतोऽर्थतश्च प्रत्यभिज्ञया शिवमहेश्वरादि- शब्दानां तत्परत्वावश्यंभावेनैन्द्री न्यायेन रूढिपरित्यागस्य न्याय्यत्वात्, “सर्वः शर्वः शिवः " इति भगवन्नामपाठात्, शिवशब्दस्य च मङ्गल्यादौ रूढत्वात्, प्रसिद्धिप्रकर्षस्यात्रोक्त- रीत्या नैष्फल्यात्, अनन्यथासिद्धनारायणानुवाकसौवालम होपनिषदादिप्राबल्यात् " शाश्वतं शिवमच्युतम्” इतिवन्महापुरुषविषयत्वावश्यंभावात्, “ तस्मात्सर्वगतः शिवः " इत्यस्या - रम्भे “ सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः " इति सहस्रशीर्षत्वादिप्रत्यभिज्ञानात्, " सर्वव्यापी च भगवान् " इति भगवच्छब्दस्य महापुरुषरूढत्वस्थापनात्, निगमनस्य प्रस्तुतशेषतया तदविरोधेन नेयत्वाच्च विगीतं पुरुषसूक्तोक्तविषयमेवेति । अत्र " नाहम् इत्यादेः वेदतपःप्रभृतीनां साक्षादुपायत्वाभावे तात्पर्यमिति न तद्विरोधः । त्वनन्यया ” इत्यादेश्च पर्वभेदवतैव भक्तिरूपज्ञानेन ज्ञानान्तरादेः साध्यत्वे तात्पर्यान्नात्मा- श्रयादिप्रसङ्गः । " पुरुषः स परः इत्याद्युपादानस्य न पूर्वेण कृतकरत्वम्, तदप्रति- पन्नख्यापनात् । अयं खल्विहाभिप्रायः - " तमेवं विद्वान् " :-" इत्यत्र “ आदित्यवर्णं तमसः परस्तात् " इति यत्पूर्ववाक्ये श्रुतं तदेव " अणोरणीयांसमनुस्मरेद्यः " इत्यारभ्या- चिन्त्यरूपत्वादित्यवर्णत्वोत्त्या प्रत्यभिज्ञापितम् । " धाता पुरस्तात्" इत्युक्तं च " सर्वस्य धातारम् " इति दर्शितम् । तत्र श्रुतौ विदिनोक्तमिहानुस्मरतिना विवृतम् । " इति चानन्तरं विशेष्यते । अतो भक्तिरूपा ध्रुवानुस्मृतिः श्रुतौ विदिना विधीयत इति गम्यते । यद्यप्यत्र यद्वृतावृत्तिवशात्पुरुषार्थान्तरसाधनविषयत्वमेव युक्तम्, तथापि समानन्यायतया मोक्षार्थविदेरपि भक्तिविश्रमसिद्धिः स्वीकार्या । तत्रैव च "" भक्त्या युक्तः ० 99

( १ – १ – १) 66 पुरुषः स परः तत्त्वटीका. ४०१ इत्यादिना मोक्षार्थश्रौतविदेरपि तद्विशेषपरत्वं व्यञ्जयति । “ यमेवैष वृणुते तेन लभ्यः " इति श्रुतिसंपुटनिगूढं चात्रोद्घाटितम् । अत्र हि ज्ञानिनां प्राप्यान्तर- वत्प्रापकान्तरमपि सविशेषणोक्त्या व्युदस्तम् । श्रुत्युक्तप्रत्यभिज्ञया प्राप्यैक्यवदुपायैक्य- मपि हि युक्तम् । अतो विदिस्थाने ध्यायत्युपासिंवद्भजतिरप्यत्र विशेषकतया प्रयुक्तः । पुंसूक्तभगवद्गीते प्रमाणतमसंमते । 6 • ततः 9 न मिथो बाधमर्हेतां नैकार्थे स्मृत्यनादरः || ३१४ || ननु " भक्त्या मामभिजानाति " इत्यादौ भक्तिसाध्येन ज्ञानेन परप्राप्तिर्गीता ; मैवम् ; तत्रापि " ततो मां विशते " इति भक्तेरेव प्राप्तिहेतुत्वेन परामर्शात्; अन्यथा इत्यस्य ’ नैरर्थ्यात् । अतो " भक्त्या प्रवेष्टुम् " इत्युक्त्यैकार्य्यम् । ननूपात्तश्रुतिस्मृतिस्वारस्यात् वेदनानुवचनयज्ञादिनिरपेक्षा भक्तिरेव मुक्तिसाध- नमस्तु ; ततश्च न कर्मविचारवृत्तत्वं सिध्येदित्यत्राह - एवंरूपाया इति ; सुकृतसापेक्ष - ध्यानादिभक्त्यन्तपर्वविशेषवत्तया श्रुतिस्मृतिसूत्रवाक्यसिद्धाया इत्यर्थः । श्रुतिसूत्रयो- विविदिषाविषयत्वं प्रकरणतोऽर्थतश्च प्रत्यूढमित्यभिप्रायेण ध्रुवानुस्मृतेरित्युक्तम् । अभि- धास्यते ; सूत्रकृतास्माभिश्च समर्थयिष्यत इति भावः । " विविदिषन्ति " इत्यस्य संनिधौ “ मनसैवानुद्रष्टव्यम् " इति विशदवेदनं विहितम् । " एतमेव विदित्वा मुनि- र्भवति " इति स्तुतम् । अतो विधिस्तुतिविषयस्यैव वेदनस्यात्र विध्यन्तराकाङ्क्षा, न तु तदुभयरहिताया विविदिषायाः । विविदिषासाधनत्वेन विधानं च दुर्वचम् । न हि ’ यागेन स्वर्गं जिगमिषति’ इत्युक्ते यागस्य जिगमिषासाधनत्वं स्यात्; इह च वेदनेच्छा- विरहे विविदिषाकामत्वस्यासिद्धिः; तत्संभवे तदुपायानपेक्षणम् ; वेदनेच्छया च विविदिषा- कामना ; तया यज्ञाद्यनुष्ठानम् ; तेन विविदिषोत्पत्तिरिति चक्रकं स्यात् । अत्र पर्वसंको- चेनात्माश्रयमन्योन्याश्रयं च केचिदूचुः । न चात्राज्ञातसुकृतनीतिः, सावधानकृच्छ्रसा- ध्यत्वाद्यज्ञादेः । अतः ‘असिना जिघांसति’ इत्यादिष्विवानुपपत्त्या नेच्छासाधनत्वेनान्वयः । साध्येच्छया विना कापि साधनेच्छा न सिध्यति । अतो विविदिषार्थत्वायोगाद्विद्यर्थता त्विह ॥ ३१५ ॥ 51 अपवर्गाभिलाषात्तत्साधनेच्छापि सिध्यति । अतो वेदनकामस्य युक्तं तत्साधने विधिः ॥ ३१६ ॥

० ४०२ श्रीभाष्यम् भक्तिरत्र फलत्वेन प्रकृत्या परिमृश्यते ( जिज्ञासाधिकरणम् ) अधिकारतया ख्याप्या तदिच्छा प्रत्ययेन तु ॥ ३१७ ॥ नन्वदृष्टस्य सांसारिकसर्वकार्यहेतुत्वमेवैष्टव्यम्, अन्यथा विषमसुखदुःखादिहेतु- भूतविचित्रे च्छोत्पत्तेः कदाचित्तदनुत्पत्तेश्चायोगात् ; अत इच्छामात्रस्य साध्यत्वे वेदनेच्छाया अपि तथात्वात् तत्खण्डनं सर्वतन्त्रविरुद्धं स्यात् । अत्रैवं प्रत्युक्तं श्रुतप्रकाशिकायाम् – “ भोगादृष्टोद्बोधितपूर्ववासनासचिवाद्विषयवैलक्षण्यज्ञानादिच्छोत्पत्त्यु- पपत्तेः " इति ।


भोगार्थेन ह्यदृष्टेन पुंभिरप्रार्थितान्यपि । अन्तरस्थानि कार्याणि स्युः फलप्रदबुद्धितः ॥ ३१८ ॥ तदिह भक्तिरूपब्रह्मवेदनकामः शान्त्यादिसहितैर्यज्ञादिभिस्तद्भावयेदिति प्रयोग- विधिः । ननु भक्त्यर्थोपायविधावपि त्वदुक्तचक्रकादिप्रसङ्गः स्यात् । न स्यात् ; भक्तेरुप- चयमनुवृत्तिं चापेक्ष्य तद्विधानात् । वेदनसाधनविधावपि न विरोधः, सामान्यतो विदि- तेऽपि विशेषतो बुभुत्सया प्रवृत्तेः । न च विशेषेऽपि विदिताविदितविकल्पानुपपत्तिरिति वाच्यम्, तवापि बुभुत्साप्रश्नादिघटिते वादादौ प्रवृत्तेः; अन्यथा पामरपरीक्षकविरोधात् ; अथैवमुत्पन्नविविदिषस्य तदनुवृत्तिकामनया तदुपायविधिरित्युच्येत तत्रापि फलवैषम्या- भावात् तदन्वारोहात् परोक्तवेदनस्य प्रागेव निरस्तत्वात् । स्वोक्तवाकारविशिष्टवेदनेच्छानु- वृत्त्यै यावज्जीवं कर्मणोऽनुष्ठेयत्वमाह – यद्यपीति । परोक्तविविदिषामात्रसाधनत्वे त्वन्वा - रोह इति पक्षे तु विविदिषानुवृत्त्या प्रत्युत्तरं कथंचिन्नेयम् । तस्यैव; विविदिषागोचरस्यैव । न ह्येतद्वेदनं यागादिवदपूर्वादिवद्वा] सकृदुत्पन्नं सान्तरं वा साधनमित्यभिप्रायेण ध्यानरूप- त्वोक्तिः । अहरहरित्यादिकं निरन्तरस्याप्ये काहसाध्यत्वं दर्शपूर्णमासादिवद्दिवसान्तरित- साध्यत्वं च व्यवच्छिनत्ति । आप्रयाणादनुवृत्तिवचनं संवत्सराद्यवधिकप्रतिदिनकर्तव्यत्व- व्युदासार्थम् | अभ्यासाधेयातिशयस्येत्यनेन दृष्टोपकारश्चास्तीति व्यज्यते । तदुत्पत्तये; अनुवृत्तेरिष्टतया यज्ञादिसाध्यत्वेनाभिमतविविदिषोत्पत्तय इत्यर्थः । सर्वाणीत्येतद्यथार्ह विभाज्यम् । यावज्जीवमित्यनेन जन्मान्तरशतेत्यादेः प्रागुक्तस्योपालम्भः । विविदि- 0 पायां जातायामपि मध्ये कर्मणां त्यागो न युक्तः, विविदिषाविच्छेदे वेदनविच्छेद - प्रसङ्गात् । न हि सकृदुत्पन्नया विविदिषया वेदनानुवृत्तिः सिध्येत् सकहुभुक्षयेव भोज - CC-0 No Rights Reserved. Digitized by eGangotri· (१ – १ – १ ) तत्त्वटीका ४०३ नानुवृत्तिः । प्राचीनसुकृतभूम्नानुवृत्तिसंभवेऽपि पाक्षिकविन्नशान्त्यै प्रवर्तितव्यमिति भावः । पूर्वं वेदनस्य ध्यानोपासनादिरूपत्वे सूत्र दर्शितम् ; अथाहरहराप्रयाणादनुवर्तनीयत्वे तद्वदेव तदङ्गकर्मानुवृत्तौ च सूत्राणि सन्तीत्याह – वक्ष्यति चेति । सूत्रैरेव तत्त- द्विषयवाक्यान्यपि सूच्यन्ते । एतेन स्वोक्तानभ्युपगमे सूत्रादिविरोधो दृढीकृतः । " आप्रयाणात्तत्रापि हि दृष्टम् " इत्यनेनैव कर्मणो यावदायुरनुष्ठेयत्वं सिद्धम्, खल्वेवं वर्तयन् यावदायुषम् " इति वाक्यस्य " दृष्टम्" इत्यनेन विवक्षितत्वात् । तत्र च कुटुम्बे शुचौ देशे " इत्याद्युक्तधर्मानुवृत्तेः एवं वर्तयन्" इत्यत्रांनूदितत्वात् । 66 " यावज्जीवमग्निहोत्रं जुहोति 66 "" 66 इति नियतस्यापि विद्याङ्गत्वज्ञापनाय अग्निहोत्रादि- सूत्रोपादानम् । “ विहितत्वाच्चाश्रमकर्मापि " इत्याश्रमाङ्गतयोक्तस्य कथं विद्यार्थत्वमित्यत्र विनियोगपृथक्त्वव्यञ्जनाय " सहकारित्वेन च इति सूत्रग्रहणम् । आदिशब्देन " सर्वथापि त एवोभयलिङ्गात् " इति कर्मणां विद्याश्रमाङ्गत्वे तन्त्रानुष्ठानसूचकसूत्र- संग्रहः । अथ विरोधादप्रमाणत्वात् इत्यादिपूर्वपक्ष हेतून् सूत्रकाराभिप्रायविदां वचसापि परिहरति — वाक्येति । एवकारेण शमादेर्यज्ञादेश्च विरोधाभावः स्वोक्तसंवा- दश्च ख्याप्यते । अथ वा न साधनचतुष्टयेन, न च विवेकादिष्वन्यतमेन कर्ममात्रेण शमादिमात्रेण चेत्यर्थः । निषिद्धकाम्यव्यर्थेभ्यो निवृत्तस्य शमादिभिः । स्वाश्रमोचितविद्याङ्गप्रवृत्तिर्न विरुध्यते ॥ ३९९ ॥ अविरोधेन संभूय साधनत्वव्यक्त्यै वाक्यमुपादत्ते - तल्लब्धिरिति । अत्र तच्छब्दार्थो ध्रुवानुस्मृतेरित्यनेन दर्शितः । हि परामृश्यते । “ उपासनं स्याद् ध्रुवानुस्मृतिः " इति तत्र प्रकृतं विवेकादीनां सप्तानामेकस्मिन् कार्येऽन्योन्य सापेक्षत्वरूपेणेतरेतरयोगेन समप्रवृत्तिनिवृत्तिरूपाणामाश्रमभेदेन व्यवस्था, शक्येत्यपि कतिपयशङ्का च व्युदस्ता ॥ संभवात् ; एकत्र योग्यतया विरोधप्रसङ्गाभावात् । निर्वचनात् ; अतीन्द्रियेऽर्थे निश्चा- यकमानतया निष्कृष्टाद्वचनात् ; युक्तिसहितादागमादिति यावत् । इह विद्यायाः कर्म- जन्यत्वसिद्ध्यर्थतयोपात्ताः के विवेकादयः ? कथं च तेषामविरोध: ? इत्यत्र वाक्यकारेणैव व्याख्यातत्वमाह – विवेकादीनामिति । स्वरूपं च उद्दिष्टानां मिथो व्यावर्तक-

० ४०४ 0 श्रीभाष्यम् (जिज्ञासाधिकरणम् ) रूपं चेत्यर्थः । जातिदुष्टं लशुनादि । आश्रयदुष्टं शूद्रान्नादि । निमित्तदुष्टं केशाद्युपहतम् । तादृशदोषराहित्येनाशुद्धेभ्यो विभक्तादन्नात् सेन्द्रियस्य देहस्य रजस्तमो- ऽभिभवरहितसत्त्वोन्मेषापादनेन शुद्धितः पृथक्करणं विवेक इति । प्रदर्शकं वाक्यमाह- जातीति । अत्र निर्वचनमिति भाष्योक्तिः । निर्वचनें सत्त्वमन्तःकरणं सत्त्वगुणो वा । तस्य कायोक्तिः । सापि करणवर्गेपलक्षिका । “आयुः सत्त्व- आहारशुद्धौ सच्चशुद्धिरिति शोधनीय सर्वोपलक्षणतया वाक्ये " इत्यादिभिः शुद्धाशुद्धाहारश्च गीतः । विमोकशब्दस्यात्र “ कामः क्रोधस्तथा लोभः " इत्याद्युक्तत्याज्यवर्गानुपश्लेष- परतया कामानभिष्वङ्ग इति मूलघातोक्तिरित्यभिप्रायः । कामोऽत्र तीव्रतमसङ्गजन्यः, 66 99 इत्यत्र सङ्गात् संजायते कामः इत्युक्तेः । तेनाभिष्वङ्गोऽनुवृत्तदृढग्रहणम् ; तदभावे कामात् क्रोधोऽभिजायते " इत्याद्युक्तपरंपरानिवृत्तिः । " शान्त उपासीत शान्तशब्दः करणव्यापारनिवृत्तिमुखेन कामादिराहित्यपरः । आरम्बणम् ; योगमारु- रुक्षोश्चित्तालम्बनं शुभाश्रयरूपम् । विवरणे तु - " ज्ञानालम्बनमुपास्यम् " इत्युक्तम् । तस्य संशीलनम् अनुकूलतया शीलनम् । पुनः पुनः इत्येतदङ्गप्रकरणात् “ व्यापृतेनापि मनसा " इत्यादिस्मृत्या चोत्थानकाले योज्यम् । अत एव नात्माश्रयशङ्का । इदं च योगानुगुणवासनाप्रचयार्थं कषायापाकरणार्थं च । " बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः " इति श्रौतनिर्वचनस्यास्पष्टार्थतया तदुपबृंहणं दर्शितमित्यभिप्रायेण स्मार्तोक्तिः I अत्र भाष्यकारो ब्रह्मनन्दिवाक्यव्याख्याता द्रुमिडाचार्यः । तेनान्येषु श्रुतिरुदाहृता ; अत्र तु स्मृतिः । अथ वान्यत्र वाक्यकारेणैव श्रुतिरुदाहृता ; अत्र तु भाष्यकारेणैव स्मृतिरिति । यद्यपि " यं यं वापि स्मरन्" इति प्रक्रमात् सदा " इत्यादिकं सामान्यं, तथापि " तस्मात्सर्वेषु कालेषु मामनुस्मर इत्युत्तरवाक्यानुसारेण प्रकृतार्थ- 99 66 त्वात्तद्गुहः । पञ्चमहायज्ञोपादानं " गृहस्थोऽपि विमुच्यते " इति स्मृतिसूचनार्थम् । आदिशब्देनाश्रमान्तरधर्माणामपि संग्रहः । यद्यपि काम्ये सकलाङ्गोपसंहारः प्राप्तः, तथाप्यत्र वचनाद्यथाशक्त्यनुष्ठानं पर्याप्तमित्यभिप्रायेण शक्तित इत्युक्तम् । " तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम्" इति हि स्मर्यते । “क्रियावानेष ब्रह्मविदां वरिष्ठः " इत्यत्र सन्प्रयोगाभावेन कर्मणां विद्यान्वयस्फोट्यात् “ विविदिषन्ति " " इत्येत- दपि नियमितम् । इदं च वाक्यं क्रियाया अङ्गत्वेन विद्या पौष्कल्यहेतुत्वपरम् ; न तु

8 ( १ – १ – १) तत्त्वटीका ४०५ निष्क्रियब्रह्मवित्सद्भावसूचकम्, यावज्जीवं क्रियानुवृत्तेरुक्तत्वात् । मत्वर्थीयस्य भूमपरतया विधुरादिब्रह्मविद्यावृत्तिपरं वा । तेषां हि वर्णधर्ममात्रयोगित्वादवरत्वम् " अतस्त्वितर- ज्ज्यायो लिङ्गाच्च " इति सूत्रसिद्धम् । अत्र “ मन्त्रेषु कर्माणि " इत्यारभ्य " तान्या- चरत नियतं सत्यकामाः इति श्रुतिरप्यनुसंध्या । क्रियाशब्दस्य चित्तसमाधानादि– मात्रव्यावृत्त्यै तमेतमित्याद्युपात्तम् । अनाशकेन ; अनशनेन । अत्र गोबलीवर्दन- यात्तपः शब्दसंकोचः । यद्वा नाशकादन्येनेति ; यज्ञाद्यपि भोगार्थं चेत् संसारात्मकनाश- प्रदमेव श्रुत्यादिसिद्धम् । भूतहितं यथार्थं च वाक्यं सत्यम् | अजिवम् ; करणत्रयस्यै- करूप्यम् । दया ; स्वार्थनिरपेक्षा परदुःखनिराचिकीर्षा । दानम् ; न्यायसिद्धद्रव्यस्य यथाविधि पात्रसात्करणम् । तेन लोभनिवृत्तिर्व्यज्यते । “ दैप् शोधने " इति धातौ स्वपक्षादिशोधनं वा । " दो अवखण्डने " इत्यत्र पराहंकारखण्डनं वा, " निगृह्णीयाद्य- थाशक्ति देवतागुरुनिन्दकान् " इति स्मृतेः ; " न विगृह्य कथां कुर्यात् " इत्यस्य कामकारविषयत्वात् । अशास्त्रीयप्राणिपीडावर्जनमत्राहिंसा, “अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः” इति स्थापनात् । अभिध्या ; परप्रतिकूलचिन्ता ; अभिचारादौ भि: प्रातिकूल्यार्थ : ; परकृतद्रोहे निरन्तरस्मृतिर्वा, वितथाभिनिवेशो वा परस्वे ग्राह्यत्वधी तन्निवृत्तिः अनभिध्या । एवं कतिपयोपादानमार्जवदयादिसहपठितानामन्येषामप्युपल- क्षणम् । इत्यादीत्यनेन “अमानित्वमदम्भित्वम्” “दया सर्वेषु भूतेषु ” “ क्षान्तिरनसूया" इत्यादेः संग्रहः । अनवसादोऽर्थात् सिध्येदिति कृत्वा सहेतुकं तत्प्रतियोगिस्वरूपविषयं वाक्यमुपादत्ते – देश इति । शोकनिमित्तं वस्तु शोकवस्तु ; शोचत्यनेनेति करणव्यु- त्पत्त्या वा शोकशब्दः । आदिशब्दो भीतिहेतुपरः ; भूतभाव्यनिष्टगोचरधीरूपे दुःखे शोकभये । वैगुण्यादनुस्मृतेश्चेत्यनयोः मनसोऽभास्वरत्वमित्यनेनान्वयः । अभा- स्वरत्वम् ; भास्वरत्वाभावः, तद्विरोधि वा । तज्जनितं तदभास्वरत्वम् । तत्स्वरूपाभिव्य- क्त्यै तद्विवरणवाक्यस्याकाङ्क्षायां मध्ये तज्जं दैन्यमिति वाक्यान्तरम् । तस्यां जातं तस्मिन्मनसि वा जातमभास्वरत्वं दैन्यम्; उपयुक्तप्रकाशनाशक्तत्वमित्यर्थः । यद्वा मनसो यदभास्वरत्वं, यच्च तज्ज दैन्यं तदुभयमवसाद् इति योज्यम् । तज्जम् ; तादृश- दयाविशेषाज्जातमित्यर्थः । अस्ति हि पुंसां परदुःखदुःखित्वादि भास्वरत्वविरोधि मनसो दैन्यम् ; तज्जं च शोकादिकमिति वा नेयम् । भास्वरत्वमिह प्रकाशकत्वम् ; तदभावः । ;

४०६ श्रीभाष्यम् 66 (जिज्ञासाधिकरणम्) । 99 " तज्जं च दैन्यमवसादः " इत्यत्र तद्विपर्ययोऽनवसाद इति वाक्यशेषो भाप्योक्तः । वाक्ये तु शिष्याणामूहशक्तिसंपत्त्यै तदनुक्तिः । बलहीनेन ; समदुःखसुखं धीरम्’ इत्युक्तमनोबलरहितेनेत्यर्थः । तद्विपर्ययजा ; देशादिगुणैर्भूतभाविपुखहेतुधिया बन्धुसु- खेन च जातेत्यर्थः । उद्धर्षोक्तावपि पूर्ववत्तद्विपर्ययोऽनुद्धर्प इत्युद्यत्वाद्वाक्यानुक्तं भाष्ये दर्शितम् । “यदृच्छालाभसंतुष्टः” “सततं योगी" “स्वाध्यायशौचसंतोष" इत्यादिविरो- धमाशङ्कयाह — अतिसंतोष इति । असंतोषवदतिसंतोषोऽपि विषयान्तरेष्वपि प्रवर्तकतया विरोधीत्यर्थः । इदं च ‘उद्धर्षः’ इत्युपसर्गेण सूचितम् । “ऐश्वर्यमदमत्तो हि" इत्यादिषु तत्तद्वृत्तान्तेषु चास्य विरोधित्वं प्रसिद्धम् । निर्वचनमपीत्यत्रापिशब्दः संभवसमुच्चयार्थः पूर्वनिर्वचनेष्वपि भाव्यः । प्रकृतं कर्मणामुपयोगं निवृत्त्यंशेन तेषामविरोधेन निवेशनं च सूत्रवाक्याभिप्रेतन्यायसमाहारसिद्धं निगमयति — एवमिति । एवकारेण परानिष्टत्वं द्योत्यते । तत्त्वमस्यादिवाक्यानि वा व्यवच्छिद्यन्ते । तदिह कर्मणोऽनुपयोगविरो- धप्रमाणाभावा निरस्ताः । ० ।


अथ मृषावादिना समुच्चयवादिभ्यां चान्यथा व्याख्याता श्रुतिरस्मदुक्तप्रकारमेव व्यक्तीत्याह — तथेति । चोऽवधारणे ; श्रुत्यन्तरं च तथेति वान्वयः । अन्तर- शब्दः सन्प्रत्ययरहितत्वेन स्फुटार्थत्वात् अङ्गानामङ्गिनिप्पादने द्वारप्रदर्शनात् कर्मणां विध्यन्तानां कण्ठोक्तवेदनकरणकफलभावनानिष्ठतया परमपुरुषार्थविश्रान्तिबोधनाच्च प्रागुक्त- वाक्याद्विशेषं व्यनक्ति । विद्यां चेत्यादेः परविद्यां तदङ्गभूतां कर्मरूपाविद्यां चानुष्ठे- यत्वेन शास्त्रतो यो वेत्तीत्यर्थः । चकारावत्रोक्तसमुच्चयार्थौ । तयोरनुक्तद्योतकत्वे तु तत्तदितिकर्तव्यताविशेषयोरेव विद्याफलयोर्निवर्त्ययोश्च प्राप्त्युपायविरोधिनोर्ग्रहणम् । उभयं सहेत्यत्राङ्गाङ्गितया तृतीयाध्याये साधयिष्यमाणयोरनुष्ठेययोर्बुद्धयारोहणे साहित्यमभि- प्रेतम् ; न तु समकालतयोपादेयत्वे । वेद्यत्वे हि सहभाव उच्यते ; न तु सहिततया वेदनम् । न ह्युत्पत्तिदशायां विरोधिनिरासदशायां च विद्याकर्मणोः सहत्वसंभवः । अत्र “ अन्धं तमः प्रविशन्ति ” इत्यादिना " ततो भूय इव ते तमः" इत्यादिना च प्रत्येक- निन्दापरत्वम् । चकारः सहशब्दश्च समसमुच्चयस्थापकाविति न भ्रमितव्यम् तेषाम- न्यथासिद्धत्वात् । “ य उ विद्यायां रताः" इति कर्मानादरेण विद्योत्पत्त्यर्थोत्साहवन्त इत्यर्थः । कर्मनिरतानां विद्यानिरपेक्ष कर्मस्वरूपं तावन्निष्पद्यत एव ; न तु तावन्मात्रेण 99 ०

( १ – १ – १ ) तत्त्वटीका ४०७ मुक्तिः ; विद्यानिरतानां हेत्वभावाद्विधैव न संभवति, कुतस्तरां मुक्तिरिति भूयः शब्दाभि- प्रायः । अविद्याशब्दस्यात्र कर्मविषयत्वं प्रकरणेन स्थापयति – अत्रेति । न तु सर्वत्र ; 99 " अविद्यायामन्तरे वर्तमानाः " क्षरं त्वविद्या र्थान्तरे प्रयोगात् । इह तु आत्मन्येवानुपश्यति 99 "" "" अनात्मन्यात्मबुद्धिर्या ” इत्यादिष्व- कुर्वन्नेवेह कर्माणि " इत्यादिना विद्या तदङ्गं कर्म च प्रकृतम् ; तदेवात्राविद्याशब्देन विद्योपयोगज्ञापनार्थमनूदितम् । पर- व्याख्यायां व्याख्यातौ संशयविपर्ययौ छेत्तुं पदार्थवाक्यार्थी स्फुटयति – अविद्ययेति । पापस्यानर्थहेतुतया अवयवशक्त्या गौण्या वा मृत्युशब्दबोध्यत्वाय यज्ञादेर्विविदिषोत्पत्ति- विरोधिनिवर्तकत्वव्युदासाय चोदितज्ञाननिवर्त्यतया श्रुतिस्मृतिशतसिद्धप्राप्तिविरोधिव्यावृत्त्यै च ज्ञानोत्पत्तिविरोधित्वोक्तिः । यादवप्रकाशीयनिर्वाहोऽप्येतेन निरस्तः । यद्यत्र मृत्युतरणं मुक्तिरेव कथं विद्ययान्यत्साध्यं स्यात् ? क्त्वाश्रुतिश्च न घटते, स्वापेक्षया स्वस्य पूर्वत्वायोगात् । पन्थाः 99 धीसंकोचनिवृत्तिश्चेदविद्याख्येन कर्मणा । धीविकासोऽपि सैवेति न साध्यान्तरसंभवः || ३२० ॥ प्रतिबन्धनिरासश्च साध्यते चेदविद्यया । अमृताप्तिः स्वतःसिध्येन्नादृष्टान्तरकाङ्क्षिणी || ३२१ || स्वतः स्वानुभवाधानप्रवणः प्राणिनां प्रभुः । प्रशान्तप्रतिबन्धानां निरपेक्ष हि कारणम् || ३२२ ॥ ० 99 मृत्युशब्दस्य साधारण्यसंभवेऽपि “ तमेव विद्वित्वातिमृत्युमेति इत्यादि – स्पष्टार्थबहुश्रुतिस्मृतिबलेन विद्यानिवर्त्यप्राप्तिविरोधिविषयत्वासंभवात्, तत्र च " नान्यः इति साधनान्तरप्रतिषेधेन कर्मणो विमुक्तिसाधनत्वेन समुच्चेतव्यत्वायोगात् कर्मणः श्रुत्यादिभिरेव विद्यासाधनत्वस्थापनादिहोपायविरोधिनि कर्मण्येव वृत्तिः । विद्याया इव कर्मण उत्तराघविरोधित्वाभावात् प्राचीनग्रहणम् । ’ तीर्त्वा’ इत्यस्य स्वरसार्थं त्यक्त्वा ’ प्राप्य स्थितः ’ इति परोक्तं क्लिष्टत्वादध्याहाराच्चायुक्तम् । यज्ञादिसत्कर्मणां विविदिषाविरोधितया मृत्युशब्दवाच्यं कर्म तीर्खेति गमनिकापि विविदिषार्थविनियोगप्रति- षेधात्प्रत्युक्ता । " एतं सेतुम्" इत्यादिषु गत्यभावात्तरतेः प्राप्तिवचनत्वमित्यभिप्रायेण अपोह्येत्युक्तम् । विद्याशब्दस्य शास्त्रादिष्वपि प्रयोगादिह प्रकृतत्रह्मवेदनविषयत्वं

0 C ०४०८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) " व्यनक्ति–ज्ञानेनेति । “एतद्रुमृनम्” “ एतद्भयम्” “एतद्ब्रह्म" " ब्रह्मविदाप्नोति परम् " । ० इत्यादिश्रुत्यनुसारेणाह — अमृतं ब्रह्मेति । ननु पूर्वम् ’ अविद्यानिवृत्तिरेव मोक्षः, सा च ब्रह्मविज्ञानादेव भवति’ इति परोकमभ्युपगतम्, इह तु " ब्रह्मविदामोति ब्रह्मविदाप्नोति" इत्युक्या- स्यां श्रुतौ साध्यान्तरं ’ स्वीकृतमिति भाति ; मैवम् - अविद्यानिवृत्तिशब्देन ज्ञानसंकोचं - निवृत्तेर्विवक्षितत्वेन भावान्तराभावनयेन सैव ब्रह्मप्राप्तिरिति समानार्थत्वात् मोक्षशब्द- ‘स्वारस्यानुरोधात् " अविद्या कर्मसंज्ञा " इत्युक्तबन्धककर्मनिवृत्तिविवक्षायां तु तावन्मात्र - मेवोपासनसाध्यम् । धीसंकोच हेतुनिवृत्तौ सेतुभङ्गस्रोतः प्रवृत्तिनीत्या तादृशेश्वरसंकल्पेन स्वतः प्राप्तो धीविकासः । अतः " विद्ययामृतमश्नुते " इत्यनेन प्रतिबन्धनिवृत्तौ विद्यातः सिद्धायां स्वतः सेत्स्यन्ती ब्रह्मानुभूतिरुच्यत इति न पूर्वापरविरोधः । ब्रह्मप्राप्तेश्च परमपुरु- पार्थतया काम्यमानत्वेऽपि तलतिबन्धकनिवृत्युपायस्य काम्यवथगेव व्यपदेशः । प्राप्तितत्साधनानां हि प्रतिबन्धनिवर्तकाः । 0 निवृत्तिधर्माः सर्वेऽपि नैमित्तिकपदे स्थिताः || ३२३ ॥ अत्र करणविभक्तत्यन्त कर्मज्ञानशब्दाभ्यां " कषायाक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते इति स्पष्टार्थोपबृंहणार्थः सूच्यते । तेन च मृत्युशब्दस्यानोपायविरोधिविषयत्वं वेदानुवचनादीनां " विविदिषन्ति " इत्यत्र प्रकृत्यर्थेनान्वयः समुच्चयवादनिरासश्च सिध्येत् । कषायस्य पापस्य तज्जन्यरागादेर्वा पक्तिः; पच्यतेऽनेनेति पाकनिमित्तम् । गम्यतेऽनेनेति गतिः । ततो ज्ञानम् ; न तु विविदिषा, नापि मुक्तिः प्रवर्तते; उचितविषये प्रकृष्टवृत्तिमद्भवतीत्यर्थः । आस्तां प्रकरणम् । अस्मिन्नेव कर्मणां विद्याङ्गत्वे साधारणानामविद्यादिशब्दाना- मस्मदुक्तपदार्थनियमे च निर्वाध : स्वारस्यप्राप्तो वस्तुसामर्थ्यरूप हेतुर्लक्ष्य इत्यभिप्राये- णाह - मृत्युतरण इति । प्रतीता इति हेतुगर्भम् । विद्येतरत् इत्येतदत्रत्याविद्या- शब्दनिरुक्तिः । अब्राह्मणादिशब्दनयात्तदन्यवृत्तौ प्रकरणस्थासन्नविषयत्वं युक्तमित्यभि- प्रायेण विहितं कर्तेत्युक्तम् ; न त्वविहितं कर्म, नापि ब्रह्मज्ञानादिकमिति पदद्वया- न्वितावधारणाभिप्रायः । एतेन " कुर्वन्नेवेह कर्माणि " इत्यत्र कर्मशब्दः साधारणोऽप्यु- चितविषये नियमितः ; न हि काम्यादिकं यावज्जीवमनुष्ठेयम् । उक्तश्रुतेरुपबृंहणेन स्वोक्तौ पदार्थवाक्यार्थी स्थिरीकृतावित्याह-यथोक्तमिति । ज्ञानव्यपाश्रयः ।

0 66 (१ – १ – १) तत्त्वटीका ४०९ आगमोत्थज्ञाने प्रतिष्ठितः । ब्रह्मविद्यामधिष्ठाय - विवेकादिजन्यां परविद्यां भक्तिरूपा - पन्नां निष्पाद्यत्वेनाभिसन्धायेत्यर्थः । " आगमोत्थं विवेकाच्च" इति प्रस्तुतं ज्ञानद्वयमेव ह्यत्र स्पष्टीकृतम् । अत एव मृत्युशब्दस्यात्र विविदिषाविरोधित्वं चायुक्तम् ; तस्याः साध्यत्वेनानुपादानात्। “ब्रह्मविद्यामधिष्ठाय" इत्यनेनैव विविदिषानिष्पत्तेरर्थसिद्धत्वाच्च । तर्तुं मृत्युम् ” इति प्रयोजनवचनेन “ तीर्त्वा ” इत्यस्य प्राप्त्यर्थत्व शङ्का च निरस्ता । उपबृंहणीयश्रौतपदसूचकाविद्याशब्दोक्तमेव च यज्ञशब्देन व्यञ्जितम् । यज्ञान् इयाज — चका- रेत्यर्थः । ननु धर्मेण पापस्यैवापनोद्यत्वं श्रुतम्, अत्र तु प्राचीनं कर्मेत्यविशेषेण पुण्यस्यापि तरणं कथं भाषितमित्यत्र वक्ष्यमाणश्रुतावपनोद्यतयोक्तं शोधयति – ज्ञानेति ! पुण्यस्य कथं धर्मापनोद्यत्वं, पापशब्दवाच्यत्वं चेत्यत्राह — ब्रह्मेति । उभयोः इति विगीता- विगीतसंवलितत्वोक्तिर्निदर्शनपरा । अत्र अभिधेयत्वम् – बोध्यत्वम् । “ लक्षयेत् " इति विवरणोक्तिर्वैभवात् । अयं भावः - - " स एव धर्मः सोऽधर्मः तं तं प्रति नरं भवेत् ’ • इत्यादि स्मर्यते । अतः पुण्याभिसन्धिप्रसिद्धमपि मुमुक्षुदशायां पापायते । मुमुक्षुत्वामुमुक्षुत्वदशाभेदेन कर्मिणः । कर्मैकं पापपुण्यत्वे साध्यैक्येऽपि समश्नुते ॥ ३२४ ॥ श्येनादेश्चोदितस्यैव द्वैरूप्यं द्विविधश्रुतेः । एकस्यैवैकदैवास्ति कालभेदे तु किं पुनः || ३२५ || 99 प्रकृष्टसुखरूपस्वर्गैकसावनं पुण्यमपि न्तरायनिरयशब्दनिन्दितस्वफलसङ्गार्थसिद्ध्यै निरुपाधिकसुखरूपब्रह्मज्ञानं प्रतिरुणद्धि; अतः प्रवृत्तिधर्मस्य निवृत्तिधर्मेणापनोद्यत्वं युज्यते । पापलक्षणं च कर्तुरनिष्टफलसाधनत्वेन शास्त्रवेद्यत्वम् ; “ नैतसेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम् । सर्वे पाप्मानोऽतो निवर्तन्ते " इति श्रुतौ च निगमनस्थस्य पाप्मशब्दस्य शोकादिषु लाक्षणिकत्वेऽपि सुकृतदुष्कृतयोर्निमित्त- सम्भवान्मुख्यत्वमेव ग्राह्यम् । छत्रिन्यायेन सर्वत्र लक्षणावृत्त्यैक्यपक्षेऽपि तारतम्यमस्ति । न च सुकृतदुष्कृतशब्दयोरिव दुष्कृतपाप्मशब्दयोरिह गोबलीवर्दन्यायात् पाप्मशब्दस्य दुष्कृतविशेषपरत्वं शङ्कयम् ; उभयोरपि व्यापित्वेन हयतुरङ्गशब्दयोरिव तदयोगात्, सर्वशब्दविशेषणवैयर्थ्यं च । अपहतपाप्मा ह्येष ब्रह्मलोकः " इत्यनन्तरवाक्यं च प्रकृत- सर्वहेयनिवृत्तिप्रख्यापने स्वरसम् । तदिह पूर्वापरपाप्मशब्दयोरसङ्कोचन समानार्थत्वमेव 52 66

४१० श्रीभाष्यम् (जिज्ञासाधिकरणम्) युक्तम् ; एवं सति पुण्यविशेषे पापशब्दः प्रवृत्तिनिमित्तैक्यात् घटत इति । ननु रजस्तम- सोर्ज्ञानविरोधित्वमिष्टम् ; तत् किं पापेन सह समुच्चयतः, विकल्पतः कारणान्तरेण वेति नियामकाभावात्पापंस्य ज्ञानविरोधित्वं दुरवधारणम् ; अतो दुःखसाधनत्वमेव तस्येत्यत्राह - अस्येति । शुद्धसत्त्वमिहाभिभूतरजस्तमस्कमुपयुक्तप्रकाशादिजनकं सत्त्वम् । ज्ञां- नोत्पत्तिद्वशायामपि पुंसां त्रैगुण्यानुवृत्त्या तदातनगुणान्तराभ्यां विशेषव्यक्त्यै विवृद्धि - शब्दः । " कर्मवश्या गुणाः " इत्यादिभिः गुणानां तद्द्वारत्वसिद्धिः पापस्य दुःख- साधनत्वं च नान्यव्यवच्छेदेनेति भावः । द्वयोरपि ज्ञानविरोधित्वे मानाभावे कथं द्वार- द्वारित्व कल्पनमित्यत्र द्वारिणस्तावद्विरोधित्वे मानमाह – पापस्येति । इत्यादिश्रुतौ न तावत् “ अधो निनीषति ” इत्येतन्निरयादिनिनीषार्थम् ; अत्रोन्निनीषायाः- " एष एव स्वर्गादिविषयत्वाभावात् । “ यमेभ्यो लोकेभ्य उन्निनीषति ” इत्यत्र स्वर्गादिसर्वलोकेभ्यो ह्युन्नयनं स्वरसतः प्रतीयते ; अतोऽपवर्गप्रापणप्रतिपक्षभूताधोनयनार्थमिहासाधुकर्म तत्सा- धनविरुद्धमेव स्यात् ; तत्साधनं चात्र " मामुपास्स्व ” इत्यादि विहितम् । तस्य चोपक्रमे 66 " c 99 यं त्वं मनुष्याय हिततमं मन्यसे ” इति हिततमत्वमव्यवहितमोक्षोपायत्वं सिद्धम् । तदेवात्र सन्निधिबलात् साधारणेनापि साधुकर्मशब्देन गृह्यते तत्कारयितृत्वं च " ददामि बुद्धियोगं तम् ” इत्यादिभिर्विशेषतोऽप्युक्तम् । तस्य चोत्पत्तिप्रतिबन्धकत्वेन विरुद्धं कर्म भगवद्वैमुख्यापादनं कर्म ; तत्सांमुख्येऽधोगतिप्रसङ्गाभावात् । असाधुकर्मणश्चाधोगति- निदानत्वम् “ तानहं द्विषतः क्रूरान् ” इत्यारभ्य " ततो यान्त्यधमां गतिम् " इत्यन्तेन स्फुटीकृतम् । यद्वा साधुकर्मशब्द इह प्रस्तुतोपायाकाङ्क्षिताङ्गपरः । न चात्र कर्मण उन्नयनशब्दोदितमुक्त्युपायत्वम् अद्वारकम् श्रुत्यादिभिस्सद्वारकत्वस्थापनात् । अतो विद्याङ्गकर्मप्रतिकोटिस्थमसाधुकर्मात्र विद्योत्पत्तिविरुद्धमेव । किं च साध्वसाधुकर्म कारयितृ- त्वमिह न प्राचीनजीवकर्मनिरपेक्षम् ; वैषम्यनैर्नृण्यप्रसङ्गात् । न च वायूदकादिवत् प्रेरकत्वम् ; शास्त्रवैयर्थ्यादिप्रसङ्गात् बुद्धिप्रदानादिवचनविरोधाच्च । O O अतः " यमधो निनीषति" इति यद्वृत्तेन कस्यचिदनुवादोऽघोनिनीषा हेतु भूतपापकारित्वं व्यनक्ति । पूर्वपापे चोत्तरपापारम्भे ज्ञानलोपः तन्मूलविपरीतज्ञानं च द्वारम् । तथा चोपबृंहितम्- " पापं प्रज्ञां नाशयति ” इत्यादिभिः । सर्वदेवेषु सर्व- 66 यस्मै देवाः प्रयच्छन्ति " पापेषु च सामान्योक्तमपि प्रकृतेऽप्यकुण्ठितम् । विशेषतश्च गीयते" क्षिपाम्यजलम् ” । ""

1 0 0 (१ – १ – १) 66 तत्त्वटीका ० ४११ इत्यादि । अतः पापस्य ज्ञानोदयविरोधित्वं सिद्धम् । ननु श्रुतेन द्विविवेन पापेनैव ज्ञानं निरुध्यताम् ; निवृत्तिधर्मेण चोत्पद्यताम् ; अलमुभयत्र प्रकृतिगुणैर्द्वारीकृतैरित्यत्राह - रज इति । ’ सच्चस्य’ इत्युपादानमिह रजस्तमसोर्व्यतिरेकव्याप्त्या च ज्ञानहेतुत्वनिश्चयार्थं साधुकर्मद्वारप्रदर्शनार्थं ज्ञानोत्पत्ति हेतु भूतशुद्धसत्त्वेत्युक्तस्थापनार्थं च । श्रुतिस्मृतिप्रमितान्य- तरत्यागस्य सति गत्यन्तरे विकल्पस्य चायोगात् द्वारद्वारित्वमेवात्र युक्तमिति भावः । ननु “ रजसो लोभः " इत्यनेनान्यथाधी हेतुत्वमपि सिद्धम्, अप्राप्तविषयलोभस्य भ्रान्तिहेतु- त्वात् ; यया धर्ममधर्मं च ” इत्यादिना तद्व्यक्तम् : “नाभुक्तं क्षीयते कर्म" इत्यादि - स्मृत्या कर्मफलभोगावसाने ज्ञानं साध्यतां, धर्मस्य च धृतिशब्दार्थसुखसाधनत्वमेव ‘प्राप्तमिति शङ्कापनुत्त्यै’ निष्कृतिशास्त्रविनियोगपृथक्त्वाभ्यां सिद्धं निरास्यनिरासकस्वभावं निर्धारयन्नुक्तमर्थद्वयं निगमयति — अत इति । निरसनीयम् - अनन्तेषु पापेषु सन्त- न्यमानेषु न कदाचिदपि भोगेन निश्शेषशान्त्यवसरः ; अतश्शास्त्रोक्तनिष्कृत्यैव तन्निरासः कार्य इति भावः । तथाप्यपरिमितानां निष्कृतिरप्यशक्येत्यत्राह - तदिति । मप्यस्य धर्मस्य ” इत्यादिन्यायेन फलान्तरसङ्गरहितनिवृत्तिधर्ममाहात्म्यात्तन्निवर्तनं शक्य- मित्याशयः । “ य उ चैनमेवं वेद" इत्यादिषु शास्त्रार्थवेदने फलश्रुतिः प्रशंसार्था परम्परया वा स्यात् अधिकारिभेदेन वा । अतः अनुष्ठानं प्रधानम् ; तत्परित्यागिनां तु कारणाभावात् कार्याभाव इत्यभिप्रायेणोक्तम्- - अनुष्ठितेनेति । " स्वल्प- उपात्तश्रुतिगतानाम- विद्यादिशब्दानां स्वष्टार्थत्वं, पापस्य भोगेन विनापि निवर्त्यत्वं च स्पष्टयन्तीं श्रुतिमुदा- धर्मशब्दः प्रायश्चित्तमात्रविषयोऽप्यविशेषान्निवृत्तिधर्ममपि तत्र धर्मशब्द: ’ विज्ञानादानन्दो ब्रह्मयोनिः " इत्यादिना ब्रह्मविद्यासन्निधानात् । सहपठित- हरति — तथेति ; गृह्णाति ।

  • दानादिषु प्रतीतानि द्विषद्वशीकरणफलान्तराण्यपि ब्रह्मविद्यानिष्पत्त्यनुगुणान्येव । अङ्गिफलं चात्र 66 भूयो न मृत्युमुपयाहि विद्वान् 99 इति प्रस्फुटम् । अतोऽत्र निवृत्तिधर्मेण सांसारिकपुण्यपापयोः द्वयोरपि पापशब्दोक्तयोर्निवत्त्वं सिध्येदिति ॥ एतावता किमायातमित्यत्र तन्मूलमुपासनात्मकं ज्ञानमित्यनेनाभिप्रेतं कर्मसापेक्षत्वं निरूढमित्याह तदिति । तत् उक्तश्रुतिस्मृतिसूत्रोपपत्तिसम्प्रदायवलात्। एवम्– निष्काम कर्मणां ब्रह्मविद्याप्रतिबन्धनिरासकत्वप्रकारेण । अस्त्येवं विचार्यस्योपासनस्य स्वाङ्ग- कर्मापेक्षा । तद्विचारस्य कृत्स्नकर्मविचारापेक्षा कथमित्यत्र स्थापितमर्थं निगमनेन स्थिर-

O ४१२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) यति - अत इति ; मुक्तिसाधनविद्याया निवृत्तिधर्मनैरपेक्ष्या योगादित्यर्थः । अपेक्षितकर्म- स्वरूपज्ञानमित्यनेन वृद्धव्यवहारेण त्रीह्यादिवत्कर्ममीमांसया यज्ञादिपदार्थानां सेतिकर्त- व्यताकानां विशेषतो वेदितव्यतया विधिविनियोज्यस्वरूपापेक्षिणि विनियोगे नागृहीतविशे- षणन्यायतः स्वाङ्गसाध्यस्य फलसाधनतया तत्स्वरूपान्वितस्यैव बुभुत्सितत्वमचिन्तितेऽप्यु- पासने कर्मणश्चिन्तयितुं शक्यत्वं च सूच्यते । विद्यानङ्गकर्मनिन्दया विद्याप्ररोचनं च तादृशकर्मज्ञानापेक्षमित्यभिप्रायेण केवल इत्यादिकमुक्तम् । अवसेयम् ; साध्यमिति यावत् । मीमांसा अत्र विचारः | त्याज्योपादेयसहितोपासनशास्त्रार्थं विचारयतामव- श्यंभाविनस्तदुभयस्वरूपनिश्चयस्य कर्ममीमांसासाध्यतयात्रापेक्षिता त्वदनिष्टा वृत्तत्वेन वक्तुं युक्तेत्यभिप्रायेण सैवेत्युक्तम् । अन्ततः कर्मपरीक्षासापेक्षा ज्ञापत्रयवृत्ततोक्तिश्चानेन निरस्ता | साधनचतुष्टयस्य वा व्युदास एवकारेणोपक्षिप्यते । मूलभावप्रकाशिका केवल श्रवणेति ; केवलशब्देन प्रीतिराहित्यमुच्यते । श्रुतौ प्रवचनशब्दो मनन- लक्षकः, मननसाध्यत्वात् प्रवचनस्य; प्रसिद्धप्रवचनस्य मोक्ष हेतुत्वाप्रसक्त्या निषेधान- र्हत्वात् । मेधाशब्दो निदिध्यासनपरः । श्रुतशब्दः श्रवणपर इति भावः । यमेवैष इति ; एष परमात्मा यं वृणुते प्रार्थयते तेन पुंसा अयं परमात्मा प्राप्यो भवति । एष परमात्मा तस्य स्वां तनूं स्वस्वरूपं विग्रहं च विवृणुते प्रकाशयतीति “यमेवैषः” इति श्रुतिखण्डस्यार्थः । अनया श्रुत्या भवदभिमतं किं सिध्यतीत्याशङ्क्य परमात्मवरणीयतायाः परमात्मप्राप्तिहेतु- त्वावगमात् परमात्मप्रीतिविषयत्वमन्तरेण परमात्मप्रार्थनीयत्वलक्षणवरणीयत्वं नास्तीति सिद्धम् । यस्य पुंसः परमात्मनि प्रीतिरस्ति तस्मिन्नेव पुंसि परमात्मप्रीतियुक्ता, सर्वेषां पुंसां स्वविषयप्रीतिमत्पुरुष एव प्रीतिदर्शनात् । इति सिध्यति ; ततश्च परमात्मनि प्रीतिर्मोक्षोपाय ध्यानस्य च मोक्षोपायत्वं सिद्धम् ; अतः शास्त्रद्वयैककण्ठयाय प्रीतिरूपं निदिध्यासनं मोक्षहेतुरित्याह – प्रियतम एवं हीत्यादिना । यथायं प्रियतम इत्यनेन " तस्यैष आत्मा विवृणुते तनूं स्वाम् ” इति श्रुत्यर्थोऽत्रोक्तो भवतीति द्रष्टव्यम् । यद्वा ’ यथायं प्रियतमः ’ इत्युत्तरग्रन्थशेषः । तस्मिन् पक्षे ’ स्वयमेव भगवान्य- तते’ इत्यस्याहमेव यत इत्यर्थः । प्रयतत इति ; ’ यमेवैष वृणुते तेन लभ्यः’ इत्युक्त- मिति पूर्वेणान्वयः । न केवलं परमात्मविषयप्रीतेर्मोक्ष हेतुत्वस्य वरणीयत्वाक्षिप्तपरमात्मप्रि- CC-0 No Rights Reserved. Digitized by eGangotri9 0 6 ( १ – १ – १) मूलभावप्रकाशिका ४१३ यतमत्वाक्षेपलाभमात्रं, गीतं च भगवतेत्याह - भगवतैवोक्तमिति । सततयुक्तानाम् ; सततयोगमाशंसमानानाम् ; मयि प्रीतिमतामिति यावत् ; भजतां तेषां येनोपायेन मामुप- यान्ति तादृशं बुद्धिलक्षणोपायं प्रीतिपूर्वकमहं ददामीत्यर्थः । ’ सततयुक्तानाम् इत्य- नैनोपासकस्य भगवति प्रीतिर्दर्शिता, प्रीतिपूर्वकम्’ इति भगवत्प्रीतिर्दर्शिता भवति । न च “ आशंसायां भूतवच्च" इति क्तप्रत्ययः प्रयोक्ताशंसायामेव दृष्टः ; यथा 6 देवश्चदृष्टः, संपन्नाःशालयः ’ ’ उपाध्यायश्चेदागतः; अधीतं व्याकरणम्’ इत्यादाविति शक्यम्, प्रयोक्ताशंसायामेवेति नियमस्य वृत्तिग्रन्थादावदृष्टेः । प्रियो हीति ; अत्यर्थम्; अत्यन्तमित्यर्थः । यतो ज्ञानिनोऽहमत्यन्तप्रीतिविषयोऽत एव मम तस्मिन् प्रीतिरित्यर्थः । अत्यर्थप्रिया यस्येति ; विषयस्यात्यन्तानुकूलतयात्यन्तानुकूलं यस्य भगवज्ज्ञानं तस् वरणीयत्वम् ; अतस्तेनैव पुंसा परमात्मा लभ्य इति “ यमेवैषः ” इति गीतोपबृंहित- श्रुत्योक्तं भवतीत्यर्थः । नन्वन्यत्र भक्तेरुपायत्वं प्रतीयते ; कथमुच्यते प्रीतिरूपापन्नभ्रुवानु- स्मृतेरेवोपायत्वमित्याशङ्क्याह – एवंरूपेति । उपासनपर्यायत्वादिति ; “ सेवा भक्ति- रुपास्तिः ” इति नैघण्टुकोक्तेः “ स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते " इति स्मरणाच्चेति भावः । अत एवेति ; यतः, वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवस्मृतौ सा च दृष्टित्वमभ्येति दृष्टिर्भक्तित्वमृच्छति ॥


अत एव वेदनातिरिक्तोपायनिषेधकश्रुतीनां भक्तिव्यतिरिक्तोपायनिषेधकगीतावचनानां च प्रमाणतमत्वेन सर्वसंप्रतिपन्नानामैककण्ठयं सिध्यतीति भावः । अतिमृत्युमेति ; मृत्युं संसारमत्येति, तरतीत्यर्थः । अमृत:; मुक्त इत्यर्थः । अयनाय ; ईयते प्राप्यत इत्ययनं प्राप्यम् ; मोक्ष इति यावत् । प्रवेष्टुम् ; प्राप्तुमित्यर्थः । पुरुषः स पर इत्यस्य ’ यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम् ” इत्येतदुत्तरार्धम् । नन्वस्त्वेवंरूप भुवानुस्मृतिर्मुक्तत्युपायः ; तावता भवतः किं सिद्धमित्यत्राह एवंरूपाया इति । यज्ञादिश्रुतेरिति : “ सर्वापेक्षा च यज्ञादिश्रुतेरभवत्" इति सूत्र इत्यर्थः । ननु कथं यज्ञादीनां भवानुस्मृतिहेतुत्वम्? “ विविदिषन्ति यज्ञेन दानेन " इति यज्ञादेर्विविदि- पान्वयस्यैव प्रतीतेरित्याशङ्क्याह-यद्यपीति । विनियुज्यन्त इति; विनियोगः इत्यर्थः । औपगवादौ प्रत्ययार्थप्राधान्यदर्शनेऽपि सनन्ते ‘अश्वेन जिगमिषति '

४१४ ० श्रीभाष्यम् (जिज्ञासाधिकरणम्) 6 असिना जिघांसति’ इत्यादावश्वादेः प्रकृत्यर्थान्वयस्यैव दर्शनात् ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुः’ इति फलार्थकल्पितवाक्यश्रुतेः प्रकृत्यर्थप्रतिष्ठाया एव फलत्वप्रतीति- रिति मीमांसकव्यवहारात्, ज्योतिष्टोमादिविधिवाक्येषु कामनाविषयत्वेन श्रुतस्य स्वर्गादेः फलत्वदर्शनेन प्रकृतेऽपि सन्प्रत्ययवाच्येच्छाकर्मत्वेन श्रुतस्य वेदनस्यैव यज्ञादिफलत्वस्यो - चितत्वाच्चेहापि प्रकृत्यर्थवेदनान्वंय एव यज्ञादेः प्रतीयते, सनन्तस्थले व्युत्पत्तिभेददर्शनादिति यद्यपीत्यस्याभिप्रायः । ब्रह्मप्राप्तिसाधनत्वादिति; वेदनस्यैव फलसाधनत्वात् तत्साधनत्वेनैव विविदिषाया गौणफलत्वस्येच्छाविषयत्वस्य च वक्तव्यत्वात् वेदनेच्छा- मन्तरेण तत्साधनविविदिषेच्छया कर्मानुष्ठानं नास्तीति सिद्धम् । वेदनेच्छायां च सत्यां सिद्धा विविदिषेति किमुद्दिश्य कर्मानुष्ठीयेत ? अतो वेदनोत्पत्त्यर्थमेव कर्मानुष्ठेयम् । " विविदिषन्ति " इत्यत्र प्रत्ययार्थान्वयस्वारस्यं च भञ्जनीयमिति भावः । नन्वेवं तुल्य- न्यायेन बुभुक्षासिद्ध्यर्थं चिकित्साकर्मविपाकादिकं च नानुष्ठीयेत, भोजनेच्छाभावे तत्साधनं- बुभुक्षायामिच्छाया असंभवेन तदुद्देशेन कर्मानुष्ठानायोगात् ; तत्सत्त्वे च बुभुक्षायाः सिद्धत्वात् किमुद्दिश्य चिकित्साद्यनुष्ठानमिति साम्यात् । यदि च सामान्यतो भोजन इष्टसाधन- त्वावरात्येच्छामात्रसत्वेऽजीर्णादिप्रतिबन्धकवशात् प्रवृत्तिपर्यन्तोत्कटेच्छा न जायत इति तदर्थं चिकित्साद्यनुष्ठानमिति, तर्हि ब्रह्मज्ञानेच्छायां सत्यामपि बह्वायाससाध्यत्वज्ञानात् प्रवृत्तिपर्यन्तोत्कटेच्छा न जायत इति वक्तुं शक्यमिति चेत् — न ; भोजनप्रवृत्तिप्रतिबन्धकी- भूतधातुवैषम्यमूलकाजीर्ण निवृत्त्यर्थमेव चिकित्सानुष्ठानम् न तु भोजनेच्छासिध्यर्थम्, तस्याः पूर्णायाः पूर्वमपि सत्त्वात् । तर्हि पूर्वं भोजनेच्छा सर्वात्मना नास्ति, इदानीमौषध- सेवया संजाता’ इति व्यवहारः कथमिति चेत्–न; पूर्वं क्षुत्पीडाया अभावात् तन्नि- वृत्त्युद्देशेन भोजनेच्छा प्राङ् नासीत् ; अधुना साभूदित्येतत्परत्वात् व्यवहारस्य । अतो विविदिषार्थकर्मानुष्ठानासम्भवात् तादर्थे च सत्याप्रयाणं कर्मानुष्ठानानुवृत्तिविधिविरोध- प्रसङ्गाच्च वेदन एव समर्थं विहायान्वयोऽङ्गीकर्तव्य इति भावः । यद्वा विविदिषार्थत्वेऽपि कर्मणां यावज्जीवं वेदनानुवृत्त्यर्थं विविदिषाया अनुवृत्त्यवश्यंभावात् विविदिषार्थमपि कर्मणामावश्यकत्वमिति भावः । अस्मिन् पक्षे ’ तदुत्पत्तये सर्वाण्याश्रमकर्माणि ’ इत्यत्र तच्छब्दो विविदिषापरः । " आप्रयाणात्तत्रापि हि दृष्टम् " इति सूत्रं प्रायणान्तं ध्यानानु- वृत्तिप्रतिपादनपरम् । अग्निहोत्रात् " इति सूत्रं तु विद्यालक्षणकार्यायाग्निहोत्रादेर्या- 66

(१ – १ – १ ) . मूलभावप्रकाशिका 66 66 ४१५ वज्जीवमनुष्ठेयत्वप्रतिपादनपरम् ; " विविदिषन्ति यज्ञेन दानेनू " इति यज्ञादेर्वेदनार्थत्व- दर्शनाद्दिग्रालक्षणकार्यायाग्निहोत्रादिकमनुष्ठेयमिति हि तस्य सूत्रस्यार्थः । विवेकादिभ्य एवेति ; न तु केवलकर्मणा केवलशमादिना वेत्यर्थः । तल्लब्धिरिति ; ध्रुवानुस्मृतिलम्भ इत्यर्थः । दर्शनशब्देनोपपत्तिरुच्यते ; निर्वचन शब्देन प्रमाणम् ; प्रमाणोपपत्तिभ्या- मित्यर्थः । जात्याश्रयेति ; जातिदुष्टं कलञ्जादि । आश्रयदुष्टं पतिताद्यन्नम् । ‘केशकी - टादिदूषितं निमित्तदुष्टम् । कामानभिष्वङ्ग इति ; कामशब्दितशब्दादिविषयेष्वनत्यादर इत्यर्थः । शान्त इति ; रागद्वेषादिरहित इत्यर्थः । आरम्बणेति ; आरम्बणमालम्बनं शुभाश्रयः ; तस्य संशीलनं योगकालकर्तव्यध्यानानुग्रहार्थं कालान्तरेऽपि क्रियमाणमभ्य- सनम् । अभ्यास इतीति; अत्र इतेर्विवेकादीनां स्वरूपं चाहेत्यत्रान्वयः । एवमुत्तर- त्रापि द्रष्टव्यम् । स्मार्तमुदाहृतमिति यद्यपि “बाल्येन तिष्ठासेदथ मुनिः” इति श्रौम निर्वचनमस्ति, तथापि तद्वाक्ये आरम्बणसं शीलनविधित्वस्य सहकार्यन्तरविधिः " इत्यधिकरणन्यायसापेक्षत्वात् तदनादृत्थ " सदा तद्भावभावितः " इति वाक्ये " तस्मात् सर्वेषु कालेषु मामनुस्मर " इति विधेः स्पष्टत्वादिदं स्मार्तवचनमेव द्रमिडभाष्यकारेणो- दाहृतमित्यर्थः । पञ्चेति ; यथाशक्ति पञ्चमहायज्ञाद्यनुष्ठानं क्रियेत्यर्थः । क्रियावानितिः क्रियायाः ब्रह्मविद्याहेतुत्वस्य स्पष्टं प्रतिपादनात् वाक्यान्तरमाह – तमेतमिति ; वेदानु- वचनम् ; वेदाध्ययनम् । अनाशकः; अनशनम् ; स्वार्थे कन् प्रत्ययः । कामानशनलक्षण- तपसेत्यर्थः । कृच्छचान्द्रायणादिपापनाशकव्यावृत्त्यर्थम् ’ अनाशकेन ’ इति तपोविशेषण- मिति केचित् । सत्यम् ; भूतहितम् | आर्जवम् ; मनोवाक्कायानामैकरूप्यम् । दया स्वार्थनिरपेक्षपरदुःखासहिष्णुत्वम् । दानम् ; लोभराहित्यम् अहिंसा ; करणत्रयेणापि परपीडानिवृत्तिः । अभिध्या ; परकीये स्वत्वबुद्धिः, निष्फलचिन्ता वा ; तद्राहित्यम- नभिध्या । सत्येनेति ; सत्यादिशब्देनार्जवादिप्रतिपादकवाक्यजातं क्रोडीकृतम् । शोक- वस्तु पुत्रमरणादिकम् । आदिपदेन भयनिमित्तं विवक्षितम् । अत्र च शब्दो दैन्यशब्दश्च भिन्नक्रमः । तथाच देशकालवैगुण्यात् शोकवस्त्वाद्यनुस्मृतेर्देन्यं तज्जं च दैन्यं मनसो भास्वरत्वविरोध्यवसाद इत्यर्थः । अत्र बन्धुजनदैन्यदर्शनेनापि दैन्यदर्शनात्तदैन्यस्य दैन्यजत्वमस्तीति भावः । बलहीनेन ; मनोबलहीनेनेत्यर्थः । तद्विपर्ययजा ; देशकाल - सागुण्यप्रियवस्त्वाद्यनुस्मृतिजेत्यर्थः । ’ मनसोऽवसादः ’ इति ’ तुष्टिरुद्धर्षः ’ इत्येतावदेव

४१६ 66 श्रीभाष्यम् (जिज्ञासाधिकरणम्) वाक्यकारवाक्यम् ; तद्विपर्ययोऽनवसादः, तद्विपर्ययोऽनुद्धर्ष इति चार्थसिद्धम् । ननु स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् ” इत्युपादेयतयोपात्तस्य संतोषस्य कथं विरो- धित्वमित्यत्राह – अतिसंतोषश्चेति । तल्लब्धिरिति वाक्यकारवाक्यफलितार्थमाह-एवं- नियमेति; अनवसादानुद्धर्षविवेकविमोकादिलक्षणशमदमादिनिवृत्तिधर्मयुक्तस्येत्यर्थः । अनु ष्ठानेनैवेत्येवकारेण केवलशमदमादिः केवलकर्म च न विद्यानिष्पादकमित्युक्तं भवति । तथाचेति ; विद्यायाः कर्मसापेक्षत्वप्रतिपादकं श्रुत्यन्तरमित्यर्थः । विद्यां चाविद्यां चेति; विद्याम् ; ज्ञानम्, अविद्याम् ; तद्भिन्नं कर्म च ; सह सहिततया अविनाभूततया कार्यकारणभावेन ; यो वेद कर्मणो विद्यासावनत्वं यो जानाति स कर्मानुष्ठाय निरस्त - ज्ञानप्रतिबन्धको भूत्वा विद्यां संपाद्य मुक्तो भवतीति श्रुत्यर्थ: । प्राचीनमिति; अनादिभव- संचितमित्यर्थः । नन्वविद्याशब्दस्य विद्याविरोधिवाचिनः “ अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा । संसारतापानखिलानवाप्नोत्यति संततान् ॥ 99 ; . इति समीचीनज्ञानप्रतिबन्धककर्मवाचितया कथं ज्ञानानुकूल कर्म वा चित्वमित्यत्राह – मृत्यु- तरणेति । नात्राविद्याशब्दस्य विद्याविरोधिवाचित्वम्, अपितु तदन्यवाचित्वमेव । नञस्तदन्यतद्विरुद्धतदभावानां त्रयाणामप्यर्थत्वादिति भावः । विहितं कर्मैवेति; फलाभि- संधिरहितं परमात्माराधनरूपं कर्मेत्यर्थः । अविद्यया मृत्युं तीर्त्वा ’ इत्यस्योपबृंहणं दर्शयति — इयाजेति । केशिध्वजोऽपि शास्त्रजन्य ब्रह्मज्ञानयुक्तः सन् ब्रह्मविद्यां फलत्वे- नाधिष्ठायोद्दिश्य अविद्यया फलाभिसंधिरहितकर्मणा मृत्युं ज्ञानविरोधि कर्म तर्तुमत्येतुं सुबहून्यज्ञानिष्टवानिति श्लोकार्थः । एतेन " अविद्यया मृत्युं संसारं तीर्त्वा प्राप्य वर्तमानः " इति तरतेः प्राप्त्यर्थतया व्याख्यान्तरयोजनाया अनवकाश इत्युक्तं भवति । ० ननु " धर्मेण पापमपनुदति" इति श्रुत्यनुसारेणानभिसंहितफलेनापि कर्मणा पापस्यैव निरसनीयत्वात् कथं ’ ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म’ इति पुण्यापुण्यसाधारणकर्म- सामान्यस्य निवत्त्वमुक्तमिति शङ्कायामाह – ज्ञानविरोधि चेति । अनिष्टफलतयेति ; अलौकिकानिष्टसाधनत्वस्यैव पापशब्दार्थत्वादिति भावः । ननु कर्मणो ग्राह्याभावावगाहि- निश्चयतत्सामग्रीभिन्नस्य ज्ञानकारणविघटकस्य कथं ज्ञानविरोधित्वम् ? इत्यत्राह - - अस्य

( १ – १ – १ ) मूलभावप्रकाशिका ४१७ च ज्ञानविरोधित्वमिति । शुद्धसत्तविरोधीतिः शुद्धं समृद्धं सत्त्वम् ; सत्त्वविवृद्धिविरोधी- त्यर्थः। ननु पापस्य ज्ञानविरोधित्वे प्रमाणप्रतिपन्ने हि कल्लनेयं शोभते; तदेव कुत इत्याह- पापस्य चेति । एष एवासाधु कर्म कारयतीति; अधोनिनीपाया असाधुकर्महेतुत्व- प्रतिपादकेऽस्मिन्वाक्ये वैषम्यनैर्वृण्यपरिहारार्थं " यमंत्रो निनीषति " . इत्यत्र यच्छब्देनाधो- निनीषा हेतुभूतपापविशिष्टोऽभिप्रेतः । ततश्च पापस्याधोनिनीषाद्वारा असाधुकर्म कारयितृत्वं प्रति निमित्तत्वं प्रतीयते । तत्कारयितृत्वं च 66 यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽपनीतो न पश्यति ॥ इत्युक्तरीत्या समीचीनबुद्धिप्रतिबन्धपूर्वकविपरीतबुद्धयुत्पादनद्वारेणैवेति पापस्य ज्ञानविरो- धित्वमनेन वाक्येन प्रतिपाद्यत इति भावः । ’ पापस्य ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूत- शुद्धसत्त्वविरोधिरजस्तमोविवृद्धिद्वारेण ’ इति पूर्वोक्तार्थे प्रमाणं दर्शयति – रजस्तमसो- रिति । धर्मेणेति 66 ; पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव पुनरारभते नरः || सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ सर्वेद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञानं यदा तदा विद्वान् विवृद्धं सत्त्वमित्युत ॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो लोभ एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन । 99 इत्यादिकमत्रानुसंधेयम् । अव सेयमिति ; उत्पाद्यमित्यर्थः । नन्वस्तु ब्रह्मोपासनस्य कर्म - सापेक्षत्वं, कर्मणस्तद्विचारसापेक्षत्वं च ; ब्रह्मविचारस्य कर्मविचारसापेक्षत्वे किमायात- 53 A CC-0 No Rights Reserved. Digitized by eGangotri0 ४१८ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) मित्याशङ्क्य कर्मणामल्या स्थिरफलत्वप्रतीतिरूपब्रह्मविचाराधिकारिविशेषणांशे ‘एतादृश- कर्मामुपासनमस्थिरफलकम् ’ इत्येवंरूपानन्तस्थिरफलापातप्रतीतिरूपाधिकारिविशेषणे चोपयोगात् कर्मविचारस्य ब्रह्मविचारोपयोगोऽप्यस्तीत्याह – अतोऽपेक्षितेति । इदमु- पलक्षणम् — मुख्यक्रमानुरोधेनाङ्गक्रमस्य पञ्चमे स्थितत्वात् कर्मब्रह्मोपासनलक्षणमुख्य क्रमानु- रोधेन तच्छेषभूतयोस्तद्विचारयोरपि क्रमो युक्तः । व्याख्येयभूतवेदक्रमानुरोधादपि व्याख्यानभूतकर्मब्रह्मविचारयोः क्रमो युक्त इत्यपि द्रष्टव्यम् । श्रीभाष्यम् Q । अपि च नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते, फलकरणेतिकर्तव्यताधिकारिविशेषनिश्रयाहते कर्मस्व- रूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनां दुरवबोधत्वात् । एषां साधनत्वं च विनियोगावसेयम् । विनियोगश्च श्रुतिलिङ्गादिभ्यः । स च तातयः । उद्गीथाद्युपासनानि कर्मसमृद्ध्यर्थान्यपि ब्रह्मदृष्टि- रूपाणि ब्रह्मज्ञानापेक्षाणीतीहैव चिन्तनीयानि । तान्यपि कर्माण्य- नभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादनान्येतानि सुतरामिहैव संगतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्व- संमता । 0 । श्रुतप्रकाशिका 0 यदनपेक्षितं परेणोक्तं तदेवापेक्षितमित्युक्तम् ; यत्तु परेणापेक्षितमित्युक्तं तस्यान- पेक्षितत्वमुच्यते – अपि चेत्यादिना । नित्यानित्यवस्तुविवेकादयश्चेति ; चस्त्वर्थः, प्रत्युतेति यावत् । मीमांसाश्रवणमन्तरेण; कर्मब्रह्ममीमांसाश्रवणमन्तरेणेत्यर्थः । न संपत्स्येन्त इत्यनेन पश्चाद्भावित्वमुक्तम् । कुत इत्यत्राह – फलेति । फलविशेषो भोगमोक्षरूपः ; करणविशेषो यज्ञोपासनादिः ; इतिकर्तव्यताविशेषः प्रयाजादिः साधनसप्तकं च; अधिकारिविशेषो बुभुक्षुर्मुमुक्षुश्च । एषां निश्चयादृते । कर्मस्वरूपं साङ्गं यज्ञात्मकमुपासनात्मकं च । भाष्यकारश्च " यागात्मकमुपासनात्मकं च कर्म " इति हि 66

१ – १ – १) श्रुतप्रकाशिका 6 ४१९ वक्ष्यति । “ प्रकाशश्च कर्मण्यभ्यासात् " इति च सूत्रम् ; " उपासनात्मके कर्मणि ’ इति च तस्य भाष्यम् । उपासनस्य कर्मत्वं स्मृतिसंततिरूपतया तस्य प्रयत्नसाध्यत्वात् । 66 “ वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥ 99 99 इत्यत्र मनुश्च " मानसैः कर्मदोषैः इत्युक्तवान् । फलं चोभयं भोगो मोक्षश्च । आत्मनित्यत्वादीनामिति ; आदिशब्देनात्मनो G निर्वाणमय एवायम्" इत्युक्तज्ञाना- नन्दस्वरूपत्वादिकं विवक्षितम् । अत्र साध्याविशिष्टत्वं हेतोः प्रतीयत इति चेत्- मैचम् ; मीमांसायां फलकरणेतिकर्तव्यतादीनां प्रत्यधिकरणं तत्तन्न्यायैर्यो निर्णयः क्रियते, स हेतुः ; एवं तत्तदधिकरणन्यायानुगृहीतश्रुतिवाक्यसमुदायजन्या या प्रमितिरूपायोपेय- विषया, सा साध्या । तत्तदवान्तरवाक्यार्थनिश्चयैस्तत्समुदायरूपमहावाक्यार्थनिर्णयः साध्य इत्यर्थः ; यथा ‘पदार्थनिश्चयैर्वाक्यार्थनिश्चयः’ इत्युक्ते सति न साध्याविशिष्टता, तद्वत् | अत एव हि करणेतिकर्तव्यतादिशब्दैः पूर्वं पृथगुक्तत्वा पश्चात्कर्मस्वरूपशब्देनोक्तम् । ’ फलकरण - इत्यादि भाष्यस्य कर्ममीमांसामात्रविषयत्वे ’ तत्फलस्थिरत्वास्थिरत्वात्मनित्य- त्वादीनाम्’ इति वक्तुमयुक्तम् । निरुपपदमीमांसाशब्दस्य “मीमांसाशास्त्रम्" इत्यादि - भाष्ये भागद्वयविषयतया प्रयुक्तत्वाच्च यथोक्त एवार्थः । तस्मात्कर्मब्रह्मविचारानन्तरभावी नित्यानित्यवस्तुविवेकः ; तत इहामुत्रफलभोगविरागो मुमुक्षुत्वं च शमदमादिसाधन- संपञ्च " शमदमाद्युपेतः स्यात् " इति ; ब्रह्ममीमांसायां हि शमदमादिस्वरूपं निरूप्यते ; अस्मिंश्चतुष्टये सिद्धे ब्रह्मविचारः, ब्रह्मविचारात्तत्सिद्धिरित्यन्योन्याश्रयः स्यात् । अतः पश्चाद्भा- विनः पूर्ववृत्तत्वमनुपपन्नम् । साङ्गाध्ययन जापातप्रतीतिरेव नित्यानित्यवस्तुविवेक इति चेत् — तदयुक्तम् ; न ह्यापातप्रतीतिरिहामुत्रफलभोगविरागमुमुक्षुत्वयोर्हेतुः, नित्यानित्यविपर्ययप्रतीतेः । किंच — आपातप्रतीतिरुभयभागविचारसाधारणी; तत्र प्रथनं कर्मविचार एव प्रवृत्ति - र्युक्ता, उभयत्र बुभुत्साया अविशिष्टत्वात् प्रथमातिक्रमे कारणाभावाच्च । शास्त्रान्तरेणापि नित्यानित्यविवेकादिर्नोपपद्यते, प्रथम मेवाध्ययन विधिवश्यतया पुरुषस्य शास्त्रान्तराननका शात् । किंच - शास्त्रान्तरे परमाणु कारणत्वाब्रह्मात्मकप्रधानकारणत्वगगनादिनित्यत्वनिमित्तमात्रेश्वर- त्वादयो वेदान्तविरुद्धा एवार्था बहव उपलभ्यन्ते; अतः शास्त्रान्तरजन्यो नित्यानित्यवस्तु- विवेको वेदान्तविरुद्धत्वान्न तद्विचारं प्रति पूर्ववृत्तो भवितुमर्हति । किंच - शास्त्रान्तरे षट्पदार्थ-

४२० श्रीभाष्यम् । B "" (जिज्ञासाधिकरणम् ) छलजातिनिग्रहस्थानानां तस्मादेवंविच्छान्तो 99 षोडशपदार्थज्ञानादीनां मोक्षसाधनत्वप्रतिपादनेन वेदान्तश्रवणनैरपेक्ष्याच्च न तज्जन्यविवेकस्य पूर्ववृत्तत्वं युक्तम् ; " यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः " तत्त्वज्ञानान्निःश्रेयसाधिगमः” इति हि तत्र तत्रोच्यते । किंच दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्” इति श्रुतिरेवंविच्छब्देन शास्त्र जन्यज्ञानमनूद्य “ पश्येत्” इति प्रतिपन्नस्योपासनस्याङ्गतया शमादीनुपदिशति । अतः शमादीनां श्रवणपूर्ववृत्तत्वं श्रुतिविरुद्धम् । “प्रशान्तचित्ताय" इत्यादिश्रुतिस्तु श्रवणौपयिकावधान निष्पादनार्थेत्युक्तम् । इतिहासपुराणादिश्रवणान्नित्यानित्यविवेक इति चेत्, तर्हि तत एव ब्रह्मस्वरूपावगमाद् ब्रह्मविचारस्यानारम्भणीयत्वं स्यात् । इतिहासपुराण- योरपि संशयविपर्ययबाहुल्यात्तन्निरासाय ब्रह्मविचारोऽपेक्षित इति चेत्, संशयविपर्यय- बाहुल्यादेव नित्यानित्यविवेकोऽपि तत्र दुःसंपाद इति न साधनचतुष्टयस्य पूर्ववृत्तत्वं युक्तम् । यत्तु “ नित्यानित्ययोर्वसन्तीति नित्यानित्यवस्तूनि, तद्धर्माः इत्यारभ्य वाच- स्पतिनोक्तम् – “ नित्यस्य धर्मिणो नित्यत्वं सत्यत्वं, तत एवोपादेयत्वम् ; अनित्यस्य धर्मिणोऽनित्यत्वमसत्यत्वं, तत एव हेयत्वमित्येवं नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः इति ; तत्र ब्रूमः - अनित्यस्य तावदसत्यत्वं वक्ष्यमाणप्रकारेण निरस्तं वेदितव्यम् । ’ यन्नित्यं तदुपादेयं, यदनित्यं तद्धेयम् ’ इत्युभयमप्यनुपपन्नम्, सुखदुःखनिवृत्तितत्साधनतदुपयोगिनामेवोपादेयत्वबुद्धिदर्शनात् तद्व्यतिरिक्तस्यैवानुपादेयताबुद्धिदर्शनाच्च । नित्यमपि दुःखरूपं दुःखनिमित्तं वा यदि स्यात् हेयमित्येव प्रतीयते; अनुभयं चेदुपेक्ष्यते ; अनित्यमपि सुखरूपं सुख निमित्तं वा भवति चेत् तदुपादीयते । निरूपकस्य तु हेयमिति चेत् — न ; प्रकृष्ट- सुखान्तरदर्शनात्यन्तदुःखसाध्यत्व दुःखोदर्कत्वविरहे सति निरूपकस्यापि तत्रोपादेयता- बुद्धिदर्शनात् । क्षीरौदनलाभात्कणस्त्यज्यते; अन्धकूपपतिता वराटिका तदुद्धरण क्लेशस्य तल्लाभसुखादतिशयितत्वात्त्यज्यते ; विषमिश्रमन्नं मरणभयात् त्यज्यते; स्रक्चन्द- नादि तु त्वतः प्रकृष्टसुखालाभादाद्यन्तयोस्तीदुःखानुबन्धाभावाच्च परिमितमप्युपादीयते । तस्मादनित्यस्य हेयत्वं नानित्यत्वमात्रप्रयुक्तम् । यद्युच्येत – नित्यस्य दुःखासं भिन्नसुख- रूपत्वादुपादेयत्वं, तद्रसंभवादनित्यस्य च हेयत्वमिति ; अत्रोच्यते — नित्यस्य · दुःखासं- भिन्नसुखरूपत्वं किं व्याप्त्यावगम्यते ? उत शास्त्रीत् ? न प्रथमः नित्यस्य कालादेः “; । "


CG-0 No Rights Reserved. Digitized by eGangotri (१ – १ – १) श्रुतप्रकाशिका ४२१ आत्मनो हि सुखरूपत्वादर्शनात् ; नित्यस्यात्मनो दुःखासंभिन्नसुखरूपत्वादर्शनाच्च । दुःखमुपलभ्यते- ‘अहं दुःखी’ इति । शास्त्रतश्चेत्; यदि वेदात् वेदजन्यं च किमापातज्ञानम् ? उत प्रमितिरूपम् ? प्रथमे कर्मब्रह्मभागसाधारण्यात् कर्मविचारातिक्रमेण ब्रह्मविचारं प्रति तस्य पूर्ववृत्तत्वानुपपत्तिः ; निश्चयरूपं चेत्, मीमांसाद्वयफलं स्यात् ; आगमान्तरमूलत्वे विरुद्धतयानुपयोगात्तस्यैतन्नैरपेक्ष्याच्च पूर्ववृत्तत्वानुपपत्तिः । अथोच्येत - यन्नित्यं तदुपादेयमिति नैवं प्रतीतिः । किंतु नित्यं सुखं संभवति चेत्, तदुपादेयम् ; सति तस्मिन्ननित्यमनुपादेयमिति । तत्र तावन्नित्यसुखसंभवज्ञानस्य ब्रह्मविचारोपयोगो नित्यफलोपादित्साद्वारेणेति वक्तव्यम् । शास्त्रान्तरेषु कर्मकाण्डे च नित्यफलसंभावनाया निवारकाभावान्नित्यानित्यविवेकानन्तरं तेषामप्यारम्भणीयता स्यात् । तेषु हि नित्यं फलं प्रतीयते । तदसदिति चेत्, तदसत्त्वमप्रामाण्यादन्यपरत्वाद्वा भवेत् ; तदुभयं कर्ममी- मांसया विना न सिध्यतीति तस्याः पूर्ववृत्तत्वमभ्युपेतव्यम् । आद्यसूत्रं तज्ज्ञापनपरमिति चेत्–न ; तस्य स्वशास्त्रारम्भौपयिकविषयप्रयोजनपरत्वेन शास्त्रान्तराप्रामाण्यादिप्रतिपादन- परत्वाभावात् । स्वार्थोपयोगित्वात्तदप्रामाण्यादिकमभिप्रेतमिति चेत्, तर्हि तस्य स्वोप- जीव्यज्ञापनमपेक्षितमिति कर्मविचारस्य तर्कपादस्य च पूर्ववृत्तत्वमापद्येत । शास्त्रान्तरी- प्रामाण्यं हि कर्ममीमांसाप्रथमपादावसेयम् । अन्यपरत्वं वाक्यान्तरविरोधादिभिः । नित्य- फलाविवक्षाध्यवसायश्च तत्रत्यन्यायाधीनः । शास्त्रान्तरप्रमेयदौस्थ्यं च तर्कपादे दर्शयिष्यते । किंच, आद्यसूत्रादेव शास्त्रान्तरगतनित्य फलासत्त्वावगमश्चेदन्योन्याश्रयः – ब्रह्मविचारे प्रवृत्त- स्यान्यत्र नित्यफलासत्त्वावगमः, तदवगमाद्ब्रह्मविचारे प्रवृत्तिरिति । न चैवं सति धर्म- जिज्ञासासूत्रेऽप्यन्योन्याश्रयः शङ्कनीयः, पित्रादिप्रेरणया कृतसाङ्गाध्ययनस्य पुरुषस्य प्रयो-, जनवदर्थापातप्रतीत्यैव प्रवृत्त्युपपत्तेः । येषां धर्मविचारो वैधस्तेषामेवान्योन्याश्रयः वैधत्व- ज्ञानाद्विचारों विचाराद्वैधत्वज्ञानमिति । किंच, अनित्यफल हेयताज्ञानस्य स्वर्गादिफल– जिहासाद्वारेण ब्रह्मविचारोपयोगो वक्तव्यः ; स्वर्गादिफलस्यानित्यत्वं दुःखसंभिन्नत्वं च कथमवगम्यते ! शास्त्रान्तरेण चेत्, तत्रैव नित्यपुरुषार्थसिद्धेर्नेराकाङ्क्ष्येण ब्रह्म- विचारप्रवृत्त्ययोगात्तत्पूर्ववृत्तत्वानुपपत्तिः । यत्सुखं तदनित्यमिति स्वोत्प्रेक्षिततर्कमात्रेण चेत्, तेनैव निरस्तनित्यपुरुषार्थसंभावनतया ब्रह्मविचारः प्रतिबध्येत । दुःखनिवृत्तेरन्तरा- हित्यात् स्वाभाविकसुखस्यानादिभावत्वादन्तविरहोपपत्तेश्च न नित्यपुरुषार्थ संभावनेति

४२२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) चेत् — न ; दुःखनिवृत्तिश्चेद् दुःखानुबन्धिनी दुःखनिवृत्तित्वात् संप्रतिपन्नवत् ; सुखं चेत्सुखत्वादेव कृतकमित्येवंरूप कुतर्कोत्प्रेक्षासंभवेन केवल तर्कशरणानां नित्यपुरुषार्थ संभा- बनाया दुरुपपादत्वात् । शास्त्रसिद्ध नित्येतर विषयो व्याप्तिनिश्चय इति चेत् —न; वेदा- न्तश्रवणपूर्वको व्याप्तिनिश्चयः, तत्पूर्वकं वेदान्तश्रवणमित्यन्योन्याश्रयप्रसङ्गात् । अतो ब्रह्मविचीरं प्रति नित्यानित्यगतधर्मविवेकोपयोगाय नित्यानित्यविभागे प्रत्यक्षाप्रवृत्तेः तर्क- स्यातिप्रसक्तेः शास्त्रान्तराणां ब्रह्मविचरनैराकाङ्क्ष्यापादकत्वात् तद्विरोधेनानुपयोगाच्च वेद एव प्रमाणीकर्तव्ये तत्रापातप्रतीतेरुमय नागसाचारण्यात् । नित्यानित्यनिश्चयस्य मीमांसा- द्वयफलत्वेनान्योन्याश्रयस्य दुस्तरत्वाच्च नित्यानित्यगत हेयोपादेयत्वज्ञानं नित्यानित्यवस्तु- विवेक इत्ययुक्तम् । ननु शास्त्रान्तरेषु नित्यफलसंभावनाया निवारकाभावान्नित्यानित्य- विवेकादिमतस्तत्रापि प्रवृत्तिप्रसङ्ग इति यदुक्तं तन्न शास्त्रान्तरनिवारकत्व | दाद्यसूत्रस्य ; ब्रह्मैव जिज्ञास्यं, न प्रकृतिपुरुषौ ’ इति हि सूत्रार्थ इति तदयुक्तम् ; साधन- चतुष्टयपूर्ववृत्तत्ववादिभिरस्यार्थस्यानङ्गीकृतत्वात् । तापत्रयज्ञानपूर्ववृत्तत्ववादिभिरयमर्थ . उक्तः; न चायमर्थ उपपन्नः; तथाहि — न तावदयमर्थः सूत्रकृतोपदिश्यते, न वा ज्ञाप्यते ; किंतूपपाद्यत इति वक्तव्यम्, न्यायनिबन्धनत्वात् सूत्राणाम् । उपपत्तिश्च शास्त्रान्तर- दौर्बल्यमेव वा, स्वशास्त्रप्रावल्यमेव वा, समुच्चितमुभयं वा । न प्रथमः, स्वशास्त्रस्य दौर्बल्ये ब्रह्मगोऽप्यजिज्ञास्यत्वात् । न द्वितीयः, शास्त्रान्तरस्य प्रावल्ये ब्रह्मण एवं जिज्ञा- स्यत्वासिद्धेः । तृतीये सूत्रवैयर्थम् पूर्वमीमांसायामेव चोदनासूत्रप्रभृतिभिस्तदुभयसिद्धेः । तत एव तस्याः पूर्ववृत्तत्वापत्तिश्च, अवश्यापेक्षितत्वात् । वेदप्रामाण्यमात्रे सिद्धेऽपि ब्रह्मणि प्रामाण्यं न तावता सिध्यतीति चेत्, तर्हि यैर्हेतुभिर्ब्रह्मणि प्रामाण्यासंभवशङ्कास्ते परिहर्त - व्याः । ते च सिद्धे व्युत्पत्त्यनुपपत्त्यादय इति तलरिहारेण ब्रह्मणि वेदान्तप्रामाण्यसमर्थ- नपरत्वेऽस्मदीय एव पक्षः परिगृहीतः स्यात् । अत एव दुःखत्रयाभिघातज्ञानस्य पूर्ववृत्तत्वमपि निरस्तम् ; तथाहि– किमैहिकदुःखज्ञानं पूर्ववृत्तम् ? उत नारकदुःखज्ञानम् ? उत स्वर्गादेरप्यल्पास्थिरतया तापत्रयान्तर्गतत्वज्ञानम् ? न प्रथमः, आयुर्वेदादिभिस्तन्निर- सनोपायावगमाद्वेदान्तविचारनैरपेक्ष्यात् । न द्वितीयः, निरयदुःखहेतुभूतपापापनोदनकर- व्रतनियम विधायकशास्त्रबाहुल्याद्वेदान्तनैरपेक्ष्यात् । तृतीये तु कर्मविचारापेक्षा स्यादेव, प्रथमत एवाध्ययनविधिवश्यस्य शास्त्रान्तरावगमावसरविरत्वात्, सत्यप्यवसरे स्वर्गाद्यल्पा- CC-0 No Rights Reserved. Digitized by eGangotri(१ – – १ – १) श्रुतप्रकाशिका O 11 ४२३ स्थिरत्वज्ञापकैस्तैरेव शास्त्रैर्मुक्त्युपायस्यावगतत्वेन वेदान्तनैरपेक्ष्याद्वेदान्तविरुद्धार्थाभिधा- यिनां तेषामवगमस्य वेदान्तज्ञानपूर्ववृत्तत्वायोगात्, आपातप्रतीतेरितिहासपुराणयोश्चाल्पा- स्थिरत्वानन्तस्थिरत्वविपर्ययप्रतीतिहेतुत्वाच्च । पूर्वं व्याख्येयस्वभावात् क्रमनियम उक्तः ; व्याख्यानस्वभावादपि तत्सिद्धिरिदानीमुच्यते– एषामिति । एषाम् ; शमादीनाम् । चः समुच्चये । विनियोगावसेयम् ; विनियोगोऽङ्गत्वज्ञापनम् । ततः किमित्यत्राह — -विनि- योगश्चेति । ततोऽपि किमित्यत्राह – स च तातींय इति ; तृतीयाध्यायोक्त इत्यर्थः । इदं प्रदर्शनार्थमुक्तम्, कर्मविचारोक्तकृत्स्नन्यायसापेक्षत्वाद्ब्रह्मविचारस्य । एतानि हि कर्ममीमांसाध्यायानां प्रमेयाणि - - प्रथमेऽध्याये प्रमाणलक्षणं वृत्तम् । द्वितीयेध्याये शास्त्रभेदः कर्मभेदो, वा ; भेदहेतवश्च शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानि । तृतीयेऽङ्गनिरूपणम् ; अङ्गत्वज्ञापकानि प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थान- समाख्यानानि । चतुर्थे क्रत्वर्थपुरुषार्थभेदनिरूपणेन पुरुषार्थः क्रत्वर्थानां प्रयुक्तिर्निरूपिता । पञ्चमे क्रमः ; क्रमप्रमाणानि श्रुत्यर्थ पाठ प्रवृत्तिमुख्यकाण्डानि । षष्ठेऽधिकारिनिरूपणम् । सप्तमे सामान्यातिदेशो निरूपितः । अष्टमे विशेषातिदेशः । नवम ऊहः । दशमे बाधः । एकादशद्वादशयोस्तन्त्रप्रसङ्गौ। यथोक्तम्– "” धर्मधीमानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः । सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥ " 0 — इति । एतन्न्यायसापेक्षत्वं संकर्षसापेक्षत्वं च ब्रह्मविचारे तत्र तत्र द्रष्टव्यम् । तस्मात् स च तातय इति प्रदर्शनार्थमुक्तम् । अथ कर्मविचारापेक्षत्वेऽभ्युच्चययुक्तिरुच्यते- उद्गीथादीति । परेण प्रसङ्गात् संगतिरुक्ता ; अत्र तु साक्षात्संगतिरुपपाद्यते । कर्मसमृ- द्ध्यर्थान्यपीति ; " कर्मसमृध्यर्थत्वे तत्प्रयोजनं तन्निर्वचनात् " इति वाक्यकारवचनं स्मारितम् | ब्रह्मदृष्टिरूपाणीति; अब्रह्मणि ब्रह्मत्वेन दृष्टिर्ब्रह्मदृष्टिः ; ब्रह्मदृष्टिरूपत्वात् ब्रह्मज्ञानसापेक्षाणीत्यर्थः । इतिर्हेतौ । इहैव चिन्तनीयानि ; न तु कर्मविचारे । तान्यपि कर्माणि ; यत्समृध्यर्थान्युद्गीथाद्युपासनानि तान्यपीत्यर्थः । अनभिसंहितफलानि ; अन- भिसंहितफलत्वात् ब्रह्मविद्योत्पादकानीत्यर्थः । इतिर्हेतौ । तत्सागुण्यापादनानि ; सागु- ण्यं प्रबलप्रतिबन्धके सत्यपि शीघ्रफलप्रदत्वम् ; तदापादनानि ; ब्रह्मविद्यां शीघ्रं संपाद- यन्तीत्यर्थः । एतानि ; उद्गीथाद्युपासनानि । अत इहैव सुतरां संगतानि । प्रधानानु-

O ४२४ श्रीभाष्यम् ( जिज्ञासाधिकरणम् ) पयोगित्वेन सादृश्यादिना धीस्थत्वं प्रसङ्गात्संगतिः । अन्यतरापेक्षयोभयापेक्षया वा संगतिः साक्षात्संगतिः । अत्र तूर्भयोरपेक्षितत्वं प्रतिपादितम् । ब्रह्मदृष्टिरूपाणीत्युद्गीयायुपास- नस्य ब्रह्मज्ञानापेक्षाभिहिता । ब्रह्मविद्योत्पादकानीति ब्रह्मज्ञानस्योद्गीथाद्यपासनापेक्षाभि- हिंता । एतदभिप्रायेण सुतरामित्युक्तम् । इहैवेत्युभयापेक्षाया अत्रैव विद्यमानत्वात् सुतरां संगतिरिहैव, न तु कर्मविचार इत्यर्थः । ननु – कथमुद्गीथादिविचारस्य ब्रह्मविचार एव सुतरां संगतिः ? कर्मविचारेऽपि सुतरां संगतिरस्ति ; उभयापेक्षया संगतिर्हि सुतरां संगतिः ; कर्माङ्गाश्रयत्वादुनीयादिधियां तद्विचारस्य कर्मापेक्षास्ति ; कर्मणामपि स्वस- मृद्ध्यर्थोद्गीथाद्युपासनापेक्षास्तीत्युभयापेक्षाया विद्यमानत्वात् । उच्यते– कर्म समृद्ध्यर्थोद्गी- थाद्युपासनापेक्षा केवलकर्मणां विद्याङ्गकर्मणां च तुल्या । अतः कर्म समृद्ध्यर्थत्व हेतुः साधारणः । कर्माङ्गाश्रयत्वं पूर्वभागविचार संगतेरसाधारणहेतुः । ब्रह्मज्ञानसापेक्षत्वमुत्तर- भागविचारसंगतेरसाधारणहेतुः । एवं साधारणासाधारण हेतुद्वयवत्तासाम्येऽपि ब्रह्मदृष्टि- रूपोद्गीथाद्युपासनानां ब्रह्मज्ञानसापेक्षत्वात् तेन विना तचिन्तनमशक्यं पूर्वभागविचारे; न हि कर्मविचारात्पूर्वं ब्रह्मविचार उपपद्यते, प्रागुक्तसंगतिविशेषविशिष्टत्वात्तयोः । उत्तरभागे तु ब्रह्मज्ञानस्य सुलभत्वान्निर्वृत्तकर्मविचारस्योद्गीथाद्युपासनचिन्तनं कर्तुं शक्यम् | अत एव शक्यत्वादुद्गीथायुपासनान्युपनिषद्भागे विहितानि । अत एव ब्रह्ममीमांसायां निरूपितानि च। एवं वेदान्तभागविहितत्वब्रह्ममीमांसाविचारितत्वशक्यत्वरूपवैषम्यत्रय- विशेषिताया उभयापेक्षाया उत्तरभाग एव विद्यमानत्वात् तन्निबन्धना सुतरां संगतिस्त- त्रैवेत्यभिप्रायेण सुतरामिव संगतानीत्युक्तम् । अयं चाभ्युच्चयहेतुः । यदप्रधानस्यार्थ - स्यापि साक्षात्संगतत्वात्तस्याप्यवश्यापेक्षितः कर्मविचार इति प्रधानप्रतिपाद्यस्य नियमे - नापेक्षितत्वरूपः प्रधानहेतुः पूर्वमेवोक्तः । ततः किं प्रकृतानन्तर्यस्येत्यत्राह तेषां चेति । तेषाम् ; उद्गीथाद्युपासनानाम् । सर्वसंमता; तत्साक्षात्संगतत्वे हि विगानम् ; उद्गीथाद्यु- पासने चिन्त्ये सति तस्य कर्मज्ञानापेक्षा सर्वाविगीता । यत्त्वधीतवेदान्तस्य कर्माधिगमा पेक्षा नास्तीत्युक्तम्—तदसंगतम्, वेदान्तेष्वप्युपायपरमुक्तिपरवाक्यमात्राध्यायिनः पुरुषस्य ब्रह्म- विचारेऽपि तृतीयचतुर्थाध्यायमात्रश्रवणप्रसङ्गात् । तृतीयचतुर्थयोः प्रथमद्वितीयोक्तन्यायसा- पेक्षत्वमस्तीति चेत्, तर्हि कृत्स्नस्य ब्रह्मविचारस्य कर्मविचारन्याय सापेक्षत्वात्तस्यैव पूर्ववृत्त- त्वम् । जन्मान्तरसुक्कृतविशेषेण कस्यचिद्ब्रह्मविचारमात्रापेक्षेति चेत्, तस्य सुकृतविशेषेण

( १ – १ – १) भावप्रकाशिका ४२५ तृतीयचतुर्थमात्रापेक्षा किं न स्यात् ? अथवा सुकृतातिशयात्कृत्स्नब्रह्मविचारनिरपेक्षा किं न स्यात् ? किंच वेदान्तेषूपायफलपरवाक्यमात्राध्ययनमशास्त्रीयमिति त्वयापि वक्तुव्यम् ; तद्वेदान्तमात्राध्ययनस्यापि तुल्यम्, कृत्स्नस्वाध्यायाध्ययनस्य विहितत्वात् । अतो विध्यति- लङ्घिनां यदपेक्षितं तदेव पूर्ववृत्तमित्यसंगतम् । कृत्स्नाध्यायिनोऽपि सुकृतवशात् क्वाचित्क- श्रवणापेक्षायां पूर्वमेव दत्तमुत्तरम्। “विरोधादप्रमाणत्वात्" इत्यादिग्रन्थ संगृहीतानि दूषणानि " अत्रोच्यते " इत्यादिना सिद्धान्तभायेण परिहृतानि । तथाहि — कर्मणा- मनित्यफलत्वेन विरोधोऽनभिसंहितफलत्वात्परिहृतः । भदवासनाजनकत्वेनैक्यज्ञान विरोधस्तु “ पृथगात्मानम्” इति पृथक्त्वज्ञानस्य मोक्षोपायत्वश्रुत्या परिहृतः । अयं विरोधो वक्ष्यमाणवस्तुसामर्थ्यान्तर्भूतश्च ; मोक्षस्य सकलभेददर्शननिवृत्तिरूपतायाः प्रपञ्चमिथ्यात्वोप- पादनसापेक्षत्वात् । ऐक्यज्ञानस्योपायत्वेऽपि कर्मणामदृष्टद्वारेणोपयोगादविरोधः । अप्रमाणत्वं “ क्रियावानेष ब्रह्मविदां वरिष्ठः " इत्यादिसन्रहितविनियोजक प्रमाणप्रदर्शनात् परिहृतम् । विविदिषार्थचित्तशुद्धयुपयोगस्तु वेदनोत्पत्त्युपयुक्तमनोनैर्मल्य हेतुत्वोपपादनेन विविदिषार्थत्ये- ऽपि तस्या अहरहरुत्पत्त्यपेक्षोपपादनेन च प्रत्युक्तः । ज्ञानमात्रस्य हेतुत्वश्रवणं च साधन- द्वित्वानभ्युपगमाद्दत्तोत्तरम् । सामर्थ्यं नाम मिथ्याभूतशब्दस्य ज्ञानैकनिवर्त्यत्वरूपं वस्तुसा- मर्थ्यम् ; तत्तु प्रपञ्चमिथ्यात्वदूषणेन प्रतिवक्ष्यते । शमाद्यङ्गकतान्नानकृतो विरोधश्च प्रवृत्तिरूपयज्ञादेर्निवृत्तिरूपशमादेश्व भिन्नविषयत्वेनाविरोधात्परिहृतः । शमादयो बविहिता- प्रतिषिद्धनिषिद्धकाम्यविषया इत्युक्तम् । वाक्यार्थज्ञानस्यैव मोक्षोपायत्वं प्रत्यक्षविरोधशास्त्र- विरोधाभ्यां निरस्तम् । तत्र निवर्त्यवासनाया निवर्तकोत्पत्तिप्रतिबन्धकत्वाभावेन श्रवणादेर्भे- दवासनानिरासार्थमनपेक्षितत्वात् तद्वैयर्थ्यपरिहारस्यानुपपन्नाचात् “श्रवणादिक्रमोन्निद्रवाक्य जा धीर्विमोचिका" इत्येतदप्यपास्तम् । " भावप्रकाशिका " नित्यानित्य- साधनसप्तकं चेति; विवेकविमोकादीत्यर्थः । इत्यारभ्येति ; योर्वसन्तीति नित्यानित्यवस्तूनि, तद्धर्माः ; नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः, एतदुक्तं भवति – मा भूत् ’ इदमृतं नित्यम्, इदमनृतमनित्यम् ’ इति धर्मिविशेषविषयो विवेकः, धर्मिमात्रयोर्नित्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव नित्यत्वं सत्यत्वम् ; तद्यस्यास्ति तन्नित्यं सत्यम् ; तथा चास्थागोचरः; अनित्यत्वमस- 54

; ४२६ 66 श्रीभाष्यम् ; ( जिज्ञासाधिकरणम् ) 6 " यस्य त्यत्वम् ; तद्यस्यास्ति तदनित्यमनृतम् ; तथा चानास्थागोचरः । तदेतेष्वनुभूयमानेषु युष्म- दस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थास्यते तदास्थागोचरो भविष्यति । यत्त्वनित्यमनृतं भविष्यति तत्तापत्रयपरीतं त्यक्ष्यत इति । सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयाद्वा, ऐहिकाद्वा कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम्" इत्यन्तेन ग्रन्थेनेति शेषः । ’ इदं नित्यम्, इदमनित्यम्’ इति विशेषनिश्चयाभावेऽपि नित्यत्वानित्यत्वयोर्धर्मिभ्यां भक्तिव्यमित्येवं योऽयं सामान्यनिश्चयः स एव नित्यानित्यवस्तुविवेकशब्दार्थ इति भावः । नित्यस्य धर्मिणो नित्यत्वं सत्यत्वम् " इति पाठः कोशेषु दृश्यते । तत्र । ’ नित्यस्य इत्येतत् स्वरूपकथनपरम् । यस्य धर्मिणो नित्यत्वं सत्यत्वं च तस्योपादेयत्वं यस्य धर्मिणोऽनित्यत्वमसत्यत्वं तस्य हेयत्वमित्येवं विवेक इति पर्यवसितार्थः । धर्मिणः’ इति पाठस्तु सुगम एव । निरूपकस्य तु हेयमिति चेदिति ; अनित्यमिति शेषः । आद्यन्तयोरिति ; साधनानुष्ठानफलानुभवदशयोरित्यर्थः । तस्यै- तन्नैरपेक्ष्याच पूर्ववृत्तत्वानुपपत्तिरिति तस्यागनान्तरस्य ब्रह्मविचारनैराकाङ्क्षया- पादकत्वादित्यर्थः । अत एवोपसंहारेऽपि तथैव वक्ष्यति – “ " शास्त्रान्तराणां ब्रह्म- विचारनै कायापादकत्वात्” इति । स्वार्थोपयोगित्वादिति आरम्भोपयो- गित्वादित्यर्थः । तत्रत्यन्यायाधीन इति; आवृत्तिविधानाद्यधीन इत्यर्थः । किंचा- द्यसूत्रादेवेति यद्यपि सूत्रस्य विषयप्रयोजनाधिकारिप्रतिपादनपरत्वेऽपीदृशान्योन्या- श्रयस्थ सुवचत्वात् शास्त्रारम्भोपयोगवर्णनसूत्रमात्रस्योच्छेदप्रसङ्गः तथाप्याद्यसूत्रस्य शास्त्रान्तराप्रामाण्यादिप्रतिपादनपरत्वेन परैरव्याख्यातत्वादित्यत्र तात्पर्यात् ; अत एव किंच, अनित्यफल —" इति दूषणान्तरोपन्यासेन स्वर्गादिफलानित्यत्वावगतौ शास्त्रा- न्तरस्योत्प्रेक्षिततर्कयोरेवोत्थापनं, न तु शास्त्रारम्भसूत्रस्येति द्रष्टव्यम् । शास्त्रान्तरदौ- र्बल्यमेव वा स्वशास्त्रप्राबल्यमेव वेति ; स्वशास्त्रप्राबल्यं विना कृतशास्त्रान्तरदौर्बल्यं वा, शास्त्रान्तरदौर्बल्यं विना कृतस्वशास्त्रप्राबल्यं वेत्यर्थः । समुच्चितमुभयं वेति : शास्त्रान्तराणां दौर्बल्यं स्वशास्त्रप्राबल्यं चेत्यर्थः । स्वशास्त्रस्य दौर्बल्य इति ; स्वशास्त्र- प्राबल्याभावे शास्त्रान्तरसमानयोगक्षेमत्वादित्यर्थः । अत एव दुःखत्रयाभिघातज्ञान- स्येति ; न च “ तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः " इति भाषणात् तद्विरुध्येति शक्यम्, तस्यापि कर्मविचारजन्यकर्माल्पास्थिर फलत्वज्ञानाभिप्रायत्येनादोषात् । 66 ० ; ननु

0
(१ – – १ – १)
;
भावप्रकाशिका
0
४२७
कर्मविचारजन्यायाः कर्मणामल्पास्थिर फरुत्वादिप्रतीतेरनन्तस्थिरफलाभिलाषस्य च पराभि- मतसाधनचतुष्टयसंपत्तिरूपत्वसंभवान्न विरोध इति चेत्, सत्यमविरोधः ; तथापि “ अथातः शेषलक्षणम् ” इत्यादिवत् पूर्वपूर्वाध्यायविचारस्य पूर्ववृत्तत्वं युक्तमित्यत्र भाष्य- कृतः संरम्भात् । व्याख्येयस्वभावात् क्रमनियम उक्तः ; व्याख्यानस्वभावादपि तत्सिद्धिरिदानमुच्यत इति वेदद्वारा व्याख्येययोः कर्मोपासनरूपशेषिणोः कार्य- कारणभावेन पौर्वापर्यात् तच्छेषभूतविचारयोरपि पौर्वापर्यमुक्तम् ; अधुना कर्मकाण्डो- क्तन्यायोपजीवित्वादस्य शास्त्रस्य पौर्वापर्यमुच्यत इत्यर्थः । इदं प्रदर्शनीर्थमुक्तमिति ; अयमभिप्रायः–“
  • " एषां साधनत्वं च विनियोगावसेयम् " इति भाष्यपर्यालोचनायां तृती- याध्यायन्युत्पाद्यश्रुतिलिङ्गादिनिर्णेतव्यसाधनता कत्वात् साधनचतुष्टयस्य सत्पूर्ववृत्तत्य- मिति प्रतीयते ; न च तद्यकम् तर्कशास्त्रव्युत्पादितप्रत्यक्षप्रमाण उदिति कर्तव्यताभूत- तर्कादिग्राह्यकारणताकत्वात् कर्मविचारस्य तर्कशास्त्रस्यापि तत्पूर्ववृत्तत्वप्रसङ्ग इति वाचा - टवचसोऽप्यवकाशप्रसङ्ग इति न शक्यम्, अत्र व्युत्पाद्यानां बहूनां प्रायेण तन्निर्णयसापे- क्षत्वात् तदुपजीवित्वमित्यत्र भाष्यस्य तात्पर्यादिति । प्रमाणलक्षणं वृत्तमिति ; विध्यर्थ- वादमन्त्रनामधेयस्मृत्याचारवाक्यशेषसामर्थ्यात्मकप्रमाणस्वरूपं वृत्तमित्यर्थः । शास्त्रभेदो वेति ; इदं तु गुरुमते द्रष्टव्यम् । भेदहेतव इति ; ’ यजति, जुहोति, ददाति ’ इति चोद- नासु यजत्यादिधातुभेदरूपेण शब्दान्तरेण यागदानहोमानां भेदः ; “ समिधो यजति “ तनूनपातं यजति" इत्यादिविधिषु ‘यजति’ इति पञ्चकृत्वोऽभ्यासेना विशेष पुनः श्रुतिरूपेण प्रयाजानां भेदः ; “सप्तदश प्राजापत्यान् पशूनालभते” इत्यत्र देवतासंबन्धमेदिन्या सप्तदश- संख्यया तदनुमेययागानां भेदः “अथैष ज्योतिः" इत्यादिवाक्येषु ज्योतिरादिनामधेयैस्त “ तप्ते पयसि दध्यानयति सा वैश्वदेव्या मिक्षा न्नामकयागानां प्रकृतज्योतिष्टोमाद्भेदः ; वाजिभ्यो वाजिनम्" इत्यत्रामिक्षारूपगुणान्तरावरुद्धे यागे निवेशमलभमानेन वाजिनगुणेन वाजिनयागस्यामिक्षायागात् भेदः ; प्रकरणान्तरेण नित्याग्निहोत्रान्मासाग्निहोत्रस्य भेद इत्येवं शब्दान्तरादिभिर्भेदः प्रतिपाद्यत इत्यर्थः । श्रुतिलिङ्गति; निरपेक्षशब्दः श्रुतिः । सा त्रिधा - विधात्री, अभिधात्री, विनियोक्ती चेति । लिङादिश्रुतिर्विधात्री । इन्द्रादि- श्रुतिरभिधात्री । विनियोक्ती त्वेकप्रत्ययरूपा, एकपदरूपा विभक्तिरूपा चेति त्रिधा । तत्राद्या- पशुना यजेत " इत्यत्र तृतीया ; सा हि स्वोक्तकरण कारकं प्रति स्वोकैकत्वरूपसंख्यायाः 66 66

“४२८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) शेषत्वमर्पयति । द्वितीया “जेत” इति पदम् तेन प्रत्ययोक्तभावनां प्रति प्रकृत्युक्त- 66 व्रीहीन् यागस्य शेषतोपनीयते । तृतीया शेषित्ववोधिका शेषत्ववोधिका चेति द्विधा । I प्रोअति" इत्यादिषु द्वितीया त्रोद्यादीनां प्रोक्षगादिक्रियां प्रतीप्सिततमत्वरूपशेषित्व- बोधिका । “क्रीते सोमैं मैत्रावरुणाय दण्डं प्रयच्छति" इत्यत्र चतुर्थी श्रुतिः मैत्रावरु- णस्य प्रदनिक्रियेप्सिततमेन कर्मणाभिप्रेयमाणत्वरूपशेषित्ववोधिका । “अरुणया क्रीणाति" इत्यत्र क्रयभावनां प्रत्यारुण्यस्य ; चावलान्मृदमाहरति " इत्यत्र मृदाहरणक्रियां प्रति चात्वालस्य, “ वैद्यां हवण्यासादयति" इत्यत्र हविरासादनक्रियां प्रति वेद्याश्च तृतीया- पञ्चमीसप्तम्यः शेषत्वैबोधिकाः । पष्ठी तु क्वचित्, " दध्नेन्द्रियकामस्य जुहुयात्" इत्यत्र शेषित्वबोधिका “यजमानस्य याज्या" इत्यादौ शेषत्ववोधिका च, संवन्धमात्रेऽनुशिष्टायाः षष्ठद्या योग्यताद्यनुसारेणोभयथापि पर्यवसानसंभवात् । वस्तुसामर्थ्यं लिङ्गम् । तद् द्विविधम्- शब्दसामर्थ्यमर्थसामर्थ्यं चेति । तत्र " बर्हिर्देवसदनं दामि" इति मन्त्रस्य लवनप्रकाशन- सामर्थ्यरूपाल्लिङ्गाल्लवनशेषता 1 “ स्वधितिनावद्यति ” “ स्रुवेणावद्यति” “हस्तेनावद्यति" इत्यवदानसामान्ये साधनत्वेन श्रुतानां स्वधित्यादीनां तत्तत्सामर्थ्यरूपालिङ्गात् विशिष्य मांसव्र्वद्रव्यपुरोडाशाद्यवदानेषु शेषता । शेषत्वस्य शेषित्वस्य वा बोधिकया श्रुत्या रहितपद- समभिव्याहारो वाक्यम् ; यथा “ अग्निहोत्रं जुहुयात् स्वर्गकामः " इति ; यथा वा “मैत्रावरुणः प्रेष्यति चान्वाह” इति । न हि होमभावनां प्रति स्वर्गस्य भाव्यत्वेन शेषित्ववो- धिका द्वितीयाश्रुतिः, मैपानुवचनं वा प्रति मैत्रावरुणस्य कर्तृत्वेन शेषत्वबोधिका तृतीयादि- श्रुतिर्वास्ति । प्रथमा तु प्रातिपदिकार्थमात्रेऽनुशिष्टा । अतः पदसमभिव्याहाररूपेण वाक्येन शेषशेषिभावबोधः । विधिवाक्येन कर्तव्यतयावगतस्य ‘केन प्रकारेण कर्तव्यम् ?’ इति विशि- प्याज्ञायमानस्येत्तिकर्तर्व्यताकाङ्क्षा प्रकरणम् । तद् द्विविधम् — महाप्रकरणमवान्तरप्रकरणं चेति । तत्राद्येन दर्शपूर्णमासादिकं प्रति प्रयाजादीनां द्वितीयेन प्रयाजादिकं प्रत्यभिक्रमणा- दीनां च तत्तत्संनिधिसमान्नातानां शेषता । स्थानं द्विविधम् — यथासंख्यं संनिधिश्चेति । तत्राद्येन " दब्धिरस्य दब्धो भूयासम् ” इति मन्त्रस्याग्नेयाम्नीषोमीयमन्त्रद्वयमध्याम्नात- स्यामेयाग्नीषोमीय्यागद्वयमध्यानुष्ठेयोपांशुयाजशेषता । संनिधिस्तु –आन्नानसंनिधिः, अनु- ष्ठानसं निधिश्चति द्विविधः । आद्येन " शुन्धध्वं दैव्याय कर्मणे देवयज्यायें मन्त्रस्य महाप्रकरणावान्तरप्रकरणरहितसांनाय्यपात्रप्रोक्षणशेषता । द्वितीयेन पशुधर्माणामग्रीवो- " इति 66

( १ – १ – १ ) भावप्रकाशिका ४२९ मीयपशुशेषता । समाख्या यौगिकी संज्ञा । सा लौकिकी वैदिकी चेति द्विविधा । ‘होतृच- मसः’ इति वैदिकसमाख्यया होतुश्चमसभक्षणं प्रति ‘आध्वर्यवम्’ इति याज्ञिकप्रसिद्धलौ- किकसमाख्ययाध्वयो॑रवघातादिकं प्रति च कर्तृत्वेन शेषतेत्येवं सापवादः शेषशेषिभावस्तृती- याध्याये प्रपञ्चित इत्यर्थः । पुरुषार्थैः क्रत्वर्थानामिति ; पुरुषार्थैः क्रतुभिः क्रत्वर्थाना- मित्यर्थः ; शेषिभिः शेषाणां प्रयुक्तिरिति यावत् । शेष्येव विधेयं प्रयुङ्क्ते स्वसिद्धयर्थमनु- ष्ठापयति, न त्वनुनिष्पाद्यपि । नापि शेष: शेषिणं प्रयुङ्क्ते । अनेकशेषिसद्भावेऽपि यत्रान्यप्रयुक्तस्यैवान्यत्र विनियोगः, तत्र यत्प्रयुक्तस्यान्यत्र विनियोगः स एव शेषं प्रङ्क्ते, न तु शेष्यपि सन्नन्योऽपि । एवं च " तप्ते पयसि दध्यानयति " इति वाक्ये विधोय- मानस्य दध्यानयनस्य द्विकर्मकस्य कर्मान्तराकाङ्क्षायां समभिव्याहृतं पयः कर्मान्तरत्वेनान्वी- यमानं सप्तम्याधिकरणत्वेन निर्देशात् प्रधानकर्मतया पर्यवस्यतीति प्रकृतप्रधानभूतपयः- परामर्शिना तत्पदेन सामानाधिकरण्येन निर्दिष्टतया पयोरूपत्वेनाव गतामिक्षैव शेषित्वात् शेषभूतं दध्यानयनमनुष्ठापयति, न तु तदनुनिष्पादि वाजिनमपीत्या-: कृष्णवि- मिक्षापचार एव पयोऽन्तरे दध्यानयनस्य प्रयुक्तिः, न वाजिनापचारे । इति कृष्णविष- पाणया कण्डूयते " चात्वाले कृष्णविषाणां प्रास्यति णायाः कण्डूयनप्रासनरूपक्रियाद्वयान्वये सत्यपि कृष्णविषाणा तृतीयया कण्डूयनं प्रति शेषः, प्रासनं प्रति तु द्वितीयया शेषिणीति निर्वृत्त कण्डूयनप्रयोजनिकायास्तस्याः पुरोडाशक- प्रासनात् प्रागपचारे प्रासनार्थं न पुनः कृष्णविषाणान्तरोपादानप्रयुक्तिः । पालेन तुषानुपवपति" इत्यत्र पुरोडाशप्रयुक्तस्यैव कपालस्य तुषोपवापं प्रति शेषत्वेन विनियोगात् यत्र पुरोडाशो नास्ति न तत्र तुषोपवापार्थं कपालप्रयुक्तिरित्येवं सापवादानुष्ठा- पनशक्तिरूपा प्रयुक्तिर्निरूपितेत्यर्थः । श्रुत्यर्थेति ; “ अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं अग्निहोत्रं जुहोति ” “यवागूं पचति” दीक्षयति" इत्यादौ त्वाश्रुत्या दीक्षयोः क्रमः । 59 इत्यत्र होमपाकयोः प्रयोजनवशात् क्रमः । 66 66 66 99 66 66 " समिधो यजति " तनूनपातं यजति " इत्यादौ पाठक्रमात् क्रमः । पत्ययागाङ्गभूतेषुपाकरणनियोजनादिषु प्रथमप्रवृत्तोपाकरणक्रमानुरोधेनैव पशुषु नियोजनादीनां सप्तदश प्राजापत्यान् पशूनालभते " इति विहितप्राजा- पाश्चात्यानां क्रमः । साद्यस्क्रे सवनीयस्थाने " सह पशूना लभते " इति सहा लभ्यमाने - ध्वग्नीषोमीयसवनीयानुबन्धिपशुषु सवनीयस्थानानुरोधात् सवनीयस्य प्राथम्यम् ।

" सार- 0 ४३० 9 श्रीभाष्यम् (जिज्ञासाधिकरणम् 66 स्वतौ होमौ भवतः " इति विहितस्त्रीपुंस दैवत्ययोः कर्मणोर्याज्यानुवाक्यावशात् स्त्रीदेव- त्यस्य प्राथम्ये स्थिते तदङ्गभूतानामपि प्रधानक्रमेणैव क्रम इत्येवमादि कमलक्षणे निरू- तितमित्यर्थः। अधिकारिनिरूपणमितिः अधिकारः फलस्वाम्यम् । सामान्यातिदेश इति; तद्वदिदं कर्तव्यम् इत्यतिदेशः । स च त्रिविधः ; यथा - " समानमितरच्छयेनेन " इति प्रत्यक्षवचनेन श्येनवैशेषिकांङ्गानामिषुनामक एकाहक्रतावतिदेशः । कुण्डपायिना- मयनाग्निहोत्रे नाम्ना नैयमिकानिहोत्रधर्माणामतिदेशः क्रियते । मासमग्नि- होत्रं जुहोति इति सौर्यादिषु विकृतिषु ’ प्रकृतिवदङ्गानि कर्तव्यानि ’ इत्या- नुमानिकवचनेन सामान्यतोऽतिदेशः सप्तमे निरूपित • इत्यर्थः । विशेषाति- देश इति ; ’ अस्य कर्मण इदं कर्म प्रकृतिः’ इति प्रकृतिविकृतिविशेषचिन्ताष्टमे कृते- स्यर्थः । ऊह इति ; प्राकृतपदार्थ कार्यापन्नवैकृतपदार्थसंबन्धेन मन्त्रसामसंस्काराणाम- न्यथाभावात्मक ऊहो नवमे चिन्तित इत्यर्थः । बाध इति; कार्यमुखेन विकृतिं प्राप्तानां प्राकृताङ्गानां द्वारलोपप्रत्यान्नानप्रतिपेधपर्युदासैर्निवृत्तिः । यथा - कृष्णलेष्ववघातस्य तुषविमोकरूपद्वारलोपान्निवृत्तिः ; कुशैः शराणां प्रत्यान्नानान्निवृत्तिः ; " नतौ पशौ 0 ; 99 करोति " इति प्रतिषेधेनाज्यभागयोः पशौ निवृत्तिः ; महापितृयज्ञे " नार्षेयं वृणीते इति पर्युदासेनार्थेयवरणनिवृत्तिः इत्येवं बाधो दशमे निरूपित इत्यर्थः । तन्त्रप्रसङ्गा- विति ; अनेकप्रधानोद्देश्य कसकृदङ्गानुष्ठानं तन्त्रम् ; यथा – दर्शादित्रिकद्वयोद्देशेनानुष्ठी- यमानानां देशकालकर्त्राद्यैयैक्याद गृह्यमाणविशेष तैयाङ्गानां तन्त्रेणानुष्ठानम् । अन्योद्देशे- नानुष्ठितेनान्यस्योपकारसिद्धिः प्रसङ्गः ; यथा पचर्थानुष्ठितैरङ्गैः पशुतन्त्रमध्यपातिपुरोडा- शस्योपकारसिद्धिरित्येवमेकादशद्वादशयोस्तन्त्रप्रसङ्गौ चिन्तितावित्यर्थः । संकर्षसापेक्षत्वं चेति ; " प्रदानवदेव तदुक्तम्" इत्यत्र “नाना वा देवता पृथक्त्वात्" इति न्यायसापेक्षत्व- स्याविष्करिष्यमाणत्वादिति भावः । अभ्युच्चययुक्तिरुच्यत इति ; अप्रधानार्थस्यापि सा- क्षात्संगतत्वेन तदपेक्षितत्वात् कर्मविचारस्य पूर्ववृत्तत्वाश्रयणे, अस्मिन् शारीरकशास्त्र ब्रह्मकार - णत्वविरोधिशास्त्रान्तरप्रतिक्षेपस्यापि तत्पादे करिष्यमाणस्योपयुक्ततया सकलशास्त्रार्थविचार- स्यापि पूर्ववृत्तत्वप्रसङ्गादभ्युच्चययुक्तिरित्युक्तम् । “कर्मसमृद्धयर्थत्वे तत्प्रयोजनं निर्वच- नात्" इत्येतावद्वाक्यकारवचनं द्रष्टव्यम् । ब्रह्मदृष्टिरूपत्वात् ब्रह्मज्ञानसापेक्षाणीत्यर्थ इति; यद्यपि न सर्वेषामुद्गीथाद्युपासनानां ब्रह्मदृष्टिरूपत्वम्, “लोकेषु पञ्चविधं सामोपासीत " 66

( १ – १ – १ ) " भावप्रकाशिका ४३१ 99 वृष्टौ पञ्चविधं सामोपासीत" इत्यादौ तदभावात् ; तथापि ब्रह्मदृष्टिरूपोद्गीथाद्युपासन- विशेषाणां ब्रह्मदृष्टिरूपत्वात् ब्रह्मज्ञानापेक्षेत्यर्थः । यद्यप्युद्गीथाद्युपासनविशेषा भवन्तु ब्रह्म- दृष्टिरूपा ब्रह्मज्ञानसापेक्षाः, नैतावता " तन्निर्धारणानियमस्तद्दृष्टः” “अङ्गेषु यथाश्रयभावः इत्यादिषु क्रियमाणस्योद्गीथाद्युपासने क्रत्वर्थपुरुषार्थत्वविचारस्य ब्रह्मज्ञानसापेक्षत्वमस्ति, अपितु प्रसङ्गान्निरूपणम् ; तथापि " ब्रह्मदृष्टिरुत्कर्षात् " इत्यादिषु ब्रह्मदृष्टित्व पुरस्कारेण प्रवृत्तेबूगोथायुपासनविचारेषु ब्रह्मज्ञानसापेक्षत्वमस्तीत्यभिप्रायः । ननु “ब्रह्मदृष्टिरुत्कर्षात् " इति विचारस्य “मनो ब्रह्मेत्युपासीत " इति मनआदिसाधारण्यात् मनआर्दिस्वरूपशोध- कसांख्याद्यागमस्याप्युपजीव्यत्वप्रसङ्गेन पूर्ववृत्तत्वप्रसङ्ग इति चेत्-न; एतस्याभ्युच्चययुक्तित- यैतादृशातिप्रसङ्गस्यादोपत्वात् । ब्रह्मविद्यां शीघ्रं संपादयन्तीत्यर्थ इति ; न च ब्रह्म- ज्ञानसापेक्षाणामेषां ब्रह्मविद्योत्पादकत्वं विरुद्धमिति वाच्यम्, आगमोत्थब्रह्मज्ञानसापेक्षस्यो- द्वीथोपासनस्य विवेकादिजन्योपासनाङ्गत्वेऽविरोधात् । ततश्च ब्रह्मविद्योत्पादकशमदमादि- चिन्तनवदेतच्चिन्तनमप्यत्र संगतमित्यर्थः । अन्यतरापेक्षयोभयापेक्षया वेति ; अयं भावः – “ब्रह्मजिज्ञासा” इति सूत्रे ब्रह्मानुबन्धिनां सर्वेषां विचार्यत्वं प्रतिज्ञातम् । अतस्त- दुपासनतत्फलतदनुबन्धिविचारस्य सर्वस्य प्रतिज्ञाततया तत्संगतिः साक्षात्संगतिः । ततश्चाँ- पासनापेक्षिततयोपासनानुबन्धित्वमप्यस्ति ; ब्रह्मदृष्टिरूपत्वात् ब्रह्मानुबन्धित्वमप्यस्ति । अतः केवलोपासनमात्रानुबन्धिशमाद्यपेक्षयाप्यभ्यर्हितत्वमिति । कर्माङ्गाश्रयत्वं पूर्वभागविचार- संगतेरिति; अन्ततो गत्वा इदमपि केवलकर्मविद्याङ्गकर्मसाधारणत्वात् साधारणमित्यभिप्रायः । प्रागुक्तसंगतिविशेष विशिष्टत्वात्तयोरिति ; ननु कर्मब्रह्मविचारयोः पौर्वापर्यविचारदशायां कथं तत्सिद्धवत्कारेण ‘न हि कर्मविचारात् पूर्वं ब्रह्मविचार उपपद्यते, संगतिविशेषविशि- ष्टत्वात् तयोः’ इत्युक्तिरिति चेत्–न; क्रमविशेषनियामक संगतिविशेषविशिष्टाविरुद्धा- वान्तरवाक्यार्थैकप्रयोजनत्वरूपशास्त्रैक्यस्यैव कर्मविचारपूर्ववृत्तत्वे प्रधानयुक्तितयान्यस्याभ्यु- च्चययुक्तित्वेन सिद्धवत्कृत्य कथने दोषाभावात् । वैषम्यत्रयविशेषिताया इति ; उभया- पेक्षायाः साम्येऽपि कर्मविचारे कर्तुमशक्यत्वादुपनिषद्भागविहितत्वाच्च सूत्रकृतेह शास्त्रे विचारितमिति ब्रह्ममीमांसाविचारितत्वमेव फलतया वक्तुमुचितम्, न तु ब्रह्ममीमांसाविचारि- तत्वमपि हेतूकर्तुमुचितमिति चेत् — न; वैषम्यद्वय एव तात्पर्यादिति केचित् । अन्ये तु सूत्रकाराणां स्वतन्त्रेच्छत्वात् जैमिनिना न कृतम्, बादरायणेन कृतमित्यपि युक्तयन्तरप्र-

४२२ श्रीभाष्यम् (जिज्ञासाधिकरणम् दर्शकं तदिति वदन्ति । नियमेनापेक्षितत्वरूपं प्रधानहेतुरिति ; ननु यागस्य देवतोद्देशेन द्रव्यत्यागरूपत्वात् देवताविचार एव सर्वापेक्षया पूर्वभावी किं न स्यात् । किंच अथशब्दस्य देवता विचारानन्तर्यमवश्याश्रयणीयम्, न तु व्यवहितकर्मविचारानन्तर्यमिति चेत् ; उच्यते संकर्षकाण्डोऽप्यविचारितकर्मविशेषविषय एव । जैमिनिर्हि द्वादशलक्षणीं प्रणीय तत्राविचा- रितांशमालोच्य पुनरपि चतुर्लक्षणों प्रणिनायेति प्रसिद्धिः । अत एव हि " संहितमेत- च्छारीरकं जैमिनीयेन षोडशलक्षणेन" इति वृत्तिग्रन्थोऽपि संगतः । अत एव वदेव" इत्यधिकरणे भाष्ये यत्संवादतयोपात्तं " नाना वा देवता पृथक्त्वात् " इति तज्जैमिनीय एवं दृश्यते, न तु देवताकाण्डे काशकृत्स्त्रीये । अतोऽपि संकर्षः कर्मविषय एव । तत्रैव केषांचिदेवताकाण्डत्वव्यवहारोऽप्यस्तीति’ । “भाष्ये – सर्वसंमतेति ; सर्वेषां संमता सर्वसंमतेति शेषलक्षणषष्ठ्याः समासः, क्तम्य च वर्तमाने " इति षष्ठया- “ C " प्रदान- स्तु " क्तेन च पूजायाम्” इति निषेधादिति द्रष्टव्यम् । वक्ष्यमाणवस्तुसामर्थ्यान्तिर्भूत इति ; ततश्च तत्परिहार एवास्यापि परिहार इति भावः । श्रुतप्रदीपिका ; एवं कर्मविचारस्य पूर्ववृत्तत्वमुपपादितम् अथ परोक्तसाधनचतुष्टयपूर्व वृत्तत्वं निरस्यते— अपि चेति । मीमांसेत्युभयभागोक्तिः । फलं भुक्तिमुक्ती । करणं यज्ञादिक- मुप्रासनं च । इतिकर्तव्यता प्रयाजादिका यज्ञशमादिका च । वुभुक्षुर्मुमुक्षुचाधिकारी | पदार्थनिश्चयाद्वाक्यार्थनिश्चयवत् तत्तदधिकरणाधीनप्रातिस्विकार्थनिश्चयात् पुरुषार्थतत्साधन- समुदायनिश्चय इति भिदा । साङ्गाध्ययनाधीननित्यानित्यापातप्रतीतिः स्वर्गापवर्गसाधारणीति न सामान्यविरागमुक्षुत्वहेतुः । कणादादिशास्त्रान्तरं तु नित्यानित्यविपरीतधी हेतुः, वियत्परमाण्वादिनित्यताद्युक्तेः ; अनवसरग्रस्तत्वं च पुरुषस्य प्रथममध्ययनगृहीतत्वात् । पुराणादि च श्रुतवेदार्थोपबृंहणम्, न स्वातन्त्र्येण नित्यादिनिश्चायकम् तथा सति तेनैव ब्रह्मस्वरूपनिश्चयेन शारीरकवैयर्थ्यप्रसङ्गात् । शमादि तु निरूपयिष्यते । शमदमायु- पेतः स्यादिति । अतः पश्चाद्भाविनो न पूर्ववृत्तत्वमित्यर्थः । एवं व्याख्येयवेदस्वभावात् कर्मब्रह्ममीमांसयोः पौर्वापर्यमुक्तम् ; अथ व्याख्यानरूपमीमांसास्वभावाच्च कर्मचिन्तायाः 5 १. अधिकरणसारावल्यादिग्रन्थपर्यालोचने श्रीनिगमान्तमहा देशिकानामय- मेव पक्षः संमत इति गम्यते । CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) नयप्रकाशिका ४३३ पूर्ववृत्तत्वमाह – एषामिति । एषाम् शमादीनाम् । विनियोगः ; अङ्गत्वज्ञापनम् । तार्तीयः ; तृतीयाध्यायसिद्धः । इदं प्रदर्शनार्थम् ; तत्र तत्र पूर्वकाण्डोक्तकृत्स्नन्यायसापे- क्षत्वादिति भावः । अथाभ्युच्चय हेतुमाह – उद्गीथेति । समृद्धिरप्रतिबन्धफलत्वम् । ‘अन्यतरस्योभयोर्वापेक्षाविरहेऽपि सादृश्यादिना धीस्थत्वं प्रासङ्गिकत्वमिति तद्व्युदासाय प्रथम मुद्गीथादिधियो ब्रह्मचिन्तापेक्षामाह — ब्रह्मदृष्टीति । ब्रह्मविद्याया ऐतदपेक्षामाह - तान्यपीति । तच्छब्दो विद्योत्पादककर्मपरः ; सुतरामुभयापेक्षयेत्यर्थः । कर्माङ्गाश्रयत्वात् पूर्वत्र ब्रह्म दृष्टिरूपत्वादुत्तरत्र च चिन्त्यत्वे प्राप्ते धर्मसमृद्ध्यर्थत्वे च साधारणेऽपि पूर्वत्र ब्रह्म- णोऽपि चिन्तितत्वात् तद्दृष्टिरूपोद्गीथादिधियां चिन्तनं तत्राशक्यमित्यभिप्रेत्य इहैवेत्युक्तम् । अस्त्वेवं संगतिः, तथापि किमित्यत्राह - तेषामिति । एवमुद्गीथविद्यादिविचारस्य साक्षा- त्संगतत्वात् तदपेक्षितं कर्मचिन्तनं पूर्ववृत्तमित्यभ्युच्चयहेतुः । एकदेशाध्ययनं त्ववैधम् । कृत्स्नाध्यायिनोऽपि सुकृतवशादुत्तरत्रैवापेक्षा चेत् तत्रापि फलाध्याय एव सा किं न स्यात् ? तस्य समन्वयलक्षणाद्यपेक्षास्ति चेत्, इहापि पूर्वभागचिन्तापेक्षा तुल्या । आपा- ततोऽनन्तस्थिरप्रतीतिस्तु पूर्वत्रापि तुल्येत्युक्तम् । अतोऽधीतक्रमेण कर्मविचारप्राथम्यात् तन्न्यायसापेक्षत्वात् ब्रह्मविचारस्योद्गीथादिचिन्तापेक्षितत्वाच्च कर्मविचारस्यैव पूर्ववृत्तत्वम् । 66 नयप्रकाशिका ननु ब्रह्मजिज्ञासा यदेव " इत्यारभ्य " सर्वसंमता " इत्यन्तेषु भाष्येषु विवक्षि- तविवेकायास्मद्राद्धान्तोपयोगिन्यो युक्त उपात्ताः, प्रदेशान्तरसूत्रभाष्यलब्धाश्च तत्सौकर्या- यैव परप्रक्रियाप्युत्तरत्रोपन्यस्य निरस्यते । यस्यायंनिरतिशयप्रियः स एवास्य प्रिय- तमो भवतीति ; यस्य पुरुषस्यायं परमात्मा प्रीतिविषयः स पुरुष एवास्य परमात्मनः प्रियतमो भवतीत्यर्थः । आरम्बणसंशीलनमिति ; ज्ञानालम्बनस्योपास्यस्य संशीलनमि- त्यर्थः । शेषं न्यायोक्त्यैव व्याख्यातं स्पष्टं च । अत्र परेषां शास्त्रक्यादिभङ्गहेतवः प्रायेण निरस्ताः । यत्तु तैः श्रुतिलिङ्गादीनां लोकसिद्धत्वान्न पूर्वकाण्डापेक्षेत्युक्तम् — तदसत् तेषां लोकसिद्धत्वाभावात्। न हि लोके घटादिवत् श्रुत्यादयः प्रसिद्धाः । विद्वल्लोकप्रसिद्धावपि तेषां तदुपजीवनादेव श्रुत्यादिव्यवहारः । न हि यथाजातानामविदुषां केषांचिन्मी- मांसापरिचयःभावेऽपि तद्व्यवहारः, तद्वित्सेवया कर्णाकर्णिकया वा तत्र श्रुत्यादिस्वरूप- व्युत्पत्तेः । किंच पश्यतोहराणां तेषां नोत्तरं देयम् । यतः स्वैरपि तत्र तत्र पूर्वमीमांसो- 55

Q G ४३४ श्रीभाष्यम् 9 " (जिज्ञासाधिकरणम्) तन्यायकलाप एवोपजीव्यते, अथ च ‘न हेतुत्वादिकम् ’ इति वदन्ति । न हि सर्वा- पलापिनामेषामेवंविधोक्तिर्विस्मयहेतुः । अर्थात् परप्रक्रियामङ्गसिद्धावप्यज्ञानां तन्निरासपा- टवजननाय पूर्वोत्तरयोर्हेतुहेतुमद्भावप्रसाधनव्याजेनार्थात् परप्रक्रियोपन्यासनिरासौ कृतौ । यथाशक्ति तौ प्रकाश्येते मिथ्यावादिनंस्तु पूर्वोत्तरमीमांसयोरैकशास्त्र्यादिकं न सहन्ते ; तथाहि–ब्रह्मविचारस्य न कर्मज्ञानापेक्षा, तदनधिगमेऽपि ब्रह्मविचारोपपत्तेः । न चोद्गी- था दिविद्यायाः कर्माश्रयत्वेन तन्निश्चयाषेक्षेति वाच्यम्, अस्या वस्तुतः कर्मविचारान्त- र्गतत्वात् । न च तर्हि नात्र तद्विचारों युक्त इति वाच्यम्, ज्ञानरूपत्वेनात्र विचारि- तत्वात् । न च तयोरैक्ये पौर्वापर्ये च प्रमाणमस्ति । निःश्रेयसार्थत्वात् ब्रह्मज्ञानस्याभ्यु- दयार्थत्वेन धर्मज्ञानस्य तद्विरोधित्वात् ब्रह्मज्ञानस्य सकलभेदोपमर्दित्वादितरस्य च भेदावलम्बित्वात्, फलद्वारतोऽप्यन्योन्यापेक्षाभावाच्च तयोर्नेक्योपपत्तिः । अत्र भास्करी- याः प्राहुः – ज्ञानकर्मणोः समप्रधानयोरेव मोक्षसाधनत्वेन " विद्यां चाविद्यां च " इत्यादौ श्रुतत्वात् " सर्वापेक्षा " इत्यादौ सूत्रकारेण च वक्ष्यमाणत्वात् कर्मज्ञाने हेयोपादेयवि- भागेन कर्मानुष्ठानस्य शक्यत्वात् तदपेक्षेति – तन्न, “ विद्यां चाविद्यां च " इत्यादौ फलभेदश्रवणादेकफलत्वानुपपत्तेः ; प्रत्युत “ ब्रह्मविदाप्नोति परम् " " नान्यः पन्था अयनाय विद्यते " इत्यादौ ब्रह्मवेदनस्यैव हि मोक्षसाधनत्वं श्रूयते । " न कर्मणा " इत्यादौ कर्मणस्त्याज्यता च श्रूयते । “ सर्वापेक्षा च " इत्यादिरपि कर्मणां परम्परयोपायत्वकथन- मात्रपरः । " यज्ञेन दानेन इत्यत्र विविदिषायामेव हि विनियोगः । न च – वेदनं प्राप्तुमिच्छा विविदिषा, ततो वेदनप्राधान्यमेव गम्यत इति वाच्यम् ; प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतोऽपलानत्वात्; इच्छायाश्च प्रत्ययार्थत्वेन प्राधान्यात्; प्रधाने च कार्यतासंप्रत्ययस्य " राजपुरुषमानय इत्यादौ दर्शनात् । वस्तुतः प्रधानस्यापि न राज्ञः कार्यसंबन्धः, उपसर्जनत्वाद्राजशब्दस्य । तेषां परंपरयोपयोगश्च नित्यकर्मानुष्ठाना- द्धर्मोत्पाद:, ततः पापक्षयः, ततः संसारेऽनित्यत्वा शुचित्वज्ञानोदयः, ततस्तत्र विरक्तिः, ततस्त- जिहासा, ततस्तद्धानोपायान्वेषणम्, तत आत्मज्ञानस्यैव तदुपायत्यश्रवणम्, ततस्तच्छ्रवणादौ प्रवर्तत इति । किंच यज्ञादीनां प्रधानत्वे प्रयाजादिवदङ्गत्वे च नित्यवत् संन्यासिनामप्यनुष्ठे- यता स्यात् । संन्यासश्च मोक्षज्ञानार्थ इति सर्वसंमतः । सन्यासिनः सर्वकर्मणां यज्ञोपवीतादेरपि त्यागः श्रूयते, स्मर्यते च –“अथ परित्राडिवर्णवासा मुण्डोऽपरिग्रहः " इत्याद्युक्त्वा “अय- । 99 9

( १ – १ – १) नयप्रकाशिका 66 66 ४३५ ज्ञोपवीती कथं ब्राह्मण: ? इति प्रश्ने " इदमेव तद्यज्ञोपवीतं य आत्मा" इत्येवकारेण यज्ञोपवीतस्यापि व्यावृत्तिः श्रूयते । तथा " परिव्राडे कशाटीपरिवृतो मुण्ड उदपात्र्यरण्य- नित्यो भिक्षार्थी ग्रामं प्रविशेत्सायंप्रदक्षिणोऽविचिकित्सः सार्ववर्णिकं मैक्षचरणमभिशस्तपति- तवर्जमयज्ञोपवीती शौचनिष्ठः काममेकवैणवं दण्डमाददीत " इत्यादावपि कर्मत्यागः श्रूयते । तथा बोधायनस्मृतावपि " ऊर्ध्वं यज्ञोपवीतमासनं शिखा यष्टयः शिक्य जल- पवित्रं कमण्डलुमित्येतानि वर्जयित्वाथ दण्डमादत्ते " इति । संन्यसेत् सर्वकर्माणि " इति स्मृत्यन्तरं च । न च कर्मक्षय हेतुत्वेनापि कर्मणां स्वीकारापेक्षा, “ क्षीयन्ते चास्य कर्माणि " इत्यादौ ज्ञानादेव कर्मक्षयश्रवणात् । किंच ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्या- त्वेन ज्ञानबाध्यत्वश्रुतेः कर्मनिवृत्त्यर्थं नोपायान्तरान्वेषणम् । किंच तेषामङ्गत्वेऽपि ब्रह्म- विचारस्य प्राथम्यं स्यात् ; अन्यथा ह्यधर्मविचारान्मुमुक्षुणानुष्ठीयमान कर्मानर्थक्यप्रसङ्गः । ब्रह्मणि विचारिते ह्यनुष्ठीयमानकर्मणस्तदङ्गत्वसिद्धिः । न च सर्वसाधारणत्वात्कर्मविचारस्य. प्राथम्यमिति वाच्यम्, सर्वसाधारणार्थप्रवृत्त्यनुपपत्तेः । स्वेष्टसाधनादिष्वेव हि प्रवृत्त्युप- पत्तिः । ननु कर्माननुष्ठाने प्रत्यवायापत्तेः कर्मनिश्चयार्थं तत्प्राथम्यमिति चेत्, न ; नित्याल्पानुष्ठानेऽपि प्रत्यवायपरिहारात् । किंच संन्यासिनः स्वाश्रमधर्ममात्रस्य विद्यङ्ग- त्वाभिधानादग्निहोत्रादिविचारश्च निष्प्रयोजनः । न चात्र पूर्वकाण्डोक्तन्यायोपयोगात्कर्म ज्ञानस्य पूर्ववृत्तत्वमिति वाच्यम्, सगुणविद्यास्वेव तद्विनियोगात्, तासां च धर्मान्तर्गत- त्वात् । ननु चत्वारिंशत्संस्काराणां ब्राह्मणादेरावश्यकत्वात्तत्संस्कारयुक्ताक्रोधादिसहितस्यैव मोक्षश्रवणात् कर्मज्ञानापेक्षा ; कर्मणां विविदिषोत्पत्त्यर्थत्वेनाप्यनुष्ठेयत्वात् ; कर्मविचारापेक्षा “यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाः स ब्रह्मणः सायुज्यं गच्छति " 66 66 महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ॥ 99 99 C “यज्ञेन दानेन” इत्यादिभिर्हि श्रूयत इति चेत् —न; केवलचत्वारिंशत्संस्काराणां मोक्ष हेतु त्वाभावात् । विविदिषोत्पत्त्यर्थत्वेऽपि विद्योदयजन्मन्यनुष्ठीयमानानामेव तदर्थत्वमिति न नियमः, जन्मान्तरानुष्ठितैरपि तत्सिद्धेः । न दृष्टसाध्ये फले कालनियमः । अतो न निय- मेन तद्विचारस्य पूर्ववृत्तत्वम् । अतो न हेतुत्वम् । तस्य नियम एव हि तद्धेतुत्वसंभवः । अतः कर्मणां ज्ञानवाध्यत्वेन वस्तुविरोधान्नं विद्याङ्गत्वम् ; " विविदिषन्ति " इति शब्द- ० ।

0 ४३६ I ० श्रीभाष्यम् (जिज्ञासाधिकरणम्) बलाच्च । अतो न कर्मज्ञानस्य पूर्ववृत्तत्वम् ; किंतु नित्यानित्यवस्तुविवेकादेरेव, तस्यैवापेक्षि- तत्वात् । न ह्यनित्यवस्त्वप्रतीतौ नित्यवस्तु परिच्छेदः तयोरविवेके च नैहिकादिफलविरागः ; तदभावे च न शमाद्युपपत्तिः ; तदभावे च न मुमुक्षुत्वम् ; तदभावे च न ब्रह्मजिज्ञासा - प्रवृत्त्युपपत्तिरिति तस्यैवं पूर्व्ववृत्तत्वम् । अनित्यतादिपरिज्ञानं च " तद्यथेह कर्मचितः " इत्यादिश्रुत्या | ब्रह्मव्यतिरिक्तस्य परिच्छिन्नत्वेन कार्यता सिद्धा । कार्यस्य च विनाशः सिद्धः । विनाशश्चोपादानावधिकः । उपादानं च ब्रह्मैव, शून्यस्योपादानत्वानुपपत्तेः । तथात्वे च कार्यस्यापि शून्यतापातः । कृत्स्नकार्यस्य चैकोपादानत्वकल्पनैव युक्ता, लाघवात् । सर्वं कार्यं कदाचित्कात्स्न्येन वैकदेशेन वा विनश्यति, एकोपादानत्वात् सुषुप्तावात्मगत- सुखादिवदित्यादिभिस्तर्कसहितानुमानैश्च तदनित्यत्वादिपरिज्ञानम् । फले विरक्तिश्च “परीक्ष्य लोकान्" इत्यादिश्रुत्या । शान्त्यादिश्च " शान्तो दान्तः " इत्यादिश्रुत्या । तदङ्गत्वं चैतच्छ्रुत्यैवावगम्यते । तेषां च न वाक्यज्ञानाङ्गत्वम्, ज्ञानस्याविधेयत्वात् । विधेयार्थस्य विधेयार्थाङ्गतैव युक्ता । अत्र विधेयं च श्रवणम् । श्रवणे च मुमुक्षुरधिकारी । अधिकार- निमित्तत्वेनैव शमादीनां स्वीकारः । अङ्गानामनुष्ठेयत्वेऽपि दीक्षादिवदधिकारनिमित्तत्वं चोपपन्नम्। श्रवणं चात्मैकत्वप्रतिपादनपरत्वं वेदान्तस्येति तत्त्वविद्गुरुभ्यो न्याययुक्ततदर्थ- ग्रहणम् । ग्रहणविधिश्च " तपसा ब्रह्म विजिज्ञासस्व " इत्यादिश्रुत्या । " विजिज्ञासस्व" इत्यन्तर्णीतविचारस्यैव विधिः । ज्ञानस्य तु यथाप्रमाणं प्रत्यक्षादिना घटादिज्ञानस्येव जायमानत्वेनाविधेयत्वम् । अतः " आत्मन्येवात्मानं पश्येत्" इत्यादयोऽपि साधनविधि- पराः । अतो मनननिदिध्यासनाभ्यां श्रवणरूपाङ्गविधिः । तच्च वाक्यार्थ ज्ञानोपयोग, तत्सद्भाव एव वाक्यार्थज्ञानोत्पत्तेः । अतः साधनचतुष्टयसंपत्त्यभावे श्रवणप्रवृत्त्यनुपपत्ति- रूपात् सामर्थ्यात्पूर्वोक्तसाधनचतुष्टयस्यैव पूर्ववृत्तत्वम् । ननु ब्रह्मव्यतिरिक्तस्य मिथ्यात्वं कथम् ? येन तस्य ज्ञानैकनिवर्त्यत्वं स्यादिति चेत्, " सदेव सोम्येदमग्र आसीत् " इत्यादि प्रमाणान्यथानुपपत्त्येति ब्रूमः । न हि प्रपञ्चस्य सत्यत्वे “ एकमेवाद्वितीयम् ’ इत्याद्युपपत्तिः । सजातीयविजातीयस्वगतनानात्वं हि तत्र निषिध्यते । गुणा अपि निर्गुणम्" इत्यादौ निषिध्यन्ते ; तत्र तत्र नानात्वनिन्दाप्रतीतेश्चय; नानावस्तुसद्भावे हि न तद्दर्शननिन्दोपपत्तिः । * 66 * । 99 टि. इतः परं महापूर्वपक्षोक्ता विषया उपपादिताः । ते च महापूर्वपक्षान्ते निवेशिता द्रष्टव्याः ।

( १ – १ – १ ) तत्त्वटीका ४३७ । न च न केवलमस्मदुक्तस्य युक्तत्वमात्रम् ; त्वदुक्तस्य दोषोऽप्यस्तीत्यभिप्रायेणाइ- अपि चेति । तत्रान्योन्याश्रयमुद्घाटयति — नित्येति । चस्त्वर्थो वर्तिष्यमाणस्य वृत्ततावैपरीत्यद्योतकः । मीमांसाशब्दोऽत्र भागद्वयार्थः ; आत्मनित्यताद्युपादानात् । । श्रवणशब्दश्च विचारपर्यन्तः । अयं भावः – किमत्र विवेकशब्देन निश्चयो विवक्षितः, आपातधीर्वा ? नाद्यः — कृत्स्नमीमांसासाध्यस्य ब्रह्मविचारापेक्षया पूर्ववृत्तत्वायोगात् ; आ- त्मनित्यत्वादिकं ब्रह्मकाण्डे हि निरूपयिष्यते । न द्वितीयः – तस्याः कर्मब्रह्मकाण्डसाधा- रणत्वेन विशेषतोऽत्र वक्तुमयुक्तत्वात् । प्रथमातिक्रमे कारणाभावस्य चोक्तत्वात् । सा फलान्तरवैराग्यादेर्हेतुः ; उभयत्रामृतत्वाद्यापातधीसिद्धेः । न च कपिलकणादादि- तन्त्रैर्विवेकः ; अध्ययनादिक्रमेण तदवसरनिरोधोक्ते:, तेषु च बहुधा निःश्रेयसतत्साधनादौ विवेकवैपरीत्यस्य त्वयापि संमतत्वात् । अत एव हि निरसिष्यन्ते । " नित्यं हि नास्ति जगति ” इत्याद्युपबृंहणं तु श्रुतिमनुरुध्यैव विवेकार्थं स्यात् । न तु स्वातन्त्र्येण ; अन्यथा किं शारीरकेण ? ततोऽन्यत्र संशयादिसंभवादिति चेत्; तर्हि तत्र न विवेक- सिद्धिः । यत्त्वत्र वाचस्पतिनोक्तम्—“ नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु, तद्धर्माः, नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः " इत्यारभ्य, “नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यं, तथा चास्थागोचरः; अनित्यत्वमसत्यत्वं तद्यस्यास्ति तद- नित्यमनृतम् ; तथा चानास्थागोचरः “ यदृतं तन्नित्यं सुखं व्यवस्थाप्यते, तदास्था गोचरो भविष्यति ; यत्त्वनित्यमनृतं भविष्यति, तापत्रयपरीतं तत्त्यक्ष्यत इति सोऽयं नित्यानित्यवस्तुविवेकः " इति च; एतदपि मन्दम् अनित्यस्याप्यबाधि- तत्वेन सत्यत्वस्य स्थापयिष्यमाणत्वात् । न च नित्यं सुखमनुपादेयमिति धिया कर्मिणां कर्मविचारादौ प्रवृत्तिः ; किं तु तस्य कर्मसाध्यत्वभ्रमाद्वा दौलभ्यबुद्धया वा । किंच नित्यत्वादिमात्रं नास्थागोचरत्वादिनिदानम् ; पुरुषार्थतत्साधनत्वाभ्यामेव सास्था ; तद्वैपरी- त्याच्चानास्था । ते च नित्यानित्ये यथा स्याताम् । निरूपकस्यापि ह्यनित्यसुखत्यागः " अशक्यानि दुरन्तानि समव्ययफलानि च " इति न्यायात्; अधिकसुखलाभतृप्त्या वा स्यात् । तदभावेऽत्यल्पमपि सुखमुपादीयते । नित्यमपि यदि दुःखात्मकमनुभयरूपं वा कथमास्थार्हम् ? प्रकृतस्य प्रकृष्टसुखत्वेन प्रतीतत्वादिति चेत् — तत्प्रतीतिस्तावन्न व्याप्त्या, 99 इति ; ०

O४३८ 4 श्रीभाष्यम् ; ● 66 (जिज्ञासाधिकरणम् ) 99 अदृष्टेः । न च श्रुत्या, तन्मूलापातधियः साधारण्यादिदौस्थ्यात् ; निश्चयस्य तु मिथः संश्रयग्रस्तत्वात् ; तन्त्रान्तरस्मृत्योश्चासाधकत्वस्य दर्शितत्वात् । नित्यसुखसंभवमूलोपादि- त्सा च साधारणी । तन्त्रान्तरे तदसंभवश्च सुव्यक्तः । आनन्दो ब्रह्म" इत्यादिरमी- मांसितकर्माभागैर्दुर्बोधः प्रमाणाध्याये तर्कपादे च तन्निरासात् । तत एवात्राद्यसूत्रेऽ- न्यत्र च नित्यफलासंभवः प्रकृतोपयोगात् प्रतिष्ठाप्यत इत्यपि दुर्वचम् ; युष्माभिरेवं सूत्र- वाक्यार्थानुक्तेश्च । अपि च नित्यसुखस्यात्र संभावनामात्रम् । स्वर्गादिसुखस्यानित्यत्वं च न शास्त्रान्तरेणानुमानेन वा सिध्येत्, ताभ्यामेव वैपरीत्यस्यापि सुवचत्वात्; स्वर्गसुखम- नित्यं सुखत्वादित्यादेरमृतत्वादिश्रुतिबाधात् तदान्यपर्यस्य तन्निरूपणसापेक्षत्वात् ; अन्यथा मुक्तसुखमनित्यं सुखत्वादित्यादेरपि प्रसक्तेः । तदप्रसक्तिश्च त्रय्यन्तार्थनिर्णयात्, स च तयेति मिथःसंश्रयः । अतः कर्मविचार एवात्रापेक्ष्यः । शमदमादीनां साधनत्व- . विवेकः तत्स्वरूपमात्रं वा वृत्तमित्युच्यते । न पूर्वः ; तस्य शमदमाद्युपेतः स्यात् ” इति साधनलक्षणे निष्पाद्यत्वात् । नोत्तरः; तत्र श्रवणौपयिकावधानादिमात्ररूपाणां सर्व- शास्त्रसाधारण्येन विशेषतोऽत्र वक्तुमयुक्तत्वात् । योगौपयिकानां तु बाह्यान्तःकरणनिरो- धादिरूपाणां त्रय्यन्तार्थश्रवणात्पूर्वमयुक्तेः " तस्मादेवंविच्छान्तो दान्तः इति ब्रह्मी- पूर्वकत्वोक्तेश्च । किं च नित्यानित्यविवेकादयः किं हेतुसाध्यरूपेण स्थिताः ? अन्यथा वा ? आद्ये कर्मविचारोऽपि “ परीक्ष्य लोकान् ” इत्यादिप्रकारेण मुमुक्षायाः परंपरया हेतुहेतु- मद्भावात्सह पाठ्यः ; अन्यथा मुमुक्षुत्वमेकमेव हि पाठ्यम् ; किं चतुष्कग्रहणेन । द्विती- येऽप्यभ्युपगमविरोधात्, “ विवेकाद्वैराग्यम्" इत्यादिक्रमस्य परैर्व्याख्यातत्वादिति । अत्र मीमांसाश्रवणमन्तरेणेत्युक्तं विवृणोति – फलेति । कर्मभागे स्वर्गादिर्यागादिः प्रया- जादिर्बुभुक्षुश्च फलादयः । ब्रह्मभागे तु मुक्त्युपास्तिशमादिमुमुक्षवः । एषां विशेषः पूर्व- पक्षोक्तात् व्यावृत्तं रूपं मिथो भेदश्च । नात्र फलकरणादिनिश्चयेन कर्मस्वरूपादिबोधोक्तौ साध्याविशेषः ; पदार्थवाक्यार्थनीत्या तेषु तेष्वधिकरणेषु तत्तदवान्तरवाक्यार्थनिश्चयेन पश्चा- न्मिथः संसृष्टविशिष्टमहावाक्यार्थयोघोक्तेः, वैराग्यादिमूलभूतस्य नित्यानित्यविवेकस्य फल- करणादिनिश्चयान्तर्गतबोधनपरत्वाच्च । कर्मग्रहणमिहोपास्तेरप्युपलक्षकम् । इति वोभयसंग्रहः ; उपासनेऽपि कर्मशब्दः सूत्रेऽप्युक्तः - " प्रकाशश्ध कर्मण्य- भ्यासात् " इति । तत्र च भाष्यम् " आसनात्मके कर्मणि " इति । अन्यत्र 99 66 1 क्रियत

T ( १ – १ – १ ) " तत्त्वटीका 1 1 O ४३९ च " यागादिकमुपासनात्मकं च कर्म " इति । मानसकर्मोक्तिश्च स्मृत्यादिषु दृश्यते । कर्मशब्दस्यात्र ज्योतिष्टोमादिमात्रविषयत्वं मत्वा तत्स्थिरत्वास्थिरत्वेत्येतन्निरूपणप्रका- रस्यानुकारः, न तु निश्चयप्रकारस्येति केचित् । अत्र वैघटद्यव्यञ्जकेन व्यतिरेकेण भाष्यमाण- स्यायं च भावः किं, केन, कथम्’ इत्याकाङ्क्षितफलाद्यंशत्रयनिश्चयमन्तरेण कथं त्र्यंशभावनात्मककर्मबोधः ? कथं च जीवनादिविशेषिताधिकारान्वित स्वर्गादिपदार्थस्य देहा- न्तरदेशान्तर भोग्यत्वनिश्चयः ? तदभावे च कथं लोकायत सौगतगतिखण्डनगर्भपूर्वोत्तर देहानु- वृत्तात्माध्यवसायः ? आत्मनि च सुखतयोपलब्धेरन्यथासिद्ध्या वचनमन्तरेण कथं सुखत्व- श्रुतिमुख्यत्वम् ? तादृशात्मनिश्चयाभावे देहमेवात्मानं मन्यमानस्य कथमैहिकफलविरक्तिः ? नित्यसुखरूपतया सिद्धस्याप्यधिकर्तुः प्रवृत्तिधर्मफलं कृत्स्नं ‘परिमितविषयभोगरूपमनित्यं, निवृत्तिधर्मफलं परं नित्यम् ’ इति निश्चयाला कथं स्वर्गाद्यनित्यफलजिहासा, नैगमान्तिक - नित्यफलधिया समाकर्षश्च? अतः साधनचतुष्कवृत्तवादे विवेकविशेषादेर्मूलतया भागद्वय- विचार एष्टव्यः । ततश्च कर्मविचारसापेक्षत्वम् । परमन्योन्याश्रयस्त्वधिक इति । आदिशब्देन ज्ञानानन्दरूपत्वसंग्रहः । शमादिसाधनसंपत्तौ विशेषतश्च दोषमाह – एषामिति ; “शान्तो दान्तः" इत्यादिविनियोजक वाक्योक्तानामित्यर्थः । विनियोगोऽङ्गाङ्गित्वबोधनम् । " संबन्ध: " इति तु न्यायसुदर्शनम् । शमादेरङ्गत्वे बोधिते यत्र साधनत्वमनुक्तमप्यर्थात्सिध्येत् । ततः किमित्यत्र शेषलक्षणसिद्धप्रमाणलक्षणसापेक्षत्वमाह - विनियोग इति । एतैर्मानैर्ब्रह्मकाण्ड एव तद्विनियोगश्चिन्त्यतामित्यत्राह – स इति । स च तातयः ; प्रागुक्तसंगतिक्रमेण कर्म- काण्डतृतीयाध्यायोक्तः । इह पुनस्तृतीये लाघवानुसारात्पूर्वं व्युत्पादितैस्तैरेवाक्षेपसमाधान- मात्रं करिष्यते । एवमेवाध्यायान्तरन्यायोपजीवनं चात्र द्रष्टव्यमिति भावः । अथ युक्तयन्तरं दर्शयन्नुद्गीथाद्युपासनविचारस्य स्थानान्तरानर्हतयात्रैव मुख्यसंगत्याः कर्मब्रह्मचिन्ताक्रमं स्थापयति – उद्गीथेति । कर्मसमृद्ध्यर्थान्यपीत्यनेन पूर्वत्रोपयोग इह नेति शङ्कोद्वाटयते । कर्मसमृद्धि : ; " तदेव वीर्यवत्तरम्" इति श्रुत्युक्तेः प्रबलकर्मभिरप्रतिबन्धो गुणफलरूपः । ब्रह्मदृष्टिरूपाणीति हेतुगर्भम् । ब्रह्मज्ञानापेक्षाणि ; न ह्यारोप्यस्वरूपमन्यत्राजानतः क्वचिदपि तदारोपः, अनिर्वचनीयादिदृष्टेर्दूषयिष्यमाणत्वात् । इह च ब्रह्मज्ञानं प्रथमद्विक- साध्यमित्याशयः । दृष्टयुपासनानां प्रधानानुपयोगं प्रणाड्योपयोगात् परिहरति– तानीति ; उद्गीथाद्युपासनपरिहार्य प्रत्यूहानीति यावत् ! अपिरत्र परारोपितविरोधद्योतकः ; यद्वा

४४० श्रीभाष्यम् (जिज्ञासाधिकरणम्) पूर्वग्रन्थेऽनुपयोगमन्वारुह्य सजातीयप्रयोगमात्रात्संगतिरनन्यगतिका काङक्षोक्त्या परिहता; अत्र तूपयोगश्चास्तीति व्यज्यते । अनभिसंहितफलानि ; बन्धकफलसंकल्परहितत्वादि- त्यर्थः । ब्रह्मविद्यात्रं स्वाभीष्टा । साद्गुण्यम् ; पूर्वोक्तैव समृद्धिः, न तु वैकल्यनिवृत्तिः । तदापादकानि कर्मसमृद्धघुत्पादकानि । ; कर्मजारकर्माण्यं विद्यासागुण्यतश्च सा । अतो विरोध इत्यल्पं व्यक्तिभेदाद् व्यवस्थितेः ॥ ३२६ ॥ सुतराम् ; स्वापेक्षया परविद्यापेक्षया चेति भावः । इहैवेत्ययोगवदन्ययोगोऽपि व्यवच्छिद्यते । अब्रह्मदृष्ट्यादिषु तु प्रधानैकार्थता भवेत् । विद्यौपयिकदृष्ट्यादि हेतुन्यायादिष्यते || ३२७ | नातिप्रसक्तिरेवं स्यादधीत्यासत्त्यनुद्रुतेः । कथंचित्संगतिश्चात्र परेष्टा न प्रणुद्यते ॥ ३२८ ॥ 0 ; अस्तु यथावदनवगतेऽधिष्ठाने मिथ्यादृष्टिः प्रसिद्धेत्यत्राह – तेषामिति । न ह्येतन्मिथ्यादृष्टिमात्रम् ; अपि तु यथावदवगते वैधमारोपणम् । ततश्चाधिष्ठानभूतं कम । कर्मा यथावदविजानता तत्रान्यदृष्टिविधिर्न चिन्तयितुं शक्यते । सर्वसंमता, विश्वापलापिनोऽपि निरूपकसंनिधौ दुरपह्नवा; आहत्य सन्मात्रेऽवगतिविमतेरिति भावः । ननु काम्यकर्म- णोऽप्यननैरपि स्ववीर्यवत्तरत्वा पाद कैरेतैरपेक्षास्ति तेषामपि विचारानुष्ठाने च कर्मज्ञानापेक्षा सिद्धा ; अत उभयाकाङ्क्षया कर्मकाण्डे तच्चिन्तास्तु ; मैवम्; अविदितब्रह्मणस्तदयोग- स्योक्तत्वात् । अत एव ह्युपनिषत्स्वेव तदधीतिः । यत्तु " अधीतवेदान्तस्य " इत्यादिना वेदान्तमात्राध्यायिनस्तावन्मात्रचिन्ता शक्येति पूर्वं चोदितम् ; तदसत् — अध्ययनविधिर्हि यथाक्रमं कृत्स्नाध्ययनं प्रयुङ्क्ते । न च विध्यतिलङ्घनेन प्रवृत्तमापत्कृतं वा त्रय्यन्तमात्रा- ध्ययनमपेक्ष्येदानीं तद्विचारस्य पूर्ववृत्तं मृग्यते । एतेन प्राचीनसुकृतविशेषनियतवैराग्याति- शयादेकदेशाध्ययनविचारौ स्यातामित्यपि निरस्तम् तस्याप्यध्ययनविध्यतिलङ्घनायोगात् ; अनधिगतकर्मणः कर्माङ्गविद्याधिगतिरशक्यविचार इति चोक्तम् । अविशदनिरूपणेन पश्चात् शेष पूरणं च क्लिष्टम् । ब्रह्मचिन्तोद्यतस्य विद्याङ्ग कर्मणां गुरूपदेशमात्रेण ज्ञप्तिर - स्त्विति चेत्, तर्हि तेनैव न्यायेन ब्रह्मविचारोऽपि मा भूत् । तदिह यथाविधि कृत्स्ना- CC-0No Rights Reserved. Digitized by eGangotri ( १ – १ – १ ) मूलभावप्रकाशिका ध्यायिनः प्रागिव कृतावशिष्टे विचारपर्वणि वृत्तविशेषः स्थाप्यत इति शुद्धः पन्थाः ॥ श्रुतिकिरीटशरीरविकृष्टिकृन्म लिनवृत्तिमलिम्लुचवृत्तिभिः ! विघटितामिव विंशतिलक्षणीं यतिपतेरिति नीतिरजीघटत् ॥ ३२९ ॥ मूलभावप्रकाशिका ४४१ परमतं प्रतिक्षिपति — अपिचेति । आत्मनित्यत्वादीत्यादिपदेन सत्यत्वादिग्र- हणम् । परमते - आत्मा नित्य:, अतः सत्य उपादेयश्च; तद्व्यतिरिक्तं तु कर्मफलमनित्यं मिथ्या- भूतम्, अतो हेयमित्येवंरूपस्यैव विवेकस्य नित्यानित्यविवेकरूपतया वाचस्पतिनोक्तत्वादेवंरू- पस्य विवेकस्य विंशतिलक्षणमीमांसासाध्यत्वेन ब्रह्मविचारपूर्ववृत्तत्वासंभवादिति भावः । स्थिरत्वास्थिरत्वेति ; स्थिरत्वास्थिरत्वान्यतरेत्यर्थः ; कर्मफलभूतकृत्स्नप्रपञ्चास्थिरत्वं दुरवबोधमिति यावत् । यद्वा कर्मणामल्पास्थिरफलत्वप्रतीतिसहितानन्तस्थिरफलापातप्रतीतेः पूर्ववृत्तत्वं वदद्भिर्भवद्भिरेव नित्यानित्यविवेकस्य पूर्ववृत्तत्वमभ्युपगतमित्यत्राह – अपि चेति । सत्यमेतादृशो नित्यानित्यविवेकः पूर्ववृत्ततयास्माभिरभ्युपेत एव; अपितु ईदृश नित्यानित्यवस्तुविवेकस्य " तद्यथेह " इत्यादिवाक्यैः कर्ममीमांसासनाथैरेव निष्पाद्यत्वा- कर्ममीमांसायाः पूर्ववृत्तत्वं वक्तव्यमिति भावः । अनन्तस्थिर फलप्रतीतिमभिप्रेत्यात्म- नित्यत्वादीत्युक्तम् । वैदिकवैराग्यशमादेः " परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेद- मायात् ” “सम्यक् प्रशान्तचित्ताय शमान्विताय" " शान्तो दान्त उपरतः " इत्यादि - वाक्यैस्तृतीयाध्यायव्युत्पाद्यविनियोजकश्रुतिलिङ्गादिन्यायालोचनसनाथैरेव श्रवणशेषत्वस्याव- गन्तव्यतया ब्रह्मविचारस्य कर्मविचारसापेक्षत्वमस्तीत्याह - एषां साधनत्वं चेत्या- दिना । इदं चोपलक्षणम् । प्रायेण ब्रह्ममीमांसायाः कर्ममीमांसासापेक्षत्वं मीमांसापरि- चयशालिनां सुव्यक्तम् । नन्वस्मिन् शास्त्र सर्ववेदान्तानां ब्रह्मणि समन्वयार्थमुपक्रमादी- म्येव ज्ञातव्यानि न श्रुतिलिङ्गादीनीति चेत् न, उपक्रमोन्मेषार्थं श्रुतिलिङ्गादीनाम- पेक्ष्यत्वात् । न हि ब्रह्माभिधानश्रुत्यादिकमनुपलम्योपक्रमो ब्रह्मविषय इति निश्चेतुं शक्यम् । न चैतावता श्रुतिलिङ्गादिकमेव समन्वयोपयोगि नोपक्रमादिकमिति शक्यं वक्तुम्, श्रुत्यादिष्वपि प्रकरणस्योपक्रमादितात्पर्यलिङ्गाधीनात्मज्ञानत्वात् । साकाङ्क्षप्रधानवचनं हि ‘प्रकरणम् । प्राधान्यनिर्णयश्च तात्पर्यलिङ्गावसेयः । किंच — येषु वाक्येषु ब्रह्माब्रह्मसमावेश- स्तत्र ब्रह्मलिङ्गबलवत्त्वस्य तात्पर्यलिङ्गोपक्रमाद्य वसेयत्वात् श्रुतिलिङ्गादिकमुपक्रमादिकं 56 O 0

४४२ 0 श्रीभाष्यम् (जिज्ञासाधिकरणम् ) चापेक्षितम् । न चोपक्रमादीनां श्रुतिलिङ्गादीनां चान्योन्याश्रयः ; उपक्रमादीनां स्वरूप- लाभार्थं श्रुतिलिङ्गाद्यपेक्षणं, बलाबलावधारणार्थमुपक्रमाद्यपेक्षणमिति विषयभेदेन परस्परा- पेक्षायामुत्पत्तिज्ञप्तिविषये धूमवयोरिव परस्परापेक्षाया अदोषत्वात् । तस्मात् श्रुतिलिङ्गा- दिकमुपजीव्यमेवेति तदर्थं तृतीयाध्यायापेक्षाया अपि सत्त्वम् एवमन्यदपि द्वादशल- क्षण्याः कर्ममीमांसायाः प्रमेयं प्रायेण ब्रह्ममीमांसायामुपजीव्यमेव । * तथाहि- “ अथातो धर्मजिज्ञासा" इति सूत्रेण प्रमाणस्वरूपसाधनफलैर्धर्मस्य विचारं प्रतिज्ञाय प्रथमाध्याये तस्मिन् प्रमाणं निरूपितम् । तत्र प्रथमपादे साक्षाद्धर्मे प्रमाणभूताया- धोदनाया अपि पौरुपेयत्वाद्यप्रामाण्यहेतुशङ्कानिराकरणपूर्वकं तंत्र प्रामाण्यमुपपादितम् । द्वितीयपादे अर्थवादमन्त्रयोर्विध्यपेक्षितद्रव्य देवतास्तुत्यनुष्ठेयार्थस्मृतिसमर्पकतया, तृतीय- पादे मन्वाद्याप्तप्रणीतवेदाविरुद्धस्मृत्यादीनां मूलवेदानुमापकतया, चतुर्थपादे " अग्निहोत्रं जुहोति ” “इयेनेनाभिचरन् यजेत" इत्यादिविधिवाक्यगृतानां नाम्नां कर्मनामतया च तत्र प्रामाण्यमुपपादितम् । एवं प्रमाणसिद्धस्य धर्मस्य परस्परभिन्नं स्वरूपं द्वितीयाध्याये निरू- पितम् । तत्र ‘यजति, ददाति, जुहोति’ इति चोदनासु यज्यादिधातुभेदरूपेण शब्दान्तरेण यागदानहोमानां भेदः । “ समिधो यजति " " तनूनपातं यजति " इत्यादिषु विधिषु ‘यजति’ इति पञ्चकृत्वोऽभ्यासेनाविशेषपुनः श्रुतिरूपेण प्रयाजादीनां भेद: ; “सप्तदश प्राजा- पत्यान् पशूनालभेत” इत्यत्र द्रव्यदेवतासंबन्धमेदिन्या सप्तदशसंख्यया तदनुमेययागानां भेदः”। “अथैष ज्योतिः” इत्यादिषु वाक्येषु ज्योतिरादिनामधेयैस्तन्नामकानां प्रकृतज्योति– ष्टोमाद्भेदः । “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्" इत्यत्रामि- क्षारूपगुणान्तरावरुद्धे यांगे निवेशमलभमानेन वाजिनगुणेन वाजिनयागस्यामिक्षायागात् भेदः । प्रकरणान्तरेण नित्याग्निहोत्रान्मासाग्निहोत्रस्य भेद इत्येवं द्वितीयाध्याये कर्मभेदः प्रपञ्चितः । तृतीयाध्याये भिन्नानां श्रुतिलिङ्गादिभिः प्रमाणैः शेषशेषिभावो निरूपितः । तत्र निरपेक्षशब्दः श्रुतिः । सा त्रिविधा - विधात्री अभिधात्री विनियोक्त्री च । लिङादि- श्रुतिर्विधात्री | इन्द्रादिश्रुतिरभिधात्री । विनियोक्त्री तु — एकप्रत्ययरूपा, एकपदरूपा, विभक्तिरूपेति त्रिविधा । तत्राद्या “पशुना यजेत” इति तृतीया; सा हि स्वोक्तकरण- 1

  • एतदारभ्य ४५० तमे पृष्ठे द्वितीयपङ्क्तौ ‘निरूपितः’ इतिपर्यन्तो भाग ::- सर्वोऽप्यनयेवानुपूर्व्या शिवार्कमणिदीपिकायां दृश्यते । CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) मूलभावप्रकाशिका . 1

כי ४४३ कारकं प्रति स्वोक्तैकत्वसंख्यायाः शेषत्वं समपयति । द्वितीया " यजेत" इति पदम् । तेन प्रत्ययोक्तभावनां प्रति प्रकृत्युक्तयागस्य शेषतोपनीयते । तृतीया शेषित्वबोधिका शेषत्वबोधिकेति द्विधा । “त्रीही प्रोक्षति” इत्यादिषु द्वितीया व्रीह्यादीनां प्रोक्षणक्रियां प्रतीप्सिततमत्व रूपशेषित्वबोधिका। “क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति" इत्यत्र चतुर्थीश्रुतिः मैत्राव - रुणस्य प्रदानक्रियेप्सिततमेन कर्मणाभिप्रेयमाणत्वरूपशेषित्वबोधिका । " अरुणया क्रीणाति” इत्यत्र क्रयभावनां प्रत्यारुण्यस्य, “चात्वालान्मृदमाहरति" इत्यत्र मृदाहरणक्रियां प्रति चात्वालस्य, “वेद्यां हवींष्यासादयति" इत्यत्र हविरासादनक्रियां प्रति वेद्याश्च तृतीयापञ्चमी- सप्तम्यः शेषत्वबोधिकाः । षष्ठी तु क्वचित् " दघ्नेन्द्रियकामस्य जुहुयात्" इत्यादौ शेषित्व - बोधिका “यजमानस्य याज्या" इत्यादौ शेषत्वबोधिका च; संबन्धमात्रेऽनुशिष्टायाः षष्ठघाः योग्यताद्यनुसारेणोभयथापि पर्यवसानसंभवात् । वस्तुसामर्थ्यं लिङ्गम् । तद् द्विविधम्— शब्दसामर्थ्यमर्थ सामर्थ्यं च । तत्र " बर्हिर्देवसदनं दामि" इति मन्त्रस्य लवनप्रकाशनसा- मर्थ्यरूपाल्लिङ्गाल्लवनशेषता । “स्वधितिनावद्यति” “ स्रुवेणावद्यति” “हस्तेनावद्यति" इत्यव- दानसामान्ये साधनत्वेन श्रुतानां स्वधित्यादीनां तत्तत्सामर्थ्यरूपलिङ्गात् विशिष्य मांसद्रव- द्रव्यपुरोडाशाद्यवदानेषु शेषता । शेषत्वस्य शेषित्वस्य वा बोधिकथा श्रुत्या रहितपदसमभि- व्याहारो वाक्यम् । यथा “अग्निहोत्रं जुहुयात् स्वर्गकामः " इति; यथा वा “मैत्रावरुणः प्रेष्यति चान्वाह च” इति । न हि यागभावनां प्रति स्वर्गकामस्य भाव्यत्वेन शेषित्वबोधिका द्वितीयाश्रुतिः, प्रैषानुवचनं प्रति मैत्रावरुणस्य कर्तृत्वेन शेषत्वबोधिका तृतीयाश्रुतिर्वास्ति । प्रथमा तु प्रातिपादिकार्थमात्रेऽनुशिष्टा । अतः पदसमभिव्याहाररूपेण वाक्येनात्र शेषशेषि- भावबोधः। विधिवाक्यतः कर्तव्यत्वेनावगतस्य केन प्रकारेण कर्तव्यमिति विशिष्याज्ञायमान- स्येतिकर्तव्यताकाङ्क्षा प्रकरणम् । तद् द्विविधं – महाप्रकरणमवान्तरप्रकरणं चेति । तत्राद्येन दर्शपूर्णमासादिकं प्रति प्रयाजादीनां द्वितीयेन प्रयाजादिकं प्रत्यभिक्रमणादीनां च तत्तत्संनिधि समाम्नातानां शेषत्वम् । स्थानं द्विविधम् — यथासंख्यं संनिधिश्च । तत्राद्येन " दब्धिरस्यदव्धो भूयासम्” इति मन्त्रस्याग्नेयाग्नीषोमीयमध्याम्नातल्याने याम्नीषोमीययागद्वयमध्यानुष्ठेयोपांशुया- जशेषता। संनिधिस्त्वाम्न्नानसंनिधिरनुष्ठानसंनिधिश्चेति द्विधा । आयेन “शुन्धध्वं दैव्याय कर्मणे देवयज्यायै " इति मन्त्रस्य महाप्रकरणावान्तरप्रकरणरहितस्व सांनाय्यपात्रप्रोक्षणशेषता । द्विती- येन पशुधर्माणामनीषोमीयपशुशेषता । समाख्या यौगिकी संज्ञा । सा लौकिकी वैदिकी चेि


4 0. O HA ४४४ O श्रीभाष्यम् (जिज्ञासाधिकरणम्) 1 द्विधा । होतृचमस इति वैदिकसमाख्यया होतुश्चमसभक्षणं प्रति, आध्वर्यवमिति याज्ञिकप्र- सिद्धलौकिकसमाख्ययाध्वर्योरवघातादिकं प्रति कर्तृत्वेन शेषत्वमिति शेषशेषिभावः सापवाद- स्तृतीयाध्याये प्रपञ्चितः । एवं सिद्धशेषशेषिभावानां कर्मणामनुष्ठापनशक्तिरूपा प्रयुक्तिश्चतुर्थे निरूपिता । शेष्येव शेषं प्रयुङ्क्ते, स्वसिद्ध्यर्थमनुष्ठापयति, न त्वनुनिष्पाद्यपि । नापि शेषः शेषिणं प्रयुङ्क्ते । अनेकशेषिसद्भावेऽपि यत्रान्यप्रयुक्तस्यैवान्यत्रविनियोगस्तत्र यत्प्रयुक्तस्यान्यत्र विनि- योगः स एव शेषं प्रयुङ्क्ते, न तु शेष्यपि सन्नन्योऽपि । एवं च “तप्ते पयसि दध्यानयति” इत्या- दिवाक्ये विधीयमानस्य दध्यानयनस्य द्विकर्मकस्य कर्मान्तराकाङ्क्षायां समभिव्याहृतं पयः कर्मान्तरत्वेनाविधयमानं सप्तम्याधिकरणत्वेन निर्देशात् प्रधानकर्मतया पर्यवस्यतीति प्रकृतप्र– धानभूतपयः परामर्शिना तत्पदेन सामानाधिकरण्येन निर्दिष्टतया पयोरूपत्वेनाव गतामिक्षैव शेषित्वात् स्वशेषभूतं दध्यानयनमनुष्ठापयति न तु तदनुनिष्पादि वाजिनमपीत्यामिक्षापचार एव पयोऽतरे दध्यानयनस्य प्रयुक्तिः, न वाजिनापचारे । “कृष्णविषाणया कण्डूयते " “चा- त्वाले कृष्णविषाणां प्रास्यति " इति कृष्णविषाणायाः कण्डूयनप्रासनरूपक्रियान्वये सत्यपि कृष्णविषाणा तृतीयया कण्डूयनं प्रति शेषः, प्रासनं प्रति तु द्वितीयया शेषिणी । निवृत्त- कण्डूयनप्रयोजनायास्तस्याः प्रासनात् पूर्वमपचारे प्रासनार्थं न पुनः कृष्णविषाणान्तरो- पादानप्रयुक्तिरित्येवं सापवादा प्रयुक्तिश्चतुर्थाध्याये प्रपञ्चिता । एकप्रयोगान्तर्गतानामङ्ग- प्रधानानामनुष्ठानक्रमः पञ्चमाध्याये श्रुत्यर्थादिभिः प्रपञ्चितः । तत्र “अध्वर्युर्गृहपतिं दीक्ष- यित्वा ब्रह्माणं दीक्षयति” इत्यादिश्रुत्या गृहपत्यादीनामुन्नेत्रन्तानां सप्तदशानां सत्रयजमा- नानां दीक्षाक्रमः । अग्निहोत्रं जुहोति यवागूं पचति ” इत्यत्र होमद्रव्यनिष्प- त्त्यर्थयवागूपाकप्रयोजनरूपेणार्थेन पाकहोमयोः क्रमः । " समिधो यजति " इत्यादि – विधिविहितानां प्रयाजानां विधिवाक्यपाठक्रमेण क्रमः । वाजपेये प्राजापत्यानां पशूनां प्रति- पश्वावर्तनीयेषूपाकरणनियोजनादिषूपाकरणे यतः कुतश्चित् पशोरारभ्य यत्र क्वचित्पशौ समा- पिते तेनैव प्रवृत्तिक्रमेण नियोजनादिक्रमः । साद्यस्क्रे “ सह पशूनालभते " इति श्रुत्या सवनीयस्थान एवाग्नीषोमीयसवनीयानुबन्ध्यपशुत्रयस्यापि सह कर्तव्यतया प्राप्तौ सवनीय- स्थानेन प्रथमं सवनीयपशोरुपाकरणम्, अनन्तरमग्नीषोमीयानुबन्ध्ययोरिति क्रमः । दर्श पुरोडाशसांनाय्ययोर्मुख्यक्रमेण प्रयाजशेषाभिघारणक्रम इत्येवं श्रुत्यर्थादिभिः क्रमः सापवादः प्रपञ्चितः । एवं द्वितीये उत्पत्तिविधिप्रमेयस्य कर्मभेदस्य, तृतीये नियोगविधिप्रमेयस्य शेष– 66 99 66 ०००

( १ – १ – १ ) मूलभावप्रकाशिका ४४५ V तच्च फलं O " शेषिभावस्य, चतुर्थपञ्चमयोः प्रयोगविधिप्रमेययोः प्रयुक्तिक्रमयोश्च निरूपणानन्तरं षष्ठेऽधिकारिविधिप्रमेयफलसंबन्धो निरूपितः । तत्र स्वर्गकामादिपदं विधिप्रयोज -: नभूतपुरुषप्रवृत्त्यपेक्षितफलविशेषान्वयपरं न तु चन्दनादिरूप यागादिद्रव्यसमर्पकम् । “ स्वर्गकामः ” इत्युद्देश्यगतलिङ्गविशेषस्याविवक्षितत्वात् स्त्रीणामप्यविशि- ष्टम् । “ऋद्धिकामाः सत्रमासीरन् " इत्यादावेकैकस्य कृत्स्नफलं न तु परिषद्गतं फल- मित्येकैकस्य फलान्वय इत्येवमादिरूपेणाधिकारः. सापवादः षष्ठे प्रपञ्चितः । एवं विधिचतु- ष्टयप्रमेयात्मकोपदेशविचारे पूर्वषट्केण कृते ततः परमध्यायचतुष्टयेनातिदेशविचारः । ’ इत्थं कर्तव्यम्’ इत्युपदेशः ; ’ तद्वद् कर्तव्यम्’ इत्यतिदेशः । तत्र सप्तमाष्टमयोर्वचननामधेयचोद- कैरतिदेशो निरूपितः । इषुनामके क्रतौ कांश्चिद्वैशेषिकान् धर्मान् विधायान्नातेन " समानमित- रत् श्येनेन” इति प्रत्यक्षवचनेन श्येनवैशेषिकाङ्गानामिषावतिदेशः ; “मासमग्निहोत्रं जुहोति " इत्यत्र नित्याग्निहोत्रेऽग्निदेवतासद्भावात् क्लृप्तशक्तिकेन तत्सादृश्यविधित्सया कौण्डपायिनाम- यने कर्मणि प्रयुक्तेनाग्निहोत्रनामधेयेन तस्मिन्नित्याग्निहोत्रधर्माणामतिदेशश्च सापवादः सप्तमे पादत्रयेण निरूपितः । चतुर्थपादेन " सौर्यं चरुं निर्वपेत्” इत्यादिष्वनुपदिष्ट- धर्मेषु प्रत्यक्षवचनस्य नाम्नश्चातिदेशिकस्याभावेऽपि कुतश्चिद्वैदिकात् कर्मणो धर्मप्रापकवचने- मस्तीत्यानुमानिकवचनरूपेण चोदकेनातिदेशः सामान्यतो निरूपितः । अष्टमे तु कस्य कुतो धर्मप्राप्तिरित्याकाङ्क्षायां शब्दार्थकृतसादृश्यविशेषाल्लिङ्गादिष्टीनां दर्शपूर्णमा- सतो धर्मः प्रापितः । अग्नीषोमीयपशुतः पशूनां, सवनीयादैकादशिनीनां, ज्योतिष्टोमात् सोमानां, द्वादशाहादहर्गणानां गवामयनात् संवत्सरसत्राणामित्येवंरूपेण विशिष्य चोदकातिदेशः सापवादः प्रपञ्चितः । अतिदिष्टानां मन्त्र सापसंस्काराणां प्राकृतपदार्थका र्यापन्नवैकृतपदार्थान्तरसंबन्धेनान्यथाभावरूप ऊहो नवमे चिन्तितः । प्राकृतपदार्थकार्यापत्तिः प्रत्यक्षेणानुमानेन प्रत्यक्षवचनावगतप्राकृतनिवृत्त्यनुमितशब्देन वावसीयते " नैवारश्व- रुर्भवति ” इत्यत्र प्राकृतत्रीहिकार्य हविर्निर्वाहकत्वं प्रत्यक्षेणैवावसीयते, न तु नैवार इति तद्धितेन ; “तस्येदम्” इति संबन्धसामान्ये अण्प्रत्ययविधानात् तस्य प्रकृतिविकारभावरू- पसंबन्धविशेषपर्यवसायित्वकल्पनायाः प्रत्यक्षाधीनत्वात् । नैर्ऋतं चरुं परिवृत्त्यै गृहे कृष्णानां व्रीहणां नखनिर्भिन्नम् ” इत्यत्र श्रुतस्य नखस्य प्राकृतोलूखलमुसल कार्यापत्तिर्न प्रत्यक्षेणावसीयते ; ऊलूखलमुसलाभ्यां क्रीहीणामवहननं निष्पद्यते, नखेन तेषां निर्भेद- 66 •

४४६ 66 99 " श्रीभाष्यम् ० ( जिज्ञासाधिकरणम् ) नमिति प्रत्यक्षेण कार्यभेदस्य दर्शनात् । किंतु अवहननेनेव निर्भेदनेनापि तुपविमोकात्तण्डुल- निष्पत्तिदर्शनेन प्राकृतावघातस्योलूखलमुसलकार्यतायां यद्रूपं विवक्षितं तण्डुलनिप्पत्तिद्वारे- णापूर्वोपयोगिक्रियात्वं तन्निर्भेदनेऽपि समानमिति तेन रूपेणावहनन निर्भेदन योरैक्य- स्योन्नेयत्वात् तत्कार्यापत्तिरनुमानेन वसीयते । " परिधौ पशुं नियुञ्जीत " इत्यत्र प्राकृतयूपकार्ये पशुनियोजने परिधेर्विनियोगः प्रत्यक्षवचनेनापि विधीयते । " न गिरा गिरेति ब्रूयादैरं कृत्वोङ्गेयम् ” इत्यत्र गिरापदोक्तिप्रतिषेधावगतया गिरीपद निवृत्त्या तत्कार्यस्य साधनापेक्षत्वावगमात् तत्कार्यवाचि पदमनुमाय गिरापदकार्यार्थमैरं कृत्वोद्वेय - मित्येवंरूपेण श्रुतानुमितैकदेशनिष्पादितेन वाक्येन गिरापद कार्यापत्तिरिरापदस्यावसीयते । यस्योभयं हविरार्तिमाच्छति । ऐन्द्रं पञ्चशरावमोदनं निर्वपेत् " इत्यत्र पञ्चशरावद्रव्य - कस्य यागस्य दर्शकार्यापत्तौ दर्शकार्यनिवृत्तिन प्रत्यक्षवचनादवगम्यते; तन्निवृत्तौ तत्कार्यस्य साधनापेक्षायां तद्वाचिपदमनुमाय दर्शकार्यार्थम् " ऐन्द्रं पञ्चशरावमोदनं निर्वपेत् " इति श्रुतानुमितैकदेशनिष्पाद्येन वाक्येन पञ्चशरावयायस्य दर्शकार्यापत्तिरवसीयते । प्रत्यामनेत् स्थानात् " इति षष्ठाध्यायाधिकरणपूर्वपक्षरीत्येदमुदाहरणम् । सिद्धान्ते तु द्रव्यापचारे द्रव्यान्तरानयनेन दर्शनिष्पत्तेर्न तन्निवृत्त्युन्नयनमस्तीत्युदाहरणान्तरमन्वे- षणीयम् । एवं कार्यापत्त्या त्रीहिधर्माणामवघातादीनां नीवारेषूलूखलमुसलधर्माणां प्रोक्ष- णादीनां नखे यूपधर्माणां परिव्ययणादीनां परिधावूहः संस्कारोहः । गिरापदगतगीतिक्रि- याग इरापद ऊहः सामोहः । दर्शधर्माणां तु सिद्धान्ते नास्त्यूहः पञ्चशरावयागे । मन्त्रोह- स्त्वष्टविधः । क्वचित् प्रकृतिमात्रमूह्यते; यथा-" अग्नये जुष्टं निर्वपामि" इत्यत्राग्निपदस्थाने सौर्यचरो: ‘सूर्याय’ इति । कचिल्लिङ्गमात्रमूह्यते ; यथा " वस्व्यसि रुद्रासि " इत्येकहाथि- नीमन्त्रे विकृतिविशेषविहितसोमक्रयणवत्सं प्राप्ते “वसुरसि रुद्रोऽसि " इति । कचित् वचन- मात्रमूह्यते; यथा “छागस्य वपाया मेदसः” इति मन्त्रे प्राजापत्यपशून् प्राप्ते छागानामिति । क्वचित् प्रकृतिर्लिङ्गं चोह्यते; यथा " अग्नये जुष्टं निर्वपामि" इत्यादित्यचरुं प्राप्ते मन्त्रे 66 “स अदित्यै जुष्टं निर्वपामि” इति । क्वचित् प्रकृतिर्वचनं चोह्यते ; यथा - तस्मिन्नेव मन्त्रे वैश्वदेवं चरुं प्राप्ते “विश्वेभ्यो देवेभ्यः” इति । क्वचिल्लिङ्गं वचनं चोद्यते; यथा - “प्रास्मा अग्नि भरत” इति मन्त्रे “मल्हा आलभेत” इति विहितान् पशून् प्राप्ते ‘प्राभ्योऽग्निम् इति । कचित् त्रीण्यप्यूयन्ते; यथा – “आपो देवीः” इति मन्त्रे “आज्यं प्रोक्षणम्” इति सोमारौद्रचरौ

( १ – १ – १ ) मूलभावप्रकाशिकी ४४७ विहितं घृतं प्राप्ते “घृतं देवम्’ इति । क्वचित्सकलस्य पदस्याभ्यामरूप ऊहः । यथा “एक- धास्य त्वचमाच्छ्यतात्’ इति मन्त्रे पशुगणं प्राप्ते ‘एकधैकधा’ इति । एवमूहः सापवादो नवमे प्रपश्चितः । एवमातिदेशिकपदार्थगतरूपान्तराति देशनिरूपणानन्तरं तन्निवृत्त्यात्मको बाधो दशमे निरूपितः। निवृत्तिश्च कस्यचित् क्वचिदतिदेशवाक्यप्रवृत्तिकाले प्रकृतावज्ञातत्वेन तद्भा- ह्यत्वासंभवात् । यथा दर्शपूर्णमासाङ्गभूतायामारम्भणीयायामारम्भणीयायाः । न हि आरम्भणी.. याविधानसमये दर्शपूर्णमासयोरारम्भणीया अङ्गमिति विज्ञातं येन सापि प्रयाजादिवदतिदेशवा- क्येन गृह्येत । कस्यचिदतिदेशवाक्यप्रवृत्तिकाले प्रकृतौ विज्ञातस्याप्यसंभवान्निवृत्तिः । यथा पवमानेष्टावग्निहोत्रहवण्याः ; ययाग्निहोत्रं हुतं साग्निहोत्रहवणी । प्रकृतौ " अग्निहोत्रहवण्या | हवींषि निर्वपति” इति निर्वापकरणत्वेन ग्राह्येति । न च पवमानेष्टिसमयेऽग्निहोत्रं हुतम् । क्वचिद् द्वारलोपान्निवृतिः । तत्र द्वारलोपः क्वचित् द्वारत्वाभिमतस्य स्वतः सिद्धतया । कृष्णलेष्ववघात- द्वारस्य वैतुष्यस्य स्वतः सिद्धतयावघातस्य निवृत्तिः । क्वचित्पूर्वसिद्धतया । यथा “खलेवाली यूपो भवति” इत्यत्र रवलेवाल्याः प्रागेव छित्वा तक्षणेन श्लक्ष्णीकृत्य निखातायाश्छेदनतक्षणोछू- यणानां निवृत्तिः । क्वचित् द्वारसंपादनाशक्त्या ; यथा प्राशित्रेडाभक्षणार्थेषु कृष्णलेष्वभिघा- रणजन्योपकारस्य स्वादिम्नः संपादयितुमशक्यत्वादभिघारणनिवृत्तिः । क्वचित्सिद्धशेषिविरौ- धानिवृत्ति:; यथा आग्रयणदक्षिणारूपे वत्से अन्वाहार्थधर्मस्य पाकस्य । पाके हि कृते वत्सो नश्येत् ; तन्मांसमेव दक्षिणा स्यात् । क्वचित् साध्यशेषिविरोधात् कस्यचिन्निवृत्तिः; यथा “बार्हस्पत्यो नैवारश्चरुर्भवति" इत्यत्र निर्वाप्येषु “चतुरो मुष्टी निर्वपति" इत्यतिदेशप्राप्तस्य चु- तुर्मुष्टिपरिमाणस्य सप्तदशशरावपरिमाण चरुरूप साध्यशेषिविरोधित्वात् संख्यामुष्टयोरन्यतरनिवृ- त्तेरवश्यंभावे जघन्यत्वान्मुष्टेर्निवृत्तिः । क्वचिद्विरोधाभावेऽपि प्रयोजनाभावान्निवृत्तिः; यथा -.. आग्रयणदक्षिणारूपे वाससि पाकस्य । प्रकृतौ ह्यन्वाहार्यरूपदक्षिणाद्रव्यनिष्पत्त्यर्थं “दक्षिणा - ग्नावपरिमितं महान्तमोदनं पचति " इति पाको विहितः । इह दक्षिणद्रव्ये वाससि प्रागेव निष्पन्ने स्थिते तन्निष्पत्त्यनुपयोगिना किं पाकेन ? द्वारलोपनिवृत्तिरित्यत्र द्वारशब्देन यत् द्वार- तया फलतया वा प्रयोजनं तत्सर्वं विवक्षितम् । तेन मृते यजमाने क्रियमाणायामिष्टौ “आयु- राशास्ते” इत्यादिमन्त्राणां विवक्षितफलानां मृतस्य यजमानस्यायुरादिफललोपान्निवृत्तिरप्यु- दाहरणमित्यादि द्रष्टव्यम् । क्वचित् प्रत्यान्नानात् प्राकृतपदार्थनिवृत्तिः । साप्यनेकविधा- क्वचिदुद्दिष्टपदार्थविरोधान्निवृत्तिः यथा “औदुम्बरो यूपो भवति” इति वैकृतपशावतिदेश- CC-0 No Rights Reserved. Digitized by eGangotri000 104 ४४८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) प्राप्तयूपोद्देशेनोदुम्बररूपं प्रकृतिद्रव्यविधानादुदुम्बरप्रकृति के यूपे प्राकृतस्य बिल्वपलाशादेर्विरो- धेन, प्रकृतित्वासंभवान्निवृत्तिः । कचिदुपदिष्टपदार्थगतश्रुतनैरपेक्ष्यविरोधान्निवृत्तिः यथा — “नैवारश्चरुर्भवति" इत्यत्र नीवारप्रकृति के चरौ त्रैहतण्डुलानामपि मिश्रेण प्रकृतित्वसंभवेऽपि नीवारशब्दपरतद्धितोत्पत्त्यवगतनैरपेक्ष्यविरोधात् व्रीहीणां निवृत्तिः । नीवाराणां त्रीहिसापे- क्षाणां चरुप्रकृतित्वे हि सापेक्षम समर्थमित्यसामर्थ्यात् तद्धितोत्पत्तिर्न स्यात् । क्वचिदविरोवेऽपि नैरपेक्ष्यान्निवृत्तिः; यथा – आग्रयणे “वासो दक्षिणा " " वत्सः प्रथमजो दक्षिणा" इति श्रुताभ्यां वासोवत्साभ्यामृत्विजामानतौ तयोरन्वाहार्थनिरपेक्ष कारणत्वात् प्राकृतान्वाहार्य- दक्षिणानिवृत्तिः ं । क्वचिन्नैरपेक्ष्याभावेऽपि नियमवशान्निवृत्तिः; यथा “सोमचमसो दक्षिणा सप्रियाय सगोत्राय ब्रह्मणे देयः " इति श्रुतेन सोमचमसेन केवलं ब्रह्मणे दत्तेन लौकि- कोपायान्तरमनपेक्ष्य ऋत्विजामानतेरसंभवेऽपि श्रुतनियमविधिवशात् प्राकृत्याः द्वादश- शतदक्षिणाया निवृत्तिरित्युदाहरणीयन् । क्वचित्प्रतिषेधात् प्राकृतपदार्थनिवृत्तिः । प्रतिषेध- शब्देन यः कश्चित् प्राकृतपदार्थनिवृत्तिफलको विधि ः स सर्वोऽपि विवक्षितः । तेन महापितृ- यज्ञे – “नार्षेयं वृणीते” इत्यनेनार्षेयवरणव प्रकृतिवत् कुर्यादिति पर्युदासेन या तस्मिन्ना- वरणनिवृत्तिः, “न तौ पशौ करोति” इत्याज्यभागनिषेधाद्या पशावाज्यभागनिवृत्तिः “आ- भागौ यजति" इत्यपूर्वतापरविधिनाज्यभागानां या गृहमेधीय कर्मणि निवृत्तिः, सा सर्वाप्यत्रो- दाहरणम् । एवं च दर्शपूर्णमासयो: “कपालेषु श्रपयति" इतिवाक्यस्य तण्डुलहविष्केषु चित्रा - टिपु त्रीद्युपादाननिवृत्तेरेव फलत्वात् साप्यत्रोदाहरणम् । एवमुपदेशविषयेऽतिदेशवित्रये च पृथङ् निरूपणीयेषु निरूपितेषु तदुभयसाधारणयोस्तन्त्रप्रलयोर्निरूग्णीययोरेकादशे तन्त्रं नि- रूपितम् । तत् त्रिविधम्-फलतन्त्रम्, पदार्थतन्त्रम्, अनुष्ठानतन्त्रमिति । “दर्शनूर्गमासाभ्यां स्वर्गकामो यजेत" इत्यत्र फलमुद्दिश्योपादीयमानानामाग्नेयादीनां षण्णां द्वन्द्वावगतं “राज- सूयेन स्वाराज्यकामो यजेत" इत्यत्र बहूनामिष्टिपशुसमानामेकेन नाम्ना तन्त्राभिवानावगतं च साहित्यं विवक्षितमिति सहितानां फलान्वयादाग्नेयादीनां पण्णां फलं राजसूयनामगृही तानां यागानां च फलं साधारणम् । तदेतत्फलतन्त्रम् । “समे दर्शपूर्णमासाभ्यां यजेत” “पौग- मास्यां यजेत” “दर्शपूर्णमासयोश्चत्वार ऋत्विजः" इति विहिता देशकालकर्तार एकफल- साधनानां कर्मणां यथायोगं साधारणा इत्येतत् पदार्थतन्त्रम् | एकफलानामेक देशकाल - कर्तृकाणां यदभेदेन प्रयाजायनुष्ठानं तदनुष्ठानतन्त्रम् | फलैक्येऽपि यत्र देशकालकर्तृ- / D 0 607 0

· ( १ – १ – १ ) मूलभावप्रकाशिका 0 ४४९ णामन्यतमस्यापि भेदः, तत्र प्रतिप्रधानमुङ्गानुष्ठानावृत्तिलक्षण वापः । तत्र द्वादशाहे द्वादशानां सोमयागानां द्वादशस्वहःसु कर्तव्यानां कालभेदात् सुत्योपयुत्प्रभृत्यङ्गानुष्टाना- वृत्तिः । वरुणप्रवासेषु नवहविष्कायामिष्टौ विहारद्वयं विधाय " अध्वर्युरुत्तरे विहारे हवींष्यासादयति, मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन् " इति देशभेदविधानात् तत्र तत्र देश उपदिष्टानां हविषां मारुत्याश्चाङ्गानुष्ठानं भिद्यत इति देशभेदेन तदावृत्तिः । तत्रैव " गार्हपत्ये पत्नीसंयाजान् जुहोति " इति विहितानामापरानि कहोमानां देशका - लैक्येऽप्यध्वर्युप्रतिप्रस्थातृरूपकर्तृभेदात् भेदः । यत्र कर्तृत्वाधिष्ठानाभेदेऽपि कर्तृकारकभेदः, तत्रापि प्रयोगभेदेनाङ्गानुष्ठानावृत्तिरेव; यथा " आम्नावैष्णवमेकादशकपालं निर्वपति, वामनो दक्षिणा । सोमा पौष्णं चरुं निर्वपति श्यामो दक्षिणा " इत्यादिवाक्यविहितेषु राजसूया - न्तर्गतयागेषु देशकालफलभेदाप्रतीतावपि वामनानतैराग्नावैष्णवयागः कर्तव्यः; श्यामानतैः सोमा पौष्णश्चरुः कर्तव्य इत्येवं दक्षिणाव्यवस्थया तद्भेदात् कर्तृरूपं भिद्यत इति ततः प्रतियागं प्रयोगभेदादङ्गानुष्ठानावृत्तिः । यानि तु कालभेदेन कर्तव्यानामपि प्रधानानां कर्म कालायङ्गानि तान्यगृह्यमाणविशेषत्वात् सर्वेषां तन्त्रं भवति । यथा ज्योतिष्टोमे अग्नी- षोमीयसवनीयानुबन्ध्यपशूनां " दीक्षासु यूपं छिनत्ति " इति दीक्षाकालकर्तव्यत्वेन विहितो यूपः । यथा वा द्वादशाहे द्वादशानां सोमयागानामहर्भेदेन कर्तव्यानां दीक्षोपसदादय इत्येवंरूपेण सापवादं तन्त्रमेकादशे निरूपितम् । द्वादशे प्रसङ्गो निरूपितः । अन्यार्थेनान्यस्य तत्प्रयुक्तिशक्तिकस्योपकारः प्रसङ्गः । यथा भोजनार्थं प्रथमांग- तस्याचार्यस्य कृते कृतेन स्पापूपादिना पश्चादागतस्य स्वयमाचार्यनैरपेक्ष्ये- णापि सूपापूपादिप्रयुक्तिशक्तिकस्य जामातुरुपकारः । यत्त्वन्यार्थेन स्वयं तत्प्रयुक्ति-• शक्तिरहितमुपक्रियते, तन्न प्रसङ्गिकम् आचार्यार्थकृतसूपाद्युपक्रियमाणपरिचारकादिवत् तदुपजीव्य प्रयोजकम् । यथा दध्यानयनेनोपक्रियमाणं पुरोडाशकपालं प्रति तुषोपवापस्य शेषित्वे सत्यपि न तत्प्रयुक्तिशक्तिः, " पुरोडाशकपाल: " इति सविशेषणोपादानेनान्य- प्रयुक्त्युपजीव्यत्वाविष्करणात् । स च प्रसङ्गस्त्रिविधः – अनुष्ठानप्रसङ्गः; पदार्थप्रसङ्गः; शास्त्रप्रसङ्गश्चति । पश्वर्थप्रयाजाद्यनुष्ठानेन पशुपुरोडाशाद्युपकारोऽनुष्ठानप्रसङ्गः । सौमिक्या वेद्या सोमान्तर्गतेष्टिपशूनामुपकारः पदार्थप्रसङ्गः । “यजमानादिर्ब्राह्मणो धनमार्जयेत्” इति द्रव्यार्जनशास्त्रेण ज्योतिष्टोमादिशास्त्रस्य ऋत्विगपेक्षस्याविशेषेण त्रैवर्णिकानामा- 57. . —–

800 0 ४५० 6 0 श्रीभाष्यम्


(जिज्ञासाधिकरणम्) त्र्विज्यमाक्षेतुं प्रवृत्तस्योपकारः शास्त्रप्रसङ्गः – इत्येवमादिरूपेण द्वादशे सापवादः प्रसङ्गो. निरूपितः । तत्र द्वादशलक्षणीप्रतिपाद्यप्रमेयस्य ब्रह्ममीमांसायामुपजीव्यत्वं तत्र तत्र प्रदर्शयिष्यत इति नात्र प्रपञ्च्यते । यदुक्तम् – उद्गीथाद्युपासनविचारस्य ब्रह्मविचारे प्रासङ्गिकविचारोपयुक्तकर्मविचारस्य न पूर्ववृत्तत्वमिति; तन्न, " अथातो ब्रह्मजिज्ञासा" इति सूत्रे ब्रह्मवत्तदनुबन्धिनामपि विचारः प्रतिज्ञातः । ब्रह्मोपासनानां ब्रह्मानुबन्धित्व- वदुद्गीथाद्युपासनानामपि ब्रह्मदृष्टिरूपतया ब्रह्मानुवन्धित्वमस्त्येव । तथा ब्रह्म तथा ब्रह्मोपासनाङ्ग- कर्मसमृद्ध्यर्थतया ब्रह्मानुबन्ध्युपासनानुबन्धित्वमप्यस्त्येव । एवं ब्रह्मोपासनादिवत्साक्षात्संग- तस्योद्गीथायुपासनविचारस्य प्रासङ्गिकत्वं कुतस्त्यमित्याह – उद्गीथायुपासनानीत्या- दिना । ब्रह्मदृष्टिरूपाणीत्यनेन ब्रह्मानुवन्धित्वमुक्तम् । ब्रह्मज्ञानापेक्षाणीत्यनेन ब्रह्मानु- बन्ध्यनुबन्धित्वमुक्तम् । तान्यपीत्यनेन प्रकारान्तरेण ब्रह्मानुबन्ध्यनुबन्धित्वमुच्यत इति द्रष्टव्यम् । सुतरामित्यनेनानुबन्धत्रैविध्यं सूच्यते । इहैव संगतानीति ; कर्म- विचारापेक्षयात्र संगत्यतिशयसद्भावादिति भावः । न्यायसुदर्शनम् अविशेषेण वेदनोपादानादुभयावस्थानपेक्ष्य संविभक्तेर्विनियोगो धर्मिणामिच्छाद्वा- रतोऽयमिति केचित् । फलकरणेत्यत्र फलशब्दोऽपूर्वादिगोचरः । उत्तरफलशब्दः स्वर्गादि- गोचर इति विवेकः । एषां साधनत्वं च विनियोगावसेयमित्यत्र विनियोगो विशेष- संबन्धः । श्रुतिलिङ्गादीनां स्वरूपमुत्तरत्र वक्ष्यामः । इति लघुसिद्धान्तः ।

महापूर्वपक्ष

॥ महापूर्वपक्ष: ॥ श्रीभाष्यम् " ,, यदप्याहः - अशेषविशेषप्रत्यनीकचिन्मात्रं ब्रह्मैव परमार्थः । तदतिरेकि नानाविधज्ञातृज्ञेयतत्कृत ज्ञानभेदादि सर्वं तस्मिन्नेव परि- कल्पितं मिथ्याभूतम् । “सदेव सोम्येदमग्र आसीत् । एकमेवाद्विती- यम् " " अथ परा यया तदक्षरमधिगम्यते । यत्तदद्रेश्यमग्राह्य- मगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः || ” " सत्यं ज्ञानमनन्तं ब्रह्म " " निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जम् | " यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातम- • विजानताम् । " " न दृष्टेर्द्रष्टारं पश्येर्न मतेर्मन्तारं मन्वीथाः " " आ- नन्दो ब्रह्म " " इदं सर्वं यदयमात्मा नेह नानास्ति किंचन " मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति " यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात् । " वाचारम्भणं विकारो नामधेयं मृत्ति- केत्येव सत्यम् ” यदा ह्येवैष एतस्मिन्नु दरमन्तरं कुरुते, अथ तस्य भयं भवति " " न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि मात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् " । 55 " प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । 66

  • वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ 55 95 "" " माया-

0 ४५२ श्रीभाष्यम् ॥ ( जिज्ञासाधिकरणम् )> " परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते । यदेतद् दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः || ” ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ " " तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थो हि द्वैतिनोऽतथ्यदर्शिनः ॥ " 66 66 यद्यन्योऽस्ति परः कोपि मत्तः पार्थिवसत्तम । तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥ " वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथासौ परमात्मनः । ” 66 66 66 सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः || ” विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ अहमात्मा गुडाकेश सर्वभूताशय स्थितः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । 55 न तदस्ति विना यत्स्यान्मया भूतं चराचरम् । 35 ।” इत्यादिभिर्वस्तुस्वरूपोपदेशपरैः शास्त्रैर्निर्विशेषचिन्मात्रं ब्रह्मैव सत्यम्, CC-0 No Rights Reserved. Digitized by eGangotri० (8-2-1) श्रुतप्रकाशिका ४५३ अन्यसर्वं मिथ्येत्यभिधानात् । मिथ्यात्वं नाम प्रतीयमानत्वपूर्वक - • • यथावस्थितवस्तुज्ञाननिवर्त्यत्वम् ; यथा रज्ज्वाद्यधिष्ठानकसर्पादेः । दोष- वशाद्धि तत्र तत्कल्पनम् । एवं चिन्मात्रवपुषि परे ब्रह्मणि दोषपरि- कल्पितमिदं देवतिर्यमनुष्यस्थावरादिभेदं सर्वं जगद्यथावस्थितब्रह्मस्व- रूपावबोधबाध्यं मिथ्यारूपम् । दोषश्च स्वरूपतिरोधानविविधवि- चित्रविक्षेपकरी सदसदनिर्वचनीयानाद्यविद्या | श्रुतप्रकाशिका ( 1 साधनचतुष्टयस्य पूर्ववृत्तत्वे वस्तुसामर्थ्यं नाम हेतुरुक्तः । स पूर्वं ब्रह्मस्वरूपा - च्छादिकेत्यादिना प्रतिज्ञातः । तदुपपादनदूषणयोर्बहुग्रन्थकार्यत्वात्तदुभयं पूर्वं न कृतम् । अथ तदुपपादनायोपक्रमते । पूर्वमुपायोपदेशपरवाक्यपर्यालोचनया वस्तुसामर्थ्यव्यतिरिक्त- हेतव उपन्यस्ता निरस्ताश्च । विधित्सितं ज्ञानमिति ह्युक्तम् । वस्तुसामर्थ्यं तु सिद्ध- परवाक्यसिद्धम् ; वस्तुस्वरूपोपदेशपरैरिति हि वक्ष्यतेः अतः स्वरूपपरवाक्यपर्यालोचना- मुखेन तदुपपादयितुमारभते - यदप्याहुरिति ; अपिना उपपादयिष्यमाणस्यार्थस्य प्राधान्यं सूच्यते । आहुरिति ग्रन्थकार बहुत्वम् । अनेनास्य ग्रन्थस्य तत्तत्प्रबन्धोक्त- सकलार्थगर्भितत्वं दर्शितम् । ’ सर्वे वेदान्ता आरभ्यन्त इति यदप्याहुः, तदनादरणीयम् इत्युपर्यन्वयः । प्रथमं ब्रह्मकमेव सत्यमिति प्रतिजानीते – अशेषेति । अशेषविशेषाः ; वक्ष्यमाणा ज्ञात्रादयः, विजातीयसजातीयस्वगता वा । स्यगतेष्वप्यन्वयिनो व्यावृत्तिरूपाश्च विशेषा अशेषशब्देन विवक्षिताः । तत्प्रत्यनीकम् ; स्वज्ञानेनैव निवर्तकं, शुक्तिरिव रजत- स्येत्यर्थः । निर्विशेषत्वे शून्यता स्यादित्यत्राह - चिन्मात्रमिति । चिच्छब्देन तुच्छत्व- व्यावृत्तिः; स्वयंप्रकाशत्वं हि चित्त्वम् । मात्रचा * ज्ञेयत्वव्यावृत्तिः । यद्वा प्रत्यनीकत्वरूप- धर्मोऽपि मात्रचा व्यावर्त्यते । यद्वा मात्रचा वस्तुतः समस्तविशेषविरहो विवक्षितः । ब्रह्मैवेत्येवकारेण सगुणब्रह्मव्यावृत्तिः । परमार्थः तत्त्वावेदकप्रमाणविषयः । सगुण- वाक्यानां न तत्परत्वम्, फलविशेषार्थमुपासनेऽन्यपरत्वादिति भावः । कथं ब्रह्मण एव सत्यत्वम् ? अन्यदपि हि प्रतीयत इति शङ्कायां ब्रह्मण एव परमार्थत्वसिद्धये तद्यतिरिक्तस्य द्वाज्ज्ञाननिवर्त्यत्वाय च विश्वस्य मिथ्यात्वं प्रतिजानीते - तदिति " अथात आदेशो

  • मात्रव उपपत्तिः २२७ तमे पुढे द्रष्टव्या ।

४५४ श्रीभाष्यम् ; (जिज्ञासाधिकरणम्) 23 नेति नेति" इत्यादौ इत्यादौ " प्रकृतैतावत्त्वम् " इति सूत्रविषये कृत्स्नस्य मिथ्यात्वेन ब्रह्मणोऽपि मिथ्यात्वं परैः पूर्वपक्षीकृत्य निरस्तमिति तदभिप्रायेणोक्तम् — तदतिरेकीति । " नेह नानास्ति " इत्यादिनिषेधवाक्यस्य ब्रह्मव्यतिरेकेऽपि निषेध्यनानात्वं सिध्यतीति दर्शितम् – नानाविधति । पूर्वमशेषविशेषशब्दोक्तविशेषविवरणार्थं “नेह नानास्ति इत्यादिवाक्यगतनानाशब्दविवरणार्थं च नानाविधशब्दवाच्यभेदो विवृतः – ज्ञातृज्ञेयेति । तत्कृतज्ञानभेदो ज्ञातृज्ञेयावच्छिन्नवृत्तिज्ञानभेदः । अनेन वृत्तिस्फुरितचैतन्यभेदस्य स्वरूप- प्रयुक्तताव्यावृत्तिः । भेदशब्देनैकैक कोटिष्ववान्तरभेदा विवक्षिताः । आदिशब्देन निरसनीय- दुः खरूपजन्मजरामरणान्युच्यन्ते । सर्वमिति वक्ष्यमाणनिगत सर्वशब्दस्यायमर्थ इति भावः । तस्मिन्निति निरधिष्ठानभ्रमपक्षव्युदासः । एवकारेणाधिष्ठानबहुत्वनिषेधः । तथा सति हि प्रपञ्चस्य तज्ज्ञाननिवर्त्यत्वसिद्धिः । यद्वा तस्मिन्नित्येकवचनेनाधिष्ठा- नैकत्वसिद्धिः । नानाध्यासा नानाविष्ठानका दृष्टाः ; तत्कथमेकाधिष्ठान- कत्वमिति विरोधं स्वयंप्रकाशवस्तुनोऽधिष्ठानत्वाविरोधं च स्फोरयत्येवकारः । मिथ्याभूतम् ; मिथ्याभाववत् ; वक्ष्यमाणमिथ्यात्व लक्षणवदित्यर्थः । ब्रह्मण एव सत्यत्वे व्यतिरिक्तमिथ्यात्वे च किं प्रमाणमित्यत्राह – सदेवेति । सदेवेति विजाती- यभेदो व्यावर्त्यते । एवमेवेति सजातीयभेदः । अद्वितीयमिति स्वगतभावाभावरूप- भेदः । षडिधतात्पर्यलिङ्गापेतसद्विद्यागतत्वादिदं वाक्यं प्रथममुपात्तम् । अथैवकारफलित- निषेधकण्ठोक्तिमत्परविद्यावाक्यमुपादत्ते – अथेति । इदं च कारणत्वशङ्कितदोषव्युदासो- पक्रमकारणवाक्यम् “ भूतयोनिम्” इत्युक्तानन्तरं तस्यैव प्रपञ्चनात् । अद्रेश्यमग्राह्यम् ; प्रत्यक्षागोचरमनुमानाद्यगोचरम् । अथवा चक्षुरगोचरमिन्द्रियान्तरागोचरम् । अगोत्रम् ; अनामकम् । अवर्णम् अनैल्यादिकम् । अचक्षुः श्रोत्रमपाणिपादम् ; ज्ञानकर्मेन्द्रिय- रहितम् । नित्यं विभुम् ; कालदेशाभ्यामपरिच्छिन्नम् । सर्वगतम् सर्वेण जगताधि- ष्ठानतया गतमाश्रितम् ; वस्तुपरिच्छेद रहितमित्यर्थः । सुसूक्ष्मम् ; अदृश्यत्वं न तुच्छ - त्वदूरत्वादिना, किंतु सुसूक्ष्मत्वादित्यभिप्रायः । वाक्यभेदादनेकयत्तच्छब्दान्वयोप- पत्तिः । अथ शोधकवाक्यमुपादत्ते – सत्यमिति । अनृतजडपरिच्छन्नव्यावृत्तनिर्विशेष- वस्तुपरमिदं वाक्यम् । कारणवाक्यैकार्थ्यात् शोधकवाक्यान्तरैकार्थ्यात् सामानाधिकरण्या.. न्यथानुपपत्त्या चेति वक्ष्यते । निष्कलम् ; कला अवयवाः ; निरवयवमित्यर्थः । तत्र ;


;

(१–१–१) श्रुतप्रकाशिका ४५६ लिङ्गं निष्क्रियत्वम् । शान्तम् ; ऊर्मिषट्करहितम् ; अशनायापिपासे शोकमोहौ जरा- मृत्यू चोर्मयः । निरवद्यं निरञ्जनम् ; कर्मसंबन्धतत्फलरहितम् । अनेन सत्यज्ञानादि - वाक्यगर्भितव्यावृत्तिः स्फुटीकृता । अथ चिन्मात्रशब्दाभिप्रेतां ज्ञेयत्वव्यावृत्तिमाह- यस्येति । अमतमतिज्ञातमिति श्रवणमननादिरूपज्ञानाविषयत्वोक्तिः । अथ ज्ञातृत्व- निषेधपरं वाक्यमाह :- न दृष्टरिति । अत्रापि पूर्वोक्तज्ञानावस्थाभेदो विवक्षितः । अस्य पुरुषार्थत्वाया सुखाद्व्यावृत्तिरुच्यते– आनन्दो ब्रह्मेति । आनन्दशब्दोऽसुखाव्यावृत्तिमात्र- परः । अत एव ह्यानन्दीत्यनुक्तिः । । इत्थं ब्रह्मणो निर्विशेषचिन्मात्रत्वे श्रुतिवाक्यजातमुपन्यस्तम् । अथ व्यतिरिक्त- मिथ्यात्वे प्रमाणमुपन्यस्यते । तत्र प्रथमं मिथ्याभूतस्य जगतो ब्रह्मण्यधिष्ठानेऽध्यस्तत्वं दर्शयति – इदं सर्वं यदयमात्मेति सामानाधिकरण्येन । अधिष्ठानेनाध्यस्तसामानाधि- करण्यं हि बाधार्थं दृष्टम्, यथा - ’ रज्जुः सर्पः ’ इति । पूर्वं ’ सर्वं तस्मिन्नेव ’ इति प्रतिज्ञातं ब्रह्मणः सर्वाध्या साधिष्ठानत्वं चानेन वाक्येन दर्शितम् । व्यतिरिक्तनिषेधकण्ठो- क्तिं दर्शयति-नेह नानाति किंचनेति । नाना पश्यन्नत्यन्ताज्ञ इति दर्शयति- मृत्योरिति । अत्र मृत्युरविद्या " तमसो वा एष तमः प्रविशति" इतिवत् । इवशब्देन नानात्वस्यापारमार्थ्यं दर्शितम् । मिथ्याभूतं चेत् कदाचिन्निवृत्तिः स्यादित्यत्राह — यत्र हीति । यत्र ; यदा । द्वैतमिव भवति ; इवशब्दः पूर्ववत् । तत् ; तदा । इतर इतरमितरेण पश्यतीत्यर्थः । केनेति वक्ष्यमाणत्वादितरेणेत्यध्याहारः । यत्र त्विति ; यत्र ; यदा । अस्य सर्वमात्मैवाभूत् ; तत् ; तदा । केन कं पश्येत् ; क इत्यध्याहार्यम्, इतर इत्युक्तत्वात् । पश्येद्विजानीयादिति ज्ञानपर्वभेदोक्तिः । इदं कृत्स्नमिथ्यात्वं दृष्टा - न्तेनोपपादयन्तीं श्रुतिमुदाहरति — वाचेति । विकारो घटादिसंस्थानं नामधेयं च वाचारम्भणं वागालम्बनम् ; व्यावहारिकमित्यर्थः । तस्मान्मृत्तिकेत्येव सत्यम् । ब्रह्मण नानात्वं पश्यतः पूर्वोक्तमृत्युशब्दाभिहिताज्ञानकार्यं भयं च दर्शयति-यदा हीति । उ दरम् ; उ अवधारणे " तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् " इतिवत् । दरम् ; अल्पम् । यद्वा–उत् अरम्; उदित्यस्य भवतीत्यनेनान्वयः, “व्यवहिताश्च " इति सुनात् । अरं शीघ्रम् । “यदा ह्येव " इत्यादेः पश्चादुपादानं सिद्धान्ते परिहारसौकर्यार्थम् । तच्च पूर्वोक्तवाक्यानामेकन्यायपरिहार्यत्वात् । ब्रह्मणो निर्विशेषचिन्मात्रत्वे व्यतिरिक्तमि-

४५६ श्रीमाष्यम् (जिज्ञासाधिकरणम्) ध्यात्वे च श्रुतिर्दर्शिता । तत्र निर्विशेषत्वे सूत्रं प्रदश्यते – न स्थानतोऽपीति । उभय- लिङ्गं साकारत्वं साकारनिराकारत्वं च सर्वत्र स्थितस्यापि ब्रह्मणो नास्ति ; निरंकारमि- त्यर्थः । अन्यमिथ्यात्वे सूत्रमाह– मायेति । स्वाप्नमर्थजातं कात्स्न्र्त्स्न्येन मायामात्रम् ; कुत इति चेत् , अनभिव्यक्तस्वरूपत्वात् ; दुर्निरूपत्वात् बाधितत्वादित्यर्थः । स्वाप्न- मिथ्यात्वं जगन्मिथ्यात्वदृष्टान्ततया दर्शितम् ; अस्मिन्नर्थद्वये उपबृंहणवचनानि दर्शयति प्रत्यस्तमितभेदमिति । प्रत्यस्तमितभेदम् ; सजातीयविजातीयभेदरहितम् । सत्तामात्रम् ; स्वगतभेदरहितम् । अत एव वचसामगोचरम् । तर्हि तुच्छत्वं स्यात् न सत्तेत्यत्राह - आत्मसंवद्यमिति स्वयंप्रकाशमित्यर्थः । ब्रह्मसंज्ञितमिति ; ब्रह्मेति संज्ञामात्रमेव, न तु बृहत्त्वादिगुणयोग इति भावः । निर्विशेषं चेत् कथं जगदवभास इत्याकाङ्क्षायामुपादत्ते – ज्ञानस्वरूपमिति । प्रपञ्चमिथ्यात्वमनेन श्लोकेनोच्यते । अत्यन्तनिर्मलम् ; सकलविशेषरहितम् । अर्थस्वरूपेण ; जडस्वरूपेण । अर्थनानात्वस्य भ्रान्तिसिद्धत्वादेक एव परमार्थ इति दर्शयति – परमार्थस्त्वमिति । एतद्विवृणोति श्लोकद्वयेन - - यदेतदित्यादिना । भ्रान्तिश्चेत् कस्यचिन्निवर्ततेत्याकाङ्क्षायां केषांचि - तन्निवृतिं दर्शयति – ये तु ज्ञानविद इति । ज्ञानसत्यत्वं जडमिथ्यात्वं चोक्तम् । अथ ज्ञानाकाराणामात्मनामैक्योक्तिं दर्शयति–तस्येति । एकमयम् ; एकम् | आत्मपरनि- र्देशकृतभेदशङ्कामपि व्युदस्यति यद्यन्योऽस्तीति । अत्र दृष्टान्तमाह– वेणुरन्ध्रेति । अस्योपपादितस्यार्थस्योपदेशं दर्शयति-— सोऽहमिति । यथोपदिष्टमकरोदित्याह – तत्याजेति । अथात्मनां ब्रह्मणैक्योक्तिं दर्शयति— विभेदजनक इति । अथ भगवद्गी- तायां सर्वात्मनां परस्परं ब्रह्मणा च सहैक्योक्तिमुदाहरति– अहमात्मेति । सर्वभूत- शब्देन शरीराण्युच्यन्ते । एतत् स्फुटयति-क्षेत्रज्ञं चेति । " सर्वक्षेत्रेषु " इत्यनेन भृतशब्दस्य शरीरपरत्वं स्फुटीकृतम् । तत्रैव व्यतिरिक्तमिथ्यात्वोक्तिं दर्शयति–न तदस्तीति । वस्तुस्वरूपोपदेशपरैः । न तूपायपरैः, अनन्यपरैरिति भावः । निर्विशेषचि- न्मात्रमिति पूर्ववदर्थः । ’ अभिधानादित्यस्य अशेषविशेष-’ इत्यादिपूर्वप्रतिज्ञावाक्येन सहान्वयः । ननु किमन्यत्र सतोऽन्यत्र ख्यातत्वं मिथ्यात्वम् ? उतात्यन्तासत्त्वम् ? पूर्वस्मिन् कल्पे क्वचित् पारमार्थ्यमभ्युपगतं स्यात् ; द्वितीये तु निवर्त्यमेव नास्तीति शास्त्रवैयर्थ्यम् । अत्यन्तासत्त्वं चानुपपन्नम् । ख्यातेः स्वयंप्रकाशस्य वस्तुनो भ्रमाधिष्ठानत्वं नोपपद्यते ; ; ।

० •८१ – १ – १) श्रुतप्रकाशिका ४५७ -स्वयाथात्म्याप्रकाशमूलो ह्यध्यासः ; पराधीनप्रकाशस्य जडँस्यैव तत्संभवः । अतः प्राक् मतिज्ञातं प्रपञ्चमिथ्यात्वं ब्रह्मणो भ्रमाधिष्ठानत्वं चायुक्तमित्यस्मिंश्चोद्यद्वये प्रथमं परिहर्तुं मिथ्यात्वलक्षणमाह - मिथ्यात्वं नामेति । निवर्त्यत्वमित्युक्ते मुद्गरादिनिवर्त्यघटादाव- तिव्याप्तिः ; तत्परिहाराय ज्ञानशब्दः । तावतापि शक्तिमदीश्वरादिसंकल्परूपज्ञाननिवर्त्ये वस्तुन्यतिव्याप्तिः । सापि यथावस्थितवस्तुज्ञानमात्रनिवर्त्यत्वस्य विवक्षितत्वात् परिहृता भवति । प्रबलभ्रान्तिज्ञाननिवर्त्य सत्यरजतादिष्वतिव्याप्तिपरिहाराय यथावस्थितशब्दः । यथावस्थितज्ञाननिवर्त्यत्वमित्युक्ते समानाधिकरणधीर्जायेत ; तदा भ्रान्तिज्ञाननिवर्त्य व्यभिचारस्तदवस्थः ; तत्र ज्ञानस्वरूपं हि यथावस्थितम् ; विषयस्यैव ह्ययथार्थत्वम् । अतो ● यथावस्थितं ज्ञानम्’ इति सामानाधिकरण्यशङ्काव्यावृत्त्यर्थं यथावस्थितवस्तुज्ञाननि- वत्यत्वमित्युक्तम् । ज्ञानप्रागभावे व्यभिचार इति तद्व्युदासार्थं प्रतीयमानत्वपूर्वक पदम् । ज्ञानप्रागभावोऽपि कदाचित् प्रतीयमानत्वपूर्वको निवर्त्यत इति चेत् — न ; नियमस्य विवक्षितत्वात् ; यथा " सिद्धे शब्दार्थसंबन्धे " इत्यत्र ’ सिद्धे एव’ इत्यव - धारणस्य विवक्षितत्वान्नित्यत्वसिद्धिः ; यथा " अब्भक्षो वायुभक्षः ’ इत्यादौ ’ अप एव भक्षयति’ इत्यवधारणसिद्धि:, तद्वत् । भूदलनज्ञाननिवर्त्यस्य रज्जुसर्पस्य यथावस्थि- तवस्तुज्ञाननिवर्त्यत्वाभावादव्याप्तिरिति चेत् — न ; तस्यापि यथावस्थितवस्तु ज्ञानेन निवर्तयितुं योग्यत्वात् ; अत एव हि निवर्त्यत्वमित्युक्तम्, न तु निवृत्तत्वमिति । . न च सर्पश्रमजनिते रज्जुधीनिवर्त्ये परमार्थभूते भयेऽतिव्याप्तिरिति वाच्यम्, भयस्य क्षणिकतया स्वयमेव निवृत्तस्य रज्जुज्ञाननिवर्त्यत्वाभावात् रज्जुज्ञानं ह्युत्तरभयोत्पत्ति प्रतिबध्नाति । अतः प्रतीयमानत्वनियमपूर्वकयथावस्थितवस्तुगोचरज्ञानमात्रनिवर्तनीयत्वं मि- थ्यात्वमित्यर्थः । अनेन लक्षणेन सदसद्वैलक्षण्यं फलितम् । तत्र प्रतीयमानत्वपूर्वकेत्य- सद्व्यावृत्तिः ; शेषेण सद्व्यावृत्तिः । अस्य मिथ्यात्वलक्षणस्य संप्रतिपन्नमिथ्याभूतेष्वनुगतत्वं दर्शयति—यथेति । अथोक्तलक्षणस्य पक्षेऽतिदेशे कर्तुमुचितेऽपि स्वप्रकाशे वस्तुन्यध्या- सानुपपत्तिरूपं द्वितीयं चोद्यं परिहर्तुमाह-दोपवशाद्धि तत्र तत्कल्पनमिति । अजडत्वव- जडत्वमपि नाध्यासप्रयोजकम्, जडेऽपि दोषाभावे सत्यध्या सादर्शनात् ; अतो दोष एव हि सर्वत्र कल्पकः; कल्पने दोषाधीने स्वतः परतो वा प्रकाशो भ्रमाधिष्ठानत्वोप- योगी । पुरोवर्तिनि भासमाने हि रजतभ्रम इति दाष्टन्तिके परिहर्तुं दृष्टान्ते कल्पनस्थ 58 . CC-0 No Rights Reserved. Digitized by eGangotri४५८ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) ; दोषाधीनत्वमुक्तम् । इत्थं प्रतीयमानत्वपूर्वकं यथावस्थितवस्तुज्ञाननिवत्त्वं मिथ्यात्वं, मिथ्याभूतार्थकल्पनं च दोषवशादिति दृष्टान्ते शिक्षितमर्थद्वयं दाष्टन्तिकेऽतिदिशन् शङ्काद्वयं चार्थान्निराकरोति—एवमिति । अत्यन्तवैसादृश्यरहित कतिपयाध्यास एकाधिष्ठाने दृष्टः ; यथा – सर्पभूदलनाम्बुधाराद्यध्यासो रज्जुमात्रे । कथमेकस्मिन्नधिष्ठाने युगपन्मिथोऽत्य-: न्तविसदृशानन्तप्रपञ्चाध्यास इत्येका शङ्का । " यः सर्वज्ञः " इत्यादिषु सर्वज्ञतादिगुण- कत्वेन प्रतीते ब्रह्मणि कथं वाध्यास इति द्वितीया । चिन्मात्रवपुषीत्यनेन पूर्वोक्तां स्वयंप्रकाशत्वकृतामध्यासानुपपत्तिं स्फोरयति । परे ब्रह्मणीति शङ्काद्वयं परिहृतं भवति विलक्षणाधिष्ठानत्वात् कृत्स्नाध्यास उपपन्न इति । वैलक्षण्यं च सर्वसाधारणसन्मात्र - : रूपत्वम् । सर्वज्ञत्वादिगुणा अपरे ब्रह्मणि; परे ब्रह्मणि तु चिन्मात्ररूपतया सर्वज्ञत्वादि- गुणानन्वयादध्यास’ उपपन्न इति चाभिप्रायः । इदमिति प्रतीयमानताकार परामर्शिना पदेन यथावस्थितब्रह्मस्वरूपावबोधबाध्यमिति पदेन च पूर्वोक्तमिथ्यात्वलक्षणमनूदितं भवति । दोषकल्पितमित्यनेन दोषवशादित्यादिनोक्तमतिदिष्टम् । विविधकृत्स्नाध्यासं दर्शयति– देवेति । मिथ्यारूपम् ; मिथ्यात्व लक्षणोपेतत्वात् रज्जुसर्पवन्मिथ्येत्युक्तं भवति । दोषः कः ? स किं परमार्थः ? उतापरमार्थः ? परमार्थत्वे ज्ञाननिवर्त्यत्वं न स्यात् ; अपरमार्थत्वे प्रपञ्चवत् कल्पकान्तरापेक्षायाम नवस्था स्यात् ; स किं ब्रह्मण्य- तिरोहिते कल्पयति ? उत तिरोहिते ? अतिरोहिते चेदनुपपन्नम्, रज्जुत्वे प्रकाश- मान इवाध्यासोदयविरोधात् ; अविरोधे पश्चादप्यनिवृत्तिः । तिरोहिते चेत्, तिरो-. धानं किं स्वतः ? किं वा परतः ? यदि स्वतः, अनिवर्त्यत्वम् ; निवृत्तौ स्व- रूपोच्छेदो वा । यदि परतः, तत् परं वाच्यम् । किंच नानाध्यासानां नानादोष- मूलत्वं दृष्टम् । अतोऽनेकदोषा अभ्युपगन्तव्या इतीमाः शङ्काः परिहर्तुमाह-दोष - श्चेति । चः शङ्कानिवर्तकः । को दोष इत्यस्य प्रतिवचनम् – अविद्येति । तस्याः पारमा- र्थ्यापारमार्थ्यविकल्पे सदसदनिर्वचनीयेत्यपारमार्थ्याभ्युपगमः । अनवस्थापरिहारः- अनादीति । तिरोहितातिरोहितविकल्पस्य प्रतिवचनं स्वरूपतिरोधानशब्देन । तच्च किं स्वतः ? परतः ? इत्यत्र परत इत्यङ्गीकृतम्, तिरोधानस्य हेतुनिर्देशात् । नानाध्यासस्यैक- दोषमूलत्वमुक्तं विविधेत्यादिना । विक्षेपोऽध्यासः । आच्छादिकाविद्या, विक्षेपिकाविद्येत्य- विद्याया एकस्या एवावस्थाद्वयं तदभिमतं तिरोधानविक्षेप हेतुत्ववचनात् सूचितम् ।

(१–१– १) भावप्रकाशिका ४५९ 99 “अपिनोपपादयिष्यमाणस्येतिः अपिर्हि " पदार्थसंभावनान्ववसर्गगह सिमुच्चयेषु इतिसमुच्चयार्थकत्वेनान्वाचयार्थकत्वाभावात् प्राधान्यार्थक एवेति भावः । यद्वा ‘निपातानामनेकार्थत्वात् प्राधान्यद्योतकत्वमिति भावः । वक्ष्यमाणाज्ञात्रादय इति ; विशेषपदविवरणरूपास्त इति भावः । विजातीयादिनिवृत्तिपरस्य “ सदेव " इत्यादि- वाक्यस्य प्रतिज्ञातार्थप्रमाणत योदाहरिष्यमाणत्वात् विशेषपदस्य विजातीयादिपरत्वमेवोचित- मित्यभिप्रायेणाह – विजातीयसजातीयस्वगता वेति । अन्वायनो व्यावृत्तिरूपा- श्चेति ; भावरूपा अभावरूपाश्चेत्यर्थः । विशेषसहिष्णोर्ब्रह्मणः कथं तत्प्रत्यनीकत्वमित्या- शङ्क्याह – स्वज्ञानेननिवर्तकमिति । तुच्छत्वेति ; सर्वप्रमाणानां सविशेष- विषयत्वादिति भावः । ज्ञेयत्वस्याप्यशेषशब्देन क्रोडीकृतत्वान्मात्रचा तद्व्यवच्छेदो व्यर्थ इत्यन्यथा व्याचष्टे - यद्वा प्रत्यनीकेति ; ’ प्रत्यनीकम् ’ इति निर्देशात् प्रत्यनीकत्वरूपो धर्मोऽनुवर्तत इत्याशङ्काया निवर्तनीयत्वादिति भावः । इदमप्यशेषपद सामर्थ्यात् सिध्य- तीत्यन्यथा व्याचष्टे - - यद्वा मात्रचा वस्तुतः समस्तेति । न चाशेषविशेषप्रत्यनीक- मित्यनेन सिद्धत्वात् पौनरुक्त्यं शक्यम्, अशेषविशेषप्रत्यनीकमित्यस्याशेषविशेषनिवर्तकज्ञान- विषयत्वमर्थः ; इह तु सर्वदा तच्छून्यत्वमुच्यत इति भेदात् । एवकारेण सगुणब्रह्म - व्यावृत्तिरिति ; इदमुपलक्षणम् – निर्गुणस्यैव ब्रह्मणः पारमार्थिकत्वकथनात् तद्यतिरिक्त- सगुणब्रह्मादेः प्रपञ्चस्य पारमार्थिकत्वं व्यावर्त्यत इत्यर्थः । उत्तरत्रैवकारस्य तदतिरेकीत्यादि- ग्रन्थेन तथा विवरणादिति द्रष्टव्यम् । निषेध्यनानात्वं सिध्यतीति दर्शितमिति ; नानाशब्दस्य ब्रह्मव्यतिरिक्तनिषेध्येऽपि संभवद्वृत्तिकत्वेन ब्रह्मणोऽपि परामर्शस्यानपेक्षितत्वा- दिति भावः । ज्ञातृज्ञेयतत्कृतज्ञानभेदेति ; अत्र ज्ञाता च ज्ञेयं च तत्कृतज्ञानं च ज्ञातृज्ञेयतत्कृतज्ञानानि तेषां भेदाः; भेदशब्दः प्रत्येकमभिसंबध्यते; अत एवैकैककोटि- “ववान्तरभेदा इति वक्ष्यति । न चैवं भेदशब्दस्य सर्वान्वितत्वे ’ तत्कृतज्ञानभेदः ज्ञातृ- ज्ञेयावच्छिन्नवृत्तिज्ञानभेदः’ इति भेदशब्दस्य ज्ञानमात्रान्वितत्वप्रदर्शकोत्तरग्रन्थविरोध इति वाच्यम्, तेनाप्यन्वयसंभवेन तथा निर्देशोपपत्तेरिति द्रष्टव्यम् । अनेन वृत्तिस्फुरि- तेति ; अनेन ; तत्कृतेति विशेषणेनेत्यर्थः । तदभावे ज्ञानशब्देन वृत्तिस्फुरितचैतन्यस्यैव ग्रहणं स्यात्, मृषावादिमते ज्ञानशब्दस्य वृत्तिस्फुरितचैतन्य एव प्रसिद्धेः । ततश्च ज्ञातृ-

४६० श्रीभाष्यम् (जिज्ञासाधिकरणम्) 66 99 ‘ज्ञेयस्वरूपभेदवत् ज्ञानस्वरूपभेदस्यापि स्वरूपप्रयुक्तत्वप्रतीतिः स्यादिति तद्व्यावृत्त्यर्थं तत्कृ- ‘तेत्युक्तमिति भावः । विरोधं च स्फोरयत्येवकार इति ; न च पूर्वपक्षिग्रन्थे, स्वमत– विरोधस्फोरकत्वमयुक्तं, स्वव्याघातकत्वादिति वाच्यम्; पूर्वपक्षानुवाददशायां स्वरूपव्या- क्रियैव निराक्रियेतेति न्यायेन विरोधमपि स्फोरयन् सान्तर्हासमनुवदतीत्यभिप्रायात् । केचित्तु प्रमाणसिद्धत्वात् विरोधं दोषत्वेन स्फोरयतीति व्याचक्षते । भूतं प्राण्यतीते समे त्रिषु” इति पाठात् ‘पितृभूतोऽसौ’ इत्यादिवत् भूतशब्दस्योपमानार्थकत्वशङ्कां व्युदस्यति — मिथ्याभूतं मिथ्याभाववदिति ; उक्त हि " प्रमाणभूत आचार्यः " इति भाष्यं व्याकुर्वता कैयटेन– “ प्रमाणभूत इति ; प्रामाण्यं प्राप्त इत्यर्थः ; भू प्राप्तावित्य- स्मात् " आ धृषाद्वा” इति णिजभावे रूपम् । वृत्तिविषये च प्रमाणशब्दः प्रामाण्ये वर्तते " इति । तद्वदिहापि मिथ्याशब्दो मिथ्यात्वपरः । ततश्च मिथ्यात्ववदित्यर्थ- सिद्धिरिति भावः । सदेवेति विजातीयमेदो व्यावर्त्यते ; एकमेवेति सजातीयभेदः ; अद्वितीयमिति स्वगतभेद इति ; यद्यपि " एकमेवाद्वितीयम् ” इति वाक्य एकशब्देन स्वगतभेदनिरासः, एवकारेण सजातीयभेदव्युदासः, अद्वितीयपदेन विजातीय भेदव्युदास इत्येवं परैर्व्याख्यातम् ; उक्तं च– 66 वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयो विजातीयः शिलादिभिः ॥ सदसद्वस्तुनोर्भेदत्रयं प्राप्तं निषिध्यते । ऐक्यावधारणद्वैतप्रतिपेधैस्त्रिभिः क्रमात् ॥ " इति ; तथाप्यस्यापि प्रकारस्य तत्र तत्र व्याख्यातत्वादित्थमुपन्यस्तम् । अत एव शंकर – भाष्ये कल्पतरौ च - ’ सदेवेति सृष्टेः प्राक् नामरूपादिव्यावर्त्यते; एकमेवेत्यनेन महदादिकं स्वकार्यपतितं नास्तीति निषिध्यते, अद्वितीयमिति निमित्तान्तरं निषिध्य- ते’ इत्युक्तम् । ननु " वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः " इति स्वगत- भेदस्य पत्रपुष्पादिप्रतियोगिकत्वप्रतीत्या पत्रपुष्पादिलक्षणो भेद इति न प्रतीयते ; अपितु तत्प्रतियोगिकभेद एव प्रतीयते ; अत्र ग्रन्थे तु सजातीयरूपो विजातीयरूपो भेद इत्यु- च्यते ; कथमनयोरैकार्थ्यमिति न चोदनीयम्; तथापि परव्यवहारदर्शनाददोष इति द्रष्टव्यम् । तस्यैव प्रपञ्चनादिति, " यथोर्णनाभिः " इत्यादिना भूतयोनित्वस्यैक

(१ -१-१) भावप्रकाशिका ४६१ 99 प्रपञ्चनादित्यर्थः । यस्येति, यस्य ब्रह्म अमतमविषय इति निश्चयः, तस्य तद्ब्रह्म मृतं सम्यक् ज्ञातम् ; यस्य तु विषयतया ब्रह्म मतं, न स ब्रह्म वेद; अविज्ञातं विजानतां विषयत्वेनाविज्ञातं यथावदविजानतां विषयत्वेन विज्ञातमित्यर्थः । ज्ञातृत्व- निषेधपरमिति ; यद्यपि " न दृष्टेः इत्यस्य दृष्टेश्चक्षुर्जन्याया अन्तःकरणवृत्तेः द्रष्टारं स्वरूपभेद चैतन्येन व्याप्तारं तस्या अपि भासकं तद्भास्यया चक्षुर्जन्यया अन्तःकरणवृत्त्या न पश्येः प्रत्यगात्मा गोचरो न भवतीति ज्ञेयत्वं प्रतिषिध्यत इत्येव परैरर्थो वर्णितः, तथापि ज्ञेयत्वप्रतिषेवे ज्ञातृत्वनिषेधस्यापि सिद्धिमभिप्रेत्योक्तं ज्ञातृत्वनिषेधपरं वाक्यमा - हेति । केचित्तु – मृषावाद्येकदेशिभिस्तथा व्याख्यातं, तदनुसारेणैतदुक्तम् ; योजनान्तरं तु सिद्धान्ते किं दृष्टेरिति पञ्चमी षष्ठी वेति विकल्पमुखेन स्पष्टीकरिष्यतीति न तदनुपपादनं दोष इति मन्यन्ते । सामानाधिकरण्येनेति छेदः । सामानाधिकरण्यं हि बाधार्थं ‘दृष्टमिति ; सामानाधिकरण्यं हि चतुर्धा - अप्यासे सामानाधिकरण्यम्; अपवादे सामानाधिकरण्यम् ; विशेषणविशेष्यभावे सामानाधिकरण्यम् ; ऐक्ये सामानाधिकरण्यं चेति । अध्यासे सामानाधिकरण्यं नाम “ब्रह्मेत्युपासीत” इत्यादौ । अपवादे सामानाधि करण्यं नाम यद्रजतमभात् सा शुक्तिः’ इति, पूर्वोत्पन्नरजतप्रतीत्यपवादार्थत्वात् सामा- नाधिकरण्यस्य । इदमेव हि बाधार्थसामानाधिकरण्यमित्युच्यते । विशेषणविशेष्यभावेन सामानाधिकरण्यं नीलमुत्पलमित्यादौ । ऐक्यसामानाधिकरण्यं कोकिलः पिक इत्यादौ । विकारो घटादिसंस्थानं नामधेयं चेति ; अत्र च एवार्थः ; स्वार्थे च धेयप्रत्ययः ; नामधेयं च नाममात्रमेव हीत्यर्थः । एवं हि शारीरकशांकरभाष्यम्- -” वाचारम्भणं विकारो नामधेयम् ; वाचा केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति । न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतम् ; मृत्तिकेत्येव सत्यम् ” इति । अतोऽयमपि ग्रन्थस्तदनुवादत्वात् तदनुगुण एव नेतव्यः । ननु " अथ तस्य भयं भवति" इति वाक्यस्य " मृत्योः स मृत्युमाप्नोति ” इति वाक्यानन्तरमु- यादानं युक्तम्, अनर्थप्रतिपादकत्वसाधारण्यादित्यत्राह - यदा ह्येवेत्यादेरिति । एकन्यायपरिहार्यत्वादिति ; अब्रह्मात्मकनानात्वनिषेधपरत्वेन परिहार्यत्वादित्यर्थः । उभयलिङ्गत्वं साकारत्वं निराकारत्वं चेति पाठः । " न स्थानतोऽपि " इत्यधिकरणे श्रुतिबलात् सविशेषत्वनिर्विशेषत्वरूपलिङ्गद्वयसमुच्चय इति पूर्वपक्षस्य निरस्तत्वादिति


66 ४६२ श्रीभाष्यम् دو (जिज्ञासाधिकरणम्) 66 द्रष्टव्यम् । केचित्तु —— उभयलिङ्गत्वं साकारनिराकारत्वं साकारत्वं चेत्यन्वयः । तस्मिन्नधि- करणे उभयलिङ्गत्वरूपस्य साकारनिराकारत्वान्यतरलिङ्गत्वसमाश्रयणेऽपि केवलकारत्व- पक्षस्य साकारनिराकारत्वपक्षस्य च प्रतिक्षिप्तत्वात्तथोक्तम् ; न तूभयलिङ्गशब्दार्थ- तयेति वदन्ति । दुर्निरूपस्वरूपत्वात् ; बाधितत्वादित्यर्थ इति ; बाधित देशकाल- निमित्तकत्वादित्यर्थः । न तावत्स्वल्पापवरकनिद्राणपुरुष दृश्यमानैककोणविश्रान्तगिरिनदी- समुद्रादीनां मुहूर्तमात्रशयित पुरुषानुभूयमानविवाहपुत्रोत्पादनतदुपलालनादीनामुचितो देशः कालो वा संभवति । न वा तदुत्पत्तौ ज्ञप्तौ वोचितं निमित्तमस्ति । अतो देशकाल - निमित्तानां दुर्निरूपत्वेन बाधितत्वान्मिथ्यात्वमित्यर्थः । स्वामार्थमिथ्यात्वप्रदर्शकसूत्रोप- न्यासस्य प्रपञ्चमिथ्यात्वप्रसाधनदशायामसंगतिमाशङ्क्याह – स्वाप्नार्थमिथ्यात्वमिति । " प्रत्यस्तमितभेदम् " इत्ययं श्लोकः षष्ठांशे सप्तमेऽध्याये योगप्रकरणे केशिध्वजवचनम् । " ज्ञानस्वरूपम् ” इति श्लोकस्तु प्रथमांशद्वितीयाध्याये नमस्कारश्लोकः । " परमार्थस्त्वमे- चैकः " इतीयं चतुःश्लोकी प्रथमांशे चतुर्थेऽध्याये रोमान्तरस्थानां मुनीनामादिवराहस्तुतौ । तस्यात्मपर देहेषु ” इति श्लोको " वेणुरन्ध्रविभेदेन ” इति श्लोकश्च द्वितीयांशे च- तुर्दशाध्याये आदिभरतश्लोकौ । यद्यन्योऽस्ति ” इति श्लोकस्तत्रैवांशे त्रयोदशाध्याय आदिभरतश्लोकः । " सोऽहं स च त्वम् इति श्लोकस्तत्रैवांशे षोडशाध्याये आदि- भरतोपदेशान्ते श्लोकः । " विभेदजनके " इति श्लोकः षष्ठांशे सप्तमाध्याये केशिध्वजस्य योगप्रकरणान्ते वचनम् । 66 ज्ञानस्वरूपः इत्यादिश्लोको द्वितीयांशे द्वादशाध्याये पठितः । शक्तिमदीश्वरसंकल्परूपज्ञाननिवर्त्य इति ; शक्तिमान्य ईश्वरः, तत्संकल्परूप- ज्ञाननिवर्त्य इत्यर्थः । शक्तिसहकृतज्ञाननिवर्त्य इति यावत् । ज्ञानमात्रनिवर्त्य - त्वस्य विवक्षितत्वादिति अत एव छत्रपादुकादिवै धुर्यरूप नियम सहकृत सेतुदर्शन- निवर्त्यपापादौ नातिव्याप्तिः । प्रबलभ्रान्तिज्ञाननिवत्यैति निवृत्तिर्हि अभावः ; स च कल्पिताकल्पितसाधारण:; ततश्च भ्रान्तिज्ञानेन प्रबलेन शुक्तिर्नास्ति इति कल्पना भवत्येवेति कल्पितोऽभावस्तज्जन्य इति तन्निवर्त्यत्वं सत्यरजतस्यो - पपद्यते । यद्वा ’ नास्ति’ इति प्रतीयमानत्वमेव निवृत्तिः; सा च सत्यरजत- स्यापि संभवतीति भावः । न तु निवृत्तत्वमितीति ; यद्यपि निवृत्तत्वमित्युक्ते निवर्ति- व्यमाणमिथ्या पदार्थाव्याप्तिः, तथापि ज्ञानजन्यनिवृत्तिप्रतियोगित्वमिति नोक्तमित्यत्र ता- ; 66 " "" 99 ; CC-0 No Rights Reserved. Digitized by eGangotri0 ( १ – १ – १ ) श्रतप्रदीपिका ४६३ त्पर्यात् । प्रतीयमानत्वयथावस्थितज्ञानांनेवर्त्यत्वखण्डद्वयेन ख्यातिबाधपर्यवसितेन तत्साध्य - मुसद्विलक्षणत्वे सति सद्विलक्षणत्वं लक्ष्यते; अतस्तदेव हि लक्षणं विवक्षितमिति स्वसिद्धा- न्तमाविष्करोति – अनेन लक्षणेन सदसद्वैलक्षण्यं फलितमित्यादिना । सर्वज्ञत्वादिगुण- कत्वेन प्रतीते ब्रह्मणि कथं वाध्यास इति ; ननु सर्वज्ञस्याध्या सद्रष्टृत्वेन परं विरोधः, न त्वध्यासाधिष्ठानत्वेन ; न च सर्वज्ञत्वादिगुणकत्वेन प्रतिपन्नत्वं किंचिज्ज्ञत्वाध्यासाधिष्ठान- ’ त्वविरुद्धमिति वाच्यम्, अध्यासदशायां तथा प्रतीत्यभावात् ; ततश्च कथमयमाक्षेपः ? कथं वा,सर्वज्ञत्वगुणानन्वयेन परिहार इति चेत्–न; सर्वज्ञत्वादिगुणकत्वस्य कल्पितत्वेन कथमध्यासाधिष्ठानत्वमिति चोद्याभिप्रायसंभवात् । । श्रुतप्रदीपिका एवं पूर्वपक्षोक्तहेतुषु वस्तुसामर्थ्यव्यतिरिक्तहेतव उपायपरवाक्यालोचनया परिहृताः । वस्तुसामर्थ्यं तुपेयपरवाक्यपर्यालोचनया विस्तरेणोपन्यस्य परिहरणीयमिति कृत्वा तत्पूर्वं न परिहृतम् । अतस्तद्विस्तरेणोपन्यस्यते – यदप्याहुरित्यादिना सर्वे वेदान्ता आर- “म्यन्त इत्यन्तेन । यदप्याहुरित्यपिशब्द बहुवचनाभ्यामस्यार्थस्य प्राधान्यं बहुग्रन्थकारा- भिमतिश्च सूचिते । चिन्मात्रसत्यत्वं तदन्यमिथ्यात्वं च प्रतिजानीते - अशेषेत्यादि - ग्रन्थद्वयेन । अशेषविशेषो ज्ञातृत्वादिर्व्यावृत्तिरूपश्च । प्रत्यनीकत्वं वस्तुतस्तदन्वयान- र्हत्वं ज्ञातत्वेन तन्निवर्तकत्वं च । चिच्छब्देन तुच्छत्वं व्युदस्यते । मात्रचा ज्ञातृत्व - ज्ञेयत्वे । एवेति ; सगुणं तु काल्पनिकमिति भावः । चिन्मात्रसत्यत्वं प्रतिज्ञातम् ; अथैवकाराभिप्रेतं तन्मूलबन्धस्य धीनिवर्त्यत्वसिद्धये तदन्यमिथ्यात्वमाह – तदिति । तद्यतिरेकेण " नेह नाना इत्यादिनिषेधास्तदन्यविषया इति भावः । नानाशब्दविषयं दर्शयति — ज्ञात्रिति । तत्कृतेति स्वरूपप्रयुक्तताव्यावृत्तिः । भेदस्त्ववान्तरवैविध्यम् । आदिशब्दो जन्मजरामरणादिपरः । सर्वमिति ; अतदधिष्ठानं परमार्थश्च न कश्चि- दित्यर्थः । एवेत्यधिष्ठानानेकत्वव्युदासः, स्वप्रकाशत्वरूप विरोधशङ्कास्फोरणं च । प्रति- ज्ञातयोर्मानमाह-सदेवेत्यादि । षड्विधतात्पथैलिङ्गकं कारणवाक्यं विजातीयस्वगत- भेदाभावपरम् । सदेवेत्येवकारार्थस्पष्टघाय कारणवाक्यान्तरमुदाहरति - अथ परेति । अदेश्यमग्राह्यम् ; प्रत्यक्षानुमित्यगोचरं चक्षुस्तदन्याक्षागोचरं वा । गोत्रं नाम । सर्वगतम् ; सर्वजगतामधिष्ठांनतया श्रुतम् । अथ शोधकवाक्यम् – सत्यमिति । कारण- 99

0 ४६४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) वाक्यशोधकवाक्यान्तरैकार्थ्यं सामानाधिकरण्यैर्निर्विशेषपराभिप्रेतं सत्यादिवाक्यस्य व्या- वृत्तिपरत्वस्पाष्टघायाह – निष्कलमिति । कला अवयवाः । शान्तमित्यादि ; षडू… कर्मसंबन्धतत्फलरहितमित्यर्थः । यस्येति ; ज्ञेयत्वनिषेधः । न दृष्टेरिति ; ज्ञातृत्वनिषेधः । असुखन्यावृत्तिः — आनन्द इति । अथ चिदन्यमिध्यात्वमाह - इदं सर्वात्मेति । रज्जुरेव सर्पः’ इतिवत् बाधार्थं सामानाधिकरण्यमभिप्रेतम् । ’ तस्मिन्नेव ’ इति प्रतिज्ञातं ब्रह्मणः सर्वाध्यासाधिष्ठानत्वं च सूचितम् । बाधं स्पष्टयति — नेहेति । भेद- हगज्ञ इत्याह- मृत्योरिति । अत्र मृत्युरविद्या । तर्हि कदाचिन्निवृत्तिः स्यादित्यत्राह- यत्र हीति । यत्र यदा; तत् तदा ; ’ इतरेण, कः’ इति च पदद्वयमध्याहर्तव्यम् । दृष्टान्तेनोपपादयति-वाचेति । उक्तमृत्युकार्यभेदधीफलं दर्शयति यदेति । अय चि- न्मात्रसत्यत्वं तदन्यमिथ्यात्वपरं सूत्रद्वयं दर्शयति–न स्थानत इत्यादि । अथ पुरा- गोक्तिमर्थद्वयेऽपि दर्शयति — प्रत्यस्तमितेति । सजातीयविजातीयस्वगतभेदरहितं सत्ता - मात्रं व्यावृत्तिरूपभेदरहितम् । तुच्छतां व्युदस्यति - आत्मसंवेद्यमिति; स्वप्रकाश- मित्यर्थः । तत्र हेतुः – ज्ञानमिति । अत्यन्तर्निर्मलम् ; नित्यास्पृष्टदुःखित्वज्ञातृत्वादि- भेदम् । अर्थो देवादिः । नान्योऽस्तीति जगदपारमार्थ्यमुक्तम् । तद्विवरणम् - यदेत - दिति । श्लोकद्वयोक्तभ्रमनिवृत्तिस्तत्त्वज्ञानेनेत्याह—ये त्विति । जीवैक्य प्रकरणमाह- तस्येति । एकमयम् ; एकम् | आत्मपरशब्दनिमित्तभेदशङ्कां व्युदस्यति – यदीति निदर्शयति — वेण्विति । उपदिशति – सोऽहमिति । यथोपदेशमनुष्ठानम् – तत्याजेति । जीवब्रह्मनिवृत्तिः विभेदेति । अर्थद्वयेऽपि श्रीगीतोक्तिः - अहमात्मेति । भूतशब्दस्य शरोरमा- स्पष्ट्यायाह — क्षेत्रेति । अन्यमिथ्यात्वम् - न तदस्तीति । अनन्यपरत्वमुक्तम् — वस्तु- स्वरूपेति । नात्यन्तासत्त्वं मिथ्यात्वम् ; ख्यातेर्निरसनीयाभावेन शास्त्र वैयर्थ्यप्रसङ्गात् । न चान्यत्र सतोऽन्यत्र ख्यातत्वम्, क्वापि सत्यत्वप्रसङ्गादित्यत्राह – मिथ्यात्वमिति । प्रतीयमानत्वेत्यसद्व्यावृत्तिः । यथावस्थितेति सद्व्यावृत्तिः । प्रतीयमानत्वपूर्वकेति तन्नियम- पूर्वकत्वं विवक्षितम् ; ’ अब्भक्षः’ इतिवत् । ज्ञाननिवर्त्यत्वमिति ; ज्ञानमात्रनिवर्त्यत्वम् । वस्तुशब्दः कर्मधारयशङ्काव्युदासाय । एवं सति मुद्गरादिनिवर्त्य शक्त्युपबृंहितज्ञाननिवर्त्य - भ्रान्तिज्ञाननिवर्त्यसम्यग्रजतनिवर्तकधीप्रागभावव्युदासः । न च भूरन्ध्रधीनिवर्त्य रज्जुस ऽव्याप्तिः, तस्यापि यथावस्थितरज्जुधिया निवर्तनार्हत्वात् । निदर्शयति-यथेति । ननु 1

• ( १ – १ – १ ) (९-१-१ तत्त्वटीका ४६५

  • रज्ज्वादौ रज्जुत्वेन स्वरूपानवभासादध्यासः; स्वप्रकाशवस्तुनि तु स कथमित्यत्राह - 1. दोषेति । दोष एवाध्यासप्रयोजकः ; स्वतः परतो वा भानं त्वध्यासोपयोगि । अधिष्ठाने भाते ध्यास इति भावः । मिथ्यात्वलक्षणं तस्य दोषकल्पितत्वं • च दृष्टान्ते दर्शितं दाष्टन्तिकेऽतिदिशन् शङ्काद्वयं च शमयति - एवमिति । कथमेकत्र बह्वध्यास इति शङ्कां व्युदस्यति — पर इति । अधिष्ठानवैलक्षण्यात् रज्जौ सर्पभूरन्ध्रादिभ्रान्तिवदितिं भावः । सर्वज्ञे कथं भ्रान्तिरिति च शङ्कां व्युदस्यति – पर इति । सर्वज्ञत्वादयः सगुण- ब्रह्मणः, न तु परस्येत्यर्थः । दोषेत्यादिपदैः प्रागुक्तार्थद्वयातिदेशः । इदं प्रतीयमानम् । नानाविधत्वविवरणं देवेत्यादिपदम् । दोषः कः ? स सत्यश्चन्न धीनिवर्त्यः ? न चेत् दोषा- ● न्तरापेक्षयानवस्था ? स चेत् ब्रह्मण्यतिरोहिते कल्प्यते भ्रमानुदयानुच्छेदयोरन्यतरः स्यात् ; तिरोहिते चेत्, यदि तिरोधिः स्वतः, अनिवृतिः; निवृत्तौ स्वरूपनिवृत्तिः स्यात् । पर- तश्चदनवस्था । नानाध्यासा नानादोषमूलाश्च दृष्टा इति बहुशङ्कापरिहारायाह - दोष- चेति । अविद्येति सदसदनिर्वचनीयेत्यनादीति स्वरूपतिरोधानविविधविचित्रविक्षेप करीति- शब्देषु क्रमादिमाः शङ्काः प्रत्युक्ताः । तत्त्वटीका एवं “ विरोधादप्रमाणत्वात् ” इत्याद्युक्तानां कर्मनैरपेक्ष्य हेतूनां साङ्गोपायवि- धिनिरूपणेन बाधासिद्धिसाधारण्यान्यथासिद्ध्यादिदोषाः प्रदर्शिताः । अथ साधनचतु- ष्टयस्य पूर्ववृत्तत्वे कर्मणो विरुद्धत्वे वाक्यार्थधियो मोक्षोपायत्वे च हेतुतया समाहारेण प्राक् प्रदर्शितं सामर्थ्यं प्राप्यनिवर्त्यगोचरश्रुतिसमीक्षया निराकर्तुं विस्तरेणानुभाषते - यदप्याहुरित्यादिना आरभ्यन्ते इत्यन्तेन ।

साधितं त्विह निर्बाधं बाधितं निष्प्रतिक्रियम् । तथापि पुनरारम्भः शत्रुशेषविमर्दवत् ॥ ३३० ॥ परपक्षप्रसिद्धत्वं गौरवं व्यक्तभाषणम् । बहूनामपि संवादो यदप्याहुरितीर्यते ॥ ३३९ ॥ * (अशेपेत्यादिना) ब्रह्मपारमार्थ्यं (प्रतिश्रुतम् ) । तदन्यमिथ्याभावस्तु तदित्यादिभिरुच्यते ॥ ३३२ ॥ टि-अत्र मातृकासु सर्वत्र ’ ब्राह्मपारमार्थ्य’ इत्येतावानेव भाग उपल- श्यते । ’ अशेषेत्यादिना ब्रह्मपारमार्थ्यं प्रतिश्रुतम् ।’ इति अविकलेन पाठेन भाव्यमिति भाति । 59

४६६ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) यच्छन्दः परगोष्ठी प्रसिद्ध्यर्थः । अपिपितादूषितसमुच्चयार्थः परेष्टगौरव द्योतको वा । आहुरित्यनेन कण्ठोक्तिः । बहुवचनं बहुव्याख्यातृसंमतिं तदुक्तकृत्स्वानुवाद च सूचयति । अशेपेत्यादिचिन्मात्रेत्यन्तं प्रागुक्तार्थम् । वाक्ययोः सत्यमिय्यार्थप्रतिज्ञारूपयोरिह | यथार्हं हेतुसाध्यत्वं पदार्थेषु विभाव्यते || ३३३ || चिद्रूपतया सजातीयाद्यशेषभेद शून्यं परमार्थस्वप्रकाशं च । तत एव हि तुच्छ- व्यावृत्तिः । अवधारणेनान्यपरविधिवाक्यसिद्धस्य संगुणत्वस्य कल्पितत्वं मिथ्यात्वसाध- कदृश्यत्वस्य व्यतिरेकव्याप्तिश्च व्यज्यते । प्रपञ्चोपलम्भात् विरोधशान्त्यै धीमात्रनिवर्त्य - त्वाय चावधारणार्थं व्यनक्ति —तदतिरेकीति | स्वतः सिद्धे तस्मिंस्तु प्रकृतैतावत्त्व- सूत्रोक्तन्यायेन " अथात आदेशो नेति नेति असदेवेदमग्र आसीत् " इत्यादिभिर्न बाधः स्यादिति तच्छब्दाभिप्रायः । ब्रह्मान्यत्त्वाद्भिन्नत्वाज्ज्ञातृत्वाज्ज्ञेयत्वादित्यादयस्त- दन्यमिथ्यात्व हेतवः । उक्तेषु वीतावीतेषु शुक्तिरूप्यादिर्घटादिश्च दृष्टान्तः । नानाविध- शब्देन " नेह नाना " इत्यादीनां विषयो दर्शितः । स्वरूप ज्ञानव्यावृत्त्यै वृत्तिज्ञान– संगृहीत्यै चन्द्रनीतिव्यक्त्यै ज्ञातृत्वज्ञेयत्वज्ञान क्रियात्वतद्विशेषाणां करणभेदकृतस्मृतित्वानु- भवत्वादीनां ब्रह्मण्यध्यस्तत्वसिद्धयै च तत्कृतशब्दः । कर्मकर्त्रवच्छिन्नं हि ज्ञानमहंकार- विकारः क्रियास्वरूपः ; न त्वात्मस्वरूपम्, न च तद्धर्मः । अन्तःकरणतद्वृत्तिस्फुरित- चैतन्यभेदस्तु जलचन्द्रभेदकल्प इति भावः । यो विशेषः पूर्ववाक्योक्तस्तत्र भेदशब्दो योज्यः । तत्रैषु नानाविधत्वमवान्तरविशेषैः । आदिशब्देन गोबलीवर्दनीत्या सुखदुःख- तद्धेतुजन्मजरादेः कर्मकर्त्रादिविकल्पान्तराणां च संग्रहः । एकस्मिन्नेवैकदैव मिथोविरुद्धा- नन्ताध्यासो गगनगन्धर्वनगरनीत्या युक्त इत्यभिप्रायेण “ सर्वमात्मैवाभूत् ” इति श्रुत्यनु- सारात् सर्वं तस्मिन्नेवेत्युक्तम् । एतेन माध्यमिकयोगाचारोक्तमताभ्यां विशेषः ख्यापितः । एवकारेण निरधिष्ठानभ्रमायोगात्तुच्छव्यावृत्तस्य तस्यैवाधिष्ठानत्वं युक्तमिति व्यज्यते । निर- धिष्ठानश्च भ्रमो न युक्तः । शुक्तिरजतादेरभ्यस्तद्रव्यधर्माणां चान्ततस्तदेवाधिष्ठानमिति चात्र भावः । निष्कले ब्रह्मण्यविद्यादर्शितानन्तांशे कल्पनाव्याप्तिसूचनाय परिशब्दः । कल्पि - तम् ; अविद्यमानत्वेऽपि ‘ अस्ति ’ इति प्रतीतम् ; असत्यमित्यर्थः । स्वात्यन्ताभाववन्निष्ट तया प्रतिभातमिति यावत् । तत एव मिथ्याभूतम् सर्वदैव सदसत्त्वेन 66

  • १) तत्त्वटीका " ४६७ वृत्तमिति यावत् । कल्पितत्वे वक्ष्यमाणमिथ्यात्वं हेतुतयोच्यते इति केचित् । एवं युक्तिसूचके प्रतिज्ञाद्वये श्रुतिसूत्रस्मृतीः प्रमाणयति – सदेवेत्यादिना अभि- धानादित्यन्तेन । ’ शाखाग्रे चन्द्रः ’ इतिवत्कारणत्वेन ब्रह्मण उपलक्ष्यत्वमभिप्रेत्यादौ शङ्कितदोषनिवर्तकेभ्यः शोधकेभ्यः पूर्वं कारणवाक्योपादानम् । तत्रापि षड़िधतात्पर्य- लिङ्गवत्तया बलीयस्त्वात्प्रथमं सद्विद्योक्तिः । अत्र सत उत्पत्तिर्यस्य स्थाप्यते, तस्य सत्त्वे - ’ नानूदितस्याप्यसत्यत्वसूचकाभ्याम् " अग्रे " इत्युक्तेऽपि सर्वदा निषेधतत्पराभ्यामवधरि- णाभ्यामद्वितीयपदेन चाभिप्रेतेऽर्थे कण्ठोत्त्या शङ्कनीयविशेषनिषेधोपक्रमं कारणवाक्यान्तर- मुपादत्ते - अथेति । अद्रेश्यम् अदृश्यम् ऐन्द्रियकप्रत्यक्षानर्हमित्यर्थः । अग्राह्यम् ; अनुमयापि दुर्ग्रहम् ; चक्षुः श्रोत्रादेरगोचर इति वा पदद्वयार्थः । ’ ज्ञानकर्मेन्द्रियानर्हत्वमिह विवक्षितम् ’ इति केचित् । अगोत्रम् ; अव्यवधानेन देवादिनामभिरस्पृष्टम् ; सद्ब्रह्मादि- शब्दैरपि हि लक्षणयैव प्रदर्श्यते । अवर्णम् ; सितरक्तादिशून्यम् ; कुलं च ब्राह्मण्यादि च दूरापास्तम् | अचक्षुः श्रोत्रं तदपाणिपादमिति ; इन्द्रियायत्तज्ञानक्रियारहितमिति भावः । नित्यं विभुम् ; कालतो देशतश्चानवच्छिन्नम् । एतेन प्रतिज्ञास्थब्रह्मत्वप्रदर्शनम् । सर्वगतम् ; स्वव्यतिरिक्तैः सर्वैरध्यस्तैरधिष्ठानतया श्रितम् ; वस्त्वन्तराभावाद्वस्तुपरिच्छेदर- हितमित्याशयः । सुसूक्ष्मम् ; आकाशादिन्यायेन स्पर्शवत्सु प्रतिघातरहितम्, दृश्यत्वा- द्यनुगुणस्थौल्यादिरहितमिति वा ; तेन योग्यानुपलब्धिबाधशङ्कानिरासः । तदव्ययम् ; तत्रैवं निरुक्तिः " सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ " इति । एतदेव शब्दे योजितं तद्भक्तैः । भूतयोनिम् ; अविद्याशबलितरूपेण भूतरूप- विवर्तोपादानमित्यर्थः । अत्र " यथोर्णनाभिः " इत्यादिना तत्प्रपञ्चः । एवं तटस्थ - लक्षणलक्षितस्य चिन्मात्रप्रतिज्ञानिर्वाहाय ’ प्रकृष्टप्रकाशश्चन्द्रः’ इतिवदतद्व्यावृत्तितत्परेण स्वरूप लक्षणेन शोधनं व्यनक्ति — सत्यमिति । अत्र सामानाधिकरण्यादिबलादन्यव्या- वृत्तिपरत्वं कल्प्यम् । विशेषतोऽन्यधर्मव्यावृत्तिकण्ठोक्तिमाह – निष्कलमिति । ब्रह्मणश्चि- मात्र शब्दसूचितं ज्ञेयत्वनिषेधं कस्यचित्स्तुत्यान्यस्य निन्दया च स्थापयति — यस्येति मननोपासनाद्यविषय इति भावः । ज्ञातृत्वनिषेधमप्याह - न दृष्टेरिति । दृष्ट्यादिशब्दो- ; G CC-0 No Rights Reserved. Digitized by eGangotri४६८ श्रीभाष्यम् 1 ( जिज्ञासाधिकरणम् )> पलक्षितज्ञानव्यतिरिक्तज्ञातापि नास्तीति भावः । परप्रेमास्पदत्वादानन्दरूपो जीवः; स्व– प्रकाशत्वान्नित्यप्राप्तस्यापि प्राप्यत्वोपचारः । ज्ञानशक्त्या स्वप्रकाशत्वात् सत्यः ; तेन ब्रह्मणः सद्वितीयत्वमिति शङ्कानिरासार्थं चासुखाद्वयावृत्तिमाह – आनन्द इति ; जीवोsपि ब्रह्मानतिरिक्ततयैवानन्दरूप इति भावः । न ह्यानन्दस्यानन्दित्वम्; अतश्च निर्गुण- त्वसिद्धिः । " ब्रह्मण आनन्दः इति श्रुतेश्चान्यपरत्वम् । ’ सर्वं तस्मिन्नेव परिकल्पि - तम्’ इत्यत्र श्रुतिमाह – इदं सर्वमिति । इदंकारविषयं कृत्स्नमनूद्य तद्विरुद्धात्मविधौ " चोरः स्थाणुः इतिवदनूदितबाधार्थं सामानाधिकरण्यम् । ब्रह्मैवेदं सर्वम् " 66 99 आत्मैवेदं सर्वम् " " पुरुष एवेदं सर्वम् 6 66 " " पुरुष एवेदं सर्वम्” इत्यादिष्वेतद् व्यक्तम् । अत्र बाधार्थत्व- मन्यत्र कण्ठोत्त्या द्रढयति – नेहेति । इह ; प्रपञ्च ; " यस्मिन्पञ्च पञ्चजनाः । इति प्रस्तुते ब्रह्मणि वा ; यन्नानात्वेन भाति तन्न सत्यमित्यर्थः । भेदद्रष्टुः प्रत्यवायोक्त्या भेदनिषेधं द्रढयति - मृत्योरिति “ तमसो वा एष तमः प्रविशति ” इत्यादिवदविद्या गृहीतः पुनरविद्यां तत्फलं वा प्राप्नोतीत्यर्थः । यदि भेदो नास्ति, खपुष्पवन्न दृश्येत ; नित्यमसतोsपि भ्रान्त्या दृश्यत्वे खनैल्यवन्नित्यं किं न दृश्यतेत्यत्र स्वप्नजागरकल्पबद्ध- मुक्तदशया युक्तायुक्तावस्था वा नियमोक्तिमाह – यत्रेति । कालानूक्तिरियम् । ‘नानेव, द्वैतमिव ’ इति इवशब्दाभ्यां मिथ्यात्वस्य सिद्धवत्कारः । तत् ; तदेत्यर्थः । ’ इतरेण इति पूर्वस्मिन्वाक्येऽध्याहार्यम्; परस्मिंस्तु ’ कः ’ इति कर्तृकरणादिकल्पना निरस्ता । पश्येत् विजानीयादिति निषेध्यज्ञानावान्तरभेदपरम् । कार्य मिथ्यात्वं कारणसत्यत्वं च लोकदृष्ट्या निदर्शितमाह – वाचेति । अत्र दाष्टन्तिके सत्यत्वस्थापनाय दृष्टान्ते व्यावहारिकसत्यत्वमात्रम् । अतो न विरोधः । अन्वयव्यतिरेकाभ्यां भेदबुद्धेर्भयहेतुत्वेन त्याज्यत्वं दर्शयितुमाह-यदा हीति । अभयहेतुरैक्यधीः पूर्ववाक्योक्ता । उ इत्यव - धारणार्थम् ; उ दरमन्तरं कुरुते ; ईषत् अन्तरं भेदं कुरुते मन्यते । उदिति विभज्य उत्कुरुत इति केचित् । उद्भवतीति चान्ये । अरम् ; द्रुतम् । अथ ; तदा; अनिरूप्येत्यर्थः। अस्य तु निर्विशेषत्वे सूत्रमादत्ते - न स्थानत इति । नोभयलिङ्गमित्यन्वयः । साकारत्वं साकारनिराकारत्वं च नास्ति ; किं तु निराकारत्वमेवेत्यर्थः । ब्रह्मान्यमिथ्यात्वे सूत्रमाह- मायेति । इदं सूत्रं स्वप्नविषयमपि तन्मुखेन दुर्निरूपत्वाविशेषाद्धीमात्रेतरकृत्स्नमिथ्य:- त्वपुरस्कारकमिति भावः । इदं पाराशर्योक्तमर्थद्वयं पराशरोक्त श्लोकाभ्यां संवादयति 1 www

८१ – १ तत्त्वटीका ४६९ प्रत्यस्तमितभेदमिति ; सजातीयादिसर्वविशेषरहितमित्यर्थः । तर्हि शून्यं स्यात् ; नेत्याह- सत्तामात्रमिति । सर्वत्र निर्बाधानुवृत्तं सत्तामात्रं हि न शून्यं स्यात् । गोबलीवर्द- नयेन स्वगतो भेदो वा मात्रचा निषिध्यते । अथवा सत्ताशब्दस्य धर्मवाचितया धर्म्य- पेक्षया भेदराहित्यं च धर्मं मात्रचा व्युदस्यति ; स्वाध्यस्तापेक्षया धर्मत्वं धर्मित्वं च कल्पितमिति भावः। तथापि सत्तादिशब्दवाच्यत्वं दुस्त्यजमित्यत्राह - अगोचरं वचसा - मिति । निमित्तभूतधर्माभावे गोत्ववन्निमित्तत्वाभावे च कथं शब्दप्रवृत्तिरिति भावः । अनुपाख्यत्वे तुच्छत्वं स्यादित्यत्र स्वप्रकाशत्वमाह - आत्मसंवेद्यमिति । हेतुं व्यनक्ति ज्ञानमिति । ब्रह्मसंज्ञितम् ; ब्रह्मत्वाद्यभावेऽपि ब्रह्मशब्देनोपचरितमित्यर्थः । तर्हि " ब्रह्मास्मि’ इति विशिष्टधीः कथमित्यत्रोपसंहारोक्तमेतदुपक्रमानुगुणमित्यभिप्रायेणेमौ घट- यति - ज्ञानस्वरूपमिति । अजडत्वेन ज्ञेयत्व ज्ञातृत्वरहितमिति च भावः । अत्यन्त - निर्मलम् ; नित्यास्पृष्टाविद्यादिसर्वदोषम् । तत्रापि हेतुर्ज्ञानस्वरूपत्वम् । अर्थस्वरूपेण जडरूप देवादिपिण्डात्मना कृत्स्नप्रपञ्चात्मना वा ; अनेन अन्यमिध्यात्वं सिद्धम् । पर- मार्थत इत्याद्युपादानं तु पुराणमध्येऽपि सत्यैकत्वसाधकाभ्यासलिङ्गस्फूर्त्यर्थम् । ना- न्योऽस्तीत्युक्तं विवृणोति – यदेतदिति । उक्तमेव ज्ञानस्वरूपमित्यादिना पुनरपि द्रढयति । ये तु ज्ञानविद इत्याद्यपि केषुचिद्वाधप्रदर्शनेन व्यतिरेकेण स्थिरीकरणं, भ्रम- निवृत्तेर्धीमात्रसाध्यत्वख्यापकं च । कर्मशास्त्रनिरूढकर्तृनानात्वोपलम्भविरोधशान्त्यै तत्रै- वात्माद्वैतमपि स्थापितमित्याह – तस्येति । एकमयमिति ; मयडिह स्वार्थिकः । आत्म- परशब्दाभ्यां भेदशङ्कां परिहर्तुं यदीति श्लोकः । वेणुरन्ध्रेत्यादिना दृष्टान्तमुखेनात्मभेद- स्योपाधिकल्पितत्वोक्तिः । निदर्शितस्यैव निर्धार्योपदेशं दर्शयति – सोऽहमिति । उक्त- मर्थमविसंवादिना यथोक्तकरणेन द्रढयति - तत्याज भेदमिति भेद मोहमित्यर्थः । जीवानां मिथो भेदधीनिवृत्तिरुक्ता । अथ जीवब्रह्मभेदबुद्धेरज्ञानमूलत्वं तदनुवृत्तौ हेत्व - भावात्तन्निवृत्तिं चाह – विभेदेति । स्पष्टार्थतया पुराणोक्तिः पूर्वमुदाहृता । ऐतिहासिकं वाक्यमात्मनां परस्परं ब्रह्मणा चैक्ये तदन्यमिथ्यात्वे च दर्शयति – अहमात्मेति । अत्र सर्वभूतशब्दस्य जीवविषयत्वशङ्का सर्वक्षेत्रशब्देन प्रशमिता । न तदस्तीत्यादौ म्या विना यत्स्यात्तन्नास्ति ; मद्व्यतिरिक्तं न परमार्थसदित्यर्थः । इत्यादिभिरिति ; भूयसां बलीयस्त्वार्थम् । उपासनविधिपरेषूक्तानां गुणविग्रहादीनां कल्पितत्वव्यक्त्यै वस्तुस्वरूपोप- ; ।

४७० श्रीभाष्यम् 9 (जिज्ञासाधिकरणम्) देशपरैरित्युक्तम् । नन्वेतेषु मिथ्याशब्दो न दृष्टः । नानात्वनिषेधादितात्पर्यतस्तत्सिद्धावपि, किमिदं मिथ्यात्वम् — असत्त्वम्, अन्यथाधीगोचरत्वं सदसदस्यत्वं, चतुष्को टेमुक्तत्वं वा । आद्यान्त्यौ निवर्त्याभावे निवर्तकशास्त्रादिवैयर्थ्यप्रसङ्गान्निर्वाधास्तिबुद्धया च निरस्तौ ; तव चानिष्टौ । अत एव न द्वितीयः, अधिष्ठानस्य मिथ्यात्वप्रसङ्गादारोप्यस्यान्यत्र सत्त्व- त्रसङ्गाच्च । न च तृतीयः सदसद्विध्योरिव व्याघातादप्रसिद्धेश्च । अन्यच्च न युक्तं पश्याम इत्यत्र प्रतिपन्नोपाधौ निषेधप्रतियोगित्वाभिप्रायेण प्रतिवक्ति – मिथ्यात्वमिति । नाम- शब्दः शुक्तिरूप्यादिषु तत्प्रसिद्धिपरः । ख्यातत्वादसदन्यत्वं बाध्यत्वेन सदस्यता | तेनानिर्वचनीयत्वं स्यादित्यत्राभिसंहितम् ॥ ३३४ ॥ 66 " प्रतीयमानत्वमिह प्रकाशमानत्वम् । तेन वृत्तिविषयत्वमपि । " साक्षिणः प्रका- शमानायामविद्यायामप्यनुवृत्तेस्तदितरविवक्षयोक्तिः " इति तु मन्दम् । “ प्रतीयमानत्व- पूर्वकतया बाधकधी प्रागभावादिव्यावृत्तिः” इति केचित् । नियमश्चात्र विवक्षितः । तत्त्वधीप्रागभावादिः प्रतिपन्नोऽन्यथापि च । तत्त्वबुद्ध्या निवर्तेत व्यावर्त्य इह तेन सः ॥ ३३५ ॥ असदत्र व्यवच्छेद्यं कैश्चिदिष्टं तदा पुनः । नास्तिधीगोचरत्वेन धीनिवर्त्यत्वकल्पनम् ॥ ३३६ ॥ भ्रान्तिनिवर्त्य सत्यसर्पादिव्यावृत्त्यै लोकदृष्ट्यनुसारेण यथावस्थितशब्दः । सत्यस्य हि निषेधकालस्थितत्वेऽपि तदानीं नास्तीति बुद्धधा आभिमानिकं निवर्त्यत्वं स्यादिति भावः । व्यवच्छेद्येषु सत्यत्वमन्वारुह्यात्र लक्षणम् । तन्मुखेन प्रबुद्धस्य तेषां बाधोऽपि सेत्स्यति ॥ ३३७ ॥ लक्ष्यमेव व्यवच्छेद्यं लक्षणस्थपदैर्यदि । विपक्ष एव पक्षः स्यादस्तु पर्यवसानतः ॥ ३३८ ॥ ; वस्तुज्ञाननिवत्र्त्यत्वमिति अत्र मात्रशब्दो योज्यः ; याथार्थ्यबुद्धयैव निवर्त्य- मित्यर्थः । तेन मन्त्रादिशक्तिविशेषसहितधीनिवर्त्यविषादिव्युदासः । वेद्यगतविरुद्धाकार- ग्रहणाग्रहणयोर्वाधादिप्रयोजकत्वव्यक्त्यै सामानाधिकरण्यभ्रमजन्यातिप्रसङ्गशान्त्यै च सम संविशेषव्यत्तत्यर्थो वस्तुशब्दः । दण्डादिनिवर्त्यव्यावृत्त्यै ज्ञानोक्तिः । नाशबाधयोरविशेषाभि-

(१ – १ – १ ) तत्त्वटीका ४७१ मानाद्वा निषेध बुद्धयर्हत्वसाम्याद्वा नाश्यबाध्ययोर्निवर्त्यशब्दानुवृत्तिः । निवर्त्यत्वम् ; निवर्तनाहैत्वम् ; तेन भूरन्ध्रादिभ्रमनिवर्त्य रज्जुसर्पादिष्वव्याप्तिर्निरस्ता । न चात्र बाधक- धीनिवर्त्यभयादावतिव्याप्तिः ; निवर्तमानदुःखस्य क्षणिकतया तन्निवृत्तौ बाधकधीवैफल्यात् सामग्र्यभावादुत्तरदुःखानुत्पत्तेः । तदिह यन्निष्ठतया प्रतिपन्नं तन्निष्ठात्यन्ताभावप्रतियोगि- तयापि तत्त्वज्ञानेन विषयीकारार्हत्वमिति तु तात्पर्यविश्रमः । उक्तस्य सर्वसंमत्यर्थमाह यथेति । ननु सारूप्यतत्त्वाग्रहौ सर्वत्र भ्रान्तिनिदानम् । तौ च जडेष्वेव स्तः, न ब्रह्मणि; तस्य निर्विशेषत्वनित्यस्वप्रकाशत्वाभ्युपगमादित्यत्राह – दोषेति ; अनिर्वचनीयदृष्टान्तस्था- पनम् । अत्र हिः प्रसिद्धौ । दुःखाद्यभावेषु सुखादिभावारोपे सारूप्यतत्त्वाग्रहासंभवादिति ‘च हेरभिप्रायः ; सारूप्यसद्भावेऽप्यतिरिक्तदोषाभावे भ्रान्त्यभावात्स एव न प्रयोजक इति भावः । निदर्शितं दोषकल्पितत्वं तत्कल्पित मिथ्यात्वलक्षणं च पक्षेऽतिदिशति – एवमिति । जडत्वसविशेषत्वपरिच्छिन्नत्वपराक्त्वादिकं नाध्यासाधिष्ठानत्वे प्रयोजकमित्यभिप्रायेण चिन्मात्रत्वानूक्तिः । तत्त्वाग्रहश्च ब्रह्मणि स्वरूपविषयविशदवृत्तिज्ञानानुदयात्सिद्धः । स्वतो वापरतो वा प्रकाशमानत्वं चाध्यासापेक्षितं भ्रमविरुद्धत्वेन न शङ्कनीयम् । सर्वज्ञत्वमपि परब्रह्मण्यध्यस्तमिति ज्ञप्त्यै सर्वाध्यासयोग्यत्वाय च परब्रह्मशब्दः । अत्र कल्पितत्व- मिदंत्वं च बाध्यत्वे हेतुतयाभिप्रेते । अध्यासनीयत्वे सादृश्यवैसादृश्याल्पत्वानन्तत्वादिकं न तन्त्रमिति ज्ञापनार्थं देवेत्यादिना कृत्स्नचिदचिद्भेदोक्तिः । नत्र मिथ्यात्वे साध्ये व्यभिचारस्थलम् ; न च प्रत्यनुमानेन सत्यत्वे साध्ये बाह्येषु दृष्टान्तः । ब्रह्मणि तु दृष्टान्तेऽनुवृत्तसत्य हेत्वसिद्धिः । कल्पितस्तु भासमानत्वादिः खपुष्पादावपि कथंचित्स्या- दिति भावः । 66 यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ " इत्यादिपरामर्शेन यथावस्थितेत्यादिकमुक्तम् । बाध्यम् ; नास्तीति वेद्यमित्यर्थः । एवं मिथ्यालक्षणयोगात् मिथ्यारूपं मिथ्याशब्दवाच्यमित्यर्थः ; स्वाधिकरणधीविषयनिष्ठात्य- न्ताभावप्रतियोगि वा । एवं भ्रान्तिबाधोत्तत्या दोषतिरोधानयोः कल्प्यत्वादर्थापत्तिद्वयसिद्धं ज्ञानमिति सूच्यते । नन्वतिरोहिताकारे नाध्यासः; तिरोधौ स्वरूपतदतिरिक्तप्रकाश- विकल्पेन स्वप्रकाशात्मस्वरूपनिवृत्तिः सविशेषत्वं वा स्यात् । अतस्तिरोधानार्थमविद्यान्तरं

o ४७२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) कल्प्यम् । सदसदादिविकल्पदुःस्था चासौ । तस्य च कल्पितत्वे दोषान्तरापेक्षया अनवस्था । अकल्पितस्तु ब्रह्मस्वरूपान्यत्वानन्यत्वादिविकल्पासहः । न च दोषत्वेन लो- कवेददृष्टः कश्चिद्वह्मणि संभाव्यते । एकश्च दोषो न सर्वाध्यासकृदित्याशङ्कयाह - दोषश्चेति । स्वरूपतिरोधानेत्यादिभिः क्रमाच्छङ्कोद्धारः । अहंत्वेदत्वादिभिस्तदवान्तरैश्च विक्षेपस्य विचित्रत्वम् । ‘स्वरूपतः स्वभावतश्च’ इति केचित् । आच्छादिका विक्षेपिका चेति विभागश्चैकस्या एवाकारभेदात्’ इति केचित् । विक्षेपिका; विशेषप्रतिभासिकेत्यर्थः । दुर्घटस्वभावाविद्यामाहात्म्यात्सत्रमिदं समाहितम् । युगपत्कोटिद्वयारोपात्मक संशयविशेष- हेतुदोषवत् विचित्राध्यास हेतुत्वोपपत्तिः । विरुद्धसमुच्चयभ्रम जनकानेकान्तवादवच्च तिरो- धानमपि न वास्तवम् । परमार्थद्वित्वमर्थक्रियाविरहं च परिहर्तुं सदसद्वैलक्षण्योक्तिः । 6 मूलभावप्रकाशिका 11 पराभिमतं साधनचतुष्टयपूर्व वृत्तत्वस्याथशब्दार्थत्वं प्रतिक्षिप्य शास्त्रारम्भोपयोगि- ब्रह्मात्मैकत्वलक्षणविषयप्रयोजनविरोधिनः कर्तृत्वाध्यासस्य मिथ्यात्वप्रतिपादनं प्रथमाधि- करणार्थ इति परमतं प्रतिक्षिपति – यदप्याहुरित्यादिना । चिन्मात्रं ब्रह्मैवेत्यनेन सगुणं ब्रह्म न परमार्थमित्युक्तं भवति । ज्ञानस्य ब्रह्मरूपत्वेन तस्यैकत्वात् तत्कृतज्ञान- भेदेत्युक्तम् । देवदत्तज्ञानं, घटज्ञानं, पटज्ञानम्’ इति ज्ञातृकृतोज्ञेयकृतश्च यो भेद इत्यर्थः । आदिशब्देन जीवभेदो विवक्षितः । उक्तार्थे सद्विद्यावाक्यं प्रमाणयति- सदेवेति ; इदं जगदग्रे सृष्टेः प्राक् सदेवासीत् ब्रह्मैवासीत् । कीदृशं ब्रह्मासीदित्यत्राह - एकमेवेति । वृक्षस्य शाखापत्र पुष्पाद्यात्मना यः स्वगतो भेदस्तादृशभेद एकमित्यनेन निषिध्यते । एवेत्यवधारणे ; वृक्षस्य यः सजातीयात् वृक्षान्तराद्भेदस्तादृशो भेदो निषि- ध्यते । अद्वितीयमित्यनेन योवृक्षस्य विजातीयात् शिलादितो भेदस्तादृशो भेदो निषि- ध्यते । ब्रह्मसजातीयं च नास्ति ; विजातीयं च नास्ति ; ब्रह्मणि शिरः पाणिपादरूपेण ब्रह्मगतोऽपि भेदो नास्ति । ततश्च सजातीयविजातीयस्वगतभेदशून्यं सच्छब्दितं ब्रह्मैवा- सीदित्यर्थः । उक्तं च- 66 वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयो विजातीयः शिलादिभिः ॥ CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) मूलभावप्रकाशिका ० ४७३ • एवं सद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यते । ऐक्यावधारणद्वैत प्रतिपेधैस्त्रिभिः क्रमात् ॥ 99 इति । सदेवेति सृष्टेः प्राक् नामरूपादि व्यावर्त्यते । एकमेवेत्यनेन महदादिकं स्वकार्या- येति तन्निषिध्यते । अद्वितीयमिति निमित्तान्तरं निषिध्यत इति च व्याख्यातं परैः । ततश्चानेन वाक्येन सजातीयविजातीयस्वगतभेदेषु निषिद्धेषु ब्रह्मणो निर्विशेषत्वं सिध्यतीति परेषामाशयः । ब्रह्मणो निर्विशेषत्वप्रतिपादकं मुण्डकोपनिषद्वाक्यमुदाहरति - अथ परेति । अथापरविद्योपदेशानन्तरं परा विद्योपदिश्यते ; यया विद्यया तदक्षरमधिगम्यते प्राप्यते 1 कीदृशं तदित्याह – अद्रेश्यमिति ; अदेश्यं ; चक्षुरग्राह्यम् । अग्राह्यम्; इन्द्रियान्त- -राग्राह्यम् । अगोत्रम् ; अनुत्पन्नत्वादेव पितृपितामहादिपरंपरालक्षणगोत्ररहितम् । अवर्णम् ; नीलपीतादिवर्णरहितम् । अचक्षुः श्रोत्रम् ; ज्ञानेन्द्रियरहितम् । अपाणिपादम् कर्मेन्द्रियरहितम् । नित्यम् ; कालापरिच्छिन्नम् । विभुम् ; देशापरिच्छिन्नम् । सर्वगतम् ; सर्ववस्तुष्वधिष्ठानतयानुस्यूतम् । सुसूक्ष्मं स्थूलत्वकारण रहितम् । अव्ययम् ; नाशरहि- तम् । भूतयोनिम् ; भूतोपादानम् । धीराः पश्यन्ति ; प्रज्ञाशालिनः पश्यन्तीत्यर्थः । अत्रे- न्द्रियगाह्यत्वादिनिषेधात् निर्विशेषत्वसिद्धिरिति भावः । तादृशं तैत्तिरीयोपनिषद्वाक्यमुदा- हरति सत्यमिति ; सत्यत्वस्य ब्रह्मलक्षणतया कथनादेवेतरेषामसत्यत्वं फलतीति भावः । अनन्तमिति ; त्रिवित्रपरिच्छेदशून्यत्वकथनाद्वस्त्वन्तरसद्भावे वस्त्वन्तरात् परिच्छे- दावश्यंभावेन वस्तुपरिच्छेद राहित्यासंभवात् वस्त्वन्तरशून्यत्वं फलतीति भावः । विशेष- निषेधकं श्वेताश्वतरोपनिषद्वाक्यमुदाहरति - निष्कलमिति । कला अवयवाः; चलनक्रिया- शून्यम् । शान्तम् ; अशनायाद्यूर्मिषट्करहितम् । निरवद्यम् ; पापरहितम् । निरञ्जनम् ; निर्लेपम् । ज्ञेयत्वनिषेधमुखेन ज्ञेयत्वनिषेधमुखेन निर्विशेषत्वप्रदर्शकं । तलवकारवाक्यमुदाहरति यस्यामतमिति । यो नामन्यत स जानाति । ज्ञातमिति यः, स न जानातीत्यर्थः । तदेव विवृणोति — अविज्ञातमिति । ज्ञानिनामविज्ञातमिति ज्ञातं भवति ; अज्ञानिनां तु तद्विपरीतमित्यर्थः । ज्ञेयत्वनिषेधकं बृहदारण्यकवाक्यमुदाहरति न टेरिति । श्चक्षुर्जन्यवृत्तेः द्रष्टारं स्वरूप चैतन्येन व्याप्तारम् अन्तःकरणवृत्तेरपि भासकं प्रत्यगात्मानं तद्व्याप्यया चक्षुर्जन्यान्तःकरणवृत्त्या न पश्येः ; प्रत्यगात्मा तद्विषयो न भवतीत्यर्थः । न मतेरित्यस्याप्ययमेवार्थः । आनन्दत्वप्रतिपादनद्वारा कर्तृत्वादिलक्षणमुखेन निषेधकं बृह- — 60


४७४ ( श्रीभाष्यम् " (जिज्ञासाधिकरणम्) " यत्र दारण्यकवाक्यमुदाहरति-आनन्दोत | यद्रजतमभात् सा शुक्ति: ’ इति रजतस्य शुक्तित्वोपदेशमुखेन मिथ्यात्वप्रदर्शक वाक्यवत् परिदृश्यमानानात्मप्रपञ्चस्यात्मत्वोपदेशमुखेन मिथ्यात्वप्रदर्शकं वाक्यान्तरमुदाहरति – इदं सर्वमिति । परिदृश्यमानं यदिदं सर्वमयमा - त्मेत्यर्थः । नेहेति ; इह जगति परिदृश्यमानं नानाभूतं वस्तु न किंचिदप्यस्तीत्यर्थः । भेद– दर्शनेऽनर्थं दर्शयति–मृत्योः स मृत्युमाप्नोतीति । मृस्योः मृत्युम् संसारात्संसारम् अत्वन्तसंसारमाप्नोतीत्यर्थः । इव शब्देनानात्मलक्षणभेदस्यासत्यत्वमुच्यते । यत्र हीति ; यत्र यदा द्वैतमिव भवति ; द्वैतप्रतिभासोऽनुवर्तते; आत्मव्यतिरिक्तवस्तु यदास्तीति दृश्यत इति यावत् । तदा कश्चित् कंचित् पश्येत्, द्रष्टृदृश्य भेदो भवतीत्यर्थः । तु; यदा तु मोक्षकाले आत्ममात्रं परिशिष्यते, तदा न द्रष्टा, नापि दृश्यं नापि दर्शन- कारणमित्यर्थः । प्रपञ्चमिथ्यात्वप्रतिपादकं सद्विद्या वाक्यमुदाहरति-वाचेति । घटश- रावादिविकारः सर्वोऽपि वाचारम्भणं वागालम्बनमात्रम् ; न हि मृयतिरेकेण घटशरावा- दिकं वस्त्वस्तीत्यर्थः । तदेव द्रढयति - नामधेयमिति । नाममात्रं ह्येतत् ; शब्दव्य- तिरेक्रेणार्थो नास्तीत्यर्थः । अतो मृत्तिकेत्येव सत्यम् इति शब्देन मृत्तिकाया अपि असत्यत्वं सूच्यते । भेददर्शनेऽनर्थप्रदर्शकतैत्तिरीयकवाक्यमुदाहरति — यदति । उशब्दोऽवधारणे । दरमल्पमपि अन्तरं भेदं यः कुरुते जानाति तस्य भयं संसारोभव- तीत्यर्थः । निर्विशेषत्वप्रदर्शकं सूत्रं दर्शयति-न स्थानत इति । स्थानतोऽपि उपाधि तोपि । परस्य ब्रह्मणः सविशेषत्वनिर्विशेषत्वरूपलिङ्गद्वयसमुच्चयो नास्तीत्यर्थः । सर्वत्र हि " अश ब्दमस्पर्शमरूपमव्ययम् ” इत्यादितत्त्वोपदेश वाक्येषु सर्वत्र निर्विशेषत्वस्यैव तात्पर्यतः प्रतिपादितत्वेन तद्विरुद्धसविशेषत्वासंभवादिति सूत्रार्थः । माया मात्रमिति ; स्वाप्नार्थ- दृष्टिर्मायैव न परमार्थतोऽप्यस्तीत्यर्थः । तत्र हेतुमाह - कात्स्न्येनेति ; परमार्थस्व- रूपाभिव्यञ्जकदेशकालनिमित्तबाधानामभावादित्यर्थः । न हि स्वप्नदृष्टरथपर्वतादेरुचितो देशोस्ति ; न वा मुहूर्तमात्रशयित पुरुषानुभूयमानविवाहपुत्रोत्पादनतदुपलालनादीनमुचित:- कालोऽस्ति, न वा स्वप्नरथादीनामुचितं दार्वादिकं निमित्तमस्ति ; न वा स्वप्नार्थानामबा– धोऽस्तीति भावः । यद्यपीदं सूत्रं स्वप्नार्थमिथ्यात्वप्रदर्शक न तु प्रपञ्च मिथ्यात्वप्रदर्शकम्, तथापि प्रपञ्चमिथ्यात्वसाधने दृष्टान्तसिद्धयौपयिकतया तदुपयोगोऽप्यस्तीत्यभिप्रेत्य प्रद शितम् । श्रीविष्णुपुराणवचनानि दर्शयति – प्रत्यस्तमितेति । अयं श्लोकः षष्ठांशे ;


(१ – १ – १) मूलभावप्रकाशिका ४७५ सप्तमेऽध्याये योगप्रकरणे केशिध्वजवाक्यम् । प्रत्यस्तमितभेदम् ; निर्विशेषमित्यर्थः । - सत्तामात्रमित्यनेन 66 अपक्षयविनाशाभ्यां परिमाणाद्धि जन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥ ; ; 99 इति भावो विवक्षितः । वचसामगोचरम् आत्मसंवेद्यम् स्वप्रकाशम् । ज्ञानस्वरूप- मिति । अयं श्लोकः प्रथमांशे द्वितीयाध्याये नमस्कार श्लोकः । आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ 99 " ज्ञानस्वरूपम्” इति श्लोकक्रमः । भ्रान्त्या शैलसागराद्यर्थस्वरूपेण भासमानं ज्ञानस्व- रूपमच्युतं प्रणम्येति पूर्वेणान्वयः । परमार्थ इति ; अस्य श्लोकस्य " तवैषमहिमा येन व्याप्तमेतच्चराचरम् " इत्युत्तरार्धं पूर्वपक्षानुपयुक्तत्वात् न प्रदर्शितम् । यदेतदृदृश्यत इति ज्ञानात्मनस्तव लौकिके दृश्यमानं जगदात्मकं मुक्तरूपं योगिनो भ्रान्तिज्ञानेन पश्यन्तीत्यर्थः । • एतदेव स्पष्टयति — ज्ञानस्वरूपमिति ; जगतो ज्ञानमेव स्वरूपम् ; ज्ञानव्यतिरिक्तस्वरूप- शून्यं जगद्विपरीततया पश्यन्तो मोहसंप्लवे संसारसागरे भ्रमन्तीत्यर्थः । योगिनां तु न तथा मतिरित्याह – ये त्विति । अखिलं जगदिति ; योगिनस्त्वखिलं जगत् ज्ञानात्मकं त्वत्स्व- रूपं पश्यन्ति ज्ञानस्वरूपव्यतिरिक्तमर्थस्वरूपं न पश्यन्तीत्यर्थः । इयं चतुःश्लोकी प्रथमांशे चतुर्थाध्याये रोमान्तरस्थानां मुनीनामादिवराहस्तुत्यन्तर्गता । द्वितीयांशे चतुर्दशत्रयोद- शषोडशाध्यायगतानादिभरतस्य श्लोकानुदाहरति — तस्येत्यादिना | आत्मपरदेहेषु स- तस्तस्य परमात्मनः स्वरूपभूतम् ; एकमयम् ; एकस्वरूपं यद्विज्ञानं तदेव हि परमार्थः । द्वैतिनः ; भेददर्शिनः । अतथ्यदर्शिनः ; भ्रान्ता इत्यर्थः । यदन्योऽस्तीति ; “ कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः " इति सौवीरराजप्रश्नस्यानुपपत्तिप्रदर्शक- मादिभरतस्य वाक्यमिदम् । वेणुरन्ध्रेति; एकस्य वायोर्वेणुरन्ध्रविभेदेन निर्गतस्य षड्- जादिसंज्ञितस्वरभेदो भवति यथा, तथा ब्रह्मण एवोपाधिभेदादसौ देवमनुप्यादिभेदो भवतीत्यर्थः सोहमिति ; स्पष्टोऽर्थः । विभेदजनक इति ; अयं श्लोकः षष्ठांशे सप्तमा- ध्याये केशिध्वजस्य योगप्रकरणान्ते वचनम् । विभेदजनके अज्ञान इति पदच्छेदः । आत्मनः, जीवस्येत्यर्थः । अहमात्मेत्यादीनि गीतावचनानि । " अहमात्मा क्षेत्रज्ञं


""

४७६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) चापि मां विद्धि " इति द्वाभ्यां जीवाभेदः प्रतिपाद्यते । न तदस्तीत्यनेन मिथ्यात्वं प्रतिपाद्यते । मया विना चराचरात्मकं भूतं नास्ति, मध्यतिरिक्तं नास्तीत्यर्थः । वस्तुस्व- रूपोपदेश परैरिति ; अनेन सविशेषप्रतिपादकवाक्यानां न स्वरूपोपदेशपरत्वम्, अपितू- पासनपरत्वं निर्विशेषप्रतीत्युपायोपदेशपरत्वं वेति सूच्यते । प्रतीयमानत्व पूर्वकेति ; प्रतीयमानत्वविशिष्टेत्यर्थः । असतः प्रतीत्यसंभवात् प्रतीयमानत्व पदेन सद्विलक्षणत्वमुच्यते । सतोज्ञाननिवत्त्वाभावात् यथावस्थितेत्यादिपदेन सद्विलक्षणत्वमुच्यते । लक्षणस्य लक्ष्ये क्वचित्सद्भावं दर्शयति — यथेति । ननु देशान्तरस्थितस्य सतो वासतो वा सर्पादेः प्रतीत्यु- पपत्तौ सदसद्विलक्षण सर्पाद्युत्पत्तिर्नाभ्युपगन्तव्या, सर्पाद्यवयवरूपक्लृप्ततत्कारणाभावादित्या- शङ्क्याह — दोषेति । प्रत्यक्षेन्द्रियसंनिकर्षस्य हेतुत्वेनेन्द्रियासंनिकृष्टस्य देशान्तरस्थ सतो वासतो वा प्रत्यक्षाभावात् काचकामलादिदोषदूषितेन्द्रियसंयोगक्षुभिताविद्यारूपकारण- सत्त्वेन तत्परिणामरूपसर्पाद्युत्पत्तेरवश्याभ्युपगन्तव्यत्वादिति भावः । दोषपरिकल्पितमित्य- नेन प्रतीयमानत्वोपपादनद्वारा सद्विलक्षणत्वमुपपादितं भवति । यथावस्थितेत्यनेन यथाव- स्थितज्ञाननिवर्त्यत्वोपपादनद्वारा सद्विलक्षणत्वमुपपादितम् । स्वरूपतिरोधानकरीत्यनेन चिन्मात्रात्मकेऽधिष्ठानभूते ब्रह्मस्वरूपे भासमाने कथं तत्र सर्वजगतः परिकल्पनमिति शङ्का पराकृता, भासमानस्याप्यधिष्ठानस्वरूपस्याक्लृप्तत्वात्तत्र कर्तृत्वादिनिखिलप्रपञ्चाध्यास उपपद्यत इति भावः । विक्षेपः, विपरीतप्रतिभासः । सदसदनिर्वचनीयेति ; अविद्यायाः सत्त्वेऽद्वैत- हानेरसत्त्वे कार्यकरत्वायोगादिति भावः । अनादीति ; सादित्वे कल्पकान्तरावश्यंभावा- दनवस्थापत्तेरिति भावः । श्रीभाष्यम् " अनृतेन हि प्रत्यूढाः " " तेषां सत्यानां सतामनृतमपि - "" धानम् " " नासदासीन्नो सदासीत्तानीम् । " तम आसीत्तमसा गूढमग्रे प्रकेतम् ” “ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् 66 " इन्द्रो मायाभिः पुरुरूप ईयते 93 66 मम माया दुरत्यया " 33 66 377- अना- दिमायया सुप्तो यदा जीवः प्रबुध्यते " इत्यादिभिर्निर्विशेषचिन्मात्रं ब्रह्मवानाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगतनानालं पश्यतीत्यवगम्यते । यथोक्तम्-


0 (१-१ – १) इति । । 66 श्रीभाष्यम् ४७७ 45 ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूर्तिर्न तु वस्तुभूतः । ततो हि शैलब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि ॥ यदा तु शुद्धं निजरूपि सर्वकर्मक्षये ज्ञानमप्रास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः॥ तस्मान्न विज्ञानमृतेऽस्ति किंचित्कचित्कदाचिद्दिज वस्तुजातम् । विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्बहुधाभ्युपेतम् ॥ ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ॥ : सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥ " अस्याश्वाविद्यायाः निर्विशेषचिन्मात्र ब्रह्मात्मैकत्वविज्ञानेन नि- वृत्तिं वदन्ति - " न पुनर्मृत्यवे तदेकं पश्यति । न पश्यो मृत्युं पश्यति " " यदा होवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति " 66 " भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ " ब्रह्म वेद ब्रह्मैव भवति ” तमेवं विदित्वातिमृत्युमेति । नान्यः 55 पन्थाः इत्याद्याः श्रुतयः । अत्र मृत्युशब्देना विद्याभिधीयते, यथा सनत्सुजातवचनम् - " प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमाद- ममृतत्वं ब्रवीमि " इति । " सत्यं ज्ञानमनन्तं ब्रह्म " विज्ञान- मानन्दं ब्रह्म ” इत्यादिशोधकवाक्यावसेयनिर्विशेषस्वरूपब्रह्मात्मैकत्व- 59 CC-0 No Rights Reserved. Digitized by eGangotri४७८ श्रीभाष्यम् ( जिज्ञासाधिकरणम्) विज्ञानं च " अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न 66 " " " 66 तथा स वेद " " अकृत्स्नो ह्येषः, " " आत्मेत्येवोपासीत ” “ तत्त्वमसि " " त्वं वाहमस्सि भगवो देवतेऽहं वै त्वमसि देवते " " तद्योऽहं सोऽसौ योऽसौ सोऽहमस्मि ” इत्यादिवाक्यसिद्धम् । वक्ष्यति चैतदेव - " आत्मेति तूपगच्छन्ति ग्राहयन्ति च " इति । चाह वाक्यकारः - आत्मेत्येव तु गृह्णीयात्सर्वस्य तन्निष्पत्तेः " इति । अनेन च ब्रह्मात्मैकत्वविज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तिरुक्ता । ननु च सकलभेदनिवृत्तिः प्रत्यक्षविरुद्धा कथमिव शास्त्रजन्यविज्ञानेन क्रियते ? कथं वा ‘रज्जुरेषा न सर्पः’ इति ज्ञानेन प्रत्यक्षविरुद्धा सर्पनिवृत्तिः क्रियते ? तत्र द्वयोः प्रत्यक्षयोर्वि- रोधः; इह तु प्रत्यक्षमूलस्य शास्त्रस्य प्रत्यक्षस्य चेति चेत् — तुल्य- योर्विरोधे कथं बाध्यबाधकभावः ? पूर्वोत्तरयोर्दुष्टकारणजन्यत्वतदभा- वाभ्यामिति चेत्, शास्त्रप्रत्यक्षयोरपि समानमेतत् । एतदुक्तं भवति — बाध्यबाधकभावे तुल्यत्वसापेक्षत्वनिरपेक्षत्वादि न कारणम्, ज्वालाभेदानुमानेन प्रत्यक्षोपमर्दायोगात् ; तत्र हि ज्वालैक्यं प्रत्यक्षेणा- वगम्यते । एवं च सति द्वयोः प्रमाणयोर्विरोधे यत्संभाव्यमानान्य- थासिद्धि तद्वाध्यम् अनन्यथासिद्धमनवकाशमितरद्वाधकमिति सर्वत्र बाध्यबाधकभावनिर्णय इति । तस्मादनादिनिधनाविच्छिन्न संप्रदाया- संभाव्यमानदोषगन्धानवकाशशास्त्रजन्य निर्विशेषनित्यशुद्धमुक्तबुद्धस्व- प्रकाशचिन्मात्रव्रह्मात्मभावावबोधेन संभाव्यमानदोष सावकाशप्रत्यक्षा- दिसिद्धिविविधविकल्परूपबन्धनिवृत्तिर्युक्तैव । संभाव्यते च विविध- विकल्पभेदप्रपञ्चग्राहिप्रत्यक्षस्यानादिभेदवासनादिरूपाविद्याख्यो दोष: । ‍ ,

० (१ – १ – १ ) ४७९ 66 श्रुतप्रकाशिका एवं भूतामविद्यां प्रतिज्ञायैतदनुगुणं प्रमाणमाह – अनृतेनेत्यादिना । प्रत्यूढाः ; प्रतीपंनीताः । प्रत्यूढशब्द वैशद्यार्थमुपादत्ते - तेषामिति । नात्र बहुवचने तात्पर्यम् अदितिः पाशान् प्रमुमोक्त" इतिवत् । अस्याः सदसदनिर्वचनीययत्वमुच्यते- नासदासीनो सदासीदिति । किमासीदित्यत्राह - तम आसीदिति । तमः शब्देना- । च्छादकत्वं विवक्षितम् । तमो नाम " अक्षरं तमसि लीयते " इति प्रकृतिरुच्यत इति शङ्कायामुदाहरति – मायां तु प्रकृतिमिति । विविधाध्यास हेतुत्वं दर्शयति- इन्द्रो मायाभिरिति । अस्या ऐक्यज्ञानेन विना अनिवर्त्यत्वमाह - ममेति । अना- वित्वमाह – अनादीति । अत्रेशितव्यसापेक्षमहेश्वरत्वेन्द्रत्वबहुवचनश्रवणाद्विजातीयसजा-

  • तीयस्वगतभेदसाहित्यं प्रतिपन्नमिति तदपनुत्तये व्याचष्टे – निर्विशेषेति । सगुणत्वे प्रतिपन्नेऽपि स्वरूपपरवाक्यानुगुण्याद्दोषप्रतिपादनतत्पराणां वाक्यानां न प्रतिपन्न- भेदे तात्पर्यमिति भावः । ब्रह्मैव ; इन्द्रादिशब्देन प्रतिपन्नमपि स्तरूपपरवाक्योपदिष्टं ब्रह्मैवेति भावः । अनादित्वसदसदनिर्वचनीयत्वतिरोधायकत्वविविधाध्यास करत्वान्युपात्त- तत्तद्वाक्यप्रतिपन्नान्याह —– अनाद्यविद्ययेत्यादिना | स्वगतशब्देनाधिष्ठानतया संबन्धो विवक्षितः, न तु सजातीयविजातीयसहपठितस्वगतनानात्वम् । एवं दोषवाचिवाक्यगत- मिन्द्रमहेश्वरादिपदजातमर्थस्वारस्येन स्वरूपपरवाक्यप्राबल्यान्निर्विशेषवस्तुपरं व्याख्यातम् ; अथ दोषवाचिभिरेवोपबृंहणवाक्यैर्निर्विशेषस्य वस्तुन एव दोषसंबन्धित्वमुक्तमिति दर्शयति – यथोक्तमिति । चिन्मात्र ब्रह्मणो ज्ञानविजृम्भितत्वं जगतः प्रतिज्ञायते – ज्ञान- स्वरूप इति । न तु वस्तु भूतः ; वक्ष्यमाणशैलाब्धिधरादिवस्तुभूतो न भवतीत्यर्थः । विज्ञानविजृम्भितानीति विज्ञानशब्देन विविधं ज्ञायतेनेनेति करणव्युत्पत्त्या अविद्या- भिधीयते । प्रतिज्ञातं प्रपञ्चस्याविद्याकल्पितत्वं व्यतिरेकमुखेनोपपादयति - यदेति । शुद्धम् ; अविद्यारहितम् । निजरूपि भेददर्शनरहितम् । तन्निमित्तकर्मक्षयेऽपास्त- रागादिदोषम् । समन्तात् कल्प्यतेऽनेनेति संकल्पः ; अविद्या । वस्तुषु धर्मिभूत- पदार्थेषु । वस्तुभेदा: ; आकारभेदाः । मध्ये - - " वस्त्वस्ति किम् " " महीघटत्वम् " इति श्लोकद्वयं जगदुपलब्धिप्रकारेण वस्तुभेदासत्यत्वोपपादकत्वेनोपपाद्यप्रमेयाधिक्याभावा- दत्रानुपात्तम् । तच्च सिद्धान्ते दर्शयिष्यते । विजातीयभेदाभावमुपसंहरति–तस्मादिति ; 1 ;

४८० 99 श्रीभाष्यम् (जिज्ञासाधिकरणम) पूर्वार्धेन । अथात्मबहुत्वस्य काल्पनिकत्वमुच्यते – विज्ञानमित्यर्थेन । पूर्वोक्तमात्मैक्यम् " “ एकं सदैकम् ” इत्यत्रैकशब्देनानूय स्वगतनानात्वं निषिध्य परमपरेशादिशब्दानामपि वस्तुमात्रपरत्वं प्रतिपादयति - ज्ञानमिति । विशुद्धमित्यादिपदैरविद्याराहित्यं तत्कृतभेदद- शेनवैधुर्य, तन्मूलशोकलोभादिविधुरता चोच्यते । सदैकम् जन्मवृद्धघादिरहितम् ; यतोऽन्यन्नास्ति तद्यथोक्तस्वरूपमित्यर्थः । एतन्न परमतमित्याह – सद्भाव इति । एत- ; 99 वनाश्रितं भुवनेनाधिष्ठानतया आश्रितं ज्ञानम् । संव्यवहारभूतम् समन्ताद्व्यवहार- विषयभूतं यद्वर्तते तत्रापि कारणमविद्येत्युक्तम् । तच्च न परमतम् ; सद्भाव एवोच्यत इत्यर्थः । एवं सिद्धपरवाक्यपर्यालोचनया ब्रह्मण एवं सत्यत्वं व्यतिरिक्तस्याविद्यापरिक- ल्पितत्वं च तत्त्वमित्युक्तम् ; ततः किं प्रस्तुतस्य कर्माङ्गकत्वानर्हवाक्यार्थज्ञानमोक्षोपाय- त्वस्येति शङ्कायामुपायपरवाक्यानामपि सिद्धपरवाक्यप्रतिपन्नार्थानुगुणोपायपरत्वमाह - अस्या इति । चः शङ्कानिवर्तकः । अस्या इत्यनेन सदसदनिर्वचनीयत्वादिविशेषण- विशिष्टता विवक्षिता । तस्या निवृत्तौ प्रमाणं दर्शयति न पुनरिति । मृत्युरत्राविद्या । तन्निवृत्तिश्चैक्यज्ञानादित्याह - तदेकं पश्यतीति । मृत्युकार्यस्य रोगादेरपि निवृत्ति ज्ञापयति–न पश्यो मृत्युमिति । " न रोगं नोत दुःखताम् इति तच्छेषः । निर्विशेषवस्तुज्ञानानन्तरमेवाभयप्राप्तिं दर्शयति-यदा हीति । अदृश्ये ; प्रत्यक्षाद्य- विषये । अनात्म्ये ; आत्म्यं व्याप्यं शरीरम् ; अशरीरे । अनिरुक्ते ; अनिर्वचनीये । अनिलयने ; अनावारे । अभयम्; अभयार्थम् ; अव्ययीभावसमासः । प्रतिष्ठा निष्ठा वादिभिर्बन्धमूलत्वेनाभ्युपगतस्य कर्मणोऽप्यविद्याकल्पितत्वात् तस्यापि ज्ञानेन निवृत्ति- माह - भिद्यत इति । हृदयग्रन्थिरविद्या । पूर्ववाक्येषु किंचिद्भेदः प्रतीत इव भवतीति तद्व्यावृत्तये ज्ञानस्यैक्यविषयत्वज्ञापनायैक्यापति फलं दर्शयति — ब्रह्म वेदेति । यथो- पासनं हि फलम् । अत ऐक्यज्ञानमेव बन्धनिवर्तकमिति भावः । उपायान्तरनिषेधार्थ- मुदाहरति-तमेवमिति । नात्राविद्यानिवृत्तिः प्रतीयते, तद्वाचिशब्दाश्रवणादित्यत्राह- अत्रेति । " मृत्युर्भावति पञ्चमः " इत्यादौ मृत्युशब्दस्य यमादिषु प्रयोगदर्शनात्तद्व्यावृत्त्य- र्थमुक्तम् - अत्रेति ; बन्धनिवृत्तिपरवाक्येष्वित्यर्थः । तत्र प्रयोगं दर्शयति — यथेति । प्रमादं वै इति वचनात् पूर्वत्र " मोहो मृत्युः संमतो यः कवीनाम् " इत्युक्तम् । 66 । मोहो विपरीतज्ञानं, तन्मृत्युरितिपरमतम् । सनत्सुजातस्य तु प्रमादो मृत्युर्मतः । प्रमादो यथा-

(१-१-१) (१ – १ – १) । श्रतप्रकाशिका 66 99

  • ४८१ 1 1 वदप्रतिपत्तिः । स्वरूपाग्रहणे ह्यन्यथाप्रतिपत्तिः । तस्मान्मोहस्यापि हेतुरात्मन्यनव- धानरूपः प्रमाद इति तद्धेतुभूताविधैव प्रमादशब्देन विवक्षितेति सैव मृत्युरित्यभिप्रायः । उपात्तेषु वाक्येषु ज्ञानस्याविद्यानिवर्तकत्वं प्रतिपन्नम् ; ब्रह्मणो • निर्विशेषचिन्मात्रत्वं, तेनात्मन एकत्वविज्ञानं निवर्तकमिति च न प्रतिपन्नमित्यत्राह - सत्यं ज्ञानमिति । सत्य- ज्ञानादिवाक्यं सर्वतो व्यावृत्तत्वज्ञापनार्थमुपात्तम् । पुरुषार्थत्वाया सुखाद्व्यावृत्तिज्ञापनार्थ- मुपात्तम् - विज्ञानमानन्दमिति । आदिशब्देन अस्थूलम् इत्यादि गृह्यते । एवं ब्रह्मणो निर्विशेषत्वे शोधकवाक्यान्युदाहृतानि । अथ ब्रह्मात्मैक्यप्रतिपत्तौ श्रुतिमुपादत्ते- अथ य इति । " अथ योऽन्याम्" इत्यैक्योपासनविधिर्भेदवासनानिरासार्थः । विहितो- • पासनस्यैक्यविपयतां ज्ञापयितुमैक्योपदेशं दर्शयति तत्त्वमसीति । उपदेशानुगुणमुपा- सको देवतां प्रत्याह – त्वं वेति । उपदिष्टार्थमात्मन्यनुसंधते - तद्योऽहमिति । अस्यार्थस्य श्रुतिविवक्षितत्वसिद्धये सूत्र दर्शयति – वक्ष्यति चेति । " आत्मेति तूपगच्छन्ति ग्राहयन्ति च " ; आत्मेत्युपासीत ; तथा ह्युपगच्छन्ति, मुमुक्षव उपासत इत्यर्थः । ग्राहयन्ति च ज्ञापयन्ति च तथा शास्त्राणि । सूत्रकाराभिप्रायविदां वाक्यं दर्शयति- तथा चेति । तन्निष्पत्तेः ; तत्र कल्पितत्वादित्यर्थः । न केवलं श्रुतिः ; तदनुग्राहक- स्तर्कोऽप्यस्तीत्याह — अनेन चेति । चः समुच्चये । कर्मनिरपेक्षज्ञाननिवर्त्यत्वायाह- मिथ्यारूपस्येति । हेतुत्वं गर्भितम् । सकारणस्य ; अविद्याभेददर्शनसहितस्य । बन्धस्य निवृत्तिर्युक्ता ; न हि मिथ्यासर्पनिवृत्तौ ’ नायं सर्पों रज्जुरेषा’ इति ज्ञानाद्दते कर्मापेक्षे- ‘ति भावः । अथानुमानागमयोर्व्याप्तिग्रहणलिङ्गदर्शनधर्मिंप्रतिपत्त्यर्थं व्युत्पत्त्यर्थं च प्रत्यक्ष- सापेक्षत्वात् ’ अनुष्णोऽग्निर्द्रव्यत्वात् ’ " आदित्यो यूपः दिष्वनुमानागमौ प्रत्यक्षविरुद्धार्थप्रतिपादनाशक्तौ दृष्टौ ; तस्मान्न प्रत्यक्षविरुद्धार्थप्रतिपाद- नक्षमा श्रुतिरित्यभिप्रायेण भेदवादी चोदयति ननु चेति । श्रुतिवाक्येष्ववान्तरचोद्येषु परि- हृतेष्विदमपि चोद्यमस्तीति चार्थः । स्वप्नादिषु सर्पभूदलनादिषु च कतिपयभेदनिवृत्तिर्दृष्टा ; तद्व्यावृत्त्यर्थः सकलशब्दः । अत्र किं प्रत्यक्षत्वान्न बाध्यत्वम्; उत परोक्षत्वान्मूलित्वाच्च न - बाधकत्वमिति शङ्काद्वयं हृदि निधाय प्रथमं प्रत्यक्षत्वाद बाध्यत्वमित्येतत्परिहरति-कथं वेति । - स तु प्रत्यक्षाभास इति चेत् — न ; प्रतीतिदशायामाभासत्वानवगमात् । पश्चात्प्रमाणबा ज्ञायत इति चेत्, तत् प्रपञ्चग्राहिप्रत्यक्षस्यापि तुल्यम्, भेदस्य श्रुतिबाधादित्येतदत्राभिप्रेतम् 61 . 66 99 66 यजमानः प्रस्तरः इत्या-

० ४८२ श्रीभाष्यम् (जिज्ञासा धिकरणम् ) मूलित्वात् परोक्षत्वाच्च न बाधकं शास्त्रमिति शङ्कते – तत्रेति । इह त्विति ; तुल्यत्वव्या- वृत्तये तुशब्दः । प्रत्यक्षमूलस्येति ; मूलित्वान्न शास्त्र बाधकमिति भावः । शास्त्र- स्येति ; परोक्षत्वान्न बाधकमिति भावः । तुल्यत्वे प्रयोजके सति बाध्यबाधकभावो विपर्ययेणापि स्यादितिं तदप्रयोजकम् ; अतस्तत्र बाध्यबाधकभावे प्रयोजकान्तरं त्वया वक्तव्यम् ; तदेवास्माकमपि प्रयोजकमित्यभिप्रायेणाह – तुल्ययोरिति । बाध्यबाधक- भावानियमव्यावृत्तये भेदवाद्यभिमतत्वेन प्रयोजकान्तरं शङ्कते – पूर्वोत्तरयोरिति । पूर्वो- त्तरयोर्वाध्यबाधकयोस्त्वदुक्तं प्रयोजकमत्रापि तुल्यमित्याह — शास्त्रेति । मूलमूलित्वा - दिसद्भावे मूलस्य प्रत्यक्षस्य बाधकत्वमितरस्य बाध्यत्वं च दृष्टम् ; अतो मूलमूलित्व- परोक्षत्वापरोक्षत्वादिवैषम्यराहित्ये सति दुष्टकारणजन्यत्वतदभावौ बाध्यबाधकभावे प्रयोजकाविति शङ्कायामाह – एतदुक्तमिति । तुल्यत्वे सति दुष्टकारणजन्यत्वतद- भावौ न प्रयोजकावित्यभिप्रायेण तुल्यशब्दः प्रयुक्तः । विशिष्टस्य हेतुत्वे विशेषणांशस्यापि हेतुत्वात् तुल्यशब्देनैकदेशोपादानम् । दुष्टकारणजन्यत्वतदभावविशेषणीभूतं तुल्यत्वं विवक्षितम् । तुल्यत्वे सति विपरीत प्राबल्यदौर्बल्यकारणाभावे सति दुष्टकारणजन्यत्व- तदभावौ न प्रयोजकावित्यर्थः । सापेक्षत्वं निरपेक्षत्वं मूलमूलिभावः । आदिशब्देन परोक्षापरोक्षभावविलम्बाविलम्बा विवक्षिताः । श्रुतिलिङ्गादिषु विलम्बाविलम्बाभ्यां हि प्राबल्यदौर्बल्ये । यद्वा अप्रयोजकत्वेनोक्तं तुल्यत्वं दृष्टान्ततयानूदितम् । वैषम्यान्तरा- भावे सति दुष्टकारणजन्यत्वतदभावावप्यादिशब्देन विवक्षितौ । एतेषामप्रयोजकत्वमेकेन दृष्टान्तेनोपपादयति —ज्वालेति । ’ अन्यथा’ इत्यध्याहर्तव्यम् । प्रन्यक्षोपमदयो- गादिति ; अयोगप्रसङ्गादित्यर्थः । ज्वालाभेदानुमाने हि मूलमूलिभावोऽस्ति ; विलम्बा- विलम्बौ च प्रत्यक्षसापेक्षत्वादनुमानस्य । तुल्यत्वे सति दुष्टकारणजन्यत्वतदभावयोः प्रयोजकत्वमप्यनेन व्युदस्तं भवति ; तद्राहित्येऽपि बाध्यबाधकभावदर्शनात् । तत्र किंविषयं प्रत्यक्ष बाध्यमित्यत्राह – तत्र हीति ; ऐक्यग्राहि प्रत्यक्षं बाध्यमित्यर्थः । तर्हि किं प्रयोजकमित्यत्राह — एवं चेति ; तुल्यत्वादीनां प्रयोजकत्वेऽनुपपन्ने सति । द्वयोरिति ; प्रत्यक्षयोः, अनुमानयो:, आगमयोः, प्रत्यक्षानुमानयोः, अनुमानागमयोः प्रत्यक्षागमयोर्वेत्यर्थः । यत्संभाव्यमानान्यथासिद्धीति ; सावकाशत्वादन्यथासिद्ध- मित्यर्थः, अनन्तरमनन्यथासिद्धमनवकाशमित्युक्तेः । विषयान्तरलाभोऽप्रमाणकोटिनिवेशो


CC-0 No Rights Reserved. Digitized by eGangotriS (१–१–१) श्रुतप्रकाशिका ४८३ वा सावकाशत्वम् । तेन स्वोपस्थापितार्थविषयप्रामाण्यं विनापि संभावितोदयत्वमन्यथा- सिद्धत्वम् ; विरुद्धार्थप्रमाणाबाधेनापि संभवदुदयत्वमिति यावत् । अनन्यथासिद्धमनव- काशमिति ; अनन्यथासिद्धत्वं नाम तदर्थप्रमाणतां विनानुदयत्वम् विरुद्धार्थप्रमाणा- बाधेनानुदयत्वमिति यावत् । तच्चानवकाशत्वात् । अनवकाशत्वं नाम विषयान्तराला- भोऽप्रमाण कोटिनिवेशाभावो वा । अप्रमाणकोट्यनन्तर्भावविषयान्तरालाभाभ्यां विरुद्धा- र्थोपस्थापक प्रमाणाबाधेनानुदयत्वमित्यर्थः । इति सर्वत्र ; उक्तप्रकारेण संजातीययोर्वि- जातीययोर्वा प्रमाणयोर्विरोध इत्यर्थः । एवं बाध्यबाधकभावे प्रयोजकमस्तु ; ततः किं प्रस्तुतशास्त्रप्राबल्यस्येत्यत्राह — तस्मादिति । तस्मात् ; अन्यथासिद्धत्वानन्यथासिद्धत्व- योरेव ’ बाध्यबाधकभावे प्रयोजकत्वात् । अनादिनिधनाविच्छिन्न संप्रदायेति ; अविच्छि- न्नसंप्रदायत्वादनादिनिधनम् । संप्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वं ह्यपौरुषेयत्व- साधकम् । । " अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रसूतयः ॥ " 99 " अनादिनिधनं ब्रह्म इत्यादिवचनानि चानादिनिधनशब्देन स्मारितानि । अत एवासंभाव्यमानदोषगन्धम् ; पौरुषेयत्वप्रयुक्तं हि भ्रमविप्रलिप्साप्रमादाशक्तिरूप- दोषचतुष्टयवत्त्वम् । अत एवानवकाशम् । शास्त्रजन्यशब्दस्यावबोधशब्देनान्वयः । बाध्य- बाधकभावाङ्गीकारस्य विरोधसापेक्षत्वाद्विरोधं दर्शयति - निर्विशेषेत्यादिना । नित्यम् ; कालापरिच्छिन्नम् । शुद्धम् ; अविद्यारहितम् । अत एव मुक्तशब्दोऽविद्याकृतजन्मादि- राहित्यपरः । बुद्धम् ; भासमानम् । स्वप्रकाशशब्दः पूर्वं बुद्धशब्दोक्तभासमानत्वस्य पराधीनत्वव्युदासार्थः । स्वयमेव प्रकाशस्वभावत्वं स्वप्रकाशत्वम् । तच्च चिन्मात्रशब्द- - वाच्यत्वात् । स्वयंप्रकाशत्वं हि चित्त्वम् । चित्स्वरूपत्वं च श्रुतिसिद्धम् । मात्रशब्दो ज्ञेयत्वव्युदासपरः । ब्रह्मात्मभावावबोधेन, एवंभूतस्य ब्रह्मणः स्वस्य चैक्यावबोधेनेत्यर्थः । संभाव्यमानेति ; संभाव्यमानदोषत्वात् सावकाशम्, अप्रमाणकोटौ लब्धनिवेशम् । अत एवान्यथासिद्धत्वमपि फलितम् । अन्यथासिद्धत्वं विपरीतप्रमाणमबाधित्वाप्युदय- संभवः । प्रत्यक्षादीति ; आदिशब्दादनुमानादिकमुच्यते । विविधेति ; देवादिरूपेण -स्वकार्य जन्म जरामरणादिरूपेण च विविधो ज्ञातृज्ञेयादिविकल्पः, स एव बन्धः, तन्नि-

४८४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) वृत्तिरित्यर्थः । संभाव्यमानदोषश्च क इत्यत्राह — संभाव्यते चेति ; भेदप्रपञ्चो भेदसमु- दायः । यद्वा, भेदरूपः प्रपञ्चः । विविधविकल्पशब्दः प्रपञ्चविशेषणं भेदविशेषणं वा । भेदो ज्ञातृज्ञेयादिः, स च ब्राह्मणादिरूपेण विविधः, देवमनुष्यादिरूपेण विकल्पवान् । अर्वा- चीनाः केचित्काचतिमिरादिकं दोषमाचक्षते ; तदयुक्तम्, तस्य क्वाचित्कत्वात् । काचा- दिदुष्टं प्रत्यक्षं सपक्षीकृत्य व्यतिरिक्तस्य काचादिदुष्टत्वमनुमीयत इति चेत् — न; अति- प्रसङ्गात् । अनादिनिधनत्वेन यच्छास्त्रमुक्तं तस्यापि शब्दत्वादिना दुष्टकर्तृकत्वानु- मानं हि सुशकम् । तत्र कर्ता योग्यानुपलम्भनिरस्त इति चेत्, तदत्रापि तुल्यमिति काचादेर्दोषत्वकल्पनानुपपत्त्या तव्यावृत्त्यर्थमाह - अनादीत्यादिना । भेदवासनादिरूपा ; आदिशब्देन भेदवासना हेतुभूतं भेददर्शनं विवक्षितम् । अनयोर्हेतुहेतुमद्भावेनान्योन्याश्रय- परिहारायानादिशब्दः । बीजाङ्कुरन्यायादिति भावः । भेददर्शन भदवासना च हि कार्या- विद्या | " आदित्यो यूपः " इत्यादिषु अत उक्तम् - भेदवासनादिरूपाविद्येति । यूपादित्यैक्याद्यप्रतिपादनं न प्रत्यक्षविरोधात्; किं त्वन्यपरत्वात् । 66 " यत्परः शब्दः स शब्दार्थः " इति हि न्यायविदः । अन्यपरत्वं च तात्पर्यलिङ्गाभावादवगम्यते । 66 3 आदित्यो यूपः " इति वाक्यं यूपाञ्जनविधिशेषत्वादन्यपरमिति परस्याभिप्रायः । भावप्रकाशिका नात्र बहुवचने तात्पर्यमिति येन तद्बहुत्वं प्रामाणिकं स्यादिति भावः । अदितिः पाशानिति ; अम्नीषोमीयपशौ " अदितिः पाशान् प्रमुमोक्तु” इति बहुवच - नान्तपाशशब्दयुक्तमन्त्रः श्रूयते । स किं पशुगणेषूत्कृप्यते, उत प्रकृतावेव निविशत इति विशये, एकस्मिन् पाशे बहुवचनस्यान्याय्यत्वात् बहुपाशवत्सु पशुगणेषूत्कृप्यत इति प्राप् प्रकृत्यर्थस्य पाशस्य विभक्त्यर्थस्य कर्मणश्चाग्नीषोमीय एव संभवादप्रधानभूतसंख्यानुरोधेनो- त्कर्षासंभवात्पाशसंख्या अविवक्षिता; अतो निर्देशमात्रार्थं बहुवचनमिति " विप्रतिपत्तौ विकल्पः स्यात्समत्वात् गुणे त्वन्याय्यकल्पनैकदेशत्वात् " इति नवमे व्यवस्थापितमित्यर्थः प्रकृतिरुच्यत इति शङ्कायामिति ; सांख्यमतप्रत्यभिज्ञानादिति भावः । मायां तु प्रकृतिं विद्यादिति ; मायां सदसद्विलक्षणामविद्यां प्रकृतिमुपादानं विद्यादित्यर्थः । " प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्" इत्यादौ प्रकृतिशब्दस्योपादानार्थत्वदर्शनात् परैरपि तथा व्याख्यातत्वाच्चेति द्रष्टव्यम्ः। केचित्तु प्रकृति मायां मिथ्याभूतां विद्यादित्यर्थ इत्यप्युद्देश्यो "

(8 – १ – १) – भावप्रकाशिका 66 ४८५ " पादेयभावं वर्णयन्ति । दोषप्रतिपादनतत्पराणामिति ; निर्विशेषस्यापि ब्रह्मणः प्रपञ्चाधि- ष्ठानत्वं दोषवशादिति वक्तुं प्रवृत्तानाम् “इन्द्रो मायाभिः " इत्यादीनां न भेदप्रतिपादने तत्परत्वं संभवतीति भावः । सहपठितस्वगतनानात्वमिति ; तथा हि. सति सजातीय- विजातीययोः संग्रहो न स्यादिति भावः । उपपाद्यप्रमेयाधिक्याभावादिति ; जगदुप- लब्धिमिथ्यात्वोपपादकप्रकारभेदे सत्यप्युपपादनीयांशभेदाभावादित्यर्थः । अभयम् ; अभयार्थमिति ; अर्थाभावे “ अव्ययम्" इति समासः । ततश्चतुर्थ्याः “ नाव्ययीभावात् ’ इत्यम्भावे रूपम् । यथोपासनं होति ; यद्यपि मृषावादिमते ब्रह्मज्ञानं नोपासनात्मकं, तथापि तुल्यन्यायतया यथाज्ञानं फलमित्येवंपरं तदिति द्रष्टव्यम् । तद्धेतुभूताविद्येति; मौहहेतुभूतयथावदप्रतिपत्तिलक्षणानवधानरूपेत्यर्थः । ऐक्यविषयतां ज्ञापयितुमिति ; पारमार्थिकैक्यविषयतां दर्शयितुमित्यर्थः । ततश्च " आत्मेत्येवोपासीत इत्युपास- ‘नविधिवाक्यनिर्दिष्टमैक्यं स्वरूपोपदेशपरवाक्यप्रमितत्वात् पारमार्थिकमिति भावः । उप- देशानुगुणमुपासको देवतां प्रत्याहेति ; " तत्त्वमसि इति छान्दोग्यवाक्य- गतस्यैक्यप्रतिपादनपरत्वादेव 66 " " त्वं वा अहमस्मि भगवो देवते" इति जाबाल- वाक्यं " तद्योऽहं सोऽसौ ” इत्यैतरेयवाक्यमपि तदनुगुणं दृश्यत इति भावः; न तु " तत्त्वमसि " इत्युपदेशानन्तरं " त्वं वा अहमस्मि " इति देवतां प्रति प्रतिवचन- मिति मन्तव्यम्, उभयोर्भिन्नप्रकरणस्थत्वात् । आत्मेत्युपासीतेति ; आत्मेति प्रति- पद्येतेत्यर्थः । अत एव हि शांकरभाष्ये " आत्मेति प्रतिपत्तव्यः इत्युक्तम्, तस्य सूत्रस्य मृषावादिमते वास्तवात्मत्वसमर्थनपरत्वेन ‘आत्मेत्युपासीत’ इत्यात्मत्वेनोपासन- समर्थनपरत्वाभावात् । केचित्तु वस्तुत आत्मानमेव आत्मेत्युपासीतेत्यर्थः ; ततश्च वास्त- वात्मत्वसमर्थनद्वारा आत्मोपासनस्य प्रतीकोपासनत्वव्यवच्छेदश्च सिध्यति, तस्य सूत्रस्य वास्तवात्मत्वसमर्थनद्वारा प्रतीकोपासनत्वव्यवच्छेद परत्वादित्याहुः । ’ ननु च सकलभेद- निवृत्तिः प्रत्यक्षविरुद्धा’ इति भाष्यस्यायमर्थः - सकलभेदाभावः प्रत्यक्षविरुद्धः शास्त्रजन्य - ज्ञानेन कथं विषयीक्रियेत ? कथं शास्त्रप्रतिपाद्यः स्यादिति । एवमुत्तरत्रापि द्रष्टव्यम् । दुष्टकारणजन्यत्वतदभावौ बाध्यबाधकभावे प्रयोजकाविति शङ्कायामिति: अय- मर्थ :– क्वचिन्मूलमूलिभावः, क्वचित्परोक्षत्वादिः क्वचिद्विपरीतप्राबल्य हेतुराहित्य- लक्षणतुल्यत्वे सति दुष्टकारणजन्यत्वतदभावावित्यर्थः । उत्तरत्र सर्वेषां प्रयोजकानां

४८६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) निरसिष्यमाणत्वात् तुल्यत्वे सति दुष्टकारणजन्यत्वदभावयोर्वाध्यबाधकभावप्रयोजकत्वे शङ्किते तुल्यत्वस्य प्रयोजकत्वनिराकरणमनुचितमित्याशङ्क्य व्याचष्टे – तुल्यत्वे सति दुष्टकारणेत्यादि । तुल्यशब्दः प्रयुक्त इति ; तुल्यशब्दः प्रयुक्त इत्यर्थः । तुल्यशब्देनैकदेशेोपादानमिति ; तुल्यत्वस्यापि हेतुत्वप्रसक्तिसद्भावेन तन्निषेधार्थं तुल्य- स्वशब्देन विशेषणांशोपादानं युज्यत इत्यर्थः । तुल्यत्वे सतीत्यस्य विवरण विपरीत- प्राबल्यदौर्बल्य कारणाभावे सतीति । तुल्यत्वशब्देन विशेषणवाचिना विशिष्टोपस्थानं क्लिष्टमित्यस्वरसादाह – यद्वा अप्रयोजकत्वेनेति । तुल्यत्वं दृष्टान्ततयानूदितमिति ; केवलतुल्यत्वमित्यर्थः । तर्हि प्राधान्येन शङ्कितस्य तुल्यत्वे सति दुष्टकारणजन्यत्वतद- भावरूपप्रयोजकस्यात्रानुपादानात् तस्याप्रयोजकत्वं न प्रतिपादितं स्यादित्यशङ्क्य, आदिशब्देन तदुपादानमित्याह वैपम्यान्तराभावे सतीति । विविधविकल्पशब्दः प्रपञ्चविशेषणं भेदविशेषणं वेति ; षष्ठीसमासपक्षे प्रपञ्चविशेषणं, कर्मधारये तु भेदवि - शेषणमिति भावः । कार्याविद्येति ; उक्तं हि वाचस्पतिना आद्यपद्ये - अनिर्वाच्या- विद्याद्वितयसचिवस्य” इति । तद्व्याख्याने च वक्ष्यते ; अन्या च पूर्वपूर्वविभ्रमसंस्कारः " इति । " एकानादिर्भावरूपा देवताधिकरणे शंकरभाष्ये च " एवमविरुद्धः प्रत्य- गात्मन्यनात्माध्यासः, तमेवंलक्षणमध्यासं पण्डित्ता अविद्येति मन्यन्ते " इति भेददर्शन- स्याविद्यात्वमाविष्कृतम् । अन्यपरमिति परस्याभिप्राय इति; अन्यपरम्, अतो न प्रत्यक्षबाधकमिति परस्याभिप्राय इत्यर्थः । श्रुतप्रदीपिका एवंविधाविद्यायां मानमाह – अनृतेनेति । प्रत्यूढाः ; प्रतिबद्धाः । प्रत्यूढशब्द- विवरणायाह — तेषामिति । बहुवचनम् " अदितिः पाशान् ” इतिवत् । नासदासीत् इत्यनिर्वाच्यत्वम् । तमो हि सूक्ष्मावस्था प्रकृतिः, न तु मिथ्यारूपाविद्येत्यत्राह मायाँ त्विति- बहुभ्रम हेतुत्वमाह – इन्द्र इति । धिया विना दुर्निरसत्वमाह — ममेति । अनादित्वमाह-अनादीति । आदिशब्दः प्रागुक्तस्वरूप परश्रुतिस्मृतिगणपरः । इन्द्र- महेश्वरादिशब्दैः सविशेषत्वशङ्कां व्युदस्यन् वाक्यानामर्थमाह - निर्विशेषेति ! स्वरूप- परवाक्यैकार्थ्यात् दोषपरवाक्येष्वपि निर्विशेषं वस्तु दोषाश्रयतया विवक्षितमित्यर्थः । स्वगतेति ; अधिष्ठानभूतेन स्वेन संबद्धम् । अवगम्यते ; ’ यतः’ इति पूरणम् ।

(९–१–१) 1) श्रुतप्रदीपिका ४८७ 1 स्वरूपपरैरिव वाक्यैर्निर्विशेषं वस्तु दोषाश्रयतया दोषपरस्मृत्यापि ज्ञायत इत्याह- यथेति । वस्तुशब्दो वक्ष्यमाणदेवादिपरः । विविधं ज्ञायतेऽनेनेति विज्ञानमविद्या | भेददर्शनस्याज्ञान कार्यत्वं व्यतिरेकेण विवृणोति – यदेति । शुद्धं निजरूपि ; अविद्या- तत्कृतभेददर्शनरहितम् । समन्तात्कल्प्यन्ते भेदा अनेनेत्यविद्या संकल्पः । " अवि- द्यातरुसभूतिः” इति वक्ष्यते । वस्तुषु ; देवादिधमिंषु । देवाद्याकारभेदाः । " वस्त्वस्ति" इत्यादिश्लोकद्वयं सिद्धान्ते वक्ष्यते । विजातीयभेदनिषेधमुपसंहरतिः तस्मादिति । सजातीयभेदं निषेधति – विज्ञानमिति । स्वगतमपि निषेधति– ज्ञानमिति । विशुद्धं विमलम् ; अविद्याभेददृष्टिरहितम् । सदैकम् ; वृद्ध्यादिरहितम् । नेदं परमतमित्याह —सदिति । एतत् ज्ञानम् । भुवनाश्रितम् ; भुवनेनाधिष्ठानतया- श्रितम् । संव्यवहारभूतम् ; समन्तात् व्यवहारास्पदं वर्तत इति यत्, तत्र हेतुरविद्येत्युक्त `इत्यर्थः । ततः किं ज्ञानस्य कर्मनैरपेक्ष्य इत्यत्राह - - अस्याश्चेति । अज्ञाननिवृत्ति दर्शयितुं न पुनरिति वाक्यमुपात्तम् । ज्ञानस्यैक्यविषयत्वाय तदेकमिति । तथा सत्यभयप्राप्त्यै - यदेति । आत्म्यं शरीरम् । अनिरुक्ते ; अनिर्वचनीये । अभयम् ; भयाभावाय : अव्ययीभावसमासः । बन्धकत्वेन पराभिमतस्यापि ज्ञाननिवर्त्यत्वायाह – भिद्यत इति अत्र भेदप्रतीतिव्युदासायाह — ब्रह्मेति । उपायान्तरं निषेधति – तमेवेति । नात्राज्ञान- निवृत्तिः प्रतीतेत्यत्राह – अत्रोत । कथमित्यत्राह - - यथेति । प्रमादमित्यनवधानम् ; तद्धेतुरविद्येत्यर्थः । एषु वाक्येषु निर्विशेषब्रह्मात्मैक्यविषयत्वं नावगतमित्यत्राह- सत्यमिति । निर्विशेषत्वं शोधकसिद्धम् । तेनात्मन ऐक्यं श्रावयति - अथ योऽन्या- मिति । भेदधीर्निषिद्धा । अथोपदेशं दर्शयति - तत्त्वमिति । तथा देवतां प्रत्याह– त्वं वेति । स्वस्मिन्ननुसन्धत्ते —तद्योऽहमिति । अस्य सौत्रतामाह - आत्मेति । तदभिप्रायज्ञोक्तिमाह— तथा चेति । तन्निष्पत्तेः; तस्मिन् कल्पितत्वात् । मानानु- ग्राहकं तर्क दर्शयति–अनेनेति । मिथ्यारूपस्येति हेतुगर्भम् । सकारणस्य ; साविद्यस्य । सर्पभ्रमो हि रज्जुज्ञानेन निवर्त्यं न कर्मणेति भावः । चोदयति — ननु चेति । द्विचन्द्रस्वप्नादिव्युदासाय सकलशब्दः । अनुमानागमयोर्व्याप्तिग्रहणलिङ्गधर्मधी- व्युत्पत्त्यर्थं प्रत्यक्षसापेक्षत्वादग्न्यनुष्णत्व हेतुद्रव्यत्ववत् यूपादित्यैक्यवाक्यवत् तद्विरुद्धं श्रुतिर्न बोधयेदिति भावः एतत्परिहरन् किं प्रत्यक्षस्य बाध्यत्वं न संभवतीति मनुषे, CC-0 No Rights Reserved. Digitized by eGangotri४८८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) ; उत परोक्षस्य बाधकत्वं न संभवतीति विकल्पं हृदि निधाय प्रथमं शिरः प्रतिवक्ति- कथं वेति । प्रत्यक्षाभासत्वं न प्रतीतिदशायां ज्ञातम् ; पश्चाद्वाधस्तुल्य इति भावः । परोक्षस्य मूलिनो न बाधकत्वमिति शङ्कते – तत्रेति । तुल्यत्वव्यावृत्तये तुशब्दः । मूलि - त्वपरोक्षत्वाभिप्रायेण प्रत्यक्षमूलत्य शास्त्रस्येत्युक्तम् । तुल्यत्वे तुल्यत्वे विपर्ययोऽपि स्यादिति प्रायोजकान्तरमभ्युपगमयितुमाह– तुल्ययोरिति । तत्र परोक्तं शङ्कते - पूर्वोत्तरयोरिति । तदत्रापि तुल्यमित्याह — शास्त्रेति । मूलमूलिभावाद्यभावविशेषितौ दुष्टहेतु जत्वतदभावौ तयोः प्रयोजकावित्यत आह- एतदुक्तमिति । तुल्यत्वति तुल्यत्वे सति दुष्टकारणजन्यत्वतदभावावित्यर्थः । आदिशब्दात् परोक्षापरोक्षत्वं पूर्वोत्तरत्वं त विवक्षितम् । कुत इत्यत आह – ज्वालेति । अन्यथेत्यध्याहर्तव्यम् । अयोगात् ; अयोगप्रसङ्गादित्यर्थः । किंविषयं प्रत्यक्ष बाध्यत इत्यत्राह — तत्र हीति । किं प्रयोजक- मित्यत्राह — एवं चेति । त्वदुक्तेऽनुपपन्ने सतीत्यर्थः । द्वयोः प्रमाणयोरिति ; द्वयोः प्रत्यक्षयोः प्रत्यक्षागमयोः अनुमानयोः अनुमानागमयोर्वेत्यर्थः । अनन्यथासिद्धत्वं विरुद्ध- विषयमानाबाधेनानुदयत्वम्। तच्च विषयान्तराला भाप्रमाण कोटिनिवेशाभावरूपाद नवकाश- त्वात् । सर्वत्र ; प्रत्यक्षादिषु सजातीययोर्विजातीययोर्वा द्वयोरित्यर्थः । इत्येतदुक्तमित्य- न्वयः । ततः किं शास्त्रप्राबल्यस्येत्यत आह — तस्मादिति । अनादीत्यादिना “अनादि निधना ह्येषा इति स्मृतिरपौरुषेयत्वसाधकलिङ्गं च स्मारितम् । यतो दोषसंभावना ततोऽप्रमाण कोटिनिवेशः । अर्थविरोधं दर्शयति — निर्विशेषेति । शुद्धिरविद्या विरहः । ततो मुक्तम् ; अविद्याकार्यबन्धरहितम् । बुद्धम् ; भासमानम् । तच्च स्वतः ; तच्च चिद्रूपतया श्रुतत्वादिति पदार्थः । विविधविकल्परूपो बन्धः । कश्च दोष इत्यत्राह संभाव्यते चेति । भेदप्रपञ्चः ; भेदसमुदायो ज्ञात्रादिः । स च देवादिरूपेण विविधः ; स च ब्राह्मणादिरूपेण विकल्पवानिति विविधविकल्पभेदरूपः । आदिशब्देन भेददर्शन- मुक्तम् । तयोरन्योन्याश्रयव्युदासायानादिशब्दः । बीजाङ्कुरवत् प्रवाहानादिः । काचादि- व्युदासायाविद्याख्यशब्दः । काचित्केन काचादिना सर्वत्र दोषानुमाने वाक्यत्वात् वेदेऽपि प्रसजेत् । योग्यानुपलब्धिस्तु तुल्येति भावः । आदिशब्दः कारणाविद्याविषयो वा । "

(१ – १ – १) तत्त्वटीका ४८९ 8 ॰तस्याः स्वरूपं परब्रह्मदोषत्वं तत्फलं च श्रुत्यैव स्थापयति—अनृतेनेति ; प्रत्यूढा: ; प्रतीपं प्रापिताः ; प्रतिरुद्धा इत्यर्थः । तरङ्गचन्द्रवत्कल्पितजीवभेदविवक्षया बहुवचनम्, पाशवदविवक्षितार्थं वा ; " एतं ब्रह्मलोकं न विन्दन्ति’ دو इत्यत्र प्रत्यूढत्वं हेतुः । इदं पूर्ववाक्योक्तेन विवृणोति तेषामिति । " त इमे सत्याः कामा अनृतापि - धानाः इत्युक्तानां तत्तत्कामोपाधिप्रतियोगिभूतकल्पितार्थव्यावृत्तिरूपाणां ब्रह्मस्वभावानां तदभिन्नतया प्रामाणिकानां सतां मिथ्याभूतमज्ञानमाच्छादकमित्यर्थः । व्यावर्त्यभेदेन व्यावृत्तिभेदकल्पनयात्र बहुत्वोक्तिः । पूर्ववत्पाशन्यायेन वेति केचित् । अविद्याया अनि- वच्यत्वं दर्शयति – नासदासीदिति । नात्र निषेधमात्रे पर्यवसानम् ; उभयनिषेधेन “तम आसीत्” इति विहितमुभयविलक्षणमेव हि स्यादिति भावः । केचिदाहुः - 66 बन्धमूलम- ज्ञानं कर्मरूपं प्रवाहानादि ; भ्रान्तिज्ञानमूलं त्वज्ञानमिन्द्रियादिदोषोऽधिष्ठानयाथात्म्यज्ञान- प्रागभावश्च । एतत्सर्वं तत्कार्याणि च सदसद्विलक्षणानि । सर्वमूलाविद्या तु पञ्चमाकारा ; तन्निवृत्तिर्हि ’ पञ्चमप्रकारा " इति । तमः शब्देन ज्ञानविरोधित्वं तिरोधायकत्वं च व्यज्यते । तमसा गूढम् ; अज्ञानेनावृतम् । अत्र प्रकेतमिति विशेष्यं ब्रह्म । ननु सुबालश्रुतौ तमः शब्देनातिसूक्ष्मा मूलप्रकृतिरुच्यते, न त्वदिष्टाविद्येत्यत्र प्रकृतेर्मायात्वेन मिथ्या- त्वमीश्वरस्यापि मायाकल्पितत्वं श्रुतमित्याह – मायां त्विति । प्रकृतिं मायां विद्यादिति विपर्यस्यान्वयः । एकस्य सतो मायामरीचिकावीचिकाभिर्विविधत्वेन मानमाह – इन्द्रो मायाभिरिति । अत्र इन्द्रः सर्वहगीश्वरः ; ; " रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय " इति पूर्ववाक्यस्वारस्यात् । " स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिति तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण इत्युपनिषदैव तद्विषयत्वेन निरुक्तेश्चेति भावः । " ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति ” इत्युक्तैक्यज्ञानमन्तरेणास्या मायाया दुस्तरत्वं गीतमित्याह - मम मायेति । तदनादित्वं तया तिरोधानं कदाचित्तन्निवृत्तिश्च स्मयंत इत्याह- अनादीति | आदिशब्देन " अविद्यया मृत्युं तीर्त्वा " " भूयश्चान्ते विश्व- “न सन्नासन्न सदसन्नानिर्वाच्योऽपि तत्क्षयः । ५. 62 " यक्षानुरूपो हि बलिरित्याचार्या व्यचीचरन् ॥ " इति न्यायमकरन्दे आनन्दबोधाचार्याः ।

४९० मायानिवृत्तिः دو 66 श्रीभाष्यम् गुणमायासमावृतः ” यन्त्रारूढानि मायया 66 دو ( जिज्ञासाधिकरणम् )★ इत्यादिसंग्रह : ; स्वरूप- विधिवाक्यसिद्धशुद्धाकारानुरोधेन दोषविधिपरेषु महेश्वरादिशब्दा बहुवचनं च मायोंपश्लिष्ट- विषयतया न विविधभेदसत्यत्वं स्थापयितुं क्षमन्त इत्यभिप्रायेणानुदाहृतानेकवाक्यसंकलि- तार्थस्य निर्विशेषत्वादेरनूक्तिः । " तदैक्षत बहुस्याम् " एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" इत्यादि प्रमाणं सर्वार्थानां च सच्चिदनुवेधेन भानं चानुसरन् शुक्ति- रूप्यादिवद्रमस्य विषयाश्रयभेदशङ्कां च व्युदस्यति – स्वगतनानात्वमिति । स्वा – ध्यस्तं चिदचिद्भेदं वृत्तिसंभेदेन स्मृतित्वमनुभवत्वादिधर्मभेदं चेत्यर्थः । दोषविषय- तयोदाहृतश्रुतीनां महेश्वरादिशब्दैरन्यपरत्वशङ्कां निवारयितुं श्रुतितदर्थापत्तिसिद्धमर्थं निर्विशेषवस्तुदोषविषयोपबृंहणेन व्यनक्ति — यथोक्तमिति । निर्विशेषोऽपि भगवा- 66 66 ; नित्युपचारः । अशेषमूर्तिः; सर्वत्वेन भ्रान्तिसिद्ध इत्याशयः । न तु वस्तुभूतः ; " पुमान्न देवो न नरो न पशुर्न च पादपः चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिब- न्धनः” इत्यादिवादान्न देवादिजडवस्तुरूपः । यद्वा न वक्ष्यमाणशैलादिकृत्स्नजगद्वस्तुरूपः । अत्र स्वरूपसाक्षिवृत्तिज्ञानानां प्रपञ्चरूपविकृतयोगात् विज्ञानशब्दो विविधं ज्ञायतेऽनेनेत्य- विद्याविषयः । विजृम्भितानि ; अध्यस्तानीत्यर्थः । भेदस्य दोषकल्पितत्वं व्यतिरेकेण द्रढयति – यदेति । शुद्धम् ; अविद्यामुक्तम् । निजरूपि तन्मूलभेददृष्टिशून्यम् । तत एव सर्वकर्मक्षयेऽपास्तदोषम् ; कर्मसाध्यक्लेशादिरहितम् । संकल्प इहाविद्या | “ अविद्यातरुंसंभूतिस्थानतो दर्शनात् " " विज्ञानविजृम्भितानि” इत्युक्तस्यैव चात्र परामर्शात् ; समन्ताद् ब्रह्मणकीकृत्य वा कल्प्यन्तेऽनेन भेदा इति व्युत्पत्तिसंभवाच्च । वस्तुषु वस्तुभेदाः ; वस्तुत्वेन पृथग्भूतेषु देवादिपिण्डेषु कल्पितेषु जीवेषु वा तद्वद्वाता देवत्वादयो देवादिपिण्डाश्च न भवन्ति ; देवादिप्रतिभासो न स्यादित्याशयः । उक्तप्रदर्श- नमात्रार्थतया “ वस्त्वस्ति ” इत्यादिश्लोकद्वयमत्र नोपात्तम् । श्लोकचतुष्टयोक्तं विजातीय- भेदाभावं निगमयति — तस्मादिति । ज्ञानमात्रात्मनि यथादर्शनं तत्तद्वादिभिरुक्तः सजा- तीयभेदोऽपि भ्रान्तिसिद्धतया मिथ्याभूत इत्याह - विज्ञानमिति । विज्ञानशब्दाविह स्वप्रकाशानन्दरूपविलक्षणज्ञानपरौ ; तथापि निरसनीयत्वेनाभिमताः स्वगता भेदा दुस्त्यजा इत्यत्राह - ज्ञानमिति । विशुद्धम् ; अविद्योज्झितम् । अत एव विमलम् ; भेददृष्टि- तन्मूलकर्मरहितम् । विशोकम् ; कर्माभावादेव तत्फलभूतशोकमोहादिशून्यम् । एक- "

  • (१ – १ – १ ) तत्त्वटीका — 66 ४९१ मिति पूर्वोक्तात्मानुवादः । सदैकम् ; सर्वदानाघ्रातविकारषट्कम् । ईदृशस्योत्पत्त्यादि- कमप्यन्तःकरणवृत्तिसंभेदादध्यस्तम् । मिथ्यात्वादेवात्र वृद्धिह्रासादिकं निषिध्यते । स्फटिकरागकल्पस्याविद्यादेरवस्तुत्वेऽपि स्वामसर्पादिनीत्या निराचिकीर्षादिकमपि न विरु- द्धमिति भावः । परमः परेश इत्यादिना सामानाधिकरण्येन जीवेश्वरभेदस्यापि कल्पित- त्वोक्तिः । किमसौ दुरारोहः पूर्वपक्ष इत्यत्राह – सद्भाव इति । भेददृष्टेरविद्याजन्य- त्वशङ्काया निःशेषोन्मूलनाय निगमयति – एतदिति । एतत् — ज्ञानमात्रस्वरूपंः ब्रह्म स्वाप्नप्रपञ्चकल्पेन भुवनेनाधिष्ठानतयाश्रितम् । संव्यवहारभूतम् ; समन्तादेकीकृत्य वा - व्यवहारकर्मभूतमिति यावत् ; तत्रापि कारणमविद्येति चोक्तमित्यर्थः । चकारः " सद्भाव उक्तः " इत्यनेन भ्रमहेतूक्तेः समुच्चयार्थः । एवं वा योजना – संव्यवहारभूतं भुवनको- - शादिकं तत्राप्येतदेवाध्यासतो भुवनाश्रितं " ज्योतींषि विष्णुः " इत्यादिना तथोक्तमिति । यद्वा – एतत्तु भुवनगतं संव्यवहारभूतं संव्यवहारेण प्राप्तं व्यावहारिकं सत्यत्वं यत्, - तत्राप्यध्यास एव कारणमुक्तमिति । तथा च परेष्टानुवादे भाषिष्यते- तस्य भुवनादेः सत्यत्वं व्यावहारिकमिति तत्त्वं तवोपदिष्टम् " इति । चस्त्वर्थः । एतावता प्रकृते किमायातमित्यत्र मुक्त्युपायस्य कर्मनैरपेक्ष्यं सिद्धपरवाक्यानुविधायिमोक्षो- पायपरवाक्यशक्त्या व्यनक्ति - अस्या इति ; अनिर्वाच्यत्वादिविशिष्टाया इत्यर्थः । तत एव ज्ञानमात्रनिवर्त्यत्वं ब्रह्मात्मैकत्वं महावाक्यार्थः । ऐक्यदर्शनमविद्यानिवर्त्तक- मित्याह – न पुनरिति । एकं पश्यतीति यत् ततो न पुनर्मृत्यव इति योजना य इति वाघ्याहारः । तदेकं पश्यतीत्यत्र कर्तृकर्मभेदव्युदासोऽप्यभिप्रेतः । शब्दजन्य- प्रत्यक्षाभिप्रायेण पश्यतीत्याद्युक्तिः । दृगधीनसिद्धेरविद्यायास्तत्कार्याणां रोगादीनामदर्श- नमत्र साध्यमित्याह — न पश्य इति । निर्विशेषात्मैक्यबुद्धिदाढर्यानन्तरमेव भूयनिवृत्त्या तत्कारणाविद्यानिवृत्तिसूचनमाह – यदा हीति । अदृश्ये ; दृक्कर्मत्वरहिते । अनात्म्ये ; अशरीरे ; आत्मना व्याप्यं हि शरीरमात्म्यम् । अनिरुक्ते ; अशब्दगोचरे । अनिलयने; अनाधारे । यद्वा निलीयतेऽस्मिन्नध्यस्तैरिति निलयनमविद्या, तद्रहिते । अभयमिति प्रतिष्ठाविशेषणम् ; लिङ्गव्यत्ययश्छान्दसः, क्रियाविशेषणं वा; अव्ययीभावेन भयाभावायेति वा; अथ सोऽभयं गत इति फलोक्तिसंवादात् । प्रतिष्ठाम् ; ऐक्यबुद्धया स्थितिमि- -त्यर्थः ः । बन्धकतया सिद्धान्तीष्ठानां सिद्धान्तीष्टानां कर्मपर्यन्तानामपि धीनिवर्त्यत्वेन भिय्यात्कं 4 • ;

४९२ 66 66 श्रीभाष्यम् " (जिज्ञासाधिकरणम्) 29 दर्शयति–भिद्यत इति । हृदयग्रन्थिः ; अविद्या । संशयादि तत्कार्यमिति सकार्या- विद्यानिवृत्तिरिहोक्ता । ननु " तादृगेव भवति " निरञ्जनः परमं साम्यमुपैति सोऽश्नुते सर्वान्कामान्सह । ब्रह्मणा विपश्चिता ” इत्यादिषु फलदशायां तादृक्त्वसाम्य- भेदोक्तिस्वारस्यात् “ पृथगात्मानम्" इत्युक्तेश्च भेदज्ञानमेव मुक्तिहेतुः स्यादित्यत्राह ब्रह्म वेदेति । अत्राविद्याकृतभेदनिवृत्तिरवधारणद्योत्या । न ह्यत्र तद्भूतस्यातद्भूतस्य वा तद्भावः साध्यः। कर्मसमुच्चयादिनिरासार्थमैक्यज्ञानेनाविद्यातरणव्यक्त्यर्थं चाह — तमेवेति । वेदाहमेतं पुरुषं महान्तम् ” इति सर्वलोकप्रत्यक्षसिद्धजीवैक्येन प्रकृतो ह्यत्र ‘तम्’ इति परामृश्यत इति भावः । इदं वाक्यद्वयं ज्ञानस्यैव साक्षान्मोक्षसाधनत्वाय प्रागुपात्तम् ; इह त्वविद्यानिवृत्त्यतिरिक्तसाध्यनिरासार्थम् । " नान्यः पन्थाः इति कर्मनिषेधपरम् । आदिशब्देन " ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् ” इत्यादि- संग्रहः । श्रुतय इति प्रकृत्या बहुवचनेन च श्रुतस्यैव ग्राह्यत्वं मिथःसंवादेन दाढ सूच्यते । उपात्तवाक्येष्वविद्यानिवृत्तिर्न भाति ; मृत्युशब्दस्त्वर्थान्तरेऽपि स्यादित्यत्राह– अत्रेति । मोक्षोपायवाक्येषु ज्ञाननिवर्त्यविषयत्वौचित्यादस्याविद्यात्वमिति भावः । प्रसि- द्धिविरोधिशङ्कां निरस्यति – यथेति । प्रमादः ; अनवधानता, अज्ञानम् । कार्येण वा कारणलक्षणा । अप्रमादम् ; अविद्यानिवृत्तिम् । यद्वा अत्रामृतत्वसाधनतयोक्तोऽप्रमाद- स्तत्त्वज्ञानम् ; तत्प्रतिपक्षः प्रमादोऽप्यत्राज्ञानमेव । अहं ब्रवीमीति तत्त्ववित्सिद्धान्त- ख्यापनपरम् । ब्रह्मणो निर्विशेषत्वं जीवतादात्म्यमैक्यज्ञानस्य मुक्तिहेतुत्वं च नैतेषु व्यक्तं भातीत्यत्र शोधकैर्निर्विशेषत्वमुपायपरवाक्यैस्तत्त्वनिर्देशैस्तदनुसन्धानपरैश्च वाक्यैर्जीवैक्यज्ञान- सिद्धिं चाह – सत्यमिति । त्वं वेत्यादिना देवतां प्रत्युक्तस्यैव तदर्थस्य तद्योऽहमि- त्यादिना स्वस्मिन्ननुसंधानं स्थापयति । उक्तस्य सूत्रकृदिष्टत्वमाह — वक्ष्यतीति । एतदेव ; न त्वदिष्टमिति भावः । आत्मेति ; स्वानन्यत्वेनेति यावत् । सूत्राभिप्रेतं तद्विदुक्त्या स्पष्टयति – तथेति । सर्वस्य तन्निष्पतेः; भातस्य सर्वस्य तस्मिन्न- ध्यस्तत्वादित्यर्थः; बाधावस्थायामधिष्ठानभूतब्रह्मात्मतया परिशिष्टत्वादिति भावः । अद्वैतधी- करणस्य वाक्यस्य सूत्रवाक्याभ्यां सूचितमनुग्राहकं वचः सन्मूला: " इत्यादिना प्रागु- क्तमेव चोद्योत्थापनायाह अनेनेति ; असत्यभेदबाधस्वरसेनेनि भावः । चः पूर्ववदु- भयार्थः । " द्वितीयाद्वै भयं भवति ” इत्यादिसूचनाय ब्रह्मात्मैकत्वोक्तिः । मिथ्या- । 2


66 CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) तत्त्वटीका 6 1 ४९३ भूतस्य ज्ञानेतरकर्मनिवर्त्यत्वे सत्यत्वं स्यात् ; तच्च मानविरुद्धम् ; न च रज्जुसर्पा- दिनिवृत्तौ मन्त्रौषधदण्डघाताद्यपेक्षेति भावः । अपुनरङ्कुरत्वाय सकारणत्वोक्तिः । आस्तामनुकूलस्तर्कः, प्रतिकूलस्तु सिद्ध इत्यभिप्रायेण चोदयति – ननु चेति । बाधकतयेष्टयोः शास्त्रानुमानयोः शब्दार्थस्वरूप तद्वयुत्पत्तीनां व्याप्तिधर्मलिङ्गादीनां च सिद्ध्यर्थमुपजीव्यं प्रत्यक्षं न ताभ्यां बाध्येत । अन्यथा आदित्यो यूपः, पावकोऽनुष्णः इत्यादेरपि प्रत्यक्षबाधकत्वं स्यात् । चन्द्रादिभेदबाधकस्य तु तन्नोपजीव्यमित्यभिप्रायेण सकलशब्दः । सकलभेदबाधे ह्युपजीव्यबाधोऽप्यन्तर्गतः । कथमिव ; न कथं चित् ; प्रत्यक्षविरुद्धं शास्त्रमेव बाधितमुख्यार्थं भाक्तं नेयमिति भावः । अत्र किं प्रत्यक्षत्वान्न बाध्यम्, उत परोक्षत्वान्मूलित्वाच्च न बाधकमिति शङ्काद्वये प्रथमं परिहरति — कथं वेति । प्रत्यक्षशब्द इहापरोक्षमात्रपरः ; बाधात्पूर्वमनाभासत्वाभिमानो बाधश्च प्रपञ्च रज्जु- सर्पभ्रमयोः सम इति भावः । मूलित्वादिना न शास्त्र बाधकमिति शङ्कते —तत्रेति प्रत्यक्षयोः; अपरोक्षयोरित्यर्थः । इदं च मूलमूलित्वरहितयोः प्रत्यक्षपरोक्षयोरप्युपलक्षणम् । अत एवेह दूष्यं निष्कृष्यानुवक्ति – इहेति । सकलभेदनिवृत्तावित्यर्थः । वैषम्यव्ययै तुशब्दः । प्रत्यक्षशब्दोऽत्र प्रत्यक्षप्रमाणविषयः । ’ द्वयोः प्रत्यक्षयोः’ इत्युक्तस्य तुल्य- बलत्वस्य बाधं प्रत्यप्रयोजकत्वात् अन्यथा प्रकरणसमेऽतिप्रसङ्गाद् विपरिवर्तप्रसङ्गाच्चान्य- त्प्रयोजकं शिक्षयितुमाह– तुल्ययोरिति । चोद्यत्रयनिवृत्त्यै सिद्धान्तीष्टं प्रयोजकं शङ्कते - पूर्वेति । पूर्वोत्तरयोरिति क्रमो न नियतः । उक्तं प्रयोजकमपि प्रस्तुते तावदस्तीत्याह- शास्त्रेति । शास्त्रशब्द इह तज्जन्मधीलक्षकः । धीद्वयविवेकार्थं विशेषविवक्षया वा तत्कार- णेऽन्वयोक्तिः । एतत् ; वैषम्यमित्यर्थः । ननु दुष्टहेतुजत्वस्य बाध्यता हेतुत्वमुपजीव्यत्वाद्य- भावेन तुल्यत्वे सति स्यात् ; उपजीव्यबाधे चाधर्मत्वसाधकहिंसाद्यपि प्रमाणं स्यादि- त्यत्राह — एतदुक्तमिति । तुल्यत्वोक्तिर्दृष्टान्तार्था । तद्विशिष्टं वा दुष्टहेतुजन्यत्वादिकं विवक्षितम् | आदिशब्देनोपक्रमापच्छेदाधिकरणोक्तनियतानियतपौर्वापर्यादेः परोक्षत्वादेश्व संग्रहः । अकारणम् ; अप्रयोजकम् ; अव्याप्तेरिति शेषः । उक्तमर्थमुदाहरणस्थेन तर्केण द्रढयति – ज्वालेति । कारणं चेदित्यध्याहार्यम् । अयोगादिति प्रसज्यमानोक्तिः । ननु प्रत्यक्ष वर्तमानग्राहितया ज्वालास्वरूपं गृह्णाति ; भिन्नसंतताविव सूक्ष्मदृशामेक- संततावपि ज्वालाभेदः प्रत्यक्षसिद्ध इत्यत्राह तत्रेति । प्रत्यक्षशब्द इह प्रत्यभिज्ञाख्य-

४९४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) विशेषविषयः । सा चात्र भ्रान्तिरूपा पटुतरदृष्टीनामपि पूर्वापरकालवयैक्यविषयात्यन्तसा- दृश्यसादेश्यादिभिर्जायत एव । अतो विरोधो बाधश्चात्र सिद्ध इति भावः । तर्हि प्रसिद्ध- स्याप्रयोजकत्वे प्रयोज्यं निष्कारणं स्यादित्यत्राह - - एवं च सतीति । चः शङ्कानि - वृत्त्यर्थः ससुच्चयार्थो वा; अव्याप्त्या च सह तर्कबाधे च सतीति यावत् । सजातीययो- विजातीययोर्वेति न निर्बन्ध इत्यभिप्रायेण द्वयोरित्युक्तम् । प्रमाणयोः; बलविमर्शात्पूर्वं मानत्वेन भातयोरित्यर्थः । विरोधे ; मिथो विषयापहाररूपे । अन्यथासिद्धिः; स्वविषय- सत्यत्वमन्तरेणापि स्वरूपलाभः । तत्र हेतुत्वेन सावकाशत्वमाक्रष्टव्यम् । तच्च द्विचन्द्रादि- धीवदप्रमाणकोटिनिवेशार्हत्वाद्वा पदाहवनीयादिनयेनाविरुद्धविषयलाभाद्वा स्यात् । अन- न्यथासिद्धम् स्वविषयमिथ्यात्वेऽनुपपन्नस्खरूपं विरुद्धमबाधित्वोत्पत्तुमर्हत्वाद्वा । तत्र हेतुः अनवकाशत्वम् ; तच्च पूर्वोक्तावकाशद्वयाभावसमुच्चयरूपम् । इतरत् ; अनादृतसाजा- त्यादिविशेषमिति भावः । सर्वत्र ; तुल्यातुल्योदाहरणेषु तार्तीयबाधस्थलेषु चेत्यर्थः । निर्णयः ; प्रमाणतर्कसिद्धोऽध्यवसायः । इतिशब्दः पूर्वो हेतौ, उत्तरः समाप्तौ । ’ समा- नमेतत्’ इत्यत्राभिप्रेतं शास्त्रप्राबल्यं विवृण्वन् ’ एतदुक्तम्’ इति प्रकान्तं निगमयति- तस्मादिति । अस्मदुक्तस्यैव प्रयोजकत्वादित्यर्थः । यद्यप्यविद्यानिवृत्तौ वेदोऽपि न स्यात् ; तथापि सर्गप्रलयकालेषूत्पत्तिनाशाभावात् अनादिनिधनत्वोक्तिः । तद्विषयैव " अनादि- निधना ह्येषा वागुत्सृष्टा स्वयंभुवा इति स्मृतिरिति भावः । अविच्छिन्नसंप्रदाय- त्वोक्त्या मन्वन्तरादिष्वविच्छेदेन विप्लवासंभवः सूच्यते । प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते” इत्येतदपि कालविशेषाद्यनुगुणशाखाविशेषप्रवर्तनपरम्; अन्यथा " ब्रह्म स्वयंभ्वभ्यानर्षत् ” इत्यादिभिर्विरोधात् ; स्मर्तव्यत्वे सत्यस्मर्यमाणकर्तृकत्वादित्यपौरुषेयत्व- साधकं चात्र सूचितम् । अत एव वक्तृदोषासंभवः । मन्वाद्याप्तवाक्यानां श्रुतिविरोधे कचिद्बाध इष्टः, न तथेत्यभिप्रायेण गन्धशब्दः । एवमप्रमाणकोटिनिवेशोऽपास्तः । विरुद्धविषयोऽपि नास्तीति व्यक्त्यै निर्विशेषत्वाद्युक्तिः । नित्यशब्दः शुद्धत्वादौ सर्वत्र योज्यः, अबाधपरो वा । शुद्धम् ; अविद्यासाक्षित्वावस्थायामपि वस्तुतस्तद्रहितम् । तेन बुद्धम् ; अतिरोहितनित्यप्रकाशम् । तत एव मुक्तम् ; सर्वदा कर्मतत्फलवियुक्तम् । स्वप्रकाशम् ; मिथ्यात्वप्रयोजकदृश्यत्वोज्झितम् । तत्र हेतुश्चिद्रूपत्वम् । अत्र निषेधक- । ज्ञानाश्रयत्वस्यापि मिथ्यात्वव्यत्तत्यै मात्र शब्दः । ब्रह्मात्मभाव: : ब्रह्मण एव प्रत्यगात्म- 99 66

. ० ( १ – १ – १ ) मूलभावप्रकाशिका ४९५ त्वम् । प्रत्यक्षस्य संभाव्यमानदोषत्वं प्राचुर्येणान्यत्र दोषदर्शनादन्यत्रापि दोषशङ्कार्हत्वम् । तत एवानुमानादेरपि शङ्कितदोषत्वाय आदिशब्दः । देवादिभेदैस्तदवान्तरैश्च बन्धस्य विविधविकल्परूपत्वम् ; विशेषतः कल्प्यत इति विकल्पः । एवकारः प्रतिकूलतर्का- संभवपरः । ननु काचाद्यभावान्निर्दोषत्वेन प्रसिद्धे प्रत्यक्षे दोषो दुर्वचः; तज्जातीये दोष- दृष्टयान्यत्रापि तत्क्लृप्तौ वेदे वाक्यत्वादिभिस्तथा कॢप्तिः स्यादित्यत्राह – संभाव्यत इति । चः शङ्कानिवृत्त्यर्थः, बाधकप्रत्ययेन सह कारणदोषनिश्चयस्य समुच्चयार्थो वा । भेदप्रपञ्चः निजकर्मभेदविभिन्नचित्तैरविद्याकल्पितश्चिदचिद्विस्तारः । प्रत्यक्षस्येति भेदग्राहकमात्रस्यो - पलक्षणम् | आदिशब्देन मूलाविद्यां भेददृष्टिं च संगृह्णाति । एतेषु यथार्हमन्योन्याश्रयादि- निरासाय अनादिशब्दः । एतेषां दोषत्वं " वासनारेणुगुण्ठितः " अविद्या संचितं कर्म " इत्यादिभिः सिद्धम् । मूलभावप्रकाशिका 99 अनृतेनेति ; " एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः” इति दहरविद्या- वाक्यम् । ब्रह्मैव लोको ब्रह्मलोकः । लोक्यत इति लोकः । अनृतेनासत्येना ज्ञानेन प्रत्यूढाः प्रतीपं नीताः, वैपरीत्यं प्राप्ताः; असत्कार्यात्मस्वरूपविरुद्धं कर्तृत्वादिसंसारं प्राप्ताः सन्त एतं ब्रह्मलोकं न विदन्तीत्यर्थः । अनृतेनेत्यनेन सद्विलक्षणत्वं प्रत्यूढ इत्यनेन विक्षेपकरत्वं चोक्तं भवति । आच्छादकत्वे प्रमाणं दर्शयति– तेषामिति । " त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानम्" इत्यपि दहरविद्या- वाक्यम् । काम्यन्त इति कामा अपहतपाप्मत्वादयः । सत्याः कामाः । अनृतापिधाना; अनृतं सद्विलक्षणमज्ञानमपिधानमावारकं येषां ते तथोक्ताः । तदेव दर्शयति — तेषामिति सदसद्विलक्षणत्वे प्रमाणं दर्शयति-नासदासीदिति । सदसतोरभावकाले तमः सत्यत्व- प्रतिपादनेन तमसः सदसद्विलक्षणत्वसिद्धिरिति भावः । आवारकत्वे प्रमाणान्तरं दर्शयति- तमसेति । सृष्टेः प्राक्काले तमसा अज्ञानेन गूढमावृतं प्रकेतं प्रकृष्टं वासस्थानं ब्रह्मेत्यर्थः " कित निवासे " इति हि धातुः । श्वेताश्वतरवाक्यमुदाहरति-मायां त्विति । मायां सदसद्विलक्षणतया मायाशब्दवाच्यामविद्यां प्रकृतिमुपादानं विद्यादित्यर्थः । तत्रैव वाक्यान्तरमाह – इन्द्र इति । इन्द्र: परमेश्वरः ; " इदि परमैश्वर्ये " इति हि धातुः । मायाभिः ; अविद्याभिः । पुरुरूप:; बहुरूपः । ईयते ; क्रियत इत्यर्थः । ममेति ;

४९६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) “ दैवी ह्येषा गुणमयी मम माया दुरत्यया ” इति गीतावाक्यम् । गुणमयी ; सत्त्वर- जस्तमोमयीत्यर्थः । मायाशब्देन मिथ्यात्वं फलितमिति भावः । अनादित्वे प्रमाणं दर्शयति – अनादीति । अविद्याविषये श्रीविष्णुपुराणवचनानि दर्शयति — यथोक्त- मिति । न तु वस्तुभूतः ; वक्ष्यमाणशैलाब्धिधरा दिवस्तुभूतो न भवतीत्यर्थः । विविधं ज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानशब्दोऽज्ञानपरः । शुद्धम् ; अविद्यारहितम् । निजरूपि ; भेददर्शनरहितम् । भेददर्शननिमित्तकर्मक्षये अपास्तरागादिदोषम् । समन्तात् कल्प्यते- ऽनेनेति संकल्पमज्ञानम् । वस्तुषु जीवेषु संकल्पतरुशब्दिताविद्याफलभूता वस्तुभेदाः ; वसतीति वस्तु ; जीवेषु विद्यमाना भेदा न भवन्तीत्यर्थः । यद्वा समित्येकीकारे । एकी- कृत्य कल्पनं संकल्पः । देहात्मैक्यभ्रम इति यावत् । देहात्मैक्यभ्रमफलभूता वस्तुभेदाः चिद्वस्तुनिष्ठा भेदा जीवभेदभ्रमा न भवन्तीति यावत् । “ वस्त्वस्ति किं कुत्रचिदादिमध्यपर्यन्तहीनं सततैकरूपम् । 99 यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस्ततोऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ॥ इति सिद्धान्ते व्याख्यास्यमानं मध्ये श्लोकद्वयं लौकिकप्रतीत्यनुसारेणापि जगन्मिथ्यात्व- प्रतिपादनपरमित्युक्तार्थप्रपञ्चनपरत्वादनादृतमिति द्रष्टव्यम् । निजेति ; निजकर्मभेदेन भिद्यमानैरन्तःकरणैर्जीवभेदो भवतीत्यर्थः । ननु “परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते " इति परमेश्वरे वासुदेवे विद्यमाने कथं ज्ञानव्यतिरिक्तस्यानित्यत्वमुच्यत इत्यत्राह ज्ञानं विशुद्धमिति । सदैकम् ; जन्मवृद्धयादिरहितमित्यर्थः । भुवनाश्रितम् ; भुवने- नाश्रितं, भुवनाधिष्ठानभूतम् । एतत् ज्ञानम् । संव्यवहारभूतम् ; संव्यवह्नियत इति संव्यवहारो जगद्रूपापन्नमिति यत् तत्राप्यविद्यारूपं कारणमुक्तमित्यर्थः । विज्ञानेनैवेत्येव- कारेण कर्मानपेक्षितत्वमुक्तमित्यर्थः । न पुनरिति ; तत् ब्रह्मैकं पश्यति यः स पुन- मृत्यवे न भवति ; न संसारं प्राप्नोतीत्यर्थः । न पश्य इति ; पश्यः ; ब्रह्मदर्शीत्यर्थः । अनात्म्ये ; आत्म्यं शरीरम् ; अशरीररूप इत्यर्थः । अनिरुक्ते ; नामनिर्वचनशून्ये । अनिलयने ; अनाधारे । अभयम्; अभयार्थम् । अथवा अभयमिति सप्तम्यर्थे द्वितीया । प्रतिष्ठाम् तमेवैकं जानथात्मानम्" इत्युक्तरीत्या तन्मात्रस्थितिम् । 66

० ( १ – १ – १) मूलभावप्रकाशिका ४९७ " अभयमेतदभयममृतमेतद्ब्रह्म" इत्युक्तरीत्या परं ब्रह्माप्नोतीत्यर्थः । ब्रह्मैव भवतीति - ब्रह्मभावाच्छादकाविद्यानिवृत्तिर्भवतीत्यर्थः । श्रुतय इति वदन्तीति पूर्वेणान्वयः । प्रमादः ; मोहः, अज्ञानमिति यावत् । सदा अप्रमादमिति छेदः । ननूक्तवाक्येषु ब्रह्म- ज्ञानस्य वा निर्विशेष ब्रह्मज्ञानस्य वा अविद्यानिवृत्तिहेतुत्वप्रतीतावपि निर्विशेषेण ब्रह्मणा आत्मन एकत्वविज्ञानमविद्यानिवृत्तिहेतुरिति न प्रतीयत इत्याशङ्क्य सर्वशाखाप्रत्ययन्या- येनैषु वाक्येषु प्रतीयमानं ज्ञानमै क्यज्ञानतया पर्यवस्यतीत्याह — सत्यं ज्ञानमित्यादिना । द्विविधं हि वेदान्तवाक्यम् — पदार्थनिष्ठं वाक्यार्थनिष्ठं च । पदार्थनिष्ठमपि द्विविधम्- - तत्पदार्थशोधकं त्वंपदार्थशोधकं चः । सत्यज्ञानादिवाक्यानि ब्रह्मणोऽनृतजडपरिच्छिन्नत्व- रूपविशेषप्रतिषेधमुखेन तत्पदार्थभूतब्रह्मस्वरूपशोधकानि । " योऽयं विज्ञानमयः प्राणिषु हृद्यन्तर्ज्योतिः पुरुषः " इत्यादिवाक्यानि देहेन्द्रियान्तः करणव्यावृत्तिमुखेन तद्धर्मकर्तृत्वादि- निषेधद्वारा त्वंपदार्थशोधकानि । त्वंपदार्थशोधकत्वं नामाभेदविरोधि सर्वज्ञत्वकिंचिज्ज्ञ- त्वादिधर्मव्युदासत्वम् । शोधितयोश्चिन्मात्र योरैक्यं बोध्यत इति तत्सिद्धान्त-


  • मर्यादा । तामनुसृत्याह – इत्यादिशोधकवाक्यावसेयेति । आदिपदेन " योऽयं विज्ञान- -मयः " इत्यादीनि त्वंपदार्थशोधकानि वाक्यान्यभिप्रेतानि । शोधकवाक्यावसेयनिर्विशेषख- रूपत्वं तत्त्वंपदार्थयोर्ब्रह्मात्मनोर्विशेषणम् । अथेति ; " अथ योऽन्यां देवतामुपास्तेऽन्यो- सावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् " इति वृहदारण्यकवाक्यम् । तत्रैव " स योऽत एकैकमुपास्ते न स वेदाकृत्स्रो ह्येषोऽत एकैकेन भवति । आत्मेत्येवोपासीत । अत्रह्येते सर्व एकं भवन्ति” इति प्रदेशान्तरस्थवाक्यात् देवतामन्यामु- ‘पास्ते अन्यत्वेनोपास्त इत्यर्थः । तदेव दर्शयति — अन्योऽसावित्यादिना । यद्वा अन्या- -सुपाधिभेदभिन्नामग्नीन्द्रादिदेवतामन्योऽसावन्योऽहमस्मीति य उपास्ते, न स वेद । तस्मा- द्भिन्नदेवताविषयेऽप्यात्मत्वेनोपासनं कर्तव्यम्, किमुत ब्रह्मविषय इति भावः । अकृत्स्न इति; अनात्मनां परस्परभिन्नत्वादनात्मोपासकस्य कृत्स्नोपासकत्वं नास्ति ; आत्मनि -सर्वेषामन्तर्गतत्वादात्मोपासकस्य कृत्स्नोपासकत्वमस्तीति भावः । सद्विद्यावाक्यमुदाह- रति - तत्त्वमसीति । जाबालवाक्यमुदाहरति-त्वं वाहमस्मीति । ऐतरेयवाक्यमुदा- हरति तद्योऽहमिति । संसार्यात्मनीश्वरात्मन्यसंसारित्वं चिन्तनीयमिति वाक्यद्वय- स्याप्यर्थः । द्विरूपयापि मत्या ऐकात्म्यं चिन्तनीयमिति यावत् । सूत्रकारसंमतिमाह- 63 CC-0 No Rights Reserved. Digitized by eGangotri४९८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) । वक्ष्यति चेति । परमेश्वरः स्वात्मेति प्रतिपत्तव्यः । तथैवाभ्युपगच्छन्ति शास्त्रज्ञाः । एष त आत्मा ” इत्यादिशास्त्राण्यपि जीवं प्रति परमेश्वरस्यात्मत्वं ग्राहयन्ति च ; अतः आत्मत्वमस्तीत्यर्थः । तन्निष्पत्तेरिति ; सर्वस्य ब्रह्मोपादानकत्वादित्यर्थः । मिथ्यारूप- स्येति ; हेतुगर्भं विशेषणम् । मिथ्यारूपत्वात् बन्धस्य निवृत्तिर्युक्तेत्यर्थः । निवृत्तिरभाव इत्यर्थः । क्रियते ; विषयीक्रियत इत्यर्थः । प्रत्यक्षविरुद्धं सकलप्रपञ्चनिषेधं कथं तदु- पजीविं शास्त्रं बोधयेदिति पर्यवसितोऽर्थः । आशयमविद्वान् शङ्कते – कथं वेति । सर्प- निवृत्तिः क्रियते ; सर्पाभावो विषयीक्रियत इत्यर्थः । आशयमुद्घाटयति — तत्रेति । द्वयोः प्रत्यक्षयोरिति ; मूलमूलिभावापन्नयोरिति भावः । ननु कथं समानमेतदुच्यते मूलमूलिभावतदभावरूपवैषम्यसद्भावादित्याशङ्क्याह – एतदुक्तं भवतीति । तुल्यत्वेति; मूलमूलिभावापन्नत्वं तुल्यत्वम् । सापेक्षत्वनिरपेक्षत्वम् ; मूलमूलिभावापन्नत्वम् । एतच्च दृष्टान्तार्थमुक्तम्—यथा बाध्यत्वबाधकत्वयोर्मूलमलित्वे न प्रयोजके, तथा तुल्यत्वमपि न प्रयोजकमित्यर्थः । अयोगादिति ; अयोगप्रसङ्गादित्यर्थः । तत्र हीति ; • सेयं दीप- ज्वाला ’ इति प्रत्यक्षस्य ’ इयं ज्वाला पूर्वज्वालातो भिन्ना भिन्नसामग्रकित्वात्’ इत्य– नुमानेन बाधदर्शनादिति भावः । संभाव्यमानेति ; विषयमन्तरेणापि दोषवशात् संभव - दुत्पत्तिकमिति शक्यशङ्कत्वं संभाव्यमानान्यथासिद्धिकत्वम् । अत्र सावकाश च ’ शेषः, उत्तरत्र " अनन्यथासिद्धमनवकाशम् " इति भाषितत्वात् । अनादीति ; अनादि- निधनाविच्छिन्नसंप्रदायत्वादसंभाव्यमान दोषगन्धमित्यर्थः । तेन चासंभाव्यमानान्यथा- सिद्धित्वं दर्शितं भवति । अनवकाशेत्यनेन निर्विशेषब्रह्मप्रतिपादकशास्त्रस्य प्रत्यक्ष व्यावहारिकत्वादिविषयतया सावकाशत्वं नास्तीति दर्शितम् । निर्विशेषत्वादेव नित्य- शुद्धम् ; अविद्यासंबन्धशून्यम् । मुक्तम् ; अविद्याकृतजन्मादिरहितम् । बुद्धम् भासमानम् । स्वप्रकाशशब्दः बुद्धशब्दोक्तभासमानत्वस्य पराधीनत्वव्युदासार्थः । विकल्प- रूपेति ; विविधतया कल्पित इति विकल्पः । अतो बन्धस्य सत्यता व्यावर्त्यते । श्रीभाष्यम् ननु - अनादिनिधनाविच्छिन्नसंप्रदायतया निर्दोषस्यापि शा- स्त्रस्य " ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्येवमादेर्भेदावलम्बिनो बाध्यत्वं प्रसज्येत । सत्यम् पूर्वापरापच्छेदे पूर्वशास्त्रवन्मोक्षशास्त्रस्य ;

• (१-१ – १) श्रुतप्रकाशिका निरवकाशत्वात्तेन बाध्यत एव । - सनपराणां शास्त्राणामयमेव न्यायः, च " यः सर्वज्ञः सर्ववित् " । "" सत्यं ज्ञानमनन्तं ब्रह्म ," 39 66 66 ४९९ वेदान्तवाक्येष्वपि सगुणब्रह्मोपा- निर्गुणत्वात्परस्य ब्रह्मणः । ननु परास्य शक्तिर्विविधैव श्रूयते खा- भाविकी ज्ञानबलक्रिया च सत्यकामः सत्यसंकल्पः " इत्यादि- ब्रह्मस्वरूपप्रतिपादनपराणां शास्त्राणां कथं बाध्यत्वम् ? निर्गुणवाक्य- सामर्थ्यादिति ब्रूमः । एतदुक्तं भवति - " अस्थूलमनण्वहस्वम दीर्घम् " निर्गुणम् " " निरञ्जनम्" इत्यादि- वाक्यानि निरस्त समस्तविशेषकूटस्थनित्य चैतन्यं ब्रह्मेति प्रतिपादयन्ति; इतराणि च सगुणम् ; उभयविधवाक्यानां विरोधे तेनैवापच्छेदन्यायेन निर्गुणवाक्यानां गुणापेक्षत्वेन परत्वाद्बलीयस्त्वमिति न किंचिदप- हीनम् । श्रुतप्रकाशिका 1


यन्निर्दोषमुक्तं तत्रापि बाध्यबाधकभावनिमित्तभूतोऽर्थविरोधोऽस्ति; अतोऽवश्य- मन्यतरस्य बाध्यत्वं स्यात् ; तत्र यद् बाध्यत्वे प्रयोजकं दुष्टकारणजन्यत्वं तत्तु नास्ति ; कथमत्र निर्वाह इत्याशयेन चोदयति – नन्विति । प्राबल्यदौर्बल्य हेतुर्नास्तीत्याह- अनादीति । अपिर्विरोधसूचकः । अर्थविरोधं दर्शयति-भेदावलम्बिन इति । ‘सत्यमित्यर्धाङ्गीकारे । भेदावलम्बिनो बाध्यत्वमङ्गीकृतम्, दुष्टकारणजन्यत्वेऽनङ्गीकारः । अन्यथासिद्धत्वानन्यथासिद्धत्वयोरेव बाध्यबाधकभावे प्रयोजकत्वम् । पूर्वोक्तं दुष्टकारणजन्य- -त्वमपि हि अन्यथासिद्धत्वप्रकारविशेषः । अत्रापि मुखभेदेनान्यथासिद्धिमुपपादयति- पूर्वापरेत्यादिना । अपच्छेदन्यायात् बाध्यत्वं प्रत्यक्षस्यापि तुल्यम् ; तत्र दोषमूलत्वं च बाध्यत्वेऽधिको हेतुः । अपच्छेदे पूर्वपरशास्त्रयोः पौर्वापर्यं प्रमित्युत्पत्तिक्रमात्, न पाठ- क्रमात् । " पञ्चर्त्विजः समन्वारब्धाः प्रसर्पन्ति ; अध्वर्युं प्रस्तोतान्वारभते, प्रस्तोतारं प्रतिहर्ता, प्रतिहर्तारमुद्गाता, उद्गातारं ब्रह्मा, ब्रह्माणं यजमानः " इति विहितस्यान्वारम्भ- स्य विच्छेदे प्रायश्चित्तमुच्यते – “ बहिष्पवमानं प्रसर्पतां यद्युगातापच्छिद्येत, अदक्षिणः 7 1

५०० श्रीभाष्यम् (जिज्ञासाधिकरणम् ) 1 ’ स यज्ञः संस्थाप्यस्तेन पुनर्यजेत; तत्र तद्दद्यात् यत् पूर्वस्मिन् दास्यन् स्यात् । अथ प्रतिहर्तापच्छिद्येत सर्ववेदसं दद्यात् " इति । तदिदं शास्त्रद्वयं विषयः । अत्रोद्गातृप्रति- हर्तोः प्रयोगभेदेनापच्छेदे स्वं स्वं प्रायश्चित्तशास्त्र प्रवर्तते । एकस्मिन् प्रयोगे यौगपद्येना- पच्छेदे सत्युगातुः प्रायश्चित्तं प्रवर्तते, तस्य वर्गप्रधानत्वात् प्रधानापच्छेदस्यैव समाधेय – त्वात् ; विकल्पेनानुष्ठानं वा । एकस्मिन्नेव पौर्वापर्येणापच्छेदे पूर्वस्य प्रायश्चित्तशास्त्रस्य दौर्बल्यम्, परस्य प्राबल्यं च कर्ममीमांसायामुक्तम् " पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् " इति । अत्रासंजातविरोधित्वेन पूर्वमुदयात् पूर्वस्य प्राबल्यं परस्य, सत्प्रतिपक्षतयैवोदयाद्दौ- र्बल्यमिति पूर्वः पक्षः । राद्धान्तस्तु – पूर्वस्योत्पत्तिकाले विरोध्यभावात्तदबाधेनाप्युत्पत्तिः- संभवति, उत्तरस्य तु स्वोत्पत्तिकाले विरोधिसद्भावात्तदबाधेनोत्पत्त्यनुपपत्त्या पूर्वं बाधित्यैवो- त्पन्नमित्यनन्यथासिद्धत्वादुत्तरस्य प्राबल्यमिति । “पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति " इति हि न्यायविदः । ननूत्तरशास्त्रमुदयेत चेत् पूर्वाबाधेनानुदयः स्यात् ; पूर्वशास्त्रमुत्तरोत्पत्ति– प्रतिबन्धकं किं न स्यात् ? नैवम् ; निमित्तस्योत्पन्नत्वान्नैमित्तिकं शास्त्रमुदितमेवेति । तत्रोत्त- रस्योद्यतः पूर्वाबाधेनोत्पत्त्यनुपपत्त्या पूर्वं बाधितमेव । किंच यथोदितदक्षिणाकत्वेन कर्मसमा – पनं हि शास्त्रेण पूर्वमेव स्वतः प्राप्तम् । तत्तु प्रायश्चित्तशास्त्रेणान्यथाकृतम् । एवं पूर्वसिद्धार्था- न्यथाकरणप्रकरणत्वादत्रापि पूर्वमेव बाध्यमिति कर्मविचारे निश्चितम् । एवमुत्तरशास्त्रस्येव मोक्षशास्त्रस्य निरवकाशत्वात् भेदावलम्बि शास्त्र पूर्वशास्त्रवत् बाध्यत इत्यर्थः । परत्वं च पाठक्रमादर्थक्रमाच्च । त्रिवर्गफलत्वेन हि कर्मणि प्रथमप्रावण्यम् । निरूपकस्य तत्त्व- परस्य हि मुमुक्षा । तादृशपौर्वापर्यरहितेषु विरोधगर्भेषु वेदान्तवाक्येषु सगुणोपासनपरेषु कथं निर्वाह इत्यत्राह – वेदान्तवाक्येष्वपीति । अपिः समुच्चये । पूर्वोत्तरभागयोर्विरोधः परिहृतः, उत्तरभागे च विरोधः परिहियत इत्यर्थः । कथमत्रापच्छेदन्यायावतार इत्य- त्राह - निर्गुणत्वादिति । परशब्देनार्वाचीनसगुणब्रह्मव्यावृत्तिः । अपच्छेदन्यायावतरण- फलभूतनिर्गुणत्वबोधदर्शनादपच्छेदन्यायोऽवतीर्ण इति बोद्धव्यमित्यर्थः । " जक्षत्क्री- डन् रममाणः " इत्यादिफलश्रुतेस्तात्त्विकत्वातात्त्विकत्वनिरूपणानादरेण प्रथमं सगुणोपासने प्रावण्यम् । निरूपको हि निर्गुणपरब्रह्मवेदनाधिकारीति तत्र पौर्वापर्यमिति भावः । उपासनपरसगुणनिर्गुणवाक्ययोः फलद्वारा पौर्वापर्यमुक्तम् ; तत्तु स्वरूपपरसगुणनिर्गुणवाक्य- योर्नास्तीति कथं तत्र बाध्यबाधकभाव इति चोदयति – ननु चेति । विधिनिषेधरूपं I

(९–१–१) भावप्रकाशिका “9 ; ५०१ पौर्वापर्यं हृदि निधायाह - निर्गुणेति । कानि निर्गुणवाक्यानि ? कथं तेषां सामर्थ्यमित्य- त्राह - एतदुक्तमिति । अस्थूलेत्यादि वाक्यं गुणविशेषनिषेधपरम् । सत्यज्ञानादिवाक्ये व्यावृत्तिर्गर्भिता । निर्गुणमित्यादि वाक्यं गुणसामान्यनिषेधपरम् | आदिशब्देन यत्तदद्रे- श्यमित्यादि गृह्यते । विरोधं स्फोरयति – निरस्तेति । कूटस्थशब्दो निर्विकारत्ववाची, सर्वाधिष्ठानत्ववाची वा; कूटवत्तिष्ठतीति हि कूटस्थः । नित्य चैतन्यमित्यन्तैः पदैरुदाहृत- निर्गुणश्रुत्यर्थः संक्षिप्तः । इतराणि; " यः सर्वज्ञः इत्यादीनि पूर्वोपात्तानि वाक्यानि । चः समुच्चये । सगुणनिर्गुणपरत्वादुभयविधवाक्यविरोधः । तेनैव पूर्वोत्तरभागविरोधे य उत्तरस्य प्राबल्य हेतुरुक्तस्तेनैवेत्यर्थः । निर्गुणवाक्यानां बलीयस्त्वं कुत इत्यत्राह- गुणापेक्षत्वेन परत्वादिति । निषेध्यविषयो हि निषेध उदेति ; न हि निर्विषयो निषेधः । प्रागेव प्रसक्तस्य विषयस्य प्रतिषेध्यत्वम् । अतो निषेध्यसापेक्षत्वेन निषेधस्य `परत्वमित्यर्थः । सगुणवाक्यवैयर्थ्यमप्युपासनविषयत्वात् परिहृतमित्यभिप्रायेण न किंचिद- यहीनमित्युक्तम् । यद्वा " यः सर्वज्ञः " इत्यादिवाक्यानामप्युपासनशेषत्वाभिप्रायेणाह - वेदान्तवाक्येष्वित्यादि । उपासनपराणामिति ; तान्यपि वाक्यानि फलविशेषार्थ- मुपासनपराणि, न तु तत्त्वपराणीति भावः । अपच्छेदन्यायावतारमुपपादयति - निर्गुण- त्वादिति ; पूर्ववदर्थः । निर्गुणत्वमसिद्धं पूर्वापरभावाभावेनापच्छेदनयानवकाशात् गुणानां बाध्यत्वासिद्धेः ; अत एव सगुणवाक्यानां वैयर्थ्यपरिहारश्च न घटते, स्वरूप- परतयैव प्रतिपन्नानामुपासनपरत्वकल्पनं हि बाध्यत्वसिद्ध्यधीनमिति चोदयति — ननु चेति । परिहरति - निर्गुणेति । अन्यत्सर्वं पूर्ववदेव । भावप्रकाशिका



ननु भेदावलम्बिनो बाध्यत्वं प्रसज्येतेत्यापादनं न संभवति तस्येष्टापादनत्वादि- त्याशङ्क्य, तस्यापि बाध्यत्वे तत्प्रयोजकं दुष्टकारणजन्यत्वमपि स्यादित्यनिष्टापादनमाहे- त्याह–यन्निर्दोषमुक्तमिति । दुष्टकारणजन्यत्वेऽनङ्गीकार इति ; ननु बाध्यत्वं वक्तव्यम् ; दुष्टकारणजन्यत्वं च न संभवति ; अतः कथं निर्वाह इति चोदिते सत्यमि- त्युक्तेर्बाध्यत्वमङ्गीक्रियत एव ; दुष्टकारणजन्यत्वं नास्तीति यदुक्तं तदप्यङ्गीक्रियते ; यदुक्तं — कथं निर्वाहः ’ इति तन्नाङ्गीक्रियत इत्येव वक्तव्यम् ; कथं दुष्टकारणजन्यत्वेऽनङ्गीकार इत्युक्तिरिति चेत्–न; " कथं निर्वाह: ’ इत्यस्य दुष्टकारणजन्यत्वमपि स्यादित्यत्र

५०२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) ‘पर्यवसानमिति प्रागुपपादितत्वेनादोषात् । वस्तुतस्तु ज्योतिष्टोमादिवाक्ये भेदवासनारूप- दोषस्य वा तात्पर्यभ्रमरूपपुरुषापराधदोषस्य वा सत्त्वेन दुष्टकारणजन्यत्वमस्तीत्यत्र तात्प- यम् ; दोषाभावेऽप्यप्रमोत्पत्तावप्रामाण्यस्य स्वतस्त्वप्रसङ्गादिति बोध्यम् । केचित्तु - भेदवासनाजन्यतया भेदप्रत्यक्षस्य बाध्यत्वे ज्योतिष्टोमादिवाक्यजन्यभेदज्ञानस्यापि भेद- वासनारूपदोषजन्यतया बाध्यत्वं स्यात् ; न चेष्टापत्तिः, अपौरुषेयत्वेन निर्दोषत्वस्य त्वयैव प्रतिपादितत्वादित्याशयेन शङ्कत इत्येवं " ननु च” इत्यादिभाष्यावतारिकामाहुः । अस्मिन् पक्षे ’ भेदावलम्बिनः’ इत्यादिभाष्यस्वारस्यमस्ति । ग्रन्थस्यानिर्धारितान्यतरबाध्यत्व- परत्वे तत्पीडयेतेत्यादि द्रष्टव्यम् । प्रमित्युत्पत्तिक्रमादिति ; एतस्य प्रयोगशास्त्रतया प्रतिप्रयोगमावृत्त्यैव बोधकत्वात् प्रयोगभेदाश्रयप्रमितिनिबन्धनं पौर्वापर्यं सुवचमिति भावः । एकस्मिन् प्रयोगे यौगपद्येनापच्छेदे सतीति; यदोद्गातृप्रतिहर्शोर्युगपदपच्छेदो भवति तदा किं प्रायश्चित्तं कर्तव्यं न वेति संशयः । तत्रोभाभ्यां क्रियमाणोऽपच्छेदो नैकेन व्यपदेष्टुं शक्यते ; तस्माद्यौगपद्ये निमित्तविघातात् प्रायश्चित्तं न कर्तव्यमिति पूर्वपक्षे प्राप्ते, " स्यादेवं यदि सापेक्षं कर्तृत्वमुभयोर्भवेत् । एकैकस्य तु यत्नेन निरपेक्षेण जायते ॥ विच्छेदस्तेन कर्तृत्वं द्वयोः प्रत्येकमस्ति नः । 99 कालमात्रं परमेकम् । अतः प्रायश्चित्तं कर्तव्यमिति व्यवस्थापितं षष्ठे “विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते" इत्यत्रेति भावः । ननु “ तत्र विप्रतिषेधात् विकल्पः स्यात्" इति विकल्पस्यैव सिद्धान्तितत्त्वाद्विरोध इत्यरुचेराह - विकल्पेनानुष्ठानं वेति । पूर्वशास्त्रमुत्तरो- त्पत्तिप्रतिबन्धकं किं न स्यादिति; असंजातप्रतिपक्षतया प्रक्रमस्य प्राबल्यमित्युपक्रमाधि- क्करणन्यायादित्यर्थः । निमित्तस्योत्पन्नत्वादिति ; निमित्ते हि सति तन्निमित्तमपि शास्त्र दुर्वारप्रवृत्तिकमेव, तस्यैव तत्सामग्रीत्वात् । तत्र विरोधिनि जाते सति यदुत्तरं विरोध्यवश्यं जायते तत्पूर्वोपमर्दकतयैवोदेतीति स्वभावसिद्धम् । अतो वस्तुस्वभावादुत्तरं शास्त्र पूर्वधी- स्थोपमर्दनादेव स्वार्थधीकारणम् । पूर्वं तु जायमानं कस्यचिद्विरोधिनो न बाध्यतया नापि बाधकतया जायते; किंतु स्वरूपेणैव । तत्रैकस्मिन् प्रयोगे द्वयोः शास्त्रार्थयोरशक्तेर्यस्योपमर्द- स्तस्य बाध्यत्वं यस्योपमर्दकत्वं तस्य बाधकत्वमेव युक्तमिति भावः । पूर्वसिद्धार्थस्योत्तरशास्त्रे- CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) यावत् । ; श्रुतप्रदीपिका ५०३.० तात्पर्यम्। णान्यथा करणं न संभवतीति श्रद्धालुं प्रति नैमित्तिकशास्त्रप्रतिबन्दीमाह - किंच यथोदि- तेति । पूर्वसिद्धार्थान्यथाकरणप्रकरणत्वादिति ; प्रकरणं प्रक्रिया प्रकार इति नित्यपूर्वसिद्धनित्यप्रयोगान्यथाकारिपूर्वनैमित्तिकशास्त्र तुल्यशीलत्वादिति भावः । यदि तूत्तरशास्त्र पूर्वशास्त्र न बाधेत, नैमित्तिकशास्त्रमपि नित्यशास्त्रं न बाधेतेत्यर्थः । पाठक्रमस्य स्पष्टतयानुपपादनीयत्वादर्थक्रममुपपादयति — त्रिवर्गफलत्वेनेति । तत्त्व- परस्य हि मुमुक्षेति निमित्त पौर्वापर्यान्नैमित्तिकशास्त्रपौर्वापर्यवदधिकारिपौर्वापर्यात् पौर्वा- पर्यमिति भावः । मुमुक्षानन्तरभाविविचारितवेदान्तवाक्यजन्यज्ञानस्यानादिप्रवृत्तकर्मकाण्डादि- जन्यनिखिलभेदज्ञानोपमर्दरूपप्रयोजनाय प्रवृत्तत्वाद्वेदान्तवाक्यानामित्यत्र अंतश्च `मृषावादिमते कर्मविचारस्य प्राक् प्रवृत्तिनियमाभावात् तद्भेदोपमर्दों न स्यादिति दूषण मलग्नकं वेदितव्यम् । नन्वपच्छेद न्यायो नावतरतीति वदन्तं प्रति तत्फलस्य दर्शना- दित्युक्तिरसङ्गता; न हि तत्फलभूतनिर्गुणत्वप्रदर्शनं परसंप्रतिपन्नमित्यत आह-जक्षत् क्रीडन्रममाण इत्यादि । निरूपको हि निर्गुणपरब्रह्मवेदनाधिकारीति ; " निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्त्वनुकम्प्यन्ते सविशेषनिरूपणैः ॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ " इत्युक्तेरिति भावः । यद्वा यः सर्वज्ञ इत्यादिवाक्यानामपीति ; अस्यां योजना यां सगुणब्रह्मोपासनपराणाम् " 66 ब्रह्मस्वरूपप्रतिपादनपराणाम् " इति भाष्ये वैलक्षण्ये निर्देशस्यास्वारस्यम् । किंच “ उपासनपराणाम् ” इत्यस्य सर्वेषामुपासनपरत्वादित्यभि- प्रायाश्रयणं च क्लिष्टमिति द्रष्टव्यम् । श्रुतप्रदीपिका


चोदयति —–नन्विति । - : अनन्तरोक्तबाधकत्वप्रयोजकाभावमाह - अनादीति । अपिर्विरोधे । बाध्यबाधकताभ्युपगमनिमित्तं विरोधं दर्शयति – ज्योतिष्टोमेनेति । बाध्य- त्वमङ्गीकुर्वन् दुष्टहेतुकत्वमनुपगच्छन् परिहरति — सत्यमिति । सावकाशत्वानवकाश- त्वावान्तरविधारूपेण पौर्वापर्येण निर्वाहः । उद्गातृप्रतिहर्त्रपच्छेद योनैमित्तिकत्वेनादक्षिण- संस्थापनसर्वस्वदक्षिणत्वे विहिते, एकप्रयोगे तयोर्विरोधः । तत्र यौगपद्ये विकल्पः ।

५०४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 11 पौर्वापर्ये तु पूर्वप्राबल्यमसंजातविरोधितयोदयात् परस्य सत्प्रतिपक्षतयैवोदयाच्चेति पूर्वपक्षि- तम् । विरोध्यसंनिधानात्तदबाधेन पूर्वस्योदयसंभवः ; उत्तरस्य तु संनिहितविरोध्य- बाधेनोदयासंभवात् पूर्वं बाधित्वैवोदय इति प्राबल्यम् ; निमित्तोदयान्नैमित्तिकशास्त्र चोदि- तमेवेति सिद्धान्तितम् । तदुक्तम् – “पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति " इति । पाठक्रमात् त्रिवर्गे संसारिणः प्रथमप्रावण्यरूपार्थक्रमाच्च पौर्वापर्यसिद्धिरिति तेन न्यायेन पूर्वबाध इत्यर्थः । तादृशपौर्वापर्याभावात् सगुणोपास्तिशास्त्रेषु नायं निर्वाह इत्यत्राह - वेदान्तेति । कुत इत्यत्राह - निर्गुणत्वादिति अपच्छेदन्याय फलरूपबाधदर्शनादि- स्यर्थः । सगुणोपासनस्य जक्षणादिसांसारिकफलश्रवणात् पूर्वत्वमभिप्रैति । विरोध्यसं- निधानात् तदबाधेन पूर्वस्योदयसंभवः ; उत्तरस्य तु संनिहितविरोध्यबाधेनोदयासंत्त्वमिति भावः । स्वरूपपरसगुणवाक्येषु कथमिति चोदयति – ननु चेति । परिहरति — निर्गुणेति । कानि निर्गुणवाक्यानि ? कथं च तेषां सामर्थ्यमित्यत्राह – एतदुक्तमिति । कूटस्थम् ; निर्विकारम् । इतराणि ; " यः सर्वज्ञः " इत्यादीनि । गुणापेक्षत्वेन ; निषेधस्य प्रसञ्जकसापेक्षत्वादित्यर्थः । न किंचिदपहीनम् उपासनार्थत्वात् सगुणवाक्यानां न वैयर्थ्यमिति भावः । यद्वा “ यः सर्वज्ञः " इत्यादेरुपासनार्थत्वं विवक्षन्नाह - वेदान्तेति । । पौर्वापर्याभावान्न गुणबाधः, तत एव नोपासनार्थत्वकॢप्तिरिति चोदयति–ननु चेति विधिनिषेधरूपपौर्वापर्यमभिप्रेत्य परिहरति — निर्गुणेति । सर्वमन्यत्पूर्ववत् । तत्त्वटीका " भेदग्राहकप्रत्यक्षादीनामद्वैतश्रुतिविरोधाद्वाध्यत्वमुक्तम् ; तत्रातिप्रसक्त्या चोदयति- नन्विति । अपिः सदोषनिर्दोषसमुच्चयार्थः, विरोधार्थो वा । बाध्यत्वप्रयोजकभेदावलम्बि त्वव्यक्त्यै ज्योतिष्टोमाद्युक्तिः । द्वैतीयभेदावलम्बिनी तृतीयादिदशाध्यायी । आदिशब्देन ‘कर्मविध्यन्तरसंग्रहः । बाध्यत्वोत्त्या प्रमाणलक्षणविरोधोऽपि सूचितः ; तत्र धर्मप्रमाणस्य साकल्येनांशतोऽपि वा पादेन वा त्रिपाद्या वा ह्यप्रामाण्यमपाकृतम् । इष्टप्रसङ्गोऽय- मित्याह - सत्यमिति । यद्वा-बाध्यत्वमस्ति ; तावता सदोषत्वमप्रामाण्यं च न स्यादित्यर्धाङ्गीकारः ; मिथ्यात्वेऽपि दृष्टिविधिनयात् साध्यसाधनभावे व्यावहारिकं प्रामा ण्यमिति भावः । अङ्गीकृतं निर्दोषस्य बाध्यत्वांश पौर्वापर्यरूपविशेषेऽपि स्वोक्तबाधप्रयोजक व्याप्तिं च श्रौतदृष्टान्तेन विवृणोति पूर्वेति । मोक्षशास्त्रस्य ; बन्धरूपभेदनिवर्तक तत्त्वा

• (१ - १ – १) " तत्त्वटीका


166 ५०१ पूर्वापरा- वेदवाक्यस्येत्यर्थः । पञ्च ऋत्विजः समन्वारब्धाः सर्पन्ति । अध्वर्युं प्रस्तोतान्वारभते, प्रस्तोतारं प्रतिहत, प्रतिहर्तारमुङ्गाता, उद्गातारं ब्रह्मा, ब्रह्माणं यजमानः " इत्यस्मिन् प्रयोगे “यदि बहिष्पवमानं सर्पतां प्रस्तोतापच्छिद्येत” इत्यादिनापच्छेदप्रायश्चित्तविधौ “यदि प्रतिहर्ता पशुभिर्यजमानो व्युध्येत सर्ववेदसं दद्यात् यद्युगाता यज्ञेन यजमानो व्यध्येता- दक्षिणः स यज्ञः संस्थाप्यः इत्युक्तम् । तदिदं नैमित्तिकद्वयमेकस्मिन्प्रयोगे विरुद्धम् । तत्र युगपदपच्छेदे उद्दातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तं वा कार्यम् । पूर्वापरापच्छेदे यो जघन्योऽपच्छिद्येत तस्य प्रायश्चित्तमेवेति व्यवस्थापितम् । तदुक्तम्- पच्छेदे पूर्वदौर्बल्यं प्रकृतिवत् " इति । अत्रैवं पूर्वपक्ष: — उपक्रमनयेनासंजातविरोधितयोदित- त्वात्पूर्वस्य प्राबल्यम् । परस्य तूदितविपक्षसंनिधावेव प्रवृत्ते दौर्बल्यमिति । सिद्धान्तस्तु– परस्मिन्ननुत्पन्ने तदसंनिधानात्परमबाधित्वा पूर्वस्योदयः । इतरस्य तु पूर्वोदितविरो- ध्यबाधेनोदयायोगान्निमित्तोदये नैमित्तिकशास्त्रोदयावश्यंभावाच्च परप्राबल्यम् । उपक्रमोप- संहारयोस्तु विरुद्धस्य परस्यानुदय एवेति । इह तु कर्मिणां भुक्तौ पूर्वप्रावण्येनार्थक्रमात् तदनुगुणपाठक्रम (च्चापच्छेदवत्पूर्ववृत्त कर्मशास्त्रोपमर्देन भोगनिवृत्तिरूपमुक्तिशास्त्रोदयः । ईदृ- शोदाहरणेष्वेव " पूर्वाबाधेन नोत्पत्तिरुत्तस्य हि सिध्यति ” इत्युच्यते । एवमुत्सर्गाप- वादाद्यदाहरणान्तरेष्वपि निर्दोषवाक्यसिद्धस्य निरवकाशेन बाधो निदर्शनीयः । वेदान्तेष्वपि सगुणोपास्तिविधीनां भेदावलम्बित्वं सिद्धम् ; न च तेषां निर्गुणवाक्यापेक्षया पूर्वत्वनियमः ; अतस्तेषु नापच्छेदनीतिरित्यत्राह – वेदान्तेति । सगुणब्रह्मोक्तिर्दृष्टट्या- -देरुपलक्षणार्थी | उपासनपराणामित्यनेन सिद्धे तात्पर्यं नास्तीति व्यज्यते । पौर्वापर्या- भावेऽपि तत्फलभूतबाधस्य तात्पर्यलव्धत्वदर्शनात् अयमेव न्याय इत्युक्तम् । " संकल्पा- देवास्य पितरः समुत्तिष्ठन्ति जक्षत्क्रीडन् ” इत्यादिसांसारिक फलोत्त्या तादृशविद्यानां मोक्षशास्त्रापेक्षया कर्मशास्त्रवदार्थं पूर्वत्वं च सिद्धम् । यद्वा निर्दोषत्वेऽपि निरवकाश- वाक्येन बाधः स्यादित्युक्त एव न्याय इत्यर्थः । गुणविधिरेवात्रालम्भविधिन्यायान्निरव- काश इत्यत्राह — निर्गुणत्वादिति । निर्विशेषस्वरूपपरतया निरवकाशैर्वाक्यैर्गुणबाधादिति भावः । विधिपदानन्वयेन सिद्धविषयाणां सगुणवाक्यानां पूर्वत्वान्यपर्ययोरयोगात् न -बाध्यत्वं स्यादित्यभिप्रायेण चोदयति —– ननु चेति । कथमिति प्रतिक्षेपवचनं प्रश्नवद्भा- -वयन् पौर्वापर्यमभिसंधाय प्रतिवक्ति - निर्गुणेति । अनन्यपरसगुणवाक्यबाधसमर्थानि 64


" 66


1 ननु

५०६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) कानि वाक्यानि तेषां च तद्वावे कीदृशं सामर्थ्यम् ? इत्यत्राह – एतदुक्तमिति । कूटस्थम् ; विश्वविकाराध्यासे तन्निवृत्तौ च स्वयं कूटवदविकृतम् ; कूटे अध्यस- नीये स्वयं सत्यतया सर्वाधिष्ठानत्वेन स्थितम् । इतराणि ; उपात्तानि, ’ यः सर्वज्ञः इत्यादीनि तादृशध्यपि । चस्त्वर्थः, विरुद्धवर्गद्वयसमुच्चयपरो वा । तेनैव ; भुक्ति- मुक्तिशास्त्रयोरिह प्रदर्शितेनैवेत्यर्थः । निषेध्यप्रसञ्जकापेक्षया निषेधकस्य परत्वमर्थसिद्ध- मित्यभिप्रायेण गुणापेक्षत्वेनेत्युक्तम् । सगुणवाक्यानां निर्दोषत्वेऽप्यार्थेन पूर्वत्वेन बाध्यत्वमुपास्तिविधिशेषत्वक्लृप्त्या साफल्यात्कथंचित्प्रामाण्यं च स्यादित्यभिप्रायेणाह - न किंचिदिति । " मूलभावप्रकाशिका बाध्यत्वं प्रसज्येतेति ; भेदवासनाख्यदोषजन्यत्वात् बाध्यत्वं प्रसज्येत । न चेष्टा- पत्तिः, अपौरुषेयत्वेन निर्दोषत्वस्य प्रतिपादितत्वादिति भावः । शास्त्रस्य निर्दोषत्वेऽपि पूर्वापच्छेदशास्त्रजन्यज्ञानस्येव तात्पर्यभ्रमरूपपुरुषापराधजन्यतया भेदवासनारूप दोषजन्य- तया चाप्रमात्वं बाध्यत्वं चोपपद्यत इत्याह – सत्यमित्यादिना । पूर्वापरापच्छेद इति ; “ अध्वर्युं प्रस्तोतान्वारभते, प्रस्तोतारं प्रति हर्ता, प्रतिहर्तारमुद्गाता, उद्गातारं ब्रह्मा, ब्रह्माणं यजमानः इति विहितस्यान्वारम्भणस्य व्यवच्छेदे प्रायश्चित्तमुच्यते " बहि- पवमानं प्रसर्पतां यद्युगातापच्छिद्येतादक्षिणः स यज्ञः संस्थाप्यः ; तेन पुनर्यजेत ; तत्र तद्दद्याद्यत्पूर्वस्मिन् दास्यन् स्यात् । अथ प्रतिहर्तापच्छिद्येत सर्ववेदसं दद्यात् इति । तदिदं शास्त्रद्वयं विषयः । तत्रोङ्गातृप्रतिहर्त्री रेकस्मिन्नेव प्रयोगे पौर्वापर्येणापच्छेदे सतिं पूर्वस्य प्रायश्चित्तशास्त्रस्य दौर्बल्यं परस्य प्राबल्यं च कर्ममीमांसायामुक्तम्- - " पौर्वापयें पूर्वदौर्बल्यं प्रकृतिवत्” इति । तत्रासंजातविरोधित्वेन पूर्वमुदयात् उपक्रमाधिकरण- न्यायेन पूर्वस्य प्राबल्यं परस्य तत्प्रतिपक्षतयैवोदयात् दौर्बल्यमिति पूर्वपक्ष: । राद्धान्तस्तु पूर्वस्योत्पत्तिकाले विरोध्यभावात् तदबाधेनैवोदयः संभवति । " उत्तरस्य तु स्वोत्पत्तिकाले विरोधिसद्भावात् तदबाधेनोत्पत्त्यनुपपत्त्या पूर्वं बाधित्वैवोत्पन्नमित्यनन्यथासिद्धत्वादुत्तरस्य प्राबल्यमिति । 66 पूर्वं परमजातत्वादबाधित्वैव जायते । पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यति ॥ "

(१– १ – १) श्रीभाष्यम् -५०७ इति । अतः पूर्वं बाधित्वैवोत्पद्यते । ननु यद्युत्पद्येन तदा बाधतां नाम; उपक्रमाधि- करणन्याबादुत्तरस्यानुत्पत्तिरेवास्त्विति चेत् — न; सति निमित्ते तन्निमित्तशास्त्रस्यापि दुर्वार- प्रवृत्तित्वात्, तस्यैव तत्सामग्रीत्वात् । मोक्षशास्त्रस्येति ; निर्विशेषब्रह्मप्रतिपादकवेदान्त- शास्त्रस्येत्यर्थः । निरवकाशत्वादिति ; पूर्वाबाधेनोत्पत्तुमवकाशाभावादित्यर्थः । निर्गुण- शास्त्रस्यापच्छेदन्यायेन बलवत्त्वादुपासनाविषयतया सगुणशास्त्रस्य सावकाशत्वाच्च सगुण- शास्त्रस्य बाध्यत्वमिति भावः । ननु मा नाम भूदुपासनपरसगुणवाक्यसामर्थ्यात् सगुण- त्वम् ; स्वरूपोपदेशसगुणवाक्यैः सगुणत्वं स्यादिति शङ्कते – नन्विति । स्वरूपोपदेश- परत्वाविशेषे किं नाम निर्गुणवाक्यानां सामर्थ्यमित्यत्राह – एतदुक्तमिति । श्रीभाष्यम् 55 I ननु च " सत्यं ज्ञानमनन्तं ब्रह्म इत्यत्र सत्यज्ञानादयो गुणाः प्रतीयन्ते; नेत्युच्यते, सामानाधिकरण्येनैकार्थत्वप्रतीतेः । अनेकगुणविशिष्टाभिधानेऽप्येकार्थत्वमविरुद्धमिति चेत् — अनभिधा- नज्ञेो हि देवानांप्रियः ; एकार्थत्वं नाम सर्वपदानामथ्र्यैक्यम् । विशि- पदार्थाभिधाने विशेषणभेदेन पदानामर्थभेदोऽवर्जनीयः । ततचैका- र्थत्वं न सिध्यति । एवं तर्हि सर्वपदानां पर्यायता स्यात्, अविशि- ष्टार्थाभिधायित्वात् । एकार्थाभिधायित्वेऽप्यपर्यायत्वमवहितमनाः शृणु — एकत्वतात्पर्यनिश्चयादेकस्यैवार्थस्य तत्तत्पदार्थविरोधिप्रत्यनीकप- रत्वेन सर्वपदानामर्थवत्त्वमेकार्थत्वम् अपर्यायता च । एतदुक्तं भवति; लक्षणतः प्रतिपत्तव्यं ब्रह्म सकलेतर पदार्थविरोधि- रूपम् । तद्विरोधिरूपं सर्वमनेन पदत्रयेण फलतो व्युद- स्यते ; तत्र सत्यपदं विकारास्पदत्वेनासत्याद्वस्तुनो व्यावृत्तपरम् । ज्ञानपदं ; चान्याधीनप्रकाशाज्जडरूपाद्वस्तुनो व्यावृत्तपरम् । अन- न्तपदं च देशतः कालतो वस्तुतश्च परिच्छिन्नाद्यावृत्तपरम् । न चं CC-0 No Rights Reserved. Digitized by eGangotri0 ५०८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 29 व्यावृत्तिर्भावरूपोऽभावरूपो वा धर्मः अपि तु सकलेतरविरोधि ब्रह्मैव ; यथा शौक्ल्यादेः कार्यादिव्यावृत्तिस्तत्तत्पदार्थस्वरूपमेव, न धर्मान्तरम् । एवमेकस्यैव वस्तुनः सकलेतरविरोध्याकारतामवग- मयदर्थवत्तरमेकार्थमपर्यायं च पदत्रयमिति । तस्मादेकमेव ब्रह्म स्वयं ज्योतिर्निर्धूतनिखिलविशेषमित्युक्तं भवति । एवं वाक्यार्थप्रति- पादने सत्येव " सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् " इत्यादिभिरैकार्थ्यम् । “ यतो वा इमानि भूतानि जायन्ते “ सदेव सोम्येदमग्र आसीत् " " आत्मा वा इदमेक एवाग्र आसीत् ” इत्यादिभिर्जगत्कारणतयोपलक्षितस्य ब्रह्मणः स्वरूपमिद- मुच्यते - " सत्यं ज्ञानमनन्तं ब्रह्म ” इति । तत्र सर्वशाखाप्रत्ययन्या- येन कारणवाक्येषु सर्वेषु सजातीयविजातीयव्यावृत्तमद्वितीयं ब्रह्मा- वगतम् । जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपिपाद- यिषितं स्वरूपं तदविरोधेन वक्तव्यम् । अद्वितीयत्वश्रुतिर्गुणतोऽपि सद्वितीयतां न सहते ; अन्यथा " निरञ्जनम्, निर्गुणम् ” इत्यादिभि विरोधश्च । अतश्चैतल्लक्षणवाक्यमखण्डैकरसमेव प्रतिपादयति । श्रुतप्रकाशिका निर्गुणवाक्यैः सहोपात्तस्य सत्यज्ञानादिवाक्यस्य सगुणपरत्वबुद्धया चोदयति- ननु चेति । च: चोद्यसमुच्चये । सत्यज्ञानादयो गुणाः प्रतीयन्ते इत्यत्र सत्यज्ञान शब्दौ सत्यत्वज्ञानत्वपरौ ; यथा शब्दौ द्वित्वैकत्वपरौ; अन्यथा 66 دو 66 येकयोर्द्विवचनैकवचने ” इति पाणिनिसूत्रस्थ केष्विति हि वक्तव्यम् । तथा श्रीवत्साङ्कमिश्राः- गुणाः सत्यज्ञानप्रभृतय उत इति । एतद्वाक्यवैशद्याय प्रथमं सामानाधिकर निरूप्यते । तद्धि विशदतरमुपन्यस्तं प्रमेयमालायामाचार्यपादैः । तथा हि भगव पतञ्जलिना " लटः शतृशानचावप्रथमासमानाधिकरणे " 66 तत्पुरुषः समानाधिकर

(१ – १ – १ ) 66 66 6 श्रुतप्रकाशिका


५०९ कर्मधारयः ” इत्यादिसूत्रस्थसमानाधिकरणशब्द विवरणार्थं सामानाधिकरण्यलक्षणमुक्तम्- भिन्नप्तवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् ” इति । अस्या - यमर्थः—प्रवृत्तेर्निमित्तं प्रवृत्तिनिमित्तम् ; प्रकृष्टा वृत्तिः प्रवृत्तिः; शब्दस्यार्थे वृत्तिर्नाम तद्बोधनम् । तत्र विशेष्यभूतप्रधानार्थविषया वृत्तिः प्रवृत्तिः । विशेष्यप्राधान्यं च गुणानां प्रतिपत्तिर्हि गुणिप्रतिपत्त्यर्था” इत्यनेन सिद्धम् । तस्याः प्रवृत्तेर्निमित्तं द्वारम्, निमित्तमात्रं भव सव्यसाचिन् ” इत्यादिप्रयोगात् । तच्च विशेषणीभूतं जातिगुणादिकम् । समानमेकमधिकरणं विशेषणानामाधारभूतं विशेष्यम् । ’ एकस्मिन्नर्थे वृत्तिः’ इत्येकशब्देन- समानशब्दस्य सदृशार्थपरत्वं व्युदस्तम् । समानशब्दसामर्थ्यादेकशब्दः साधारणपरः । समानशब्दो हि साधारणे प्रयुज्यते – “ समानकर्तृकयोः पूर्वकाले ” इति । अर्थशब्दश्च " विशेष्यभूतप्रधानाभिधेयपरः । अनेनाधिकरणशब्दो विशेष्यपरत्वेन व्याख्यातः । एतदुक्तं भवति-त्रिविधाः शब्दाः ; केचिद्विशेषणतो विशेष्यतश्चैकार्थाः, यथा – ‘घटः कुम्भः ’ नीलं कृष्णम्’ इत्यादयः । केचिच्चोभयतश्च भिन्नार्थाः, यथा – गौः, अश्वः, महिषः; नीलं, शुक्ल, पीतम्’ इत्यादयः । केचिच्च विशेषणतो भिन्नार्था विशेष्यतश्चैकार्थाः; यथा- नीलमुत्पलम् देवदत्तः श्यामो युवा लोहिताक्षः’ इत्यादयः । तत्र पूर्वकोटिद्वय- व्यावृत्ततृतीय कोटिनिविष्टानां शब्दानां सामानाधिकरण्यम् । तत्र ’ भिन्नप्रवृत्तिनिमित्तानाम् " इत्यनेन विशेषणतो विशेष्यतश्चैकार्थानां घटः कुम्भः ’ इत्यादीनां न सामानाधिकरण्य- मित्युक्तम् । ’ एकस्मिन्नर्थे वृत्तिः’ इत्यनेनोभयतो भिन्नार्थानां ’ गौरश्वो महिषः ’ इत्यादीनां • न सामानाधिकरण्यमित्युक्तम् । तस्माद्विशेषणतो भिन्नार्थानां विशेष्यतश्चैकार्थानां ’ नील- सामानाधिकरण्यमिति । मुत्पलम्’ इत्यादीनामेव तत्र प्रवृत्तिनिमित्तशब्दयोरेवं वार्थः—प्रवृत्तिरभिधानम्, निमित्तमभिधेयम् । अर्थशब्दश्चाभिधेयवचनः । भित्ता– भिधेयानां शब्दानामेकस्मिन्नभिधेये वृत्तिः सामानाधिकरण्यमिति भिन्नविशेषणाभिधा- यिनां शब्दानामेकस्मिन् विशेष्ये वृत्तिः पर्यवसानं सामानाधिकरण्यमित्युक्तं भवति । भिन्नपदसामर्थ्येन निमित्तशब्दनिर्दिष्टं विशेषण भूतमभिधेयम्, एक- शब्दसामर्थ्येन चार्थशब्दनिर्दिष्टं विशेष्यभूतमभिधेयमित्यवगम्यते । अत उभयथाप्यनेक– विशेषणाभिधायिनां शब्दानामेकस्मिन् विशेष्ये पर्यवसानं सामानाधिकरण्यमिति “भिन्न- सवृत्तिनिमित्तानाम् ” इत्यादिना सामानाधिकरण्यलक्षणवाक्येनोक्तं भवति । उक्तादर्थादपि 9

५१० L — " श्रीभाष्यम् (जिज्ञासाधिकरणम्) पूर्वोक्तार्थः साधीयान् । समानाधिकरणपदेषु प्रातिपदिकं विशेषणान्वयिपरम् । तत्स्थ समानविभक्तिर्विशेष्यैक्यपरा । समानविभक्त्यैक्यबोधनं वृत्तिशब्देन विवक्षितम् । तेन " राजा तस्य पुत्रश्च दर्शनीयौ ” इत्यत्र राजतच्छब्दयोः सामानाधिकरण्यव्यावृत्तिः । तत्र हि प्रकृतपरामर्शितच्छन्द प्रातिपदिकादैक्यावगमः, न तु समानविभक्त्या । ननु नीलान्युत्पलानि ’ इत्यत्र सामानाधिकरण्यं न स्यात्, विशेष्यबहुत्वादेकार्थवृत्तित्वानुप- पत्तेः; नैवम् ; एकस्मिन्निति पदस्य समभिव्याहृतपदान्तरोपस्थापिताकारानधिकरणत्वव्या- वृत्त्यर्थत्वात् ; तत्तत्पदोपस्थापितानेकविशेषणापेक्षया साधारणत्वं ह्येकशब्दार्थः । न हि नीलान्युत्पलानि ’ इत्यत्र नीलत्वानधिकरणेषूत्पलत्वं वर्तते । अतस्तत्र सामानाधिकरण्यमुप- पन्नम् । अतः सामानाधिकरण्यलक्षणग्रन्थस्य यथोक्त एवार्थ इति । अत्र मृषावादिन आहुः सामानाधिकरण्यवाक्यमखण्डार्थम् ; तथा हि – सामानाधिकरण्यस्य तावदेकार्थ- परत्वमविगीतम् । तत्र समानाधिकरणपदानि किं विशेषणमात्रपराणि, उत तत्तद्विशेषण- विशिष्टपराणि, उत स्वरूपमात्र पराणीति विवेचनीयम् । न तावद्विशेषणमात्रपराणि, विशेषणानामनेकत्वादेकार्थत्वासिद्धेः । नापि विशिष्टपराणि; विकल्पासहत्वात् ; किं क्रमेण युगपद्वा विशिष्टार्थप्रतिपादनं पदानाम् ? न तावत् क्रमेण ; तत्र किं प्रथमपदप्रति- पन्नस्य विशिष्टस्य पदान्तरं स्वोपस्थापितविशिष्टेण तादात्म्यं विदधाति, उत विशेषणा- न्तरान्वयम् ? प्रथमे विशिष्टैक्ये विधीयमाने विशेष्यांशयोरिव विशेषणांशभूतयोर्जाति गुणयोरप्यैक्यं प्रसजेत् । द्वितीये च विशेषणानामन्योन्यसमवायप्रसङ्गः ; प्रथममेकेन विशेषणेन विशिष्टतयावगतस्य वस्तुनः पश्चाद्विशेषणान्तरविशिष्टतया बोधनं हि विशेषणान्तरान्वयप्रति- पादनम् ; तत्र विशिष्टं प्रति विशेषणतयान्वीयमानं पूर्वविशेषणस्यापि विशेषणं भवतीति विशेषणानामन्योन्यविशेषणविशेष्यभावप्रसङ्गो हि दुर्वारः । अवर्जनीयं च पदानां क्रमेणार्थ- प्रतिपादनम् । कुतः ? उद्देश्योपादेयविभागवत्त्वात्सर्ववाक्यानाम् । नापि युगपत् ; उद्दे- श्योपादेयविभागहानिप्रसङ्गेन युगपत्प्रतिपादनासंभवात्, संभवेऽपि विशेषणानां परस्परै- क्यप्रसङ्गाच्च । तथा हि- प्रातिपदिकानां विशिष्टार्थपरत्वे प्रातिपदिकार्थैक्यपरस्य समान - विभक्तिनिर्देशस्य विशिष्टैक्यपरत्वमवश्याश्रयणीयमिति विशेष्यैक्यवद्विशेषणानामप्यैक्यं प्रतिपाद्यं स्यात् । तदनुपपत्त्या विशेष्यस्यापि नैक्यं प्रतिपादयितुमलं समानविभक्तिनिर्देशः 1 ‘किंच विशिष्टपरत्वे विशेषणविशेष्याभ्यामनेकार्थत्वं विशेषणबहुत्वाच्चानेकार्थत्वम् । ततश्च

( १ – १ – १ ) 9 श्रुतप्रकाशिका 6 ५११ , 9. सामानाधिकरण्यं न सिध्यति । किंच विशेषणानां व्यावर्तकत्वस्वाभाव्याद्विशेषणभेदेन विशेष्यभेदप्रसङ्गो दुर्वारः । तथाहि — भेदकं विशेषणं भेद्यं विशेष्यमिति हि विशेषण- विशेष्ययोः स्वरूपविवेकः । दृश्यते च विशेषणानां विशेष्यभेदकत्वम् ; यथा ’ खण्डः मुण्डः घटः, पटः इत्यादिषु । ननु ’ नीलमुत्पलम् ’ ’ देवदत्तः श्यामो युवा इत्यादिषु विशेषणभेदेऽपि विशेष्यैक्यं दृश्यते । नैष दोष:, अत्र हि स्वतः प्राप्तं विशेषणानां विशेष्यभेदकत्वं प्रत्यक्षविरोधेनापोद्यते । प्रत्यक्षागोचरे तु ब्रह्मणि विशेषणभेदप्रयुक्तो विशेष्यभेदः केन वार्यते ? तस्माद्वस्तुमात्रपरमेव सामानाधिकरण्यम् । नीलमुत्पलम् ’ इत्यादिवाक्य इव सत्यादिवाक्येऽप्येकवचनान्तधर्मिवाचिपदैक्येन विशिष्यैक्यसिद्धिरिति चेत् —- न; ’ खण्डो मुण्डः पूर्णशृङ्गो गौः’ इत्यत्र विशेष्यभेदात् । ननु विशेषणभेदो न विशेष्यैक्यविरोधी; प्रत्यक्षमेव तु तद्विरोधि ; प्रत्यक्षागोचरे ब्रह्मण्येकवचनान्तधर्मिवाचि- पदैक्येन स्वतः प्राप्तमेकत्वं दुर्निवारमिति चेत् — न; ’ खण्डो मुण्डः पूर्णशृङ्गो गौ: इति परोक्षविषयवाक्येऽपि विशेष्यभेदप्रतीतेः । अतो न धर्मिवाचिपदैक्यं परोक्षे ब्रह्मण्यैक्यप्रतिपादनक्षमम् । तस्माद्विशेषणभेदप्रयुक्तो विशेष्यभेदो दुर्वारः । ततश्चैकार्थत्वं न सिध्यति । अतः पारिशेष्यात् समानाधिकरणपदानां स्वरूपमात्रप्रतिपादनपरत्वमा- स्थेयम् । एवं तर्हि पदानां पर्यायत्वम्, एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोग- वैयर्थ्यं, प्रवृत्तिनिमित्तभेदाभावेन सामानाधिकरण्यलक्षणहानिश्च प्रसजेत् । नैवम् ; एक- स्यैवार्थस्य तत्तत्पदार्थविरोधिप्रत्यनीकपरत्वेन पदानामर्थवत्त्वम्, अपर्यायत्वं, निमित्तभेद- लाभात् सामानाधिकरण्यलक्षणसिद्धिश्च । अत एव जगत्कारणत्वशङ्कितानृतत्वजंडत्व- परिच्छिन्नत्वदोषव्यावृत्तिः सत्यज्ञानादिवाक्येन क्रियते । न च व्यावृत्तिरूपधर्मवत्वं ब्रह्मण:: प्रसजति, ब्रह्मस्वरूपस्यैव सकलेतरव्यावृत्तिरूपत्वात् ; यथा शौक्ल्यादेः काष्र्ण्यादिव्यावृत्ति - स्तत्तत्पदार्थस्वरूपमेव, न धर्मान्तरम् ; धर्मान्तरानुपलम्भात्, तदभ्युपगमेऽनवस्थानाच्च । अतः कायव्यावृतं रक्तिमव्यावृत्तं शौक्ल्यमिति पदानां शौक्ल्यस्वरूपमात्रविषयाणां व्यावर्त्य - भेदेन यथा न पर्यायत्वमर्थवत्त्वमेकार्थत्वं च, अत एव सामानाधिकरण्यलक्षणवत्त्वं च, तथा सत्यादिपदानामपि व्यावर्त्यभेदेन न पर्यायत्वादिदोषप्रसक्तिः * । नन्वेवं तत्तत्पदार्थ- तथा च न्याय मकरन्दे आनन्दबोधाचार्या:- लक्ष्यार्थ भेदाभावेऽपि व्यवच्छेद्यविभेदतः । विज्ञानानन्दपदयोः पर्यायव्यर्थते कुतः ॥ " इति । —

५१२ श्रीभाष्यम् 1 (जिज्ञासाधिकरणम्) विरोधिव्यावृत्तपरत्वे लक्षणा स्यात् – नैवम् ; अवाच्योपस्थानने हि लक्षणा, यथा “गङ्गायां घोषः प्रतिवसति ” इत्यत्र गङ्गापदस्य कूलोपस्थापने; न हि कूलं गङ्गापदवाच्यम् ; अत्र तु सत्यादिपदानां वाच्यैकदेश भूतविशेषणपरित्यागेऽपि वाच्ये प्रधानांशभूतविशेष्यस्वरूप- प्रतिपादनान्न लक्षण प्रसङ्गः । तथापि विशिष्टवाचिनः शब्दस्य विशेष्यमात्रपरत्वे स्वारस्य- भङ्ग इति चेत् — नैष दोषः समानाधिकरणवाक्येष्वेकार्थपरत्वबलात् विशेषणपरित्या- गेन. स्वरूपमात्रपरत्वमेव पदानां स्वारसिकं, तथा व्युत्पत्तेः । व्यधिकरणवाक्येषु तु पदानां विशिष्टपरता स्वारसिकी । लक्षणाभ्युपगमेऽपि न दोषः, वाक्यतात्पर्यानुगुणा हि लक्षणा तद्विरोधिमुख्यवृत्तेर्बलीयसी दृष्टा; यथा – गङ्गापदे । समानाधिकरणवाक्यस्य हि ऐक्य एव तात्पर्यमिति सर्वसंमतम् । ननु सर्वपदानां लक्षणा न दृष्टा, अयुक्ता च; केनचिन्मुख्यवृत्तेन तात्पर्ये निश्चिते हि पदान्तरलक्षणा युक्ता ; सर्वपदलक्षणाङ्गीकारे किं तात्पर्यनिश्चायकम् ? उच्यते दृष्टा तावत् ’ विं भुङ्क्ष्व’ इत्यादिषु सर्वपदलक्षणा; तत्र विषपदं निषिद्धभोज्यं लक्षयति ; भुङ्क्ष्वेति भोजननिवृत्तिम् । तत्र योग्यतादिवशाद्वाक्यतात्पर्यनिश्चयः । सत्यादिवाक्येषु समानविभक्तिबलादैक्यतात्पर्यनिश्चयः, तदविरोधाय प्रातिपदिकानां लक्षणा स्वीकृता । एकपदलक्षणायामपि वाक्यतात्पर्यविरोध एव हेतुः, यथा “ गङ्गायां घोषः " इत्यादिषु । तदविरोधे एकस्यापि न दृष्टा; यथा ’ गङ्गायां मत्स्याः प्रतिवसन्ति’ इत्यादिषु । अतो वाक्यतात्पर्याविरोधायैकस्येव सर्वपदानां लक्षणा न दोषः । तस्मात्समानाधिकरणवाक्यं वस्तुमात्रपरमेवेति । एतदभिप्रायेण प्रत्यवतिष्ठते — नेत्युच्यत इति । ’ सत्यज्ञानादय गुणाः प्रतीयन्ते’ इति परिचोदिते ‘नेत्युच्यते’ इति वदतोऽयं भावः - ’ प्रतीयन्ते’ इत्यापात प्रतीतिमात्रविवक्षा चेत्तया न किंचित्प्रयोजनम् । प्रमितिविवक्षा चेत्, न तु प्रमितिर्जा यतेत्युपपाद्यत इति । कुत इत्यत्राह – सामानाधिकरण्येनैकार्थत्वप्रतीतेरिति शङ्कते - अनेकेति । यथा व्यधिकरणवाक्येषु भिन्नार्थपर्यवसायिकारकपदार्थापरित्यागे प्रधानार्थस्य कार्यस्यैकत्वम् " अर्थैकत्वादेकं वाक्यम् इत्यत्र निश्चीयते, तथा समाना करणवाक्येष्वपि विशेषणभूतगुणवाचि शब्दार्थापरित्यागेऽपि विशेष्यैक्यं सिध्यतीत्यर्थः चोदयन्तमुपालभते - अनभिधानज्ञ इति । व्यधिकरणसमानाधिकरणवाक्ययोरभिधान विशेषानभिज्ञ इत्यर्थः । देवानांप्रियो मेषः; अज्ञ इत्यर्थः । परिहरति - एकार्थत्वमिति " CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १ ) श्रुतप्रकाशिका ५१३ एकार्थत्वं नाम सर्वपदानामेकाभिधेयपर्यवसानं, न तु वाक्यस्येत्यर्थः । पृथक्पृथगर्थपर्यव- सायिनां पदानामेकप्रधानार्थान्वयादर्थैकत्वं व्यधिकरणवाक्य एव । समानाधिकरणवाक्ये तु पदानामेवैकार्थपर्यवसायित्वमित्युक्तं भवति । ततः किमित्यपेक्षायां समानाधिकरण- पदानां विशेषणमात्रपरत्वे विशिष्टपरत्वे च दूषणमेकग्रन्थेनाह - विशिष्टेति । विशिष्टे - त्यादिना कृत्स्नवाक्येन विशिष्टपक्षे दूषणमुक्तम् । विशेषणभेदेन ; विशेषणानामन्योन्यतो विशेष्याच्च भेदेन । विशेषणैर्विशेष्येण चानेकार्थत्वं स्यादित्यर्थः । किंच अर्थशब्दो विशेष्यपरतया विवक्षितः; तेन विशेषणभेदे विशेष्यभेदः स्यादिति दूषणान्तरमुक्तं भवति । किंच विशेषणभेदेन विशेष्यभेद इत्युक्ते व्यतिरेकवशाद्विशेष्याभेदे विशेषणाभेदश्च स्यादित्युक्तं भवति । विशिष्टैक्यप्रतिपादिका समानविभक्तिर्हि अविशेषेण विशेष्यैक्यव- द्विशेषणैक्यमपि प्रतिपादयतीत्यभिप्रायः । एवं विशिष्टपरत्वे युगपदभिधानपक्षे दूषण- मुक्तं भवति ।


उद्देश्योपादेयविभागहानिप्रसङ्गश्चार्थसिद्धः । क्रमेणाभिधानेऽन्योन्य- समवाय आनन्दमयाधिकरणे वक्ष्यते । विशेषणभेदेनार्थभेद इत्येतावतांशेन विशेषणमात्र- परत्वे च दूषणमुक्तं भवति । विशेषणानामनेकत्वादेकार्थत्वहानिरित्यर्थः । एवं पदानां प्रतिपाद्यभेदः प्रसञ्जितः; ततः किमित्यत्राह - ततश्चैकार्थत्वं न सिध्यतीति । सामा- नाधिकरण्यलक्षणासिद्धिरित्यर्थः । अतो वस्तुमात्रपरमिति परिशेषसिद्धम् । तदनुवादेन चोदयति — एवमिति । एवं तर्हि ; वस्तुमात्रपरत्वे । कुत इत्यत्राह - अविशिष्टार्था- भिधायित्वादिति । अनेन ’ ततश्चैकार्थत्वं न सिध्यति ’ इत्यत्र फलितोऽर्थो विवृतः । अत्र पर्यायत्वचोद्ये प्रवृत्तिनिमित्तभेदाभावात् सामानाधिकरण्यलक्षणहानिः, एकतरपदवैयर्थ्यं चेति चोद्यद्वयमभिप्रेतम् ; परिहरिष्यमाणत्वात् । उक्त चोद्यं परिहर्तुमाह– एकार्थेति । अवहितमनाः शृणु; प्रतिवचनस्यानेकवाक्यसाध्यत्वान्मध्ये न चोदनीयम्; किं त्वर्थस्य गहनत्वादवधातव्यमिति भावः । अनुपपत्तित्रयं परिहरति — एकत्वेत्यादिना । एकत्व- –तात्पर्थनिश्चयः समानविभक्त्या | अर्थवत्वम् ; प्रयोजनवत्वम् । व्यावर्त्यभेदकृतव्यावृत्ति- भेदादपर्यायत्वम् । व्यावृत्तिरूपप्रवृत्तिनिमित्तलाभात् सामानाधिकरण्यसिद्धिः । व्यावर्त्य - बहुत्वात् पदानां तत्तद्व्यावृत्तिरूपप्रयोजनवत्त्वं चेत्यर्थः । ननु " तत्त्वमसि " इत्यादि- - वाक्यवदन्वयमुखेनोपलक्षणं स्यात्; किमर्था व्यावृत्तिः ? व्यावृत्ति बहुत्वादनेकार्थत्वमा- पतितम् ; व्यावर्त्याकारानन्त्यात् कतिपयपदैर्न तद्व्यावृत्तिः शक्यते कर्तुम् ; ब्रह्मणो 65


५१४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 1 येभ्यो व्यावृत्तिः कानि च तानि वस्तूनि ? ब्रह्मणोऽनेकव्यावृत्तिमत्त्वात् सधर्मत्वम् ; व्यावृत्तीनां धर्मत्वानभ्युपगमे पदानां पर्यायत्वमित्याद्यनेकशङ्कापरिहारार्थमाह – एतदुक्तं भवतीति । लक्षणतः ; स्वरूपलक्षणतः, न तु तटस्थलक्षणतः । अनेन जगत्कार- णत्वशङ्कितदोषव्यावृत्तये ब्रह्मणः सकलेतरविरोधित्वं प्रतिपादयदिदं शोधकवाक्यं व्यावृत्तिपरं भवितुं युक्तमित्युक्तं भवति । बहुव्यावृत्तिभिरनेकार्थत्वप्रसङ्ग परिहरति तद्विरोधिरूपमिति । फलतो व्युदस्यत इति इदं वाक्यं स्वरूपमात्रपर- मेव; अत ऐकार्थ्यम्; व्युदासस्तु फलित इति भावः । व्यावर्त्याकार बहु- त्वात् कतिपयपदैर्व्यावृत्तिरशक्येत्येतत्परिहरति — सर्वमनेन पदत्रयेण फलतो व्युदस्यत इति । प्रयोजकरूपेण व्युदासे सर्वमपि व्युदस्तं भवतीत्यर्थः । विरोधीनि कानीत्यत्राह – तत्रेति । जगत्कारणत्वेन तुच्छता व्यावृत्ता; किमर्थमसत्याद्व्यावृत्तिरित्यत्रोक्तम्- विकारास्पदत्वेनासत्यादिति । स्तब्धशीतादिसाधारणजडशब्दविवरणार्थमन्याधीनप्र- काशशब्दः । यद्यपि सत्यादिष्वेकैकपदेन समस्तव्यावृत्तिसिद्धिः, तथापि ब्रह्मणि शङ्कि- तस्वेतरपदार्थगतविरोध्याकारस्यैकपदेनानिवर्तनात् पदत्रयसाफल्यम् । व्यावृत्तिभिः सधर्मत्वं परिहरति -न चेति । प्राभाकरपक्षे सिद्धान्तिमते च भावरूपधर्मः, वैशेषिकादिमते त्वभावरूपधर्मः ; तस्मात् भावरूपोऽभावरूपो वेत्युक्तम् । व्यावृत्तिर्धर्मो न चेत् किं स्यादित्यत्राह — अपि त्विति । शुक्त्यादौ हि धर्मस्य व्यावृत्तित्वं रजतादिविरोधि - त्वादभ्युपगम्यते, एवं ब्रह्म च सकलेतरविरोधित्वात् स्वयमेव व्यावृत्तिरित्यर्थः । स्वरूपस्यैव व्यावृत्तित्वे दृष्टान्तमाह—यथेति । शौक्यादेः कार्यादिव्यावृत्तिर्न धर्मान्तरम्, अनु- पलम्भात् ; धर्मान्तरत्वेऽनवस्थानाच्चेत्यभिप्रायः । तर्हि पदानां पर्यायत्वं स्यादित्याशङ्क्य काष्ण्यव्यावृत्तं पीतिमव्यावृत्तं रक्तिमव्यावृत्तं शौक्ल्यमिति दृष्टान्तवाक्याभिप्रायेण परिहरति- एकस्येति । व्युदसनीयव्युदासभेदेन पदानां प्रयोजनवत्त्वं तत एवा पर्यायत्वमित्यर्थः प्रतियोग्यवच्छिन्नवेषेण प्रवृत्तिनिमित्तलाभात्सामानाधिकरण्यलक्षणसिद्धिश्चेत्यभिप्रेतम् । पर्यायत्वादिप्रसङ्गपरिहार ऐकार्थ्याविरोधेन कृत इत्यभिप्रायेणोक्तम् —— एकार्थमिति । स्वरूपमात्रपरत्वादैकार्थ्यं हि रक्षितम् । अर्थवत्तरमिति ; तरप्रत्ययेन दृष्टान्ताच्छौ क्ल्यात् भेदवाद्यभिमतसगुणपरत्वाच्च प्रयोजनाधिक्यमभिप्रेतम् । अपरोक्षभूतो हि शौक्ल्यादि- दृष्टान्तः ; तत्र स्पष्टयार्थं कायव्यावृत्तमित्यादिपदप्रयोगः ; प्रत्यक्षागोचरे तु परे ब्रह्मगि


(१ - १– १) श्रुतप्रकाशिका ५१५ 99 सकलेतरव्यावृत्तिवचनमधिकप्रयोजनमिति दृष्टान्तात् प्रयोजनाधिक्यम् ; जगत्कारणभूतस्य -ब्रह्मणः शङ्कितदोषव्यावृत्तिरेवापेक्षिता, न तु गुणान्तरमिति भेदवादिपक्षात्प्रयोजनाधिक्यम् । एवं सत्यज्ञानादिवाक्यस्यानुग्राहकस्तर्क उक्तः ; तर्कानुगृहीतेन वाक्येनृ कोऽर्थः प्रतिपन्न इत्यत्राह - तस्मादिति । तस्मात् ; उक्तन्यायानुगृहीतत्वादस्य वाक्यस्येत्यर्थः । एकमिति समानविभक्तिनिर्देशफलितमैक्यमुक्तम् । एवकारेण स्वरूपत ऐक्यं गुणतो भेद इत्यंशतोऽने- कार्थत्वव्यावृत्तिः । एतद्विशदयति-निर्धूत निखिलविशेषमिति । निर्विशेषस्य तुच्छ- -ताव्यावृत्त्यर्थं स्वयंज्योतिरिति पदम् । इत्युक्तमिति ; सत्यज्ञानादिवाक्येनेति शेषः । इत्थं सामानाधिकरण्यान्यथानुपपत्त्या सत्यज्ञानादिवाक्यस्य वस्तुमात्रपरत्वमुपपादितम् ; अथ कारणवाक्यैकार्थेन शोधकवाक्यान्तरैकार्थ्येन च हेतुद्वयेन वस्तुमात्रपरत्वमुपपाद्यते- एवमित्यादिना । तत्र प्रथमं कारणवाक्यैकार्थ्यं हेतुरुच्यते - एवमिति । एवम् ; निर्वि शेषपरत्वेन निर्वाहे सत्येव कारणवाक्यैकार्थ्यमित्यर्थः । कारणवाक्यैकार्थ्यं कुतोऽपेक्षितम् ? ऐकार्थे सति कथं वा निर्विशेषपरत्वमित्यत्राह – यत इत्यादि । “ यतो वा इमानि -इत्यादि लक्षणवाक्यम्, एतस्य कारणत्वानुवादेन लक्षणपरत्वात् । कारणत्वप्रापकं वाक्य- माह - सदेवेति । उपलक्षितस्य ; उपलक्षणं नाम चन्द्रस्य शाखेव तटस्थं ज्ञापकम् । सत्यं ज्ञानमनन्तं ब्रह्मेति ; अनेन वाक्येनेत्यर्थः । कारणवस्तुनः स्वरूपशोधकत्वात् कारणवाक्यैकार्थ्यमस्यापेक्षितमित्युक्तं भवति । अस्तु कारणवाक्यैकार्थ्यम् ; तत्तु सगुण- ब्रह्मकारणत्ववादिभिः “ यः सर्वज्ञः सर्ववित् " यस्य ज्ञानमयं तपः " तस्मादेतद्ब्रह्म - नाम रूपमन्नं च जायते " तमीश्वराणां परमं महेश्वरम् " " स कारणं करणाधिपा- धिपः " इत्यादिवाक्यैरेव स्यादित्यत्राह – तत्रेति । तत्र ; कारणवाक्यैकार्थेऽपेक्षिते । सर्वशाखाप्रत्ययन्यायो अनुक्तार्थस्वीकारफलः ; तेनात्रानुक्तस्योपनिषदन्तरोक्तस्याप्यर्थस्य • स्वीकर्तव्यत्वे सति सगुणमात्रपरासूपनिषत्सु निर्गुणमपि ब्रह्मोक्तं भवति ; तत्रापच्छेदन्या- येन निर्गुणवाक्यानां बलीयस्त्वात् सर्वत्र सजातीयविजातीयव्यावृत्तमद्वितीयं ब्रह्मैव प्रति- पादितं भवतीत्यभिप्रायः । ततः किमित्यत्राह – जगदिति । जगत्कारणेत्यादिपदैः कारणवाक्योक्तमर्थमनुवदति । प्रतिपिपादयिषितम् ; तात्पर्यभूमिः । वस्तुमात्र एव तात्पर्यमित्यर्थः । तदविरोधेन वक्तव्यम् ; कारणवाक्यप्रतिपन्नब्रह्मस्वरूपशोधकत्वात्तदवि- - रोधेनानेन वाक्येन वक्तव्यमित्यर्थः ।


" 66 66 नरपतिरद्वितीयः’ इत्यादिवत्समाभ्यधिकराहित्ये-

५१६ 66 सदेव " " श्रीभाष्यम् (जिज्ञासाधिकरणम्) ऽप्यद्वितीयत्वमुपपन्नमिति तदैकार्य्येऽपि न निर्गुणपरत्वसिद्धिरित्यत्राह – अद्वितीयत्व- श्रुतिरिति । 66 एकम् इति विजातीयसजातीयव्यावर्तकावधारणद्वयसम- भिव्याहृतत्वादिदमद्वितीयपदं गुणतोऽपि सद्वितीयतां न सहत इत्यभिप्रायः । एवं कारण- वाक्यैकार्थ्यात् सत्यज्ञानादिवाक्यस्य वस्तुमात्रपरत्वमुपपादितम् ; अथ शोधकवाक्यान्त- रैकार्थ्यं हेतुरुच्यते—अन्यथेति । अन्यथा ; सत्यादिवाक्यस्य विशिष्टपरत्वे ; " निर्गुणं निरञ्जनम्" इत्यादिभिर्विरोधः स्यात्; अतस्तदविरोधायेदं वाक्यं निर्विशेषवस्तुमात्रपर- मित्यर्थः । अन्यथा निर्गुणं निरञ्जनमित्यादिभिर्विरोधश्चेत्यनेनाद्वितीयत्वश्रुतेर्गुण- तोऽपि सद्वितीयतानिषेधपरत्वं चार्थादुपपादितं भवति । हेतुत्रयेणोपपादितमर्थं निगम- यति—अतश्चेति | अतः पूर्वोक्तसामानाधिकरण्यान्यथानुपपत्त्या पश्चादुक्तकारणवाक्यशे- धकवाक्यान्तरैकार्थ्यरूपहेतुद्वयेन चेत्यर्थः । एतल्लक्षणवाक्यम्; स्वरूपलक्षणवाक्यम् । अखण्डैकरसम्; निर्विशेषतै कस्वभावमेव प्रतिपादयतीत्यर्थः । 66 66 भावप्रकाशिका अन्यथा येष्विति हि वक्तव्यमिति ; द्वयोरेकस्य च बहुत्वोपजनकत्वादिति भावः । एकस्मिन्नर्थे वृत्तिः " इत्यत्रैकशब्दस्यैकत्वसंख्याप्रधानत्वादिवाचित्वसंभवाल्लक्ष- णस्य न सम्यक्त्वमित्याशङ्क्य समानपदव्याख्यानत्वादेकशब्दस्य विवक्षितार्थलाभः संभवतीत्यभिप्रायेण समानाधिकरणशब्द योरर्थमाह– समानमेकमधिकरणमिति । ततश्च भिन्नप्रवृत्तिनिमित्तानाम्” इति सामानाधिकरण्यनिरुक्तिव्याख्यानसमये “ एकस्मिन्नर्थे इत्यस्मिन्नंशे व्याख्यातव्ये समानाधिकरणशब्दव्याख्यानं न संगतमिति शङ्का पराकृता । समानशब्दसामर्थ्यादेकशब्द: साधारणपर इति ; न चैवमन्योन्याश्रय इति वाच्यम्, परस्परसाहचर्यस्य गुरुभार्गवौ’ इत्यादावर्थविशेषप्रतिपादकत्वदर्शनादिति भावः । चैकशब्दस्यैकसंख्यापरत्वे कानुपपत्तिः ? नीलोत्पलशब्दयोरेकत्व संख्याश्रयार्थवृत्तित्व- संभवादिति वाच्यम् ; ’ बहून्युत्पलानि ’ इति शब्दयोरेकत्व संख्याश्रयभूतार्थवृत्ति- त्वासंभवेन सामानाधिकरण्याभावप्रसङ्गात् । अत एव समानकर्तृकयोः पूर्वकाले’ इत्यत्रापि समानशब्दार्थभूतमेकत्वमपि साधारणत्वमेव, न तु संख्याविशेषरूपम्. पक्त्वा भुञ्जते’ इत्यादौ कर्तुरेकत्वसंख्याश्रयत्वाभावादिति द्रष्टव्यम् । इदं च शङ्कापरिहारव्याजेन " ननु नीलान्युत्पलानि ” इत्यत्र स्पष्टयिष्यते । पूर्वोक्तार्थः साधी 6 ‘ । न

({ –२–१) भावप्रकाशिका

  • " ५१७ यानिति ; विवक्षितार्थविशेषाणां शाब्दत्वसिद्धेरिति भावः । तत्स्थसमानविभक्तिर्विशे- ब्यैक्यपरेति ; नन्वेवं विशेषणविभक्तेरैक्यार्थकत्वे निषादस्थपत्यधिकरणविरोधः, षष्ठी- तत्पुरुषे लुप्तविभक्त्यर्थे प्रातिपदिकलक्षणावत् विशेषणविभक्त्यर्थे ऐक्ये निषादपदलक्षणाया अङ्गीकर्तव्यत्वात् ; तस्माद्विशेषणविभक्तेः साधुत्वार्थकत्वमेव, न त्वैक्यार्थकत्वमिति चेत् — न; ऐक्यस्य विभक्तत्यर्थत्वेऽपि तत्र प्रातिपदिकलक्षणायां प्रमाणाभावात्, विग्रहसमासयोः समानार्थत्वनियमाभावात् । तस्मात् षष्ठीतत्पुरुषे संबन्धस्य शाब्दबोधे प्रकारतया भान- स्यानुभवसिद्धत्वेन तदर्थं लक्षणाश्रयणेऽपि कर्मधारयेऽभेदस्य संसर्गमर्यादया भानस्यैवानु- भवसिद्धत्वेन न लक्षणेत्याशयात् । केचित्तु – “ एकस्मिन्नर्थे वृत्तिः " इत्यस्यैकार्थवृत्ति- मद्विभक्तिद्वयवत्त्वमित्यर्थः । ततश्च विशेषणविभक्तेर्विशेष्यविभक्त्यार्थैक्यात् विशेष्यवि- भक्त्यर्थानुवादितया साधुत्वमात्रार्थत्वमेव । विभक्त्यर्थैक्यबोधनं वृत्तिशब्देन विवक्षित- मित्यस्यापि तत्रैव तात्पर्यम् । अत एव ‘घटस्य स्वरूपम् ’ इत्यादावपि नातिप्रसङ्गः, तत्र विभक्त्योर्भिन्नार्थत्वात् । नन्वेवं ’ देवदत्तः पचति’ इत्यत्र सुप्तिङोः सामानाधिकरण्यं स्यात्, तिङो यत्नादिरूपातिरिक्तार्थाभिधायित्वादिति चेत् — न ; तत्र सामानाधिकरण्य- व्यवहारस्यामुख्यत्वादिति वदन्ति । एकशब्दस्य साधारणार्थत्वमुक्तं विस्मृस्य चोदयति- ननु नीलान्युत्पलानीति । समभिव्याहृतपदान्तरेति ; समभिव्याहृतपदान्तरोपस्था- पिताकारान्तराधिकरणवृत्तित्वमेवैकार्थवृत्तित्वम् न तु व्यक्तिद्वयावृत्तित्वमित्यर्थः । नीलत्वानधिकरणेषूत्पलत्वं वर्तत इति नीलत्वानधिकरणेष्वेवोत्पलत्वं वर्तत इत्यर्थः । खले कपोतन्यायेन युगपदुपस्थितानामन्वय इति पक्ष संभवेऽपि विशेषणानामिति । । आह- — प्रवृत्तिनिमित्तभेदाभावेन सामानाधिकरण्य- लक्षणहानिश्चेति ; अत्र केचित् - ’ प्रवृत्तिनिमित्तभेदाभावेन ’ इत्येतत् पर्यायत्वे पदान्तरवैय- र्येऽपि हेतुः ; अतः काकाक्षिन्यायेन पूर्वत्राप्यन्वयो वक्तव्यः ; एवमुत्तरत्रापि । न च सत्यत्वज्ञानत्वादीनां प्रवृत्तिनिमित्तानां भेदस्य सत्त्वात् कथं पर्यायत्वमिति वाच्यम्, सत्यत्वादीनां शुद्धादन्यत्राभावेन सत्यादिवाक्यानां लक्षणया स्वरूपमात्रपरत्वेन शुद्धेऽपि तदसिद्ध्या प्रवृत्तिनिमित्तभेदाभावेन पर्यायत्वं स्यादिति वदन्ति । अन्ये तु पर्यायत्वमन्यू- नानतिरिक्तार्थत्वम् ; विशेषणतो विशेष्यतश्चानतिरिक्तार्थकत्वम् ; तत्र प्रवृत्तिनिमित्तभेदा- भावमात्रं न हेतु:, भिन्नविशेष्याभिप्रायेण प्रयुक्तयोर्घटकुम्भशब्दयोः प्रवृत्तिनिमित्तभेदा- CC-0 No Rights Reserved. Digitized by eGangotri५१८ श्रीभाप्यम् (जिज्ञासाधिकरणम्) भावेऽप्युक्त पर्यायत्वाभावात्; अतः सामानाधिकरण्यलक्षणहानावेव हेतुरिति वदन्ति अत एव जगत्कारणत्वेति ; यत एव सत्यज्ञानादिशब्दानामनृतजडपरिच्छिन्नविरोधि- स्वरूपोपस्थापकत्वम्, अत एव सत्यज्ञानादिपदैः कारणत्वशङ्कितानृतजडादिभ्रान्ति- व्युदासः क्रियत इत्यर्थः । व्यावर्त्यभेदेन यथा न पर्यायत्वमिति ; कार्ण्यरक्ति मादीनां भिन्नतया तत्तदवच्छिन्नव्यावृत्तीनां प्रवृत्तिनिमित्तानां भेदात् यथा अपर्यायत्व- मर्थवत्वं चेत्यर्थः । न चानृतजडपरिच्छिन्नव्यावृत्तीनामपर्यायत्वसिद्ध्यर्थं भेदस्याभ्युपेतत्वे कथमेकार्थत्वं सिध्येदिति वाच्यम्, पदार्थोपस्थितिदशायां व्यावृत्तीनां भानेऽपि वाक्यार्थ- प्रतीतिदशायां तत्तद्व्यावृत्त्युपलक्षितस्वरूपमात्रस्यैव प्रतीयमानतयैकार्थत्वाविरोधात् । नच वाक्यार्थप्रतीतिदशायामपि व्यावृत्तिवैशिष्ट्यं भासतामिति वाच्यम्, शौक्ल्यस्वरूपमात्र बु त्सायामेव कार्ण्यादिव्यावृत्तमित्त्युत्तरस्यावतीर्णतयास्य वाक्यस्य स्वरूपातिरिक्तार्थप्रति पादकत्वासंभवात् । अत एवं सत्यज्ञानादिवाक्यानां ब्रह्मस्वरूपमात्रप्रश्नोत्तरतया व्या- वृत्तिवैशिष्टयाबोधकत्वम् । अत एव संसर्गागोचरप्रमाजनकत्वलक्षणमखण्डार्थत्वं युज्यत इति भावः । केचित्तु — अनृतजडपरिच्छिन्नव्यावृत्तिवैशिष्टयं सत्यज्ञानादिवाक्ये भासत एव । न चैवं संसर्गागोचरप्रमाजनकत्वलक्षणमखण्डार्थत्वं भज्येतेति वाच्यम् अभिन्नविशेषणविशेष्यार्थत्वरूपाखण्डार्थत्वस्य वैशिष्ट्यगोचरत्वेऽप्यविरोधात् । सत्यपदजन्य प्रतीतिविषययोरेव विशेषणविशेष्ययोर्वस्तुतो भेदरहितयोर्व्यावृत्तिब्रह्मस्वरूपयोरेव ज्ञानपद जन्यप्रतीतिविषयविशेष्यविशेषणत्वात् ब्रह्मस्वरूपाया अनृतव्यावृत्तेर्जडव्यावृत्तिरूपत्वे विशेष णयोर्व्यावृत्त्योर्भेदाभावात् । न चैवमेकप्रवृत्तिनिमित्तकतया पर्यायत्वं स्यादिति वाच्यम् अन्यूनानतिरिक्तार्थकत्वस्यैव पर्यायशब्दार्थतया व्यावृत्तिरूपविशेषणे विशेषणभूतानां भिन्न भिन्नानां प्रतियोगिनां भानेन पर्यायत्वस्याप्रसक्तेरिति वदन्ति । ननु शक्त्या पदजन्य पदार्थोपस्थितेः शक्यतावच्छेदकप्रकारकत्वावश्यंभावात् शक्त्या पदजन्यब्रह्मस्वरूपोपस्थि तेरपि शक्यतावच्छेदकीभूतसत्यत्वादिप्रकारकत्वप्रसङ्गेन वाक्यस्याखण्डार्थत्वभङ्गप्रसङ्गः अतोऽनृतजडपरिच्छिन्नव्यावृत्तब्रह्मस्वरूपोपस्थितिरपि लक्षणयैवेत्यभ्युपगन्तव्यमित्यरुचेराह लक्षणाभ्युपगमेऽपीति । समानविभक्तिबलादैक्यतात्पर्यनिश्चय इति ; इदमुपलक्षणम् लक्षणवाक्यत्वात् ब्रह्मस्वरूपमात्र प्रश्नोत्तरत्वाच्चेत्यपि द्रष्टव्यम् । सर्वपदानां लक्षणा दोष इति ; सर्वप्रातिपदिकानामित्यर्थः, विभक्तेरैक्यार्थाया लक्षकत्वाभावात् । य

(१०– १ – १ ) भावप्रकाशिका 66 ५१९ विभक्त्यर्थस्यैकत्वस्य संसर्गप्रतीतौ वाक्यस्याखण्डार्थत्वभङ्गप्रसङ्गात्तस्य सत्यत्वादितुल्यशील- त्वात् । न चैवं समानविभक्तिबलादैक्य तात्पर्यनिश्चय इति पूर्वग्रन्थविरोध इति वाच्यम्, प्रातिपदिकार्थमात्रप्रश्नोत्तरत्वेन ब्रह्मस्वरूपमात्रे तात्पर्यावगमादिति तदभिप्रायादिति वर्ण- यन्ति । “सत्यज्ञानादिगुणाः प्रतीयन्ते " इति परिचोदिते सति, “ नेत्युच्यते " इति वदतः प्रतीत्यपलापदोषः स्यादित्याशङ्कयाह — नेत्युच्यत इति वदतोऽयं भाव इति । सर्वपदानामेकाभिधेयपर्यवसानमिति ; एकस्य पदस्याभिधेयम् ; एकप्रातिपदिकार्थ- मात्रनिष्ठत्वमित्यर्थः । न तु वाक्यस्येत्यर्थ इति ; न त्वेकवाक्यार्थत्वमित्यर्थः । तथ सति सर्ववाक्यमप्यखण्डार्थं स्यादिति भावः । पदानामेवैकार्थपर्यवसायित्वमिति ; एवकारो भिन्नक्रमः । पदानामेकप्रातिपदिकार्थपर्यवसायित्वमेवाखण्डार्थत्वं, न त्वेकप्रधा- नार्थपर्यवसायित्वमात्रमित्यर्थः । ततश्च पदानामेकार्थपर्यवसायित्वे वाक्यस्यापि तद- स्त्येव ; वाक्यस्यैकार्थपर्यवसायित्वे पदानामपि तदस्त्येव ; पदव्यतिरेकेण वाक्यस्याभा- वादिति शङ्का प्रत्युक्ता । कृत्स्नवाक्येनेति ; विशेषणभेदेन विशेष्यभेद इत्यंशेन विशेषण- मात्रपरत्वे दूषणमिति भावः । विशेषणभेदेनेति व्याख्येयं पदम् । युगपदभिधानपक्षे दूषण- मुक्तं भवतीति; इदमुपलक्षणम्, क्रमेणाभिधानपक्षे विशेषणान्तरान्वयो बोध्यत इति द्वितीय – विकल्पेऽन्योन्यसमवायरूपदूषणमुक्तमिति द्रष्टव्यम् । सामानाधिकरण्यलक्षणासिद्धिरि- त्यर्थ इति ; एकवस्तुमात्रपरत्वरूप सामानाधिकरण्यलक्षणासिद्धिरित्यर्थः । चोद्यद्वयमभिप्रेत- मिति ; अत्र केचित् - पदान्तरवैयर्थ्यस्य पर्यायत्वस्य चैकवस्तुमात्रपरत्वरूप सामानाधि- करण्येऽवश्यं भावमाशङ्कय एकवस्तुमात्रपरत्वेऽप्यपर्यायत्वं पदान्तरावैयर्थ्यं च संभवतीति पदान्तरवैयर्थ्यपर्यायत्वरूपदूषणद्वयप्रसङ्गस्यैव परिहरिष्यमाणतया दूषणद्वय एव तात्पर्यम् । ततश्चैकवस्तुमात्रपरत्वे पर्यायत्वं पदान्तरवैयर्थ्यं च स्यात् ; तस्य कथंचित्परिहारे एक- वस्तुमात्रनिष्ठत्वरूपसामानाधिकरण्यभङ्गप्रसङ्ग इत्येवंपरतया टीकाग्रन्थोऽपि योजनीय इति वदन्ति । व्युदासस्तु फलित इति; अयं भावः – यद्यपि सत्यपदोपस्थापितस्वरूपव्य- तिरिक्तं न पदान्तरेण प्रतिपाद्यते, अथापि सत्यपदेनैवानृतभ्रान्तिव्युदासः, ज्ञानपदेनैव जड भ्रान्तिव्युदासः, अनन्तपदेनैव परिच्छिन्नभ्रान्तिव्युदासः ; अनृतजडपरिच्छिन्नव्या- वृत्त्युपस्थितेस्तत्तत्पदाधीनत्वात् ; तत्तद्व्यावृत्तिपूर्वकस्वरूपोपस्थितेरेवानृतजडपरिच्छिन्नभ्रा- न्तिव्युदासकत्वात् । यथाभिज्ञाभ्यामवगतस्वरूपस्यैव प्रत्यभिज्ञाविषयत्वेन विषयकृतवि–

५२० श्रीभाष्यम् (जिज्ञासाधिकरणम्) - शेषाभावेऽपि कालद्वयप्रतिसंधानादिलक्षणकारणकृतोऽभिज्ञाद्वयानिवर्त्य भेदभ्रमनिवर्तकत्वल- क्षणो विशेषः प्रत्यभिज्ञायां दृश्यते, एवं सत्यपदजन्योपस्थितेरनृतप्रतिसंधानपूर्विकाया एवानृतभ्रान्तिनिवर्तकत्वं, जडप्रतिसंधानपूर्विकाया एव ज्ञानपदजन्योपस्थितेर्जड भ्रान्ति- निवर्तकत्वमित्येवमनृतजडपरिच्छिन्नव्युदासः फलित इति भावः । प्रयोजकरूपेणेति ; अनेकपदार्थसंग्राहकानृतत्वाद्याकारेणेत्यर्थः । एतस्य कारणत्वानुवादेन लक्षणपरत्वा- दिति ; लक्षणत्वविधिपरत्वादित्यर्थः । उपलक्षणं नाम चन्द्रस्येति मायाशबलसगुण- ब्रह्मगतं कारणत्वं तदननुगतस्य लिलक्षयिषिताखण्डचैतन्यस्य तटस्थतयोपलक्षणं शाखाग्रमि- वातन्निष्ठं चन्द्रमसः । तस्य प्रकृष्टप्रकाशत्वमिव सत्यज्ञानानन्दरूपं स्वरूपलक्षणम् । न चावश्यमपेक्षितेन सत्यज्ञानानन्दत्वरूपस्वरूप लक्षणेनैवेतरव्यावृत्तिसिद्धेर्जगत्कारणत्वरूप तटस्थलक्षणं व्यर्थम् ; चन्द्रादौ तु ‘प्रकृष्टप्रकाशः ’ इत्यनेनैव स्वरूपे प्रतिपन्नेऽपि तद्दिदृक्षया चन्द्रबुभुत्सोर्गगने सर्वतश्चक्षुर्विक्षेपे क्लेशः स्यात् स मा भूदिति देशविशेषे चक्षुनियमनार्थतया तटस्थ लक्षणमुपयुज्यत इति वक्तुं शक्त्यमिति वाच्यम्- प्रकरणोपपदादिसंकोचकाभावेन त्रिविधपरिच्छेदपरिपन्थिनिरतिशयबृहत्त्ववाचिब्रह्मशब्दार्थस्य निष्प्रपञ्चस्य लिलक्षयिषितस्य ब्रह्मणः यद्रजतमभात् सा शुक्तिः’ इतिवदध्यारोपा पवादन्यायेन यत्प्रपञ्चविवर्तोपादानं तद्ब्रह्म’ इति निष्प्रपञ्चत्वसिध्यर्थं जगदुपादानत्वस्व ब्रह्मणि वक्तव्यत्वेन तटस्थलक्षण साफल्यात् ; स्वरूप विशेषप्रतिपत्त्यर्थतया 6


णस्याप्यावश्यकत्वमिति हि मृषावादिनां मतमिति भावः । श्रुतप्रदीपिका स्वरूपलक्ष निर्गुणपरतयोपात्तं सत्यादिवाक्यं सगुणपरं बुद्धा चोदयति– ननु चेति सत्यज्ञानादयः ; सत्यत्वज्ञानत्वादयः ; ’ येकयो:’ इतिवत् ; तत्रहि द्वित्वैकत्वयोरित्यर्थः अन्यथा ह्येष्विति बहुवचनप्रसङ्गात् । परिहरति — नेति । प्रतीतिरापाततश्चेत् नः, न क्षतिः । प्रमितिश्चेत्, नेत्युपपादयिष्यत इत्यर्थः । कुत इत्यत्राह - सामानाधिकरण्येनेति शङ्कते – अनेकेति । व्यधिकरणवाक्येष्विव न पदार्थानेकत्वं वाक्यार्थैकत्वविरोधी भावः । समानाधिकरणव्यधिकरणवाक्ययोरभिधानविशेषानभिज्ञ इत्युपालभ्य परिहरति- अनभिधानेति । देवानां प्रियः ; छागः, अज्ञ इति भावः । कथमित्यत्राह — एकार्थ त्वमिति । न तु पृथगर्थपद समुदायबोध्यप्रधानार्थैकत्वम् तत्तु व्यधिकरणवाक्येष्वि . ;

(१ – १ – १ ) श्रुतप्रदीपिका ५२१ भावः । ततः किमित्यत्राह – विशिष्टेति । समानाधिकरणवाक्यस्थप्रातिपदिकानि किं विशेषणमात्रपराणि, उत विशिष्टपराणि, उत स्वरूपमात्रपराणीति विकल्पमभिप्रेत्य प्रथमे विशेषणरूपार्थानेकत्वान्नार्थैक्यम् ; द्वितीयेऽपि तत्तुल्यम् ; किंच विशेषणविशेष्यरूपार्थ- भेदाच्च नार्थैक्यम् ; विशेषणभेदेन विशेष्यभेदप्रसङ्गाच्च ; विशेषणं हि भेदकम् ; ‘देवदत्तः श्यामो युवा’ इत्यादौ प्रत्यक्षबलादैक्यम् ; ब्रह्म तु न तगोचरम् ; न चैकवचनान्त- धर्मिवाचिपदैक्याद्विशेष्यैक्यम्, ‘खण्डो मुण्डः पूर्णशृङ्गो गौः’ इत्यत्रादृष्टेः । तद्बहुत्वं “प्रत्यक्षबलादिति चेत् — न; अप्रत्यक्षगोरपि पुरुषस्यानेन वाक्येन गोबहुत्वप्रतीतेः । तस्मादप्रत्यक्षे ब्रह्मणि विशेषणभेदप्रयुक्तविशेष्यभेदो दुर्वार इत्यादिदूषणानि विशेषणभेदे- नेत्यादिग्रन्थेनोक्तानि । अर्थशब्दो विशेष्यस्यापि वाचकः । क्रमेणाभिधानं चेत् विशेष्य -इव विशेषणेऽपि पदान्तरविहितविशेषणान्वयाद्विशेषणयोर्मिथः समवायः, युगपच्चेत् समानविभक्त्या विशेष्यांश इव विशेषणेऽप्यैक्यप्रतिपादनाद्विशेषणैक्यम्, उद्देश्योपादेय- विभागाभावश्चेत्यादिदूषणान्यन्यत्रोक्तानीहाभिप्रेतानि । ततः किमित्यत्राह - ततश्चेति । शिरोद्वयदूषणात् तृतीयं शिरोऽर्थात् स्वीकृतम् ; तद्विवृण्वंश्चोदयति - एवमिति । एवं तर्हि ; वस्तुमात्रपरत्वे । एकतरपदवैयर्थ्यं सामानाधिकरण्यलक्षणहानिश्चाभिप्रेते, परि- हरिष्यमाणत्वात् । इदं बहुग्रन्थैः परिहर्तुं मध्ये त्वरया न चोदनीयमित्यभिप्रायेणाह - एकार्थेति । एकार्थाभिधायित्वेऽपीति चोद्यहेत्वनुवादः । परिहरति — एकत्वेति । तात्पर्यनिश्चयः ; समानविभक्त्या । लक्षणहानि परिहारश्चशब्दाभिप्रेतः । अर्थवत्त्वम् ; प्रयो- जनवत्त्वम् । बहुव्यावर्त्यव्युदासनादर्थवत्त्वं प्रवृत्तिनिमित्तभूतैस्तैरपर्यायता, सामानाधि- -करण्यलक्षणानुरोधश्चैकार्थत्वाविरोधेन सिध्यन्तीत्युक्तं भवति । तत्त्वंपदयोरिवान्वय- - मुखेनोपलक्षणद्वारा स्वरूपपरत्वं किं न स्यात् ? व्यावृत्तिबहुत्वान्नैकार्थत्वम्, व्यावर्त्या - नन्त्यान्न तद्व्युदासः कतिपयपदैः शक्यते, येभ्यो व्यावृत्तिः कानि च तानि ? व्यावृत्तिमत्त्वात् सधर्मकत्वम्, व्यावृत्तयो न धर्माश्चत् पर्यायता स्यादित्याशङ्काया- माह - एतदुक्तमिति । कारणतयोक्तस्य शङ्कितदोषव्युदासस्यापेक्षितत्वादतव्यावृत्तिमुखेन स्वरूपपरत्वमित्यभिप्रेत्य लक्षणत इत्युक्तम् । सर्वमनेन पदत्रयेण फलत इति ; प्रयोज- केन स्वरूपेणानन्तव्यावर्त्यव्युदास इति भावः । व्युदासस्तु फलितः, पदानि तु स्वरूपपरा- णीत्येकार्थत्वं चाभिप्रेतम् । केन कस्माद्व्यावृत्तिरित्यत्राह — तत्रेति । कारणतयैक 66 11

५२२ तुच्छत्वव्यावृत्तेर्विकारिव्यावृत्तिरुक्ता श्रीभाष्यम् जरूपेत्यस्य (जिज्ञासाधिकरणम्). व्याख्यानमन्याधीनप्रकाशेति । ताभिः सधर्मकत्वमित्यत्राह — न चति । वादिविशेषापेक्षया भावाभावरूपतोक्तिः । तर्हि किमित्यत्राह – अपित्विति । निदर्शयति — यथेति । न धर्मान्तरमिति ; अनुपल- म्भात् तदभ्युपगमेऽनवस्थानाच्चेति भावः । तर्हि पर्यायता स्यादिति शङ्कायां शौक्ल्यं कार्ण्यव्यावृत्तमित्यादिप्रतिबन्ध्यभिप्रायेणाह – एकस्यैवेति । अर्थवत्तरम् ; दृष्टा- न्तापेक्षया पराभिमतसगुणपरत्वापेक्षया वा । शौक्ल्यं हि प्रत्यक्षम् । अतो वाक्यं मन्दप्रयोजनम् । शोधकस्य शङ्कितदोषव्युदासो हि कृत्यम्, न तु गुणान्वयज्ञापन- मिति । अथ वाक्यार्थमाह — तस्मादिति ; सामानाधिकरण्यस्याभावात् । अथ कारण- वाक्यैकार्थ्यं हेतुमुपपादयति - एवमिति । ऐकार्थ्यं कुतोऽपेक्षितमित्यत्राह - यत इति लक्षणकारणत्वप्रापकवाक्ये उपात्ते । उपलक्षणं ज्ञाप्यत्रहिष्ठमिन्दोरिव शाखा कारणवाक्यावगतस्य शोधकत्वात् तदैकार्थ्यमित्यर्थः । तर्हि " यः सर्वज्ञः इत्याद्युक्त- सगुणकारणवाक्यैकार्थ्यं स्यादित्यत्राह तत्रेति । अनुक्तस्यान्यतो ग्राह्यत्वात् सगुणेष्वपि निर्गुणत्वमुक्तं भवति । तत्रापच्छेदनयान्निर्विशेषत्वं सर्वत्र सिध्येदिति भावः । किमित्यत्राह – जगदिति । अस्त्वविरोधः ; तत्रापि " नरपतिरद्वितीयः " इतिवत् किं न स्यादित्यत्राह - अद्वितीयत्वेति " सदेव, एकमेव " इति सजातीयविजातीयभेद- धीनिवर्तकसावधारणपदद्वयसमभिव्याहारेण परिशेषात् " अद्वितीयम्” इति स्वगतभेद- निवर्तकमित्यर्थः । अथ शोधकान्तरैकार्थ्यं हेतुमाह – अन्यथेति । अन्यथा ; सत्यादि- वाक्यस्य सगुणपरत्वे । उक्तहेतुत्रयेण निर्विशेषपरत्वं निगमयति — अत इति । एतल्ल क्षणवाक्यम् ; स्वरूपलक्षणवाक्यम् । अखण्डैकरसम् ; निर्विशेषतैकस्वभावम् । 66 तत्त्वटीका 99 ततः अत्र सत्यत्वादिविशिष्टपरं वाक्यं कथं निर्गुणवाक्यतयोपात्तमिति चोदयति— ननु चेति । सत्यज्ञानादयः ; द्वयेकयोः " इतिवद्भावप्रधानोक्तिः । आनन्त्यम व्यापित्वरूपो गुण इति बुद्धया बहुवचनम् । अयं भावः अत्र गुणप्रतीतिर्नापह्नोतुं शक्या तस्याश्च बाधाभावात् स्वतः प्रमात्वं सुस्थमिति । नेयं प्रमितिरिति युक्तत्या स्थापयि ष्यत इत्याह- नेत्युच्यत इति । एकार्थतात्पर्यार्हत्वरूपवृत्त्या गुणभेदधीर्बाध्येत्याह- सामानाधिकरण्येनेति । कारकभेदक्रियैकत्वबुद्धघोरिव विशेषणभेदविशेष्यैक्यधियो CC-0 No Rights Reserved. Digitized by eGangotri(१-१ – १) 66 1 तत्त्वटीका ५२३

  • रविरोधान्न बाध्यबाधकतेति चोदयति – अनेकेति । समानाधिकरणव्यधिकरणपदानां वृत्ति- वैषम्यमेकार्थशब्देनान्ययोगव्यवच्छेदं च न जानासीत्युपालम्भमुखेन प्रतिवक्ति — अनभि- धानेति । देवानांप्रिय इति ; अज्ञातनाम्नामुपचारप्रयोगः ; इह त्वप्रख्यात इत्यर्थः । छाग इत्येके ; तदाप्यज्ञ इति यावत् । तदज्ञानं स्वाभिप्रेतं विवृणोति – एकार्थ- त्वमिति । त्रेधा हि पदानामर्थैक्यम् — प्रकृतिप्रत्यय समुदायबोध्यप्रातिस्विकविशेष्यैक्यम्, अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् " इत्येतावता मिथोऽन्वितार्थपदजात- बोध्यप्रधानैक्यं, पदभेदेऽर्थभेदाभावश्चेति । तेष्वाद्यं पदमात्रे ; द्वितीयं व्यधिकरणवाक्ये तृतीयमिह मदुक्तम् ; तच्च – “ भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् " इत्यादिपतञ्जलि - वाक्यप्रसिद्धमित्यभिप्रायेण नामशब्दः । एवमप्यस्य प्रधानप्रतिपाद्यविशेष्य भेदाभावमात्र- परत्वे को विरोध इत्यत्राह – विशिष्टेति । विशेषणभेदेनेत्येतत् बहुधा योज्यम् — विशेष - णानां मिथो विशेष्याच्च भेदेन विशेषणभेदेनैव विशिष्टभेदाद्विशेष्यभेदप्रसङ्गेन चेति । -” भेदकं हि स्वभावेन प्रत्यक्षाद्यनिराकृतम् । विशेषणान्तराधारात् स्वाधारं भेत्तुमर्हति ॥ ३३९ ॥ 1 ; श्यामो युवा’ इत्यादौ दृष्टत्वादेव विशेषणानां भेदकत्वस्वभावोऽपोदितः । इह तु भेदकं विशेषणं भेद्यं विशेष्यमिति व्यवस्थाया नित्यातीन्द्रिये शब्दोपस्थाप्ये कः प्रतिरोद्धा ? अनावृत्त एकवचनान्तो विशेष्यशब्द इति चेत्-न, जात्यैक्यविवक्षयापि तदुपपत्तेः ; यथा- “ खण्डो मुण्डो गौः’ इति । प्रत्यक्षबलात्तत्र भेद ति चेत्-न, अप्रत्यक्षेऽपि तथोक्तौ व्यक्तिभेद- बुद्धेः ; तद्वद्ब्रह्मणि । किंच तेन तेन पदेनोद्दिष्टे विशिष्टे पदान्तरार्थविधौ विशेषाणानां मिथः समवायः स्यात्, उपादेयस्य यावदुद्देश्यव्यापित्वात् ; तथाच तेषां विशेषणस्वरूपाद्भेदेन नानाविशिष्टापत्तिः । किंच- ’ विशिष्टार्थाभिधायित्वे भेदकेष्वपि भेद्यवत् । अन्योन्यसमवायैक्यप्रसङ्गौ चात्र तन्त्रितौ ॥ ३४० ॥ तथाहि — विशेषणभेदेन विशेषणानां परस्परसमवायतादात्म्याभ्यामन्यथाभावेन • पदानामव्युत्पन्नाप्रामाणिकार्थभेदः ; विशिष्टविधावपि समानविभक्तिविशेष्यांशमिव विशेषणां- -शमप्येकीकुर्यात्, प्रकृत्युपस्थापितैक्यपरत्वात् । तदापि स्वान्यैक्याद्विशेषणानां स्वस्माद्भेदः स्यादित्यादयः प्रसज्ञा इहाभिप्रेताः । एतैः फलितं प्रसङ्गान्तरमाह - तत इति ।

५२४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) विशिष्टस्यैवमनभिधेयत्वे विशेषणमात्रोक्तिर्दूरापास्तेति मत्वा विशेष्यमात्रपक्षे चोदयति- एवं तहींति ; उक्तप्रकारेण विशेष्यमात्रपरत्वे सतीत्यर्थः । भिन्ननिमित्तानामनुपपत्त्या निमित्तत्यागे कथं पर्यायत्वमित्यत्राह – अविशिष्टेति ; एकपदोक्तमात्राभिधायित्वादिति यावत् । अत एव पदान्तरवेयर्थ्यं पर्यायत्वं सामानाधिकरण्यभङ्गश्च स्यात् । आहुश्च- " नातत्तन्मन्यसे तावन्न तत्तदपि मंस्यसे । सामानाधिकरण्यं हि रूपभेदमपेक्षते ॥ 99 इति । विवक्षितस्य लोकोत्तीर्णत्वान्नैतत्त्वरमाणेन लभ्यमित्यवहितेन क्रमेणेदं बोद्धव्यमित्य- भिप्रायेणाह-एकार्थाभिधायित्वेऽपीति । उक्तप्रसञ्जकानुवादोऽयम् । तेन त्वदुक्तं न प्रसज्यत इत्याह – एकत्वेति । अयं भावः – वाक्यतात्पर्यानुसारेण हि सर्वत्रोपचारः । अत्र च स्वरूपबुभुत्सया समानविभक्त्या चार्थैक्ये तात्पर्यं निश्चितम् । तेन विशेषणाभिधानं त्यक्तम् । तत्फलभूतव्यावृत्तिपरत्वं तु स्थितम् । तदिह विरोधिव्यावृत्तिभेदैः प्रतिपदं प्रयोजन सामानाधिकरण्यलक्षणानुगुणमैकार्थ्यं निमित्तभेदव्युत्पत्तिफलैः पर्यायत्वनिरासश्च स्यादिति । उक्तं च सुरेश्वराचार्यैः- इति । " प्रतिपद्य पदार्थं हि विरोधात्तद्विरोधिनः । पश्चादभावं जानाति वध्यघातकवत्पदात् ॥ शब्दात्प्रतीयते तावत्संगतिधर्मधर्मिणोः । मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः ॥ तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम् । स्वार्थार्पणप्रनाड्यैव परिशिष्टौ विशेषणम् ॥


99 तद्विरोध्यभेदिनश्चाहुः – “ व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता । इति । नन्वेकत्वतात्पर्येऽपि तत्त्वमस्यादिवदुपलक्षणमुखेन स्वरूपैक्यपरत्वमस्तु सर्वेभ्यश्च व्यावृत्तिर्विशेषतो दुर्वचा ; अप्रयोजकत्वेन संग्रहेऽप्येकेनालम् ; व्यावृत्तीनां धर्मत्वे ताभिः प्रतिपदोपस्थापितव्यावृत्तिभेदात्स विशेषणत्वम् तद्बहुत्वादैकार्थ्यभङ्गो विशेष्य- भेदप्रसङ्गश्च ; स्वरूपत्वे तु प्रयोजनभेदाभाव इत्याशङ्कयाह – एतदुक्तमिति । “ब्रह्म विदाप्नोति परम् " इति प्रस्तुतं ब्रह्म किमिति बुभुत्सिते कारणत्वस्य तटस्थतया स्वरूप लक्षणतो ह्यत्र तत्स्वरूपं शोध्यते । तत्र विशेषणोक्तिराम्रप्रश्ने कोविदारप्रत्युक्तिवत् स्यात् ;

({-?-?) 1 तत्त्वटीका ५२५ लक्षणं च सर्वत्र व्यावृत्त्यर्थमेवेत्यभिप्रायेणाह - लक्षणत इति । रूपमिह स्वरूपम् । निःशेषव्यावृत्तिः प्रयोजकेन संग्रहात्सुवचेत्याह - तद्विरोधीति । अत्र रूपं स्वरूपं वानृतत्वादिर्ब्रह्मेतरव्याप्तधर्मो वा । अनेन; प्रत्येकं कृत्स्नव्युदासक्षमेण । न हि पदान्तरमेवंविधमस्तीत्यभिप्रायेण पदत्रयोक्तिः । एकेन पर्याप्तेऽपि प्रयोजनकात्स्न्यर्थमेता- वद्वक्तव्यम् । आनन्दपदस्य तूपलक्षणमेतत् । फलतः ; विरोधिव्युदासस्य फलत्वान्नात्र स्वरूपमात्रपरत्वं विरोध इति भावः । पदानां पृथक्प्रयोजनानि व्यनक्ति–तत्रेति ; तस्मिन् पदत्रय इत्यर्थः । प्राकरणिकेन कारणत्वेन तुच्छव्यावृत्तौ सिद्धायां शङ्कितं विकारित्वेनानृतत्वमत्र सत्यपदेन व्युदस्तम् । वस्तुशब्दोऽत्र व्यावहारिकसत्यार्थः । अन्याधीनप्रकाशत्वं जडशब्दार्थः । असंकोचात् अनन्तपदेन त्रिविधपरिच्छेद व्यावृत्ति- रुक्ता । यदि व्यावृत्तयो भावरूपा धर्माः, तदा सत्यत्वादीन्येव स्युः ; अभावरूपा अपि तत्तुल्यचोद्या इत्यत्राह–नचेति । तदापि नैष्फल्यप्रसङ्गं परिजिहीर्षुराह-अपि त्विति । व्यावृत्तिर्हि यथा स्वत एव स्वेतरव्यावृत्तिः, तद्वद् ब्रह्मस्वरूपमेव सकलेतरविरोधित्वात् स्वयं सर्वव्यावृत्तिः ; भावाद्वैतपक्षस्तु भीरुकल्पित इति भावः । भावस्याभावत्वमेकस्याने - कत्वं च कथमित्यत्र भावान्तराभावपक्षे तिष्ठन्निदर्शयति — यथेति । अवधारणेन धर्मान्त+ रानुपलम्भं व्यनक्ति । अन्यथानवस्थामभिप्रेत्याह- धर्मेति । एवमेकस्यैव सर्वव्यावृत्ति- रूपत्वे व्यावृत्तेरपि पदबोध्यत्वे पदान्तरवैयर्थ्यं स्यादित्यत्र दृष्टान्तोक्तं दाष्टन्तिकेऽतिदिशति- एकस्येति । शौक्लयं कायम्’ इत्यादिप्रतिबन्दिरिहाभिप्रेता । तत्रानन्तपदे ताव- व्यावृत्तिबोधकत्वं सिद्धम् ; पदान्तरयोरपि तथात्वे को विरोध इति भावः । प्रतिबन्दि- वाक्यमिह प्रत्यक्षानुवादित्वान्मन्दफलम् इदं तु न तथा ; गुणपरत्वे चात्र निमित्तमात्र- लाभः ; तत्परित्यागे तु तात्पर्यार्थः सिद्धः ; अतः अर्थवत्तरमित्युक्तम् । व्युत्पत्तिभेदं प्रयोजनभेदं चाभिसन्धायापर्यायत्वोक्तिः । पर्यायशब्दोऽत्र भावप्रधानः । पर्यायत्वं यस्य नास्ति तदपर्यायमिति गतिः; यस्य पदत्रयस्य मिथः पदानि पर्याया न भवन्ति, तदपर्यायमिति वा । ’ अपर्यायत्वम्’ इति केचित्पठन्ति नात्र किंचिद्वाधकमित्यभि- प्रायेण । अखण्डपरत्वं सहेतुकं निगमयति - तस्मादिति ; तात्पर्यप्राबल्यात् शङ्कित- चोद्यनिस्ताराच्चेत्यर्थः । एकमेव ब्रह्मेत्यनेन विशेष्यभेदस्य प्रसङ्ग एवापास्त इत्यभिप्रेतम् | इदमपि वाक्यं नाबुद्धबोधार्थम्, किं तु स्वतः सिद्धपरामर्शेन कल्पितविरोध्याकारमि- 6

-५२६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) - । 66 यः त्यभिप्रायेण स्वयंज्योतिरित्याद्युक्तम् । सत्यत्वादीनामनृतत्वादीनां तद्वयाप्यस्थूलत्वादीनां च निखिलशब्देन संग्रहः । उक्तानम्युपगमे कारणवाक्यविरोधः स्यादित्याह — एवमिति । ननु “ यो वेद ” इत्युपास्त्यन्वयेन सगुणपरत्वान्मा भूदैकार्थ्यम् ; तत्राह – यतो वेति कारणत्वानुवादितटस्थलक्षणवाक्यमिदम् । सदेव " इत्यादि तु तत्प्राप्त्यै लक्ष्यस्य निर्विशेषत्वव्यक्त्यै च पुनगृहीतम् । जगत्कारणतयोपलक्षितस्य ; शाखयेव चन्द्रस्य दूरे स्थित्वा दर्शितस्येत्यर्थः । कारणवाक्योक्तस्वरूपशोधकस्य तच्छेषतया तदेकार्थत्वं युक्तम् ; " यो वेद” इत्येतच्च यच्छव्दान्वितवाक्यस्थतया नोपास्तिपरमिति भावः । सर्वज्ञः सर्ववित् ” इत्यारभ्य " तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते " इति कारणवा - क्यान्तरे गुणोक्त्या तदैकार्थं स्यात् ; नेत्याह – तत्रेति । कारणशोधकवाक्ययोरैकार्थी सिद्धम् ; मिथः कारणवाक्यानां किमुतेत्याशयः । कर्तव्ये दर्शितः शाखान्तरनया सिद्धेऽपि समः । तेनैव सर्वेषु गुणपरं किं न स्यादित्यत्रोक्तम् - सजातीयेत्यादि । अपच्छेद नीत्या हि निषेधप्राबल्यं स्थापितम् । “ परास्य शक्तिः " इति वाक्यविशेषवद्गुणपरतैव किं न स्यात् ; मा भूत्तस्य शोधकवाक्यत्वमित्यत्राह – जगदिति । अद्वितीयेत्यादि हेतु परम् पूर्ववाक्ये सामान्यतः प्रस्तुतस्य व्यावृत्ततया प्रतिपित्सितस्य " तदेषाभ्युक्ता " इति प्रतिपिपादयिषितत्वात्तस्य चाद्वितीयत्वेन तदन्यस्य गुणस्यावक्तव्यत्वादिति कारणवाक्ये निर्गुणत्वं न कण्ठोक्तम् अवधारणयोरन्यथाप्युपपत्तेः । अद्वितीयत्वोक्तिस्तु सम्राद्वि तीयः’ इतिवत् समनिषेधार्थः स्यादित्यत्राह - अद्वितीयेति । अवधारणाभ्यां सजातीया दिनिरासौचित्यात्समनिषेधे सिद्धे परिशेषाहुभुत्साक्रमेणात्र गुणनिषेधः प्राप्त इति भावः गुणपरत्वे शोधकान्तरं च विरुध्येतेत्याह - अन्यथेति ; निर्गुणशब्दो हि स्थूलत्वादिव त्सत्यत्वादिकमपि निषेधेदिति भावः । ननु सर्वत्र लक्षणवाक्यं स्वार्थं समयैवान्यद्वघाव र्तयति ; तद्वदिहापि स्यादित्यत्राह - अत इति । चः समुच्चये ; सामानाधिकरण्यसाम थर्थ्यात् शोधकवाक्यान्तरैकार्थ्याच्चेत्यर्थः । एतल्लक्षणवाक्यमिति अनेन धर्मसमर्पक लक्षणवाक्यान्तरेभ्यो व्यावृत्तिः सूच्यते । अखण्डैकरसम् ; नित्यनिर्विशेषस्वप्रकाशस्त्र भावमित्यर्थः । मूलभावप्रकाशिका 6 गुणाः प्रतीयन्त इति ; सत्यज्ञानादिवाक्येनापि सत्यत्वज्ञानत्वानन्तत्वादिविशेषविशि

१–१–१) मूलभावप्रकाशिका ५२७ तयैव प्रतीतेर्निर्विशेषप्रतीतिः कापि नास्तीत्यर्थः । एकार्थत्वप्रतीतेरिति ; समानाधिकरण- वाक्येषु विशेषणविशेष्यरूपानेकार्थप्रतीतावेकार्थ लक्षणसामानाधिकरण्यभङ्गप्रसङ्ग इत्यर्थः । देवानांप्रियः ; मूर्ख इत्यर्थः । तत्र षष्ठया अलुग्विधानादेकं पदम् । विशेषणेति ; विशेषणभेदेन विशिष्टस्यापि भिन्नत्वान्नार्थैक्यमित्यर्थः । पर्यायता स्यादिति ; अन्यूना- नतिरिक्तार्थस्यैव पर्यायत्वादिति भावः । इदं चोपलक्षणम् – पदान्तरवैयर्थ्यं च स्यात्, उत्तरत्र “ सर्वपदानामर्थवत्त्वमपर्यायत्वं च " इति वक्ष्यमाणत्वात् । अविशिष्टार्थाभि- धायित्वादिति ; सर्वेषां पदानां विशेष्यस्वरूपमात्राभिधायित्वादित्यर्थः । एकत्व तात्पर्य- निश्चयादिति, सामानाधिकरण्यवाक्यत्वेनेनि शेषः । तत्तत्पदार्थेति ; सत्यपदमनृत- व्यावृत्तिपरम् ; ज्ञानपदं जडव्यावृत्तिपरम् ; अनन्तपदं परिच्छिन्नव्यावृत्तिपरमित्यर्थः । अर्थवत्त्वम् ; प्रयोजनवत्त्वम् । अपर्यायतेति ; अत्र लक्षणया स्वरूपमात्रपरत्वेऽपि सत्यत्वा- दिप्रवृतिनिमित्तभेदादिति भावः । ननु सत्यपदप्रतिपन्नार्थातिरिक्तस्य ज्ञानपदेन बोधने सामानाधिकरण्यस्याखण्डार्थत्वस्य च हानिः स्यात् ; अबोधने ज्ञानपदवैयर्थ्यमित्यत आह- एतदुक्तमिति । फलतो व्युदस्यत इति ; अयं भावः — सत्यपदाच्छक्त्या सत्यत्ववि- शिष्टस्वरूपमुपस्थाप्यते ; ज्ञानपदेन च ज्ञानविशिष्टम् ; अनन्तपदेनानन्तत्वविशिष्टम् । ततस्तु सामानाधिकरण्यनिर्वाहाय स्वरूपमात्रप्रश्नोत्तरनिर्वाहाय च स्वरूपमात्रतात्पर्येऽवगते तन्निर्वाह∫य कल्पिततयानृतजड परिच्छिन्नबुद्धिर्निवर्तनक्षमा भवति, न प्रकारान्तरेणोत्पन्ना स्वरूपमात्रप्रतीतिः । यथा ’ शौक्ल्यं कायद्यावृत्तम्’ इत्यत्र काष्र्ण्यव्यावृत्तेः शोक्ल्या- तिरिक्तत्वाभावेन ’ कार्ण्याद्यावृत्तम्’ इत्यस्य शौक्ल्यपदानवगतार्थगमकत्वाभावेऽपि काष्यभेदबुद्धिव्युदासकस्वरूपप्रतीतिजनकतया सार्थक्यम् एवं सत्यज्ञानानन्तपदानाम- नृतजडपरिच्छिन्नत्वप्रतीतिव्युदासकस्वरूपप्रतीतिजनकतया सार्थक्यं स्वरूपमात्रविषयक- वाक्यार्थप्रतीतिजनकतया सामानाधिकरण्यमखण्डार्थत्वं चोपपद्यते । ननु ’ ज्ञानमनन्तम् ’ इति पदद्वयजन्यवाक्यार्थप्रतीतेः ‘सत्यं ज्ञानमनन्तम्’ इति पदत्रयजन्यवाक्यार्थप्रतीतेश्च विषयकृतविशेषाभावात् सत्यपदस्यानृतत्वबुद्धिनिरा सकतया साफल्यं कथमिति चेत्, उच्यते–विषयकृतविशेषाभावेऽपि कारणकृतविशेषात्तद्युदासकत्वोपपत्तेः । दूरस्थजलज्ञा- नस्य समीपस्थजलज्ञानस्य च विषयकृतभेदाभावेऽपि समीपस्थजलज्ञानस्यैव भूयोऽवय- वेन्द्रियसंनिकर्षादिकारणजन्यस्य प्रामाण्यसंशयनिवर्तकत्वे नानुपपत्तिरिति द्रष्टव्यम् । न 9 CC-0 No Rights Reserved. Digitized by eGangotri५२८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) - चं व्यावृत्तिरिति ; न च व्यावृत्तेर्ब्रह्मस्वरूपत्वेऽपि तद्वैशिष्ट्यबोधजनकवाक्यस्य संसर्गा- गोचरप्रमाजनकत्वलक्षणाखण्डार्थत्वस्य भङ्गः स्यादिति वाच्यम्, एकप्रातिपदिकार्थमात्रनिष्ठ- त्वलक्षणाखण्डार्थत्वत्य ब्रह्मस्वरूपाभिन्नानृतादिव्यावृत्तिवैशिष्ट्यबोधेऽप्यविरोधादित्याश- यात् । यद्वा अनृतादिव्यावृत्तेर्ब्रह्मभिन्नत्वं नास्तीति वस्तुस्थित्युपदेशमात्रपरोऽयं ग्रन्थः ; न तु सत्यादिवाक्येऽनृतादिव्यावृत्तिवैशिष्ट्यबोधपरत्वमप्यस्तीत्यत्र तात्पर्यं येनाखण्डार्थत्वविरोधः स्यादिति द्रष्टव्यम् । ननु सत्यज्ञानादिब्रह्मलक्षणवाक्यानां " यतो वा इमानि " इत्यादि- जगत्कारणत्ववादिब्रह्मलक्षणवाक्यान्तरै ककण्ठ्याय विशिष्टार्थाभिधायित्वमेवाश्रयणीयमित्या- शङ्क्य सत्यादिवाक्यस्य निर्विशेषस्वरूपाभिधायित्व एव लक्षणवाक्यान्तरैककण्ठ्यं, न तु सविशेषाभिधायित्व इत्याह — एवं वाक्यार्थेति । ननु " यः सर्वज्ञः सर्ववित् " यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते " इत्यादिश्रुतेर्भवन्मतेऽपि सर्वज्ञत्वादिविशिष्टं मायाशवलमीश्वररूपमेव ब्रह्मोपादानम् निर्विशेषकूटस्थस्य मायाशाबल्य विना सृष्टिक्रियाकर्तृत्वस्य तत्तत्कार्याकारेण विवर्तमानत्वलक्षणोपादानत्वस्य चासंभवात् । अत एव “ अन्तस्तद्धर्मोपदेशात् " " सर्वत्र प्रसिद्धोपदेशात्" इत्याद्यधिकरणेषु " सैव- के तत्साम तदुक्थ्यं तद्यजुस्तद्ब्रह्म " " सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः " इत्यादि- श्रुत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृत्तमीश्वरलिङ्गमित्युपवर्णितम् । जीवेश्व- रानुस्यूतचैतन्यमात्रस्य सर्वोपादानत्वे तु न तज्जीवव्यावृत्तमीश्वरलिङ्गं स्यात् । अतः कारणवा- क्यानां विशिष्टपरत्वं सिद्धम् । तन्मध्यपतितम् “एकमेवाद्वितीयम् " इत्यपि वाक्यं तदनुरो- ध्यर्थपरमेव । ततश्च विशिष्टार्थाभिधायिकारणत्ववादिलक्षणवाक्थान्तरैककण्ठ्यं सत्यज्ञाना- दिवाक्यस्य निर्विशेषपरत्वे कथं स्यादित्याशङ्क्याह — यतो वा इमानीत्यादि । अ भावः —— सत्यं जगत्कारणत्वं विशिष्टनिष्ठमिति, तथापि विशिष्टनिष्ठमेव जगत्कारणल शाखायं चन्द्रमसमिव तदननुगतमण्डलं चैतन्यमुपलक्षयति । अतः कारणवाक्यमपि निर्विशेषस्वरूप लक्षणपरमेव । न च विशिष्टावगत्यर्थमवश्यापेक्षितेन सत्यज्ञानादिस्वरूप लक्षणेनैव सर्वव्यावृत्तलक्ष्यावगतिसंभवाज्जगत्कारणत्वरूप तटस्थ लक्षणोपन्यासः किमर्थः 6 1 प्रकृष्टप्रकाशश्चन्द्रः’ इति स्वरूपलक्षणे कथितेऽपि चन्द्रबुभुत्सोस्तद्दिदृक्षया गगने सर्वत श्चक्षुर्विक्षेपक्लेशो मा भूदिति देशविशेषे चक्षुर्नियमनार्थं ’ शाखाग्रे चन्द्रः इति तटस्थ लक्षणोपन्यासस्य सार्थक्यमस्तीति वाच्यम् ; प्रकृतेऽपि ब्रह्मशब्दस्य प्रकरणोपपदादि संको

– (१ – १ – १ ) मूलभावप्रकाशिका ५२९ चकाभावेन त्रिविधपरिच्छेदपरिपन्थिनिरतिशय बृहत्त्ववाचित्वाद्वस्तुपरिच्छेदराहित्यस्य च वृस्त्वन्तरराहित्यपर्यवसन्नत्वात् ब्रह्मशब्दार्थ भूतवस्त्वन्तरराहित्यस्य 6 यद्रजतमभात् सा शुक्तिः’ इतिवदध्यारोपापवादन्यायेन प्रतिपादनाय जगत्कारणत्वरूपलक्षणोपन्यासस्याप्या- वश्यकत्वात् । कूटस्थं ब्रह्मैव मायावशेन विवर्तमानतया जगदुपादानमिति प्रतिपादनाभावे जगतो मिथ्यात्वाप्रतीत्या ब्रह्मशब्दार्थभूतवस्तुपरिच्छेद राहित्यासिद्धिप्रसङ्गात् । कारण- वाक्यस्यापि परम्परया निर्विशेषपरत्वात् सत्यज्ञानादिवाक्यस्य तदैकार्थ्यं सिध्यति । अत एव हि कारणवाक्यमध्य एव " एकमेवाद्वितीयम्" इति कारणस्य सजातीय- . विजातीय स्वगतभेद राहित्यं प्रतिपाद्यत इति । श्रीभाष्यम् ननु च सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधि- व्यावृत्तत्वस्तुवरूपोपस्थापनपरत्वे लक्षणा स्यात् । नैष दोषः, अभि- धानवृत्तेरपि तात्पर्यवृत्तेर्बलीयस्त्वात् । सामानाधिकरण्यस्य क्य एव तात्पर्यमिति सर्वसंमतम् । ननु च सर्वपदानां लक्षणा न दृष्टचरी । ततः किम् ? वाक्यतात्पर्याविरोधे सत्येकस्यापि न दृष्टा । समभिव्याह- तपदसमुदायस्यैतत्तात्पर्यमिति निश्चिते सति द्वयोस्त्रयाणां सर्वेषां वा तदविरोधायैकस्येव लक्षणा न दोषाय । तथा च शास्त्रस्थैरभ्युपगम्यते । कार्यवाक्यार्थवादिभिलौकिकवाक्येषु सर्वेषां पदानां लक्षणा समाश्रीयते अपूर्वकार्य एव लिङादेर्मुख्यवृत्तत्वाल्लिङादिभिः क्रियाकार्यं लक्षणया प्रतिपाद्यते । कार्यान्वितस्वार्थाभिधायिनां चेतरेषां पदानामपूर्वकार्या- न्वित एव मुख्यार्थ इति क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकमेव । अतो वाक्यतात्पर्याविरोधाय सर्वपदानां लक्षणापि न दोषः । अत इदमेवार्थजातं प्रतिपादयन्तो वेदान्ताः प्रमाणम् । श्रुतप्रकाशिका अथ : मुख्यार्थपरित्यागेन लक्षणास्वीकारदोषमुद्घाटयति ननु चेत्यादिना 67


५३० श्रीभाष्यम् (जिज्ञासाधिकरणम्)


स्वार्थप्रहाणेन ; स्वार्थो हि विशेषणद्वारकं विशेष्यम् ; तत्प्रहाणेनेत्यर्थः । लक्षणात्वमभ्युप- गम्यादोषतां प्रतिजानीते - नैष दोष इति । मुख्यार्थत्वमुत्तरत्राभिधास्यते । हेतुमाह- अभिधानवृत्तेरपीति । तात्पर्यवृत्तिर्नाम तात्पर्यादागता वृत्तिः ; तत्परत्वरूपा वा । सा चात्र लक्षणावृत्तिर्विवक्षिता । वाक्यतात्पर्यविरोधिमुख्यवृत्तेरपि वाक्यतात्पर्यानुगुणलक्षणा- वृत्तेर्बलीयस्त्वादित्यर्थः । कस्मिन्नर्थे तात्पर्यम् ? यदनुरोधाय लक्षणास्वीकार इत्यत्राह सामानाधिकरण्यस्येति । ऐक्य एव तात्पर्यमिति ; तात्पर्यनिश्चायिका समानविभक्तिरिति भावः । आनन्दमयाधिकरणे सिद्धान्तिना तद्वक्ष्यते । सर्वसंमतम् ; विशिष्टैक्यवादि- भिरन्यैश्च संमतमित्यर्थः । ’ गङ्गायां घोषः’ इत्यादिषु सर्वपदलक्षणा न दृष्टेति चोदयति – ननु चेति । तात्पर्यनिश्चायककतिपयमुख्यवृत्त्या तदनुगुणमन्येषां पदानां लाक्षणिकत्वमाश्रयणीयम्; सर्वपदलक्षणायां तु तन्न संभवतीत्यभिप्रायः । तात्पर्यावि- रुद्धपदमुख्यार्थस्वीकारस्तात्पर्यविरुद्धपद लक्षणास्वीकारस्याविरुद्ध इत्याशयेनाह–ततः किमिति । ततः किमित्यभिप्रेतं विवृण्वन् प्रतिबन्दीमुखेन विवक्षितार्थं दर्शयित्वा परिहर्तुं विपक्षे बाधगर्भा प्रतिबन्दीमाह – वाक्यतात्पर्येति । यद्यविरुद्वपद मुख्यार्थत्वं विरुद्धपदलक्षणाविरोधि, तर्हि ’ गङ्गायां मत्स्याः प्रतिवसन्ति ’ इत्यादिष्वविरोधेनैक- स्यापि पदस्य लक्षणानङ्गीकारात् ’ गङ्गायां घोष:’ इत्यादिष्वप्येकस्यापि पदस्य लक्षणा न स्यादित्यभिप्रायः । ’ गङ्गायां मत्स्याः इति वाक्ये विरोधाभावाल्लक्षणानङ्गीकारः ’ गङ्गायां घोष:’ इत्यत्र विरोधाल्लक्षणा न दोष इति चेत्, तदत्रापि तुल्यमित्याह- समभिव्याहृतेति । सर्वपदलक्षणा च ’ विषं भुङ्क्ष्व’ इत्यादिषु दृष्टेत्यभिप्रायः एतत्तात्पर्यमिति निश्चिते सतीति; अपवादकर हितसमानविभक्तिनिर्देशो निश्चायक इति भावः । द्वयोस्त्रयाणामित्यादि अविरोधविरोधावेव मुख्यलक्षणावृत्तिस्वीकारे प्रयोजकौ, न तु पदानामेकत्वद्वित्वादिकमित्यर्थः । न केवलं ’ विषं भुङ्क्ष्व ’ इत्यादिषु लौकिक- प्रयोगेष्वेव सर्वपदलक्षणागत्याश्रिता, अन्यैरपि परीक्षकैराश्रितेत्याह – तथा चेति । तथा ; सर्वपदलक्षणाया अदोषत्वम् । अभ्युपगम्यते ; अभ्युपगम हेतु सद्भावादभ्युपगमः फलित इति भावः । कैः परीक्षकैः केषु वाक्येषु सर्वपदलक्षणाश्रितेत्यत्राह — कार्यवाक्यार्थेति । लौकि कवाक्येषु सर्वपदलाक्षणिकत्वमुपपादयति - अपूर्व कार्य एवेति । क्रियाकार्यं लाक्षणिकमस्तु ; तत्कथं सर्वपदलक्षणेत्यत्राह — कार्यान्वितेति । पदानामन्विताभिधायित्वेन कारकपदाना- 1 ; I

४१ – १ – १) श्रुतप्रकाशिका ५३१ पूर्वकार्यान्विताभिधायिनां तदन्वित एव मुख्यार्थ इति तदन्वयपरित्यागे लक्षणैवेत्यर्थः । ननु ‘गङ्गायां घोषः प्रतिवसति’ इत्यादिषु गङ्गापदस्य लाक्षणिकत्वेऽपि तदन्विता- भिधायिनां पदान्तराणाममुख्यत्वं न दृष्टमिति चेत् ; न, गङ्गापदलक्षितस्य कूलस्य वाक्यार्थत्वाभावात् । इह तु वाक्यस्य प्रधानप्रतिपाद्यभूतकार्यार्थसमर्पकपदस्य लाक्षणिकत्वात्तदन्विताभिधायिनां पदानां लक्षणा स्यादेव । अत एव ‘कार्यवाक्यार्थवादिभिः ’ इत्युक्तम् । ननु “ कमलानि निमीलन्ति कुमुदान्युन्मिषन्ति च " इति वाक्यार्थभूत- निमीलनादेर्लाक्षणिकत्वेऽपि तदन्विताभिधायिनां कमलादिपदानां न लाक्षणिकत्वं दृष्टमिति चेत् — अनभिप्रायज्ञश्चोदयति भवान् ; सर्वपदानां निमीलनरूपवाक्यार्थपरत्वस्य कैश्चिदपि व्यवस्थापितत्वाभावात् । निमीलनोपस्थापकपदलक्षणायामपि न तदन्विताभिधायिनां - लाक्षणिकतापत्तिः । त्वया तु सर्वपदानां कार्यपरत्वाभ्युपगमात्तत्कार्यसमर्पकपदलाक्षणिकत्वे तदन्वितार्थाभिधायिनां लक्षणा प्राप्नोति । तथाहि — कार्यवाक्यार्थवादिना पदानां किं विशिष्ट कार्येकदेशे पदशक्तिर्निश्चीयते ? उत विशिष्टस्थायिकार्येकदेशे ? प्रथमे विशिष्टका - -कदेशत्वाविशेषात् स्वार्थेषु कारकपदानामिव लिङादेः क्रियाकार्ये मुख्यत्वप्रसङ्गः । द्विती- ये विशिष्टस्थायिकार्यैकदेशपरत्वप्रहाणस्य सर्वपदानामविशिष्टत्वात् लिङादेः क्रियाकार्य इव कारकपदानां क्रियाकार्यान्वितपरत्वे लक्षणा स्यादेव | पदानां विशिष्टकार्यैकदेशपरत्वे तुल्ये- ऽपि लिङादेः क्रियाकार्ये लाक्षणिकत्वं कार्यान्वितमात्रे कारकपदानां मुख्यत्वमिति चेत्, यदि कार्यान्वितमात्रे कारकपदानां मुख्यत्वमिष्टं क्रियाकार्ये लिङादेर्लाक्षणिकत्वं कथम् ? स्थायि कार्यपरत्वेन वेदप्रयुक्तत्वनिश्चयाल्लक्षणयापि क्रियाकार्यबोधनसंभवादिति चेत्, कारक- पदानामपि स्थायिकार्यान्वितपरत्वेन वेदप्रयोगदर्शनात् लक्षणयापि क्रियाकार्यान्वितबोधनोपप- तेः क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकं स्यात् । ननु गोपदस्य सास्नादिमन्मात्रमुख्यत्वेऽपि प्रमाणान्तरेण खण्डत्वादिविशेषसिद्धिवत् लिङादेः कार्यमात्रपरत्वे कार्यविशेषस्य प्रमाणा- न्तरेण सिद्ध्यभावादुभयत्रैकशक्तिकल्पनायोगात् शक्तिद्वयकल्पने गौरवाच्च लिङादेरपूर्व- कार्ये मुख्यत्वमिति क्रियाकार्यप्रतिपादनं लाक्षणिकम् ; अन्यथा शब्दशक्तेः कार्यमात्रविष- यत्वात् प्रत्यक्षाद्यविषयत्वाच्च कार्यविशेषो निष्प्रमाणकः स्यादिति चेत्-न कार्यविशे- वस्य प्रामाणिकत्वे तत्र शक्तिकल्पनं, शक्तिकल्पने तस्य प्रामाणिकत्वमित्यन्योन्याश्रय- प्रसङ्गात् । किंच यदि कार्यविशेषस्याप्रामाणिकत्वपरिहाराय तत्र शक्तिकल्पनं तर्हि कार- 9

५३२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) कपदानां कार्यान्वितमात्रपरत्वे कार्यविशेषान्वयस्य प्रमाणान्तरागोचरत्वादुभयत्र शक्ति- कल्पने गौरवाच्च कार्यविशेषान्वये प्रमाणं न स्यादिति तत्परिहाराय कार्यविशेषान्वये कार- कपदानां मुख्यत्वमिति क्रियाकार्यान्वितपरत्वं लाक्षणिकं स्यात् । लिङादिसमभिव्याहार- बलात्कारकपदानां कार्यविशेषान्वयपरत्वसिद्धिरिति चेत्, तर्हि स्वर्गकामसमभिव्याहारबला- ल्लिङादेः कार्यविशेषपरत्वसिद्धिरिति लिङादिः कार्यमात्रपरः स्यात् । तस्माल्लिङादेरपूर्वकार्य एव मुख्यवृत्तत्वेन क्रियाकार्यस्यामुख्यत्वे कारकपदानामपि क्रियाकार्यान्वितपरत्वं लाक्षणि- कमित्येवाभ्युपगन्तव्यम् । कारकपदानामन्वयांशे लक्षणा न सर्वत्रेति चेत्, समानाधि- करणवाक्येऽपि पदानां प्रातिपदिकांश एव लक्षणा, न विभक्ताविति तुल्यम् । सर्वपद- लक्षणानुपपत्तिपरिहारमुपसंहरति — अत इति । अतः ; सर्वपदलक्षणाया उपपत्तिसिद्ध- त्वात् लौकिकैः परीक्षकैरप्यङ्गीकृतत्वाच्चेत्यर्थः 66 I यदप्याहुः इत्यारभ्य कृतां शास्त्रेण स्वाभिमतार्थसिद्धिमुपसंहरति - अत इदमेवेति । अतः ; निर्विशेषवस्तुनि, तस्यैव पार- मार्थ्ये, व्यतिरिक्तस्य मिथ्यात्वे, तस्य दोषपरिकल्पितत्वे, दोषस्य च सदसदनिर्वचनीयत्वे, ज्ञानमात्रनिवर्त्यत्वे चोक्तैरुपपत्तिसहितैः श्रुतिवाक्यैरित्यर्थः । इदमेवार्थजातम् ; पूर्वोद्दि- टमेवार्थजातं, न तु सगुणवस्त्वादिकम् । प्रतिपादयन्तो वेदान्ताः प्रमाणमिति ; वाक्या- न्तराणां काल्पनिकार्थपरत्वेन तत्त्वावेदकत्वाभावादुक्तार्थविषयमेव वाक्यजातं तत्त्वे प्रमाण- मित्यर्थः । भावप्रकाशिका 99 मुख्यार्थत्वमुत्तरत्राभिधास्यत इति ; आनन्दमयाधिकरण इति शेषः । सा चात्र लक्षणावृत्तिर्विवक्षितेति ; इदं तु ’ तात्पर्यादागता’ इति पक्षे बोध्यम्, लक्षणाबी- जस्य तात्पर्यस्यैव लक्षणात्वसंभवात् । अन्यैश्च संमतमित्यर्थ इति ; " क्तेन च पूजायाम् 99 इति षष्ठीसमासनिषेधात् भूतक्तान्तेन " कर्तृकरणे कृता बहुलम् इति तृतीयासमास इति भावः । तात्पर्याविरुद्धेति ; यत्र क्वचिदिति शेषः । न हि तात्पर्याविरुद्धस्थले मुख्यार्थ. स्वीकृत इत्येतावता तात्पर्यविरुद्धस्थलेऽपि मुख्यार्थ एव स्वीकर्तव्य इति निर्बन्धोऽस्तीति भावः । अभ्युपगमहेतुसद्भावादभ्युपगमः फलित इति ; वस्तुगत्याभ्युपगमाभावेऽप्यका- मेनाप्यभ्युपगन्तव्यमिति भावः । भाष्ये - अपूर्वकार्य एव लिङादेर्मुख्यवृत्तत्वालिङा- दिभिः क्रियाकार्यं लक्षणया प्रतिपाद्यत इति ; स्वर्गकामो यजेत " इत्यादौ हि 66 CC-0 No Rights Reserved. Digitized by eGangotri(?-?-?) भावप्रकाशिका ५३३ स्वर्गकामरूपनियोज्यं प्रति क्रिया लिङ्शब्देन कार्यतया बोधयितुमशक्या ; कामी हि काम्यादन्यैत् काम्याव्यवहितसाधनमेव कार्यतयावैति, न तु व्यवहितसाधनम् । क्रिया- रूपसाधनं त्वस्थायित्वेन काम्याव्यवहितसाधनत्वाभावान्न कामिनियोज्यान्वययोग्यम् । तस्मात्फलपर्यन्तस्थाय्यपूर्वमेव लिङो वाच्यमिति सिद्धे, लोके क्रियारूपे कार्ये प्रयुज्यमाना लिङ् लाक्षणिक्येव, नानार्थत्वस्यान्याय्यत्वादिति हि प्राभाकरैरभ्युपगम्यत इति भावः । तदन्विताभिधायिनामिति ; निमीलनपदलाक्षणिकार्थान्विताभिधायिनामित्यर्थः । तत्का- र्यसमर्पकपदलाक्षणिकत्व इति ; लाक्षणिकत्वे प्राप्नुवति तद्धेतुनान्येषामपि लाक्षणि- कत्वमित्यर्थः ; न तु हेतुहेतुमद्भाव इति भ्रमितव्यम्, तस्याप्रसक्तेः । न हि पदान्तर- लाक्षणिकत्वं पदान्तरलाक्षणिकत्वे प्रयोजकम्, अपितु मुख्यार्थासंभव एव । श् क्रियातिरिक्तकार्यान्वितरूपमुख्यार्थासंभवेन क्रियातिरिक्तकार्यप्रतिपादकलिड.: क्रियाकार्य- प्रतिपादने लक्षणावदितरपदानामपि क्रियातिरिक्तकार्यान्वितरूपमुख्यार्थासंभवेन तदर्थ – प्रतिपादकानां क्रियान्वितार्थप्रतिपादने लक्षणावश्यंभाव इति भावः । अत एव वक्ष्यति - विशिष्टकार्यैकदेशपरत्वप्रहाणस्येत्यादिना । किं विशिष्टकार्यैकदेश इति कारक- विशिष्टं यत्कार्यं तस्यैकदेशो विशेषणं विशेष्यं च तच्छक्तमित्यर्थः । इदं च कारकपदानां क्रियापदानां च साधारणमिति भावः । लिङादिः कार्यमात्रपरः स्यादिति ; ननु लोके कार्यत्वाश्रयस्य क्रियास्वरूपस्य प्रकृत्युपात्तत्वात् कार्यत्वमात्र एव लिङादेः शक्तिः ; एकवचनादीनामेकत्वादिसंख्यामात्रवाचित्वम् ; न तु तदाश्रयवाचित्वम्, तस्य प्रकृत्युपात्तत्वात् । ततश्च लिङादेः कार्यत्वमेवार्थः । ततश्च प्रकृत्युपात्तक्रियायाः प्रत्ययो – पात्तकार्यत्वस्य च धर्मधर्मिभावेनान्वय इति लौकिकवाक्यमर्यादा । वेदे तु कार्यत्वाश्रय- स्यापूर्वस्यान्यतो लाभासंभवात् कार्यत्वविशिष्टकार्यस्वरूपाभिधायित्वं वक्तव्यम् । यदि विशिष्टाभिधायी लिङादिः, ततोऽपूर्वमेवाभिदध्यात् न क्रियाम् । अथ विशेषणाभि- धायी, ततः क्रियागतमेवाभिदध्यात् नापूर्वगतम् । अतो लोकवेदसाधारणस्यार्थस्यैकस्या- भावादुभयत्रापि शक्तिकल्पने गौरवाल्लौकिकपदानुसारेण वैदिकपदस्यामुख्यार्थत्वस्यान्या- य्यत्वात् कार्यमेव मुख्योऽर्थः ; लोके तु लक्षणया कार्यत्वं प्रतिपाद्यत इत्येवं लिङादे लक्ष- णाया आवश्यकत्वेऽपीतरेषां लौकिकपदानां लक्षणायां हेत्वभावात् । न हि वैदिकस्य लिङादेलौकिकलिङादिगतव्युत्पत्तिविरुद्धव्युत्पत्त्यन्तरकल्पनवत् तदतिरिक्तवैदिकपदेषु लौकि- यथा ततश्च

५३४ श्रीभाष्यम् ; (जिज्ञासाधिकरणम्)


कपदगतव्युत्पत्तिविरुद्धव्युत्पत्त्यन्तरमस्ति, कार्यान्विताभिधायित्वस्य लिङादिव्यतिरिक्त- लौकिकपदेष्विव लिङादिव्यतिरिक्तवैदिकपदेष्वप्यविशिष्टत्वात् । इयांस्तु विशेषः – लोके क्रियारूपं कार्य, वेदे तु तदतिरिक्तम् । कार्यान्वित्ताभिधायित्वं तु सर्वसाधारणम् । यदि व्यक्तिभेदमात्रेण व्युत्पत्त्यन्तरं तदा ’ गामानय’ ’ गां बधान’ इत्यादीनामपि प्राथमिकव्यु - त्पत्त्यन्तरं कल्पनीयं स्यादिति चेत्, सर्वत्र कार्याभिधाय्येवायं लिङादिशब्दोऽस्तु । स यदा क्रियापरो भवति, तदा तत्स्वरूपस्य प्रकृतित एव प्राप्तत्वाद्विशेषणपरो भवति । तद्यथा - " दण्डी प्रैषानन्वाह " इति विशिष्टाभिधाय्यपि दण्डिशब्दो विशेषणपरो भवति ; नापि लक्षणा । ततश्च कार्यवचनः शब्दो यदा क्रियां प्रयुङ्क्ते, तदा कार्यत्वरूपविशेषणपरत्वं श्रुतिवृत्त एव सन् प्रतिपद्यते । नैतावता लक्षणा भवतीत्युभयत्रापि मुख्यत्वमेव । यस्तु वदति – नन्वेवं सति कार्यसामान्यवाचित्वे कामाधिकारेऽपि समानपदोपात्तो धात्वर्थ एव कार्यतयाभिधेयः स्यादित्यपूर्वाभिधानमुत्सीदेत् तेन यदैव कामिनियोज्यसंबन्धादपूर्वाभि- धायित्वमवगतं, तदैव तन्निर्वाहार्थं क्रियालाक्षणिकत्वमध्यवसितमिति स एवमनुशासि तव्यः – हन्त तर्हि किं नाश्रौषीः ’ यो हि पाषाणान् भक्षयति, ईषत्करास्तस्य मुद्गशष्कुल्यः इति ; यो हि नियोज्यसंबन्धो लिङ्शब्दं कार्यत्ववाचिनमवगतमपि तत उद्धृत्यापूर्वं नयति स कथं कार्यसामान्यवाचिनमपूर्वं नेतुं न क्षमते । तस्मात्कर्तव्यतासामान्यवाची सन्नपि यत्र फलकामस्य नियोज्यत्वं तत्र तद्बलेनापूर्वमभिधत्ते ; अन्यत्र समानपदोपादानात क्रियाम् । अतः कार्यसामान्यवाचित्वाल्लिङ्ग शब्दस्या पूर्वकार्ययोः साधारणत्वान्न काण लक्षणा समाश्रयणीया स्यात् । एवमपि लौकिकवाक्ये लक्षणां लिङादेरभ्युपगच्छता तदितरपदानां कुतो लक्षणा नाभ्युपगम्येति सर्वपदलक्षणावादिनां मृषावादिनामाशयः उक्तैरुपपत्तिसहितैः श्रुतिवाक्यैरिति ; अत्र केचित् — अत इत्यस्य ‘उक्तेभ्यो हेतुभ्य इत्युपसंहाररूपत्वमेव । अन्यथा ’ उपपत्तिसहितवाक्यैरिदमेवार्थजातं प्रतिपादयन्ते ‘वेदान्ताः’ इत्यन्वयस्य क्लिष्टत्वं स्यात्, वाक्यानां वेदान्तानां च भेदाभावादिनि चदन्ति ।


श्रुतप्रदीपिका लक्षणेति चोदयति – ननु चेति । स्वार्थः ; विशेषणद्वारकं विशेष्यम् । तदभावे तदभिधेयमित्यर्थः । लक्षणामभ्युपगम्य परिहरति–नैप इति । कुत इत्याह-

(? – १ – १ ) श्रुतप्रदीपिका ५३५. अनभिधानेति । वाक्यतात्पर्यविरोधिमुख्यवृत्तेरपि तदनुरोधिलक्षणावृत्तेर्बलीयस्त्वादित्यर्थः । कस्मिंस्तात्पर्यम् ? यदनुरोधाय लक्षणेत्यत्राह – सामानाधिकरण्यस्येति । तात्पर्यनि- श्चायकाभावात् सर्वपदलक्षणा न युक्तेति चोदयति – ननु चेति । प्रतिवक्ति - ततः किमिति । अविरुद्धपद मुख्यार्थत्वदर्शनं विरुद्धपदलक्षणाया न विरुद्धमिति भावः । तद्विवृण्वन् विपक्षे बाधगर्भा प्रतिबन्दीमभिप्रेत्याह – वाक्येति । ’ गङ्गायां मत्स्या : ’ इत्यत्र लक्षणात्यागात् ’ गङ्गायां घोषः ’ इत्यत्रापि सा किं न स्यादिति भावः । ततः किमित्यत्राह – समभीति । विरोधाविरोधावेव प्रयोजकौ, न तु पदैकत्वद्वित्वादिकमि- त्यर्थः । ’ विषं भुङ्क्ष्व ’ इत्यादौ सा सार्वत्रिकी च दृष्टा; योग्यतादिना तत्र तात्पर्य – निश्चयश्चेदिहापि समानविभक्त्या स इति भावः । तथा परीक्षकैरभ्युपगतमित्याह- ; 11. तथा चेति : अभ्युपगम्यत इति ; अभ्युपगमः फलित इत्यर्थः । कैः केष्वित्यत्राह कार्येति । कुत इत्यत्राह - अपूर्वेति । ततः किं सर्वपदलक्षणाया इत्यत्राह - कार्या- न्वितेति । ननु गङ्गापदलक्षणायामपि न घोषप्रतिभासो लाक्षणिक इति चेत् न, लक्ष्याप्राधान्यात् । प्रधानभूतवाक्यार्थलाक्षणिकत्वे हि तदन्विताभिधायिनां लक्षणा स्यात् । न च " कमलानि निमीलन्ति " इतिवल्लक्ष्यप्राधान्येऽपि पदान्तरमुख्यार्थता, सर्वपदानां निमीलनपरत्वव्यवस्थित्यभावात् । " गवा यजेत " इत्यादौ तु कृत्स्नपदसमुदायस्या- पूर्वकार्ये मुख्यत्वापगमाच्च । कार्यान्वितमात्रे पदान्तराणां मुख्यत्वं चेत् कार्यमात्रे लिङाद- योऽपि मुख्याः स्युः । विशिष्ट कार्यैकदेशपरत्वाविशेषाद्विशिष्टस्थायि कार्यैकदेशे पदशक्ति– श्वेत्, लिङादेः क्रियाकार्य इव पदान्तराणामपि क्रियाकार्यान्विते लक्षणा स्यात्, विशिष्ट- स्थायिकार्यैकदेशपरत्वप्रहाणाविशेषात् । लिङादिशक्तेः कार्यमात्रविषयत्वे तद्विशेषे शब्द- शक्त्यभावान्मानान्तरागोचरत्वाच्च कार्यविशेषस्याप्रामाणिकत्वं चेत्, एतत्कार्यविशेषान्वितेऽपि तुल्यम् । समभिव्याहारात् तत्सिद्धिश्चेत्, स्वर्गकामपदसमभिव्याहारात् कार्यविशेषसिद्धि- रित्येकस्या मुख्यत्वेऽन्येषां च तथात्वमवर्जनीयमिति भावः । लक्षणाया दोषत्वपरिहारमुपसं- हरति — अत इति । परमप्रकृतमुपसंहरति — अत इति । अर्थजातम् ; चिन्मात्रस्य सत्यत्वम्, अन्यस्य मिथ्यात्वं, दोषमूलत्वं, दोषस्य च स्वरूपं, तस्य ज्ञाननिवत्यत्वमि - त्यादि ।

५३६ “ ब्रह्मविदाप्नोति परम् ’ " 99 श्रीभाष्यम् तत्त्वटीका (जिज्ञासाधिकरणम्) इत्यनन्यथासिद्धफलकरणदर्शनकल्पितविधिशेषतया



विशिष्टविधितात्पये संभवति न लक्षणा न्याय्येत्यभिप्रायेण चोदयति – ननु चेति । यद्यपि वाच्ये विशेष्यांशो न त्यक्तः, तथापि द्वारत्यागान्न तस्य शक्तिगोचरत्वमिति भावः । अत्र वाच्यवहिर्भूते वृत्तिस्तावन्नास्ति; वाच्यैकदेशे प्रधानभूते विशेष्ये वृत्तिस्तु न लक्षणा ; इह जहदजहल्लक्षणा वा स्यात् ; सा चात्र न दोषः ; प्रत्युत विध्यनवाक्यार्थ- ज्ञानानुवादितयान्यथासिद्धे वाक्ये विधिक्लृप्त्ययोगात्तदर्थमुख्यासंभवे लक्षणानुगुणैवेति दर्शयितुमाह – नैष दोष इति । तात्पर्यविषये शब्दस्य प्राधान्यतः प्रामाण्यात्तद्विरो सर्वत्र मुख्यवृत्तिदौर्बल्याल्लक्षणाप्राबल्यमाह – अभिधानेति । स्वतः सिद्धस्वरूपे कथं शब्दतात्पर्यम् ? अतो गुणविवक्षा स्यादित्यत्र तद्विरुद्धे प्रागुक्तं तात्पर्यं व्यनक्ति- सामानाधिकरण्यस्येति । स्वप्रकाशस्यापि निमित्तभेदवदनेकपदपरामृष्टस्यापि विशेष्य- स्यान्यसंसर्गासह मैक्यमिह समानविभक्तिवेद्यम् ; तच्च कल्पितभेदनिवृत्त्यर्थम् ; प्रकृतिभिस्तु कल्पितान्याकारनिवृत्तिः प्राग्दर्शितेत्युक्तम् । सर्वसंमतम् ; त्वयापि दुस्त्यजमिति यावत् । त्वदुक्तप्रक्रिययात्र तात्पर्यस्थापकाभावालक्षणैव न स्यादित्यभिप्रायेण पुनःश्वोद यति – ननु चेति । मुख्येन केनचिदंशेन क्वचित्तात्पर्यसिद्धावंशान्तरे ह्युपचारो ह -इत्याशयः । अविरुद्धेऽन्यत्रादर्शनमकिंचित्करमित्यभिप्रायेण प्रतिवक्ति - ततः किमिति अभिप्रेतं विवृण्वन् प्रतिबन्दीं च सूचयति – वाक्येति । एकपदलक्षणाया अप्यन्त्र त्रादर्शनमस्ति; अतस्तस्या अपि त्यागप्रसङ्ग इति भावः । तात्पर्यमुक्यार्थबाधयोरेव प्रयोजकत्वं, पदैकत्वद्वित्वादेरप्रयोजकत्वं द्वित्रादिपदप्रतिबन्दीं चाभिप्रेत्याह ——समभिव्या हृतेति । एकद्वयादिपदलक्षणावत् सर्वपदलक्षणापि ’ विषं भुङ्क्ष्व ’ इत्यत्र दृष्टेत्यभिप्राये सर्वेषां वेत्युक्तम् । इदं हि पदद्वयं निषिद्धभोज्यं तद्भुक्तेरकर्तव्यत्वं च लक्षयति । प्रत्ययितोक्तौ युक्तायुक्तविमर्शात्तात्पर्यनिश्चयः इह तु समानविभक्तिसामर्थ्यादवुभुत्सित -बोधनानुपपत्त्या चेति विशेषः । स्वोक्तं सर्वपरीक्षकसंमतमित्याह – तथा चेति । चोऽव धारणे । यद्वा ब्रह्मप्रतिपादनप्रद्विष्टैरप्यभ्युपगतमित्युच्यते । तैरनुक्तमपि तदुक्तिसामर्थ्या दभ्युपगमनीयमिति भावः । कैरियं कुत्राभ्युपगतेत्यत्राह – कार्येति । अत्र तदुक्तं वि क्षितस्य द्वारं तावदाह – अपूर्वेति ; वृद्धव्यवहारोपक्रान्ता वेदावसाना कार्यव्युत्पत्तिरे ; ।

-12 – १ – १)


० मूलभावप्रकाशिका ५३७ प्रकारेण तैः स्थापितेत्यर्थः । अपूर्वमेव कार्यमपूर्वकार्यम् । क्रियाकार्यमुखेनापूर्व कार्यव्यु- त्पत्तिः । एवं तदुक्तनयेन सर्वपदलक्षणायाः फलितत्वमाह – कार्यान्वितेति । अयं भावः——— गङ्गायां घोषः ’ इत्यादौ लक्ष्यस्य प्राधान्याभावात्तदन्वृिताभिधायिनां न लक्षणा । एवं “ कमलानि निमीलन्ति " इत्यादिषु प्रधानेऽपि निमीलने सर्वशब्दानां तत्परत्वव्युत्पत्त्यभावात्पदान्तराणां तदनुसारो न युक्तः । यद्यपि गङ्गाद्यप्रधानप- दलाक्षणिकतया घोषादिपदेष्विव " कमलानि निमीलन्ति " इत्यत्र • निमी- लन्ति ’ इत्यवान्तरपदलक्षणया पद्मादिपदेषु लक्षणा न स्यात्, तथापि लोकोपक्रमवेदाव- सानकार्यप्रधानव्युत्पत्तिबलादन्यान्वितमात्रे क्रियाकार्यान्विते कार्यमात्रान्विते वा पदान्तराणां शक्तिकल्पनानभ्युपगमात्तेषामपूर्वकार्यान्वित एव शक्तेलौकिकवाक्येषु सर्वेषु तदभावात्सर्वपद- लक्षणा स्वीकर्तव्येति । न चान्यान्वितमात्रे पदान्तरशक्तिः, कार्यपरतयैव व्युत्पत्त्य- ङ्गीकारात् । नापि कार्यमात्रान्विते शक्तिः स्यात्, तथा सति लिङादेरपि कार्यमात्रे मुख्यत्वप्रसङ्गात् । न च तद्युक्तम्, अपूर्वाख्यविशेषे लिङादिशक्तेरसिद्धौ मानान्तरा- भावाच्च तस्याप्रामाणिकत्वापातात् । एवं कार्यमात्रान्विते शक्तानां पदान्तराणां वेदे कार्यविशेषान्वयोऽपि न सिध्येत् । स्वर्गकामपदसमभिव्याहारात्सिद्भावपूर्वमपि तथा सिध्येदिति न तद्वाच्यत्वादिकॢप्तिः स्यात् । तस्माल्लौकिकवाक्येषु विशिष्टापूर्वस्थायि- कार्यपरत्वाभावाल्लिङादेरमुख्यार्थत्वमित्युक्तेोपपत्त्या सर्वपदलक्षणाया अदोषत्वं निर्बाधत्वा- भिप्रायेण निगमयति – अत इति ; युक्तिबलात्परीक्षकैरभ्युपगतत्वाच्चेत्यर्थः । एवं प्रत्यक्षस्य संभावितदोषत्वात् शास्त्रस्य निर्दोषत्वात्तद्विरुद्धार्थत्वाच्च परमप्रकृतं शास्त्रप्राबल्यमुपसंहरति- अत इति । इदमेव ; प्रत्यक्षादिविरुद्धमेवेत्यर्थः । भेदपरत्वेऽनुवादित्वं स्यादिति चाभिप्रेतम् । इदमर्थजातम् ; प्रमाणागोचरस्वप्रकाशनिर्विशेषसत्यत्व तदन्य मिथ्यात्वानिर्वच- -नीयाविद्यास्वरूपतन्मूलतिरोधानाध्यासधीनिवर्त्यत्वादिकम् । मूलभावप्रकाशिका 11 तात्पर्यवृत्तेरिति ; तात्पर्यानुरोधिलक्षणावृत्तेस्तदननुरोधिमुख्यवृत्त्यपेक्षया बली- यस्त्वात् ; “ तात्पर्याद्धि वृत्तिः, न वृत्त्यनुरोधात्तात्पर्यम् " इति प्रवादादिति भावः । तदविरोधायेति तात्पर्याविरोघायेत्यर्थः । ; तथा च शास्त्रस्थैरिति ; मीमांसकैः 66 वायुर्वे क्षेपिष्ठा देवता" इत्यादिवाक्ये प्राशस्त्यलक्षणाया अभ्युपेतत्वादिति भावः । 68 CC-0 No Rights Reserved. Digitized by eGangotri५३८ श्रीभाष्यम् , (जिज्ञासाधिकरणम्)


ननु लिङः क्रियातिरिक्तवाचित्वादस्तु क्रियाकार्यप्रतिपादिकाया लिङो लाक्षणिकत्वम् ; पदान्तराणां लाक्षणिकत्वं कुतस्त्यमित्यत्राह – कार्यान्वितेति । ननु लोके कार्यत्वाश्रयस्य क्रियायाः प्रत्ययोपात्तकार्यत्वस्य च धर्मधर्मिभावेनान्वय इति लौकिकमर्यादा; वेदे तु कार्यत्वाश्रयस्यापूर्वस्यान्यतो लाभासंभवात् कार्यत्वविशिष्ट कार्यस्वरूपाभिधायित्वं वक्तव्यम् । ततश्च यदि विशिष्टाभिधायी लिङादिस्ततोऽपूर्वमेवाभिदध्यात् न क्रियाम् । अथ विशेषणा- भिधायी ततः क्रियागतमेवाभिदध्यात्, नापूर्वगतम् । अतो लोकवेदसाधारणस्यार्थस्यैकस्या- भावादुभयत्रापि शक्तिकल्पनागौरवात् लौकिकपदानुसारेण वैदिकपदस्या मुख्यार्थत्वस्यान्याय्य- त्वात् कार्यमेव मुख्यार्थः ; लोके तु लक्षणया कार्यत्वं प्रतिपाद्यत इत्येवं लिङादलक्षणाया आवश्यकत्वेऽपीतरेषां लौकिकपदानां लक्षणायां हेत्वभावः । न हि वैदिकलिङादें- लौकिकलिङादिगतव्युत्पत्तिविरुद्धव्युत्पत्त्यन्तरकल्पनवत् तदतिरिक्तवैदिकपदेषु लौकि- कपदगतव्युत्पत्तिविरुद्धव्युत्पत्त्यन्तरमस्ति, • कार्यान्विताभिधायित्वस्य लिङादिव्यति- रिक्तलौकिक पदेष्विव लिङादिव्यतिरिक्तवैदिकेष्वप्यविशिष्टत्वात् । इयांस्तु विशेष:- लोके क्रियानुरूपं कार्यम्, वैदिके तु तदतिरिक्तम् । कार्यान्विताभिधायित्वं तु सर्वसाधा- रणम् । यदि व्यक्तिभेदमात्रेण व्युत्पत्त्यन्तरं तदा ’ गामानय ’ ’ गां बधान’ इत्यादीनामपि प्राथमिकव्युत्पत्तिविरुद्धव्युत्पत्त्यन्तरं परिकल्पनीयं स्यादिति चेत् ; उच्यते- सर्वत्र कार्याभिधाय्येव लिङ्शब्दोऽस्तु स यदा क्रियापरो भवति, तदा तद्रूपस्य प्रकृतित एव प्राप्तत्वात् विशेषणपरो भवति । तद्यथा - " दण्डी प्रैषा नन्वाह " इति विशिष्टाभिधाय्यपि मुख्यमेव । यस्तु वदति - नन्वेवं सति कार्यसामान्यवाचित्वे कामाधिकारेऽपि समानपदोपात्तधात्वर्थ एव कार्यतयाभिधेयः स्यादित्यपूर्वाभिधानमुत्सीदेत् ; तेन यदैव कामिनियोज्यसंबन्धादपूर्वाभिधायित्वमवगतं तदैव तन्निर्वाहार्थं क्रियालाक्षणिक- त्वमध्यवसितमिति ; स एवमनुशासितव्यः - हन्त तर्हि किं नाश्रौषीः ‘यो हि पाषाणान् भक्षयति, ईषत्करास्तस्य मुगशष्कुल्यः’ इति । यो हि नियोज्यसंबन्धो लिङ्शब्दं कार्य- - स्ववाचिनमवगतमपि तत उद्धृत्यापूर्वं नयति, स कथं कार्यसामान्यवाचिनमपूर्वं नेतुं न क्षमते । तस्मात् कर्तव्यतासामान्यवाची सन्नपि यत्र फलकामस्य नियोज्यत्वं तत्र तत्फ- ना पूर्वमभिधत्ते । अन्यत्र समानपदोपादानात्क्रियाम् । अतः कार्यसामान्यवाचित्वात् लिङ्शब्दस्यापूर्वक्रिययोः साधारणत्वान्न कापि लक्षणा समाश्रयणीया स्यात् । एवमपि 1

««(४–१ – १) श्रुतप्रकाशिका ५३९ लौकिकवाक्ये लक्षणां लिङादेरभ्युपगच्छता तदितरपदानां कुतो न लक्षणाभ्युपगम्येति सर्वपदलक्षणावादिनां मृषावादिनामाशयः । श्रीभाष्यम् प्रत्यक्षादिविरोधे च शास्त्रस्य बलीयस्त्वमुक्तम् । सति च विरोधे बलीयस्त्वं वक्तव्यम् । विरोध एव न दृश्यते, निर्विशेषसन्मा- ब्रह्मग्राहित्वात्प्रत्यक्षस्य । ननु च ‘घटोऽस्ति ’ ’ पटोऽस्ति ’ इति नानाकारवस्तुविषयं प्रत्यक्षं कथमिव सन्मात्रग्राहीत्युच्यते ? विलक्षण- ग्रहणाभावे सति सर्वेषां ज्ञानानामेकविषयत्वेन धारावाहिकविज्ञान- वदेकव्यवहारहेतुतैव स्यात् — सत्यम् ; तथैवात्र विविच्यते । कथम् ? ’ घटोऽस्ति’ इत्यत्रास्तित्वं तद्भेदश्च व्यवह्नियते । न च द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं संभवति, तयोर्भिन्नकालज्ञानफलत्वात् ; प्रत्यक्षज्ञानस्य चैकक्षणवर्तित्वात् । तत्र स्वरूपं वा भेदो वा प्रत्यक्षस्य विषय इति विवेचनीयम् । भेदग्रहणस्य स्वरूपग्रहणतत्प्रतियोगिस्मरण- सव्यपेक्षत्वादेव स्वरूपविषयत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते । अतो भ्रान्तिमूल एव भेदव्यवहारः । श्रुतप्रकाशिका पूर्वं प्रत्यक्षविरोधे शास्त्रप्राबल्यं शास्त्रे च भेदावलम्बिना बाध्यत्वं चोक्तम् । अथ प्रत्यक्षविरोधो नास्तीत्युपपादयितुं प्रक्रमते - प्रत्यक्षादीति । शास्त्रप्रत्यक्षविरोधे शास्त्रप्राबल्यप्रतिपादकग्रन्थेन वक्ष्यमाणार्थसंगतिरिति भावः । चः समुच्चये । अविरो- धपक्षस्य च बुद्धिस्थत्वात् तस्य चान्वारुह्योक्तस्य च समुच्चयः ; विरोधाभ्युपगमेऽपीत्यर्थः । सति चेत्यत्र चशब्दों हिशब्दार्थः । अविरोधं प्रतिजानीते - विरोध एव न दृश्यत इति । हेतुमाह – निर्विशेषेति । विषयविषयिभावरूपभेदव्यावृत्त्यर्थं सन्मात्र ब्रह्मेत्युक्तम् । प्रतीतिविरोधेन चोदयति — ननु चेति । विरोधमुपपादयति – घटोऽस्तीत्यादिना । न हि केवलम् ’ अस्ति’ इति प्रतीतिः, अपितु ‘घटोऽस्ति ’ ’ पटोऽस्ति ’ इत्येव हि प्रतीति-

५४० श्रीभाष्यम् (जिज्ञासाधिकरणम्) ; रित्यर्थः । प्रतीतेर्भ्रान्तिरूपत्वसंभवात्तद्यदासार्थं व्यवहारविरोधमाह-विलक्षणेति । परिहरति- सत्यमिति । ’ घटोऽस्ति ’ ’ पटोऽस्ति’ इत्यत्रास्तिव्यवहारस्यैकरूपत्वात्तावन्मात्रे भेदावभा- समात्रे चाङ्गीकारः; भेदव्यवहारस्य प्रत्यक्षमूलत्वे भेदावभासस्य प्रत्यक्षत्वे चानङ्गीकारश्च सूच्यते सत्यमित्यर्धाङ्गीकारेण । तथैव ; यथा सन्मात्रस्यैव प्रत्यक्षत्वमेकव्यवहारहेतुतैव च स्यात् तथैवेत्यर्थः । अत्र ; घटादिविषयस्वरूपविषयव्यवहारसमुदाये । विविच्यते यथा–’ इदं रजतम् ’ इत्यत्र इदंव्यवहारस्य प्रत्यक्षमूलत्वं रजतव्यवहारस्य भ्रान्तिमूलत्वं तथा विविच्यत इत्यर्थः । तत्रेदमंशरजतांशव्यवहारयोरवाधितत्वबाधितत्वाभ्यां विवेकः ; अत्र स्वरूपविषयभेदविषयव्यवहारयोरुभयोरप्यबाधितत्वाविशेषे कथं विवेक इत्यभिप्रायेणाह - कथमिति । यौक्तिकबाधोऽस्तीत्याशयेनाह — घटोsस्तीति । किमस्तित्वं भेदश्चैकः पदार्थः, उत द्वौ ? द्वित्वे च किं तदुभयव्यवहारयोः प्रत्यक्षमूलत्वम्, उतान्यतरस्य ? द्वयोरपि प्रत्यक्षमूलत्वे प्रत्यक्ष किं युगपदुभयग्राहि, उत क्रमेण ? इति विकल्पान् हृदि निधाय, अस्तित्वलक्षणस्वरूपतद्भेदयोरैक्यं न संभवति, भेदग्रहणस्य स्वरूपग्रहणप्रतियोगि- स्मरणसापेक्षत्वात् सन्मात्रग्रहणस्य तन्निरपेक्षत्वाच्चेत्यभिप्रयन्नाह – अस्तित्वं तद्भेदश्चेति । ’ भिन्नः’ इति व्यवहार इव ‘घटः’ इत्यसाधारणव्यवहारेऽपि घटस्य पटायावृत्ततया प्रतीतौ प्रतियोगिसापेक्षत्वात् घटव्यवहार एव भेदव्यवहार इत्युच्यते । द्वित्वे च द्वयोरपि प्रत्यक्षमूलत्वं नेत्याह-न च द्वयोरपीति । द्वयोरपि व्यवहारयोः ; स्वरूपविषय- भेदविषयव्यवहारयोः । प्रत्यक्षं युगपद्वा क्रमेण वा मूलं स्यादिति विकल्पमभिप्रेत्य यौगपद्यं दूषयति तयोरिति । प्रतियोग्यपेक्षानपेक्षारूपवैषम्यादित्यभिप्रेतम् । क्रमपक्ष प्रतिक्षिपति - प्रत्यक्षज्ञानस्य चेति । चः समुच्चये । एवं युगपत् क्रमेण चोभयव्यव- हारस्य प्रत्यक्षमूलत्वमनुपपन्नमिति तयोरन्यतरस्य प्रत्यक्षविषयत्वमाह – तत्रेति । भेदः प्रत्यक्षविषयः स्यादित्यत्राह – भेदेति । अस्तित्वभेदयोरैक्यायोगे तद्व्यवहारयोर्भिन्नकाल- ज्ञानफलत्वे च य एव हेतुस्तेनैवेत्येवकाराभिप्रायः । प्रत्यक्षस्य स्वरूपमात्रविषयत्वे कथं भेदव्यवहारसंभव इत्यत्राह - अतो भ्रान्तीति । तथा च संवित्सिद्धौ 1 " यौगपद्यक्रमा योगाद्यवच्छेदविधानयोः । ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ॥ " इति ॥ व्यवच्छेदो भेदग्रहणम् । विधानं स्वरूपग्रहणम् ।

(3-3-3) श्रुतप्रदीपिका ५४१ भावप्रकाशिका अव्यवहितं वृत्तं परित्यज्य व्यवहितवृत्तकीर्तनमनुचितमित्याशङ्कयाह -शास्त्र- 11 प्रत्यक्षविरोध इति । संगतिप्रदर्शनार्थं व्यवहितकीर्तनमिति भावः । विरोधाभ्युपगमेऽपी– त्यर्थ इति ; न च चशब्दस्याप्यर्थत्वे पूर्वोक्तसमुच्चयार्थत्वविरोध इति वाच्यम्, अपे- रपि समुच्चयार्थत्वसंभवेन विरोधाभावात् । ननु ‘विरोध एव न दृश्यते ’ इत्ययुक्तम्, विरोधप्रतिपत्तेर्दुरपह्नवत्वात् हेतुवैयर्थ्याच्चेत्याशङ्कयाह – अविरोधं प्रतिजानीत इति । ’ निर्विशेषसन्मात्रग्राहित्वात्’ इत्यस्य व्यधिकरणतया अहेतुत्वशङ्कां निवर्तयति हेतु- माहेति । प्रत्यक्षं न शास्त्रविरुद्धं निर्विशेषसन्मात्रग्राहित्वादिति भाष्याभिप्राय इति भावः । प्रतीते भ्रान्तिरूपत्वसंभवादिति ; सन्मात्रग्राहिप्रत्यक्षे विलक्षणविषयकत्वप्रतीतेरित्यर्थः ; न तु भेदप्रतीतेरित्यर्थः तथाहि सति सन्मात्रग्राहिप्रत्यक्षवादविरोधापत्तेः तच्छङ्काया विलक्षणेत्यादिभाष्यग्रन्थादनिवृत्तेश्च भ्रान्तेरपि विलक्षणव्यवहारहेतुत्वात् । ’ तयोर्भिन्न- कालज्ञानफलत्वात् प्रत्यक्षज्ञानस्य चैकक्षणवृत्तित्वात्’ इति भाष्यस्यायमर्थः प्रत्यक्षज्ञानं किं युगपदेव व्यवहारद्वयमुत्पादयति, उत क्रमेण ? नाद्य इत्याह– तयोरिति । भिन्न- कालं यत् ज्ञानं प्रतियोगिस्मरणादिरूपं तत्फलत्वादित्यर्थः । एकस्मिन् काले प्रतियोगि– ज्ञानसापेक्षनिरपेक्षयोर्द्वयोर्व्यवह। र योरुत्पत्त्यसंभवादित्यर्थः । द्वितीयं दूषयति — प्रत्यक्ष – ज्ञानस्य चेति । न च पश्चादुत्पन्नप्रत्यक्षज्ञानान्तरेण भेदव्यवहारोऽस्त्विति वाच्यम्, पश्चा- दुत्पन्नस्य प्रत्यक्षत्वे प्रमाणाभावादिति भावः । किं युगपदुभयग्राहीति ; युगपद्व्यवहारद्वयो- त्पादकमित्यर्थः, भाष्यानुरोधात् ‘युगपद्वा क्रमेण वा मूलं स्यात्’ इत्युत्तरग्रन्थानुगुण्या- च्चेति द्रष्टव्यम् । असाधारणव्यवहारेऽपि ; घटस्य पटायावृत्ततया प्रतीतावपेक्षिताया- मिति शेषः । प्रत्यक्षस्य स्वरूपमात्रविषयत्वे कथं भेदव्यवहारसंभव इति ; स्वरूप– मात्रविषयत्वे ; घटादिस्वरूपाविषयत्वे कथं घटादिरूपभेदव्यवहारसंभव इत्यर्थः । श्रुतप्रदीपिका निर्विशेषचिन्मात्रसत्यत्वे विरोधमभ्युपगम्य प्रत्यक्षात् शास्त्रस्य बलीयस्त्वमुक्तं प्राक् ; स च नास्तीत्याह – प्रत्यक्षेति । सति च ; सति हीत्यर्थः । कथमविरोध इत्यत्राह - - निर्विशेषेति । निर्विशेषपदं सजातीयविजातीयभेदनिषेधपरम् । सन्मात्रपदं स्वगतभेदाभावपरम् ; " प्रत्यस्तमितभेदं, सत्तामात्रम्" इति पदद्वयवत् । प्रती-

५४२


श्रीभाष्यम् (जिज्ञासाधिकरणम्) अस्ति’ इतीति तिविरोधेन चोदयति – ननु चेति । घटोऽस्तीति न केवलम् भावः । तस्य भ्रान्तित्वव्युदासाय व्यवहारविरोधमाह – विलक्षणेति । एकव्यव- हारहेतुत्वमभ्युपगतं प्रत्यक्षस्य, प्रत्यक्षमूलत्वं तु भेदव्यवहारस्य नेत्यभिप्रायेण सत्य- मित्युक्तिः । द्वयोरपि प्रत्यक्षमूलत्वं दृश्यत इत्यत्राह — तथेति । अत्र ; स्वरूपभेदविषय- व्यवहारसमुदाये । तथा ; यथैकव्यवहारस्यैव प्रत्यक्षमूलता तथेत्यर्थः । विविच्यत इति ; " इदं रजतम्’ इति व्यवहारे यथेदमंशस्यैव प्रत्यक्षमूलत्वं तथेत्यर्थः । बाधाबाधाभ्यां तत्र तथात्वम्, इह तु न बाधो दृश्यत इत्यभिप्रायेण चोदयति कथमिति । एतत्प- रिहरन् ’ नेदं रजतम्’ इतिवत् प्रत्यक्षवावाभावेऽपि ज्वाक्यादाविवात्रापि यौक्तिकबा- धोऽस्तीति दर्शयति—घटोऽस्तीत्यादिना । तत्र चाधिक्रासु युक्तिषु तावन्मानानुपपत्ति- रुच्यते ; सा चैवम् -’ घटोऽस्ति ’ इत्यत्रास्तित्वं तद्भेदश्च किमेकः पदार्थः, उत द्वौ ? द्वित्वे च किं प्रत्यक्षमुभयग्राहि, उतान्यतरग्राहि ? उभयग्रहश्च किं युगपत् क्रमेण वा ? इति विकल्पान् हृदि कृत्वा न तावत्स्वरूपभेदयोरैक्यं, तयोः प्रतियोगिनिरपेक्षत्वसापेक्षत्वाभ्यामित्यभि- प्रयन्नाह – घटोऽस्तीत्यत्रेति । द्वित्वे च प्रत्यक्षस्योभयग्राहित्वं नेत्याह - न च द्वयो- रिति । अत्र युगपद्गुहा संभवे हेतुमाह - तयोरिति । भिन्नकालत्वं च धियोः प्रति- योग्यपेक्षानपेक्षाभ्यामिति भावः । क्रमग्रहासंभवे हेतुमाह — प्रत्यक्षेति । ग्राहित्वे किमन्यतरदस्तित्वलक्षणं स्वरूपं भेदो वेति विकल्पं दर्शयति – तत्रोत । तत्र ; उभयग्राहित्वेऽनुपपन्ने। तत्र ; तयोः स्वरूपभेदयोरिति निर्धारण सप्तमी वा । भेदग्रहा- योगमुखेन प्रत्यक्षस्य स्वरूपमात्रविषयत्वं परिशिनष्टि – भेदेति । ऐक्ययौगपद्या संभव है- तोरेवेत्येवकाराभिप्रायः । एवमेवेदमनुभाषितं संवित्सिद्धौ यामुनाचार्यैः- 66 यौगपद्यक्रमायोगाद्व्यवच्छेद विधानयोः । " ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ॥ इति । तर्हि कथं भेदव्यवहार इत्यत्राह अत इति । तची पक्षान्तरमथादित्सुः शास्त्रप्राबल्यमीरितम् । प्रत्यक्षस्य विरुद्धत्वमन्वारुह्येति भाषते ॥ ३४१ ॥ अन्यतर- CC-0 No Rights Reserved. Digitized by eGangotri(१ – २ – १) 9 तत्त्वटीका ५४३- प्रत्यक्षादीति । चोऽप्यर्थः । तत्त्वविद्भयो विषयविरोधाभावाद्बलीयस्त्वं न वक्तव्यमित्यभिप्रायेणाह— सतीति । चोऽवधारणे । अत्र बलाबलविचारस्य मूलमेव छिन्नमित्याह—विरोध इति । विरोधादर्शनं द्वयोरपि स्वारसिक्या - . परस्पराविरुद्धभेद– विषयतया स्यादित्यत्राह - निर्विशेषेति ; प्रत्यक्षसिद्धं सदेव निष्कृष्य शास्त्रे ब्रह्मेत्युच्यत इति भावः । असिद्धोऽयं हेतुः सर्वलोकोपलम्भविरोधादिति शङ्कते - ननु चेति ; न हि क्वचिदप्यस्तिमात्रदर्शनमित्याशयः । कथमिव ; दृष्टापत्वमन्तरेण न कथंचिदित्यर्थः । उच्यत इति ; अनेन घटादिविषयं प्रत्यक्ष सन्मात्रग्राहीति खोक्तिविरोधोऽपि सूचितः । विशिष्टविषयत्वं भ्रान्तिसिद्धमिति शङ्कां विपक्षे बाधकेन वारयति - विलक्षणेति । लोकसिद्धं प्रसङ्गविपर्ययं भेदव्यवहारस्य प्रत्यक्षमूलत्वं चानिच्छन् प्रसक्तस्येष्टत्वमाह- सत्यमिति । नानाव्यवहाराणां प्रत्यक्षमूलत्वं नापह्नोतव्यमित्यत्राह - तथेति ; यथा संत एकस्यैव व्यवहारः प्रत्यक्षमूलस्तथेति यावत् । एवकारः ’ त्वदुक्तमवधारणं स्थिरी– करोमि ’ इति सावष्टम्भत्वं व्यनक्ति । अत्र ; व्यवहारद्वये, तद्धेतौ बुद्धिद्वये वा । विवि- च्यते ; सर्वेषु भ्रमेष्वधिष्ठानारोप्यव्यवहारांशयोर्यथा विभागस्तथात्रेति भावः । बांधिते दृष्टस्य विभागस्यान्यत्रोक्तावविषयवृत्तित्वं मत्वा चोदयति — कथमिति । अत्र नभःस्थलमलिनत्वादिवत्प्रत्यक्षचाधाभावेऽपि युक्त्या बाधयितुं प्रथमं मानानुपपत्तिः प्रस्तूयते । एवमत्र विकल्पा हार्दा: - किमस्तित्वघटत्वरूपयोः स्वरूपभेदयोरैक्यम्, उत भेद इति ; भेदे च प्रत्यक्षमुभयमन्यतरद्वा गृह्णातीति ; आधे युगपत् क्रमाद्वेति ; द्वितीये स्वरूपं भेदं वेति । तत्रैक्यं दूषयति — घटोऽस्तीति । तद्भेदः ; तत्संबन्धितया ततोऽन्य-: त्वेनोल्लिख्यमानो भेदः । अयं भावः - अत्रोल्लिख्यमानभेदाभावे भिन्नशब्दः कापि न स्यात्, स्वेन स्वस्य विशिष्टत्वायोगात् । अस्तिघटशब्दयोश्चापर्यायतया व्युत्पत्तेस्तद्विषयौ भिन्नौ; अन्यथा प्रतियोगिसापेक्षानपेक्षव्यवहारभेदविरोधात् तत्त्वतः सिद्धयोव्र्यवहार भे- दयोर्मूलभेदश्चिन्त्य इति । उभयग्राहित्वं निषेधति न चेति । व्यवहारद्वयस्यैक– मूलत्वासंभवे युगपद्गुहणासंभव हेतुमाह - तयोरिति । अधिकरणप्रतियोगिधीसापेक्षस्य भेदग्रहणस्य स्वरूपग्रहणपश्चाद्भावित्वादित्यर्थः । क्रमेणोभयग्रहणं दूषयति– प्रत्यक्षेति । चः क्रमयौगपद्यायोगसमुच्चयार्थः ; न हि क्षणिकं विरम्य व्याप्रियेतेति भावः । प्रत्यक्षशब्द इहासजन्यत्वपरः । तेनात्मस्वरूप ज्ञानात्साक्षिणश्च व्यवच्छेदः । पारिशेष्यादन्यतरग्राहित् 1 ।

५४४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) तन्निर्धारणायार्थविकल्पं वक्ति–तत्रेति ; तथा सतीत्यर्थः, तयोर्मध्य इति वा । स्वेष्टं परिशेषयति–भेदेति । स्मरणशब्दः कचिह्नस्याप्युपलक्षकः । । एवकारः पूर्वमैक्ययौगपद्यासंभवोक्तौ प्रतियोगिसापेक्षत्वस्य गर्भितत्वं व्यनक्ति । शास्त्रविरोधा- संभवमाह – न भेद इति । अयं भावः – एकेन प्रत्यक्षेण स्वरूपे गृहीते यदि प्रत्य- -क्षान्तरेण भेदग्रहणमित्युच्यते, तदा निराधारभेदग्रहणायेोगात्पूर्ववदुतरमपि स्वरूपं गृही- त्वा नश्येत् ; अतो न कदापि प्रत्यक्षजातीयेन भेदसिद्धिरिति । तदिदमनूदितं संवि- त्सिद्धौ- 11 66 “ यौगपद्यक्रमायोगाद्व्यवच्छेदविधानयोः । ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः || 99 इति । व्यवच्छेदविधानयोः ; स्वरूपग्रहभेदग्रहयोरित्यर्थः । तथापि दुरपह्नवव्य- वहारान्यथानुपपत्त्या कथंचित् प्रत्यक्षेण भेदग्रहः कल्प्य इत्यत्राह अत इति । उक्तयुक्ति- बलादर्थापत्तिरियमन्यथैवोपपाद्या। अनुपपन्नतैकवेषायां भ्रान्तौ तु क्रमयौगपद्यादिविमर्शो न कार्य इति भावः । मूलभावप्रकाशिका 1 तथैवात्र विविच्यत इति ; सर्वप्रत्यक्षस्याप्येकव्यवहार हेतुतैव प्रतिपाद्यत इत्यर्थः अस्तित्वमिति ; सत्स्वरूपमित्यर्थः । तद्भेदश्चेति ; घटभेदश्चेत्यर्थः । भिन्नकालज्ञानेति : क्षणद्वयवर्तीत्यर्थः । क्रमिकव्यवहारद्वयस्य क्षणद्वयवर्तिज्ञानसाध्यत्वादित्यर्थः । स्वरूप- विषयत्वमिति ; सत्स्वरूपविषयत्वमित्यर्थः । ननु घटादिस्वरूपमात्रस्य प्रतियोगिज्ञानादि- सापेक्षत्वाभावात् घटादिस्वरूपस्य प्रत्यक्षविषयत्वे कानुपपत्तिरिति चेत् ; उच्यते- इन्द्रियव्यापारानन्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रतीयते, तत्र तदितरभेदे संशयविपर्ययादर्शनात् । तत्र च भेदस्य प्रतियोगिसहोपलम्भनियमतो न प्रत्यक्षेण ग्रहणं संभवति, देशकालादिव्यवधानेनासंनिकृष्टानामपि प्रतियोगिनामसंभवात् । तस्मात्प्रत्यक्ष- योग्यत्य प्रतियोगिनः प्रतिभासो भ्रान्तिरूप इति तदेकवित्तिवेद्यस्य भेदस्य भेदैकवित्तिवेद्यस्य ‘घटादेश्च भ्रमैकविषयत्वात् प्रत्यक्ष निर्विशेषसन्मात्रग्राह्येव न घटादिस्वरूपग्राहीति मृषावादिनामाशयः ।

(१ – १ – १ ) श्रुतप्रकाशिका श्रीभाष्यम् ५४५ किंच भेदो नाम कश्चित्पदार्थो न्यायविद्भिर्निरूपयितुं न शक्यते । भेदस्तावन्न वस्तुनः स्वरूपम्, वस्तुस्वरूपे गृहीते स्वरूप- व्यवहारवत् सर्वस्माद्भेदव्यवहारप्रसक्तेः । न च वाच्यं स्वरूपे गृहीतेऽपि ’ भिन्नः’ इति व्यवहारस्य प्रतियोगिस्मरणसव्यपेक्षत्वात्तत्स्मरणाभावेन तदानीमेव न भेदव्यवहार इति स्वरूपमात्रभेदवादिनो हि प्रतियोग्यपेक्षा चनोत्प्रेक्षितुं क्षमा, स्वरूपभेदयोः स्वरूपत्वाविशेषात् । यथा स्वरूप- व्यवहारो न प्रतियोग्यपेक्षः, भेदव्यवहारोऽपि तथैव स्यात् ; ‘हस्तः करः’ इतिवत् ‘घटो भिन्नः’ इति पर्यायत्वं च स्यात् । नापि धर्मः ; धर्मत्वे सति तस्य स्वरूपाद्भेदोऽवश्याश्रयणीयः ; अन्यथा स्वरूपमेव स्यात् । भेदे च तस्यापि भेदस्तद्धर्मस्तस्यापीत्यनवस्था | किंच जात्यादिधर्मविशिष्टवस्तुग्रहणे सति भेदग्रहणं, भेदग्रहणे सति जात्यादिधर्मविशिष्टवस्तुग्रहणमित्यन्योन्याश्रयणम् । अतो भेदस्य दुर्निरूपत्वात् सन्मात्रस्यैव प्रकाशकं प्रत्यक्षम् । श्रुतप्रकाशिका


एवं भेदे प्रमाणानुपपत्तिरुक्ता ; अथ प्रमेयानुपपत्तिमाह – किंचेति । ‘किंच’ इत्यादिना प्रमाणानुग्राहकतर्काभावोऽप्युपपादितो भवति । दुर्निरूपत्वं प्रतिजानीते भेदो नामेति ; विकल्पासहत्वादिति भावः । न्यायविद्भिः, न त्वापातप्रतीतिमात्रतृप्तैरिति भावः । स्वरूपधर्मविकल्पं हृदि निधाय स्वरूपपक्ष दूषयति-भेदस्तावदिति । कुत इत्यत्राह – वस्तुस्वरूप इति । स्वरूपव्यवहारवत् सर्वस्माद्भेदव्यवहारप्रसक्तेरिति ; प्रति- योगिनिरपेक्षभेदव्यवहारप्रसक्तेरित्यर्थः । स्वरूपग्रहणस्य शब्दव्युत्पत्तिव्युत्पन्न शब्दस्मरण- निरपेक्षत्वेऽपि ’ भिन्नः’ इति व्यवहारस्तु तत्सापेक्षो यथा भवति, तथा प्रतियोगिग्रहणमपि भेदव्यवहारसामग्रघन्तर्भूतम् ; अतस्तत्स्मरणाभावात् तदानीमेव भेदव्यवहाराभावः, न तु भेदाग्रहणादिति परमतमाशङ्कयाह - न चेति । कुत इत्यत्राह - स्वरूपेति । यथा न 69

५४६ श्रीभाष्यम् 6 1 (जिज्ञासाधिकरणम्) स्वरूपग्रहणे प्रतियोग्यपेक्षा, तथा भेदव्यवहारे चेति चशब्दार्थः । हिशब्दों हेतौ ; स्वरू- पग्रहण इव भेदव्यवहारे प्रतियोग्यपेक्षाया असंभवादित्यर्थः । असंभवः कुत इत्यत्राह - स्वरूपेति । स्वरूपभेदयोः स्वरूपत्वमविशिष्टमस्तु ; ततः किं प्रतियोगिनिरपेक्षभेदव्यव- हारप्रसक्तेरिति शङ्कायां तद्विवृणोति - यथेति । स्वरूपपक्षे दूषणान्तरमप्याह — हस्तः कर इति ; पर्यायत्वे सति सह प्रयोगस्त्याज्यः स्यादिति भावः । स्वरूपपक्षे मृषावादि- भिर्दूषणान्तराण्यप्युक्तानि ; उदाहृतदूषणपरिहारेण तान्यपि प्रत्युक्तानि भवन्तीति भाष्ये न कण्ठोक्तानि । तान्युच्यन्ते – स्वरूपपक्षे ’ भिन्नः’ इति व्यवहर्तुं न युक्तम् ; भिन्नो हि भेदयोगी । एतद्व्यवहारसिद्धये यदि स्वरूपभूतभेदान्तरं स्वीक्रियते तत्रापि भिन्नः’ इति व्यवहारस्यायुक्तत्वात् तत्स्वरूपभूतभेदान्तरमाश्रयणीयमित्यनवस्था । किंच शब्दान्तरे धर्मः ’ इत्युक्तं स्यात् ; तदा धर्मपक्षदूषणान्यापतेयुः । किंच भेदः किमनुवृत्तः, उत व्यावृत्तः ? व्यावृत्तश्चत् स किं स्वरूपम्, उत धर्मः ? प्रथमे घटस्य भेदव्यवहारे कृते पटविषयभेदव्यवहारो न स्यात्, व्यावृत्तत्वात् । धर्मश्चेत् पूर्वदोषो धर्मत्वप्रयुक्तदूषणानि च स्युः । यद्यनुवृत्तः, स च स्वरूपं चेत् शब्दान्तरेण सन्मात्रमङ्गीकृतं स्यात् । धर्मपक्षे पूर्ववत् । किंच भिदिधातोर्हि विदारणमर्थः । एकस्य वस्तुनो भेदो नाम द्विधाभावः तत्खण्डस्यापि तथा स्यात् । अतो वस्तुनि भेदाभ्युपगमे विदारणपरम्परया वस्तुनाश एव स्यादित्येवमादीनि । अथ धर्मपक्ष दूषयति - नापीति । कुत इत्यत्राह — धर्मत्व इति । स्वरूपाद्धर्मस्य भेदाभावेऽनिष्टमाह – अन्यथेति । स्वरूपधर्म योर्भेदोऽस्तु ; ततः किमि - त्यत्राह – भेदे चेति । तस्यापि भेदस्तद्धर्मः ; तस्य धर्मतया स्वीकृतस्यापि भेदस्य स्वरूपापेक्षया यो भेदः, सोऽपि तस्य धर्मतया स्वीकृतस्य भेदस्य धर्मः । यद्वा स्वरूपा- द्धर्मस्य यो भेदः स्वीकृतः, तस्य धर्मिभूताद्धर्मात् भेदोऽपि धर्म; अन्यथा स्वरूप स्यात् । तथा स्वरूपपक्षदूषणानि स्युः । सोऽपि भेदो धर्मः ; तस्यापि स्वरूपाद्धेत इत्यनवस्थेत्यर्थः । एवं धर्मपक्षेऽनवस्थामुक्तत्वान्योन्याश्रयणमाह – किंचेत्यादिना त्रेधा च तत्-धर्मिणि प्रतियोगिनि च गृहीते भेदग्रहणं, भेदे गृहीते धर्मिप्रतियोगिग्रहण- मिति ; धर्मे धर्मिणि च गृहीते भेदग्रहणं, भेदे गृहीते धर्मधर्मिग्रहणमिति ; ’ अयं घटः इत्यत्रेदंशब्दनिर्दिष्टस्य घटजातीयत्वविशिष्टग्रहणं पटजातीयाद्भेदग्रहणपूर्वकम्, घटजातीयत्वविरोधात् ; पटाद्भेदग्रहणमिदंशब्दनिर्दिष्टस्य अन्यथा घटजातीयत्वग्रहणपूर्वकम्

(१–१– १) भावप्रकाशिका ५४७ अन्यथा पटत्वप्रसङ्गादिति । एवं धर्मधर्मिग्रहणे, धर्मितया प्रतियोगितया च ग्रहणे, तत्तज्जातीयत्वग्रहणे च त्रिधान्योन्याश्रयणमुक्तम् । साधकप्रमाणाभावमुपसंहरति — अत इति । अतः ; स्वरूपधर्मपक्षोक्तैर्दूषणैर्दुर्निरूपत्वादित्यर्थः । इत्थं साधकप्रमाणाभाव उक्तः । प्रमेयानुपपत्तिरूपस्तर्कश्च तच्छेषभूतः ; सामग्रीविषयेणार्थस्वभावविषयेण वा निरूपणेन विषयविशेषे प्रमाणव्यवस्थापनं हि तर्ककृत्यम् । , भावप्रकाशिका ननु घटादिस्वरूपमात्रग्रहणस्य प्रतियोगिज्ञानादिसापेक्षत्वाभावात् घटादिस्वरूपस्य प्रत्यक्षविषयत्वे कानुपपत्तिरिति चेत्, उच्यते — इन्द्रियव्यापारानन्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रतीयते, तत्र तदितरभेदे संशयविपर्ययादर्शनात् । तत्र च भेदस्य प्रतियोगिसहोपलम्भनियमवतो न प्रत्यक्षेण ग्रहणसंभवः, देशकालादिव्यवधानेनासं- निकृष्टानामपि प्रतियोगिनां संभवात् । तस्मात्प्रत्यक्षायोग्यस्य प्रतियोगिनः प्रतिभासो भ्रान्तिरूप इति तदेकवित्तिवेद्यस्य भेदस्य भेदैकवित्तिवेद्यस्य घटादेश्व भ्रमैकविषयत्वात् प्रत्यक्ष निर्विशेषसन्मात्रग्राह्येव न घटादिस्वरूपग्राहीति मृषावादिनामाशयः । सर्वस्माद्भे- दव्यवहारप्रसक्तिर्नानिष्टा स्वरूपभेदवादिनः स्वरूपग्रहणानन्तरं प्रतियोगिनः स्मरणे सति व्यवहारस्येष्टत्वादित्याशङ्कय व्याचष्टे – प्रतियोगिनिरपेक्षभेदव्यवहारप्रसक्तेरिति । स्वरूपग्रहणस्य शब्दव्युत्पत्तीति; अतिरिक्तभेदपक्षेऽपि भेदस्वरूपग्रहणस्येत्यर्थः । तथा प्रतियोगिग्रहणमपीति ; स्वरूपानतिरिक्तभेदपक्षेऽपीति शेषः । अतिरिक्तभेदवादि- नैयायिकादिपक्षे व्यत्पन्नशब्दस्मरणादिर्भेदव्यवहार एव कारणम्, न तु भेदज्ञाने ; तथास्मन्मते प्रतियोगिग्रहणादिकमपि भेदव्यवहार एवेति भावः । स्वरूपभूतं भेदान्तर- मिति ; न च स्वरूपभूतत्वभेदान्तरत्वयोर्विरोध इति शङ्कनीयम्, काल्पनिकभेदमादाय भेदान्तरत्वधर्मधर्मिभावोपपत्तेरिति भावः । ननु व्यक्त्यन्तरानभ्युपगमान्नानवस्थेत्यरुचेराह- किंच शब्दान्तरेण धर्म इत्युक्तमिति । कल्पितभेदमादाय धर्मधर्मिभावोपपादने घट- स्यापि घटाश्रयत्वप्रसङ्गः ; अतः कल्पितभेदमादाय धर्मधर्मिभाव उपपद्यत इति वदता स्वरूपपक्षं परित्यज्य धर्मपक्ष एवावलम्बितः स्यादित्यर्थः । घटस्य भेदव्यवहारे कृत इति ; अनुगतस्य भेदाख्यधर्मस्याभावात् भेदशब्दो यस्यां व्यक्तो गृहीतशक्तिकस्तत्रैव प्रयुज्येत, नान्यत्रेत्यनुगतव्यवहारोच्छेदप्रसङ्ग इत्यर्थः । धर्मश्चेत् पूर्वदोष इति व्यावृत- CC-0 No Rights Reserved. Digitized by eGangotri५४८ 6 श्रीभाष्यम् ( जिज्ञासाधिकरणम्) धर्मत्वेऽनुगतव्यवहारोच्छेद इत्यर्थः । सन्मात्रमङ्गीकृतं स्यादिति ; तस्यैवानुवृत्तस्व- रूपत्वादित्याशयः । धर्मपक्षे पूर्ववदिति ; न च प्रमेयत्वे प्रमेयत्ववदनुवृत्तभेदरूपधर्म- स्य स्वपरनिर्वाहकत्वान्नानवस्थादोष इति वाच्यम्, तस्याप्यसंप्रतिपत्तेरिति भावः । तत्खण्डस्यापि तथा स्यादिति ; द्विधाभूतस्यापि द्विधाभावः स्यादिति भावः । भाष्ये— तस्यापि भेदस्तद्धर्मस्तस्यापीति ; ‘भेदस्तद्धर्मः’ इति शेषः । ततश्च तस्यापि भेदस्तद्धर्मः, तस्यापि भेदस्तद्धर्म इत्यनवस्थेत्यर्थः । भाष्ये – भेदे च तस्यापि भेदस्त- द्धर्म इत्यत्र षष्टयन्त तच्छब्देन ’ भेदे च’ इत्यव्यवहितपूर्वनिर्दिष्टस्य भेदरूपधर्मनिष्ठस्य स्वरूपप्रतियोगिकस्य द्वितीयभेदस्य ग्रहणसंभवे व्यवहितस्य प्रथमभेदस्य ग्रहणमन्याय्यम् । तथाहि सति भेदस्तद्धर्मः इत्युक्तेरेवोचितत्वेन ’ तस्य भेद:’ इति निर्देशस्य व्यर्थत्वाच्चेत्यपरितोषादाह – यद्वा धर्मस्य स्वरूपाद्यो भेद इति । प्रथमपक्षे ’ तस्यापि भेदस्तद्धर्मः’ इति वाक्यखण्डेन भेदधर्मिकभेदान्तरसिद्धिमात्रम् ; द्वितीयपक्षे ’ तस्यापि भेदस्तद्धर्मः’ इत्यनेन भेदधर्मिकभेदेऽपि भेदसिद्धिरिति विशेषः । जात्यादिधर्मविशिष्ट- वस्तुग्रहणे सतीत्यत्र भाष्ये आदिशब्देन धर्मित्वप्रतियोगित्वधर्मधर्मित्वानां ग्रहणमित्याह - त्रिधा च तदित्यादिना । घटस्य पटात् भेदज्ञाने हि त्रीणि कारणानि - घटपटरूप- धर्मिप्रतियोगिज्ञानमेकम् ; भेदतदाश्रयरूपधर्मधर्मिज्ञानं द्वितीयम्, विशिष्टज्ञाने विशेषण- विशेष्यज्ञानस्य हेतुत्वात् घटस्य पटव्यावृत्तत्वघटत्वाश्रयत्वज्ञानं तृतीयमिति पर्यव सितोऽर्थः । न च धर्मिप्रतियोगिज्ञानस्याभावज्ञानहेतुत्वेऽपि धर्मित्वप्रतियोगित्वप्रकारक ज्ञानस्याहेतुत्वात् कथमन्योन्याश्रयः ? धर्मित्वप्रतियोगित्वप्रकारकज्ञाने परं भेदज्ञानापेक्षा, न धर्मिप्रतियोगिज्ञान इति वाच्यम्, भेदज्ञानात् प्राक् प्रतियोगित्वत्वादिविशिष्टप्रतियो- गित्वादिप्रकारकज्ञानाभावे प्रतियोगित्वादिविशिष्टप्रतियोगिविशेषणकभेदप्रत्ययाभावेन प्रति- योगित्वप्रकारकज्ञानस्य हेतुत्वात् । अत एव भेदतदाश्रययोरपि धर्मधर्मिणोर्धर्मधर्मित्वेन ज्ञानाभावे विपरीतधर्मधर्मिभावप्रतीतिप्रसङ्गेन तेन रूपेण धर्मधर्मिज्ञानमपेक्षितमित्यत्र तात्पर्यात् । श्रुतप्रदीपिका एवं मानदौस्थ्यमुक्तम् ; अथ मेयदौस्थ्यं दर्शयति – किंचेति । न्यायविद्भिः न त्वापातधीतृप्तैः । तत्र भेदः किं स्वरूपं धर्मो वेति विकल्पमभिप्रेत्य प्रथमं शिर

({ – २ – १) तत्त्वीका ० ५४९ दूषयति - भेद इति । कुत इत्यत्राह — वस्त्विति ; भेदव्यवहारस्य प्रतियोगिनिरपेक्ष- ताप्रसक्तेरित्यर्थः । भेदस्य स्वरूपत्वेन तद्गुहस्य प्रतियोग्यनपेक्षत्वेऽपि शाब्दव्यवहारे व्युत्पत्त्यादिवत् ’ भिन्नः’ इति व्यवहारविशेषे प्रतियोगिधीरपि स्वामग्रयन्तर्गतेत्याश- ङ्कयाह — न चेति । कुत इत्यत्राह – स्वरूपेति । हिः हेतौ ; स्वरूपव्यवहार इव भेदव्यवहारे च प्रतियोग्यपेक्षत्वासंभवादित्यर्थः । सोऽपि कुत इत्यत्राह – स्वरूपभेदयो- रिति । तद्विवृणोति — यथेति । दूषणान्तरमाह - हस्त इति । दूषणान्तराणां परिहार- साम्यादनुक्तिः । द्वितीयं दूषयति - नापीति । कुत इत्यत्राह - धर्मत्वे सतीति । विपक्षे बाधकमाह – अन्यथेति । अन्यथा ; स्वरूपपक्षे दूषणापातादिति भावः । ततः किमि - त्यत्राह – भेदे चेति । तद्धर्मः ; भेदस्य धर्मः । परस्पराश्रयमाह – किंचेति । धर्म- धर्मिणोः धर्मिप्रतियोगिनोः तत्तज्जातीययोश्च तत्तद्भावग्रहपूर्वको भेदग्रहः, तत्पूर्वकश्चेतर इत्यन्योन्याश्रयः । साधकाभावमुपसंहरति — अत इति । तच्चटीका मेयानुपपत्तिमाह – किंचेति । प्रसिद्धेऽपि बाधकन्यायान्यायविवक्षया न्यायवि- द्भिरित्युक्तम् । भेदः स्वरूपं धर्मो वेति हार्दे विकल्पे पूर्वं निरस्यति - भेदस्तावदिति । संशयाद्यनुपपत्तिगर्भं हेतुमाह – वस्त्विति । स्वरूपस्य भेदत्वे तर हे कथं भेदाग्रहः ? तदभावे कथंतरां संशयविपर्ययौ ? तयोरभावे च सर्वेभ्यो भेदव्यवहार एव स्यात् ; तथाच न बाधकसाध्यं किंचित् स्यादिति भावः । प्रसञ्जितविपर्ययस्यान्यप्रयुक्तत्वमाशङ्कयाह- न चेति । स्वरूपे गृहीतेऽपि ; स्वरूपभूते भेदे गृहीतेऽपीत्यर्थः । भिन्न इत्यादि ; यथा वाच्यस्वरूपे गृहीतेऽपि वाचकप्रयोग: संबन्धग्रहणापेक्षः, तथा ’ भिन्नः’ इति व्यवहारोऽपि प्रतियोगिधीसापेक्षः ; तत एवात्रासौ तदभावप्रयुक्तः स्वाभाव इत्याशयः । ’ प्रतियोगि- सापेक्षत्वात्’ इत्युक्तं दूषयति – स्वरूपमात्रेति । चः अवधारणे, आश्रयापेक्षासमुच्चये वा । यथा स्वरूपग्रहणे प्रतियोगिग्रहणनैरपेक्ष्यं तथा तद्व्यवहार इत्यभिप्रायेण नोत्प्रेक्षितुं क्षमे - त्युक्तम् । स्वरूपमात्रभेदवादिन इत्यनेन सूचितं हेतुं विवृणोति स्वरूपभेदयोरिति । उक्तं प्रतिबन्धिगर्भं व्यनक्ति - यथेति । सहप्रयोगभङ्गमभिप्रयन् प्रसङ्गान्तरमाह — हस्त इति । स्वरूपभेदशब्दयोः पर्यायता स्यादिति वक्तव्ये घटो भिन्न इत्युक्तेरयं भावः- भेदत्वेन प्रयुक्तस्य घटस्य स्वरूपत्वं परे मन्यन्ते; तस्य च स्वरूपमेव भेदश्चेत् यस्य


0 ५५०’ श्रीभाष्यम् (जिज्ञासाधिकरणम्) भेदोऽस्ति स भिन्नः ; अतो घटभिन्नशब्दौ पर्यायौ स्याताम् । एवं घटभेदशब्दावपीति । चकारोऽत्रानुक्तमपि समुच्चिनोति । स्वरूपस्यानुवृत्तत्वे भेदत्वं न स्यात्, व्यावृत्तत्वेऽन्येषां निःस्वरूपत्वनिर्भेदत्वापत्तिरित्यादि । भेदस्य धर्मत्वे तद्वति क्वचिदप्यभेदो न सिध्येत् ; तथा सत्यभिन्नस्य भिन्नस्य वाभावे सर्वापह्नवः स्यादित्यभिप्रायेणाह - नापीति । अनव- स्थां वक्तुं धर्मभूतो भेदः स्वरूपेणाभिन्नो भिन्नो वेति विकल्प्याद्यं निरस्यति – धर्मत्व इति । भेदाभावे धर्मधर्मिभावो न स्यात्, स्वरूपपक्षोक्तदोषाश्च स्युरित्यभिप्रायेणाह - अन्यथेति । द्वितीये मूलच्छेदमाह–भेदे चेति । तद्धर्मः तस्य भेदस्य धर्मः । ग्रह- णद्वारापि दोषमाह – किंचेति । तज्जातीयत्वातज्जातीयत्वतद्गुणकत्वातद्गुणकत्व विशेषण- त्वविशेष्यत्वधर्मत्वप्रतियोगित्वादावपि भेदग्रहेऽप्यन्योन्याश्रयमभिप्रेत्य जात्याद्युक्तिः || भेदकाग्रहणे भेदो न गृह्येत कथंचन । ; तस्य चाग्रहणे सोऽपि न गृह्येतेति संग्रहः || ३४१ ॥ एवं ग्राह्यानुपपत्त्या ग्राहकानुपपत्तिं पूर्वमुक्तां द्रढयति — अत इति । मूलभावप्रकाशिका ननु भेदव्यवहारमात्रमापाद्यते, उत भेदशब्दोल्लेखो व्यवहारः ? नाद्यः, स्वरूप- व्यवहारस्यैव भेदव्यवहारत्वेनेष्टत्वात् । न द्वितीयः, तादृशव्यवहारार्थस्य प्रतियोगिस्मरणा- दिसापेक्षत्वादित्याशङ्कय निराकरोति न च वाच्यमिति । तस्यापि भेद इति ; भेद- निष्ठो यः स्वाश्रयस्वरूपाद्भेदः सोऽपि न भेदस्वरूपमात्रम्, स्वरूपत्वपक्षस्य दूषितत्वात् । धर्मत्वपक्षस्यैवाश्रयणीयत्वे सिद्धे धर्मधर्मिणोर्भेदस्यावश्यंभावात्तन्निष्ठभेदान्तरं स्वीकर्तव्यमित्य- नवस्थाप्रसङ्गात् । जात्यादिविशिष्टेति ; वैधर्म्यज्ञानाभावे भेदज्ञानासंभवादिति भावः । भेदग्रहणे सतीति ; घटव्यावृत्तत्वज्ञानाभावे पटत्ववैशिष्ट्घाग्रहणात् ; अन्यथा पटेऽपि घटत्ववैशिष्टयग्रहणप्रसङ्ग इति भावः | सन्मात्रस्यैवेति ; भेदव्यवहारस्तु भ्रान्तिमूलक इति भावः । श्रीभाष्यम् किंच ‘घटोऽस्ति, पटोऽस्ति ’ ‘घटोऽनुभूयते, पटोऽनुभूयते इति सर्वे पदार्थाः सत्तानुभूतिघटिता एव दृश्यन्ते । अत्र सर्वासु

(१ – १ – १ ) श्रीभाष्यम् ५५ प्रतिपत्तिषु सन्मात्रमनुवर्तमानं दृश्यत इति तदेव परमार्थः । विशेषास्तु व्यावर्तमानतयाऽपरमार्थाः, रज्जुसर्पादिवत् यथा रज्जुरधिष्ठानतयानु- वर्तमाना परमार्थसती; व्यावर्तमानाः सर्पभूदलनाम्बुधारादयोऽपरमार्थाः । ननु च रज्जुसर्पादौ ’ रज्जुरियं न सर्पः’ इत्यादिरज्ज्वाद्यधिष्ठानया- ज्ञानेन बाधितत्वात्सर्पादेरपारमार्थ्यं, न व्यावर्तमानत्वात् ; रज्ज्वा- देरपि पारमार्थ्यं नानुवर्तमानतया, किं त्वबाधितत्वात् ; अत्र तु घटादी- नामबाधितानां कथमपारमार्थ्यम् ? उच्यते– घटादौ दृष्टा व्यावृत्तिः ; सा किंरूपेति विवेचनीयम् । किं ’ घटोऽस्ति’ इत्यत्र पटाद्यभावः ? सिद्धं तर्हि ‘घटोऽस्ति’ इत्यनेन पटादीनां बाधितत्वम् । अतो बाध- फलभूता विषयनिवृत्तिर्व्यावृत्तिः । सा व्यावर्तमानानामपारमार्थ्यं साध- यति । रज्जुवत्सन्मात्रमबाधितमनुवर्तते । तस्मात्सन्मात्रातिरेकि सर्व- मपरमार्थः । प्रयोगश्च भवति — ’ सत् परमार्थः, अनुवर्तमानत्वात् ; रज्जुसर्पादौ रज्ज्वादिवत् ’ ‘घटादयोऽपरमार्थाः व्यावर्तमानत्वात् ; रज्ज्वाद्यधिष्ठान सर्पादिवत्’ इति । एवं सत्यनुवर्तमानानुभूतिरेव पर- मार्थः; सैव सती । ननु च सन्मात्रमनुभूतेर्विषयतया ततो भिन्नम् ; नैवम् ; भेदो हि प्रत्यक्षविषयत्वाद् दुर्निरूपत्वाच्च पुरस्तादेव निरस्तः । अत एव सतोऽनुभूतिविषयभावोऽपि न प्रमाणपदवीमनुस- रति । तस्मात्सदनुभूतिरेव । सा च स्वतः सिद्धा, अनुभूतित्वात् । अन्यतः सिद्धौ घटादिवदननुभूतित्वप्रसङ्गः । किंच अनुभवापेक्षा चानुभूतेर्न शक्या कल्पयितुम् ; सत्तयैव प्रकाशमानत्वात् । न ह्यनु- भूतिर्वर्तमाना घटादिवदप्रकाशा दृश्यते, येन परायत्तप्रकाशाभ्युप- गम्येत ।

Q ५५२ श्रीभाष्यम् श्रुतप्रकाशिका (जिज्ञासाधिकरणम्) अथ बोधकप्रमाणमुपन्यस्यति— किंचेति । तत्रानुमानं विवक्षुर्व्याप्तिं शिक्षयति- घटोऽस्तीत्यादिना । “वैधर्म्याच्च न स्वप्नादिवत् ” इत्यत्र सूत्रकारेणैव दृश्यत्वानुमानस्य निराकरिष्यमाणत्वात् तन्निरासस्य मिथ्यात्वानुमानानां सर्वेषां दृष्यत्वप्रदर्शनार्थत्वात्पूर्वपक्षे व्यावर्तमानत्व हेतु रुपन्यस्यते । अनुवृत्तत्वप्रदर्शनाय घटोऽस्ति पटोऽस्तीत्युक्तम् । सदनु- मूत्योरेकत्वं वक्ष्यमाणं हृदि निधायानुभूतेरनुवृत्तिं दर्शयति – घटोऽनुभूयते पटोऽनुभूयत इति । ततः किमित्यत्राह—अत्रेति । व्यावर्तमानतया ; उत्तरोत्तरप्रतिपत्तिविषयेष्ववि- द्यमानतया । रज्जुसर्पादिवत् ; रज्ज्वादिवत् सर्पादिवच्चेत्यर्थः । तद्विवृणोति — यथेत्या- दिना । बाधितत्वाबाधितत्वाभ्यां द्वयोरपि हेत्वोः सोपाधिकत्वं दर्शयंश्चोदयति– ननु चिति । उपाधिनिवृत्त्या पक्षे साध्यनिवृत्तिमाह – अत्र त्विति ; विपरीतोपाधिसद्भावाच्च व्याघात इति चाभिप्रायः । परिहरति — उच्यत इत्यादिना । प्रथमं संप्रतिपन्नांशमाह - घटादौ दृष्टा व्यावृत्तिरिति । सपक्षेषु सर्वेषु विद्यमानः पक्षेऽविद्यमानो ह्युपाधिः ; तत्र परेणोपाधित्वेनोक्तस्य धर्मस्य पक्षे विद्यमानत्वकथनेन व्यावर्तमानत्व हेतोः सोपाधिकत्वं दूषयिष्यंस्तदुपयोगित्वेन घटादिषु दृष्टा व्यावृत्तिः किं संवादफलभूता, उत बाधफलभूतेति विवेचनीयमित्याह – सा किंरूपेति । बाधफलभूतत्वं दर्शयितुं व्यावृत्तिस्वरूपमाह- किं घटोऽस्तीत्यत्रेति । ’ घटोsस्ति’ इति प्रतीते विषये पटाभाव इत्यर्थः । बाघसिद्धिं दर्शयति - सिद्धं तहींति ; रज्जौ भूदलनादीनामभावो हि बाधितत्वमिति भावः । तस्मात् बाधफलभूतैवेत्याह-अत इति । बाधो नामादुष्टकारणजा निषेधबुद्धिः ; तेन पुरोवर्तिन्य- भावो व्यावृत्तिः । एवं निरुपाधिकत्वाद्द्यावर्तमानत्वमपारमार्थसाधकमित्याह — सेति । अबाधितत्वफलभूतानुवृत्तेः परमार्थत्वप्रयोजकत्वादनुवर्तमाने पारमार्थ्यं दर्शयति-रज्जु- वदिति । अबाधो नामाविरोधित्वम् | अनुवृत्तिर्नाम तत्कृतो विषयतयान्वयः, पुरोवर्तिनि सद्भावो वा । इत्थं व्याप्तिः शिक्षिता । न केवलं तर्कः ; अनुग्राह्यमप्यस्तीत्याह- प्रयोगश्च भवतीति । मायावेदान्तिनो हि ज्ञानमात्रपारमार्थ्यवादिनः ; तत्कथं सतः पारमार्थ्यसाधनमित्यत्राह — एवं सतीति । व्यावर्तमानत्वानुमानत्वयोरपारमर्थ्य पार- मार्थ्ये च प्रयोजकत्वे सिद्ध इत्यर्थः । तर्हि परमार्थद्वयं स्यादित्यत्राह — सैव सतीति अथ सदनुभूत्योर्विषयविषयिभावरूपं भेदमुद्घाटयंश्चोदयति ननु चेति । भिन्न 1


T CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) भावप्रकाशिका ५५३

  • साध्यं, विषयतयेति हेतुः । परिहरति — नैवमिति । तत्र साध्यांशं दूषयति — भेदो हीति । पुरस्तादेव ; ज्ञेयभेदनिपेधादेव ज्ञानभेदोऽपि निरस्त इत्यर्थः । हेत्वंश दूषयति- अत इति । न प्रमाणपदवीमनुसरतीति; विषयविषयिभावो भ्रान्तिसिद्ध इत्यर्थः । भेदस्य भ्रान्तिसिद्धत्वमपिना समुच्चीयते । श्रुतिप्रतिपाद्यार्थीस्तर्केणापि साधयन् विषयविषयि- भावे निरस्ते ग्राहकाभावात् शून्यत्वशङ्कां च व्यावर्तयन् स्वप्रकाशत्वमुपपादयति-सा चेति । चः शङ्कानिवृत्तौ । तत्र व्यतिरेकिणं हेतुमाह – अनुभूतित्वादिति । विपक्षे बाधं दर्शयति – अन्यतः सिद्धाविति । ’ यदन्यतः सिद्धं तदननुभूति दृष्टं यथा घटः ’ इति व्याप्तिरर्थाद्दर्शिता । अस्य व्यतिरेकिणः पराभिमतं प्रत्यनुमानं सोपाधिकमिति दर्शयन्न- थाँदनुमानान्तरमप्याह- किंचेत्यादिना । अनुमानान्तरं कण्ठोक्तम् ; आर्थः प्रत्यनुमान- निरासो वा स्यात् । अनुमानान्तरस्य कण्ठोक्तत्वे किंचशब्दः स्वरसः । प्रत्यनुमाननि- रासस्य कण्ठोक्तत्वे ’ न शक्या कल्पयितुम्’ इति निर्देशः स्वरसः । किंचेति ; न केवलं स्वमतोपपत्तिः, परमतानुपपत्तिश्चेत्यर्थः ; अनुमानान्तरं चेति वार्थः । अनुभवापेक्षा चेति ; पूर्वोकसमुच्चेतव्यद्वये किंचशब्दसमुच्चितादन्यस्य समुच्चयपरश्चशब्दः । न शक्या कल्पयितुम् ; ’ ज्ञानं परप्रकाश, वस्तुत्वात् भासमानत्वाद्वा घटादिवत्’ इति प्रत्यनु- मानम् ; एवमादिभिः परप्रकाशत्वं न वक्तुं शक्यमित्यर्थः । कुत इत्यत्राह — सत्तयैवेति । सत्तयैव प्रकाशमानत्वात्’ इति हेतोरसिद्धिशङ्कानिवृत्तये तं विवृणोति न हीति ।
  • विद्यमानदशायां कदाचिदप्रकाशमानत्वं पराधीनप्रकाशत्वे प्रयोजकम् ; अतः प्रत्यनुमानं सोपाधिकमित्यर्थः । ’ विद्यमानदशायां सर्वदा भासमानत्वात्’ इति व्यतिरेक्यनुमाना- -न्तरमिति स्फुटतरम् । यथा संवित्सिद्धौ - " यद्यप्रकाशमाना धीः कदाचिदवतिष्ठते । इत्यारभ्य, " घटादाविव तत्रापि कल्पनीयं प्रकाशनम् । " इति । अनेन ग्रन्थेन स्वसत्त्यैव प्रकाशमानत्वादिति हेतोरसिद्धिशङ्का परिहृता । विद्यमानत्वे सर्वदा प्रकाश- मानत्वं सुखादावप्यस्तीत्यनैकान्त्यमिति चेत् — न; सुखादिव्यतिरिक्तत्वे सतीति विशेषणस्याभिप्रेतत्वात् । सिद्धान्तिमते सुखादेरपि ज्ञानविशेषत्वेन पक्षेऽन्तर्भावान्नान- -कान्त्यम् । भावप्रकाशिका 99 अथ बाधकप्रमाणमुपन्यस्यतीति न केवलं साधकाभावः, बावकमध्यस्तीति 70 ;

५५४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) किंचशब्दार्थ इत्यर्थः । न च ’ भेदः स्वरूपं धर्मो वा’ इत्यादि बाधकं प्रागप्युपन्यस्तमिति वाच्यम्, तस्य तर्करूपत्वेन प्रमाणत्वाभावादित्यत्र तात्पर्यात् । विपरीतोपाधिसद्भा- वाच्चेति ; साध्यविपर्ययरूपसत्यत्वप्रयोजकाबाधितत्वसत्त्वादित्यर्थः । किं संवादफल- भूता, उत बाधफलभूतेति ; पटसत्त्वग्राहि प्रमाणं संवादः, तदसत्त्वग्राहि प्रमाणं बाधः ; भावग्राहि प्रमाणं संवादः, अभावग्राहि प्रमाणं बाधः । फलं च विषयत्वमेव । घटादौ दृष्टा पटव्यावृत्तिः पटसत्त्वग्राहिप्रमाणरूप संवादफलभूता, उत पटाभावप्रतीतिलक्षणबाध- फलभूता वेति भवन्त एव विमृशन्त्वित्यर्थः । पटव्यावृत्तेर्घटसत्तारूपत्वेऽपि संवाद- फलत्वशङ्कापि स्यात् ; अभावरूपत्वे च बाधितत्वमकामेनापि सिध्यतीति भावः । ननु घटोऽस्ति ’ इति पटाभावसिद्धिमात्रेण पटादीनां कथं बाधितत्वसिद्धिरित्याशङ्कय बाँध- फलभूताभावव्यतिरेकेण बाधितत्वस्याभावात् बाघफलभूतोऽभाव एव बाधितत्वमित्यभिप्रा- येणाह – रज्जौ भूदलनादीनामभाव इति । भेदस्य भ्रान्तिसिद्धत्वमपिना समुच्ची- यत इति ; ‘न प्रमाणपदवीमनुसरति ; भ्रान्तिसिद्ध:’ इति हि तस्यार्थो वर्णितः । ततश्च विषयविषयिभावो भेदश्च भ्रान्तिसिद्ध इत्यर्थ इति भावः । यद्यप्यपिना भेदः समुच्चीयत इति विवक्षितार्थसिद्धिः, तथापि फलितमादाय तथोक्तमिति द्रष्टव्यम् । भाष्ये - तस्मात्स- दनुभूतिरेवेति ; ननु घटादिकमपि सदनुभूतिभ्यामभिन्नमेव स्यात्, भेदस्य दुर्निरूपत्वादिति चेत् न, एतस्याभ्युच्चयमात्रत्वेनैतदतिप्रसङ्गस्यादोषत्वात् । किंचशब्दसमुच्चिताद- न्यस्येति ; यदि प्रत्यनुमाननिरासः किंचशब्देन समुच्चीयते, तदा ’ अनुभवापेक्षा च इति चशब्देनानुमानान्तरं समुच्चीयते । यदि चानुमानान्तरं किंचशब्देन समुच्चीयते, तदानेन चशब्देन प्रत्यनुमाननिरासः समुच्चीयत इत्यर्थः । श्रुतप्रदीपिका बाधकं दर्शयति—किंचेति । व्याप्तिं शिक्षयति – घटोऽस्तीत्यादिना । अनु- वृत्तिव्यावृत्तिसिद्धयै पटोक्तिः । सदनुभूत्यैक्याय अनुभूयत इत्युक्तिः । ततः किमित्य- त्राह — अत्रेति । दृष्टान्तमाह – रज्ज्विति; रज्ज्वादिवत् सर्पादिवच्चेत्यर्थः । तद्वि- वृणोति — यथेति । सोपाधिकत्वं शङ्कते – ननु चेति । परिहरति — उच्यत इति । साधनव्यापकत्वेनोपाधिं दूषयितुं प्रतिपन्नांशमाह - घटादाविति । सा किं बाधफलम्, उत संवादफलमिति विवेचनीयत्वमाह – सेति । ततः किमित्यत्र बाधफलत्वं दर्शयितु-

1१– १ – १) तत्त्वटीका 1 ५५५. माह – किमिति । ’ घटोsस्ति’ इति प्रतीते विषये पटाभावः । बाधसिद्धिं दर्शयति-सिद्धं तहति ; पुरोवर्तिनि रजतस्याभावो हि बाधितत्वमित्यर्थः । ततः किमित्यत्राह - अत इति । शुक्तिधियो रूप्यप्रत्यनीकत्वं बाधकत्वम् ; विषयत्वाभावो व्यावृत्तिः । निरुपाधिकत्वाद्धेतोः साधकत्वमाह–सेत्यादिना । उक्ततर्कानुग्राद्यमाह - प्रयोगश्चेति । धीसत्यत्ववादिनः किं सतः पारमार्थ्येनेत्यत्राह – एवमिति । तर्हि सत्यद्वयप्रसङ्ग इत्यत्राह — सैवेति । सद्धियोर्विषयविषयिभावेन भिन्नत्वान्नैक्यं संभवतीति चोदयति-नन्विति । मानमेया- नुपपत्तिभ्यां ज्ञेयभेदनिरासात् ज्ञानज्ञेयभेदस्यापि निरस्ततां वदन् परिहरति — नैवमित्या- दिना । न प्रमाणेति ; भ्रान्तिसिद्ध इत्यर्थः । धोसदैक्यं निगमयति – तस्मादिति । अमैयत्वे तुच्छत्वं स्यादित्याशङ्कयाह – सा चैति । हेतुमाह —अनुभूतित्वादिति । व्यतिरेकव्याप्तिं दर्शयति — अन्यत इति । अनुमानान्तरमप्याह – किंचेति । प्रत्यनु- माननिरासश्चार्थतः क्रियत इति चशब्दार्थः । कल्पयितुम् ; वस्तुत्वाद्भासमानत्वादित्यादि- भिरिति भावः । कुत इत्यत्राह – सत्तयैवेति । असिद्धिशङ्कापरिहारायैतद्विवृणोति- नहीति । विद्यमानदशायां कदाचिदप्रकाश मानत्वमुपाधिरिति भावः । सत्त्वे सदा प्रकाश- मानत्वं स्वसिद्धत्वे व्यतिरेकी हेतुरिति स्फुटम् । सुखाद्यन्यत्वे सतीति हेतोर्विशेषण- -मभिप्रेतम्, मृषावादिमते सुखादेर्जडत्वात् । तटीका 1


न केवलं प्रमाणाभावः; प्रमाणबाधोऽप्यस्तीत्याह – किंचेति । अत्र घटादिबाधे - तत्सत्तापि खपुष्पगन्धवत्स्यादिति शङ्कानिरासायानुवृत्तसत्त्वस्थापनम् । विवक्षितानुमानद्वयस्य पक्षसिद्धिं तावदाह – घटोऽस्तीति । अनुभूत्यनुवृत्तिप्रदर्शनं सदनुभूत्यैक्याधानार्थम् ; न हि व्यावृत्तस्यानुवृत्ततादात्म्यं स्यात् । स्वरूपासिद्धिं व्याप्यत्वासिद्धिं च व्युद्रस्यति— अत्रेति । रज्जुसर्पादीत्युदाहरणे व्याप्तिद्वयार्थमादिशब्दः प्रत्येकं भाव्यः । व्याप्ति- दृष्टान्तौ स्पष्टयति– यथेति । परमार्थसती ; व्यावहारिकव्यवस्थयेति शेषः । सर्पाद्युदा- हरणमिहैकाधिष्ठानाध्यस्तविषयम् । द्वयोरपि व्याप्तयोरुपाधिं शङ्कते – ननु चेति । अबा- धितत्वोपाधिः पक्षव्यापक इति न वाच्यम्, माध्यमिकनयेन घटादितुल्यन्यायतया सतोऽपि बाधस्य सुवचत्वादिति भावः । बाधितत्योपाधेः पक्षव्यावृत्तिमाह – अत्र त्विति घटोऽस्ति ’ इत्यादावित्यर्थः । द्वयोरपि साधनव्यापकत्वबुद्ध्या प्रतिवक्ति — उच्यत 6

५५६ श्रीभाष्यम् । , (जिज्ञासाधिकरणम्) । इति । बाधितत्वस्य तावदाह – घटादाविति । किंरूपा ; किं सत्यसर्प निवृत्तिवत्__ भ्रान्तिसिद्धा ? उत रज्जुसर्पनिवृत्तिवत् प्रमाणबाधसाध्येति विकल्पः । तत्राद्यो घट- पटतादात्म्यादिप्रसङ्गादयुक्त इत्यभिप्रायेणाह – किमिति । ’ घटोऽस्ति ’ इति प्रतीतेऽर्थे पटाभावो मिथ्या ; अतः प्रमितयान्यव्यावृत्त्यान्येषां बाधितत्वमर्थसिद्धमित्याह – सिद्ध- मिति । घटोऽस्तीत्यनेन ; ‘न रजतम्’ इति निषेधाभावेऽपि यथा ’ शुक्तिः इत्यनेन रजतबाधस्तथेति भावः । एवं पटादिविधौ घटस्यापि निवृत्तिः सिद्धा स्यात् । उक्तप्रकारेणोपाधेः साधनव्यापकत्वमाह -अत इति । बाधफलभूता; ’ नास्ति ’ इति - धीस्थाप्येत्यर्थः । विषयनिवृत्तिः; घटादिधीवेद्यानामभावः तेषामिह वेद्यत्वाभावो वा । एवं निरुपाधिकतया व्यावर्तमानत्वस्य साधकत्वमाह — सेति । अनुवर्तमानत्व हेताव- प्यबाधितत्वोपाधिर्व्यापक इत्याह - रज्जुवदिति । सतोऽपि माध्यमिकयुक्त्या बाधोक्ति- र्निरधिष्ठानभ्रमासंभवादयुक्ता । हेतुद्वयफलितमाह – तस्मादिति । मिथो विमर्देन सर्पा- दिनिवृत्तौ रज्ज्वनिवृत्तिवत् घटादिनिवृत्तौ " सदेव " इति श्रुतं सत् परिशिष्येतेत्याशयः मेदबाधकतर्काणामनुग्राह्यनिष्कर्षायाह - प्रयोगश्चेति । चकार उपाधिविधूननादिसमु- च्चयार्थः । चिन्मात्रसत्यत्वमिच्छतां किं बाह्यस्य सतः सत्यतयेत्यत्राह - - एवं सतीति ; हेत्वो- र्निरुपाधिकत्वे सिद्धे सतीत्यर्थः । एवकारः पूर्वोक्तरीत्यानुभाव्यानां मिथ्यात्वं व्यनक्ति सत्यद्वित्वं, भेदसत्यत्वस्वीकारः, मिथो व्यावृत्त्या द्वयोरपि बाधश्च स्यादित्यत्राह — सैव सतीति ; अनुभूतिरेव सच्छव्दार्थ इत्यर्थः । अवधारणमयुक्तम्, सतः प्रत्यक्षविषयत्व- साधनेन भेदोक्तेरित्यभिप्रायेण चोदयति – ननु चेति । मानतः स्वरूपतश्च भेदस्यानुप- पन्नत्वोक्त्या धीसद्भेदोऽपि बाधित इति प्रतिवक्ति – नैवमिति । तर्हि स्वयमेव सामान्यतो विशेषतश्च विषयत्वादिभेदोक्त्या विरोध इत्यत्राह - अत इति । भ्रान्तिरूपलोकदृष्ट्या मयोक्तमित्यभिप्रायेण प्रमाणपदनिषेधः । एतेन दृग्दृश्यसंबन्धानुपपत्तिः सूचिता ; यां ग्राह्यलक्षणो योगशब्दः " इति योगाचारा उपचरन्ति । सैवेत्यवधारितं निगमयति- तस्मादिति ; विषयविषयित्वरूपस्यापि भेदस्य बाधादित्यर्थः । सदनुभूतिरेव ; ’ सत् ’ इति भातं वस्तु न तद्बुद्धेर्भिन्नम् । सच्चिदात्मनो मेयत्वाभावे माध्यमिकोक्तसंवृतिसिद्धि- वत्स्यादित्यत्राह - सेति । स्वतः सिद्धा – स्वरूपप्रयुक्तस्वप्रकाशा ; अद्यत्वे सति अपरोक्षव्यवहारार्हेत्यर्थः । अत्र 66


(१ – १ – १) मूलभावप्रकाशिका

  • " यानुभूतिरजामेयानन्तात्मानन्दविग्रहा । महदादिजगन्मायाचित्रभित्तिं नमामि ताम् ॥ 99 ५५७ इति इत्युक्तक्रमेणोपरितन उपन्यासः । येति स्वतः सिद्धतां सूचयति व्याख्यातम् । तत्रानुभूतिरिति हेतुगर्भमित्याह – अनुभूतित्वादिति ; चित्त्वादित्यर्थः । असाधारणाभासत्वशङ्कां व्यतिरेकव्याप्तया परिहरन् “ अनुभूतेरनुभाव्यत्वे घटादिवदननु- भूतित्वप्रसङ्गः " इति तत्रोक्तमाह — अन्यत इति । अनुमानान्तरमप्यस्तीत्याह – किं चेति । अनुभवेत्यादिः प्रतिज्ञाग्रन्थः ; अनुभूतिर्नानुभवान्तरसापेक्षप्रकाशेत्यर्थः । • आसमानत्वादिभिर्वेद्या इति प्रत्यनुमानं चानेन निरस्यते । अत एव चकारः कल्पयितुमिति पदं च सफलं स्यात् । प्रतिज्ञायां हेतुं वदन् प्रत्यनुमाने चोपाधिं व्यनक्ति — सत्तयैवेति ; यावत्सत्त्वं प्रकाशमानत्वादिति यावत् । विद्यमानत्वेऽप्यविदिता- वस्थायोगित्वं घटादिषु वेद्यत्वस्योपाधिभूतम् ; तन्नेति भावः । हेतोरसिद्धिमुपाधेः- साधनव्यापकत्वं च निरस्यति न हीति । मूलभावप्रकाशिका दृष्टा व्यावृत्तिरिति ; घटादाव घटव्यावृत्तिः सर्वसंप्रतिपन्नेत्यर्थः । किंरूपेति ; अभावरूपा न वेत्यर्थः । यदि च व्यावृत्तिर्नाभावरूपा तदा प्रतिपन्नोपाधौ प्रतीयमान- व्यावृत्तिप्रतियोगित्वसिद्धावपि प्रतिपन्नोपाधौ प्रतीयमानाभावप्रतियोगित्वलक्षणं मिथ्यात्वं न सिध्यति ; अभावरूपत्वे सिध्यतीति भावः । किं घटोऽस्तीत्यत्रेति ; घटाभावव्य- तिरेकेण पटव्यावृत्तेर्वक्तुमशक्यत्वादभाव एव व्यावृत्तिरित्या श्रीयते चेदित्यर्थः । बाधफल- भूता विषयनिवृत्तिरिति ; बाधकज्ञानेन विषयीकृत इतराभाव इतरस्य मिथ्यात्वं साधयति, निषेधज्ञानविषयभूताभावप्रतियोगित्वस्यैव मिथ्यात्वरूपत्वादिति भावः । नन्वनुभूतिसत्ताया
  • यद्यपि तत्त्वटीकाकोशेषु — " यानुभूतिरजानन्तामेयाद्यानन्दविग्रहा । " " इति पाठ उपलभ्यते, तथाप्यस्याः कारिकाया आकरभूतायाभिष्ट सिद्धौ यानुभूतिरजामेयानन्तात्मानन्दविग्रहा ” इति पाठस्योपलम्भात् इष्टसिद्धिकृता स्वयमेव तेन क्रमेण कारिकाया विवरणाच्च तत्रत्यः पाठ आहतः । CC-0 No Rights Reserved. Digitized by eGangotri५५८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) अप्यनुवर्तमानत्वाविशेषादनुभूतिरेव परमार्थ इति कथमुच्यत इत्याशङ्क्य सत्ताया अनुभू- त्यव्यतिरिक्तत्वादनुभूतिरेव परमार्थ इत्युक्तेर्न विरोध इत्याह-सैव सतीति । भेदो हीति ; भेदस्य दुर्निरूपत्वेन सदनुभूत्योरभेदसाधने, अनुभूतिरेव सती तद्भेदस्य दुर्निरूपत्वादित्यपि प्रसङ्ग इति चेत् — न ; ग्राहकप्रमाणाभावादित्यत्र तात्पर्यात् । सदनुभूत्योर्घटपटयोरिव भेद- स्वतः सिद्धेति ; अनन्याधीनप्रकाशेत्यर्थः । सत्तयैव प्रकाशमानत्वात् ; प्रकाशव्याप्यसत्ताकत्वादित्यर्थः । हेत्वसिद्धिमाशङ्क्य निराकरोति – न ह्यनुभूतिरिति । अन्याधीनप्रकाशस्य वस्तुनः कदाचित् प्रकाशव्यभि- चारावश्यंभावात् प्रकाशव्याप्यसत्ताकत्वं न स्यादिति भावः । श्रीभाष्यम् अथैवं मनुषे – उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासते । घोऽनुभूयते ’ इति न हि कश्चित् ‘घटोऽयम्’ इति जानस्तदानी - मेवाविषयभूतामनिदभावामनुभूतिमप्यनुभवति । तस्मात् घटादिप्रकाश- निष्पत्तौ चक्षुरादिकरणसंनिकर्षवदनुभूतेः सद्भाव एव हेतुः । तदन- न्तरमर्थगतकादाचित्कप्रकाशातिशयलिङ्गे नानुभूतिरनुमीयते । एवं ती- नुभूतेरजडाया अर्थवज्जडत्वमापद्यत इति चेत् किमिदमजडत्वं नाम ? न तावत् स्वसत्तायाः प्रकाशाव्यभिचारः, सुखादिष्वपि तत्संभवात् । न हि कदाचिदपि सुखादयः सन्तो नोपलभ्यन्ते । अतोऽनुभूतिः स्वयमेव नानुभूयते, अर्थान्तरं स्पृशतोऽङ्गल्यग्रस्य स्वात्मस्पर्शवदशक्यत्वादिति श्रुतप्रकाशिका एवमनुमानान्तरमुक्तम् ; शङ्कितप्रत्यनुमानस्य सोपाधिकत्वं च दर्शितम् । अथ प्राकट्यानुमेयपक्षं निराचिकीर्षुरनुवदति - अथैवं मनुष इत्यादिना । प्रथमं स्वसत्तयैव प्रकाशमानत्वादिति हेतोरसिद्धिमुपपादयति — उत्पन्नायामिति । अनेन स्वोक्तस्य वस्तुत्वात्, भासमानत्वात्’ इत्यादिप्रत्यनुमानस्य सोपाधिकत्वव्युदासः सेत्स्यतीति 6

१—१—१) श्रुतप्रकाशिका ५५९ भावः । उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासत इत्यत्र ’ घटोऽयमिति’ इत्यध्या- हार्यम् ; ‘घटोऽयम्’ इति विषयमात्रमवभासत इत्यर्थः ; ‘घटोऽयम्’ इति जानन्निि हि वक्ष्यते । यथा संवित्सिद्धौ– " घटोऽयमिति विज्ञाने घटमात्रं प्रकाशते । न वित्तिरिति युष्माकं गोष्ठीषु ननु घुष्यते ॥ इति । घटोऽनुभूयत इत्यस्योत्तरत्रान्वयः । पूर्वत्रान्वयश्चत् ’ विषयमात्रमवभासते " इत्यनेन विरोधः स्यात् । कथं विषयमात्रस्यावभासः ? ‘घटोऽनुभूयते’ इत्यनुभवोऽपि प्रकाशत इति शङ्कायां विषयमात्रस्यैवावभासमुपपादयति – घटोऽनुभूयत इत्यादिना । यदा ‘घटोऽयम्’ इति जानाति, न हि तदानीमेव ’ घटोऽनुभूयते’ इति जानाति । कुत इत्यत्राह — अविषयभूतामनिभावामिति । अविषयभूताम् ; घटशब्दार्थव्यति- रिक्ताम् | अनिभावाम् ; अयंशब्दार्थव्यतिरिक्ताम् । घटत्वविशिष्टं पृथुबुध्नोदराकार- द्रव्यं घटशब्दार्थः संनिहित देश वर्तमानकालविशिष्टत्वमिदंशव्दार्थः । उभयव्यतिरिक्तो ह्यनुभवः । स तु ‘घटोऽयम्’ इत्यनुभववेलायां नानुभूयत इत्यर्थः । अविषय- भूतामिति साधारणनिर्देशः पटादीनामपि प्रदर्शनार्थः । अत एव ’ अघटभूताम्’ इत्यनुक्तिः । यद्वा घटोऽनुभूयत इतीति पूर्वेणान्वयः । इतिर्हेतौ । यतो घट एवानु- भूतिकर्म, न त्वनुभूतिरपि तदानीमनुभूतिकर्म भवति, तस्माद्विषयमात्रमवभासत इत्यर्थः । अस्यैव विवरणम् – न हीति । शब्दलिङ्गालोकादीनां प्रकाशकानां ज्ञाततयैव प्रकाशकत्वं दृष्टम् ; अनुभूतिरप्रकाशा चेत् प्रकाशकत्वमपि न स्यादि- सत्तया प्रकाशकं ज्ञायमानतया प्रकाशकमिति त्यत्राह —तस्माद् घटादीति । द्विविधं प्रकाशकम् ; तत्र सत्तया प्रकाशककोटिनिविष्टं ज्ञानमित्यर्थः । क एवं नियामक इत्यत्राह —— तस्मादिति । स्वसत्तयैव प्रकाशमानत्व हेतोरसिद्धेः, अस्मदुक्तहेतोः सोपाधि- कत्वनिरासाच्चेत्यर्थः । यद्यनुभूतिः स्वयमेव न प्रकाशते तर्हि किं तस्यां प्रमाण- मित्यत आह——तदनन्तरमिति । अर्थगतकादाचित्कप्रकाशातिशयलिङ्गेन कादाचित्क- त्वात् कार्यं, कार्यत्वात् सहेतुकमित्यनुमानेन ज्ञायत इत्यर्थः । विषयगतप्राकटयलिङ्गेन कथं स्वगतज्ञानमनुमीयत इति चेत्, स्वस्मै प्रकाशमानत्वात् स्वग तज्ञानानुमानमुपपद्यते । यदि ज्ञानपश्चाद्भाविना प्रकाशलिङ्गेन ज्ञानमनुमीयते तर्हि ’ घटोऽनुभूयते ’ इति वक्तुमयु-

५६० श्रीभाष्यम् (जिज्ञासाधिकरणम्) क्तम् ; ’ घटोऽन्वभावि ’ इत्येव तु वक्तुं युक्तमिति शङ्कायामुक्तम् — तदनन्तरमिति । प्रत्यासत्त्यतिशयाद्वर्तमानव्यपदेश इत्यर्थः । अर्थेन्द्रियसंयोगसमनन्तरमेव ’ घटोनुभूयते इति प्रतीतेः । प्राकटयलिङ्गेन ज्ञानानुमानानवकाशत्वशङ्का चानेन परिहृता । तदनन्त- रमिति ; शतपत्रपत्रवेधवदनुमानशैप्रयात्तथा प्रतीतिरुपपद्यत इति भावः । मृषावादी स्वदर्शन प्रसिद्धयानिष्टं प्रसञ्जयति – एवं तहींति । जडत्वं ज्ञानव्यतिरिक्तत्वम्, अचि- त्त्वमित्यर्थः । इह चानुभूतिरजडेति विपर्यये पर्यवसानं प्रसञ्जनीयस्य जडत्वस्यानिष्टत्वं च प्रतिक्षेतुमजडत्वं विकल्प्य दूषयति– किमिदमिति । किमिदम् ; न किमपि ; दुर्नि- रूपमित्यर्थः, अनन्तरं शिरोद्वयप्रदर्शनाभावात् । दुर्निरूपत्वविवरणमुत्तरग्रन्थः । विकल्प- परो वा किंशब्दः | अजडत्वं नाम किं हेतुत्वेनोक्तं विद्यमानदशायां सर्वदा प्रकाशमा- -नत्वम् ? उत साध्यतयाभिमतं स्वयमेव स्वस्य प्रकाशकत्वमिति विकल्पोऽभिप्रेतः । तत्र प्रथमे कल्पे किमुत्पत्तिकालेऽपि प्रकाशाव्यभिचारो विवक्षितः ? उतोत्पत्तिक्षणादूर्ध्वं प्रकाशाव्यभिचार इति विकल्पोऽभिप्रेतः । तत्राद्ये शिरस्यसिद्धिः पूर्वमेवोक्तेति मत्वा द्वितीयेऽनैकान्तिकत्वमाह – सुखादिष्विति । तद्विवृणोति — न हीति । शिरोऽन्तरं दूषयति — अत इति । अतः ; हेतोरसिद्ध्घनैकान्तिकत्वाभ्यां साध्यमपि नेत्यर्थः अनेन जडत्वं नानिष्टमिति दर्शितम् । अनुमानान्तरेण साधयिष्यत इत्यत्राह - अर्थान्तरमिति ; व्याहतत्वान्न किंचिदपि प्रमाणमिममर्थं साधयितुमलमित्यर्थः


यथाहुः — 66 अङ्गुल्यग्रं यथात्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥ 99


। इति । एवं जडत्वप्रसङ्गरूपतर्कस्य विपर्यये पर्यवसानाभावः, व्याप्त्यभावः, इष्टप्रसङ्गत्वं, व्याघातलक्षणप्रतितर्कपराहतत्वं च दर्शितम् । इति ; भावप्रकाशिका 6 अथैवं मनुषे’ इति पूर्वत्रान्वयः 1 क एवं नियामक इत्यत्राहेति ; ज्ञानस्य सत्तया प्रकाशककोटिनिवेशः कुत इति शङ्कानिवारकं प्रागुक्तोपसंहारपरं तस्मादिति पदमिति भावः । अस्मदुक्तहेतोः सोपाधि- कत्वनिरासाच्चेति ; ज्ञानं परप्रकाश्यं, वस्तुत्वात् भासमानत्वाद्वेति हेत्वोः स्वसत्तया प्रकाशमानत्वाभावस्य परोद्भावितोपाधेर्निरासादित्यर्थः । स्वस्मै भासमानत्वादिति १

((१– १ – १) श्रुतप्रदीपिका ५६१ या ज्ञातता यत्पुरुषवेद्या सा तदीयज्ञानजन्येति व्याप्त्या स्वीयमेव ज्ञानमनुमीयते, नान्यदीयमिति भावः । श्रुतप्रदीपिका अथ वस्तुत्वादिति हेतोरुपाधितयोक्तायाः सत्त्वेऽप्यस्फूर्तेः साधनव्यापकतयानुपा- धित्वं हेतुतयोक्तस्य सत्त्वे सदा भानस्यासिद्धिं च कौमारिलमतेन शङ्कते — अथैवमिति । तदुपन्यस्यति — उत्पन्नायामिति । मात्रचा धीव्युदासः । ’ घटोऽयम्’ इत्यध्याहार्थम् ; घटोऽयमिति जानन्’ इति ह्यनन्तरं विवरिष्यते । उक्तं च संवित्सिद्धौ – " घटोऽयमिति विज्ञाने घटमात्र प्रकाशते । न वित्तिरिति युष्माकं गोष्ठीषु ननु घुष्यते ॥ 99 ; इति । घटोऽनुभूयते इत्यस्योत्तरत्रान्वयः विषयमात्रमित्यनेन विरोधात् । ’ घटोऽनु- भूयते’ इत्यनुभवोऽपि भासत इत्यत्राह - घटोनुभूयत इत्यादि । ’ घटोऽयम्’ इति ज्ञानवेलायां घटेशव्दार्थान्यत्वादनुभूतेरनुभवो नास्तीत्यर्थः । घटपटादिसाधारण्यज्ञापनाया- घटभूतामित्यनुक्तिः । अननुभूतस्य कथं भासकत्वम् ? शब्दलिङ्गालोकादि हि ज्ञाततया भासकमित्यत्राह - - तस्मादिति । ज्ञानमक्षवत् सत्तया भासकम् । किं नियामकमित्य- चाह - तस्मादिति । त्वदुक्तहेतोरसिद्धेमदुक्तस्य च निरुपाधिकत्वादित्यर्थः । तर्हि धीव्य- बहारः कथमित्यत्राह - तदनन्तरमिति । कादाचित्केति कादाचित्कत्वात् कार्य, ततः सहेतुकमित्यनुमेत्यर्थः । अर्थगतस्यापि प्राकट्यस्य स्वप्रतियोगिकत्वात् स्वगतज्ञाना - नुमापकत्वम् । व्याप्तिस्मरणादेरनवकाशमाशङ्क्याह – तदनन्तरमिति । शतपत्रपत्र वेधवत् शैघ्रधादुपपन्नमिति भावः । अनुमीयत इति ; वर्तमानव्यपदेशोऽप्यासत्त्यतिशयादिति चाभिप्रेतम् । स्वदर्शनप्रसिद्धया परश्चोदयति - एवमिति । दूषयति — किमिदमिति । किं साधकतयाभिमतं सत्त्वे सदा भानम्, उत साध्यतयाभिमतं स्वयंप्रकाश- त्वमिति विकल्पमभिसंधाय प्रथमस्यासिद्धत्वेऽपि सिद्धत्वमुपगम्यानैकान्त्यमाह - न तावदिति । तद्विवृणोति - न हीति । द्वितीयं दूषयति - अत इति । साधनस्यासि- घनैकान्त्याभ्यां न साध्यसिद्धिरित्यर्थः । प्रथमे सुखादेर्धीविशेषत्वेनानैकान्त्या मनु- भूतित्वादिहेत्वन्तरेणापि तत्साधनं चाशङ्क्य व्याहतिपरास्तत्वमाह — अर्थान्तरमिति । इति मनुष इत्यन्वयः । 71

१५६२ 1 श्रीभाष्यम् तच्चटीका (जिज्ञासाधिकरणम्) तदुभयं भाट्टमतेन शङ्कते - अथेति । विषयमात्रम् ; घटादिमात्रम् ; न तु तद्धीरित्यर्थः । तदिदं व्यक्तमनूक्तं संवित्सिद्धौ– " घटोऽयमिति विज्ञाने घटमात्र प्रकाशते । न वित्तिरिति युष्माकं गोष्ठीषु ननु घुप्यते ॥ " ; अप्र- इति । विषयमात्रभाने हेतुमाह – घट इति । घटस्यानुभूतिकर्मत्वात् धियः स्वकर्मत्व- विरोधात्तदानीं न भानमिति भावः । यद्वा प्रतिपेधार्थोऽयमनुवादः । घटोऽनुभूयत इति न ह्यनुभवतीत्युत्तरत्रान्वेति ; ‘घटोऽयम्’ इति ज्ञानं यदा जायते, न तदानीं ‘घटोऽनु भूयते ’ इत्यनुभवः । घटानुभूतेघटशब्देदशब्दार्थान्यत्वादित्यर्थः । वटोक्तेः प्रदर्शनार्थ- ज्ञापनाय अविषयभूतामित्युक्तम् । अनिदभावाम् ; घटस्य देशविशेषसांनिध्यमिहे- दंभावः ; तद्रहितामिति यावत् । नन्वालोकलिङ्गादीनामज्ञातानां न भासकत्वं दृष्टम् ; तथात्रापि स्यात् ; अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गश्च । आह च कीर्तिः त्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति " इति ; तत्राह — तस्मादिति हेतुतयोपाधि- निवृत्तितया च विवक्षितस्य यावत्संत्तं प्रकाशमानत्वस्य निरस्तत्वादित्यर्थः । ज्ञापकानां ज्ञातृत्वमिन्द्रियादिषु न दृष्टम् ; स्वस्य ज्ञानोत्पत्त्या स्वपरवेद्यवैषम्यमित्यववारणाभिप्रायः । यदि वर्तमानदशायां धीः स्वयं नानुभूयेत, तदा ‘अनुभूयते ’ इति वर्तमानाव- भासः कथं स्यात् ? उत्तरक्षणे च निवृत्ता कथं गृह्येत ? ज्ञानग्राहकाभावे ज्ञेयस्यापि निष्प्रमाणकत्वात्सर्वासिद्धिरित्यत्राह - तदनन्तरमिति । अत्यन्तासन्नत्वात् ’ अनुभूयते’ इति वर्तमानोक्तिः ; व्याप्तिस्मरणादिकं च संस्कारभूम्ना शीघ्रं भवति ; कालभेदाग्रहोऽपि पद्म- पत्रशतवेधन्यायादविरुद्ध इति भावः । ’ घटः प्रकाशते’ इति विषयसामानाधिकरण्याद- थंगतत्वोक्तिः । आत्मगता धीरितरविषयस्य प्रकाश इति शङ्का च तेन व्युदस्ता । वेद्यगतप्रकाशस्य कादाचित्कत्वोत्त्या तत्कारणत्वेन धीरनुमेयेति बोध्यते । अर्थगतत्वे रूपादिवत्पुरुषविशेषविषयत्वं न स्यादिति शङ्कानिरासाय प्रकाशशब्दः । अर्थप्रकाशो हि पुरुषविशेषधीजन्यतया तत्प्रतियोगितयैव स्वतः परतो वा कुतश्चिद्धातत्वात्तद्गतज्ञानानुमापक इति भावः । अर्थगतप्रकाशो वायुरूपादिवत् योग्यानुपलब्धिनिरस्त इत्यत्र विषयस्वरूपात् तद्धर्मान्तरेभ्यश्च व्यावृत्ततयोपलब्धिमतिशयशब्देन व्यनक्ति । अत्र ’ अन्यतः सिद्धौ CC-0 No Rights Reserved. Digitized by eGangotri(१ – २ – १) 1 मूलभावप्रकाशिका ५६३ -इत्यादिभिः प्रागुक्तं स्मारयन्मृषावादी चोदयति — एवं तहीति ; स्वेतराधीनसिद्धित्वे -संतीत्यर्थः । स्वमतेन श्रुत्यनुमाभ्यां सिद्धवत्कारात् अजडाया इत्युक्तम् । प्रसङ्गदोषा- न्विवक्षुः प्राकटयवादिप्रसञ्जनीयविपर्यय विकल्पयति — किमिदमिति । किं हेतुत्वेनो- पाधिविपर्ययत्वेन चोक्तं यावत्सतं भासमानत्वम् उत साध्यत्वेनोक्तं स्वतः सिद्धत्वमिति विकल्पः । अत्राद्यं दूषयति न तावदिति । वेद्यत्वे यावत्सतं प्रकाशमानत्वाभाव इति प्रसङ्गार्थः स्यात् ; सोऽस्मदिष्टः ; विपर्यये पर्यवसानं च न संभवतीति भावः । मूलशैथिल्यमप्याह – सुखादिष्विति । यद्यप्यस्माकं सुखादेरुत्पत्तिक्षणात्पश्चाज्ज्ञाना- -न्तरेण ग्रहणम् ; सिद्धान्तिनस्तु धीविशेषत्वेन स्वतः सिद्धत्वम्, तथापि त्वत्पक्षे चैतन्यो- ‘परञ्जितान्तःकरणविवर्ततयाध्यस्तत्वेन शुक्तिरूप्यवदप्रकाशमानक्षणक्लृप्त्ययोगात्सुखादौ व्याप्तिभङ्गः सिद्ध इत्यभिप्रायेण विवृणोति - न हीति । अन्ततस्त्वन्मते प्रातिभासि - करजतादिः साक्षिचैतन्येन यावत्सत्तं प्रकाशमाना अविद्यादयश्चादिशब्दार्थः । बुद्धेर्याव- त्सत्तं प्रकाशमानत्वमिच्छतः सुखादावपि तद्वत्स्वरसदृष्ट्या तथा किं न स्यादिति कल्प- यित्वा वा तदुक्तिः । द्वितीये त्ववेद्यत्वे स्वयंप्रकाशत्वाभावः स्यादिति प्रसङ्गार्थः । तथापीष्टप्रसङ्गो विपर्ययापर्यवसानं चेत्याह - अत इति ; आद्यकोटिनिरासादन्या शिष्यते, सापि नास्तीत्यर्थः ; प्रकाशाव्यभिचारस्य हेतोरसिद्धेरनैकान्त्याच्चेति वा । अनुभूतित्व हेतुना तत्सिद्धिः स्यादित्यत्राप्रसिद्धसाध्यतया व्याप्तिग्रहणाभावे केवलव्यतिरेकिणोऽनुमानत्वमेव नास्तीत्यभिप्रायेण साध्यरूपे व्याहतिमाह – अर्थान्तरमिति । स्वयंप्रकाशत्वाभावः - स्यादिति तर्केऽपि प्रतियोग्यसिद्धेस्तदभावप्रसङ्गोऽशक्यः । स्वप्रकाशत्वविषयाः श्रुतयः स्मृतयश्च नः । स्वधर्मभूतबुद्धधैव पुंसो भानं प्रचक्षते || ३४३ || कर्मकर्तृविरोधादङ्गुल्यग्रस्य स्वात्मस्पर्शविरोधः, इह तु न तथेति चेत्, इहापि गमनगन्त- व्यादिवत् क्रियाकर्मत्वविरोधः सिद्धः । इतिः शङ्कासमाप्तौ । मूलभावप्रकाशिका ज्ञानं न स्वप्रकाशकम् ; अपितु प्राकट्यापरपर्यायज्ञातताख्यलिङ्गेनानुमीयत इति भाट्टमतमुपक्षिपति - अथैवमिति । घटोऽनुभूयत इत्यनिदभावामप्यनुभूतिमनुभवतीति -योजना | घटादिप्रकाश निष्पत्ताविति ; घटादिगतज्ञाततापरपर्याय प्रकाशनिष्पत्तावित्यर्थः

५६४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) यदि वा जडत्वमज्ञानत्वं तर्हि ज्ञानान्तरवेद्यत्वे ज्ञानत्वं न स्यादित्युपपादनीयम् । तदपि न संभवति, अप्रयोजकत्वात् । यदि चाजडत्वं ज्ञातृत्वं न स्यादित्युच्यते, तदाप्रयोजकत्व - मविशिष्टम् । इष्टापत्तिरधिकदूषणं द्रष्टव्यमिति । अर्थान्तरमिति ; यथाहु:- 66 अङ्गुल्यग्रं यथात्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥ 99 इति । स्वात्मस्पर्शवदशक्यत्वादिति ; अथैवं मनुष इति पूर्वेणान्वयः । श्रीभाष्यम् तदिदमनाकलितानुभवविभवस्य स्वमतिविजृम्भितम् ; अनु- भूतिव्यतिरेकिणो विषयधर्मस्य प्रकाशस्य रूपादिवदनुपलब्धेः ; उभ- याभ्युपेतानुभूत्यैवाशेषव्यवहारोपपत्तौ प्रकाशाख्यधर्मकल्पनानुपपत्तेश्च । अतो नानुभूतिरनुमीयते ; नापि ज्ञानान्तरसिद्धा ; अपितु सर्वं साध- यन्त्यनुभूतिः स्वयमेव सिध्यति । प्रयोग — अनुभूतिरनन्याधीनस्व- धर्मव्यवहारा, स्वसंबन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात् । यः स्वसंव- न्धादर्थान्तरे तद्धर्मव्यवहारहेतुः स तयोः स्वस्मिन्ननन्याधीनो दृष्टः, यथा रूपादिवाक्षुषत्वादौ । रूपादिहिं पृथिव्यादौ स्वसंबन्धाच्चाक्षु- षत्वादि जनयन् स्वस्मिन्न रूपादिसंबन्धाधीनचाक्षुषत्वादौ । अतोऽनु- भूतिरात्मनः प्रकाशमानत्वे ’ प्रकाशते’ इति व्यवहारे च स्वयमेव हेतुः । श्रुतप्रकाशिका अथ स्वयंप्रकाशत्ववाद्याह - तदिदमिति । अनाकलितानुभवविभवस्य ; स्वव्य- तिरिक्तस्य कृत्स्नस्य प्रकाशकः सन्ननुभवः स्वात्मन्यनन्यापेक्ष इत्येको विभवः ; प्राकटा हेतुको यो व्यवहारः ’ प्रकाशते ’ इति, तं च जनयितुमयमेव क्षम इत्यपरः ; एवं द्विविधोऽनुभवविभवोऽनाकलितो येन सोऽनाकलितानुभवविभवः; तस्य । स्वमतिवि जृम्भितम् ; प्रमाणतर्कनिरपेक्षस्वोत्प्रेक्षा मात्रविजृम्भितमित्यर्थः स्वमतिमाहात्म्यमित्यनि ;

(?-?-?) श्रुतप्रकाशिका ५६५. क्षेपो वा । पारिशेष्यात्स्वयंप्रकाशत्वमभ्युपगमयितुं प्रथमं प्राकटयलिङ्ग प्रतिक्षिपति- अनुभूतीत्यादिना । अनुभूतिव्यतिरेकिण इत्यनेनासाधारण्यप्रतिक्षेपः फलितः । विषय धर्मशब्देनात्मधर्मव्युदासः । तेन रूपादिवत् साधारण्यं फलितम् । अनुभूति - व्यतिरेकी विषयधर्मः प्रकाशः प्रत्यक्षयोग्यो न वा ? न चेत् लिङ्गज्ञानाभावादनुमानानुदयः । योग्यश्चेदन्यैरप्युपलभ्यः स्यात्, रूपादिवदिति भावः । अपेक्षाबुद्धिजन्यस्य द्वित्वादेर्यथा तत्तदेकपुरुषवेद्यत्वं तद्वत् प्राकट्यमपि तदेकपुरुषवेद्यमिति चेत् — न ; द्वित्वादिसंख्याः प्रागेव सन्ति । यथैकत्र सर्वा दिशस्तत्तदुपाध्यपेक्षा बुद्धधाभिव्यङ्ग्म्याहिताः, एवमपेक्षा- बुद्ध्यभिव्यङ्ग्यद्वित्वादि तस्यैव प्रकाशते यद्भुतमभिव्यञ्जकम् । अत्र तु रूपादिवज्जन्यधर्म- त्वाभ्युपगमात् सर्वैरुपलभ्येत । अभिव्यङ्ग्यत्वेऽभिव्यञ्जकवत एवावभासते सिद्धाञ्जनवतो निधिरिव ; न तु जन्यं जनकस्यैवावभासते ; न हि कुलालस्यैव घटः प्रकाशते । किंच रूपादिवदिति ; धर्मस्य निराश्रयोत्पत्त्ययोगादतीतानागतयोरर्थयोरपि जायमानप्राकट्या- योगात् प्राकट्याभावेऽपि ज्ञानं प्रतीयत इति, तत्र रूपादिवत् प्रकाशानुपलब्धेः प्राकट्येन ज्ञानानुमानं न संभवतीति भावः । यथा संवित्सिद्धौ- 66 1 अतीतेऽनागते चार्थे कथं प्राकट्यसंभवः । न हि धर्मिण्यसत्येव धर्मः संभवमृच्छति ॥ 99 इति । अतीतानागतयोरपि द्वित्वादिवत् प्राकट्यं जन्यत इति चेत् — न ; द्वित्वार निराश्रयोत्पत्त्ययोगात् ; तत्र द्वित्वाद्यनुत्पत्तावपि घटादेखि द्वित्वादेरपि धोस्थतया व्यवहारो- पपत्तेश्च । ये पुनर्द्वित्वादिकं नाभ्युपयन्ति न तान् प्रति द्वित्वादिकं प्रतिबन्दीकार्यम् । विषयविषयिभावसंबन्धस्य विद्यमानाश्रयत्वनियमाभावात् विषयविषयिभाव एव प्रा चेत् — न ; संबन्धस्य संबन्धिभ्यां विना प्रतीत्यनुपपत्त्या संबन्धिज्ञानं च प्रत इत्यनुमेयमेव न स्यादिति प्राकट्यं लिङ्गं न भवति । एवं प्राकट्याख्यं वस्त्वनुपलब्धमप्य- न्यथानुपपत्त्या कल्प्यत इत्याशङ्कय कल्पकस्यान्यथासिद्धिं दर्शयति — उभयेति । अनुभूत्येत्युक्ते प्राकट्यस्य नामान्तरमुक्तं स्यादिति शङ्कानिरासार्थमुभयाभ्युपेतशब्दः । यां प्राकट्यजनकत्वेनाभ्यधाः, तयैवेत्येवकाराभिप्रायः । अशेषव्यवहारः; हानोपादानादिः ; तस्यानुभूत्यैव संभवान्न तेन प्राकट्यं कल्प्यम् । ’ ज्ञातो घटः, प्रकटो घटः ’ इति व्यवहारश्च ‘इष्टो घटः, द्विष्टो घटः’ इतिवदन्यथासिद्ध इत्यशेषशब्दाभिप्रायः । न

श्रीभाष्यम् ५६६ (जिज्ञासाधिकरणम्) हीच्छाजन्येनार्थगतेष्टत्वेनेच्छानुमीयते । हीच्छा जन्येनार्थगतेष्टत्वे नेच्छानुमीयते । ‘घटः प्रकाशते’ इति घटकर्तृकतया प्रकाशः प्रतीयते ; ‘घटमनुभवति’ इति घटकर्मकतयान्यकर्तृकतया चानुभवः प्रतीयते ; एव- मेकस्यैव कर्मकर्तृव्यवहारानुपपत्त्या कल्प्यत इति चेत् — न ; कारकभेदस्य धातुभेद- निबन्धनत्वेनार्थ भेदनिबन्धनत्वाभावात् । यथा परशुमुद्यम्य वृक्षे निपातयति’ ’ परशुना वृक्ष छिनत्ति’ इत्युक्तौ परशोः कर्मत्वकरणत्वे श्रुते, अथापि नार्थभेदः, वृक्षस्याधि- करणत्वकर्मत्वे श्रुते, तथापि नार्थभेदः, तथा व्यवहारभेदस्य धातुभेदनिबन्धनत्वेनार्थ- भेदनिबन्धनत्वाभावान्न व्यवहारः प्राकट्यकल्पक इत्यभिप्रायेण चाशेषव्यवहारोपप- चावित्युक्तम् । ‘घटः प्रकाशते’ इति व्यवहारो घटगतातिशयेन विना नोपपद्यते ; अन्यथा पटेऽपि तस्य व्यवहारस्य प्रसङ्गात् ; स चातिशयः प्राकट्यमिति चेत् — न ; योऽतिशयो व्यवस्थापकः स कथं घट एव स्यात्, न पटे ? इन्द्रियसंयोग- वशादिति चेत्, तेन ज्ञानमेव व्यवस्थाप्यताम्, किमतिशयान्तराभ्युपगमेनेत्ययमर्थोऽप्यशे- षव्यवहारशब्देनाभिप्रेतः । यत्तु ‘घटोऽयम्’ इत्यनुभववेलायां नानुभूत्यनुभव इति, तन्न, अनुभूयते ’ इति शब्दाप्रयोगस्याविवक्षानिबन्धनत्वेनाननुभवप्रयुक्तत्वाभावात् । लोको ह्यनु- भूतकृत्स्नार्थविवक्षास्ति चेत् तं सर्वं वदति, एकदेशविवक्षा चेदनुभूतैकदेशं वदति, एकदेशविवक्षापि नास्ति चेत् न किंचिदपि वदति ; अतः ’ अनुभूयते ’ इति शब्दाप्रयोगो न तदप्रकाशत्वे हेतुः । इदमप्यशेषव्यवहारशब्देनाभिप्रेतम्, विकलस्याविकलस्यापि व्यवहारस्याशेषशब्देन क्रोडीकर्तुं शक्यत्वात् । एवं व्यवहारस्यान्यथासिद्धत्वादनन्यथासिद्ध- स्यैव कल्पकत्वात् न प्रकाशः कल्प्य इत्यर्थः । प्राकट्यानुमेयत्वानुपपत्तिं निगमयति- अत इति । अतः अनुपलब्धिव्यवहारान्यथासिद्धिभ्यां प्राकट्या भावादनुभूतिर्न प्राकट्यानुमेयेत्यर्थः । मानसप्रत्यक्ष वेद्यत्वानुपपत्तिमभिप्रेत्याह - नापि ज्ञानान्तरसिद्धेति । इदमत्र परोक्तमनुमानम् - ज्ञानं मानसप्रत्यक्षग्राह्यं, क्षणिकत्वे सत्यात्मविशेषगुणत्वात सुखदुःखप्रयत्नादिवदिति । आत्मविशेषगुणत्वादित्युक्ते धर्मादिष्वनैकान्त्यं स्यादिति तद्व्यावृत्त्यर्थं क्षणिकत्वे सतीत्युक्तम् । क्षणिकविशेषगुणत्वादित्युक्ते शब्दे व्यभिचारः; क्षणिकात्मगुणत्वादित्युक्ते आत्मनः संयोगे व्यभिचारः स्यादिति तत्परिहारार्थमात्मविशेष- शब्दौ । तदिदमनुपपन्नम्, क्षणिकत्वगुणत्वयोरन्यतरासिद्धत्वात् । दृष्टान्तश्च साधन- विकलः । किंच यन्मानसप्रत्यक्षवेद्यं तदबुभुत्सितग्राह्यं दृष्टम् ; यथा सुखादि । अपा

(१ – १ – १) श्रुतप्रकाशिका 0 ५६७- तद्विषयज्ञानं नियतमिति वक्तव्यम् । तस्मात् घटादिज्ञानविषयं यत् ज्ञानं तस्याप्यबुभुत्सि – तग्राह्यत्वात् मानसप्रत्यक्षवेद्यत्वं स्यात्, तद्विषयज्ञानस्यापि तथेत्यनन्तसंविदावलिसमुदय- स्यावर्जनीयत्वात् ज्ञानान्तरानवकाशः स्यात् । मानसप्रत्यक्षग्राह्यत्वस्यावुभुत्सितग्राह्यत्व- व्याप्यत्वं नास्ति, स्वापादावुच्छासनिश्वासप्रयत्ने सत्यपि तद्ग्रहणाभावादिति चेत् — न ; तदानीं जीवात्मनि प्रयत्नस्याभावात् । देहधारणादयः परमात्मसंकल्पाधीनास्तदानीमिति । हि वेदान्तिनः । " अन्तराभूतग्रामवत्" इत्यधिकरणेऽयमर्थः सुनिर्णयः । स्वापे देह- परिवर्तनादिस्त्वङ्गप्रत्यङ्गतोदात् दंशमशकादिजन्यदुःखादिना वात्यल्पबोधे सति भवति । तदानीं च प्रयत्नो धीविषयः । अतो हेतोरव्यभिचारान्मानसग्राह्यं सर्वमबुभुत्सितग्राह्यमि- त्यवस्था स्यादेव । यदि बुभुत्सितग्राह्यं तर्ह्यन्योन्याश्रयणम् – ज्ञाने सतीच्छा, इच्छायां सत्यां ज्ञानमिति । किंच मानसप्रत्यक्षवेद्यस्य बुभुत्सितग्राह्यत्वेऽपि सुखादिषूपलब्धिनियम- दर्शनात् बुभुत्सानियमः कल्प्य इति तद्वदेव ज्ञानेऽपि बुभुत्सानियमसिद्धिः । उपलब्धिश्च नियता स्यात् । अतो बुभुत्सान्तरितज्ञानपरंपराया अविरतिः स्यात् । ज्ञानं बुभुत्सितग्राह्यं, सुखादितु नेति चेत् — न ; मानसप्रत्यक्षवेद्यत्वाविशेषे नियामकाभावात् । सुखादिषु वटादिविषयप्रथमज्ञाने च बुभुत्सा, द्वितीयादौ तु नेति चेत् — न; नियामकाभावात् । मानसंग्राह्यत्वाविशेषात् प्राप्तां बुभुत्सां को वारयेत् ? मानसग्राह्यत्वे सति हि बुभुत्सा । सुखादिकं घटादिविषयप्रथमज्ञानं च मानसग्राह्यम् ; द्वितीयादिज्ञानं न मानसप्रत्यक्षवेद्य- मिति चेत् — न ; तत्रापि नियामकाभावात् । किंच क्षणिकात्म विशेषगुणत्वे सत्यपि द्वितीयादिज्ञानं न मानसग्राह्यं चेत् हेतोरनैकान्त्यम् । यदा प्रत्यक्षेण गृह्यते तदा मानस- ग्राह्यमिति चेत्, तर्हि पक्षो हेतुश्च प्रत्यक्षग्राह्यशब्देन विशेष्यौ स्याताम् । किंचान्यैर- प्युक्तानि दूषणान्तराण्युच्यन्ते - यदि द्वितीयज्ञानं न मानसग्राह्यं तस्य द्वितीयस्य निष्प्रमाणकत्वेन शून्यता च स्यात् ततश्च प्रथमस्य ततस्तद्विषयघटादेरपि शून्यता स्यात् । द्वितीयादिज्ञानं स्वतः सिद्धं चेत् प्रथमज्ञानमपि तथा स्यादिति । एवमाद्य- भिप्रायेण नापि ज्ञानान्तरसिद्धेत्युक्तम् । अथ पारिशेष्यात् स्वयंप्रकाशत्वं सिद्धमित्याह- अपित्विति । सर्वमिति ; अन्यथा संविदः शून्यत्वेन तदधीनसिद्धि सर्वं शून्यं स्यादिति तत्परिहाराय स्वयंप्रकाशत्वमवश्याभ्युपगन्तव्यमित्यभिप्रायेण सर्वं साधयन्त्यनुभूतिः- ‘स्वयमेव सिध्यतीत्युक्तम् । यथा संवित्सिद्धौ- , CC-0 No Rights Reserved. Digitized by eGangotri५६८ 66 • श्रीभाष्यम् तदेवापश्यतां सर्वशून्यत्वाद् बिभ्यतां सताम् । गतिः स्वयंप्रकाशत्वादृते नान्योपलभ्यते ॥ 99


(जिज्ञासाधिकरणम्) इति । अथ तर्कानुग्राह्यं स्वयंप्रकाशत्वे प्रमाणमुपन्यस्यति — प्रयोगश्चेति । न केवलं पारिशेष्यात् स्वतःसिद्धत्वं, साधकप्रमाणमप्यस्तीति चार्थः । अनुभूतिरित्यादिनानुमान- द्वयं ग्रन्थलाघवार्थमविभागेनोक्तम् । अनुभूतिरनन्याधीनस्वधर्मा, स्वसंबन्धादर्थान्तरे तद्धर्महेतुत्वात् ; अनुभूतिरनन्याधीनस्वव्यवहारा, स्वसंवन्धादर्थान्तरं तद्व्यवहारहेतुत्वात्- इत्येवं विभागः । अत एव हि ’ परत्र व्यवहारविशेष हेतोः स्वस्मिन्नपि तद्व्यवहारहेतुत्वम् इत्युत्तरत्र वक्ष्यते । प्राकटयमभ्युपगम्य तदुपजीवनेन प्रथममनुमानमुक्तम् । तदनुपजीव्य तु द्वितीयम् । प्राकटयाभ्युपगमस्य न स्वप्रकाशताविरोधित्वं तस्य ज्ञानानुमापकत्वा- नभ्युपगमात् । धर्मवत्त्वेऽनन्याधीनधर्मवत्त्वे च साध्ये सिद्धसाध्यता स्यात्, अनुभूति- त्वादिधर्माणां हेत्वन्तरनैरपेक्ष्यात् । न ह्यनुभूतित्वजातिर्हेत्वधीना, नित्यत्वात् । जात्यन- भ्युपगमेऽप्यनुभूतित्वस्यानुभूति सामग्रीव्यतिरिक्त हेत्वनपेक्षत्वात् सिद्धसाध्यता । अतोऽन- न्याधीनस्वधर्मेत्युक्तम् । स्वस्य धर्मः स्वोत्पाद्यतया स्वसंबन्धी धर्मः स्वधर्मः । परत्र स्वसाध्य- धर्मात्यन्तसजातीयधर्म इत्यर्थः, ’ अर्थान्तरे तद्धर्महेतुत्वात् ’ इति हेतूक्तेः । स्वधर्मशब्दनि- दिष्टधर्मो हि तच्छब्दोक्तः । परत्र स्वसाध्यधर्मात्यन्तसजातीयः स्वस्मिन्नवश्यंभावी धर्मः स्वधर्मत्वेन विवक्षितः । अत एव स्वस्मिन् रूपित्वा नापादनात् रूपस्य दृष्टान्तस्य साध्य- विकलत्वशङ्का व्युदस्ता स्यात् ; दण्डान्तरनिरपेक्षं स्वस्मिन् दण्डित्वमनापादयति दण्डे व्यभिचारश्च परिहृतः स्यात् । अन्यशब्दश्च स्वात्यन्तसजातीयान्यपरः, अन्यथा हेतु- मात्रनिरपेक्षत्वे दृष्टान्तस्य साध्यविकलत्वं स्यात् । चक्षुराद्यपेक्षं हि रूपस्य चाक्षुषत्वम् । तादृशहेत्वपेक्षानियमराहित्यमनन्याधीनशब्देन विवक्षितम् ; अन्यापेक्षामात्रविरहे साध्ये परज्ञानस्यानुमेयत्वदर्शनेन बाधितत्वप्रसङ्गात् । न हि ज्ञानान्तरागोचरत्वमेतदनुमान- साध्यम्; अपितु स्वात्यन्तस जातीयानपेक्षप्रकाशार्हत्वमात्रम् । तच्च परज्ञानस्य संभवतीति न बाधितविषयत्वम् । अनन्याधीनस्वव्यवहारेत्यत्रापि व्यवहारवत्त्वे साध्ये सिद्धसाध्यता । अतोऽनन्याधीनशब्दः । अन्यशब्दस्यात्यन्तसजातीयपरत्वाद्वागाद्यपेक्षया बाधितत्वशङ्का परिहृता स्यात् । घटादीनां हानादिव्यवहारे स्वात्यन्तसजातीयानपेक्षो हेतुरनुभूतिरिति सिद्धसाध्यत्वव्युदासाय स्वशब्दः । स च परत्र स्वसाध्यव्यवहारात्यन्त-

(१–१– १) श्रुतप्रकाशिका ५६९ सजातीयपरः, व्यवहारस्यात्यन्तसजातीयत्वं नाम अभिन्नप्रवृत्तिनिमित्तकत्वम् । व्यवहारा- नुगुण्यमात्रं हि ’ प्रकाशते ’ इति व्यवहारस्य निमित्तम् । परज्ञानव्यवहारे कालात्यया- पदेशपरिहारायापेक्षानियमराहित्यं विवक्षितम् । हेतुमाह – स्वसंबन्धादिति । धर्महेतुत्वे व्यवहारहेतुत्वे च हेतौ विवक्षितेनैकान्त्यं स्यादिति तत्परिहाराय तच्छन्दः । स्वस्य यो धर्मो व्यवहारश्च तदत्यन्तसजातीयो धर्मों व्यवहारश्च तच्छन्दविवक्षितः । स्वस्याग्नि- संबन्धात् स्वस्मिन् पूर्वरूपसजातीयरूपान्तरतद्व्यवहारहेतुः घटोऽग्निसापेक्ष इति, तत्र व्यभिचारपरिहारायार्थान्तर इत्युक्तम् । किंचार्थान्तरशब्दो निर्दिष्टजातोयाद्विजातीयपरः । तेन परस्मिन् द्रव्ये संयुक्तत्वतद्व्यवहार हेतोर्द्रव्यस्य परद्रव्यसापेक्षतयानैकान्त्यं परिहृतं स्यात् । द्रव्यं हि द्रव्यस्यात्यन्तसजातीयम् । ननु घटो हि पटे संयुक्तत्वादिकमापादयन् स्वस्य तथात्वे घटान्तरापेक्ष इत्यनैकान्त्यम् ; नैवम् - स्वसजातीयापेक्षानियमविरहरूपस्य साध्यधर्मस्य तत्र विद्यमानत्वात् । न हि घटः स्वसंयुक्तत्वादौ स्वात्यन्तसजातीयं घटमेवापेक्षत इति नियमोsस्ति । पुत्रे पुत्रत्वतद्व्यवहार हेतौ पितरि स्वस्य पुत्रत्वव्यवहाराय पित्रन्तरसापेक्षे व्यभिचारपरिहाराय स्वसंबन्धादित्युक्तम् । विद्यमानः स्वसंबन्धो विवक्षितः । परत्र स्वसंवन्धतुल्य कालस्वगतधर्मात्यन्तसजातीयधर्म तत्सापेक्षव्यवहारहेतु- त्वादित्यर्थः । न हि पित्रादिप्रवासनिधनयोः पुत्रादौ पुत्रत्वं तद्व्यवहारश्चापगच्छति । अत एव स्वस्मिन्ननन्यापेक्षद्वैधीभावमनापादयति परत्र द्वैषीभावहेतौ द्रव्ये व्यभिचारश्च दूरोत्सारितः । ननु सिद्धान्तिनोऽप्यभिमतमिदमनुमानम् ; चेतनः स्वसंबन्धतुल्यकालं शरीरत्वं शरीरे जनयन् स्वस्मिन् शरीरत्वतद्यवहारयोर्नानन्यापेक्षः, अपितु परमात्मसापेक्षः ; परमात्मा च चेतनत्वादत्यन्तसजातीयः ; अतः तत्रानैकान्त्यमिति – नैवम्, स्वव्यापक- धर्महेतुत्वस्य विवक्षितत्वात् । न हि चेतनत्वव्यापकं शरीरत्वम् ईश्वरस्य चेतनस्यापि शरीरत्वाभावात् । अतः स्वधर्मशब्दाभिप्रेतेन स्वावश्यंभावित्वेन परिहारः । एतदुक्तं भवति धर्मशब्द: प्रकाशपरो वा, धर्ममात्रपरो वा ; अन्यशब्दश्च अन्यमात्रपरो वा, स्वात्यन्तसजातीयभूतान्यपरो वा । तत्र हेतुमात्रानपेक्षप्रकाशत्वे दृष्टान्तस्य साध्य- विकलत्वम् ; रूपं हि चक्षुराद्यपेक्षप्रकाशम् । स्वात्यन्तसजातीयानपेक्षप्रकाशत्वे साध्ये व्यर्थविशेषणत्वं हेतोः, हेतुत्वमात्रेण साध्यसिद्धेः । न हि यस्य कस्यचिद्धेतुः सन घटादिः स्वप्रकाशे घटान्तरादिकमपेक्षते । हेत्वनपेक्षधर्मत्वेऽनुभूतित्वादिना सिद्धसाध्यता. 72 ;

५७० श्रीभाष्यम् (जिज्ञासाधिकगणम्) परश्वथादिष्वनैकान्त्यं च, काष्टद्वैधीभावहेतोः परश्वथस्य स्वद्वैधीभावे हेत्वन्तरसापेक्षत्वात् । स्वात्यन्तसजातीयानपेक्षधर्मत्वे चानुभूतित्वादिना सिद्धसाध्यता ; विषयप्रकाशके परज्ञाने लिङ्गापेक्षप्रकाशकत्वदर्शनात् बाधश्च । रूपे रूपान्तरानपेक्षस्वगतरूपत्व हेतुत्वाभावात् दृष्टान्तस्य साध्यविकलता । पुत्रगतपुत्रत्वतौ पित्रन्तरसापेक्षपुत्रत्वधर्मे पितर्यनैकान्त्यं च । परद्रव्यगत संयुक्तत्वहेतौ द्रव्यान्तरसापेक्षसंयोगे द्रव्ये चानैकान्त्यम् । अत एवमादि- दोषपरिहारार्थमित्थं प्रयोक्तव्यम् — अनुभूतिः स्वजन्यपर गतधर्मात्यन्तसजातीयधर्मभावे स्वात्यन्तसजातीयापेक्षानियमरहितेति प्रतिज्ञा; स्वविसजातीये स्वावश्यंभाविधर्मात्यन्त- सजातीयस्वसंबन्धतुल्यकालधर्महेतुत्वादिति हेतुः । तथा अनुभूतिः स्वजन्यपरगतव्यव- हारात्यन्तस जातीयव्यवहारभात्वे स्वात्यन्तसजातीयापेक्षानियमरहितेति प्रतिज्ञा ; स्वावे - सजातीये स्वावश्यंभाविव्यवहारात्यन्तसजातीयस्वसंवन्धतुल्यकालव्यवहार हेतुत्वादिति हेतुः । व्यवहारस्य स्वावश्यंभावित्वं नामावश्यंभावित्वधर्मनिबन्धनत्वम् । व्याप्तिप्रदर्शनपूर्वकं दृष्टा- न्तमाह – य इति । साध्यसाधनधर्मो सपक्षे दर्शयति– रूपादिहति । पक्षधर्मताबलसिद्ध- मर्थमाह - अतोऽनुभूतिरिति । प्रकाशत इति व्यवहार इति ; “अनुभूतिः प्रकाशते इति व्यवहारे, " अनुभूतिः " इति व्यवहारे चेत्यर्थः । ननु स्वसंवन्धादर्थान्तरे तद्धर्मव्य- वहारहेतुत्वं सोपाधिकं, संबन्धविशेषादर्थान्तरे तद्धर्मव्यवहारहेतुत्वस्यैव स्वस्मिंस्तद्धर्मव्यव- हारयोरनन्याधीनत्वे प्रयोजकत्वात् । स च संबन्धविशेषाश्रयाश्रयिभावरूपः । रूपादावस्ति, न तु पक्ष इति – नैतत् ; अस्य साध्यसमव्याप्त्यभावेनानुपाधित्वात् । आश्र- याश्रयिभावविरहेऽपि संबन्धमात्रादर्थान्तरे ’ प्रकाशते ’ इति व्यवहारहेतोर्दीपस्य स्वस्मिन्नपि तद्व्यवहारेऽत्यन्तसजातीयानपेक्षत्वं हि दृष्टम् । पूर्वं ज्ञानस्य परप्रकाशत्ववादिभिः स्वसत्तयैव प्रकाशमानत्वादिति हेतोरसिद्धिर्व्याहतिश्चोते ; तत्र ‘घटोऽयम्’ इत्यनुभववेलायाम् ’ अनु- भूयते ’ इति शब्दस्याप्रयोगादसिद्धिरुक्ता । शाब्दव्यवहारवैकल्यपौष्कल्ययोर्विवक्षाविशेष- हेतुकत्वेनार्थानुभवेऽननुभवे च प्रयोजकत्वाभाववचनादसिद्धिः परिहृता । व्याहतिश्व नास्ति ; तथाहि—अङ्गुल्यग्रस्य स्वात्मस्पर्शादिव्याहतिरुपलब्धिनिबन्धना । दीपादिषु च प्रकाश्यत्वप्रकाशकत्वे दृश्येते । निरूप्यमाणे कर्मकर्तृभावविरोधश्च नास्ति — निरासको दीपः, निरसनीयं तमः ; दीप उत्पादकः, ज्ञानमुत्पाद्यम् ज्ञानमुत्पादकं, व्यवहार उत्पाद्य इति । किंच यद्यपि कर्मकर्तृभवास्य स्वतो विरोधाद्भेदकत्वमुपलब्धिसिद्धं, तथापि स च

(( १ – १ – १ ) भावप्रकाशिका " ५७१ ज्ञापकेषु विरोधनियमाभावश्चोपलब्धिसिद्धः, ज्ञातरि मनसि शब्दशब्दे पदमिति पदे, तथेदृशार्थान्तरेष्वप्यविरोधो ह्युपलभ्यते । उत्पादकेष्वेव तु विरोधनियमः । तत्र चाकारान्तरेण चेदविरोधः । ननु घटादिषु व्यवहारार्हत्वं स्वव्यतिरिक्तज्ञानहेतुकं दृष्टम् ; ज्ञाने व्याप्तिर्भज्यते चेत् व्यवहारस्य ज्ञानपूर्वकत्वव्याप्तिभङ्गेनाज्ञातस्यैव ज्ञानस्य व्यवहारा- स्पदत्वं स्यात् – नैवम् ; घटादिषु ज्ञेयव्यतिरिक्तज्ञातृदृश्यत्वेऽपि स्वेनैव ज्ञात्रा ज्ञातरि - दृश्यत्वमिति सर्वाविगीतमिति तत्र परेणापि कर्मकर्तृविरोधव्याप्तिभङ्गोऽभ्युपगन्तव्यः, तथा घटादौ स्वव्यतिरिक्तकरणजन्यज्ञानदृश्यत्वेऽपि मनसि तद्भनम्, स्वानुमाने मनस एव करणत्वात् । तथा सर्ववाच्यानां स्वव्यतिरिक्तशब्दवाच्यत्वेऽपि शब्दशब्दे पदपदे च तनम् । घटादीनां स्वव्यतिरिक्त वाख्यवहार्यत्वेऽपि वागिन्द्रिये तद्भग्नम् | अतः कर्मकर्तृभावस्य विरोधिव्याप्तिर्नास्ति । व्यवहारस्य ज्ञानपूर्वकत्वं तु न कैश्चिदपि भग्नम् । ज्ञानव्यवहारस्य ज्ञानकर्मतापूर्वकत्वविरहः प्रसज्यते चेन्नानिष्टः । अवभासपूर्वकत्वस्या- भग्नव्याप्तिकत्वान्न तद्विरहप्रसङ्गः । तस्मादवभासमानस्यैव ज्ञानस्य व्यवहारास्पदत्वम् । अतः स्वविषयपरविषयव्यवहारानुगुण्यं ज्ञानस्य युक्तम् । भावप्रकाशिका असाधारण्य प्रतिक्षेपः फलित इति ; पुरुषविशेषासाधारण्येत्यर्थः । अयमर्थः “ अनुभूतिव्यतिरेकी विषयधर्मः’ इत्युत्तरग्रन्थे स्पष्टः । ये पुनर्द्वित्यादिकं नाभ्युप- यन्तीति 4 यादृशादपेक्षावुद्धिविषयाद्दित्वाद्युत्पत्तिस्तादृशा पेक्षा बुद्धिविषयवस्तुविशेषोपलम्भ 1 6 एव द्वित्वादिव्यवहारं जनयति, न द्वित्वादिरूपं किंचिदस्तीति सिद्धान्तिमते प्रतिबन्दी न संभवत्येवेत्यर्थः । आत्मनः संयोगे व्यभिचारः स्यादिति ; क्षणिके आत्मनः संयोगविशेष इत्यर्थः । दृष्टान्तच साधनविकल इति ; सुखदुःखादीनामन्तःकरणधर्म- ’ इदमहं न त्वादिति भावः । तदवुभुत्सितग्राह्यं दृष्टमिति ; अनुभुत्सितग्राह्यम् ; बुध्येयम्’ इति विपरीतेच्छायां सत्यामपि ग्रायमित्यर्थः । तस्याप्यवुभुत्सितग्राह्यत्वा- मानस प्रत्यक्षवेद्यत्वं स्यादिति तस्यापि मानसप्रत्यक्षत्वेना बुभुत्सितग्राह्यत्वान्मानस- ज्ञानान्तरविषयत्वमवश्यंभावीत्यर्थः । ज्ञाने सतच्छित; ज्ञाने सति बुभुत्सेत्यर्थः । सामान्यतो विदिते विशेषतश्चाविदित एव वुभुत्साया उदयादिति भावः । अबुभुत्सित- ग्राह्यत्वपक्षेऽनुव्यवसायधाराप्रसङ्गमुक्त्वा वुभुत्सितग्राह्यत्वपक्षेऽपि बुभुत्सान्तरितज्ञानपरं- ;

५७२ श्रीभाष्यम् (जिज्ञासाधिकरणम) परामाह– किंच मानसेति । ज्ञानं बुभुत्सितग्राह्यं सुखादि तु न तथेति ; ततश्च सुखादिषु प्रतीतिव्याप्तिसंभवेऽपि ज्ञानस्य न प्रतीतिव्याप्तत्वं, बुभुत्साभावे तत्प्रतीते- रनुत्पत्तेः । न च बुभुत्साया अन्योन्याश्रयग्रस्ततया न हेतुत्वमिति वाच्यम्, नाना- शब्दसंकीर्णवीणाशब्दश्रवणादौ वुभुत्साहेतुत्वस्य दर्शनादिति भावः । यदा प्रत्यक्षेण गृह्यत इति ; प्रत्यक्षग्राह्यत्वं हेतुविशेषणमिति भावः । पक्षो हेतुश्चेति ; प्रत्यक्षग्राह्यं मानसग्राह्यं प्रत्यक्षग्राह्यत्वे सति क्षणिकात्मविशेषगुणत्वादिति वक्तव्यं स्यात् ; न च तथोक्तम् ; अत इयं विवक्षा न संमतेति भावः । तद्व्यवहारहेतुत्वादिति ; स चासौ व्यवहारस्तद्व्यवहारः, न तु तस्य व्यवहार इति भ्रमितव्यम्, तथा हि सति द्वितीय- हेतौ कृत्स्नस्यापि प्रविष्टत्वाद्विभागो न स्यात् । न च धर्मश्च व्यवहारश्च धर्मव्यवहारौ, तौ च तौ धर्मव्यवहारौ च तद्धर्मव्यवहारावित्युक्तावेव विभागात्, द्वितीय हेतौ न कृत्स्ना- नुप्रवेश इति वाच्यम्, तद्वदस्यैव धर्मपदस्थानीयत्वात् । अनुभूतिसामग्रीव्यतिरिक्तेति : न चानुभूतित्वस्यानुभूतिव्यतिरिक्ततत्सामग्रीसापेक्षत्वेनान्याधीनत्वं स्यादिति वाच्यम् अनुभूतिसामग्र्यैवानुभूतित्वस्याप्युपपत्तावनुभूतित्वस्यानुभूत्यन्याधीनत्वाभावात् । तस्याम- प्यनुभूतावितरव्यतिरेकेणानुभूतित्वव्यतिरेके धनुभूतित्वस्येतराधीनत्वम् अनुभूतिसामग्री- मात्रेणैवानुभूतित्वस्यापि सिद्धावितराधीनत्वाभावात् । अत एव ज्ञानसामग्रीमात्रजन्यस्य प्रामाण्यस्य स्वतस्त्वमिति भावः । यद्वा अनुभूतिसामग्रीव्यतिरिक्तेत्यस्य सजातीया- न्तरापेक्षत्वमित्यर्थः । अत्रेत्थं ह्यनुमानं प्रयोक्तव्यम् — अनुभूतिः स्वावश्यंभाविप्राकट्य- जनने सजातीयापेक्षानियमशून्या, स्वसंबन्धादर्थान्तरे प्राकट्य हेतुत्वात् ; यः स्वसंब- न्धादर्थान्तरे यद्धर्मव्यवहारहेतुः स स्वस्मिन्नवश्यंभावितद्व्यवहारजनने सजातीयापेक्षानियम- शून्यः । एवं द्वितीयमप्यनुमानम् ; यथा —तद्देहं तदा मैत्राभाववत्, तदा मैत्रव- त्तयानुपलभ्यमानत्वात् ; यद्यदा यद्वंत्तया नोपलभ्यते तत्तदा तदभाववदिति सामान्य- व्याप्तिवत् । ननु परत्र स्वोत्पाद्यधर्मस्य स्वधर्मत्वे कथमनुभूतेस्तद्वत्त्वं स्यात् ? अनुभूतौ स्वोत्पाद्यपरगतधर्माभावादित्याशङ्कयाह – स्वसाध्यधर्मात्यन्तसजातीयेत्यर्थ इति । धर्म- शब्दस्य परत्र स्वोत्पाद्यधर्मपरत्वे प्रमाणं दर्शयति- अर्थान्तरे तद्धर्महेतुत्वादिति । “हेतूक्तेरिति । अर्थान्तर इति हेतौ दर्शनात् साध्येऽपि परत्रेति वक्तव्यम् । धर्महेतुत्वा- “दित्युक्तेऽनुभूति हेतु धर्म एव ग्राह्यः । ततश्च यो धर्मो हेतौं निर्दिष्टः स एव साध्यधर्म- ; CC-0 No Rights Reserved. Digitized by eGangotri(१ -१ – १) भावप्रकाशिका ; ५७३ शब्देन ग्राह्यः, तस्यैव धर्मस्येह संभवात् । तत्सजातीयधर्मवत्त्वं साध्यमिति भावः । स्वस्मिन्नवश्यंभावीति ; ननु प्राकटयस्य नावश्यंभावित्वमनुभूतौ परप्रकाशवादिना परेणाभ्युपेतम्, अभ्युपगमे त्वनवस्थाभीत्या स्वप्रकाशत्वस्यैवाभ्युपगन्तव्यत्वप्रसङ्गादिति चेत् — न ; उत्पन्ने ज्ञाने संशयाद्यदर्शनेन प्राकटयं स्वावश्यंभावीत्यभिमानेनेदृशप्रयो- गोपपत्तेः । परज्ञानस्यानुमेयत्वदर्शनाद्ध। धप्रसङ्गादिति इतरानपेक्षमा कट्य सद्भावेऽपि परत्र स्वोत्पाद्यधर्मसजातीयेषु सर्वेष्वपीतरापेक्षाभावस्याभावाद्वाधः स्यादिति भावः । नन्वीदृशानुमानवादिनो मते ज्ञानस्यानुमेयत्वानभ्युपगमात् कथमनुमेयत्वमादाय बाध इत्याशङ्कयाह- - न हि ज्ञानान्तरागोचरत्वमिति । सजातीयानपेक्षो हेतुरनुभूति- रितीति; अनुभूतिरनन्याधीनव्यवहारेत्युक्ते हेतुहेतुमद्भावलक्षणसंबन्धेनानन्याधीनघटादि- व्यवहारवत्त्वमनुभूतावस्तीति सिद्धसाधनमिति भावः । अनैकान्त्यं स्यादिति ; हेतौ तच्छब्दाभावे स्वोत्पाद्यसजातीयधर्मस्यैवानन्याधीनत्वमित्यर्थस्य साध्येऽप्यलाभेन चाक्षुष- त्वहेतोः रूपस्य स्वावश्यंभावित्वादिजनने स्वात्यन्तसजातीयेतर सापेक्षत्वाव्यभिचार इत्यर्थः । ननु स्वसंबन्धः स्वनिरूपित संबन्धः ; ततश्च स्वस्मिन् योऽग्निसंबन्धो न स स्वनिरूपितः । यद्यपि संबन्ध एकः, अथाप्यग्निनिरूपितः संबन्धो घंटे घटनिरूपितः संबन्धोऽग्नाविति व्यवहारानुसारेण स्वप्रतियोगिकत्ववेषेण स्वस्मिन् स्वसंबन्धस्य वृत्त्य - भावात् । अत एव हि ’ न हि स्वयं स्वसंयुक्तः’ इति व्यवहरन्ति । किंच रूपान्तरो- त्पत्तावग्निसापेक्षत्वेऽपि स्वसजातीयघटानपेक्षणान्नव्यभिचार इत्यरुचेराह – किंचार्था - न्तरशब्द इति । निर्दिष्टजातीयाद्विजातीयपर इति ; आवश्यक इति शेषः । न हि घटः स्वसंयुक्तत्वादाविति न च पटादौ घटसंयुक्तत्वमापादयतो घटस्य स्वस्य घटसंयुक्तत्वे पटान्तरापेक्षणात् पुनरपि व्यभिचार इति वाच्यम्, स्वावश्यंभाविपदेनैव तद्वारणात् । न हि घटजातीयस्य पटसंयुक्तत्वमवश्यंभावि । ननु – स्वसंबन्धादचेतने चेतनसंयुक्तत्वमापादयतश्चेतनस्य स्वावश्यंभाविचेतनसंयुक्तत्वे सजातीयसापेक्षत्वदर्शनाद्य- भिचारः तदवस्थ एव; तथा चेतननियाम्यत्वमचेतन आपादयतः चेतनस्य स्वनियाम्यत्वे चेतनान्तरापेक्षणात् व्यभिचारश्च । न चावश्यंभाविपदेनैव तन्निरास इति वाच्यम्, परमात्मनोऽपि भक्तनियाम्यत्वात् । तथा स्वसंबन्धेन क्षत्रिये शिष्यत्वमापादयति, ब्राह्मणे स्वस्मिन् शिष्यत्वस्य ब्राह्मणान्तरसापेक्षत्वेन व्यभिचारः । न च ब्राह्मणानां शिष्यत्वं

५७४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) नावश्यंभावि, उपनयनात् प्रागपि मरणसंभवादिति वाच्यम्; दृष्टान्ते रूपादावपि चाक्षुषत्वं नावश्यंभावीति वक्तुं शक्यत्वात् । अनुभूतेरपि प्राकट्यं नावश्यंभावीति वक्तुं शक्यत्वाच्च । तस्मादप्रतिष्ठितमिदमनुमानमिति चेत् ; अत्र केचित् – यत् स्वव्यतिरिक्ते सर्वस्मिन् यद्व्यवहारे प्रवृत्तिनिमित्तं तत् स्वस्मिन् तद्व्यवहारे नेतरापेक्षमिति पर्यवसितोऽथः । ततश्चानुभूतिव्यतिरिक्ते सर्वत्र’ अनुभूयते, प्रकाशते ’ इत्यादिव्यवहारे प्रवृतिनिमित्तभूता- नुभूतिः स्वस्याम् ’ अनुभूयते, प्रकाशने ’ इत्यादिव्यवहारे नेतरापेक्षा सत्तावदिति सत्ता- स्थानीयानुभूतिरेकेत्यभिमानवतामीदृशानुमानमित्याहुः । पुत्रे पुत्रत्वतद्व्यवहारहेताविति ; न च पुत्रस्यापि पितृत्वेनार्थान्तरपदेनैव तद्वारणमिति वाच्यम्, षण्डपुत्रस्य पितृत्वानधि- कृतस्यापि संभवादिति भावः । स्वसंवन्धतुल्यकालेति ; स्वसंवन्वतुल्यत्वं स्वसंवन्धा- नाधारकालावृत्तित्वम् ; ततश्च ज्ञानसंबन्धानन्तरोत्पन्नप्राकट्येऽपि तदस्तीति बोध्यम् । न हि पित्रादिप्रवासनिधनयोरिति ; ननु प्रवासनिवनयोरपि जन्यजनकभावः संबन्धोस्त्येव, तदपायेऽपि पितृपुत्रत्वयोरनपायात् । प्रोषिते प्रेते च संयोगः परं नास्ति । तादृशसंयोगाभाव एकग्रामगतेऽप्यस्त्येवेति प्रवासनिधनोपन्यासो व्यर्थ एवेति चेत् — न ; पञ्चाग्निविद्योक्तप्रकारेण चरमधात्वादिरूपस्य पुत्रस्य पितुश्च यः संबन्धः सपुत्रत्वो - त्पादकः । " रेतः सिग्योगोऽथ " इति सूत्रोक्तस्तु नातिचिरस्थायी । अत एव ’ पितु- रुत्पादनक्रियोत्पत्तिक्षण एवोत्पाद्यसंबन्धकरी नान्यथा’ इत्युक्तं नयविवेक इति भावः । उक्तमर्थं संकलप्य दर्शयति- एतदुक्तं भवतीति । अनुभूतिः स्वजन्यपरगतधर्मा- त्यन्त सजातीयधर्मभाक्त्वे स्वात्यन्तसजातीयापेक्षानियमरहितेति ; अनुभूतिरपेक्षा- रहितेत्युक्ते स्वरूपस्य करणसापेक्षत्वेन बाधः स्यात् ; तत्परिहारार्थं धर्मभाव इत्युक्तम् । तथात्वे रूपस्य चाक्षुषत्वे चक्षुराद्यपेक्षत्वेन साध्यविकलता स्यात् ; तत्परि- हारार्थं सजातीयापेक्षारहितेत्युक्तम् । तथापि चक्षुरादीनां सत्ताजात्या सजातीयत्वेन साध्यवैकल्यं तदवस्थमित्यत उक्तम्- - अत्यन्तसजातीयेति । तथापि परज्ञानस्य ज्ञानान्तरसापेक्षव्यवहारानुगुण्यतया अशे बाधः स्यादित्यत उक्तम् - अपेक्षानियम- रहितेति । तथाप्यनुभूतित्वस्यानु भूत्यन्तरानपेक्षतया तेन सिद्धसाध्यता स्यादिति तत्परिहारार्थं परगतेत्युक्तम् । परगतधर्मस्थानुभूतिनिष्ठत्वाभावाद् बाधः स्यादिति परगत- ‘धर्मसजातीयेत्युक्तम् । परगतधर्म सजातीयधर्मभावेऽत्यन्तसजातीयापेक्षा नियमरहितेत्युक्ते पर-

(१ – १ – १) भावप्रकाशिका ; ५७५ निष्ठसत्त्वजातीयसत्त्वभात्त्वेऽत्यन्तसजातीयानपेक्षत्वेन सिद्धसाध्यता स्यात् ; तत्परिहाराय स्वजन्येति विशेषणम् । स्वविजातीये स्वावश्यंभाविधर्मसजातीयस्वसंवन्धतुल्य काल- धर्महेतुत्वादिति ; धर्महेतुत्वादित्युक्ते घटादिभिरनैकान्त्यं स्यात् तेषां स्वपाकजरूप- हेतुत्वात् । परत्रेत्युक्तेऽपि द्रव्यान्तरे संयुक्तत्वजनके स्वस्य संयुक्तत्वे द्रव्यान्तरसापेक्षे द्रव्ये व्यभिचारः स्यादित्युक्तं स्वविजातीयेति । तथापि सिद्धान्तिमते विजातीये शरीरे शरीरत्वमापादयति स्वस्य शरीरत्वे स्वसजातीयपरमात्मसापेक्षे चेतने व्यभिचारः स्यात् ; तत्परिहाराय स्वावश्यंभावीत्यनेन स्वसजातीयव्यापकत्वमभिप्रेतम् । तथापि पुत्रगतपुत्रत्व - हेतौ स्वस्य पुत्रत्वे पित्रन्तरसापेक्षे पितरि काष्ठद्वैधीभाव हेतौ स्वस्य द्वैधीभावे परश्वन्तर- सापेक्षे परशौ व्यभिचारः स्यात्; अतः स्वसंबन्धतुल्यकालेति च विशेषणम् । अनु- मानान्तरे चैवमेव पदप्रयोजनं द्रष्टव्यम् । ‘अनुभूतिरिति स्वव्यवहारे चेत्यर्थः ’ इत्ययं लेखकस्खलनकृतः, परत्र ’ प्रकाशते ’ इति व्यवहारस्यैवोत्पाद्यत्वेन ‘अनुभूति:’ इति व्यवहारस्यानुत्पाद्यत्वादिति द्रष्टव्यम् । सोपाधिकमिति संबन्धविशेष एवोपाधिरित्यर्थः । निरासको होति ; दीपस्य हि स्वप्रकाशकत्वं स्वीयतमोनिरासकत्वं वा स्यात्, स्वविषय: ज्ञानोत्पादकत्वरूपं वा स्यात् ; ज्ञानस्य स्वप्रकाशकत्वं च स्वविषयव्यवहारोत्पादकत्वमेव अत्र न क्वापि विरोधं पश्याम इति भावः । यदि हि स्वस्यैव कार्यत्वं कर्तृत्वं च स्यात् तदा हि परं विरोधः । स्वविषयव्यवहारो वा स्वविषयज्ञानं वा, स्वसंबन्धितमोनिरासो वोत्पाद्यः, स्वयं च कर्तेत्युक्तौ हि को विरोधः । तत्र चाकारान्तरेण चेदिति ; तत्रा- ध्याकारान्तरं चेदविरोध एव तथा ’ तदात्मानं स्वयमकुरुत ’ इत्यादौ स्थूलचिदचिद्विशिष्ट- रूपेण कर्मत्वं सूक्ष्मचिदचिद्विशिष्टवेषेण कर्तृत्वमित्यस्यार्थस्य दर्शनादिति भावः । अज्ञातस्यैव ज्ञानस्य चेति ; अनवभास्यमानस्यैवेत्यर्थः । तस्मादवभासमानस्यैव " इत्युपसंहारग्रन्थानुसारादिति द्रृष्टव्यम् । ज्ञानकर्मतापूर्वकत्वविरहः प्रसज्यते चेदिति ज्ञानं प्रति कर्मकारकत्व पूर्वत्वनियमभङ्ग इष्ट इति भावः । न च तद्व्यवहारस्तत्कर्मकज्ञान- पूर्वक इति नियम आवश्यकः, अन्यथान्यज्ञानादन्यस्य व्यवहारप्रसङ्ग इति वाच्यम्, व्यवहारो ज्ञानपूर्वक इत्येव सामान्यव्याप्तिः ; जडस्थलेऽतिप्रसङ्गभङ्गाय तद्विषयज्ञानस्य तद्विषयव्यवहारहेतुत्वमिति नियामकान्तरममि कल्प्यते, न ज्ञानस्थलेऽपीति भावः । 66 Q

५७६ श्रीभाष्यम् श्रुतप्रदीपिका (जिज्ञासाधिकरणम्) कृत्स्नभानव्यवहार हेतोरनुभवस्य स्वसिद्धिवादी परिहरति-तदिदमिति स्वभानव्यवहारयोरन्यानपेक्षत्वरूपं विभवमजानन्ननाकलितानुभवविभवः प्राकटयं दृष्टं वा, कल्पितं वेति विकल्पमभिप्रयन् प्रथमं शिरो दूषयति– अनुभूतीति । विषयधर्मो जन्यश्चेत् सर्वैरुपलभ्येत, रूपादिवदित्यर्थः । न च द्वित्वादिवदनुपलब्धिसंभवः । अपेक्षाबुद्धेर्द्वित्वादिव्यवहारमात्रजनकतया द्वित्वादिजनकत्वाभावात् । अपेक्षाबुद्धेर्द्वित्वा- द्यभिव्यञ्जकतया तद्वत एव भानोपपत्तेश्च । न चानागताद्यर्थेषु प्राकट्यं निराश्रयधर्मा- योगात् । तदुक्तं संवित्सिद्धौ– " अतीते नागते चार्थे कथं प्राकट्यसंभवः । न हि धर्मिण्यसत्येव धर्मः संभवमृच्छति || " 6 इति । न च तेषु द्वित्वादिजन्म अर्थवत् द्वित्वादेरपि धीः स्थतया व्यवहारोपपत्तेः । न च विषयविषयिभावसंबन्ध एवं प्राकट्यं ; संबन्धिभ्यां विना तत्प्रतीत्ययोगेन ज्ञानमपि ज्ञातमित्यनुमेयत्वाभावादिति भावः । अथ कॢप्तिं व्युदस्यति — उभयेति । नामान्तरेण प्राकट्योपगमशङ्काव्युदासायोभयाभ्युपेतशब्दः । प्राकट्यजनकत्वेनाभ्युपेततयैवेत्येवकारा- भिप्रायः । व्यवहारो हानादिः इष्टो घट इतिवत् ज्ञातो घटः, प्रकटो घट इत्युक्तिः 1 विषयविशेषनियतव्यवहारः कर्मकर्तृव्यवहारो विकलव्यवहारश्चाशेषशब्दोक्तः । प्राकटयोप- गमेऽपि कथं तद्धट एव धीर्जनयति ? न पट इत्यनुयोगे सतीन्द्रियसंप्रयोगस्यैव नियामक - तयाभ्युपेतस्य व्यवहारव्यवस्थापकत्वोपपत्तेः । घटोऽनुभूयते घटः प्रकाशते ’ इति कारकभेदव्यवहारस्य ‘ परशुना छिनत्ति, परशुमुद्यम्य निपातयति’ इतिवद्धातुभेद- निबन्धनत्वाच्च घटोऽयम्’ इत्येतावद्व्यवहारस्याधिका विवक्षा निबन्धनत्वात् । तस्याश्च ज्ञानाभावव्याप्यत्वाभावाच्च कल्पकव्यवहारोऽन्यथासिद्धिरिति भावः । मानसप्रत्यक्षवेद्य- त्वमाशङ्कयाह – नापीति । क्षणिकात्म विशेषगुणत्वं हेतुः । सुखादिः सपक्षः संयोग- रूपधर्माद्यात्ममनःसंयोगश्च हेतौ व्यावर्त्याः । अन्यतरासिद्धिः गुणत्वक्षणिकत्वानुप- गमात् । किंच मानसस्या बुभुत्सितग्राह्यत्वाज्ज्ञानविषयज्ञानतज्ज्ञानादिपरंपरानुच्छेदप्रसङ्गः । बुभुत्सितग्राह्यत्वेऽन्योन्याश्रयः । इच्छाया ज्ञानं ज्ञानत इच्छेति । किंच सुखादौ बुभुत्सा- नियमपूर्वक ज्ञाननियमादर्शनात् । तया सहानन्तसंविदावलिः स्यात् । न च द्वितीयादि- "

43 - १ - १) श्रुतप्रदीपिका ५७७ T अन्य- ज्ञानेन बुभुत्सेति वाच्यम्, मानसत्वाविशेषात् । न च मानसं द्वितीयादिक्षणिकात्म- विशेषगुणत्वाविशेषात् । तथा सति हेत्वनैकान्त्यम् । अमानसेऽपि प्रवृत्तेः । द्वितीय- स्यामानसत्वे प्रथमस्यापि तथात्वात् सर्वशून्यता द्वितीयादिस्वसिद्धिश्चेत् प्रथममेव तथा स्यात् । अतो मानसप्रत्यक्षवेद्यत्वं नेति भावः । एवं मानान्तरागोचरत्वात् ज्ञानस्य तुच्छत्वे सर्वतुच्छत्वप्रसङ्गाच्च । पारिशेष्यान्न स्वसिद्धित्वासिद्धिरित्याह- अपि त्विति । न परं परिशेषः, अनुमा चेत्याह — प्रयोगचेति । लाघवाया- नुमाद्वयं तन्त्रेणोकम् प्रथमा प्राकट्याभ्युपगमेनोक्ता । द्वितीया तु अनभ्युपगमेन अनुभूतिरनन्याधीनस्वधर्मा, अनन्याधीनस्वव्यवहारति, प्रतिज्ञाद्वयम् । एवं हेतू च द्वौ, अन्याधीनधर्मत्वेऽपि धर्मवत्तया सिद्धसाध्यत्वव्युदासायानन्याधीन शब्दः शब्दोत्यन्तसजातीयान्तरपरः । अत्यन्तसजातीयत्वं नाम येन शब्देन सजातीयान्तरप्रति- योगिनिर्देशः, तच्छब्दप्रवृत्तिनिमित्तत्वं ज्ञानान्तरानपेक्षस्वसाध्य परगतधर्मेण सिद्ध- साध्यत्वव्युदासाय स्वशब्दः । ज्ञानान्तरानपेक्षः स्वगतैकत्वादिना सिद्धसाध्यत्वव्युदासाय स्वजन्यपरगतधर्मात्यन्तसजातीयशब्दोध्याहार्य इत्यर्थवशादवगतः । अनन्याधीन स्वजन्यपर- गतधर्मात्यन्तसजातीयधर्मेत्यर्थः । एवमनन्याधीनस्वव्यवहारेत्यत्रापि द्रष्टव्यम् । हेतु- माह – स्वेति । हेतुत्वं धर्महेतुत्वम् । व्यवहारहेतुत्वं च नैकान्तिकम् । अतः तच्छब्दः तादृगित्यर्थः । स्वस्मिन् यादृग्भवति परत्र तादृशो धर्मस्य व्यवहारस्य वा हेतुत्वात् तादृक्त्वं चात्यन्तस जातीयत्वम्, असंभवव्युदासाय स्वसंबन्धशब्दः । अनुमि- तिलिङ्गे व्यभिचारश्चानेन परिहृतः । तद्धि न स्वसंबन्धमात्रेण लिङ्गिप्रकाशव्यवहार- हेतुः । किंतु तज्ज्ञानेन । अत्र तु ज्ञानान्तराव्यवहितसंबन्धो विवक्षितः । स्वगत- धर्मेण वा, व्यवहारेण वा, स्वसंबन्धात् तस्य तस्य च स्वयं हेतुरिति साध्याविशिष्टत्व- व्युदासायार्थान्तरशब्दः । ज्ञानस्य स्वस्मिन् तादृग्रूपापादनेऽत्यन्तसजातीयानपेक्षितत्वं. साध्यं, परत्र स्वगतधर्मात्यन्तसजातीयधर्महेतुत्वं, स्वगतव्यवहारात्यन्तस जातीयव्यवहार- हेतुत्वं च हेतुरित्युक्तं भवति । परत्र प्रकाशधर्मतद्व्यवहारहेतुत्वस्यैव साधनतया विव- क्षितत्वात्, न काष्ठच्छेदकपरश्वादौ व्यभिचारः । व्याप्तिपूर्वकं दृष्टान्तमाह-य इत्या- दिना । तद्विवृणोति – रूपादिहीति । पक्षधर्मताबललब्धमर्थं वदन् निगमयति-अत इति । " निरासको दीपः, निरसनीयं तमः, जनको दीप:, जन्यं ज्ञानं, जनकं ज्ञानं,


73 । ० CC-0 No Rights Reserved. Digitized by eGangotri५७८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) जन्यो व्यवहार 99 इति भाट्टोक्तः । कर्मकर्तृविरोधो दृष्टान्ते दाष्टन्तिके च न विद्यते । स च ज्ञापकेषु न ज्ञातृमनः शब्द पदशब्देष्वदर्शनात् । तत्त्वटीका अवेद्यत्ववादी प्राकटयवादिनमुपालभते - तदिदमिति ; बुद्धेः स्वप्रकाशत्वे सिद्धे निराकारप्रकाशायोगादाकारद्वयानुपलम्भाच्च ग्राह्यग्राहकयोर्ज्ञानाकारत्वं वदद्भयो भीतैः प्रकाशमानस्य नीलादेः अप्रकाशमानबुद्ध्याकारत्वायोगात्कल्पितभिदं दृष्टहानमदृष्ट- कल्पनं च सर्वं प्रत्यक्षविरुद्धमिति भावः । अनुभवस्य विभवालोकादिनीत्या परप्रकाशादि- हेतोः स्वप्रकाशादौ सजातीय नैरपेक्ष्यम् । तत्र श्रुत्यानुमितिसूचनाय स्वमतिविजृम्भित- मित्युक्तम् । किं प्राकट्यं रूपादिवद् दृष्टम् ; उत गुरुत्वादिवत्कल्प्यम् इति हार्दे विकल्पे पूर्वं दूषयति–अनुभूतिरिति । धीरेव विषयस्य प्रकाशः । सा चातन्निष्ठापि भ्रान्त्या विषयस्थेव भाति । वस्तुतः प्रकाशस्य विषयधर्मत्वे यद्यसावप्रत्यक्षः, तदा हि लिङ्गानुपलम्भात् नानुमितिः | अतः प्रत्यक्षत्वेऽङ्गकृते तदुपलम्भः पुरुषविशेषनियतो न स्यादित्यभिप्रायेण रूपादिवदित्युक्तम् । द्वित्वादिवीजन्यतया तेनैव दृश्यत इति चेत्–न; अपेक्षाबुद्धिवेद्याकारविशेषातिरिक्तद्वित्यादिकृप्तौ गौरवात् । यादृश्या बुद्ध्या द्वित्वाद्युत्पत्तिं मन्यसे, तादृश्या तद्व्यवहारः स्यात्; स चातीतादिष्वप्यस्ति ; न च तत्र द्वित्वा- द्युत्पत्तिः ; निराधारधर्म जननायोगात् । अतिरिक्तद्वित्वाद्युत्पत्तिपक्षेऽपि अनन्यथासिद्ध- प्रत्यक्षबलात्प्रकाशप्रतिनियमः ; इह तु न तथा वेद्यगतस्य वित्त्यतिरिक्तस्यानुपलम्भा- दिति भावः । ये तु ‘वर्तमानेष्वतीतादिषु च द्वित्वादिकमेकत्ववत् स्वत एव तत्तद्वस्तु - निष्ठमपेक्षा बुद्ध्या गृह्यते ; न तु जन्यते । इदमेव प्रतिपुरुषम पेक्षा बुद्धिभिरनन्तद्वित्वादि- कल्पनाद्वरम्” इत्याहुः ; तत्पक्षग्रहे च नेदं निदर्शनं शोभते । द्वितीयं निरस्यति उभयेति । कल्पनागौरवभीतैः धियं त्यक्त्वा विषयस्थप्रकाश एव स्वीक्रियतां, धीसामग्र्या च तत्सिद्धिः स्यादिति चोद्यं तु सर्वविरुद्धं चेत्यभिप्रायेण उभयाभ्युपेतत्वोक्तिः । एवकारेण क्लृप्त्युपपत्तीनामन्यथासिद्धिगैौरवं च व्यज्यते । अशेपशब्दः कल्पकत्वेन शङ्कितानां कार्त्स्यमाह ; तत्र सर्वत्र प्राकट्यजनकतया स्वीकृतैव धीरेका हेतुरिति चावधारणाभिप्रायः ।

<१ – १ – १ ) तत्त्वटीका यदि • कल्प्येत विषये प्राकट्यं व्यवहारतः । तद्धेतुत्वेन कल्प्या धीः तत्फलार्थं प्रकल्प्यताम् || ३४४ ॥ यथा तत्रैव तस्यैव प्राकट्यं ते धिया भवेत् । तथा भानादयोऽपि स्युः किमन्तर्गडुकॢप्तितः ॥ ३४५ ॥ प्राकट्यं प्रकटं स्याद्वः परतः स्वत एव वा । आद्येऽनवस्थितिः शेषे बुद्धिरेव तथा न किम् || ३४६ ॥ ५७९. ’ ज्ञातः’ इत्यादिव्यवहारस्तु इष्टद्विष्टादिनयात्कर्मप्रत्ययाधीनः । तद्रहितोऽपि प्रकटो बठ इत्यादिधीकर्मत्वविषयतया तद्युत्पत्तेः स्यात् । ज्ञानकर्मणो घटस्य ’ प्रकाशते ’ इति कर्तृत्वेन व्यवहारोऽपि ’ रोचते, स्वदते’ इत्यादिवद्धातुविशेषायत्तः । अतिरिक्तक्लृप्तौ च गुणक्रियादिषु प्राकट्ये च प्रकटादिव्यवहारो दुर्निर्वहः । एवं भूतभाविषु च । तदुक्तं संवित्सिद्धौ " अतीतेऽनागते चार्थे कथं प्राकट्यसंभवः । न हि धर्मिण्यसत्येव धर्मः संभवमृच्छति ॥ इति । अत्र परोक्तप्रतिबन्दिनिस्तारस्तु– नश्यद्दशाकसंयोगो नानाधारः प्रतीयते । 99 प्रध्वंसस्तु निराधारोऽसदाधार इतीरितः || ३४७ ॥ एतेन " अतीतादौ विषयत्वमात्रं न कर्मत्वम् ; यत्र तु कर्मत्वं तत्र क्रियाजन्य- फलभागित्वमवश्यापेक्षितम् " इति निरस्तम् ; गुणादौ कर्मत्वेऽपि तदसंभवात् । ज्ञानं स्वकर्मणि किंचित्करोति, क्रियात्वादित्यनुमितौ च धात्वर्थमात्रत्वे हेतौ न व्याप्तिः । स्पन्दत्वे त्वसिद्धिः । आहुः न्यायनिष्ठा:- 66 अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया । तद्वैशिष्टयप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ " इति । ननु धीस्वरूपातिरिक्तं तद्विषयत्वमर्थे भाति ; तदनभ्युपगमे विरोधः; तदेव प्राकटयमिति शङ्कायां निगमनव्याजेनोत्तरमाह - अत इति ; त्वदिष्टस्य लिङ्गस्य निष्प्रमाणत्वादित्यर्थः । विषयत्वं च विषयिणमन्तरेण न भायात्; तद्भाने त्वनुमेयं

५८० श्रीभाष्यम् (जिज्ञासाधिकरणम्) नावशिष्यत इत्याशयः । मा भूदनुमेयत्वम् ; मानसप्रत्यक्षत्वं तु स्यात् ; क्षणिकात्म - विशेषगुणत्वात्सुखादिवदिति, तत्राह — नापीति । अनुपलब्धेः कल्पनायोगाच्चेत्युभय- मनुषञ्जनीयम् । न हि स्वस्मिन् वर्तमानं ज्ञानं ज्ञानान्तरसिद्धमिति प्रत्यक्षयामः ; उक्त हेतुरपि क्षणिकत्वात्मधर्मत्वगुणत्वानामस्माभिरनभ्युपगमान्निरस्तः । मानसप्रत्यक्षत्वे च सुखादिवदात्मगुणस्य सतो बुभुत्सितग्राद्यतया तद्ब्रूहणस्यापि तथेत्यनवस्था स्यात् । बुभुत्सितग्राह्यत्वे तु ज्ञाते बुभुत्सा, ततश्चापाततोऽपि तद्वीरित्यन्योन्याश्रयः । तत्रापि सुखादेरिव मानसप्रत्यक्षतयैव ज्ञानस्यापि ज्ञातत्वनियमे बुभुत्सातज्ज्ञानादिपरंपरानुच्छेदः अनियमे तु क्षणिकात्मविशेषगुणत्वं मानसप्रत्यक्षत्वरहिते ज्ञाने वर्तत इत्यनैकान्त्यम् तस्यापि पक्षीकारे बाधः । किंच ज्ञानगोचरज्ञानस्य प्रमितत्वे पूर्वज्ञानमपि निष्प्रमाणकं स्यात् ; ज्ञानस्यासंभवे च ज्ञातृज्ञेयासंभवः । एतेन अवश्यवेद्यत्वानभ्युपगमादिति नैयायिकोक्तं निरस्तम् । कस्यचिज्ज्ञानस्य स्वप्रकाशत्वे तु लाघवात्पूर्वस्यापि तथात्वं ग्राह्यम् । कचि- सामान्यतः स्वपरनिर्वाहकत्वेऽस्मदुक्तं सोढव्यम् । एवं स्वज्ञानस्यानुमेयत्वमानस- प्रत्यक्षत्वयोरयोगात् तदग्रहे च परस्मिन्नपि तथैवेति व्युत्पत्त्याद्यसंभवेनागमस्यापि निर्मूलत्वादन्ततो माध्यमिकवादप्रसङ्गमनिच्छतामस्मत्पक्षः शिष्यत इत्याह- अपि विति । सर्वं साधयन्ती इति हेतुपरम् । नित्यस्य स्वप्रकाशस्य स्वजन्यत्वायोगा- दन्यनिरपेक्षप्रकाशत्वमेव प्रक्रान्तमिह स्पष्टीकृतम् । अयं भावः - धियः स्वकर्मताभावान्न स्वेन स्वप्रकाशनम् । इत्यसत्स्वान्यनिर्वाहसमावेदुस्त्यजत्वतः ॥ ३४८ ॥ धीरस्तीति मता शब्दशब्दे लक्षणलक्षणे । इष्टः स्वपरनिर्वाहः सर्वमित्यादि धीष्वपि ॥ ३४९ ॥ कर्मकर्तृविरोधोऽपि स्वबुद्ध्यादौ न दृश्यते । क्रियाकर्मविरोधश्च वारणीयः क्रियोक्तिवत् ॥ ३५० ॥ अङ्गुल्यमादिदृष्टान्तमात्रमप्यत्र निष्फलम् । दृष्टघदृष्टिविशेषेण सर्ववस्तुव्यवस्थितेः ॥ ३५१ ॥ अस्पृष्टिः स्वात्मनस्तत्र संयोगद्विष्ठताबलात् । दृष्टान्तमात्रभक्तेन दीपादिः किं न दृश्यते || ३५२ ॥

(१ – १ – १ ) तत्त्वटीका अन्तज्योंतिः स्वयंज्योतिरात्मज्योतिरिति श्रुतिः । स्वरसाद्वदति स्वान्यनिरपेक्षप्रकाशताम् । ३५३ ॥ स्वान्यधीतवो दृष्टा मनोधर्मादयस्तथा । स्वयं भिद्यत इत्यादौ संमता कर्मकर्तृता ॥ ३५४ ॥ आत्मानं रक्षतीत्यादिष्वपि द्वैरूप्यमक्षतम् । प्रतिपादिनयस्थाप्या न मुधा बाधमर्हति ॥ ३५५ ॥ यदा विषयमात्रस्य व्याहारस्तत्र वेदितुः । अनुभूयत इत्युक्तिरविवक्षा निवर्तिता ॥ ३५६ ॥ व्यवहारनिवृत्त्या च न प्रकाशनिवर्तनम् । दृष्टेऽप्यव्यवहारस्य प्राचुर्येणोपलम्भतः ॥ ३५७ ॥ ५८२. इति । अत्र सूचितं साधनद्वयं वैशद्याय प्रयुज्यत इत्याह — प्रयोगश्चेति । यद्वा – उक्तप्रकारेण स्वप्रकाशत्वमगत्या ग्राह्यम् ; तत्रानुमानान्तरं चास्तीति भावः । ग्रन्थलाघवाय प्रयोगद्वयमिह् तन्त्रितम् । पिशाचानां तद्भाषयैवोत्तरं देयमिति न्यायात् परमतान्वा - रोहेण बुद्धेरपि प्राकट्यकल्पनयात्र धर्मशब्दः, अन्यथापसिद्धान्तात्, कल्पितधर्मान्तरा- भ्युपगमेन वा तदुक्तिः । इदं च हेतुद्वयं यदि परोक्तकर्मकर्तृविरोधशान्त्यै संभावनार्थं स्यात्, तदा नातीवात्र शोध्यमस्ति । साक्षादनुमानत्वमिच्छतां तु यथाश्रुतेऽनुभूति- त्वादिभिः सिद्धसाध्यत्वात्तत्र तत्र कर्तृव्यभिचाराच्चाभिप्रायक्लृप्तया पूर्वानुमितावेवं प्रयोगो द्रष्टव्यः – अनुभूतिः, परगतस्वजन्यधर्मात्यन्तसजातीयस्वावश्यंभाविधर्मयोगे स्वात्यन्त- सजातीयापेक्षा नियमरहिता, स्वविजातीये स्वानन्तरकालोत्तरकालानुवृत्तिरहितधर्महेतुत्वादिति । स्वस्मिन् स्वजन्यधर्मासिद्धेः परगतत्वोक्तिः स्थानप्रदर्शनार्था ; एकत्वादिभिः सिद्धसाध्यतां वारयितुं जन्यशब्दः अत्यन्तशब्दश्च । अनुभूत्या परत्र जन्यो धर्मः प्राकटयमेव । तस्य स्वान्यमात्रनिष्ठस्य स्वधर्मत्वायोगात् सजातीयोक्तिः । बुद्धिव्यतिरिक्ते बोद्धरि बुद्धिजन्यमुखादिसजातीयानां बुद्धावभावेन बाधं स्वाश्रयस्य रूपित्वाद्यापाद के रूपादौ रूपित्वाद्यभावाद् दृष्टान्तस्य साध्यशून्यतां च परिहर्तुं स्वावश्यंभावित्वोक्तिः । यद्यपि नित्येऽनुभूतिप्राकटयेऽन्वारूढेऽन्यनैरपेक्ष्यमात्रोक्तिः पर्याप्ता; तथापि रूपादौ दृष्टान्ते • ०

५८२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) चाक्षुषत्वस्य स्थूलनिष्ठत्वादिसापेक्षतया साध्यवैकल्यं स्यादिति तन्निरासाय स्वात्यन्त- सजातीयापेक्षारहितेत्युक्तम् । " यथाझेः क्षुद्रा विस्फुलिङ्का व्युच्चरन्ति । एवमेवा स्मादात्मनः सर्वाणि भूतानि " इत्यादिश्रुत्या जीवतज्ज्ञानभेद कल्पना व्यावहारिकव्यवस्थय र परमतनयेनानुमानादिगम्ये गुर्वादिज्ञाने बाधपरिहाराय नियमशब्द: । तद्धि गुरुमते सिद्धान्ते च वर्तमानकाले स्वेन स्वाश्रयाय भाति । यद्वा – परत्र छिन्नत्वाद्यापाद के कुठारादौ द्वैधीभावस्य कदाचिदत्यन्तविजातीयापेक्षत्वेऽपि नियमाभावेनातिचारनिरास इति नियमोक्तिसाफल्यम् । अत्यन्तसाजात्यं चात्र निर्दिष्टाकारेण साम्यम् । हेतौ तु सजातीये द्रव्यान्तरे संयुक्तत्व हेतोर्द्रव्यस्य स्वगत संयुक्तत्वे द्रव्यान्तरापेक्षानियमा तद्व्यावृत्त्यै स्वविजातीयोक्तिः । स्वानन्तरेत्यादिना परस्मिन्पुत्रत्वादिहेतौ पितरि स्वपुत्रत्वे पितृसापेक्षत्वदर्शनात्तस्मिन्ननैकान्त्यं निरस्तम् । पुत्रत्वादिकं हि पित्राद्यनन्तरकाला- दुत्तरत्राप्यनुवर्तते । एवं द्रव्यान्तरच्छिन्नत्वापादके द्रव्यान्तरेण छेयेऽपि द्रव्ये न व्यभिचारः । द्वितीयानुमानेऽपि अनुभूतिरनन्याधीनव्यवहारा इत्युक्ते अन्यनिरपेक्ष- घटादिव्यवहारहेतुतया सिद्धसाध्यतां परिहर्तुं स्वशब्दः । तथापि विवक्षावागादि सापेक्षतया बाधो दृष्टान्ते च साध्यहानिः स्यात् ; अतः स्वात्यन्तसजातीयानपेक्षत्वं विवक्षितम् । नियमग्रहणं च पूर्ववत् । तदिहानुभूतिः स्वात्यन्तसजातीयापेक्षानियम- रहितस्वव्यवहारा इति पक्षसाध्यस्थितिः, हेतुस्तु हेतुत्वादित्येवालम् ; क्वचिदपि व्यभि- चारादृष्टेः । स्वसंबन्धात् – इत्यादिविशेषणत्रयोक्तिस्तु तत्कृतविशेषवैशद्यार्था । एवं नामोक्तमात्मसिद्धौ – 66


सजातीयस्व साध्यार्थनिरपेक्षात्मसिद्धयः । सर्वे पदार्थास्तेनात्मा निरपेक्षात्मसिद्धिकः || ” तच्च इति । अत्र सिद्धिः – व्यवहारयोग्यतारूपः प्रकाशः ; तदुक्तिर्व्यवहारमप्युपलक्षयति ‘उभयत्र पदार्थत्वादित्येव हेतुः । एवं पूर्वानुमानेऽपि पदार्थत्वाद्धेतुत्वादित्यादिमात्रमुपादाये ’ स्वात्यन्तसजातीयापेक्षानियमरहितस्वप्रकाशा’ इति साध्यप्रयोगोऽप्यूह्यः निगमने सूचितम् – अनुभूतिरात्मनः प्रकाशमानत्वेत्यादिना । सजातीय इत्यादौ आत्मनः श्रुतिसिद्धं ज्ञानत्वमवष्टभ्यात्मरूपं ज्ञानं स्वात्यन्तसजातीयापेक्षारहितस्वसिद्धि- कमित्युच्यते । स्वसाध्यनिरपेक्षत्वोक्तिस्तु प्रयोगान्तरार्था । साध्यं व्यवहारानुगुणी CC-0 No Rights Reserved. Digitized by eGangotri(१-१-१) मूलभावप्रकाशिका ५८३


कार्यम्; बोध्यमित्यर्थः । आत्मा स्वबोध्यापेक्षारहितस्वप्रकाशः पदार्थत्वात् इति । एतेन स्वबोध्यमन्तरेणापि भातीत्युक्तं भवति । दृष्टान्तानां त्वचेतनतया बोध्याभावादेव तत्प्रकाशः स्वबोध्यापेक्षारहितः । आस्तामेतत् ; प्रकृते तु सामान्यतो व्याप्तिमाह- य इति । यद्यपि रूपवतामेव चाक्षुषत्वमिति नियमो नास्ति ; तथापि नीरूपं द्रव्यं सर्वमचाक्षुषमिति ; तेन दृष्टान्तमाह-यथेति । अत्र प्रथमेन आदिशब्देन स्पर्शो गृह्यते । द्वितीयेन स्पार्शनत्वं व्यवहारविशेषश्च । रूपादेर्व्यवहारविशेष हेतुत्वं तन्निमित्त- चाक्षुषत्वाद्यापादनेन । एवंविधसामान्यव्याप्तौ केवलव्यतिरेकिविश्रमं केचिदाहुः । पक्षधर्मतालब्धविशेषं वा सूचयन्निगमयति – अन इति । स्वयमेव हेतुः ; बुद्धयन्तर- निरपेक्ष इत्यर्थः । अत्रापि तत्प्रयोगस्तु – अनुभूतिः, अनन्याधीनस्वप्रकाशा, परप्रकाशा- साधारणाभिव्यक्तिहेतुत्वात् ; यन्नोक्तसाध्यं तन्नोक्तहेतुकमिति । एवं व्यवहारेऽप्यूह्यम् । मूलभावप्रकाशिका • अनुभूतिव्यतिरेकेण इति अनुभूतिव्यतिरिक्तो विषयधर्मः प्रकाशः प्रत्यक्ष- योग्यो न वा, न चेल्लिङ्गज्ञानाभावात् नानुमानादयः योग्यश्चेद्रूपादिवदुपलभ्येतान्यैः नन्वपेक्षाबुद्धिजन्यस्य द्वित्वादेर्यथा तदेकपुरुषवेद्यत्वं तद्वत् प्राकटयमितीदमपि तदेक- पुरुषवेद्यकमिति चेत् — न ; द्वित्वादीनां प्रागेव सतां तत्तत्पुरुषीयापेक्षा बुद्धिव्यङ्ग्यत्वमात्र- मेव ; ततश्च यस्य द्वित्वाभिव्यञ्जकमस्ति ; तस्य तदभिव्यक्तिः ; निध्यभिव्यञ्जकसिद्धाञ्जन- वतो निध्यभिव्यक्तिवत् न पुरुषान्तरस्य त्वदभिमतप्राकट्य पुरुषविशेषोत्पादितस्याप्यभि– व्यञ्जकविशेषे नैयत्याभावात् । कुलालोत्पादितघटस्यैव सर्वप्रत्यक्षत्वं दुर्वारम् । भावः । " अतीतेऽनागते चार्थे कथं प्राकट्यसंभवः । न हि धर्मिण्यसत्येव धर्मः संभवमृच्छति ॥ 99 इति संवित्सिद्धयुक्तरीत्यातीतानागतविषये ज्ञानोत्पत्ति संभवेन ज्ञानानुमानाभावप्रसङ्गादिति न त्वनुपलब्धमपि प्राकट्यं ’ ज्ञातो घटः, प्रकटो घटः ’ इति व्यवहारान्यथा- नुपपत्त्यैव कल्प्यत इत्यत्राह – उभयाभ्युपेतेति । यथा ‘इष्टो घटः, द्विष्टो घटः’ इति व्यवहारः, संप्रतिपन्नेच्छाद्वेषादिनान्यथासिद्धो नेष्टत्वद्विष्टत्वरूपधर्म कल्पकः ; तथैव ज्ञात इत्यादिव्यवहारः संप्रतिपन्नज्ञानेनान्यथासिद्धः, न प्राकटयाख्यधर्मान्तरकल्पक इति

५८४ e श्रीभाष्यम् (जिज्ञासाधिकरणम्) ; भावः । एतेन ‘घटः प्रकाशते’ इति घटकर्तृकतया प्रकाशः प्रतीयते ; ‘घटमनुभवति इति घटकर्मकतयान्यकर्तृकतया चानुभवः प्रतीयते एवमेकस्यैव कर्मकर्तृव्यवहारा- नुपपत्त्या कल्प्यत इति निरस्तम् । कारकभेदस्य धातुभेदनिबन्धनत्वेनार्थभेदनिबन्धन- त्वाभावात् । यथा ‘परशुमुद्यम्य वृक्षे निपातयति ’ ’ परशुना वृक्षं छिनत्ति ’ इत्युक्तौ परशोः कर्मकरण येते, वृक्षस्याधिकरणत्त्रकर्मत्वे श्रूयेते, तथापि नार्थमेदः, तथात्रापि द्रष्टव्यम् । यदुक्तम् — घटानुभवदशायां ‘घटोऽनुभूयते ’ इति नानुभवः इति तदनुभवविरोधित्वादुपेक्षणीयमिति भावः । मानसानुव्यवसायग्राह्यत्वं ज्ञानस्य वदतः नैयायिकस्य मतं निरस्यति - नापि ज्ञानान्तर सिद्धेति । ज्ञानान्तरवेद्यत्वपक्षे ज्ञानान्तरा- नुदयदशायाम् ’ अहं जानामि’ न वेति कस्यचित् कदाचित् सन्देहः स्यादिति भावः । अनुभूतिरित्यादिनानुमानद्वयं ग्रन्थलाघवार्थमविभागोक्तम् - - अनुभूतिरनन्या- धीनस्वधर्मा ; स्वसंबन्धादर्थान्तरे तद्धर्महेतुत्वात् । अनुभूतिरनन्याधीनस्वव्यवहारा स्वसंबन्धादर्थान्तरे तद्व्यवहारहेतुत्वादित्येवं विभागः । अनुभूतिः, स्वावश्यंभावि, प्राकट्यजनने सजातीयापेक्षा नियमशून्या, स्वसंबन्धादर्थान्तरे प्राकट्य हेतुत्वात्, यः स्वसंबन्धादर्थान्तरे, यद्धर्महेतु:, सः स्वस्मिन् स्वावश्यंभावितज्जनने सजातीयापेक्षा- नियमशून्यः । एवं द्वितीयमप्यनुमानं यथा तद्देहं तदा मैत्राभाववत् तदा मैत्रवत्तयानुप- लभ्यमानत्वात् । यद्यदा यद्वत्तया नोपलभ्यते, तत्तदा तदभाववदिति सामान्यव्या- प्तिवत् । ननु प्राकटघस्य नावश्यंभावित्वम्, अनुभूतौ परप्रकाशवादिना परेणाभ्युपेतम्, अत्राभ्युपगमे त्वनवस्थाभीत्या स्वप्रकाशत्वस्य वाभ्युपगन्तव्यत्वप्रसङ्गादिति चेत् —न; उत्पन्नज्ञाने संशयाद्यदर्शनेन प्राकट्यं स्वावश्यं मावीत्यभिमानेन ईदृशप्रयोगोपपत्तेः स्वावश्यंभावीति विशेषणदानात् पटादौ घटसंयुक्तत्वमापाततो घटस्य स्वघट संयुक्तत्वे स्वसजातीयघटान्तरापेक्षणात् व्यभिचार इति शङ्का निरस्ता । न हि घटजातीयस्य घटसंयुक्तत्वमवश्यंभावि । ननु स्वसंबन्धादचेतने चेतनसंयुक्तत्वमापादयतश्च तनस्या स्वावश्यंभाविचेतनसंयुक्तत्वे सजातीयसापेक्षत्वदर्शनात्, व्यभिचारस्तदवस्थ एव; तथा चेतननियाम्यत्वमचेतने आपादयतश्चेतनस्य स्वनियाम्यत्वे चेतनान्तरापेक्षणाव्यभिचारः । न चावश्यंभाविपदेनैव तन्निरास इति वाच्यम्, परमात्मनोऽपि भक्तनियाम्यत्वात् । दृष्टान्ते रूपादावपि चाक्षुषत्वं नावश्यंभावीति वक्तुं शक्यत्वात् । अनुभूतेरपि प्राकट ।

( १ – १ – १) श्रुतप्रकाशिका · मूलभावप्रकाशिका ५८५ नावश्यंभावीति वक्तुमशक्यत्वाच्च । तस्मादप्रतिष्ठितमनुमानमिति चेत्, अत्र केचित् - यत् स्वव्यतिरिक्ते सर्वस्मिन् यद्व्यवहारे प्रवृत्तिनिमित्तं तत्स्वस्मिन् तद्व्यवहारे नेतरापेक्षमिति पर्यवसितोऽर्थः । ततश्चानुभूतिव्यतिरिक्ते सर्वत्र ’ अनुभूयते, प्रकाशते’ इति व्यवहारे प्रवृत्तिनिमित्तभूतानुभूतिः स्वस्याम् ’ अनुभूयते, प्रकाशते’ इति व्यवहारे नेतरापेक्षा । सत्तावदिति सत्तास्थानीयानुभूतिरेकेत्यभिमानोदाहरणीयमिति न्यायेनोदाहरणान्तरासं- भवादिति वदन्ति । श्रीभाष्यम् सेयं स्वयंप्रकाशानुभूतिर्नित्या च प्रागभावाद्यभावात् । तदभावश्च स्वतः सिद्धत्वादेव । न ह्यनुभूतेः स्वत: सिद्धायाः प्रागभावः स्वतोऽन्यतो वावगन्तुं शक्यते । अनुभूतिः स्वाभावमवगमयन्ती सती तावन्नावगमयति ; तस्याः सत्त्वे विरोधादेव तदभावो नास्तीति कथं सा स्वाभावमवगमयति । एवमसत्यपि नावगमयति ; अनुभूतिः स्वयमसती स्वाभावे कथं प्रमाणं भवेत् ? नाप्यन्यतोऽवगन्तुं शक्यते ; अनुभूतेरनन्यगोचरत्वात् । अस्याः प्रागभावं साधयत्प्रमाणमनुभूति- रियमिति विषयीकृत्य तदभावं साधयेत् । स्वतः सिद्धत्वेनेयमिति विषयीकारानर्हत्वात् न तत्प्रागभावोऽन्यतः शक्यावगमः । अतोऽस्याः प्रागभावाभावादुत्पत्तिर्न शक्यते वक्तुमिति, उत्पत्तिप्रतिसंबद्धा- चान्येऽपि भावविकाराः तस्या न सन्ति । श्रुतप्रकाशिका अथ ज्ञातृज्ञेयनिरसनं, ज्ञानस्वयंप्रकाशत्वं च बौद्धपक्षेऽपि समानमिति तव्यावर्तकं ज्ञानस्य नित्यत्वं साधयति — सेयमिति ; सेयं परमार्थभूतसन्मात्रैक्या प्रमाणाविषयभूता चेत्यर्थः । यद्वा स्वयंप्रकाशत्व हेतुभूतधर्मवत्तया प्रसिद्धेत्यर्थः । स्वयंप्रकाशत्वस्य नित्यता हेतुत्वविवक्षया स्वयंप्रकाशेत्युक्तम् । चः साध्यसमुच्चये, सौगतसाम्यशङ्कानिवृत्तौ वा । कुत 74

५८६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) इत्यत्राह - प्रागभावादीति । स च कथमिति शङ्कायां ग्राहकाभावादित्यभिप्रायेणाह - तदभावश्चेति । स्वतः सिद्धत्वेन प्रागभावाद्यभावं विकल्पमुखेन प्रतिपिपादयिषुर्विकल्प- शिरोद्वयेऽनुपपत्तिं प्रतिजानीते - न हीति । स्वतः पक्षे, अनुभूतिः किं सती स्वाभाव- मवगमयति ? उतासतीति विकल्पमभिप्रेत्य सत्त्वपक्षं दूषयति — अनुभूतिरिति । कुत इत्यत्राह – तस्याः इति ; ग्राह्याभावादित्यर्थः । अनुभूतिः किमनुमित्यादिरूपा स्वाभा वमवगमयति, उत प्रत्यक्षरूपेति विकल्पे लिङ्गाद्यभावात् प्रथमः कल्पो न संभवतीत्यभि- प्रेत्य, द्वितीयकल्पो ग्राह्याभावात् दूषितः । पूर्वाभिप्रेतविकल्प शिरसोरसत्त्वपक्षं ग्राहकाभावेन दूषयति - एवमिति । पूर्वतराभिहितयोर्विकल्पशिरसोरन्यत इति पक्षं दूषयति- नापीति । अनुभूतिरनन्यगोचरा स्यात्, ततः किमभावाग्रहणस्य, अभावो ह्यन्यगोचरत्वमर्हतीत्यत्राह - अस्या इति । अस्याः न ह्यन्यस्य प्रागभावो ग्राह्यः, अपि त्वनुभूतेरेव । तस्मात् तां विषयीकृत्यैव तदभावो ग्राह्यः । तस्या विषयीभावानर्हत्वात्, न तत्प्रागभावग्रहणं शक्यमित्यर्थः । एवं प्रागभावाभावादुत्पत्त्यभावः, ततश्च परिणामादि- सर्वविकारान्तराभावमप्युपपादयति – अतोऽस्या इति ; अतः स्वतः परतः पक्षयोरुभयो- रप्यभावस्य दुर्ग्रहत्वादित्यर्थः । विकारमात्रविरहे साध्येऽनुत्पन्नत्वम्, अन्तवति प्राग- भावेऽनैकान्तिकं स्यात्, अतो भावरूपविकारविरहस्य साध्यत्वज्ञापनाय भावशब्दः । यद्वा, भावस्य विकार इति षष्ठी समासः, ततश्च भावाभावरूपविकारमात्रविरहे साध्ये प्रागभावे व्यभिचारशङ्कानिवारणार्थं, भावत्त्वे सत्यनुत्पन्नत्वं विकारान्तराभावे प्रयोजकमिति फलितम् । अनुभूतिर्नान्तवती, भावरूपत्वे सत्त्यनुत्पन्नत्वात् यदन्तवत् तद्भावरूपत्वे सत्यनुत्पन्नं न भवति यथा घट इति । भावप्रकाशिका सेयं स्वयंप्रकाशानुभूतिरित्यत्र तच्छब्देन सैव सतीत्युक्तम्, सदैक्यं परामृश्यते, इदंशब्देन प्राकट्यानुमाननिराकरणसिद्धं प्रमाणान्तराविषयत्वं परामृश्यत इति व्याचष्टे - सेयमिति । सदैक्यपरामर्शस्य वक्ष्यमाणानुपयुक्तत्वादन्यथा व्याचष्टे - यद्वा स्वयंप्रका- शत्वेति । द्वितीयः कल्पो ग्राह्याभावादषित इति ; अनुमित्यादौ ग्राह्यस्याकारणत्वेन तदभावेन दूषणासंभवादिति भावः । अतो भावरूपविकारेति ; नाशस्तु न भावरूपो- विकारः तस्याभावरूपत्वादिति भावः । ननु भावरूपविकारराहित्ये साध्येऽनुभूतेर्नाशराहित्यं

(१–१–१) नयप्रकाशिका ५८७.

  • न सिध्यतीत्यखरसादाह - यद्वा भावस्य विकार इतीति । भावत्वे सत्यनुत्पन्नत्वं विकारान्तराभावे प्रयोजकमिति फलितमिति ; यद्यप्युत्पत्त्यभावात् भावस्य विकारा न सन्तीत्युक्तेऽनुत्पन्नत्वं भावसंबन्धिविकारित्वस्याभावे प्रयोजकमित्येव सिध्यति । न तु भावत्वस्यानुत्पन्नत्वविशेषणत्वं तावतापि प्रागभावे व्यभिचारवारणासंभवांच्च, प्रागभावस्या- भावरूपतया भावसंबन्धिविकाराभावात् तथापि भावविकारित्वाभावस्य विशिष्टाभावस्य विकारित्वरूपविशेष्याभावपर्यवसानार्थं भावत्वे सत्यनुत्पन्नत्वादित्यनुमानान्तरमावश्यकमि- त्यभिप्रेत्यैतदुक्तमिति ध्येयम् । सोपि श्रुतप्रदीपिका अथ सौगतसाम्यव्युदासाय नित्यत्वमाह — सेयमिति । हेतुमाह – प्रागिति । कुत इत्यत्राह तदिति । कथं स्वसिद्धत्वे तदभाव इत्यत्राह - न हीति । स्वतः पक्षे सती वासती वेति विकल्पं मत्वा ग्राह्याभावात् प्रथमं दूषयति — अनुभूतिरित्या- दिना । द्वितीयं ग्राहकाभावात् दूषयति - एवमित्यादिना । अन्यतः पक्षं दूषयति- नापीति । अनन्यगोचरत्वे कथं तदभावानवगम इत्यत्राह – अस्या इति । न हि घटस्याभावः साध्यत इति भावः । ततः किमित्यत्राह – स्वत इति । प्रागभावाभावा- जन्मतत्प्रयुक्तविकारान्तराभावमाह – अत इति । अतः स्वतः परतः पक्षयोरुक्तदोषाद्वि- कारान्तराभावे साध्ये, अजत्वं व्यतिरेकिहेतुः घटो दृष्टान्तः । I नय प्रकाशिका वाचारम्भणमित्यादौ कारणस्यैव सत्यताप्रतीतेश्च । न स्थानतोऽपीत्यत्र उपा- धिनोभयलिङ्गत्वमिति वक्ष्यते । मायामात्रमित्यत्र ब्रह्मणः स्वयंज्योतिष्टुं प्रसाध्यते । ननु तत्र स्वप्नदृष्टेः जीवस्यावशप्रवृत्तता साध्यत इति चेत् — न; जीवाविद्याप्रभवत्व- साधनेन जीवस्य स्वयंज्योतिष्टस्य फलितत्वादैक्यश्रुतेः ब्रह्मातिरिक्ता चाविद्या तस्यामिथ्या- त्वमिति तत्सूत्रेणैव सिद्धम् । प्रत्यस्तमितभेदमित्यनेन निरस्तभेदं सन्मात्रं स्वयंप्रकाश ज्ञप्ति - मात्रं ब्रह्मेत्युच्यते । ज्ञानस्वरूपमित्यनेनापि परमार्थतो ज्ञानमात्रस्वरूपमेव ब्रह्मव्योमा दिव्यक्त- पदार्थरूपेण द्रष्टृजीवभ्रान्त्या विवृत्तमित्युच्यते । परमार्थस्त्वमेवैक इत्यादिचतुः श्लोक्यासपि ब्रह्मण एव सत्यज्ञानमात्रस्वरूपत्वमन्यस्य भ्रान्तत्वं चोच्यते । तस्यात्मेति श्लोकेऽपि तथा । यद्यन्ये इत्यत्रापि आत्मभेदो निरस्यते । वेणुरन्ध्रेत्यत्र च तद्भेदस्योपाधिकत्वमुच्यते । CC-0 No Rights Reserved. Digitized by eGangotri५८८ श्रीभाष्यम् 66 66 (जिज्ञासाधिकरणम् ) 19 " नास- सोहमित्यत्राप्यात्मद्वैताद्वैतयोर्भ्रान्तत्वाश्रान्तत्वे । विभेदजनक इत्यत्रापि जीवब्रह्मणो- रभेदः । अहमात्मेत्यादावपि ब्रह्मण एवात्मत्वमुच्यते । एवं वस्तूपदेशपर शास्त्रैर्निर्विशेष- ज्ञप्तिमात्रस्य ब्रह्मण एव परमार्थत्वम् । अन्यस्य कृत्स्नस्य मिथ्यात्वं चावगम्यते । मिथ्यात्वं नाम प्रतीयमानस्याधिष्ठानयाथात्म्यज्ञानेन बाध्यत्वं, रज्ज्वादौ सर्पादेखि । दोषाद्धि- चित्त्वरूपे ब्रह्मणि मिथ्यार्थाध्यारोपः । दोषश्चानाद्यविद्यानृतमायादिशब्दवाच्यः । सत्वे - नासत्वेन वा निर्वक्तुमशक्यस्वभावः । तत्सिद्धिश्च अनृतेन हि प्रत्यूढाः इत्यादि- श्रुतिभिः मायाशब्दश्चाविद्या पर्यायत्वेन प्रसिद्धः । " तरत्यविद्यां विततां हृदि यमि- न्निवेशिते, तस्मै मायाम्” इत्यादौ मायाविद्ययोः सामानाधिकरण्यप्रतीतेः । दासीत् ” इत्यादौ च तस्यानिर्वाच्यता । नन्वविद्यया मिथ्यात्वदर्शनमिति के नावगम्यत इति चेत् — तच्छ्रुतिभिरेवेति ब्रूमः । “ मायाभिः पुरुरूप ईयते " इति हि श्रूयते । किंच दोषव्यतिरेकेण भ्रान्तिज्ञानानुपपत्त्यापि च तत्सिद्धिः । तथा ज्ञानस्वरूप इत्यादिभिरपि दशश्लोक्या हि जगतो विष्ण्वैक्यपरत्वमेव । तत्र भूताति विष्णुः " इति लोकेन विष्णोर्जगद्रूपत्वेऽभिहिते, कथम् निरंशस्यानेकरूपत्वम् ? इत्याशङ्कय स्वप्न इव स्वरूपापरि- त्यागेनैव माययानेकरूपत्वापत्तेः । काल्पनिका नेकरूपत्वसंभव इत्युच्यते । ज्ञानस्वरूप इति ; चिदचिदात्मकत्वमत्यजन्नेवाशेषमूर्तिः न तु वस्तुभूतः, ज्ञानस्वरूपं त्यक्त्वा तत्तज्जड- वस्तुरूपेण विकृतः । अतः शैलादिभेदाः विज्ञानभेदेन कल्पिता इति । ननु बाधाभावेऽपि जगतः कथं कल्पितत्वमित्यत्राह - यदा त्विति ; यदाधिष्ठानभूतं ज्ञानं पापक्षये वाक्यार्थज्ञानेनापास्ताविद्यादिदोषं शुद्धं निजरूपि, आत्मखरूपेण स्फुरति, तदा घटादिवस्तुषु ये वस्तुभेदाः चिदात्मवस्तुप्रतियोगिकाः घटादिवस्त्वन्तरप्रतियोगिकाश्च भेदा न भवन्ति न दृश्यन्ते । स्वाम्नपदार्थानां प्रबोध इव । अतः सङ्कल्पतरोः फलानि ; कल्पितान्येवेत्यर्थः । उक्तो जगतः श्रौतो बाधः । अतः परं यौक्तिकं बाधं दर्शयति– वस्त्वस्तीति ; कुत्र देशे काले वा जन्माद्यवस्थाहीनं सदैकरूपं वस्तु किमस्ति ? न क्वापि किमपीत्यर्थः । अतः सर्वं दृश्यं जन्मादिमत्वात् कल्पितम् । देशकालादि च कल्पितमेवेत्यर्थः । अथानेकरूपस्य मिथ्यात्वं कुत इत्यत्राह – यच्चेति ; यत् मृत्पिण्डा- दिकम् अन्यथात्वं घटादिप्रकारं भूयः कालान्तरे तन्मृत्पिण्डाद्येव न स्यात्, रूपान्तरापन्न- त्वात् तस्य हि प्राक्प्रतीतरूपरहितस्य शुक्तिरूपस्यैवापरमार्थत्वमेवेत्यर्थः । तदन्यथात्वमेव ;

(१– १ – १) नयप्रकाशिका


; ५८९ दर्शयति - महीति ; मही पिण्डघटकपालादिपरंपरया परिणामेनावस्थापन्ना लक्ष्यते । आत्मीय शुद्धकर्मप्रतिबद्धात्मयाथात्म्यज्ञानैः भ्रान्तैरेव परमाण्वादिकारणं भिन्नं जगदा- लक्ष्यते । विचार्यमाणे तु, अत्र किं वस्तु न किमपीत्यर्थः । तस्मात् मह्याद्यवस्थाप्रकाशकं विज्ञानमेकं मुक्त्वा न किंचिद्वस्त्वस्ति । अतः तस्मिन् सर्वमिदं कल्पितमित्युक्तार्थं निग- मयति - तस्मादिति । ननु विषयेन्द्रियसंयोगजस्य क्षणिकस्य मृदादिज्ञानस्य कथं स्थायि - मृदाद्यधिष्ठानत्वमित्याशङ्कय धीवृत्तिरूपज्ञानस्य तथात्वेऽपि तत्प्रकाशकज्ञप्तेरेवात्मत्वात्तद्वैलक्ष- ण्यमित्याह – ज्ञानमिति ; अशुद्धादिप्रत्यनीकमशेष लोभादिदोषैः सदाभिभूतया मायया च नित्यमसक्तं वस्तुत एकमवस्थान्तररहितं ज्ञानमेव वासुदेवः, ज्ञानव्यतिरिक्तवस्त्वभावादि- त्यर्थः । परमः ; निरतिशयानन्दस्वरूपत्वादत्युत्कृष्टः । परेशः ; अविद्यानियमने स्वतन्त्रः । सद्भाव इत्युक्तं संगृह्णाति - सद्भावेति । ननु ज्ञानेतरस्यासत्वे घटादिप्रत्यक्षप्रतीतेः यागस्व- र्गादिपरश्रुतेश्च का गतिरित्याशङ्क्याह — एतत्त्विति संव्यवहारभूतं व्यावहारिक सत्यत्वं न पारमार्थिकसत्यत्वमित्यर्थः । अथ तर्हि भूरादेर्वर्णनं किमर्थमित्याशङ्क्य कर्मनिमित्त- देशभ्रमणप्रदर्शनद्वारा वैराग्योत्पादनार्थं, न तु तत्सत्यत्वार्थम् । अतः एवंविधवस्तुज्ञानं कार्यात् ज्ञानसाधनश्रवणकार्यादित्याह – यच्चेति ; अतः निर्विशेषं चिन्मात्रस्वरूपमे ब्रह्म, अविद्यादोषवशान्मिथ्यार्थदर्शि ब्रह्मव्यतिरिक्तं मिथ्येति च शास्त्रैः स्फुटतरं प्रतीयते । बन्धस्य ज्ञानबाध्यत्वश्रुत्यन्यथानुपपत्त्या च मिथ्यात्वसिद्धिः । अविद्याया एव हि विद्यया निवृत्त्युपपत्तिः । विद्या च वाक्यात् । ब्रह्मैकत्वविज्ञानाच्च " अथ योन्यां देवतामु- पास्त” इत्यादि श्रुतिभिः " न सवेद" इति पृथक्त्वज्ञान निन्दापूर्वक मैक्यज्ञानस्यैव विधीयमानत्वात् । “ तत्त्वमसि ” इत्याद्युपदेशेपि तथैव विधिः । “अहं वै त्वमसि इत्यनुसन्धानानुकारिणीषु श्रुतिष्वपि तथा, आत्मेत्यन्यत्र सूत्रकारैरपि तदैक्यज्ञानमेव प्रसाध्यते । आत्मेत्येवादिवाक्यकारोक्तैरैक्यज्ञानस्यैव सांप्रदायिकत्वं नान्यस्येति धीः । तादृशज्ञाना- देवाविद्यानिवृत्तिरिति च “ न पुनर्मृत्यवे तदेकम् ” इत्यादिश्रुतिसिद्धा । ननु मृत्युतरणो- पायत्वं ज्ञानस्य तत्र प्रतीयते । न त्वविद्यानिवृत्त्युपायत्वमिति चेत् — न ; अत्र मृत्यु - शब्दस्याविद्या परत्वात् । महाभारते सनत्सुजातीये प्रमादस्यैव मृत्युत्वाभिधानात् । अनवधानं चाविद्या, तज्ज्ञानादेव तन्निवृत्तिरिति, “यदा ह्येवैष" इत्यादिश्रुतावपि भेद- ज्ञानस्य भयहेतुत्वप्रतीतेः । अनन्तरवाक्यादैक्यज्ञानस्याभयप्राप्तिहेतुत्वप्रतीतेश्च अभयप्रा- " 99 । ।

५९० श्रीभाष्यम् (जिज्ञासाधिकरणम्) तिरप्यविद्यानिवृत्तिरेव । " भिद्यते हृदयग्रन्थिः" इत्यत्रापि परावररूपब्रह्मदर्शनात् संसार- 66 निवृत्तिधीः । दर्शनं च ज्ञानमेव । ब्रह्म वेद ” इत्यत्रापि ब्रह्मवेदनात् ब्रह्मभावाभि- धानात् । अविद्यानिवृत्तिरेवार्थत उक्ता । अन्यस्यान्यभावानुपपत्तेः । जीवपरयोरैक्यं च सिद्धम् " तमेवं विद्वान्" इत्यादिश्रुतावात्मज्ञानव्यतिरिक्तस्य तन्निवृत्तावनुपायत्वधीः ब्रह्मस्वरूपावगतिश्च जन्मादिवाक्यैः कारणतयोपलक्षितस्य सत्यज्ञानादिशोधकवाक्यैः । अत एवंविधब्रह्मज्ञानात् नानाकारवत्प्रतीयमानप्रपञ्चरूपमिथ्यार्थस्य सकारणस्य बाधः शास्त्रसिद्धः । ननु शास्त्रस्य प्रत्यक्षविरोधे तु न प्रामाण्यम् । अतः शास्त्रज्ञानान्न प्रत्यक्ष- सिद्धभेदस्य निवृत्त्युपपत्तिः । न च प्रत्यक्षयोरेव रज्जुसर्पादौ बाध्यबाधकता दृश्यत इति वाच्यम्, तयोस्तुल्यबलत्वात् । शास्त्रस्य स्वमूलप्रत्यक्षविरोधे तु न प्रामाण्यम् । शास्त्रस्य व्युत्पत्तिसहकारिसहितस्यैवार्थप्रत्यायकत्वम् व्युत्पत्तिश्चानुमानात् व्याप्तिग्रहणसापे- क्षात्, व्याप्तिप्रहणं च प्रत्यक्षादिति तस्य प्रत्यक्षमूलत्वमिति चेत् — न ; बाध्यबाधकभावस्य तुल्यत्वसापेक्षत्वादेरप्रयोजकत्वात् । किंतु दुष्टकारणजन्यत्वाजन्यत्वयोरेव प्रयोजकत्वात् । अत एव ह्यनुमानस्य प्रत्यक्षमूलत्वेऽपि ज्वालैक्यप्रत्यक्षस्य तद्भेदानुमानवाध्यत्वम् । अतः प्रत्यक्षस्य सविषयस्य भेद वासनादोषमूलत्वेनान्यथासिद्धत्वात् । नित्यत्वेनासंभाव्यमान- दोषानन्यथासिद्ध निरवकाशशास्त्रजन्यज्ञानेन बाध्यत्वं युक्तम् । न च वासनातः भेदधीः तद्धेतोर्वासना इत्यन्योन्याश्रयदोष इति वाच्यम्, तत्प्रवाहयोर्बीजाङ्कुरवदनादित्वात् । एवमद्वैतशास्त्रस्यं निरवकाशत्वात् कर्मसगुणविद्या परशास्त्राणां तेन बाध्यत्वम् । अत उपदे- शपरवाक्येषु सर्वज्ञत्यादिश्रवणेपि गुणतदभावयोरेकत्र समावेशायोगादन्यतरश्रुतिबाधस्यावश्या- भ्युपगमनीयत्वे निषेधश्रुतेर्निषेध्यगुणभेदादिसापेक्षत्वान्निर्गुणशास्त्रस्य परत्वात्प्राबल्यम्, अप- च्छेदनयात् । अत्र हि पूर्वशास्त्रस्य परशास्त्रेण बाधः उक्तः । तच्च पौर्वापर्ये पूर्वदौर्बल्यं प्रकृ- तिवत् । " यद्युगातापच्छिद्येतादक्षिणो यज्ञः संस्थाप्यः, अथान्य आहर्तव्यः तत्र दद्यात् ; यत्पूर्वस्मिन् दास्यं स्यात् यदि प्रतिहर्ताच्छिद्येत सर्ववेदसं दद्यात् ” इति श्रूयते सदक्षिणा दक्षिणनिमित्तद्वयस्यैकक्रमेण संभवे विरुद्धत्वेनान्यतरशास्त्रार्थस्य विकल्पनानुष्ठानेऽन्यतर- स्यार्थात् बाधसिद्धौ कस्य बाध इति चिन्त्यते । किं पूर्वोत्पन्नस्य नैमित्तिकशास्त्रस्य बाधः । उतोत्तरस्येति । असञ्जातविरोधित्वेन पूर्वस्य प्राबल्यात्, उत्तरस्य बाधः इति पूर्वः पक्षः । पूर्वशास्त्रबाधेनैवोत्तरस्योत्पत्तेः । तस्यैव प्राबल्यात् । पूर्वशास्त्रबाध एवेति राद्धान्तः । प्रत्य-

  • (१ – १ – १) नयप्रकाशिका । ५९१. क्षादिविरोधपरिहारः एवं वास्तु सर्वाद्वैतादिश्रुतेः न प्रत्यक्षादिबाधः, तयोर्भिन्नविषयत्वेन विरोधाभावात् । प्रत्यक्षादिस्तु घटपटादिभेदे नियत एवोत्पद्यते । न तु सर्वभेदविषयता कस्यापि प्रत्यक्षस्य । येनैकविषयत्वेन विरोधः स्यात् । अतः प्रत्यक्षादेरल्पविषयस्य न तच्छ्रुतिबाधकत्वम्, बाधकत्वेऽप्यग्नीषोमीयालम्भनप्रमाणस्य “न हिं स्यात् ” इति शास्त्रबाधकत्ववत्, स्वविषयमात्रप्रमायाः विपरीतज्ञानबाधकत्वमेव । अन्यथा अति- प्रसङ्गात् । बाध्यबाधकधियोर द्वैतप्रतिपादने तु न विरोधः । प्रत्यक्षधियः स्वस्याः शास्त्र- ज्ञानस्य च भेदाविषयत्वात् । एवमैक्ये च न बाधकता । आत्मन एव बाधापत्तेः । एवं तंद्धियः सर्वाद्वैतबुद्धयैक्ये च तद्धीविषयभेदाश्रयवटपटादेरपि तदैक्यं सिद्धम् । तत्र बाध्यमानत्वात् । घटपटौ भिन्नाविति तद्भेदविषया हि तद्धीः । नन्वहं घटात्पटाच भिन्नः मत्तो वा तौ भिन्नाविति धियः स्वयंप्रकाशत्वमपि स्वमात्रसाक्ष्येव, न तु प्रकाशा- न्तरम् । प्रकाशप्रकाश्यभेदेऽपि तस्यापि प्रकाशान्तर्भावे सुतरामद्वैतसिद्धिः । घटपटादे:- तदैक्ये च तद्धर्मभेदादपि तदैक्यं सिद्धम् । एवं तद्बुद्धेः घटपटात्मतयैव श्रुत्या व्यवस्था- प्यमानत्वात् । नात्मनः स्वस्मादेव भेदे प्रामाण्यमिति तयैतद्बुद्धौ च घटपटयोर्भेदे प्रमाण- त्वाभाव आपादितः । ननु भेदप्रतीत्यन्यथानुपपत्त्या भेदः सिध्यतीति चेत् — न ; अद्वैतश्रुत्या तस्याः सन्दिग्धत्वेन प्रमाणत्वासिद्धेः । भेदप्रतीतिस्तु द्विचन्द्रज्ञानादि- वदन्यथाप्युपपन्ना । ननु घटपटोल्लेखिप्रत्यक्षव्यक्त्या स्वात्मना सह पटादेर्विषयत्वाभावेपि बुद्धघन्तरेण तया सार्धं पटादिभेदमुल्लिखतां तेषां भेदविषयत्वापादनात् तत्राद्वैतश्रुतेः बाधइति चेत्, तर्हि तस्यापि विषयमापाततस्त्यक्त्वा घटपटतत्सम्बन्धिभेदविषयाया अप- रत्या एव बुद्धेः तच्छ्रुत्यैव तदैक्यमापाद्य पूर्ववत्सर्वस्याप्यैक्यमापाद्यत इति ब्रूमः । एवं द्वितीयबुद्धया सह बुध्यन्तरेण विषयधीकारेप्यूहनीयम् । एवं प्रवृत्तोऽत्रैवानवस्थाभयात् बाधबुद्धिपरंपराविच्छेदः । तत्र तद्बुद्धिद्वारा तत्सर्वं तद्विषयप्रवाहान्तश्रुतिः अद्वितीये स्थाप- यति । तदुक्तम् - 66 सुदूरवावनश्रान्ता बाधबुद्धिपरंपरा । निवृत्तावद्वयाम्नायैः पाणिग्राहैर्विजीयते ॥ " इति । एवं स्वतः प्रमाणाद्वितीयश्रुतेः सर्वेक्यप्रतिपादने काचिन्नक्षतिः । ननु शोधकवाक्ये वेव सत्यज्ञानादिगुणश्रवणात् ब्रह्मणः सगुणत्वप्रतीतेः नाद्वैतसिद्धिरिति चेत् न ; ,,

५९२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) “ सत्यं ज्ञानम्’ इत्यादिपदानां सामानाधिकरण्येनैकार्थ्य परत्वात् । न च तद्गुणविशिष्ट ब्रह्म- परत्वेप्येकार्थपरत्वोपपत्तिः । उभयपरत्वेन भेदापत्तेः । न च स्वरूपमात्रैक्यपरत्वे पदानां पर्यायतेति वाच्यम्, एकार्थपरत्वेऽपि व्यावर्त्यर्थिभेदेनापर्यायत्वात् । " यतो वा इमानि भूतानि ” इत्यादि वाक्यैः सजातीयादिभेदव्यावृत्तत्वेन कारणत्वेनोपलक्षितत्वस्य ब्रह्मगोड- वगम्यमानत्वात् तदविरोधेनैव तल्लक्षणाभिधायकसत्यादिपदानामप्यर्थो युक्त इति स्वरूपमात्रैक्यपरत्वाभानादेवापर्यायता वाच्या, सा च सत्यादिपदैः ब्रह्मणि मिथ्या- त्व जडत्वदुःखित्वभ्रान्तीनां निवृत्तिमुखेन ब्रह्मपरत्वात्सिद्धा । न च प्रतिपदं जायमान- विज्ञानानां स्वस्वाकारसमर्पणानान्तरीयकतयापि विरोधिरूपव्यावर्तकत्वोपपत्तेः तेषामु- भयप्रयोजनतास्त्विति वाच्यम्, ‘ब्रह्मविदाप्नोति’ इत्युप क्रमश्रयमाणत्रह्मशब्दार्थमात्रस्य वुभुत्सितत्वात् तत्समर्पणेनार्थवत्त्वेन वाक्यस्यार्थान्तरकल्पनायोगात् । ब्रह्मण: गुणसद्भावे वस्तुपरिच्छेदादनन्तरत्वहानेरनन्तत्वप्रतिपादकश्रुतिविरोधः । तथैक्यश्रुतीनामपि । तस्मात् पदत्रयेण निर्विशेषस्वयंज्योतिः ब्रह्मेत्यर्थात् प्रतिपादितम् । अन्यथा " विज्ञान- घनः " इत्येकरसत्वप्रतिपादकश्रुतिविरोधः । ननु ब्रह्मणः स्वयंप्रकाशत्वेन न शास्त्र- वेद्यत्वमिति चेत्–न; अनिर्वचनीयानाद्यविद्यापरिणति तिरोहितमात्रस्यैवावगम्य- मानत्वात् । न च ब्रह्म स्वयंप्रकाशमानमपि स्वात्मनि संवेद्य गुणानवभासयतीति वाच्यम्, तेषां तत्प्रकाशस्य च नित्यत्वेऽन्यवेद्यत्वासिद्धेः । अनित्यत्वे च तेषां विषयेन्द्रियसाध्यत्वा- द्ब्रह्मणोऽपि संसारित्वम् । न च तत्पदानां स्वर्थिप्रहाणालक्षणा स्यादिति वाच्यम्, सामानाधिकरण्यस्याद्वैततात्पर्यानुरोधात् अत्र लक्षणाया एव स्वीकार्यत्वात् । अन्यथा सत्यादिपदानामनन्वयप्रसङ्गोऽनेकश्रुतिविरोधो युक्तिविरोधश्च । ननु संबन्धानुपपतिर्हि लक्षणाबीजं, ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् ब्रह्मणः सर्वप्रकारसंबन्धाभावाच्च न लक्षगो- पपत्तिरिति चेत्–न; प्रातिभासिकदृश्यप्रपञ्चस्य यथाप्रतिभासं व्यवहारालम्बनत्वा- भ्युपगमात्, सर्वव्यवहारोपपत्तेः । ब्रह्मणः परमार्थतोऽसंगतत्वेऽपि विज्ञानोदय ार्य- न्तं प्रातिभासिकसंबन्धानिरास करणादनिर्वचनीयेनापि गुणसामान्यादिना परमार्थब्रह्म- लक्षणा चोपपन्ना । मिथ्याभूतरजतेन शुक्तेरिव । ननु प्रमाणान्तरसिद्धस्यैव लोके लक्ष्यत्वदर्शनात् तत्र सर्वपदानां लक्षणयैव प्रवृत्तौ प्रमाणान्तरासंभवात् लक्षणानुप- पत्तिरिति चेत्–न; तस्य स्वयंप्रकाशत्वेन प्रमाणान्तरानपेक्षत्वात् । स्वतः परतो ( १ – १ – १) नयप्रकाशिका ५९३. वां लक्ष्यस्य प्रतिभासमानत्वमेव हि लक्षणायाः प्रयोजकत्वम्, न तु प्रमाणान्तर- गम्यत्वम् । ननु वाक्यार्थे पदानामनन्विताभिधानानुपपत्त्या हि कतिपयपदानां वाच्यार्था- न्वयविरोधे लक्षणा ; सकलपदलक्षणोपादाने तु किं कस्य लक्षणामा क्षिपतीति चेत्, उच्यते—–नानन्विताभिधानानुपपत्तिर्मुख्यार्थानुपपत्तौ लक्षणाक्षेत्री, किंतु वाक्यप्रमाणा- नुपपत्तिः । ततश्च यत्र वाक्यार्थे न विधिमुखेन किंचिदर्थावबोधः, तस्यान्विताभिधान- मुखेनावबोधकत्वादन्विताभिधानानुपपत्तिरेव लक्षणाक्षेप्ती । यत्र तु तदारोपनिवृत्तिमात्रमु- खेनार्थबोधकत्वं तत्र निवृत्तिमुखेनैव तस्य प्रामाण्यात्, सकलपदलक्षणामन्तरेण तदनुपपत्ते- र्वाक्यप्रामाण्यस्यैवानुपपद्यमानस्य लक्षणाक्षेपकत्वम् । अतः सत्यादिपदान्यसत्यादिसामा- न्यविशेषप्रतिषेधमुखेन तदेवैकरसं ब्रह्म लक्षयन्ति । " तत्त्वमसि " वाक्येन च तत्पदवाच्य- गतपारोक्ष्यांशपरित्यागेन त्वंपदवाच्यगतसंसारित्वपरिच्छिन्नत्वांशपरित्यागेन चाद्वितीय- प्रत्यक् चैतन्यमात्रमेव लक्ष्यते । सर्वपदलक्षणायाश्च लौकिकवाक्ये प्राभाकराभ्युपगतिदर्श- नान क्वचिदपि सर्वपदलक्षणा कस्याप्यङ्गीकृतेति नानुयोगः । अपूर्वरूपकार्य एव हि लिङादेर्मुख्यत्वम् ; इतरपदानां च तदन्वितस्वार्थाभिधाने; लौकिके तु वाक्ये तदभावात् सर्वत्रैव लक्षणेति हि तदङ्गीकारः । अतः सर्वपदलक्षणा न दोषः । प्रयोगोऽपि विमतिपदं सत्यादिवाक्यमखण्डैकर सार्थपर्यवसायि, बुभुत्सितार्थ लक्षणवाक्यत्वात्, ‘प्रकृष्टप्रकाशश्चन्द्रः ’ इत्यादिवाक्यवत् । तथा– विमतिपदं " तत्त्वमसि " इति सामानाधिकरण्यमेकवस्तुनिष्ठम्, अकार्यकारणांशांशिविशिष्टस्वरूपिद्रव्यवाचिपदसामानाधिकरण्यात्, " सोऽयं देवदत्तः ’ -इतिसामानाधिकरण्यवदिति । ननु सत्यादिपदानां लाक्षणिकार्थत्वे गङ्गादिशब्दवत्स्वार्थपरि- त्यागे ब्रह्मणः सत्यानन्दादिस्वभावविरोध इति चेत् — न; अजहल्लक्षणाया एव स्वीकृत - स्वात् । “सर्वज्ञः सर्ववित् ” इत्यादयस्तु जहल्लक्षणया, सर्वज्ञादिशब्दानां प्रपञ्चोपहित- ब्रह्मविषयत्वात् ; तेषां च " प्रज्ञानघनः " इत्यादिशब्दसंनिधानात् स्ववाच्ये प्रपञ्चांशमु- त्सृज्यानवच्छिन्ने ब्रह्मणि वर्तमानत्वात् । “ अनन्तमपारम् ” इत्यादिनिषेधशब्दास्तु -प्रपञ्चाभावादिसाधनमुखेनाजहल्लक्षणायाः । साक्षाच्छब्दवाच्यता तु ब्रह्मणो नास्त्येव । निरस्तसमस्तसामान्यविशेषादिभावेन शब्दप्रवृत्तिनिमित्ताभावात् ; " यतो वाचो निवर्तन्ते" इत्यादौ वाच्यत्वनिषेधाच्च । ननु तत्र वेदान्तानामप्रामाण्यमिति चेत् — न; " वेदान्त- विज्ञानसुनिश्चितार्थाः " इत्यादिश्रुतिप्रामाण्यानुरोधात् “यतो वाचः • इत्यादिश्रुत्य - 75 ,,

५९४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) नुरोधाच्च ब्रह्मण्यज्ञाननिवर्तकत्वेन तत्प्रामाण्याङ्गीकारात् । न ह्यनधिगतार्थगन्तृत्वेन तत्र प्रामाण्यम्, तस्य स्वयंप्रकाशत्वेन सर्वार्थसिद्धिहेतुत्वात् । ननु ’ सोऽयं देवदत्तः ’ इत्यादि – वाक्यानां कथमखण्डैकरसार्थपर्यवसायित्वमिति चेत्, वाक्यस्याप्रामाण्यापत्तिरेव तथार्थस्वी - कारहेतुरिति ब्रूमः । ‘सोऽयं देवदत्तः’ इत्यत्र हि किं देवदत्तस्वरूपमात्रं प्रतिपाद्यम् ? उत तद्गतैक्यम् ? अथ तस्य कालद्वयसंबन्ध: ? किं वा परोक्षापरोक्षकालद्वय विशिष्टयोरैक्यम् ? इति विवेचनीयम् । न तावदाद्यः, तस्यैकपदलभ्यत्वेन पदान्तरवैयर्थ्यात् ; प्रत्यक्षत्वेन शब्दापेक्षत्वाभावाच्च । न च द्वितीयः, तस्यापि प्रत्यक्षादिसिद्धत्वेन शब्दानपेक्षत्वात् । न च तृतीयः, भूतकालसम्बन्धिन एव वर्तमानकाल संबन्धाभावात् ; कालद्वयसम्ब- न्धिन एकत्वे प्रमाणाभावात् ; वाक्यस्य च कालद्वयसंबन्धमात्रोपक्षयात् । नापि चतुर्थः, वर्तमानावर्तमानकालयोरिव तद्विशिष्टयोरपि परस्परसंबन्धानुपपत्तेः ; विरुद्धयोः कालयोरेकविशेषणत्वानुपपत्तेश्च । नापि पर्यायेण कौमारयौवनयोरिवैकविशेषणत्वम्, तत्र कौमारादिसंबन्धव्यतिरेकेण संबन्धिवस्तुनः प्रत्यभिज्ञयैकत्वनिश्चयात् पर्यायेणैकविशेषण- त्वोपपत्तेः । इह त्वेकस्य कालद्वयसंबन्धनिश्चयव्यतिरेकेणोभयकालसंबन्धैक्यनिश्चये प्रमा– णाभावात् पर्यायेण कालद्वयसंबन्धानुपपत्तेः । तस्माद्विधिमुखेन कस्मिंश्चिदर्थे वाक्य - प्रामाण्यानुपपत्तेरबाधितप्रतीतिजनकत्वेन वाक्यप्रामाण्यस्याङ्गीकार्यत्वाच्च कालद्वयाख्यो- पाधिसंबन्धनिमित्तदेवदत्तगतानेक भ्रान्तिनिवर्तनेन देवदत्तस्वरूपसमर्पकतयैव प्रामाण्य अत एकस्य युगपद्विरुद्ध देशकालसंबन्धित्वानुपपत्तेर्वाक्यैकदेशविरुद्धांशद्वयपरित्यागेनोभयत्र वाच्यगताविरुद्धदेवदत्तस्वरूपमात्रे पदद्वयस्य लक्षणैव युक्ता । न चोपाधिद्वय संबन्ध- कृतानेकत्वभ्रान्तिनिवर्तनेन देवदत्तस्वरूपसमर्पण मेकपदमात्रलभ्यमिति वाच्यम्, उपाधि- विनिर्मुक्तस्वरूपसमर्पणस्य लक्षणानिमित्तत्वात्, लक्षणायाश्च पदार्थविरोधनिमित्तत्वात्, विरो- धस्य चान्वयप्रतीतिनिमित्तत्वात् अन्वयप्रतीतेश्च पदानां सामानाधिकरण्यनिमित्तत्वात्, सामानाधिकरण्यस्य चानेकपदगामित्वात् । नन्वतीतकालविशिष्टस्य वर्तमानकालसंब- न्धाभावेऽपि तत्कालोपलक्षितस्यैतत्कालसंबन्धो न विरुद्धः ; एवं चैकपदस्य मुख्यार्थ - तालाभ इति चेत् —न ; अन्यतरकालेनापि देवदत्तस्वरूपमात्रस्यैव लक्ष्यमाणत्वात् । “न चान्यतरकालविशिष्टरूपस्य लक्ष्यत्वं, वर्तमानकालविशिष्टत्वरूपेण देवदत्तस्यातीत- - कालसंबन्धाभावात् ; तदभावे च लक्षणानुपपत्तेः । स्वरूपमात्रस्योभयकाल संबन्धि- "

(१– १ – १) नयप्रकाशिका ५९५. 1 6 त्वात्कालद्वयेनापि स्वरूपमात्रलक्षणैव युक्ता । ननु विवादपदं ’ सोऽयम्’ इत्या- दिवाक्यं विशिष्टार्थपरम्, बुद्धिपूर्वकवाक्यत्वात् गवानयनादिवाक्यवदित्यनुमानात् विशिष्टार्थपरत्वसिद्धिरिति चेत् — न ; तद्वाक्यस्य विधिमुखेन प्रामाण्यासं- भवात् । किंतूपाधिद्वयसंबन्धनिमित्तदेवदत्तगतभेदनिवर्तनेन तत्स्वरूपमात्रे पर्यवस्यति ; अन्यथा वाक्यस्याप्रामाण्यापत्तेः । अतोऽर्थापत्तिबाधितत्वेन कालात्ययापदिष्टः । प्रकृष्ट-. प्रकाशश्चन्द्रः’ इत्यादौ व्यभिचाराद्धेतोश्चानैकान्त्यम् । प्रकृष्टप्रकाशः’ इत्यादि वाक्यं -त्वेकरसार्थपर्यवसितमेव तथाहि– ज्योतिर्मण्डले कश्चन्द्रः ?’ इति प्रश्ने ’ प्रकृष्टप्रकाशश्चन्द्रः इत्युत्तररूपं हीदं वाक्यम् । चन्द्रप्रातिपदिकमेव हि पृष्टम् ; नतु गुणस्तत्संबन्धो वा । स्वरूपमात्रे पृष्टे उत्तरेणापि तादृशेन भाव्यम्, अन्यथा प्रश्नोत्तरयोर्वैरूप्यं स्यात् । अतः ’ प्रकृष्टप्रकाशः ’ इति प्रकर्षगुणप्रकाशसामान्याभ्यां प्रकाशसामान्यव्यक्तिरूपं चन्द्रद्रव्यमेव लक्ष्यते, प्रकाशादिगुणविशिष्टस्य चन्द्रप्रातिपदिका - भिधेयत्वानुपपत्तेः । अतस्तद्वाक्यस्यापि लक्षणया चन्द्रप्रातिपदिकार्थमात्राभिधानमेव । -ननूप लक्षित देवदत्तादिस्वरूपस्य गुणगुण्याद्यनेकरसत्वं दृश्यत इति चेत् —न; तस्य प्रमाणान्तरसिद्धत्वेन शाब्दत्वाभावात् । अतः सामानाधिकरण्यवाक्यस्याखण्डैकरसार्थपर- त्वमेवेति सिद्धम् । अतो वेदान्तवाक्यानामेवंप्रकारेणैवाखण्डैकरसब्रह्मपरतया प्रामाण्यम् । एवमैक्यपरत्वबलाच्छास्त्रस्य प्रत्यक्षादिविरोधाभ्युपगमेन बलीयस्त्वमुक्तम् । तयोर्न वस्तुतो विरोधः ; उभयोः सन्मात्रग्राहित्वेनैकविषयत्वात् । ‘घटोऽस्ति ’ इति सत्ताविषयैव हि प्रत्यक्षधी: । ’ ननु च घटोऽस्ति ’ इत्यादौ घटादिनानाकाराणामपि प्रत्यक्षविषयत्वं प्रतीयत इति चेत् न ; तादृशभेदप्रतीतेर्भ्रान्तत्वात् ; न हि घटादिभेदतदस्तित्वयोः क्षणिक प्रत्यक्ष- विषयत्वम् । भेदग्रहणस्य वस्तुस्वरूपग्रहणप्रतियोगिस्मरण सापेक्षत्वेन विलम्बितत्वान्न भेद- विषयत्वम् । अतो भेदप्रतीतेरिन्द्रियान्वयव्यतिरेकानुविधानेऽपि तदन्वयव्यतिरेकयोर्भेद- विभ्रमाधिष्ठानग्रहणेनान्यथोपक्षयान्न भेदसद्भावः । ननु भेदप्रतीतेः कारणदोषबाधकप्र- त्ययाभावान्न भ्रान्तत्वमिति चेत् — न ; देशकालव्यवहितवस्तुवत् भेदवस्तुनः प्रत्यक्षा- योग्यत्वात् । तच्चारम्भणाधिकरण उपन्यस्य निराकृतमिति नात्र तत्प्रपञ्चः । किंच योऽसौ भेदः प्रत्यक्षादिग्राह्योऽभिमतः, स किं वस्तुनः स्वरूपम् ? उत धर्म: ? न तावदाद्यः, -लोके वस्तुस्वरूप तद्व्यवहारवत् सर्वस्मात् भेदव्यवहारादर्शनात् । ननु भेदव्यवहारस्य

५९६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) प्रतियोगिस्मरणापेक्षत्वेन स्वरूपग्रहणानन्तरं न तद्व्यवहार इति चेत् — न ; भेदस्य स्वरूपत्वेन स्वरूपव्यवहार इव प्रतियोग्यनपेक्षत्वापत्तेः ; तस्य स्वरूपत्वे भेद घटादिशब्दानां पर्यायता च । तथात्वे ‘घटो भिन्नः ’ पटो भिन्नः’ इति भेदशब्दस्यानेकै घटादि- शब्दैः सह प्रयोगो न स्यात् । ततश्च लोकव्यवहारोच्छेदः । किंच भेदस्य घटादि- स्वरूपत्वे घटादिस्वरूपस्याविदारितस्वरूपत्वात् तद्विदारणरूपभेदो न स्यात् । भेदाभावे चान्योन्यानात्मतालक्षणवस्त्वसंकरत्वासिद्धेरद्वैतपक्षपात एव घटादेर्वा भेदस्य विदारणात्मकत्वान्नैकघटसिद्धिः । तथा तदंशपरंपरास्वपीति जगतः शून्यतापत्तिः । ननु भेदाभेदात्मनैकबुद्धिबोध्यत्वात् भेदात्मकत्वेऽपि घटोदेरेकत्वमविरुद्धमिति चेत्, तहींदं वक्तव्यम् — सर्वत्र भेद एक एव किं वानेकः ? इति ; आद्ये भेदस्यैकत्वात् सर्व- वस्तुनश्च तत्स्वरूपत्वाच्च पुनरप्यद्वैतापातः । द्वितीये पक्षे भेदानामनेकत्वे तन्मात्रस्वरू- पत्वेऽप्यद्वैतत्वापातः, भेदस्य स्वरूपानतिरेकात् भेदनाम्ना घटभेदस्यैवोक्तत्वात् । धर्मः, अनवस्थापातात् ; धर्मधर्मिणोर्भेदस्यावश्याश्रयणीयत्वेन तद्भेदस्यापि धर्मत्वेन तथात्व- मित्यनवस्थानात् । ततश्च न विलक्षणवस्तुधीः, तद्धियो विशेषणविशेष्यग्रहणपूर्वकत्वात् ; तस्य च भेदस्थैर्याधीनत्वात् । इतरेतराश्रयत्वं च - विशिष्टप्रतीतेर्जातिव्यक्त्यादिविशेषण- विशेष्ययोर्भेदबुद्धयपेक्षत्वात्, भेदग्रहस्य तद्विशिष्टबुद्धयपेक्षत्वादिति । न हि भेदग्रहे विशिष्टत्वधीः ; तथा विशिष्टबुद्धयभावे च न भेदग्रहः । तस्मादनिर्वचनीयाविद्यात्मको भेद इति सन्मात्रग्राह्येव प्रत्यक्षम् । किंच सर्वासु प्रतीतिष्वनुवर्तमानत्वेन सन्मात्रस्यैव परमा- थत्वम् । श्रमाधिष्ठानत्वेनानुवर्तमानरज्जुवत् व्यावर्तमानत्वेन घटादिविशेषाणामपारमार्थ्यम् । रज्ज्वधिष्ठानत्वेन जातव्यावर्तमा नसर्पादिवत् । एतयोः सिद्धिश्च सत्परमार्थ इत्यनुमानाभ्याम् । ननु वस्तुनः पारमार्थ्यापारमार्थ्ययोर बाध्यत्ववाध्यत्वे एव हि प्रयोजके, न त्वनुवर्तमानत्वव्या- वर्तमानत्वे इति चेत् —न; घटादिविशेष निवृत्तिरूपव्यावृत्त्यैव बाध्यत्वस्य तेषां फलित- त्वात् । ’ घटोऽस्ति’ इत्यादौ पटादीनां व्यावृत्तिः ; व्यावृत्तिर्नाम तेषामभावः । बाधाद्धि तदभावः । नन्वनुभूतेः सद्विषयत्वात् विषयविषयिरूपभेदो नोपैतीति चेत् —न, भेदस्य निरस्तत्वात् । विषयविषयिभावोऽपि भ्रान्त एव । तदुक्तम्— " संविदा स्वीकृतं यद्यत्तत्तद्विषयसंज्ञितम् । तत्स्वीकृतं तदात्मैव विषयोक्तिः क तिष्ठतु ।

(१ – १ – १) नय प्रकाशिका तथा जडावबोधस्य बुधैर्बोद्धुं न पार्यते । भावाभावाविव यतो विरुद्धौ चिज्जडौ मतौ ॥ इतरेतरवेधेन तयोरन्यतरा स्थितिः । कल्प्यते न तु संबन्धः स्वभावेन विरुद्धयोः ॥ संबन्धोऽपि भवेज्जन्यस्ताभ्यामथ तदात्मकः । तदात्मकत्वे भावेऽथ तज्जन्यत्वे पृथक् स्थितिः ॥ संबन्धिव्यतिरेकेण संबन्धे तैरदर्शिते । भवेन्मुग्धो जनो धूर्तेर्विप्रलब्धो मृषोक्तिभिः || ५९७ इत्यादि । अतः सदेवानुभूतिः । नन्वनुभूतिसिद्धिः कुत इति चेत् स्वत एवेति ब्रूमः । अन्यतः सिद्धावनुभूतित्वहानि: । घटादेखि तस्याश्च प्रमाणान्तरापेक्षैव नास्ति, स्वस- तयैव प्रकाशमानत्वात् । स्वतः सिद्धौ च किं प्रमाणान्तरैः । तदुक्तम् - 66 चैतन्यं यदि चेत्यत्वयोगाचैतन्यमेव न । अन्यस्य यदि चैतन्यं कथमात्मनि तद्भवेत् ॥ अनुभूतौ प्रमाणानां परिनिष्ठा समाप्यते । स्वसत्तयैव तत्सिद्धं किं तत्रान्यैः प्रमान्तरैः || आत्मा न मेयः कस्यापि तदन्यन्नोपपद्यते । विरुद्धमिदमात्मा च मेयश्चेति यदुच्यते ॥ " इति । अथ भाट्टप्रत्यवस्थानम् - - ननु सत्यामप्यनुभूतौ विषयस्यैवानुभवः, न त्वनुभूतेः । न च तस्याननुभवे तुच्छतेति वाच्यम्, विषयानुभववेलायामेव तदनुभवाभावाभिमतेः । तच्च तस्या घटादिवदिदभावेन विषयत्वाप्रतीतेः । अतोऽनुभूतिः स्वसत्तयैव चक्षुरादि– वद्विषयप्रकाशकरी । तदनन्तरमर्थगतप्रकाशलिङ्गेनात्मगतप्राकट्यान्यथानुपपत्त्या वानुभूति- ज्ञयत इति तस्याः स्वयंप्रकाशत्वसिद्धिः । अर्थगतप्राकट्यस्य कादाचित्कत्वेन कार्यता च सिद्धा । न च तस्यानुभाव्यत्वे अजडत्वहानिरिति वाच्यम्, विकल्पासह- त्वात् । किमजडत्वं स्वसत्तायाः प्रकाशाव्यभिचारित्वम् ? उत स्वेन स्वानुभवः ? आधे सुखादेरपि प्रकाशाव्यभिचारादजडत्वापत्तिः । द्वितीये तु कर्मकर्तृविरोधः । तदुक्तम्- CC-0 No Rights Reserved. Digitized by eGangotri५९८ 66 श्रीभाष्यम् अङ्गुल्यग्रं यथात्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥ " (जिज्ञासाधिकरणम्) इति । अतो नानुभूतेः स्वयंप्रकाशत्वमिति । तदेतद्भाट्टमतनुपपन्नम्, अनुभूतिसंबन्धव्य- तिरेकेण विषयगतत्वेन प्रकाशाख्यधर्मोत्पत्त्यदर्शनादर्थापत्त्याद्यनुपपत्तेः । अन्यथानुपपत्ता- वेव ह्यर्थापत्तिः । न च विषयः प्रकाश इति प्रतीतिव्यवहारावन्यथानुपपन्नाविति तत्कल्पन- मिति वाच्यम्, अङ्गीकृतानुभूतिसत्तयेव ज्ञातत्वप्रतीतिव्यवहारोपपत्तेः क्षीणत्वादर्थापत्तेः । एतेनानुमेयत्वमपि निरस्तम्, लिङ्गाभावात् । न च वस्तुमात्रस्य लिङ्गत्वम्, तस्य तज्ज्ञाना- विनाभावनियमाभावात् । न च तज्ज्ञानस्यैव लिङ्गत्वम् ; तथात्वे च तस्यावभासः स्यात् । तदवभासे चानुमानवैयर्थ्यम् । अनवभासे च न लिङ्गता । न च तज्ज्ञानस्य ज्ञानान्तरे- णावभासः, ज्ञानान्तरादर्शनात् । ज्ञानान्तरेण गम्यत्वे च तस्यापि ज्ञानत्वाविशेषात् ज्ञाना- न्तरगम्यतेत्यनवस्था । वस्तुगतप्राकट्यं न ज्ञायत इत्युक्तम् । अतो न ततो ज्ञानानुमानम् | किंच ज्ञातताग्रहणमस्ति वा ? न वा ? आये ज्ञातताख्यधर्मोत्पत्तिरस्ति वा ? न वा ? अस्ति चेदनवस्था । नेति चेत् तद्वस्तुनोऽपि न स्यात् । ज्ञाततायाः सत्वेऽप्यग्रहोऽनुपपन्न एव ननु संयुक्तविभक्तप्रत्ययात् संयोगविभागाख्यवस्तुसिद्धिवत् ’ ज्ञातोऽयम् ’ इति प्रत्ययात् ज्ञात- ताख्यधर्मसिद्धिः । तदनुत्पत्तौ च पूर्ववदेवाविशेषाद्धानादिव्यवहारासिद्धिर्विषयप्रकाशव्यवहा- रश्च न स्यात् । ज्ञानस्यात्माश्रयत्वेन विषयगततया प्रकाशव्यवहारानुपपत्तेरिति चेत्-न ; संयो गादिवत्प्रत्यक्षेण तदनुपलब्धेः । वस्तुतः संयोगादिगुण एव नास्तीत्युक्तम् । किंच विषयग्रा- हकेणैव ज्ञानेन तद्धर्मस्य न ग्रहः, ग्रहणक्षणे तद्धर्माभावात् । न हि कार्यकारणयोर्योग- पद्यम्, ननु यद्यनुभूत्या विषयगतत्वेन प्रकाशानुत्पत्तिः तर्हि न तस्यास्तत्संबन्ध इति न तद्व्यवहारः । अथ विषयत्वमेव सम्बन्धः, तर्हि तद्विषयत्वं तद्वस्तुनोऽतिरिक्तमनतिरिक्तं वा स्यात् । आद्ये तद्धर्माङ्गीकारः । द्वितीये तु न संबन्धसिद्धिरिति चेत् — न; प्राकट - धर्मोत्पत्तिवादिनोऽपि समत्वात् । किमनुभूतेर्विशेषमापन्ने विषये प्रकाशोत्पादकत्वम्, उतानापन्ने एव । आद्ये तु स विशेषः किं विषयधर्म: ? किं वानुभूतिरेव ? विषयधर्मत्वे, तद्धर्मस्यापि विषयधर्मगतत्वेनोत्पाद्यमानत्वात् प्रकाशोत्पत्ताविव धर्मान्तरयुक्तत्वापेक्षाया- मनवस्थापातः । द्वितीयस्त्वस्मत्पक्ष एव, अनुभूतेरेव तद्विशेषत्वाभ्युपगमात् । धर्मविशेष मनापन्ने प्रकाशकत्वे सर्वप्रकाशोत्पत्तिः स्यात्, अविशेषात् । अथानुभूयमाने विषये 9

(१ – १ – १ ) तत्त्वटीका ५९९ तया तज्जायत इति चेत् — न ; विकल्पासहत्वात् । किं तद्विषयत्वं विषयमात्रं वा ? अथ तद्गतो विशेषः तज्ज्ञानं वा ? आये अविशेषात् सर्वस्यापि विषयता । द्वितीये त्वनवस्था, तस्य विषयगतत्वेनोत्पाद्यत्वाविशेषात् । तृतीये त्वस्मत्पक्षपातः । विषयस्य प्रकाशव्यवहा- रस्तु अनुभूतिप्रकाशादप्युपपन्न इत्युक्तम् । न च स्वयंप्रकाशत्वे कर्मकर्तृविरोधः, उद्य- मननिपतनयोश्छिदिधातुवाच्ययोः कर्मभूतस्यैव करणत्वदर्शनात्, व्यवहाराच्च । अनु- भूतिरपि हानादिव्यवहारहेतुः । किंच भाट्टैरात्मनोऽहंप्रत्ययग्राह्यत्वमुक्तम् । ततस्तेषामेव हि कर्मकर्तृविरोधः । अथ प्रत्यक्षप्रमाणसिद्धत्वान्न तद्विरोध इति चेत्, तर्हि स्वयंप्रकाश- त्वस्यापि प्रमाणसिद्धत्वेनाविरोधः । तत्प्रमाणं चोत्तरत्र वक्ष्यते । किंच ‘जानन्तं जानामि’ इति प्रत्ययादुभयरूपतोच्यते । तदात्मनः प्रत्यक्षता ज्ञानस्य प्रत्यक्षता वा स्यात् । ज्ञानस्यानु- मेयत्वाभिमानादात्मनोऽपि ज्ञानविशेषितस्याप्रत्यक्षतापातात् ; ज्ञानविशेषितस्य प्रत्यक्षत्वे ज्ञान- स्यापि प्रत्यक्षता स्यात्, विशेषणा प्रत्यक्षत्वे विशिष्टस्य प्रत्यक्षत्वानुपपत्तेः । संविदः स्वयं- प्रकाशतयैवोपपत्तौ पराधीनत्वकल्पनाचानुपपन्ना । ; तचटीका ननु ब्रह्म नित्यं श्रुतम् ; धीस्त्वनित्या ; सा कथं तत्स्यात् ? योगाचारोक्ताच्च त्वदुक्तस्य को भेद इत्यत्राह — सेयमिति ; शास्त्रप्रत्यक्षाभ्यां सच्चिद्रूपतयैव सिद्धेत्यर्थः । अत्र स्वयंप्रकाश इति नित्यत्वनिदानोक्तिः । सर्वदा सत्त्वमुभयान्तशून्यत्वंवा नित्यत्वम् तच्च " न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते” इत्यादिश्रुतिसिद्धम् ; ज्ञानत्वं च ब्रह्मणः श्रुतम् ; अतस्तदविरोध इति भावः । श्रुत्यापि प्रत्यक्षविरुद्धं दुर्वचमित्यत्र विरोधाभावाभिप्रायेण हेतुमाह - प्रागिति ; संवित्प्रागभावप्रध्वंसयो भ्रन्ति- सिद्धतया स्वरूपतस्तदभावस्य स्थाप्यमानत्वादित्याशयः । अत एव न साध्याविशेषशङ्का । धीनित्यत्वश्रुतिरन्यपरा ; न चान्यदिह मानमित्यत्राह - तदिति । एवकार इह प्रागेव सूचितत्वं नैरपेक्ष्यं वा व्यनक्ति । ननु स्वयंप्रकाशत्वमिह न लिङ्गम् ; सपक्षे सत्यपि तत्र क्वचिदप्यवृत्तेः । सन्ति हि प्रागभावरहितत्वे साध्ये प्रागभावाः सपक्षाः, प्रध्वंसरहि- तत्वे च प्रध्वंसाः, तदुभयराहित्ये च खपुष्पादिः । आहुश्च - " यस्मिन्ननित्यता नास्ति कार्यतापि न विद्यते । तस्मिन् यथा खपुष्पादाविति शक्यं हि भाषितुम् ॥ इति । तत्राह — न हीति स्वप्रकाशत्वस्य लिङ्गत्वाभावेऽपि विकल्पानुपपत्तिद्वारा ;

६०० ↑ श्रीभाष्यम् (जिज्ञासाधिकरणम्) विवक्षितनिदानत्वं स्यादिति भावः । अत्र प्रागभावोक्तिः प्रध्वंसस्याप्युपलक्षिका । स्वतः पक्षेऽपि धीः सत्यसती वा स्वाभावग्राहिणीति विकल्पं मत्वा आद्यं निरस्यति- अनुभूतिरिति । ननु स्वयं सती भावमभावं वा विषयान्तरमिव स्वाभावमपि किं न गृह्णीया- दित्यत्र विषयस्याभावात्तस्य दुर्ग्रहत्वमाह - तस्या इति । यद्यपि अन्योन्याभावादेः- स्वप्रतियोगिसमकालत्वमस्ति ; तथापि प्रागभावप्रध्वंसयेोर्न तत्स्यादित्यभिप्रायेण विरो- धादेवेत्युक्तम् । द्वितीयं विषयिणोः ग्रहणस्यैवाभावादाक्षिपति - एवमिति ; अन्यतरा- भावसाम्यप्रकारेणेत्यर्थः । विरोधं विवृणोति – अनुभूतिरिति । स्वयमसती वन्ध्यासुत- धीवत्स्यादिति भावः । अन्यतः पक्षोऽपि विकल्पासह इत्याह - नापीति । अन्य- त्प्रमाणमनुभूतिं विषयीकृत्य न वेति विकल्प्य पूर्वत्र प्राकू साधितेन विरोधमाह - अनुभूतेरिति । द्वितीये प्रतियोग्य ग्रहे कथमभावग्रह इत्यभिप्रायेणाह – अस्या इति । न हि धीग्राह्यस्य घटादेरभाव इह साध्य इत्याशयः । विषयीकारपक्षपरिशेषेण तद्विरोधं निगमयति– स्वत इति । पराक्त्ववेद्यत्वयोरभावात् ’ इयम्’ इति इति विषयीकारान- र्हत्वम् । एवमभावस्याग्रहेऽपि भावस्योत्पत्त्यादेः स्वतोऽन्यतो वा ग्रहः स्यादित्यत्राह- अत इति उक्तविकल्पानुपपत्तेस्तस्याश्चात्रापि संभवादित्याशयः । न हि स्वत: स्वविकारग्रहः, तस्याः स्वरूपमात्रग्राहित्वात् । न चान्यतः, अवेद्यत्वात् । तद्धर्मतया ग्रहणे हि तद्विषयत्वं दुस्त्यजमेव, प्रागभावाभावात् । कारणं हि सर्वकार्याणां तत्तत्प्राग- भावः । न च तद्रहितं खरशृङ्गमुत्पद्यत इति भावः । उत्पत्तिप्रतिबद्धाः ; तयाप्ता इत्यर्थः । भावविकाराः – भावरूपा विकाराः, बाह्यानां भावानां संभवन्तो घीर्निर्विकारा, अनुत्पन्नत्वादिति व्यतिरेकी । । मूलभावप्रकाशिका


उत्पत्तिप्रतिबद्धा इति ; उत्पत्तिव्याप्ताः परिणामापक्षयादिविकारा न संभ- वन्तीत्यर्थः । श्रीभाष्यम् अनुत्पन्नेयमनुभूतिरात्मनि नानात्वमपि न सहते, व्यापकवि- रुद्धोपलब्धेः । न ह्यनुत्पन्नं नानाभूतं दृष्टम् । भेदादीनामनुभाव्य- त्वेन च रूपादेरिवानुभूतिधर्मत्वं न संभवति । अतोऽनुभूतेरनुभवस्व-

(१ – १ – १ ) श्रुतप्रकाशिका ६०१ स्वरूपत्वादेवान्योऽपि कश्चिदनुभाव्यो नास्या धर्मः । यतो निर्धूत- निखिलभेदा संवित्, अत एव नास्या: स्वरूपातिरिक्त आश्रयो ज्ञाता नाम कश्चिदस्तीति स्वप्रकाशरूपा सैवात्मा, अजडत्वाच्च । अनात्म- व्याप्तं जडत्वं संविदि व्यावर्तमानमनात्मत्वमपि हि संविदो व्या- वर्तयति । श्रुतप्रकाशिका बौद्धाभ्युपगतक्षणिकत्वव्यावृत्त्यर्थं नित्यत्वायानुत्पत्तिः, तद्व्याप्तविकारान्तराभावश्च साधितौ; अथ तदभ्युपगतानेकत्वव्यावृत्त्यर्थं सजातीयभेदं व्युदस्यति – अनुत्पन्नेयमिति । व्यापकविरुद्धोपलब्धेः ; नानात्वव्यापकोत्पत्तिविरुद्धानुत्पत्त्युपलब्धेरित्यर्थः । व्याप्तिं दर्श- यति - न हीति । अस्य ग्रन्थस्य यदनुत्पन्नं तदनानाभूतं दृष्टमित्यर्थो वक्तुं न युज्यते ; ब्रह्मव्यतिरेकेणानुत्पन्नस्यानानाभूतस्य कस्यचिन्माया वेदान्तिभिरनभ्युपगमात् । यन्न नाना- भूतं तदनुत्पन्नमित्युक्ते व्यापकजन्मनिवृत्त्या व्याप्यनानात्वनिवृत्तिरुक्ता न स्यात् । तस्मा- दयमर्थः – यन्नानाभूतं तदनुत्पन्नं न दृष्टम् ; अपितूत्पत्तिमदेव दृष्टमिति जन्मनो नाना- त्वव्यापकत्वं दर्शितम् । अनेनोत्पत्तिनिवृत्त्या नानात्वनिवृत्तिरित्यर्थसिद्धम् । यद्वा यथा ’ न ह्यनग्नि धूमवद् दृष्टम् ’ इत्युक्ते ’ अग्निमदेव धूमवत्’ इत्युक्तं स्यात् तद्वदिहाप्यनुत्पन्नं नानाभूतं न दृष्टमित्युक्ते उत्पत्तिमदेव नानाभूतमित्युक्तं स्यात् ; ततश्चोत्पत्तिर्व्यापिके- त्युक्तं भवति । अनुभूतिर्नाना न भवति, अनुत्पन्नत्वात् यन्नानाभूतं तदुत्पत्तिमद् दृष्टं यथा घट इति व्यतिरेक्यनुमानमनुभूतिं पक्षीकृत्योक्तम् । गगनादिषु व्यभिचारो दुर्वचः, तेषामुत्पत्तिमत्त्वेन वेदान्तिभिरभ्युपगमादिति भावः । एवं सजातीयभेदो निषिद्धः अस्मिन्नर्थे विकारान्तराभावे च भेदं विकारान्तरं च पक्षीकृत्यान्वय्यनुमानमाह- भेदादीनामिति ; आदिशब्देनोत्पत्त्यादयो विवक्षिताः । भेदादयो नानुभूतिधर्माः, अनुभाव्यत्वात् रूपादिवदिति व्यावृत्तिरूपधर्मोऽपि नास्तीत्युपपादयति — अतोऽनु- भूतेरिति । अन्योऽपि ; व्यावृत्तिरूपोऽपीति भावः । यद्वा विकारनानात्व जडत्वनिषेधान्नि- त्यत्वैकत्वस्वयंप्रकाशत्वरूपधर्मवत्त्वशङ्कान्युदासार्थं पूर्वोक्तनानात्वादिव्युदासार्थं च व्यतिः- रेक्यनुमानमाह - अतोऽनुभूतेरिति । अन्योऽपि ; नित्यत्वादिरूपोऽपीत्यर्थः । अनुभूतिः 76 . — ;

६०२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) न व्यावृत्तिरूपधर्मभाक्, अनुभवस्वरूपत्वात् ; यद्व्यावृत्तिरूपधर्मभाक् तदननुभूतिर्दृष्टम्, यथा घटादिरिति व्यतिरेकि । यदि व्यावृत्तिरूपधर्मं पक्षीकृत्यानुभूतिधर्मत्वाभावः साध्यः स्यात्, तदा अनुभाव्यत्वं हेतुः, यथा रूपादीति सपक्षः । इदमन्वयि । एवं स्वगतभेदो निरस्तः । पूर्वमेव ज्ञेयभेदो निरस्तः । " अत्रायं पुरुषः स्वयंज्योतिर्भवति ” इत्यादिषु वेदान्तवाक्येष्वात्मनो नित्यत्वस्वयंप्रकाशत्वादयः प्रतिपन्नाः ; अत्र तु संविदो नित्यत्वा- दिरुच्यते ; तत्कथं सङ्गच्छत इत्याह-यत इति । निर्धूतनिखिलभेदा ; सकलभेदनिषे- वेन विजातीयभेदोऽपि निरस्त इति विजातीयभेदस्य ज्ञातुमिथ्यात्वेन न स आत्मा, अपितु परमार्थभूता संविदेवात्मेत्यर्थः । यद्वा वेदान्तैरात्मनः प्रतिपादितं सजातीयविजातीयस्व- गतनानात्वराहित्यं संविद एवोपपद्यत इति सैवात्मेत्यर्थः । स्वरूपेति ; स्वरूपातिरिक्त आश्रयो हि ज्ञाता ; स नास्ति ; संवित्स्वरूपातिरिक्तत्वादेवापरमार्थ इति स नात्मेति परमा- र्थभूता संविदेवात्मेत्यर्थः । स्वप्रकाशरूपा सैवात्मेति ; वेदान्तैरात्मनः प्रतिपादितं स्वयं- प्रकाशत्वं संविद उपपन्नमिति सैवात्मेत्यर्थः । यद्वा तुच्छत्वशङ्कानिरासार्थमुक्तम् — स्वप्र- काशरूपेति । स्वयंप्रकाशत्वं स्वतन्त्रसाधकं चेत्याह – अजडत्वाचेति । इदं व्यतिरेकि संवित् आत्मा, अजडत्वात् ; यन्नात्मा तज्जढं यथा घटादीति । एतद्विवृणोति – अना- त्मत्वेति ; अनात्मत्वव्याप्तम् ; व्याप्तमिति कर्तरि क्तः ; व्यापकमित्यर्थः । प्राप्त इतिवत् । भावप्रकाशिका व्यापक जन्मनिवृच्येति ; नानात्वनिवृत्त्यैव जन्म निवृत्तेरुक्तत्वादिति भावः । अत्र व्याप्तिग्रहस्थलाभावश्चाधिकदूषणं द्रष्टव्यम् । यथावस्थितान्वयेऽपि पर्यवसानबलाध्यापकत्व- सिद्धिं दर्शयति-यद्वा यथेति । अनुभूतिर्न व्यावृत्तिरूपधर्मभागिति ; इदमनु- मानद्वयं नित्यत्वादिधर्मराहित्यरूपद्वितीयपक्षानुमानयोरप्युपलक्षणं द्रष्टव्यम् । ‘यतो निर्धू- तनिखिल ’ इत्यस्य ज्ञातृसद्भावसमर्थनमुखेन संविदात्मत्व हेतुत्वं स्वरसतः प्रतीयत इत्यभिप्रेत्य व्याचष्टे –सकलभेदनिषेधेनेति । निर्धूतनिखिलभेदत्वस्यात्मत्वेऽद्वारक हेतु संभवमभिप्रेत्य व्याचष्टे – यद्वा वेदान्तैरात्मन इति । ‘आश्रयो ज्ञाता’ इत्यनयोः पौनरुक्त्यमाशङ्कय ज्ञातृ- शब्दविवरणरूपत्वान्न पौनरुक्त्यमित्यभिप्रेत्याह — स्वरूपातिरिक्त आश्रयो हीति तर्हि ज्ञात्रभावस्य को हेतुरित्याशङ्कायां स्वरूपातिरिक्तपदेन ज्ञात्रभावे हेतुरुक्त इति दर्श- यति—संवित्स्वरूपातिरिक्तत्वादेवेति । ‘स्वप्रकाशरूपा सैवात्मा’ इति भाष्यप्रथमव्याख्या- CC-0 No Rights Reserved. Digitized by eGangotri१ – १ – १) नयप्रकाशिका ६०३. यामजडत्वाच्चेति भाष्यस्य पौनरुत्यं परिहरति — स्वयंप्रकाशत्वं स्वतन्त्रसाधकं चेत्याहेति । पूर्वं संविदात्मनोः स्वयंप्रकाशत्वस्य प्रमाणसिद्धत्वात्, स्वयंप्रकाशस्य प्रागभावाद्यभावेनानुत्पन्नत्वात्, अनुत्पन्नस्य च नानात्वायोगात्, संविदात्मनोर्न भेद इति नानात्वाभावसाधनद्वारा संविदात्मसाधकत्वं स्वयंप्रकाशत्वस्योक्तम् ; इदानीं व्याप्तिबलेन संविदात्मत्वसाधकत्वमुच्यत इति भावः । कर्तरि क्त इति ; आनोतेर्गत्यर्थकत्वादकर्मकत्व- विवक्षया वा “गत्यर्थाकर्मक” इति कर्तरि क्त इति भावः । श्रुतप्रदीपिका


अजत्वात्सजातीयभेदं व्युदस्यति — अनुत्पन्नेति । व्यापकविरुद्धोपलब्धेः ; नानात्वव्यापकोत्पत्तिविरुद्धानुत्पत्त्युपलब्धेरित्यर्थः । तद्विवृणोति –नहीति । नानाभूतं न ह्यनुत्पन्नं दृष्टम्, अपितूत्पत्तिमदेव दृष्टमित्यर्थः । धीः अनाना अजत्वात् ; यन्नाना तज्जन्मवत्, यथा घट इति प्रयोगः । अस्मिन्नर्थे पूर्वोक्ते चान्वय्यनुमानमाह- भेदेति ; आदिशब्दा जन्मादयः । भेदो विकारश्च न धीधर्मः, वेद्यत्वात् रूपवदिति । व्यावृत्तिरूप एकत्वानित्यत्वादिधर्मश्व नेत्याह – अत इति । अन्योऽपि ; एकत्वादिरपि व्यावृत्तिरूपोऽपि । अनुभूर्ति पक्षीकृत्यानुभवरूपत्वादिति व्यतिरेकिहेतुः, व्यावृत्तिरूपधर्मं पक्षीकृत्यानुभाव्यत्वमन्वयिहेतुरिति भावः । निर्विशेषत्वादिकमात्मनः श्रूयते ; त्वया तु तत्सर्वं कथं संविद उच्यत इत्याह–यत इति । विजातीयभेदरूप आश्रयो हि ज्ञाता ; स तु संविदतिरिक्तत्वात् घटवदपरमार्थ इति सैवात्मेत्यर्थः । तुच्छत्वव्युदासाय स्वप्रकाशशब्दः । आत्मनि श्रुतं निर्विशेषत्वं स्वसिद्धित्वं च संविदि दृष्टमिति सात्मेति च भावः । स्वसिद्धित्वं पृथगेव हेतुरित्याह – अजडेति । तदुपपादयति - अनात्म- त्वेति । व्याप्तमिति कर्तरि क्तः । धीरात्मा अजडत्वात्; यदनात्मा तज्जडम्, यथा घटइति । नयप्रकाशिका । किंचानुमानादिविषयेष्वतीतानागतपदार्थेष्वपि ज्ञाततोपपद्यते वा न वा ? द्वितीये ज्ञानत्वादिप्रतीतिव्यवहारसद्भावेऽपि तद्धर्माभाववत् प्रत्यक्षवस्तुष्वपि तदभावः स्यात् ; प्रथमे त्वतीतत्वेन वानागतत्वेन वा धर्म्यभावात् धर्मोत्पत्तिरनुपपन्ना । एवं दूषणान्तराण्य- प्यूहनीयानि । अतो नानुभूतेरनुमेयत्वम् । न च प्रत्यक्षवेद्यता, अनुभूतेः रूपादिरहितत्वात् ।

६०४ " श्रीभाष्यम् (जिज्ञासाधिकरणम् )> न चात्मगुणत्वेन मानसप्रत्यक्षत्वम्, आत्मगुणत्वासिद्धेः । न च कर्मणो व्यतिरिक्तत्वे जातिमात्राश्रयत्वादनुभूतिर्गुण इति वाच्यम्, जात्याश्रयत्वासिद्धेः । तच्च तस्या एकत्वात् । न हि व्यक्त्यैक्ये जातिः । तदैक्यं चोत्तरत्र वक्ष्यते । मानसप्रत्यक्षत्वे तत्सिद्धिरेव न स्यात् । ज्ञानविषयप्रत्यक्षज्ञानस्यापि ज्ञानत्वाविशेषात् प्रत्यक्षान्तरविषयत्वापत्तावनवस्थापातात्, युगप- ज्ज्ञानानन्त्यप्रसङ्गाच्च । न हि तदिष्टं मानसप्रत्यक्षवादिनाम् ; " युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ” इति हि तदुक्तम् । अथ स्वयं प्रत्यक्षमपि ज्ञानं चक्षुरादिवत्स्वविषयरागादीन् साधयतीति चेत्, तर्हि चक्षुरादिवत्प्रकाशत्वे सति करणत्वप्रसङ्गः । प्रकाशान्तरोत्पादनेन प्रकाशान्तरं चक्षुरादितुल्यं चेत्, प्रकाशान्तरकरणमेतदपि तथैवेत्यनवस्था । अतो न मानसप्रत्यक्षतानुपपत्त्याद्यभावात् नार्थापत्त्यादिविषयत्वम् । तस्याः स्वतः सिद्ध्यनभ्युपगमे चासिद्धिरेव । अतः स्वयमेव सा सिध्यति । एवमुपपत्तिभिः पारिशेष्यात्तस्याः स्वयंप्रका- शतोक्ता । प्रत्यक्षादिभिरपि तत्सिद्धिः । संविदः स्वरूपानुभवस्यापरोक्षत्वात्प्रत्यक्षता- ङ्गीकरणीया । तत्स्वरूपं च ज्ञानाज्ञानसाधकं ज्ञानोपाधिकमेव । एवंविधस्वरूपानुभवप्रत्यक्षेण तस्याः स्वयंप्रकाशता सिद्धा । तत्स्वरूपानुभवश्च सुप्तोत्थितस्य ’ एतावन्तं कालं न किंचिदहम- वेदिषम्’ इति स्वापकाला ज्ञानपरामर्शदर्शनात् सिद्धः । न ह्यनुभवमन्तरेण परामर्शः । न च सुषुप्तिकाल ऐन्द्रियकप्रत्यक्षसंभवः, येन स्वयंप्रकाशता हानिः स्यात् । असंभवश्च तदेन्द्रिय- व्यापारोपरतेः । न चाभावानुभवसंभवः, तदा सकलकरणोपरमात् धर्म्यादिज्ञानाभावात् । ननु रथ्यादौ प्रातः कालीनगजा द्यभाव एव, मध्याह्ने ’ रथ्यायां प्रातर्गजो नास्ति ’ इति यथानुभूयते तथा सुषुप्तिकालीन एव ज्ञानाभावः प्रतियोगिस्मरणादिपूर्वकमुत्थितेनानुभू- यत इति चेत्–न; तत्र रथ्यादिधर्मविशेषानुभवात् प्रतियोगिस्मरणवैकल्यात् उत्त- रकालं प्रतियोगिम रणेनानुभूतिधर्म परामर्शन गजाद्यभावज्ञानसंभवः इह तु सुषुप्ति- काले धर्मज्ञानासंभवात् नोत्तरकालेऽपि सौषुप्तिकज्ञानाभावानुभवसिद्धिः । ननु सुषुप्ताव- घ्यात्ममात्रविज्ञानमस्तीत्यत्रापि धर्मिज्ञानसिद्धिरिति चेत् — तर्ह्यात्मनः स्वयंप्रकाशत्वमेवोक्तं स्यात्, प्रकाशाव्यभिचारितयैवात्मस्वरूपाङ्गीकरणात् । आत्मनि प्रकाशव्यभिचारमन्तरेणान्य- निमित्तप्रकाशतात्मनोऽभ्युपगन्तुं न युक्ता । घटादिविषयसंविदाश्रयत्वेनैवात्मनः सिद्धियै- षामिष्टा तेषां मते सुषुप्तौ विषयानुभवाभावादात्मनः प्रतिभासस्य सुदूरत्वात् न ज्ञाना- भावानुभवः । अतो धर्मिज्ञानाभावान्न ज्ञानाभावानुभवसिद्धिः सुषुप्तौ । अथ ‘सुषुप्ति-

● ( १ – १ – १ ) नयप्रकाशिका ६०५ प्रतीतिकाले न किंचिन्मयानुभूतमस्मर्यमाणत्वात् ; यन्न स्मर्यते तन्नानुभूतम्, यथा सुप्तिः इत्यनुमानात् ज्ञानाभावानुभवसिद्धिरिति चेत् — न; अनुभूतवस्तुनि स्मरणनियमाभावात् । अथ नियमेनेत्यस्मर्यमाणत्वं विशेष्यत इति चेत्–न ; निर्विकल्पकविज्ञानानुभूतवस्तुषु व्यभिचारात् । अनुपपत्त्याद्यभावादर्थापत्त्यादिभिर्न ज्ञानाभावानुभवः । अतो ’ न किंचिदवेदि- घम्’ इति सुप्तोत्थितपरामर्शः स्वरूपानुभवमेव कल्पयति । विमतिविषय आत्मा स्वयंप्रकाशः, प्रकाशाव्यभिचारित्वात्प्रदीपादिवदित्यनुमानादपि तस्याः स्वयंप्रकाशतासिद्धिः । अनुभूते- रेवात्मत्वमित्युत्तरत्र वक्ष्यते । आत्मनः स्वयंप्रकाशत्वेऽपि प्रकाशाव्यभिचारित्वस्योक्तत्वा- द्धेतोर्नासिद्धता । ननु प्रदीपादेः संवेद्यत्वदर्शनान्न स्वयंप्रकाशत्वमिति साध्यविकलो दृष्टान्त इति चेत् — न ; प्रदीपादिप्रकाशस्यानन्याधीनप्रकाशत्वेन स्वयंप्रकाशत्वात् । प्रका- शो नाम तमोविरोधित्वम् । तमश्च द्विविधम् – बाह्यं शार्वरादिकम् ; आन्तरमज्ञानलक्षणं चेति । प्रकाशोऽपि द्विविधः – एको बाह्यतमोविरोधी प्रदीपादिलक्षणः ; अज्ञानविरोधी चै- तन्यलक्षणोऽन्यः । अतः प्रदीपादेः प्रकाशाव्यभिचारित्वान्न साध्यवैकल्यम् । नन्वात्मा संवेद्यः, प्रकाशाव्यभिचारित्वात् प्रदीपादिवदित्यनुमानात् संवेद्यतासिद्धेः प्रकरणसमत्वं हेतोरिति चेत्–न; प्रदीपादेः संवेद्यत्वस्यानात्मत्वकृतत्वात् तत्र प्रकाशाव्यभिचा- रित्वस्याप्रयोजकत्वात् । ननु दीपादेः स्वयंप्रकाशत्वं तेजोद्रव्यत्वप्रयुक्तम्, न तु प्रकाशाव्यभिचारित्वप्रयुक्तमिति पार्थिवपद्मरागादिमणेः स्वत एव तमोविरोधित्वदर्शनात् । नन्वात्मनो धीकर्मतयैव सिद्धिः, वस्तुत्वात् घटवदिति सप्रति- साधनमिति चेत् —न ; वस्तुत्वादिति सामान्यव्याप्तेः सावकाशत्वात् प्रकाशाव्यभिचा- रित्वादित्यस्य विशेषविषयत्वेन निरवकाशतया बलीयस्त्वात्, घटादेर्धीकर्मत्वस्याचित्वे- नानात्मत्वप्रयुक्तत्वेन वस्तुत्वस्याप्रयोजकत्वाच्च । ननु जाग्रदाद्यवस्थात्रयेऽप्यज्ञानस्यात्मसा- क्षित्वेनेष्टत्वात् प्रकाशाव्यभिचारित्वात् अज्ञानस्यापि स्वयंप्रकाशतापाताद नैकान्त्यमिति चेत् – न ; अज्ञानस्य स्वयंप्रकाशाव्यभिचारित्वेऽपि प्रकाशस्याज्ञानव्यभिचारित्वात् । अनुभूतिरनन्याधीनस्वधर्मव्यवहारा’ इत्याद्यनुमानाच्चास्याः स्वयंप्रकाशता । अर्थापत्त्या च तत्सिद्धिः । अतः स्वयंप्रकाशत्वाभावे कानुपपत्तिरिति चेत्, आत्मप्रतिभास एवानुपपन्न इति ब्रूमः । ननु संविदाश्रयत्वेन वा संविदन्तरकर्मत्वेन वा आत्मप्रतिभासोपपत्तेः क्षीणार्थापत्तिरिति चेत् —न; अनित्यस्वयंप्रकाशसंविदाश्रयतया आत्मनः प्रतिभा-


चेत् — न ;

६०६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) न हि तस्या सानुपपत्तेः । तदनुपपत्तिश्च तत्प्रागभावप्रध्वंसाभावयोः प्रमाणाभावात् । एव विद्यमानायाः स्वप्रागभावादौ प्रामाण्यसंभवः, विरोधात् । तस्या असत्वे चासाधकत्वादेव न प्रामाण्यम् । अथ स्वक्षणे वर्तमानमेवातीतकालादिव्यापित्वप्रागभावादि साधयतीति चेत् —न -न; स्वविषयसाधकत्वेनोपक्षीणत्वात् । न हि संविदः स्वाश्रयविष प्रातिरिक्ताव- भासकत्वमिष्टन् । न च संविदाश्रयस्यैव प्रागभावत्वम्, अभावानभ्युपगमादिति वाच्यम्, दृश्ये प्रतियोगिकेवलधर्मिस्वरूपस्य भवतामभावत्वाभ्युपगमात् । ननु संविद्राश्रयरूपस्य केवलत्वाभावात् स्वप्रागभावादिः स्वविषय एवेति चेत् तर्हि सर्वसंविदां स्वप्रागभावादिसा- धकत्येनोपक्षयात् घटादिविषयानवमास कत्वप्रसङ्गः । अतः स्वस्था न स्वप्रागभावादिसिद्धिः । अथ संवित्प्रागभावादि संविदन्तरेण सिध्यतीति चेत् — न; स्वतःसिद्धायाः संविदः संविदन्तरेण विषयीकारानुपपत्तेः । न हि संविदविषयीकारेण तदभावग्रहणम्, तस्या विष- यत्वे घटादिवदननुभूतित्वप्रसङ्गः । किंच प्रागभावाद्यसिद्धौ संविदयासंभवः । संविद्भेद- सिद्धौ तत्प्रागभावादिसिद्धिः, एतत्सिद्धौ तत्सिद्धिरिति इतरेतराश्रयप्रसङ्गात्तद्भेदोऽ- सिद्धः ; अतः प्रागभावाद्यभावात् नित्यैव सा । ननु प्रागभावाद्यभावे कथं नित्यत्वमिति चेत ; उच्यते – प्रागभावप्रध्वंसाभावावुलत्तिविनाशाभ्यां व्याप्तत्वेन दृष्टौ प्रागभावादि- व्यावृत्तौ संविदुत्पत्यादिव्यावृत्तिः सिध्यति । तयोरुत्पत्तिव्याप्ति परिमाणादिविकाराणामपि संविद उत्पत्तिव्यावृत्तौ व्यावृत्तिः । संविदि नानात्वमपि नास्ति । तत्त् अनुत्पन्नत्वादिति ब्रूमः। न ह्यनुत्पन्नस्य नानात्वदर्शनम् ; उत्पत्तिमतामेव हि नानात्वम् ; भेदो विकारश्च नानुभूतिधर्मः, अनुभाव्यत्वात् रूपादिवदित्यनुमानाच्च तदैक्यम् । अनुभूने- ननुभाव्यो धर्मः, अनुभूतित्वात् यस्यानुभाव्यचमत्वं तस्य नानुभूतित्वं यथा घट इत्यनुमानाच्चास्याननुभाव्यो धर्मः । अतोऽस्या निरस्तसमस्तभेदत्वान्नाश्रयसद्भाव इति सैवात्मा । अजडत्वाच्च । अनात्मत्वं हि जडत्वेन व्याप्तम् । तत्स्वव्यापकजडत्वविरोध्य जडत्व- दर्शनान्निवृत्तमिति तस्या एवात्मत्वम् । ; तत्त्वटीका ; एतेनैव सजातीयमपि निरस्यति – अनुत्पन्नमिति । इयमित्यनेन प्राग्वत्स्वतो- ऽन्यतश्च नानात्वेनापि दुर्ग्रहेति सूच्यते । आत्मनि ; अनुभूतिशब्दोपाते स्वात्मनीत्यर्थः । तत्र धीप्रतियोगिकभेदो नास्ति ; स तु जडेष्वेवेति भावः । अनुत्पन्नशब्देन विवक्षितस्य

(१ – १ – १ ) 1 तत्त्व टोका ६०७ हेतोर्व्याप्तिपक्षधर्मत्वे व्यनक्ति – व्यापकेति ; नानात्वव्यापकमुत्पन्नत्वम् ; तद्विरुद्धस्यानु- त्पन्नत्वस्य पक्षे प्रमितत्वादित्यर्थः । यन्नाना तदुत्पन्नमिति व्यभिचारानुपलम्भेन द्रढयति- नहीति । नानाभूत न ह्यनुत्पन्नं दृष्टमित्यन्वयः । धीः सजातीयरहिता, अजत्वात् ; यन्नैवं तन्नैवं यथा घट इति प्रयोगः । परमाण्वादिसंज्ञास्तु केचिदर्थाः सजातीयवन्तोऽप्य- नुत्पन्ना इति परेष्टं मानशून्यमिति भावः । उक्तव्यतिरेकिसाध्ययोरन्वयिनमप्याह – भेदा- दीनामिति । आदिशब्देन विकारा गृह्यन्ते । भेदा विकाराश्च नानुभूतिधर्माः, अनु- भाव्यत्वात् रूपादिवदिति । ननु अनुभूतेरसाधारणानि धीत्वस्वप्रकाशत्वनित्यत्वाजत्वनि- विकारत्वनिर्भेदत्वानि त्वयैवाद्योक्तानि ; अनृतादिव्यावृत्तयश्च प्रागुक्ताः ; तत्पक्षीकार ब- हिष्कारयोर्वान्वयव्यभिचारौ स्यातामित्यत्राह - अत इति ; भावाभावरूपाणां सर्वेषां धर्माणामादिशब्देन संग्रहेण पक्षीकृतत्वादित्यर्थः । एवकारः साधकत्वदाढर्थपरः । अन्यो- ऽपि ; क्वचिच्छूतिसिद्धोऽस्मदुक्तोऽपीति यावत् । कल्पितैस्तु धर्मैरत्र हेतुसाध्यव्यवहारः । ज्ञानभेदनिषेधे तु ज्ञानानामैक्यमत्र नः । जडाद्भेदनिषेधे तु तन्मिथ्यात्वान्न तद्भवेत् ॥ ३५८ ॥


66 1 जडादिव्यावृत्तयश्च स्वरूपानतिरिक्ता इत्युक्तम् । धोर्निर्धर्मा, अनुभवस्वरूपत्वादिति व्यतिरेकी ; विगीता नानुभूतिधर्माः, अनुभाव्यत्वादिति पूर्वोक्तौ वीतावीताविह पदद्वयेन स्मारितौ । उक्तं च खण्डने – “ प्रकाशात्मतामात्रस्यैव स्वतः सिद्धत्वेन जडात्मनां केषां - चिद्धर्माणां तदन्तर्भावानुपपत्तिः " इति । अनुभूतेर्निर्विशेषत्वादिसाधनेऽपि जिज्ञासितस्था- त्मनः किमायातम् ? स हि बह्वीभिः श्रुतिभिर्ज्ञानादिधर्माश्रयत्वेन भातीत्यत्राह–यत इति । प्रागुक्तप्रकारेण निर्धूतनिखिलभेदत्वादाश्रयाख्यो विजातीयभेदोऽपि कल्पितः ; अतः स नात्मा, संविदन्यत्वाद् घटवदिति भावः । स्वप्रकाशत्वनिर्गुणत्वे चात्मस्वभावतया भाते संविदि स्थापिते । अनेन श्रुतिसिद्ध आत्मा धीरूपत्वेन प्रत्यभिज्ञाप्यत इत्याशयवतो- क्तम्- - सैवात्मेति । धीः आत्मा, निर्विशेषत्वाद्धीत्वाच्चेति व्यतिरेकिद्वयमिह विवक्षितम् । प्रकृतम जडत्वमपि तादृशं हेतुमाह - अजडत्वाचेति । व्यतिरेकव्याप्तिं पक्षधर्मतां च व्यञ्जयन् व्यापक निवृत्त्या व्याप्यनिवृत्तिमाह – अनात्मत्वव्याप्तमिति ; अनात्मत्वे व्याप्ये व्याप्तं व्यापकमित्यर्थः ; कर्तरि क्तः । योऽनात्मा स जडः, यथा देहादिः ; धीस्तु न तथा ; तस्मादात्मा । I CC-0 No Rights Reserved. Digitized by eGangotri६०८ 0 श्रीभाष्यम् मूलभावप्रकाशिका (जिज्ञासाधिकरणम्) न ह्युत्पन्नमिति ; ततश्चोत्पत्तेर्नानात्वव्यापकत्वान्नानात्वव्यापकोत्पत्त्यभावाद्व्याप्य- भूतनानात्वनिवृत्तिः सिध्यतीति भावः । भेदादीनामिति भेदादिर्नानुभूतिधर्मः, अनुभाव्यत्वात् रूपवदित्यनुमानमिह विवक्षितम् । अनुभूतेरिति ; अनुभूतिरनुभाव्य- धर्मरहिता, अनुभूतित्वात् ; यन्नैवं तन्नैवं यथा घटादिरिति व्यतिरेक्यनुमानं द्रष्टव्यम् । अनुभूतेरधर्मकत्वेऽनुभूतिपक्षकमनुभाव्यपक्षकं चानुमानद्वयं प्रमाणमिति भावः । ज्ञाता नामेति ; अपारमार्थिकस्यात्मत्वासंभवेन ज्ञातुश्चातिरिक्तस्यापारमार्थिकत्वादिति भावः । अजडत्वाच्चेत्यत्र चकारेण पूर्वोक्तो ज्ञात्रन्तराभावरूप हेतुः समुच्चीयते । श्रीभाष्यम् , ननु च ’ अहं जानामि इति ज्ञातृता प्रतीतिसिद्धा ; नैवम् ; सा भ्रान्तिसिद्धा रजततेव शुक्तिशकलस्य, अनुभूतेः स्वा- त्मनि कर्तृत्वायोगात् । अतो ’ मनुष्योऽहम्’ इत्यत्यन्त बहिर्भूत- मनुष्यत्वादिविशिष्टपिण्डात्माभिमानवज्ज्ञातृत्वमप्यध्यस्तम् । ज्ञातृत्वं हि ज्ञानक्रियाकर्तृत्वम् । तच्च विक्रियात्मकं जडं विकारिद्रव्याहंकार- ग्रन्थिस्थमविक्रिये साक्षिणि चिन्मात्रात्मनि कथमिव संभवति ? दृश्य- धीसिद्धत्वादेव रूपादेखि कर्तृत्वादेर्नात्मधर्मत्वम् । श्रुतप्रकाशिका तर्केण ज्ञातृत्वे प्रतिक्षिप्ते आत्मनोऽहंप्रत्ययगोचरत्वस्य स्वानुभवप्रत्यक्षसिद्धत्वेन चोदयति—ननु चेति । चः चोद्यसमुच्चये । प्रतीतिसिद्धा; स्वानुभवरूपप्रतीति सिद्धेत्यर्थः । अत्राह – नैवमिति । प्रतीतेर्भ्रान्तित्वमाह - सा भ्रान्तिसिद्धेति । अनु भवविषयत्वेन पूर्वं प्रतीता रजतता यथा शुक्तिज्ञानबाधितत्वात् भ्रान्तिसिद्धा भवति तथेत्यभिप्रायेणाह – रजततेव शुक्तिशकलस्येति । भ्रमाधिष्ठानोपपत्तये शकलशब्द अविकलवपुषः शुक्तेर्भमास्पदत्वायोगात् । यद्वा ज्ञातृत्वे प्रतीयमाने तत्र ज्ञानांशस्य पार मार्थ्ये, कर्त्रशस्यापारमार्थ्ये च दृष्टान्ततया रजततेव शुक्तिशकलस्येत्युक्तम् । तत्र हीर

D (१ – १ – १). भावप्रकाशिका ६०९ -मंशः परमार्थः, रजततैवापरमार्थ इति । भ्रान्तिसिद्धत्वमुपपादयति – अनुभूतेरिति । ततः किमित्यत्राह – अतो मनुष्य इति । कर्तृत्वायोगमुपपादयति – ज्ञातृत्वं हीति । यद्वा ज्ञातृत्वं नाम किं ब्रह्मस्वरूपभूतज्ञानाश्रयत्वम् ? उतान्तःकरणक्रियारूपज्ञानाश्रय- त्वम् ? इति विकल्पमभिप्रेत्य प्रथमं शिरो दूषयति– अनुभूतेरिति । पूर्वोक्तयुक्तिभिरनु- भूतेरेव पारमार्थ्य सिद्धे तस्या ज्ञातृत्वं स्वात्मनि कर्तृत्वं स्यात् ; तत्तु व्याहतमित्यर्थः । कर्तृत्वम् ; आश्रयत्वम् । ज्ञातृत्वं भ्रान्तपुरुषप्रतीतिसिद्धत्वाच्चाध्यस्तमित्यभिप्रायेणाह - "


इति । पिण्डस्योत्पत्त्यादिभिरात्मव्यतिरिक्तत्वस्य संप्रतिपन्नत्वादत्यन्त बहिर्भूतेत्युक्तम् । अथ न केवलं स्वापेक्षया कर्तृत्वमनुपपन्नम् अपितु स्वपरविभागनिर्विशेषं कर्तृत्वमात्र- मेवानुपपन्नमित्यभिप्रायेण द्वितीयं शिरो दूषयति — ज्ञातृत्वं हीति । ततः किमित्यत्राह - तच्चेति । विक्रियात्मकम् ; उत्पत्तिविनाशयोगात् क्रियायास्तदाश्रयत्वमपि कादाचित्क- मिति तद्विकाररूपमित्यर्थः । जडम् ज्ञेयम् ; अत एव विकारिद्रव्याहंकारग्रन्थिस्थम् ; जडत्वविक्रियात्मकत्वसाम्यादिति भावः । ग्रन्थिर्नाम बन्धनस्याशैथिल्यकरो ग्रन्थनविशेषः । अहंकारस्य सर्वभ्रममूलत्वात् ग्रन्थिरित्युक्तम् । एतद्विरोधिरूपमाह - अविक्रिय इति । साक्षित्वाभ्युपगमेन ज्ञातृत्वमभ्युपगतं भवतीति शङ्कायां साक्षित्वमपि ज्ञानस्वरूपत्वानुगुण- मित्यभिप्रायेण साक्षिणीत्युक्तम् | अविद्यानुभवरूपत्वमेव साक्षित्वमिति ज्ञानत्वाविरोध - इति भावः । चिन्मात्रात्मनि स्वयंप्रकाशे । जढं ज्ञातृत्वमजडस्य न संभवतीति भावः । कर्तृत्वादिर्नात्मधर्मः, दृश्यधीनसिद्धित्वात् रूपादिवदित्यन्वयिनमभिप्रेत्याह – दृश्यधी- नासिद्धित्वादेवेति । कर्तृत्वादेरित्यादिशब्देनाहंप्रत्ययगोचरत्वं गृह्यते । य एव भेदा- -दीनामनुभूतिधर्मत्वाभावे हेतु:, तेनैवेत्येवकाराभिप्रायः । ; भावप्रकाशिका ननु ’ अहं जानामि ’ इत्यहमर्थे ज्ञातृत्वस्य प्रत्यक्षसिद्धत्वेऽपि नात्मनो ज्ञातृत्व प्रत्यक्षसिद्धमित्याशङ्क्याह – आत्मनोऽहं प्रत्ययगोचरत्वस्य स्वानुभवप्रत्यक्षसिद्ध त्वेनेति । यद्वा ज्ञातृत्वे प्रतीयमान इति ; अंशवाचिना शकलशब्देनायमर्थः स्मारित - इति भावः । ज्ञातृत्वं हीति भाष्यं पूर्वोक्तहेतोरसिद्धिशङ्कापरिहारपरमित्यभिप्रायेण कर्तृ- - त्वायोगमुपपादयति — ज्ञातृत्वं हीति । अस्मिन् व्याख्याने स्वात्मशब्दस्वारस्याभावात् उपपादनसापेक्षकर्तृत्वायोगं हेतुमभिधाय तदुपपादनात्पूर्वमेव ततः किमिति शङ्कापरिहारा- 77 ०

६१० ० श्रीभाष्यम् (जिज्ञासाधिकरणम्) नौचित्याच्चान्यथा व्याचष्टे - यद्वा ज्ञातृत्वं नामेत्यादिना । स्वरूपभूतज्ञानाश्रयत्वविव– क्षायां कर्तृत्वशब्दः कथं घटत इत्याशङ्क्याह – कर्तृत्वमाश्रयत्वमिति । स्वात्म कर्तृत्वायोगहेतोरुपपादननिरपेक्षत्वेऽपि विकल्पितशिरोऽन्तरनिराकरणात् प्राक् ततः किमिति शङ्कापरिहारस्यानुचितत्वात् ’ अतो मनुष्योऽहम् ’ इत्यादिभाष्यं हेत्वन्तरपरतया व्याचष्टे- ज्ञातृत्वं भ्रान्तपुरुषेति । अस्मिन् पक्षे अतः शब्दस्य पूर्वोक्तपरामर्शिनो न स्वार- स्यमिति द्रष्टव्यम् । जडत्वविक्रियात्मकत्वसाम्यादिति ; जडत्वविकारित्वसाम्यादि- त्यर्थः । विकारिद्रव्याहंकारेति ; अविक्रियोत साक्षिणि चेति भाष्ये दर्शनात् । अन्यथा विक्रियाद्रव्याहंकारेति अविक्रियायां साक्षिणीति च भाषणीयम् । न च ज्ञातृत्वस्य विकाररूपस्य कथं विकारित्वमिति वाच्यम्, विकारत्वविकारित्वयोरविरोधात् । यद्य- घ्यश्रयाश्रयिभावे साम्यमप्रयोजकं द्रव्यगुणजातिव्यक्त्यादौ तथा भावात् ; तथापि ज जडाश्रितमेव दृष्टं, विकारि च विकार्याश्रितमेव दृष्टमिति भावः । केचित्तु – ’ विकारि- द्रव्याहंकारग्रन्थिस्थमविक्रिये साक्षिणि ’ इति भाष्यपर्यालोचनायां निर्विकारे विकारस्या- वस्थानं न संभवतीत्येव प्रतीयते ; न समयोरेवाश्रयाश्रयिभाव इति मन्यन्ते । " नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि ” इति सुषुप्तिविषयिणी श्रुतिः । अयं सुषुप्तः ‘अयमहमस्मि’ इत्येवं न जानाति खल्वित्यर्थः ।


श्रुतप्रदीपिका " स्वानुभवप्रत्यक्षविरोधेन चोदयति - ननु चेति । भ्रान्तितया परिहरति — नैव- मिति । तावदेशस्य पाश्चात्यवाधादित्यभिप्रयन्नाह — रजततेति । कथं भ्रान्तित्वमित्य- पेक्षायां स्वरूपभूतज्ञानाश्रयत्वं वा ज्ञानक्रियाश्रयत्वं वा ज्ञातृत्वमिति विकल्पमभिप्रेत्य प्रथमं व्युदस्यति — अनुभूतेरिति । कर्तृत्वम् ; आश्रयत्वम् । अन्यस्य कर्तुरन्यत्वादेव मिथ्यात्वात् स्वयमेव स्वाश्रयः स्यात् ; तद्व्याहृतमित्यर्थः । भ्रान्तपुरुषप्रतिपन्नत्वमपि हेतुमाह - अत इति । द्वितीयं व्युदस्यति — ज्ञातृत्वं हीति । ततः किमित्यत्राह - तच्चेति । कादाचित्कत्वात् विक्रियात्मकत्वम् । साक्षित्वमपि न ज्ञातृत्वम्, अपित्व- विद्यानुभवरूपत्वमित्यभिप्रायेण साक्षिणीत्युक्तम् । कर्तृत्वादेरनात्मधर्मत्वेऽनुमानमाह- दृश्यधनेति । आदिशब्दादहंधीवेद्यत्वम् । अहमर्थो ह्यात्मा, तत्सामानाधिकरण्यात् ।

(१ – १ – १) नयप्रकाशिका नयप्रकाशिका ६९१. ननु ’ अहं जानामि’ इत्यादावात्मनो ज्ञातृता स्वानुभवसिद्धाः ; स्वानुभवसिद्धा- पलापे अनुभूतेरप्यपलापः स्यादिति चेत् — न ; भेदस्यापरमार्थत्वात् अनुभूतेः स्वा- -मनि कर्तृत्वायोगात् । अतो देहात्माभिमानवत् ज्ञातृत्वमपि भ्रान्तमेव, देहात्माभिमानवतो जायमानत्वात् ज्ञातृत्वस्य । किंच ज्ञातृत्वस्य ज्ञानक्रियाकर्तृत्वात् तस्य विकारात्मत्वेन जडत्वान्नाविकारिसंविद्धर्मत्वम् । तस्याः साक्षिरूपत्वाच्च । साक्षिरूपत्वं नाम सर्वसिद्धि- रूपत्वम् । किंतु विकारित्वे विकारान्वययोग्याहंकारस्यैव धर्मः । कर्तृत्वादिर्नात्मधर्मः, दृश्यत्वाद्रूपादिवदित्यनुमानाच्च । सुषुप्त्यादावप्रत्ययाभावेऽप्यात्मानुभवदर्शनाच्च ज्ञातृ- त्वाहंप्रत्ययगोचरत्वादिर्नात्मधर्मः । यदि तद्धर्मवत्ता स्वभाव:, तर्हि तदाप्यनुभवः स्यात् । कर्तृत्वादिसद्भावे च देहस्यैवात्मताप्रसक्तिश्च । किंच ज्ञाता नात्मा, कर्तृत्वात् अहंप्रत्यय- गोचरत्वाद्वा शरीरवदित्यनुमानाभ्यां च न ज्ञातुरात्मता । अतो ज्ञातृत्वादिरहितस्यैव साक्षिणः प्रत्यगात्मत्वम् । प्रमात्रादिव्यतिरिक्तसाक्ष्यनङ्गीकारे हि व्यवहारोऽनुपपन्नः । तथाहि - ज्ञानादिस्तावत्सर्वसंप्रतिपन्नो दृश्यते ; न तेषां बाह्यप्रत्यक्षता; नापि मानसप्रत्य- -क्षतेत्युक्त पूर्वमेव ज्ञानस्य मानसप्रत्यक्षत्वनिराकरणेन । न च ज्ञानस्य स्वयंप्रकाशत्वपक्षे न काचिदनुपपत्तिरिति वाच्यम्, आत्माश्रयज्ञानस्वयंप्रकाशवादस्य विकल्पासहत्वात् । तच्च ज्ञानं किं गुणः ? द्रव्यं वा ? आद्येऽपि पक्षे विकल्पः - अनित्यो नित्यो वेति । अनित्यत्वे आश्रयविनाशोऽपि स्यात् ; गुणविनाशस्यान्यथानुपपत्तेः । तच्च विमतिपदस्य वेदनाश्रयजन्मविनाशव्यतिरेकेण जन्मविनाशौ न संभवतः, प्रकाशगुणत्वात् प्रदीपादिप्रका- शवदित्यनुमानाच्च । अथवा संवेदनं यावत्स्वाश्रयभावि, प्रकाशगुणत्वात् प्रदीपप्रकाशवत् ; तथा संवेदनं सर्वदा सर्वत्र भवितुमर्हति, सर्वगतद्रव्यगुणत्वात् शब्दवदित्यनुमानाभ्यां “वैपरीत्यसिद्धेः । आत्मनः सर्वगतत्वं च श्रुत्या सर्वत्र कार्योपलब्ध्याख्ययुक्त्या च सिद्धम् ; दृष्टं च । न च ज्ञानस्यानित्यत्वपरिच्छिन्नत्वप्रतिभासविरोधः, तस्य भ्रान्तित्वात् । अतः सर्वगतप्रकाशवस्तुसिद्धेरनिच्छयापि साक्षिवस्त्वङ्गीकारः । गुणगुण्यादिभेदोऽपि भ्रम इत्यु- तम् । एतेन संवेदनस्य नित्यगुणत्वपक्षोऽपि निरस्तः । न च वेदनस्य द्रव्यत्वम् द्रव्यस्यान्याश्रयत्वानुपपत्तेः । अतो नित्य सर्वं गतस्वयंप्रकाशतया युगपत्सकलवस्तुसाधन- समर्थैकवस्तुन्यतिरेकेण न समस्तव्यवहारसिद्धिः । “ साक्षी चेता केवलो निर्गुणश्च "

. ६१२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) इति श्रुत्या च साक्षित्वसिद्धिः । नन्विदं साक्षित्वं किं जीवान्तर्गतम् ? अथ दृश्यान्तर्ग- तम् ? उत ब्रह्मान्तर्गतमिति विवेचनीयम् । आद्ये जीवस्य प्रमातृत्वैकरूपत्वान्न साक्षित्व- सिद्धिः । दृश्यान्तर्भावे तु घटादिवदनवभासकत्वमिति न साक्षित्वम् । ब्रह्मान्तर्भा ब्रह्मणश्च श्रुत्यैकसमधिगम्यत्वेन संसारसमयेऽनाविर्भावाच्च व्यवहाराङ्गत्वेन न साक्षिप्रत्यक्ष– सिद्धिरिति चेत् — मैवम् ; चोद्यस्याविवेकनिबन्धनत्वात् । तथाहि - ’ इदं रजतम् ’ इत्यत्रेदमंशः किं रजतपक्षपाती ? किं वा शुक्तिपक्षपाती ? आद्ये रजतवत् बाध्यता ; द्वितीये शुक्तिवदनवभासता । अथ परमार्थतः शुक्तिपक्षत्वेऽपि ’ इदं रजतम्’ इति सामानाधि- करण्यादिदमंशस्य प्रतिभासतो रजतपक्षत्वमिति न प्रमाणप्रतीतेर्विरोध इति चेत्, तर्हि भाविपरमार्थतो ब्रह्मपक्षत्वेऽपि प्रतिभासतः साक्षित्वस्य संसार्यन्तर्भाव इति न प्रमाणप्रतिभास- योर्विरोधः । इयांस्तु भेदः – शुक्तित्वमिदमंशान्वये सत्, इदमंशान्वयाभावेऽसत् । भ्रान्तिसमयेऽनवभासमानं प्रमाणेनेदमंशात्मना व्यज्यते । तच्च रजतत्वोपमर्देन । ब्रह्म तु साक्षिभूतमेव सदविद्यया संसारसमयेऽनभिव्यज्यमानमिव भाति । " तत्त्वमसि " इति प्रमाणज्ञानादज्ञानाभिभवे च संसारोपमर्देनावभासत इति साक्षिस्वरूपस्य स्वयंप्रकार शत्वेन प्रत्यक्षत्वाच्च न प्रमाणवेद्यत्वप्रसङ्गः । तस्मात् प्रमातृप्रमाणप्रमेयप्रतीतिभेदविभ्रम- स्याधिष्ठानतया तत्तत्साक्षिणः प्रतिभासात् तदन्तर्भावेऽपि वस्तुतो ब्रह्मत्वमेवेति न काचित् क्षतिः । तत्र सर्वत्र साक्षिवेद्यत्वेऽपि किंचिदन्तः करणवृत्त्युपाधिद्वारा साक्षिवेद्यं, किंचित् तदनपेक्षया । यत्तत्र घटादिवस्तु बुद्धिवृत्तिव्यवधानेन सिध्यति तत्प्रमाणवेद्यम् । ज्ञानाज्ञानसुखादि तदनपेक्षमेव सिध्यति तत्साक्षिवेद्यमिति व्यवहारः । ततः सर्वव्यव- हारसिद्ध्यर्थं साक्ष्यङ्गीकारः । तत्त्वटीका अत्र ज्ञानाश्रयोऽहमर्थस्त्वात्मेति सर्वलोकस्वानुभवप्रत्यक्षेण बाध इति चोदयति- ननु चेति । यथाहुर्निरालम्बनानुमाने- - " सर्वलोकप्रसिद्धया च पक्षबाधोऽत्र ते ध्रुवम्" इति । स्वतः प्रमात्वमभिप्रेत्यात्र प्रतीतिशब्दः । स्वारसिकवाघाभावेऽपि यौक्ति- कबाधात् खनैल्यादिकल्पत्वं मत्वा प्रतिवक्ति – नैवमिति । आत्मनोऽपि ज्ञातृत्वं देहा- दिज्ञांतृत्ववद्वाधितत्वाद् भ्रान्तिसिद्धमित्याह – सेति । हेतुत्वपरोऽयं परामर्शः – विमतं ज्ञातृत्वं भ्रान्तिसिद्धं, ज्ञातृत्वस्वरूपत्वात् संमतवदिति । देहादेर्ज्ञातृत्वमिच्छतामप्यविगा- CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १) मूलभावप्रकाशिका ६१३ नार्थमन्यत्राप्येकधीविषये बाध्याबाध्यांशविवेकं व्यनक्ति– रजततेति । अन्यथाख्या- त्यन्वारोहेणेदं निदर्शनम् । स्वपक्षे हि शुक्त्यवच्छिन्नमायांशकर्बुरस्य चैतन्यस्य रजततया विवर्तः । शुक्तौ रजतत्वाचाऽपि प्रमाणसिद्धे रजते रजततेव देहादौ बाधिताप्यात्मनि ज्ञातृता स्यादित्यत्रात्मस्वरूप भूतज्ञानाश्रयत्वं वा कर्मकर्त्रवच्छिन्नवृत्तिज्ञानाश्रयत्वं वा ज्ञातृ- त्वमिति विकल्पं मत्वा, आद्येऽपि स्वरूपज्ञानाश्रयत्वमिदं स्वरूपस्यैव, अन्यस्य वेति विकल्पे स्वरूपस्येति पक्षमात्माश्रयेण निरस्यति – अनुभूतेरिति । कर्तृत्वमिहाश्रयत्वम् ; जनकत्वविवक्षायामप्यात्माश्रयः सिद्धः । कथं तस्यात्मनः प्रत्यक्षादिभिर्ज्ञातृत्वप्रतीतिरित्यत्र तत्संभवम्, अन्यस्य वेति विकल्पितपक्षस्यासंभवं च ज्ञापयितुमाह-अत इति : स्वस्य स्वाश्रयत्वायोगादित्यर्थः । अन्तरङ्गाहमर्थधर्माध्यासेनैक्यव्यञ्जनाय विशिष्टदेहपिण्डे- त्यन्तम् । ज्ञातृत्वमिति ; यथा– आत्मनि मनुष्यत्वादिविशिष्टपिण्डत्वमध्यस्तं तथा ज्ञातृभूताहमर्थाभिमानो ज्ञातृत्वमित्यर्थः । तत्रानुभूतिवहिर्भूतत्वमपि हेतुः । स तु ’ ज्ञातृत्वं हि ’ इत्युत्तरवाक्ये स्पष्टः । ज्ञातृत्वमध्यस्तमित्यनेनैवात्मनो वृत्तिज्ञानाश्रयत्व- पक्षोऽपि व्युदस्तः; तदुपपादनाय प्रतिक्षेप्यस्वरूपं निष्कर्षति – ज्ञातृत्वं हीति । हिर्हेतौ ; यतो ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वम्, अत इत्यर्थः । प्रस्तुते को विरोध इत्यत्राह – तच्चेति । चो हेतौ, उक्ताकारेणाकारान्तरसमुच्चयार्थी वा । विक्रियात्मकं जडमिति ; व्यवस्थाप्यमाश्रयविशेषणं व्यनक्ति । विकारिद्रव्याहंकारग्रन्थिस्थमिति ; स्वरूपानुब- न्धित्वाभावादनात्मत्वव्यक्त्यै देहादिवद् ग्रन्थिस्थत्वोक्तिः । ईदृशस्यौचित्योपलम्भमाह- अविक्रिय इति । परेषु व्याप्रियमाणेषु निर्व्यापारो हि साक्षी ; अतः साक्षाद् द्रष्टरि संज्ञायाम्” इत्यनुशिष्ट्या “ साक्षी चेता केवलो निर्गुणश्च ” इति श्रुतिरपि द्रष्टृत्वपरेति न भ्रमितव्यम् ; किं त्वविद्यागोचरानुभवस्वरूप परेत्यभिप्रेत्याह – साक्षिणीति । अनेन सूचितः श्रुतिविरोधोऽपि । तन्निर्धर्मत्वविरोधमप्याह —— चिन्मात्रात्मनीति । अनुभा- व्यत्वात् ” इति प्रागुक्तहेतुनैव कर्तृत्वादेरप्यनात्मधर्मत्वं साधितमिति स्थापयति - दृश्य - धीति । कर्तृत्वादिर्नात्मधर्मः, दृश्यधीनसिद्धित्वात् रूपादिवदित्यनुमानमत्राभिप्रेतम् । कर्तृत्वादीति ; आदिशब्देनाहं प्रत्ययगोचरत्वग्रहः । मूलभावप्रकाशिका 66 66


अनुभूतेरिति ; अनुभूत्यामस्य पूर्वोक्तरीत्या सिद्धत्वादनुभूतेरनुभवितृत्व लक्षण -

६१४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) ज्ञातृत्वासंभवादिति भावः । अत इति ; स्थूलशरीरैक्याध्यासात् तद्धर्ममनुष्यत्वाद्यध्या- सवत् सूक्ष्मशरीरभूतान्तःकरणैक्याध्यासात् तद्धर्मज्ञातृत्वाध्यासोऽपीति भावः । ननु ज्ञातृत्वस्यात्मधर्मत्वमेवास्तु, कुतोऽन्तःकरणधर्मत्वमित्याशङ्क्य विकाररूपस्य ज्ञातृत्वस्य विकाराश्रयत्वयोग्यान्तःकरणधर्मत्वमेव युक्त, नातादृशात्मधर्मत्वमित्याह – ज्ञातृत्वं हीत्या- दिना । जडमिति ; जडस्य जडधर्मत्वादिति भावः । अनुभाव्यस्य भेदादेर्नानुभूतिधर्मत्व- मिति पूर्वोक्तयुक्तयापीदं पराकृतमित्याह दृश्यधीनेति । श्रीभाष्यम् सुषुप्तिमूर्च्छादावहं प्रत्ययापायेऽप्यात्मानुभवदर्शनेन नात्मनोऽहं- प्रत्ययगोचरत्वम् । कर्तृत्वेऽहंप्रत्ययगोचरत्वे चात्मनोऽभ्युपगम्यमाने देहस्येव जडत्वपराक्त्वानात्मत्वादिप्रसङ्गो दुष्परिहरः । अहंप्रत्ययगो- चरात्कर्तृतया प्रसिद्ध | देहात्तत्क्रियाफलस्वर्गादेर्भोक्तुरात्मनोऽन्यत्वं प्रामा- णिकानां प्रसिद्धमेव । तथाहमर्थाज्ज्ञातुरपि विलक्षणः साक्षी प्रत्यगा- त्मेति प्रतिपत्तव्यम् । एवमविक्रियानुभवस्वरूपस्यैवाभिव्यञ्जको जडो- ऽप्यहंकारः स्वाश्रयतया तमभिव्यनक्ति । आत्मस्थतयाभिव्यङ्ग्याभि- व्यञ्जनमभिव्यञ्जकानां स्वभावः । दर्पणजलखण्डादिर्हि मुखचन्द्र- बिम्ब गोत्वादिकमात्मस्थतयाभिव्यनक्ति । तत्कृतोऽयं ’ जानाम्यहम्’ इति भ्रमः । श्रुतप्रकाशिका अहमर्थो ह्यात्मा; तेन समानाधिकरणतया प्रतीतो ज्ञाता आत्मा स्यादित्यत्राह- सुषुप्तिमूर्च्छादाविति । " नाहं खलु" इत्यादिश्रुत्युपजीवनेनाहंप्रत्ययापायेऽपी- त्युक्तम् । आत्मनः कर्तृत्वाहंप्रत्ययगोचरत्वाभावे व्यतिरेक्यनुमानत्रयं प्रसङ्गरूपेणाह - कर्तृत्व इति । ’ आत्मा न कर्ता ; न चाहंप्रत्ययगोचरः’ इति प्रतिज्ञाद्वयम् । अजड- त्वात्, प्रत्यक्त्वात्, आत्मत्वादिति हेतुत्रयम् । यत्कर्तृ यदहंप्रत्ययगोचरः, तज्जढं परागनात्मा च दृष्टम् ; यथा शरीरमिति । यद्वा आत्मा न कर्ता, न चाहंप्रत्ययगोचरः;

(१ – २ – १) भावप्रकाशिका ६१५ जडत्वादिप्रसङ्गात् देहवदिति । जडत्वम् ; दृश्यतैकस्वरूपत्वम् । पराक्त्वम् ; परस्मै भासमानत्वम् । आत्मत्वम् ; पुरुषार्थप्रतिसंबन्धित्वम् ; देहं प्रति नियन्तृतया व्यापित्वं वा । तदभावोऽनात्मत्वम् | आदिशब्देन क्षयित्वादिकं विवक्षितम् । अहंप्रत्ययगोचरस्यः देहस्यानात्मत्वे सिद्धे ह्यप्रत्ययगोचरस्य कर्तुरनात्मत्वप्रसक्तिरित्यत्राह – अहंप्रत्ययगो- चरादिति । क्रियाफलस्वर्गादेर्भोक्तुरित्यनेन देहातिरिक्तत्वं सिद्धम् । प्रामाणिका- नाम् ; चार्वाकातिरिक्तानाम् । अनात्मनोऽहंकारस्य कर्तृत्वे कथमात्मनः संसारभोक्तृत्व- मिति च शङ्का शरीरप्रतिबन्धा निरस्ता । स्वर्गादिभोक्तुरात्मत्वे सिद्धे ज्ञातैवात्मा स्यादि- त्यत्राह — तथेति । शरीरातिरिक्तात्मनोऽभ्युपगमो हि प्रमाणबलात्क्रियते ; तथा ज्ञातु- रपि विलक्षणत्वेन प्रमाणसिद्धत्वात्तथाभ्युपगन्तव्यमित्यर्थः । यद्वा अप्रामाणिकाहंप्रत्यय- गोचरत्वेन हि शरीरस्यानात्मत्वादि ; प्रामाणिकाहंप्रत्ययगोचरस्य तु कथमनात्मत्वादी- त्यत्राह - अहंप्रत्ययगोचरादिति । देहस्याप्रामाणिकाहंप्रत्ययगोचरत्वं प्रमाणबाधादेव हि ज्ञायते ; एवं कर्मफलभोक्तुरौपाधिकाकारवतो ज्ञातुरप्यात्मत्वं प्रमाणबाधितं चेत्, आत्मनस्तद्विलक्षणत्वं स्वीकार्यमित्यर्थः । अतः प्रामाणिकाप्रामाणिकविभागाभावेनाहं- प्रत्ययगोचरत्वमात्रमेवानात्मत्वसाधकमिति भावः । अविक्रियात्मनः कथं ज्ञातृत्वसंभव इत्यत्राह – एवमिति । यद्वा ज्ञातृत्व महंकारग्रन्थिस्थमिति पूर्वमुक्तम् ; कथमहंकारस्य ज्ञातृत्वसंभव इत्यत्राह – एवमिति । अभिव्यञ्जकत्वप्रयुक्तोऽयमहंकारस्य संविदाश्रयभाव इत्यर्थः । अभिव्यञ्जकोऽस्त्वहंकारः ; कथमस्य स्वाश्रयतयाभिव्यञ्जकत्वमित्यत्राह - - आत्म- स्थतयेति । स्वभावसिद्धशब्देनोत्सर्गिकत्वं विवक्षितम् । क्वचित्प्रमाणबाधश्चेत् न तथेति भावः । दृष्टान्तं दर्शयति – दर्पणेति । आत्मस्थतयाभिव्यञ्जनं न दर्पणत्वप्रयुक्तम् ; न च प्रतिबिम्बत्वप्रयुक्तम् ; अभिव्यञ्जकत्वमात्रप्रयुक्तमिति दर्शयितुं खण्डादिग्रहणम् । आदिशब्देन मुण्डादिः । एवं व्यङ्क्तव्यङ्ग्यभावकृतो ज्ञातृत्वावभासः संविद इत्यत्राह - तत्कृत इति । भावप्रकाशिका शरीरप्रतिबन्धा निरस्तेति ; शरीरस्य कर्तृत्वेऽप्यात्मनो भोक्तृत्वदर्शनादिति भावः । वस्तुतस्तु भोक्तत्वमप्यात्मनो नास्त्येव । नन्वेवं संसारमोक्षयोर्वैयधिकरण्यप्रसङ्गः, मोक्षस्य चिन्मात्रगतत्वात्, बन्धस्य कर्तृत्वादिरूपस्यान्तःकरणगतत्वादिति चेत् —न ;

६१६ , श्रीभाष्यम् (जिज्ञासाधिकरणम्) कर्तृत्वभोक्तृत्वादिविशिष्टान्तः करणाध्या साधिष्ठानभाव एवं चिन्मात्रागतः संसार इत्यभ्यु - पगमेन दोषाभावात् । ’ अहंप्रत्ययगोचरात् ’ इति भाष्यं दृष्टान्ते आपाद्यमानानात्मत्वासि- द्विशङ्कापरिहारपरमिति व्याख्यायास्मिन् व्याख्याने दृष्टान्ते शरीरेऽनात्मत्वासिद्धिशङ्काया अतिमन्दत्वादपरितुष्यन्नाह - यद्वा अप्रामाणिका हंप्रत्ययगोचरत्वेन हीति । अस्मिन् ‘पक्षे ‘ प्रामाणिकानां प्रसिद्धमेव ’ इति भाष्यस्थ एवकारो यथाशब्दार्थः । अथवा तथाशब्द- बलात् यथाशब्दोऽध्याहर्तव्यः । अस्मिन् पक्षे ’ अहंप्रत्ययगोचरात् ’ इति भाष्यस्थप्रत्यय- पदस्य भ्रान्तिरर्थं इति द्रष्टव्यम् । केचित्तु – ज्ञातुरपि विलक्षणत्वेन प्रमाणसिद्धत्वात्तथा- भ्युपगन्तव्यम् । ‘इत्यर्थः’ इत्यस्यानन्तरं यद्वेति पदं कोशेषु दृश्यते ; न तस्य सम्यक्त्वं पश्यामः, अप्रामाणिकाहंप्रत्ययगोचरादिति ग्रन्थस्य तथाहमर्थादिति भाष्यगतस्याहमर्था- दिति पदस्यावतारिका रूपत्वस्यैव युक्तत्वात् । ततश्चाहं प्रत्ययगोचरादिति प्रतीकग्रह- णमपि न युक्तम् । अहमर्थादित्येव प्रतीकग्रहणं युक्तम् । न चैतत्पूर्वग्रन्थस्थस्याहं प्रत्यय- गोचरादित्यस्य ग्रहणं युक्तम्, देहातिरिक्तत्वसमर्थनपरे तस्मिन्वाक्ये देहातिरिक्तत्वं सिद्ध- वत्कृत्य शङ्काया अनुत्थितेरित्याहुः । ज्ञातुरप्यात्मत्वं प्रमाणबाधितं चेदिति ; प्रामाणि - काहंप्रत्ययगोचरस्यापीति शेषः ‘अविक्रिये साक्षिणि इत्यादिना पूर्वमात्मनि ज्ञातृत्वासंभवस्योक्तत्वात् उत्तरत्र ’ तत्कृतोऽयं जानाम्यहमिति भ्रमः ’ इत्यात्मनि ज्ञातृत्व- अमोपपत्तेर्वक्ष्यमाणत्वाच्च पूर्वापरानुगुण्येनात्मनि ज्ञातृत्वावभासनोपपादनपरतया ’ एवम- विक्रियानुभवस्वरूपस्यैव ’ इत्यादि भाष्यं व्याचष्टे – अविक्रियात्मन इति । स्ववा - क्यस्वारस्यानुरोधेनान्यथा व्याचष्टे – यद्वा ज्ञातृत्वेति । श्रुतप्रदीपिका


ज्ञाताप्यात्मेत्यत्राह - सुषुप्तीति । वक्ष्यमाणेोपजीवनेनापाय उक्तः । अकर्तृत्वा- नहंतृत्वयोर्व्यतिरेकीण्याह — कर्तृत्व इति । देहेऽहंधीर्भ्रान्तिरूपेति न प्रामाणिकी। आत्मनस्तु प्रामाणिकाहंधीवेद्यस्य कथमनात्मत्वमित्यत्राह – अहंप्रत्ययेति । यद्वा देहस्या- नात्मत्वं कुत इत्यत्राह – अहंप्रत्ययेति । तर्हि ज्ञातुरेवात्मत्वं स्यादित्यत्राह — तथेति । देहात् ज्ञातुरिव ज्ञातुरप्यात्मनो वैलक्षण्यं मानसिद्धमित्यधीवेद्यत्वमात्रमेवानात्मत्वसाधकमि- त्यर्थः । स्वप्रकाशक्रियारूपज्ञानाश्रयत्वलक्षणं च ज्ञातृत्वमात्मनोऽनुभवरूपस्य न संभव तीत्युक्तम् । संविदोऽहमथस्थतया भानं कथमुपपद्यत इत्यत्राह – एवमिति । अभिव्य

(१ – १ – १) तत्त्वटीका ६१७ ञ्जकतास्तु ; आत्मस्थतया भानं कथमित्यत्राह – आत्मस्थेति । स्वभावसिद्धशब्देनौत्सर्गि- कत्वं विवक्षितम् ; क्वचित्प्रमाणवाचञ्चन्न तथेति भावः । दृष्टान्तं दर्शयति-दर्पणेति । आत्मस्थतयाभिव्यञ्जनं न दर्पणत्वप्रयुक्तम्, न च प्रतिबिम्बत्वप्रयुक्तमू ; अभिव्यञ्जक- त्वमात्रप्रयुक्तमिति दर्शयितुं खण्डादिग्रहणम् | आदिशब्देन मुण्डादिग्रहणम् । दर्पणत्वादि- प्रयुक्तदोषव्युदासाय स्थलत्रयम् । तत्फलमाह – तत्कृत इति । नयप्रकाशिका नन्वहं प्रत्ययवेद्यताभ्रमस्य किं मूलमिति चेत् संविदोऽकाराभिव्यङ्ग्यत्वमेवेति श्रमः । अभिव्यञ्जकस्वभावोऽयं यदात्मस्थतयाभिव्यङ्गयाभिव्यक्तृत्वम्, दर्पणादौ तथा दर्शनात् । अतस्तन्मूलो ’ जानाम्यहम् ’ इति भ्रमः । अयमर्थः - यथा मुखादे महत्त्वेऽपि मण्यादिदेशाल्पतया तदध्यासादल्पत्वम्, एवमहंकाराध्यासात् ज्ञातृत्वादिरिति । दर्प- णादेर्जडत्वेऽभिव्यञ्जकत्वदर्शनान्न जडाहंकारस्याभिव्यञ्जकत्वमिति न चोद्यावकाशः । तत्त्वटीका " ननु " अहमेवाहं मां जुहोमि " इत्यादिश्रुतिशतैः प्रत्यक्षानुगुणैरहमर्थ आत्मेति सिद्धेऽहंत्वसामानाधिकरण्यबलाज्ञातृत्वादिकमात्मधर्मः स्यादित्यत्राह - सुषुप्तिमृच्छांदा- विति । आदिशब्देन मरणमोक्षसंग्रहः । स्वात्मप्रकाशोऽपि तदा नास्तीति जडात्मवा- दिमतव्युदासाय आत्मानुभवोक्तिः । तास्वपि दशासु स्वप्रकाशत्वस्य श्रुतिप्रतिपन्नत्वादिति भावः । अहंबुद्धेरात्मविषयत्वे स्वरूपस्फुरणवत्सुषुप्तावपि सानुवर्तेत ; प्रयोगश्च – अहं कर्ता’ इत्यादिधर्नात्मगोचरा, सुषुप्त्यादावविद्यमानत्वात् । तथाच " अहंमानोद्भवं दुःखम् ” इत्यादि “ अविद्याहंमतिः इति च पठ्यते । अकर्तृत्वानहंत्वयोरु तस्य प्रमाणस्यानुग्राहकतर्कानाह — कर्तृत्व इति । प्रसङ्गविपर्ययाश्चाजडत्वादयः प्रकृतसाध्यद्वये व्यतिरेकिहेतवोऽभिप्रेताः । यदि जडस्याहंत्वं, तर्हि देहस्यैव तत्किं न स्यात् ? बाधा- च्चेत्तर्हि श्रुत्यादिसिद्धस्य बाधायोगादात्मनि तदस्तु ; अनात्मनः कर्तृत्वे कामित्वकर्तृत्वा- सामानाधिकरण्यात्तन्मूलं भोक्तृत्वमप्यात्मनो न सिध्येत् ; " शास्त्रफलं प्रयोक्तरि " इति नियमस्य जातेष्ट्यादावगत्या निवृत्तिः; अन्यत्र न तथा संसाराभावान्मुक्तिशास्त्र नारभ्य - मित्यत्राह – अहप्रत्ययेति । कर्तृतया प्रसिद्धादेहादिति ; कथम् ? इत्थन् — प्रचु- राणी विष्णुक्रमणसर्पणादीनां वैवक्रियाणां साक्षाद्देहाश्रयत्वाद्वाङ्मनसव्यापाराणां देह- 78 ; CC-0 No Rights Reserved. Digitized by eGangotri६१८ श्रीभाष्यम् 1 (जिज्ञासाधिकरणम्) सापेक्षत्वादिति । प्रामाणिकानाम् ; श्रुत्याद्यनुसारिणामित्यर्थः । तदिहाकर्तुर्भोक्तासंभ- वेन बाधायोगचोद्यं परास्तम् । अहंत्वकर्तृत्वादौ बाघश्च पूर्वोक्तः । सुषुप्त्यादिविषय– श्रुतिप्रसिद्ध आत्मा । श्रुतस्य तत्तत्क्रियाश्रयत्वेऽप्यात्मन ऐहिकामुष्मिक तत्फलभोक्तत्वं प्रामाणिकैः सर्वैरङ्गीकृतम् । तथानात्मनोऽहमर्थस्य कर्तृत्वेऽपि गतिः । स्मर्यते च - 66 कार्यकारणकर्तृत्वे ” इत्यादि । तर्हि भोक्तृत्वादेव ज्ञातृत्वादिकं स्यादित्यत्र दत्तोत्तरत्वं मत्वाह–तथेति । अयं भावः — कर्तृत्वभोक्तृत्वविशिष्टोऽहमर्थो नात्मा, अहंधीवेद्यत्वात् देहवत् । अभोक्तृत्वेऽप्यात्मनो भोक्तृत्वाध्यासात्तदुक्तिः । मुक्तिशास्त्र च तावन्मात्रनि- वृत्त्यर्थमिति । न हि कर्ता साक्षी स्यादित्यभिप्रायेण साक्षित्वोक्तिः । प्रतिपत्तव्यम् ; उक्तैर्हेतुभिः " यस्य नाहंकृतो भावः" इत्यादिशास्त्रैश्चेति शेषः । नन्वविद्याशबले चिद्रूपात्मनि ’ अहम्’ इति प्रथमोऽध्यासस्त्वदुक्तः ; तथाच शुक्तिस्थतया रूप्यवद्धा- स्थतयाहमर्थो भासेत ; प्रत्युत तद्धर्मतया धीर्भाति । तथात्वे धियोऽहमर्थविकारत्वं जन्मादिविकाराश्रयत्वं च स्यादित्यत्राह - एवमिति । अभिव्यञ्जक इति हेतुगर्भम् । जडोऽपीति घटवद्वयञ्जकत्वासंभवशङ्काव्युदासार्थम् । अहंकारस्थतयाभिव्यक्तिमात्रमेव ; न तु वास्तवी तत्र वृत्तिःळा दर्पण प्रतिहतभान्यायेन तु तद्धर्मत्वोक्तिः ; अतो न तद्विकारि- त्वादिप्रसङ्गः । इन्द्रियवत् व्यञ्जकत्वमस्तु; किमिति स्वनिष्ठतया व्यनक्तीत्यत्राह - - आत्म- स्थतयेति । यथादर्शनं “ स्वभावो दुरतिक्रमः" इत्यभिप्रायेण स्वभावशब्दः । अभि- व्यञ्जकानामीदृक्स्वभावत्वं बुद्धीनां प्रमात्ववदौत्सर्गिकं क्वचिदपवादेऽपि भूयोदृष्टघा सिध्यतीत्याह – दर्पणेति । तत्तद्विशेषप्रयुक्तत्व व्युदासाय बहूदाहृतिः । जातिव्यक्त्यु- दाहरणेन चक्षुष्प्रतिफलनोपाधिकत्वशङ्का चापास्ता । उक्तप्रकारेणाधिष्ठानवैपरीत्यादिचोद्य- स्यापास्तत्वमाह – तत्कृत इति । व्यञ्जकसामान्यस्वभावसिद्ध इत्यर्थः । 66 मूलभावप्रकाशिका अहंप्रतीतेरात्मविषयत्वाभावादपि ’ अहं जानामि इति प्रतीतिबलान्नात्मनो ज्ञातृत्वसिद्धिरित्याह – सुषुप्तीति । देहस्यैवानात्मत्वे विवदमानं प्रत्याह- अहंमत्य- येति । प्रतिपत्तव्यमिति ; इतरथा स्थूलदेहात् भेदोऽपि न सिध्येदिति भावः । अन्तः- करणज्ञातृत्वसिद्धिप्रकारमुपपादयति — एवमिति । स्वाश्रयेति बहुव्रीहिः ; स्वाश्रितेत्यर्थः । 1

( १ – १ – १ ) , श्रुतप्रकाशिका श्रीभाष्यम् ६१९. स्वप्रकाशाया अनुभूतेः कथमिव तदभिव्यङ्ग्यजडरूपाहंकारे- णाभिव्यङ्ग्यत्वमिति मा वोचः, रविकरनिकराभिव्यङ्ग्यकरतलस्य तदभिव्यञ्जकत्वदर्शनात् । जालकरन्ध्रनिष्क्रान्तद्युमणिकिरणानां तदभि- व्यङ्ग्येनापि करतलेन स्फुटतरप्रकाशो हि दृष्टचरः । यतः ‘अहं जानामि इति ज्ञातायमहमर्थश्चिन्मात्रात्मनो न पारमार्थिको धर्मः । अत एव सुषुप्तिमुक्त्योर्नान्वेति । तत्र ह्यहमुल्लेखविगमेन स्वाभावि कानुभवमात्र रूपेणात्मावभासते । अत एव सुप्तोत्थितः ’ कदाचि - न्मामप्यहं न ज्ञातवान् इति परामृशति । तस्मात्परमार्थतो निर- स्तसमस्तभेदविकल्पनिर्विशेषचिन्मात्रैकरसकूटस्थनित्यसंविदेव भ्रान्त्या ज्ञातृज्ञेयज्ञानरूपविविधविचित्रभेदा विवर्तत इति तन्मूलभूताविद्यानि- बर्हणाय नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदा- न्ता आरभ्यन्त इति । 5 श्रुतप्रकाशिका ; जडस्याभिव्यञ्जकत्वमयुक्तम् ; स्वप्रकाशस्य वस्तुनोऽभिव्यङ्ग्यत्वं चायुक्तम् ; संवि- दभिव्यङ्ग्यस्य च विशेषेण तदभिव्यञ्जकत्वमयुक्तमितीमामाशङ्कां स्वयमेवोत्थाप्य प्रति- क्षिपति – स्वप्रकाशाया इति । कुत इत्यत्राह — रविकरेति । करतलस्य किरणाभि- व्यञ्जकत्वं क दृष्टमित्यत्राह — जालकेति । एवं ज्ञातृत्वस्यापारमार्थिकत्वमुक्तम् एतदेव परमार्थवस्तुभासनवेलायामनवभासनप्रतिपादनेनोपपादयति—यत इति । अनेन ’ अहं प्रत्यया- पायेsपि ’ इति पूर्वोक्तार्थो विवृतो भवति । यत इति साध्यस्य हेतुतया निर्देशः ’ अग्नि- मत्त्वेन धूमवत्त्वम्’ इतिवत् । मुक्तिसमभिव्याहारेण सुषुप्तावप्यहं प्रत्ययापायस्यागमसिद्धत्वं सूचितम् । तदा कथं भासत इत्यत्राह - तत्र हीति । " नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति ” इति स्वापविषया श्रुतिः । ।

६२० श्रीभाष्यम् " अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ " (जिज्ञासाधिकरणम् ) इति मुक्तिविषया स्मृतिः । ’ महाभूतान्यहंकारो बुद्धिव्यक्तमेव च ’ इति क्षेत्रान्तर्भाव– श्चोच्यतेऽहंकारस्य । ’ अहंकारविमूढात्मा कर्ताहमिति मन्यते ’ इति तस्य भ्रान्तिसिद्धत्व- मुच्यते । हिशब्दः श्रुतिस्मृति प्रसिद्विद्योतनार्थः । न केवलं श्रुतिः, सुषुप्तिविषयः परा– मर्शश्च तथास्तीत्याह – अत एवेति । अत एवेति साध्यस्य हेतुत्वेन परामर्शः । कथं साध्यसाधनयोर्विपरीतनिर्देशः : इत्थम् – ज्ञप्तौ यत्साध्यं तदुत्पत्तौ साधनम्, यदुत्पत्तौ साधनं तज्ज्ञप्तौ साध्यम् । तस्मात् ’ अग्निमत्त्वादेव हि धूमोद्गमः ’ इतिवदुत्पत्तौ हेतुत्व- मपेक्ष्य अत एवेत्युक्तम् । ततः किं प्रस्तुतपूर्ववृत्तत्वचिन्ताया इत्यत्राह - तस्मादिति । तस्मादित्यनेन ’ यदप्याहुः – अशेषविशेष’ इत्यारभ्योक्तप्रमाणतर्काभ्यां स्वमतोपपादन– मभिप्रेतत् । निरस्तसमस्त भेदविकल्पति ; भेदविकल्पशब्देन ज्ञातृज्ञेयादिभेदस्यावान्तर- वैविध्यं विवक्षितम् । निर्विशेषशब्देन स्वगतनित्यत्वादिभेदव्यावृत्तिः । कुत इत्यत्राह - चिन्मात्रैकरसेति ; चिन्मात्रत्वादित्यर्थः । अनेन शून्यत्वव्युदासश्च । कूटस्थम् ; निर्वि- कारम् ; सर्वाधिष्ठानं वा । नित्यसंविदेवेति ; चिन्मात्रशब्दः स्वयंप्रकाशत्वपरः, संवि- च्छब्दो विशेष्यपर इत्यपौनरुक्त्यम् । चिन्मात्रस्य कथं भेदसंभव इत्यत्राह - भ्रान्त्येति । भ्रान्त्या विवर्तत इति करिकलभवन्निर्देशः । शुद्धम् ; अविद्यारहितम् । बुद्धम् ; स्वप्र- काशम् । मुक्तम् ; परमार्थतो भेददर्शनजन्मादिरहितम् । एवंविधब्रह्मात्मैकत्वविद्यालब्धये सर्वे वेदान्ता आरभ्यन्त इत्यर्थः । वेदान्तानामारम्भणीयत्वं नाम तद्विचारस्यारम्भ- णीयत्वम् । सर्वे वेदान्ता आरभ्यन्त इति यदप्याहुरिति पूर्वेणान्वयः । ब्रह्ममीमांसा- शास्त्र किमनारम्भणीयम् ? उतारम्भणीयमिति विचारे बन्धस्य परमार्थत्वेन ज्ञाननिवर्त्य - त्वाभावात् ज्ञानप्रतिपादकवेदान्तवाक्यविचाररूपं शास्त्रमनारम्भणीयमिति पूर्वपक्षं कृत्वा बन्धस्य मिथ्यात्वेन ज्ञानमात्रनिवर्त्यत्वात् ज्ञानार्थं वेदान्तविचाररूपं शास्त्रमारम्भणीयमिति हि ब्रह्माज्ञानपक्षे प्रथमाधिकरणार्थः शिक्षितः । अतो बन्धस्य मिथ्यात्वेन ज्ञानमात्रनिव- त्यत्वात् ज्ञानप्रधानस्य शास्त्रस्य कर्मविचारो न पूर्ववृत्त इत्युक्तं भवतीति वैषम्यम् । उपाय आत्मैकत्वविज्ञानम्, उपेयं निर्विशेषचिन्मात्रं ब्रह्म ; निवर्त्य च मिथ्याभूतमित्येतत्त्रयं कर्मविचारस्यानपेक्षितत्वाय पूर्वं विस्तरेणोपपादितं निगमनग्रन्थे संक्षिप्तं भवति ।

(१ – १ – १) नयप्रकाशिका भावप्रकाशिका ६२१ . एवं ज्ञातृत्वस्यापारमार्थिकत्वमुक्तमिति ; ‘यतोऽहं जानामि’ इति भाष्यस्या- हमर्थस्यैव ज्ञातृतया चिन्मात्रात्मनो यतो ज्ञातृत्वं न पारमार्थिको धर्म इति भावः । विशे- व्यपर इत्यपौनरुक्त्यमिति ; धर्मिस्वरूपपर इत्यर्थः । भ्रान्त्या विवर्तत इति कथं निर्देश: ? भ्रान्त्या प्रतीयत इति हि विवर्तशब्दार्थः ; ततश्च पौनरुक्तत्यमित्याशङ्क्याह- करिकलभवन्निर्देश इर्ति ; “कपोले जानक्याः करिकलभदन्तद्युतिमुषि” इतिवदिति भावः । श्रुतप्रदीपिका 1 "" 99 66 स्वसिद्धेरभिव्यङ्ग्यत्वं जडस्याभिव्यञ्जकत्वं कर्मकर्तृविरोधं चाशङ्क्याह – स्वम- काशाया इति । उपपादयति-रवीति । कुत इत्यत्राह – जालकेति । परमार्थ- भानवेलायामभानाच्च तन्मिथ्यात्वमाह - यत इति । साध्यस्य हेतुतया निर्देशः ’ अग्नि- मत्तया हि धूमवान्’ इतिवदुत्पत्त्यपेक्षया, न तु ज्ञप्त्यपेक्षया । कथं तथा भानमित्यत्राह- तत्रेति । “ नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति " इति सुषुप्तौ श्रुतिः । " अहंकारं बलं दर्पम् " इति मुक्तौ स्मृतिः । । महाभूतान्यहंकारः अहंकारवि- मूढात्मा" इत्यादि च हिशब्देन द्योत्यते । सुषुप्तौ प्रबुद्धपरामर्शं च हेतुमाह – अत इति पूर्ववत् । ततः किं कर्मानपेक्षायामित्यपेक्षायां यदप्याहरित्यारभ्योक्तं वस्तुसामर्थ्य- मुपसंहरति — तस्मादिति ; तस्मात् ; उक्तमानतर्कैरुपपादनात् । निर्विशेषेति स्वगतभे दाभावः । चित्त्वं स्वसिद्धत्वमिति न पुनरुक्तिः । भ्रान्त्या विवर्तत इति ; करिकलभवन्नि- र्देशः । शुद्धम् ; अविद्यारहितम् । मुक्तम् ; जन्ममरणादिरहितम् । वेदान्तानामार- भ्यत्वं नाम तद्विचारारम्भणीयत्वम् । वाक्यजन्यमेकत्वज्ञानमुपायः, निर्विशेषवस्तू पेयम्, निवर्त्यमनिर्वाच्याज्ञानमिति त्रिकमिह ग्रन्थे दर्शितम् । बन्धस्य सकारणस्य सत्यत्वे निव- र्त्यत्वाभावात् तदर्थशास्त्रानारम्भं पूर्वपक्षीकृत्य बन्धस्य मिथ्यात्वात्तन्निवर्तकज्ञानप्रधानं शास्त्रमारम्भणीयमिति सिद्धान्तितं परैः । अतो मिथ्याभूतबन्धनिवर्तकधियः कर्मानपेक्षत्वान्न कर्मज्ञानं पूर्ववृत्तमिति वस्तुसामर्थ्यमुपपादितं भवति ।


नय प्रकाशिका नन्वहंकारस्य जडत्वेन संविदभिव्यङ्ग्यत्वात् कथमहंकाराभिव्यङ्ग्यत्वम् ? तस्याः स्वयं- प्रकाशत्वादिति चेत् — न; लोके करतलरविकरादेः परस्पराभिव्यञ्जकत्वदर्शनात् । करतलं प्रथमं रविकराभिव्यक्तं सत् रविकरस्य स्फुटाभिव्यञ्जकम् । अतो ज्ञातृत्वादि भ्रान्तिरेव ।

६२२ श्रीभाष्यम् ( जिज्ञासाधिकरणम्) अत एव हि " अहंकारविमूढात्मा कर्ताहमिति मन्यते " इति स्मृतिः । सुषुप्तावहंकारा- द्यननुवृत्तेश्च भ्रान्तता सिद्धा, शुक्तिकारजतज्ञानादिवत् । न च तत्र ज्ञानविनाशान्नानुवृत्ति- । रिति वाच्यम्, राद्धान्त्यभिमतेः । ननु सुषुप्तिमृच्छाद इत्यादिभाष्येण गतार्थत्वात् यतोऽहं जानामीत्यादि भाष्यं व्यर्थमिति चेत्—न ; तद्भाप्यस्याहंप्रत्ययगोचरत्वादेज्ञप्तिधर्मत्वनिरासपरत्वात् ; यतोऽहमि- त्यादिभाष्यस्य ज्ञातृत्वादेर्भ्रान्तित्वप्रतिपादनपरत्वाच्च । सुषुप्तौ तदभावश्च • कदाचि- ’ न्मामप्यहमज्ञातवान् ’ इति सुप्तोत्थितपरामर्शात् । यदि ज्ञातृत्वादिः स्वभावः, तदाप्यनु- भूयेत परामृश्येत च । न च तत् । ननु ज्ञातृत्वादेर्भ्रान्तत्वे भ्रमस्य च दोषमूलतावयं- नमाविनी, कार्यस्योपादानापेक्षत्वात् । न च लोके क्लृप्तेन्द्रियदोषस्य तत्कारणत्वम्, तस्य निमित्तकारणमात्रत्वात् । न चात्मान्तःकरणयोस्तत्कारणत्वम्, आत्मनोऽपरिणामिवात् अन्तःकरणस्य चेन्द्रियसंयोगसापेक्षत्वात् । मिथ्यात्वे च प्रत्ययमात्र परिवर्तिनि तदयो- गात्, अन्तः करणस्य च जडत्वेनाज्ञातृत्वादात्मनो भ्रान्त्यभावप्रसङ्गाच्च । अतोऽध्यासोपादानं किमिति चेत् , मिथ्याज्ञानमिति ब्रूमः । तदेवाविद्येत्युच्यते । सत्यवस्तुनो मिथ्यावस्तु- संभेदावभासोऽविद्येति तल्लक्षणम् । अन्यस्यान्यात्मताज्ञानमध्यास इत्यध्यासलक्षणम् । अतोऽध्याससिद्ध्यसिद्धयोर्मिथ्याज्ञानान्वयव्यतिरेकानुविधायित्वात्तस्यैव विविधाध्यासोपादान- त्वम् । कृत्स्नस्य दृश्यत्वेन मिथ्याभूतस्य जगतो मिथ्याभूतार्थस्यैव कारणत्वयोग्यत्वाच्च नान्यस्य कस्यापि कारणता । ननु जगतो ब्रह्मकारणतेष्टा वेदान्तिनाम् ; कथमविद्याकार- णतोच्यत इति चेत् —न ; अविद्यासंसृष्टस्यैव कारणत्वेन निष्कर्षे अविद्याया एव कारण- स्वात् । तच्चाज्ञानं ज्ञानप्रत्यनीकं भावरूपमेव । तच्च प्रत्यक्षादिप्रमाणैः । तथाहि— अहमज्ञः’ इति स्फुटतरसविकल्पकप्रत्यक्षात्तदज्ञानसिद्धिः । न चास्य ज्ञानप्रागभाव- विषयता, ‘अहं सुखी’ इतिवदस्य प्रत्यक्षरूपत्वात् ; अमावश्चेदभावप्रमाणवेद्यता स्यात् । न चाभावस्य प्रत्यक्षत्वपक्षे प्रत्यक्षावभासोपपत्तिरिति वाच्यम्, विकल्प सहत्वात् । अहमज्ञः ’ मयि ज्ञानं नास्ति’ इत्यनुभवे किं धर्म्यात्मनोऽभावप्रतियोगिज्ञान- रूपार्थस्य प्रतीतिरस्ति वा न वा ? आद्ये ज्ञानसद्भावात्तदभावप्रतीत्ययोगः । द्वितीयेऽपि न तत्प्रागभावानुभवसंभवः, अभावग्रहणस्य धर्मिग्रहणप्रतियोगिस्मरण सापेक्षत्वात् । ज्ञानाभावस्य ज्ञानफललिङ्गाभावानुमेयत्वपक्षे अभावप्रमाणविषयत्वपक्षेऽप्येषानुपपत्तिः समा 6 9 9 CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १ ) नयप्रकाशिका ६२३ आत्माद्यवगतौ तदभावे चात्मनि ज्ञानाभावप्रतिपत्त्ययोगात् । अज्ञानस्य भावरूपत्वे त्व- धर्मादिवत् ज्ञानसद्भावेऽपि विरोधाभावादिदं प्रत्यक्षं भावरूपाज्ञानविषयमेव । ननु भावरूप- स्याप्यज्ञानस्यापारमार्थ्यात् स्वयंप्रकाश वस्तुयाथात्म्यावभासरूपसाक्षिचैतन्यविरोधान्न स्थितिः, शुक्तियाथात्म्यज्ञाने रूप्यस्येवेति चेत् — न ; साक्षिचैतन्यस्य भ्रमाधिष्ठानचैतन्ययाथात्म्य- विषयत्वाभावात् । किंत्वज्ञानविषयमेव याथात्म्यज्ञानेन हि भ्रमनिवृत्तिः । । अन्यथा जगद- भावः स्यात्, तत्र मिथ्याज्ञानभावात् । अतो नाज्ञानविषयज्ञानेनाज्ञाननिवृत्तिः, यस्य कस्यापि ज्ञानस्य स्वविषयविरोधाभावात् । न हि भ्रान्तिकल्पितरजतादेस्तद्विषयज्ञानेन विरोधः, किंत्वधिष्ठानयाथात्म्यज्ञानेन । नन्वज्ञानविशिष्टत्वेन साक्षिचैतन्यस्यावभासः ’ अहमज्ञः ’ इत्यत्रेष्टः । दृश्यादार्थ तद्विशेषणयो रूपघटादिवत् दृश्यतया भाव्यम्, प्रमा- णायत्तत्वाद्विषयसिद्धेः । प्रत्यग्वस्तुनः साक्षिचैतन्यस्य प्रमाणागोचरस्य कथं तदज्ञानविशिष्ट– त्वेनावभास इति चेत् — न ; एतदनुपपत्तेः साक्षित्वसाधने प्रायेण परिहृतत्वात् । सर्वस्य साक्षिवेद्यत्वेऽपि घटादिजडवस्तूनां बुद्धिवृत्तिव्यवधानेन वेद्यत्वम्; अज्ञानरागसुखादीनां तदनपेक्षयेति । अतः स्वतः सिद्धप्रत्यग्वस्तुनो न प्रमाणव्यवधानापेक्षेति साक्षिचैतन्यस्य सामान्याकारेण भावरूपाज्ञानविशिष्टावभासो युक्तः । ज्ञानं नामार्थेन्द्रियसंनिकर्ष जन्यान्तः- करणव्यापारविशेषः । प्रकाशस्तु तदभिव्यङ्गयः । अपरोक्षत्वमेव प्रत्यक्षत्वमिति दर्शन- स्थितिः । अतोऽज्ञानस्य प्रत्यक्षतः सिद्धौ न काचिदनुपपत्तिः । ’ विवादाध्यासितं प्रमाणं ज्ञानम् ’ इत्यनुमानाच्च तत्सिद्धिः । सर्वं प्रत्यक्षादिप्रमाणज्ञानं पक्षः । विवादाध्यासितमिति पदं सिद्धसाधनव्युदासाय । स्वप्रागभावेत्यादिना साध्यधर्मनिर्देशः । तत्र प्रमाणज्ञानं वस्त्वन्तरपूर्वकमित्युक्ते तस्य प्रागभावपूर्वत्वेन सिद्धसाधनतेति तद्व्यवच्छेदाय स्वप्रागभाव- व्यतिरिक्तेत्यंशः । तथापि प्रागभावव्यतिरिक्तकालादिपूर्वकत्वात् तस्य सिद्धसाध्यतेति तद्यपोहाय स्वविषयावरणेत्यभिधानम् । तथापि प्रागभावादिव्यतिरिक्तत्वविषयावरणकुड्या- दिभिः सिद्धसाधनमिति तदासाय स्वनिवर्त्येति विशेषणम् । तथापि वेद्यसंवित्त्यभिव्य- क्तिप्रागभावस्य पूर्वोक्तलक्षणसंपत्तेः तस्य च वेद्यगतत्वेनात्मगतत्वाभावात् सिद्धसाधन तेति तन्निवृत्त्यै स्वदेशगतेत्युक्तिः । धारावाहिकविज्ञानेषूत्तरज्ञानानां ज्ञानपूर्वकत्वेनाज्ञानपूर्वकत्वा- भावमाशङ्क्य तन्निरासायाप्रकाशितेति हेतुविशेषणम् । अनधिगतार्थगन्तृत्वमेव हि प्रमाण- लक्षणम् । दीपप्रभायाश्च पूर्वोक्तलक्षणयुक्तत्वात् दृष्टान्ततोपपन्ना । नन्वालोकाभावमात्र-

0 ६२४ श्रीभाष्यम् (जिज्ञासाधिकरणम्), त्वान्न तमसो द्रव्यान्तरत्वमिति चेत् — न ; बहुलविरलत्वोद्यवस्थायोगित्वात् रूपवत्व।च द्रव्यत्वसिद्धेः । न चालोकवदेशेपि निमीलिताक्षस्य तमस उपलब्धेः रूपदर्शन’ भावमात्रतेति वाच्यम्, पिहितकर्णस्यान्तःशब्दो लब्धवन्धकारोपलब्धेरविरुद्धत्वात् । न चालोक- विनाशितस्य तमसः पुनरालोकापाये झटिति दृश्यमानत्वात् कथं सर्वव्यापिद्रव्योत्पत्तिरिति वाच्यम्, महाविद्युत इव स्वमूलकारणसत्त्वे झटित्युत्पत्त्युपपत्तेः । ननु रूपवद्द्द्रव्यस्य स्पर्शवत्त्वनियतिदर्शनात्स्पर्शानुपलब्धेर्न द्रव्यत्वं तस्येति चेत् — न; वायोरन्यत्र स्पर्शिद्र- व्यस्य रूपवत्त्वनियमेऽपि रूपरहितस्य स्पर्शवतो वायोर्द्रव्यत्ववदुपपत्तेः । रविकिरणवित- तदेशे प्रदीपालोकस्य जन्मविनाशसद्भावात् प्रभादिसद्भावेऽपि तमोबुद्धिदर्शनान्न तावदालो- काभावमात्रम् । न च सर्वालोकाभाव एवेति वाच्यम्, सर्वालोकासंनिधाने तमोनिवृत्त्य- भावापत्तेः । तस्य हि सर्वेषामालोकानामभावरूपत्वेन कतिपयालोक सद्भावे तन्निवृत्त्युप- पत्तिः । न च रूपदर्शनाभावस्तम इति वाच्यम्, बहुलान्धकारगृहोदरावस्थितस्य बही रूपदर्शनेन सभान्तस्तमोदर्शनात् । अतस्तमो द्रव्यान्तरमेव । विशुद्धब्रह्मात्मनि शुक्तिकायां चाहंकाररजताध्यासस्यार्थतो मिथ्याभूतस्य मिथ्याभूतोपादानान्वेषणस्य युक्तत्वात् ; सत्योपादानत्वे कार्यस्यापि सत्यताप्रसक्तेः । मिथ्योपादानस्यापि तादृशोपादानान्तरकल्प- नायामनवस्थापादनमिति मिथ्योपादानस्य कल्पनीयत्वात् । अर्थापत्त्या च तदज्ञानसिद्धिः- न किंचिदह्मवेदिषम् ’ इति सुप्तोत्थितपरामर्शान्यथानुपपत्त्या च तत्सिद्धिः, विशिष्टानु- भवपूर्वकत्वाद्विशिष्टपरामर्शस्य । सुषुप्तिकाले ज्ञानाभावानुभवसंभवः स्वयंप्रकाशत्वप्रसाधने प्रसाधितः । अतो नित्यात्म चैतन्यस्य स्वप्रकाशेनैव मायादिशब्दवाच्यं ज्ञानविरोधित्वेना- ज्ञानमिति चोच्यमानं भावरूपमेव सुषुप्तावनुभूतं परामृश्यते । किंच ज्ञानाभावस्य धर्मि- ग्रहणादिसविकल्पकज्ञानापेक्षत्वात् तस्यान्तःकरणसापेक्षत्वात् सुषुप्तौ तदभावात् तद्ग्रहण- स्याशक्यत्वम् ; भावरूपाज्ञानस्य तु निर्विकल्पक केवलसाक्षिचैतन्येन सुषुप्ताववभासस्य सुशकत्वम् । तत्र भावरूपाज्ञानस्य सुप्तोत्थितेन परामर्शो न भ्रमः, बाबानुपल- म्भात् । किंच जाग्रदवस्थायामेवाज्ञातार्थप्रश्नान्यथानुपपत्त्या च तत्सिद्धिः । स्वाज्ञातमर्थं किंचित् तदभिज्ञ प्रति ’ कोऽसौ मया न ज्ञातः’ इति पृच्छति । तत्र यदि ज्ञानाभाव एवाज्ञानं तदा सुषुप्तत्वात्तदर्थस्य तदनुवादेन प्रश्नोऽनुपपन्नः । न ह्यप्रतिपन्ना- र्थानुवादः । अथ सामान्याकारेणावगम्य तमर्थमनूद्य तद्विशेषविशिष्टत्वे प्रश्न इति चेत्-

(१—१—१) तत्त्वटीका ६२५- -न; विकल्पासहत्वात् । किं सामान्यविशेषौ भिन्नौ, उताभिन्नाविति । आद्ये सामान्यस्य ज्ञातत्वात् तत्र बुभुत्साभावाद्विशेषस्य चार्थान्तरत्वात् तस्य च सुषुप्तत्वात्तदनुवादेन प्रश्नोऽनुपपन्नः । द्वितीये सामान्यविशेषयोरभिन्नत्वेन सामान्यावगमेनैव विशेषस्याप्यवग- तत्वात्, विशेषांशे तु न बुभुत्सेति न प्रश्नोपपत्तिः । अतो ज्ञानाभावस्यैवाज्ञानत्वे प्रश्न- प्रतिवचनोच्छेदप्रसङ्गः । अतो ब्रह्मस्वरूपतिरोधानकरं सर्वाध्यासोपादानमनिर्वचनीयं भावरूपमज्ञानमङ्गीकरणीयम् । अथ तस्यानिर्वचनीयत्वं कथमिति चेत् — तस्य सत्त्वे आन्तिबाधायोगात्, असत्त्वे ख्यातिबाधायोगाच्च सत्त्वेन वासत्त्वेन वा तस्य निर्वक्तु- मशक्यत्वादिति ब्रूमः, शुक्तिकारजतवत् । अनिर्वचनीयख्यातिः राद्धान्ते व्यञ्जयित्वा निरा- करिष्यते । तत्त्वटीका ननु स्वप्रकाशस्य न व्यञ्जकापेक्षा, व्यञ्जकानां च न क्वचिदपि स्वव्यङ्गचैव्र्व्यञ्जनं दृष्टम् ; अनुभूतिश्च न व्यङ्क्त्री, अक्षरवज्जडत्वप्रसङ्गात् । अहंकारोऽपि न व्यङ्क्ता, व्यङ्क्तृबुद्धधधीनसिद्धित्वाभावेन परमार्थसत्त्वप्रसङ्गात् । न च स्वयं व्यक्तः, अनिष्टत्वात् । अतो मिथो व्यङ्क्तृव्यङ्ग्घत्वेऽन्योन्याश्रयः स्यादिति चोद्यमनूद्य क्षिपति —– स्वप्रकाशाया इति । सजातीयनिरपेक्षतया स्वयं भातस्यापि परेण व्यङ्गयत्वं तदभिव्यञ्जकत्वं च निद- र्शयति – रवीति । करतलस्य रविकरव्यञ्जकत्वमसिद्धमित्यत्राह – जालकेति । एतेन नित्यसिद्धायाः स्वरूपव्यक्तेरन्यैवाहंकारजन्याभिव्यक्तिरित्यपि सूच्यते । पूर्वमहंबुद्धेः सुषुप्त्यादावभावात्सिद्धान्तिसंमतस्वरूपधीत्व योगेनान्यगोचरत्वमुक्तम् । अत्र प्रत्येतुः प्रत्येतव्यादव्यतिरेकोऽहंत्वम् ; तच्चात्मनः कादाचित्कमपि सत्यमिति मन्यमानं प्रत्याह- यत इति । व्यापकाभावे व्याप्यं नेति व्यतिरेकव्याप्त्या साध्यस्यात्र साधकसद्भावार्थतया तद्धेतुत्वोक्तिः, न तु तद्बोधकतया । अहंकारस्य धर्मतानिषेधोऽहंत्वधर्मतानिषेधार्थः । ज्ञातृत्वादिकं वा ; भावप्रधानम् ; ज्ञातृत्वादिसहितमहंत्वमित्यर्थः । एवकारोऽन्यथासिद्धय- पोहार्थः । ज्ञातृत्वाहंत्वे मिथ्याभूते अनात्मधर्मौ च, सुषुप्त्यादावभातत्वात् मनुष्यत्वादि- वदिति प्रयोगः । स्वरूपासिद्धोऽयं हेतुरिति वादिनं प्रत्याह – तत्रेति । हिर्हेतौ शास्त्र- प्रसिद्धौ वा । " नाहं खलु " इत्यादिभिः सुषुप्तावहंधीनिवृत्तिः सिद्धा ; मुक्तौ च “अहं- कारं बलं दर्पम् ” इत्यादिभिः । न केवलं शास्त्रेण; प्रबुद्धस्य सुषुप्तावस्थात्मपरामर्शप्रकाराच्च 79

६२६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 19 66 यदप्याहुः तदानीमहंधीनिवृत्तिमाह —— अत एवेति । अत्रापि अत इति साध्यपरम् । C इत्यादिना प्रपञ्चितं वस्तुसामर्थ्यं परमप्रकृतकर्म नैरपेक्ष्यव्यत्त्यै निगमयति – तस्मादिति ; प्रमाणैस्तदनुग्राहकैश्च स्थापनादित्यर्थः । अत्र निर्विशेषं प्राप्यम् । नित्यप्राप्ते तस्मिन्नो- पासनादिसाध्या प्राप्तिः । निवर्त्यं मिथ्याभूतज्ञानम् ; तन्निरासे च ज्ञानातिरिक्तं नापेक्ष्यम् । निवर्तकं वाक्यजन्यमै क्यज्ञानम् ; तच्च स्वोत्पत्तौ स्वफले वा न कर्मापेक्षमिति वस्तुत्रयसामर्थ्यनिष्कर्षः । निरस्तेत्यादिना सजातीयविजातीयनिवृत्तिः । भेदविकल्पः तद्वैचित्र्यम् तमो वा । निर्विशेषेति स्वगतव्युदासाय | चिन्मात्रैकरस शब्दः प्राग्वत् । ज्ञातृज्ञेयादयो विवर्ताः । भ्रान्त्या विवर्तते; भ्रमगोचर मिथ्याभूतविकारवती भवतीत्यर्थः । तच्छब्देन भ्रान्तिः परामृश्यते । शुद्धमुक्तशब्दौ अविद्यातत्कार्यनिवृत्त्यर्थे प्रतिपत्तये ; प्राप्तय इत्यर्थः । सर्वे वेदान्ताः ; कारणपराः तच्छोधकाः तदैक्य- बोघकाश्च । तेषामारभ्यत्वमिह विचारद्वारा । इतिः प्रकारे । इति यदप्याहुः इत्यन्वयः । सकारणस्य संसारस्य सत्यत्वेन ज्ञानबाध्यत्वाभावान्न तदर्थं शास्त्रमारभ्य - मित्यत्र तस्य मिथ्यात्वेन धीवाध्यत्वात्तत्प्रधानं शास्त्रमारभ्यमिति परोपन्यस्तवस्तुसामर्थ्य मह स्पष्टीकृतम् । तस्मादनुपयुक्तत्वाद्विरोधाच्चात्र कर्मणः । तच्चिन्तावृत्तता नेति वाक्यशेषो मनस्कृतः ॥ मूलभावप्रकाशिका " P यत इति ; यतो ज्ञातृत्वमनात्मभूताहमर्थधर्मः, अत एव चिन्मात्रात्मनो नापारमा- र्थिको धर्म इति भावः । अत एवेति ; यतोऽहमर्थो नात्मा, अत एवेत्यर्थः । अहमर्थस्यै– वात्मत्वे सुषुप्तिमूर्छयोरप्यहमर्थस्यानुवृत्तिः स्यादिति भावः । ॥ इति महापूर्वपक्षः ॥

महासिद्धान्तः श्रीभाष्यम् तदिदमौपनिषदपरमपुरुषवरणीयता हेतु गुणविशेषविरहिणामना- दिपापवासना दूषिताशेषशेमुषीकाणामनधिगतपदवाक्यस्वरूप तदर्थयाथा- स्य प्रत्यक्षादिसकलप्रमाणवृत्ततदितिकर्तव्यतारूपसमीचीनन्यायमार्गाणां विकल्पासहविविधकुतर्ककल्ककल्पितमिति सकलप्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम् । श्रुतप्रकाशिका न्यायानुगृहीत प्रत्यक्षादि- अथ कर्मविचारपूर्ववृत्तत्वविरोधिवस्तुसामर्थ्यनिरासार्थं परोक्तानामुपायोपेयनिवर्त्यानां प्रमाणतर्काभासमूलत्वं प्रतिजानाति – तदिदमिति ; स्वाभिमतानामेव तेषां प्रमाणतर्को- पपन्नतां च संक्षेपेण प्रतिजानाति । अर्थाद्बहुशास्त्रज्ञानां बहुग्रन्थकाराणामपि परेषां स्खल- नानुपपत्तिशङ्कां च सम्यग्ज्ञानोत्पत्तिसामग्रीवैकल्यप्रतिपादनमुखेन परिहरति-तदिदमित्या- दिना । परमपुरुषशब्देनोपेयम्, वरणीयतेत्यादिनोपायम्, अनादीत्यादिना निवर्त्यम्, अनधिगतेत्यादिना परपक्षनैर्मूल्यं, न्यायानुगृहीतेत्यादिना स्वपक्षस्य समूलताम्, अर्थ तोऽनेकविद्वत्परिग्रहं च प्रतिजानीते - तदिदमिति ; अनन्तरवाक्यप्रकृतं परोक्तोपायो- पेयनिवर्त्यत्रयं विवक्षितम् । औपनिषदपरम पुरुषशब्देन " तं स्वोपनिषदं पुरुषं विद्धि " इति श्रुतं स्मारयति । एतेनास्मदभिमतः प्रमाणप्रमेयविशेषसंबन्धः श्रुत्यैवोक्त इति सूचयति f | परमशब्देनेश्वरातिरिक्ततत्त्वयावृत्तिः । वरणीयता हेतु गुणविशेषविरहिणा- मित्यनेन " यमेवैष वृणुते तेन लभ्यः इत्यभिमतोपायविशेषकथनं फलितम् । अनेन पदेन बहुशास्त्रज्ञबहुग्रन्थकाराणां भ्रमानुपपत्तिशङ्का च परिहृता भवति, सम्यक्शास्त्रार्थ - ज्ञानोत्पत्तौ भगवद्भक्तेरपि सामग्र्यन्तर्भावेण केवलशास्त्रपरिश्रमस्य विकलहेतुत्वात् । यथा—- “ यस्य देवे परा भक्तिः ” इत्यादिका श्रुतिः; स्मृतिश्च - " " 99 CC-0 No Rights Reserved. Digitized by eGangotri६२८ धृतराष्ट्रः— श्रीभाष्यम् " विद्या राजन्न ते विद्या मम विद्या न हीयते । विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम् ॥ गावल्गणे ते का विद्या या ते विद्या जनार्दने । यथा त्वमभिजानासि त्रियुगं मधुसूदनम् ॥ संजय:- मायां न सेवे भद्रं ते न वृथा धर्ममाचरे । (जिज्ञासाधिकरणम्) शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ॥ 99 इति । अत्र भक्त्या शुद्धभावं गतः शास्त्राद्वेद्मि जनार्दनमित्यनेन यथावच्छास्त्रा- र्थज्ञानोदयस्य भक्तिसापेक्षत्वं सिद्धम् । " जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥ पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा चास्य मानसं समभिप्लुतम् ॥ 99 66 यया इति वचनाच्च तत्त्वार्थज्ञानस्य भक्तिप्रीतभगवत्कटाक्षसापेक्षत्वं ज्ञायते । ननु त्वमभिजानासि " " भक्त्या वेद्मि " इति प्रश्नप्रतिवचनाभ्यां विद्याभक्तिशब्दयोरेकार्थ्यं प्रतीयते ; भक्तिरूपा च विद्या मोक्षायेति प्रागुपपादितम् ; ततश्च शास्त्रज्ञानमूला भक्तिः, भक्तिमूलं शास्त्रज्ञानमित्यन्योन्याश्रय इति चेत् — नैवम् ; श्रवणवेलायामेव पदार्थतया- वगम्यमानेषु परमात्मगुणादिष्वनुकूलबुद्धिगोचरत्वात् विद्याभक्तिशब्दयोस्तेन सम्यग्वा- क्यार्थनिर्णयलाभः । पूर्वपक्षतयोपन्यस्यमानेऽपि सुगताभिमतवेदाप्रामाण्यादौ हि भवति प्रद्वेषो वैदिकानाम् ; भगवद्गुणादिष्वनुरक्तचित्तता भवति । न चैषा साक्षात्कारकल्प - निरन्तरध्यानरूपा भक्तिः । अतो नान्योन्याश्रयः । अथ शास्त्रार्थयाथात्म्यज्ञानोत्पत्तिहेतु- भूतभक्तिविरोधिनमाह – अनादीति । यद्वा सम्यग्ज्ञानहेतुभूतभक्त्यभावात् सम्यग्ज्ञान- विरोधिपापानुबन्धमाह – अनादीति । वासनाशब्देन पापस्य दृढमूलत्वेन दुर्निरासत्व- मुक्तम् । वासनया पापं पापेन वासना ; अज्ञानेन पापवासना, पापवासनया अज्ञानमिति चान्योन्याश्रयपरिहारायानादिशब्दः । शेमुषी; मोक्षोपयोगि ज्ञानम् । अशेष शब्दस्यो-

( १ – १ – १ ) श्रुतप्रकाशिका ६२९ पायोपेयनिवर्त्यविषयविश्वशेमुषी दूषितेति भावः । अनेनार्थात् स्वपक्षे निवर्त्य चोक्तं भवति, कर्मण एव मोक्षप्रतिबन्धकत्वात् । दूषितशेमुषीकत्वफलं सम्यग्ज्ञानाभावमाह — अनधिग- तेति । प्रत्यक्षविरोधे शास्त्रप्राबल्यस्य परेणोक्तत्वात् पदशः समुदायेन च सविशेषपरत्व- प्राधान्येन च प्रथमं शब्दप्रमाणमाह – पदेति । प्रकृतिप्रत्यययोगेन पदत्वमिति न ज्ञातमिति पदशब्दस्य भावः । वाक्यस्वरूपेति ; वाक्यमनेकपदार्थ संसर्गविशेषाभिधायीति च न ज्ञातमिति भावः । तदर्थयाथात्म्यम् ; तात्पर्यविषयः । प्रत्यक्षादीति ; आदि- शब्दादनुमानम् । सकलशब्देन स्पार्शनचाक्षुषादिप्रत्यक्षावान्तरभिदा विवक्षिता; अन्वय- व्यतिरेकाद्यनुमानावान्तरभिदा च विवक्षिता । यद्वा तत्तद्वाद्यभिमतार्थापत्त्यादिप्रमाणान्तर- विषयः सकलशब्दः । वृत्तम् ; बोधनम् । तदितिकर्तव्यतारूपेति ; तर्केण प्रमाणबाध- वचनात् प्रमाणानुग्राहकस्तर्क इति च न ज्ञातमिति भावः । प्रमाणानुग्राहकतयैव हि वयं तर्कमङ्गीकुर्म इत्यत्राह – समीचीनन्यायेति । अनुग्राहकबुद्धधा स्वीकृतस्यापि तर्कस्य प्रमाणविरुद्धत्वात् सोऽसमीचीन इति भावः । अपच्छेदनयादिसमीचीनन्याया एव हि स्वीकृता इत्यत्राह – न्यायमार्गाणामिति । अयमपच्छेदन्यायविषयः, अयं सामान्यविशे- धन्यायविषय इति तत्तन्न्यायसंचारविषयविभागोऽपि नावगत इति भावः । तर्हि किमवलम्ब्य प्रबन्धाः कृता इत्यत्राह — विकल्पासहेति । कुतर्का: ; प्रमाणविरुद्धा मूलशैथिल्य- मिथोविरोधादिदोषान्तराक्रान्ताश्च तर्काः । ते च त्रिचतुरपदस्थायिनोऽपि न भवन्ति ; किंतु विकल्पितान्यतरशिरःपरिग्रह एव भङ्गुरा इत्यत्राह - विकल्पासहेति । तर्कस्य विकल्पा- सहत्वं नाम तद्विषयसाधनादिविकल्पासहत्वमेव । विविधेति ; ‘ब्रह्मणोऽनुभाव्यत्वेऽननु- भूतित्वम् ’ ’ प्रत्यक्षं सन्मात्रग्राहि ’ ’ वेदान्तवेद्यं ब्रह्म प्रमाणान्तरागोचरम्’ इत्यादिरूपं कुतर्काणामन्योन्यव्याहतिवैविध्यं विवक्षिम् । ईदृशकुतर्की एव कल्कम् ; असारभूत बौद्धैरात्तसारमृजीषमित्यर्थः । एतेन कल्पितम् ; उत्कीर्णम् । इतिर्हेतौ ; केषांचित्समीची- नार्थान्तरविषयज्ञाने सति ह्यस्यासमीचीनत्वनिश्चय इत्यत्राह - न्यायानुगृहीत प्रत्यक्षादि- सकलप्रमाणत्रृत्तयाथात्म्यविद्भिरिति । अनेन पूर्वोक्तविपरीताकार उक्तः । बहुवचनेन स्वपक्षस्य भगवद्बोधायनाद्यनेकशिष्टपरिग्रहः सूचितः । अनादरणीयमिति ; शिष्यशिक्षासु पूर्वपक्षोपन्यास कौशलार्थमप्यादर्तुमयोग्यमित्यर्थः । " अशेषविशेषप्रत्यनीकचिन्मात्रम् " इत्यारभ्य “ सर्वे वेदान्ता आरभ्यन्ते " इत्यन्तेन यदप्याहुस्तदनादरणीयमित्यन्वयः ।

O ६३० श्रीभाष्यम् ‘भावप्रकाशिका प्रतिजानाति – तदिदमितीति ; वक्तुमुत्कण्ठत इत्यर्थः । ( जिज्ञासाधिकरणम् ) " 66 संप्रतिभ्यामना- घ्याने ” इत्याध्याने ं प्रतिषेधादात्मनेपदं न भवति । आध्यानमुत्कण्ठा । अत्र च प्रति- पूर्वस्य जानातेरुत्कण्ठार्थत्वस्य विवक्षितत्वात् । प्रतिजानीते इति पाठः सुगम एव । केचित्तु : परमपुरुषशब्देनोपेयम्’ इत्यादिग्रन्थे ’ प्रतिजानाति ’ इति पाठो युक्तः, अर्थौचित्यात् ; तत्र परमपुरुषादिशब्दैः स्मरणमात्रस्य युक्तत्वात् । इह तु ’ प्रतिजा- नीते’ इत्येव युक्तम् । लेखकदोपवशादिदं व्यत्यस्तमिति वदन्ति । प्रमाणप्रमेय- विशेष संबन्ध इति ; प्रमाणविशेष उपनिषत्, प्रमेयविशेषः परमपुरुषः, तयोः प्रतिपाद्य- प्रतिपादकभावः संबन्धः “ तं त्वौपनिषदं पुरुषम् ” इति श्रुत्यैव स्पष्टीकृत इत्यर्थः । अत्र भक्त्या शुद्धभावं गत इति ; न च ‘भक्त्या शास्त्राद्वेद्मि ’ इत्येवान्वयोऽस्तु, न तु ‘भक्त्या शुद्धभावं गतः ’ इति भक्तर्भावशुद्धिहेतुतयेति वाच्यम्, शास्त्रादित्यनेनैव हेत्वाकाङ्क्षाशान्त्या तत्र भक्तेर्हेतुत्वेनानन्वयात् ; भावशुद्धेर्हेतु साकाङ्क्षत्वाच्च भक्त्या शुद्धभावं गतः’ इत्येवान्वय इति भावः । अनादिपापवासनेत्यादिकमौपनिषदेत्यादिपूर्व- विशेषणहेतुत्वेन व्याख्यायेदानीं कार्यत्वेन व्याचष्टे – यद्वा सम्यग्ज्ञानेति । दुर्निरास त्वमिति ; दुखेन निरासो यस्येति बहुव्रीहिः ; दुर्निरसत्वमिति पाठः सुगम एव । यद्वा तत्तद्वाद्यभिमतेति ; अयं भावः — सकलाभिमतं प्रमाणं सकलप्रमाणम् ; येन येन यद भिमतं तत्सर्वमित्यर्थः । अत एव भाष्ये वक्ष्यति – प्रमाणसंख्याविवादेऽपि सर्वाभ्युप- गतप्रमाणानामयमेव विषयः ’ इति । प्रत्यक्षादि च सकलप्रमाणं चेति द्वन्द्वः ; न तु कर्मधारय इति भ्रमितव्यम्, तथात्वेऽर्थापत्त्याद्यसंग्रहापत्तेः । आदिशब्दादनुमानमिति प्रागुक्तेः । यद्वा आदिपदेन संकोचेनार्थापत्त्यादिप्रमाणान्तरस्यापि परिग्रहार्थः सकलशब्द इति । श्रुतप्रदीपिका अथ परोक्तोपायोपेयनिवर्त्यानां मानतर्कापिततां स्वाभ्युपगतानां तु तदुपपन्नर्ता च प्रतिजानन् बहुशास्त्रज्ञानां बहुग्रन्थकृतां स्खलनासंभवं च सम्यग्ज्ञानसामग्री वैकल्य- प्रदर्शनेन परिहरति-तदिदमित्यादिना । तदिदम् ; परोक्तोपायादित्रिकम् ; ‘आर- भ्यन्त इति यदप्याहुस्तदिदमनादरणीयम्’ इत्यन्वयः । तं त्वौपनिषदं पूरुषं विद्धि इति श्रुतिं स्मारयति – औपनिषदेति । उत्तीर्णव्युदासाय परमशब्दः । इत्युपेयम् । उपा- 66

( १ – १ – १ ) नयप्रकाशिका ६३१ . यमाह — वरणीयतेति । निवर्त्यमाह - अनादीति । “शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि ” " यस्य देवे परा भक्तिः " इति च भक्तेः सम्यग्धीहेतुत्वात् तद्विरहः सामग्रीवैकल्यमिति भावः । भक्त्यभावहेतुं वा भक्तिनिरसनीयं तदभावादनुवृत्तं वाहु -अनादीति । पापाज्ञानयोस्तद्वासनयोश्चान्योन्याश्रयपरिहारायानादिशब्दः । उपायादित्रयविषयबुद्धयोऽशेष- शब्दोक्ताः । शेमुषीदोषफलमाह – अनधिगतेति । शास्त्रप्राथम्यं सविशेषपरत्वाति- शयात् पराभिमतप्राबल्याच्च । आदिशब्दादनुमानम् । प्रत्यक्षानुमानयोरवान्तरभिदापरः- सकलशब्दः । वृत्तम् ; बोधनम् । अर्थभेदवत्प्रकृतिप्रत्ययात्मकं पदम् : तत्समुदायात्मकं वाक्यम् ; तस्यार्थयाथात्म्यं तात्पर्यम् ; प्रत्यक्षादेः स्वरसवृत्तिः ; न्यायानां मानानुग्राह- कत्वम् ; तथाभिमानेऽपि स्वोक्तानां मानबाधकत्वम् ; तेषामुचितविषयविशेषाश्चेत्येतत्सर्वं चानधिगतमित्यर्थः । तर्हि किमवलम्ब्य कृतमित्यत्राह — विकल्पेति । प्रथमकक्ष्यायामेव भङ्गुरैर्व्याहतैर्वैद्धाद्यात्तसारतया ऋजीषैः कुतर्कैः कल्पितमित्यर्थः । स्वमतस्य मानतर्कोप - पन्नतां बोधायनटङ्कादिबहुशिष्टपरिग्रहं चाह - न्यायेति । अनादरणीयम् ; आदर्तु- मयोग्यम् । नयप्रकाशिका 99 तदेतदनुपपन्नम्, तयोरैक्यादेः साधितत्वात् । न च पूर्वोत्तरभागयोः पौर्वापर्ये न प्रमाणमिति वाच्यम्, लिङ्गप्रमाणस्योक्तत्वात् । कथम् ? अध्ययनतः प्रथमं धीस्थाः कर्मपराः श्रुतय इति तद्विचारप्राथम्यादेरुक्तत्वात् ; केवलकर्मज्ञानस्य विरक्तिहेतुत्वादिभिश्च । न च कर्मानधिगमेऽपि ब्रह्मविचारोपपत्तिः, कर्मफलानां क्षयित्वानिश्चये तत्र प्रवृत्त्यनुपपत्तेः । न हि विचारव्यतिरेकेण तत्क्षयित्वादिनिश्चयः । उद्गोथादिविद्यानामभ्युदयफलत्वेऽपि ब्रह्म- काण्डान्तर्विचारात्कर्मविचारापेक्षा, विचारमात्रस्यापि तदपेक्षत्वात् । तद्विद्यानामपि मोक्षोपाय- विद्याङ्गत्वमप्यस्तीत्युक्तम् । कर्मणां विद्याङ्गत्वाच्च तज्ज्ञानापेक्षा । विद्याङ्गत्वं च " यज्ञेन ’ इत्यादिश्रुतेः । न च सकलभेदोपमर्दित्वाह्मज्ञानस्य कर्मणो भेदावलम्बित्वाद्विरोधः, ब्रह्मज्ञानस्य भेदोपमर्दित्वाभावात् । तच्चोत्तरत्र वक्ष्यते । न च वेदनमात्रस्य मोक्षोपायत्व- श्रवणात् " न कर्मणा न प्रजया " इत्यादौ कर्मत्यागश्रवणाच्च न कर्मापेक्षेति वाच्यम्, " तमेवं विद्वान्” इत्यादौ वेदनस्योपायतामात्रावगतेः । न तु स्वाङ्गकर्मनिवृत्तिप्रतीतिः । किंच साङ्गवेदनस्योपायत्वाद्वेदनस्योपायत्वाभिधानेऽपि न विरोधः, प्रधानस्यैव साधनत्वात् । Q

६३२ श्रीभाष्यम् (जिज्ञासाधिकरणम्) केवलज्ञानस्यैवोपायत्वे शमांदेरप्यङ्गता न स्यात् । कर्मत्यागश्रुतिः कर्तृत्वममताफलत्यागपरा; “ सङ्गं त्यक्त्वा फलं चैव " इत्यादिस्मृतेः । इतिहासपुराणाभ्यां हि वेदोप- तच्च बृंहणम् । यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ 66 " । फलमत उपपत्तेः " इत्यादिषूक्तम् । 66 " मयि इति कर्मसहितज्ञानस्यैव मोक्षसाधनत्वश्रवणात् । न च तत्र केवलकर्मण एव मोक्षसाध- नत्वप्रतीतिरिति वाच्यम्, परमात्मसमाराधनत्वेनानुसंधानात् परमात्मज्ञानस्यानुसंहित- त्वात् “ वर्णाश्रमाचारवता " इत्यादौ मार्गान्तरनिषेधाच्च । परमात्मप्रसादादेव हि मोक्ष इति " ततो ह्यस्य बन्धविपर्ययौ " सर्वाणि कर्माणि " इत्यादौ सर्वकर्मणां स्वाधिनतामभिधाय “ये मे मतम् " इत्यनेन शास्त्रीयकर्मकारिण एव कर्ममोक्षस्य भगवताभिहितत्वात् । “ ये त्वेतत्” इत्यनेन विपरीतकारिणो निन्दितत्वाच्च । “ सर्वापेक्षा " इत्यादौ यज्ञादेर्विद्याङ्गत्वस्य प्रसाधितत्वात्, आप्रयाणादहरहरनुष्ठेयत्वप्रसाधनाच्च । न च कर्मणां परंपरयोपायत्वकथनमात्रपरत्वं तत्सूत्राणां " यज्ञेन” इत्यादिश्रुतेश्चेति वाच्यम्, तत्र पारंपर्येणोपायत्वाप्रतीतेः । न च " विविदिषन्ति " इति विविदिषायामेव विनियोगात्तत्प्रतीतिरिति वाच्यम्, अत्रेच्छाया ज्ञानप्रधानत्वेन ज्ञानाङ्गविधिपरत्वस्यैव युक्तत्वात् । न च प्रधानस्यापि वेदनस्य शब्दप्रकृत्यर्थ- त्वेनाप्रधानत्वात् इच्छायाश्च प्रत्ययार्थत्वेन प्राधान्यमिति वाच्यम्, प्रत्ययांशस्यैव प्रधान्य- मिति न नियमः ; किंतु समभिव्याहारतो वा तात्पर्यतो वा प्रकृत्याद्यन्यतरस्य प्राधान्य- निश्चयः । प्रत्ययार्थप्राधान्ये " पाशान् ” इति प्रत्ययानुरूपं " अदितिः पाशान्" इति मन्त्रस्योत्कर्षः स्यात् । तत्र प्रकृत्यंशस्यैव प्राथम्यादाश्रयत्वाच्च प्राधान्यमित्यनुत्कर्ष उक्तः । न च तत्र सुबन्तत्वात् तथेति वाच्यम्, “त्रीहीन् प्रोक्षति" इत्यादौ प्रोक्षणस्य प्राधान्या- पत्तेः । तत्र व्रीहीणां प्राधान्यमुक्तम् । न च तत्र द्वितीयाविभक्तिसामर्थ्यात्प्राधान्यमिति चाच्यम्, “ सक्तन् जुहोति ” इत्यादावपि तथात्वापत्तेः । अतो वेदनस्य प्रधानत्वनिष्य- येऽन्वययोग्यत्वे च तदर्थ एव यज्ञादिः । ’ राजपुरुषमानय ’ इत्यादौ त्वभिप्रायवशादान- यनकार्यानन्वयो राज्ञः । वेदे तुः नाभिप्राय इत्याकाङ्क्षादिरेवान्वय कारणम् । एवं च वेदनस्य न प्राधान्यहानिः । प्राधान्याहाना देवार्थसंभवे नान्यार्थता युक्ता । किंच “ब्रह्म- 66 CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) 66 नयप्रकाशिका ६३३: जिज्ञासा " इत्यत्रापि प्रत्ययार्थस्यैव स्वीकार्यता स्यात् । तत्र तु मिथ्यावादिनोऽपि ज्ञान- प्राधान्यमिष्टम् । यज्ञादिकर्मणां परंपरोपयोगे च न प्रमाणम् ; प्रत्युत “ सत्त्वशुद्धौ ध्रुवा स्मृतिः” इत्यादौ सत्त्वशुद्धयापादनद्वारेण वर्णाश्रमाचाराहारशुद्धयादेर्विद्योत्पादकत्वमेव श्रूयते । तच्छुद्धिः कर्मणैवेत्युक्तम् । न चाङ्गत्ये संन्यासिनामपि ज्योतिष्टोमाद्यनुष्ठानं स्यात्, यज्ञेषु प्रयाजादेरिवेति वाच्यम्, तेषामपि जपयज्ञादेर्विद्यमानत्वात् । न हि ज्यो- तिष्टोमादिविशेषश्रुतिः । " यद्यज्ञेन " इत्यादौ येषां हि यद्यज्ञेऽधिकारः तद्यज्ञान | मेव तद्विद्याङ्गत्वम् । न हि केवलवर्णाश्रमाचारमात्रता तेषाम्, तत्र संन्यासिधर्मप्रकरणे जपोप- वासादेर्विधीयमानत्वात् । आश्रमकर्मणां सन्ध्यावन्दनादीनां तु तदधिकारापादनमात्रत्वमेव, " सन्ध्याहीनोऽशुचिर्नित्यम्" इत्यादिस्मृतेः । न च संन्यासाश्रमस्य मोक्षार्थत्वात् तत्र च यज्ञोपवीतादेः सर्वकर्मणां च " अथ परिव्राट् ” इत्यादौ त्यागस्य श्रवणात् स्मरणाच्च -न विद्योपयोगिता कर्मणामिति वाच्यम्, सर्वकर्मणां त्यागाप्रतीतेः; संन्यासाश्रमस्य मोक्षैक- - फलत्वनियमाभावाच्च ; " ब्राह्म संन्यासिनां स्मृतम् इत्यादावर्वाचीनफलश्रवणात् ; " एकान्तिनः सदा ब्रह्म ” इत्यादावविशेषेण सर्वाश्रमिणां ब्रह्मध्यानादपुनरावृत्तिश्रवणादुत्तरत्र तथैव प्रसाधितत्वाच्च । संन्यासाश्रमिणामेव मोक्षसद्भावे हि गृहस्थाश्रमिणो ज्ञानसद्भावेऽपि न मुक्तिः स्यात् । तथात्वे आश्रमस्यैव मोक्षप्रयोजकत्वं, न ज्ञानस्य । कर्मणां तु त्याज्यत्वे आश्रमकर्मणोऽपि त्यागः स्यात् । अथाश्रमकर्मणो विहितत्वादनुष्ठानमिति चेत्, तर्हि न सर्वकर्मत्यागः । न च यज्ञोपवीतत्यागः, श्रुतेरभावात् । " अयज्ञोपवीती कथं ब्राह्मणः इति तु प्रक्षिप्तमेव, पूर्वं त्यागवचनाभावादनुपपत्तेः । " अथ प्रव्रजेत् ’ इति पूर्वं सर्वकर्मत्यागवचनसद्भावात् यज्ञोपवीतस्यापि त्यागसिद्धिरिति चेत् — न ; तत्र सर्वत्यागवचनाभावात् ; तथात्वे विवर्णवासस्त्वादेरपि त्यागः स्यात् । अथ विवर्णवासस्त्वं विधीयत इति चेत् — न ; प्रतिषिद्धविधानेन विकल्पापत्तेः । अथ पर्युदासविधिरिति चेत्- न; विवर्णवासस्त्वमुण्डत्वादेरप्राप्तत्वात् । “अथ परिव्राडेकशाटी" इत्यादिश्रुतावयज्ञोपवीतत्वं विधीयत इति चेत् —न ; तादृशश्रुतेरदृष्टचरत्वात् । तादृशश्रुतिसद्भावेऽपि तस्याः पूर्वधृत- यज्ञोपवीतत्यागमात्रपरत्वमेव न संन्यासाश्रमाङ्गयज्ञोपवीतत्यागपरत्वम् " नखानि निकृत्य पुराणयज्ञोपवीतवसनकमण्डलुंस्त्यत्तत्वा नवानि गृह्णीयात् " इति स्मृतेः । न चैवंविधस्मृतिर्न संन्यासप्रकरण एव दृष्टचरेति 80 99 वाच्यम्, गौतमभाष्यकारादिभिरुपात्तत्वात् ।

० ६३४ 66 श्रीभाष्यम् (जिज्ञासाधिकरणम्) तच्छंयोरावृणीमहे " इति यज्ञोपवीतं गृह्णीयादिति कात्यायनस्मरणात् । " नखानि निकृत्य यज्ञोपवीतं विसृजेत् ” इत्यादिजाबालश्रुतेरप्ययमेवार्थः । तच्छ्रुतेरनुवादेन “खान निकृत्य पुराणयज्ञोपवीतम् ” इत्यादिस्मृतेर्विशेषविधिपरत्वात् । न च श्रुतिविरोधात् स्मृते- स्त्याज्यतेति वाच्यम्, विरोधाभावात् । एकस्यैव त्याज्यत्वधार्यत्वविधावेव हि विरोधः, न त्वन्यत्यागविधावन्यग्रहणविधौ च । न च त्यागवचनादेव न धार्यत्वमिति वाच्यम्, काषायवसनस्यापि तथात्वापत्तेः । अथ तत्र विधानात् ग्रहणमिति चेत्, यज्ञोपवीतादेरपि तथा विधानादेव ग्रहणमिति समः समाधिः । अथ श्रौतार्थस्य न स्मृतिविहितार्थापेक्षेति चेत् —न ; युञ्जनादिमन्त्राणां स्मार्तानुष्ठानशेषत्वाभावापत्तेः ; गार्ह्यकर्मानुष्ठानोच्छेदापत्तेश्च । अतो विप्रकीर्णशाखामूलत्वेन स्मर्तृभिः सर्वशाखान्यायेन विहितसर्वाङ्गोपसंहारः कार्य एव । न हि संन्यासिनां ताम्बूल चर्वणादिनिषेधवत् " न यज्ञोपवीतं विभृयात् " इति शास्त्र विद्यते । किंच “आचमने यज्ञोपवीती स्यात् " इत्याचमनाङ्गत्वविधानाच्च न यज्ञोपवीत- त्यागः । नन्वाचमनाङ्गत्वेन शिखित्वविधावपि छन्दोगादेः " मुण्डः शिखी वा " इत्यादि- वचनात् शिखाव्यतिरेकेणाचमनादिसिद्धिवदत्रापि परमहंसाधिकारिण आचमनादिसिद्धि- रस्त्विति चेत् — न ; मुण्डत्वे वचनवत् " यज्ञोपवीतं न धारयेत्” इति वचनाभावात् । " यज्ञोपवीतं विसृजेत् " इति वचनस्य गतिरुक्ता । ’ यज्ञोपवीती वा’ इति न विकल्प- श्रवणं " मुण्डः शिखी वा इतिवत् येन यज्ञोपवीतग्रहणवाक्यस्यान्यपरता कल्प्येत । तस्मात् “ यज्ञोपवीत्येवाधीयीत ” इत्यादिश्रुतेश्च तद्धारणस्यावश्यकता, संन्यासिनोऽप्य- ध्ययनस्यात्याज्यत्वात् " वेदमेकं न संन्यसेत् " इति वचनात् प्रणवाभ्यासाङ्गीकाराच्च । प्रणवोऽपि हि वेद एव । किंच यथार्थमेव हि यज्ञोपवीतम्, संन्यासिनोऽपि ध्यानयज्ञ- सद्भावात् । " ध्यानयज्ञपरो नित्यम् " " ज्ञानयज्ञेन चाप्यन्ये " इत्यादिस्मरणात् ध्यानस्य यज्ञत्वम् । 66 99 9 " आरण्यवृत्तस्य जितेन्द्रियस्य सर्वात्मकप्रीतिनिवर्तकस्य । अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्य ॥ " इत्यादिस्मृतेः संन्यासिनां ध्यानस्य कर्तव्यता सिद्धा । वाक्यार्थज्ञानार्थत्वेनापि ध्यानस्या- ङ्गीकृतत्वाच्च । किंच वसिष्ठेन संन्यासप्रकरणे " यज्ञोपवीत्युदकमण्डलुहस्तः " इति यतो- पवीतस्मरणाच्च !

(१–१ – १) इत्यादिस्मरणाच्च । 66 नयप्रकाशिका ब्रह्मसूत्रं त्रिदैवत्यं ब्रह्मविष्णुशिवात्मकम् । परित्यजन्ति ये विप्रा मोहात्तर्कोपजीविनः ॥ स्वर्गापवर्गमार्गाभ्यां प्रच्युतास्ते न संशयः । ब्रह्मसूत्रपरित्यागाद् ब्रह्मचारी गृही वनी । ६३५ परिव्राट् चापि पतितस्तस्मात्तन्न परित्यजेत् ॥ इत्युशनः स्मृतेश्च । अतः संन्यासिनां यज्ञोपवीतधारणमेव स्मृतिषु दृश्यते, न तु विप- रीतम् । बोधायनीये यज्ञोपवीतत्यागवचनमपि पूर्वघृतयज्ञोपवीतविषयमेव । अथवा पितृयज्ञस्य दर्शाङ्गत्ववचनवत् पूर्वपक्षनयमूलम् । तथैकदण्डस्मरणमपि, बहुस्मृतिविरोधात् । अतस्त्रिदण्डमेव धार्यं यतिभिः । त्रिदण्डेन यतिश्चेति लक्षणानि पृथक्पृथक् । 99 इति दक्षेणाश्रमलक्षणाभिधाने संन्यासिनस्त्रिदण्डस्यैव लक्षणत्वेनाभिधानाच्च । लक्षणं साधारणो धर्मः । एकदण्डस्य पाक्षिकत्वेनापि यतिलक्षणत्वे ’ एकदण्डेन वा’ इति -लक्षणाभिधानं स्यात् । नैतदस्ति । 66 त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् || "” 99 27 -इति दत्तात्रेयस्मरणाच्च । एवं सर्वत्र त्रिदण्डमेव हि स्मर्यते । यद्यपि " मुण्डः शिखी वा इत्याद्यनेकस्मृतिषु मुण्डत्वस्य शास्त्रार्थत्वप्रतीतिः, तथापि तन्नास्मदीयैरनुष्ठेयम् ; अस्मदा- चार्याननुष्ठानात् । " येनास्य पितरो याताः इत्यादिस्मरणात् तदाचारश्चानुसरणीयः, विपरीतस्तु वर्ज्य: | “ अस्वर्ग्यं लोकविद्विष्टं घयमप्याचरेन्न तु " इत्यादिस्मरणात् शिष्ट- लोकगर्हितार्थस्य वर्जनीयत्वात् । ननु त्रिदण्डयज्ञोपवीतादेर्ग्रहणस्य कुटीचकबहूदकादि- विषयतास्तु ; तत्त्यागवचनस्य परमहंस विषयतास्तु ; एवं च सर्वत्यागश्रुतेश्च न बाध इति चेत् — न; सर्वत्यागश्रुत्यभावस्योक्तत्वात् । “न कर्मणा " इत्यादिश्रुनेस्तु फलत्यागादि- परत्वाभिधानात् । कर्मपरित्यागमतस्य कुदृष्टित्वेनापस्तम्बेन " सर्वतः परिमोक्षमेके । सत्या- नृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् । बुद्धे क्षेमप्रापणम् । तच्छा- स्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत " इति प्रतिषिद्धत्वाच्च ।

_६३६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) एतत्स्मृत्यैव मिथ्यावादिपक्षस्य सोपस्करस्य शास्त्रविरुद्धत्वमनुपपन्नत्वं चोक्तम् । परमहंसा- नामितरेषां चाविशेषेण पराशरस्मृतौ त्रिदण्डस्यैव लक्षणत्वेनाभिधानात् – “ तत्र परिव्राजका- चतुर्विधा भवन्ति – कुटीचकाः, बहूदकाः, हंसाः, परमहंसाश्चेति । तत्र कुटीचका नाम पुत्रादिभिः कुटीं कारयित्वा कामक्रोध लोभमोहमदमात्सर्यादीन् परित्यज्य विधिवत् कृत्वा त्रिदण्डजलपवित्रकाषायवस्त्रधारिणः स्नानशौचाचमनजपस्वाध्यायब्रह्मचर्य ध्यान तत्पराः पुत्रादेरेव भिक्षाकालेऽन्नं यात्रामात्रमुपयुञ्जानास्तस्यां कुटौ नित्यं वसन्त आत्मानं मोक्षयन्ते । बहूदका नाम त्रिदण्डकमण्डलुजल पवित्रपात्रशिक्यकाषायवस्त्रधारिणो वेदार्थावबोधकाः साधुवृत्तेषु ब्राह्मणकुलेषु भैक्षचर्या चरन्त आत्मानं मोक्षयन्ते । हंसा नाम त्रिदण्डजल- पवित्रशिक्ययज्ञोपवीतिनो गोमूत्रगोमयाहारा एकरात्रं त्रिरात्रं षड्रात्रं मासोपवासपक्षोपवास- कृच्छ्रचान्द्रायणसांतपनमहासांतपनपराकतुला पुरुषादीनि व्रतानि चरन्तो गोद्विजाश्रितेषु पुण्येषु देशेषु वसन्त आत्मानं मोक्षयन्ते । परमहंसा नाम त्रिदण्डजलपवित्रशिक्ययज्ञोप- वीतिनोऽन्तर्वासोबहिर्वासोधारिणो ग्रामैकरात्रवासिनो नगरतीर्थावसथेषु पञ्चरात्रवासि भिक्षाकाले शीर्णपर्णपुटं कृत्वा ब्राह्मणकुलादेव भैक्षं गृहीत्वा अष्टौ ग्रासानेव भुञ्जाना: सन्ध्योपासनतत्परा नित्यं वृक्षमूले वसन्त आत्मानं मोक्षयन्ते " इति । किंच परमहंसाना- मेवंविधलक्षणव्यतिरेकेण न लक्षणान्तरस्मरणं दृश्यते । प्रायेण मिथ्यावादिनः श्रौतस्मार्त- कर्माणि त्यजतो हारीतशातातपाभ्यामुक्तस्वभावानेव मन्यामहे । तथाहि - त्रिदण्डिनां सर्वाश्रमेभ्योऽप्युत्कृष्टत्वाद्यभिधाय ताभ्यामेवमुक्तम् — " प्राप्ते कलियुगे घोर इतोऽन्ये क्षुद्रलिङ्गिनः । संभविष्यन्ति ते सर्वे गौतमानिविदोपिताः ॥ वेदार्थाश्चान्यथा सर्वान् प्रवक्ष्यन्ति कलौ गुगे । नग्माः प्रच्छन्नबौद्धाश्च विनिन्दन्ति त्रयीमयम् ॥ रात्रौ वेदरहस्यानि प्रवक्ष्यन्त्यल्पमेधसः । भक्षयिष्यन्ति शूद्रान्नं वयं मुक्ता इति छलात् ॥ अन्यानपि स्वधर्मस्थान् प्रेरयिष्यन्ति ते कलौ I एकवेणुं समाश्रित्य जीवन्ति बहवो द्विजाः ॥

(१—१—१) नयप्रकाशिका रौरवे नरके घोरे कर्मत्यागात्पतन्ति ते । तस्मात् तान्नालपेत्प्राज्ञो न निरीक्षेत वापि तान् ॥ आलोकनेन तेषां तु शुध्यन्ते भानुदर्शनात् । नग्नं वानुपनीतं वा यः श्राद्धे भोजयेद् द्विजम् ॥ रेतोमूत्रपुरीषाणि स पितृभ्यः प्रयच्छति । " ६३७, इति । अतः श्रुतिसद्भावेऽपि नैकदण्डस्वीकारः, वेदार्थविप्लावकपरिगृहीतत्वात् ऋषिभि- निन्दितत्वाच्च । मधुपर्के गोरुपाकरणविधानेऽपि तस्य ऋषिनिन्दितत्वेनाननुष्ठानवत् । अज्ञानादिनैकदण्डपरिग्रहे हारीतशातातपाभ्यामेव विशेष उक्तः इति । " प्रेरणादथवा लोभादेकदण्डं समाश्रितः । भूयो निर्वेदमापन्नस्त्रिदण्डं धारयेद्बुधः ॥ " संन्यसेत्सर्वकर्माणि " इत्यादिरपि प्रकृतगृहस्थाद्याश्रमधर्मपरः, सर्वनामशब्दस्य प्रकृतपरामर्शित्वात् । “ संन्यासस्तु महाबाहो दुःखम् " इत्यत्र प्रश्नोत्तररूपेण कर्मानुष्ठा- नेस्य भगवदर्जुनाभ्यां प्रतिष्ठितत्वाच्च न स्वरूपत्यागः; स्वरूपत्यागस्याशक्यत्वाच्च । यथो- क्तम् – " न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः” इति । किंच संन्यासाश्रमिण व मोक्ष इत्युक्तिरपि व्यर्था, अपशूद्राधिकरण आद्यवर्णत्रयस्य मोक्षार्थानुष्ठानाधिकारस्य स्थाप्यमानत्वात् । अत एव कर्मत्यागस्य ज्ञानाङ्गत्वोक्तिरपि व्यर्था । कर्तृत्वादित्यागस्तु सर्ववर्णेष्वपि संभवति । कर्तृत्वादिश्च परमात्माधीन इति वक्ष्यते " परात्तु” इत्यादौ । क्षीयन्ते चास्य कर्माणि " इत्यादिश्रुतिरपि न विद्याङ्गत्वेनानुष्ठेयकर्मफलक्षयपरा, तत्कर्मणां ज्ञानाङ्गत्वेन पृथक्फलत्वाभावात् ; किंतु पूर्वसंचितकर्मक्षयपरेति तदुत्तरपूर्वाघयोः इत्यत्रोक्तम् । " अविद्यया मृत्युं तीर्त्वा " इत्यादौ च कर्मणो विद्याङ्गताधीः, विरोधिनिर- सनद्वारा विद्याङ्गत्वप्रतीतेः । न च सनत्सुजातवचनात् मृत्युशब्दस्याविद्यापरता, तत्रा – विद्यापरशब्दाभावात् । प्रमादशब्दस्य त्वनवधानमात्रपरत्वादनवधानस्य पापफलत्वात् पापकर्मपरत्वमेव युक्तम् । न च ब्रह्मव्यतिरिक्तस्य मिथ्यात्वेन ज्ञानबाध्यतया विद्याविरोधि - निरसनाय नोपायान्तरान्वेषणमिति वाच्यम्, पापसत्त्वे विद्योदयस्यैवासंभवात् ; ब्रह्मव्य – तिरिक्तस्य मिथ्यात्वाभावात् ज्ञानबाध्यत्वासिद्धेश्च । तच्च वक्ष्यते । न च यावद्धर्मविचार मुमुक्षुणानुष्ठीयमानकर्मानर्थक्यपरिहारायाङ्गत्वपक्षे ब्रह्मविचारस्य प्राथम्यमिति वाच्यम् 66 99 CC-0 No Rights Reserved. Digitized by eGangotri६३८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) 1 ब्रह्मविचारप्राथम्येऽपि यावत्कर्मस्वरूपस्य न विचारतो निश्चयस्तावदनुष्ठानानुपपत्तेः . प्रथममध्ययनक्रमाद्धीस्थत्वेन कर्मणस्तद्विचारस्यैव प्राथम्यम् । ज्ञान्यज्ञानसाधारणत्वाच्च तद्विचारस्य । न च स्वेष्टसाधन एव प्रवृत्त्युपपत्तेर्न साधारणार्थप्रवृत्तिरिति वाच्यम्, मिथ्या- चादिपक्षे तत्त्वावेदकवाक्यार्थज्ञानस्यैव मोक्षोपायत्वात् तावन्मात्रस्यैव विचार्यत्वेनोपासना- वाक्यविचारानुपपत्तेर्वेदान्तशास्त्रस्यानारम्भणीयत्वप्रसक्तेः । अथ तस्य तद्वाक्यावधिपरि- ज्ञानायोपासनविधिविचार इति चेत्, तर्हि स्वानुष्ठेयकर्मावधिपरिज्ञानार्थमन्यकर्मविचार इति समः समाधिः । किंच ब्रह्मविचारस्य प्राथम्ये यावद्ब्रह्मविचारं कर्मानिश्चयेनाननुष्ठाने प्रत्यवायित्वम् ; ततश्च पापित्वेनाविद्योदय एव स्यात् । न च नित्यकर्माल्पानुष्ठानात् प्रत्यवायपरिहारः, सामर्थ्यादिसद्भावेऽल्पानुष्ठानस्याशास्त्रार्थत्वात् । असामर्थ्य ह्यल्पानुष्ठा- नानुग्रहः । न च वेदनाभावादपरिपूर्णानुष्ठानमिति वाच्यम्, वेदनस्य प्रथमत एव संपा- द्यत्वात् । कर्माननुष्ठाने ब्रह्मविद्यानधिकार एव । तच्चापशूद्राधिकरण उक्तम् । न च संन्यासाश्रमधर्ममात्रस्यापि विद्याङ्गत्वसंभवान्नाग्निहोत्रादिविचारोपपत्तिरिति वाच्यम्, गृह- स्थस्यापि ब्रह्मविद्याधिकारात् तदर्थत्वेन तद्विचारोपपत्तेः । न च तर्हि संन्यासिनो न तद्विचार इति वाच्यम्, कर्मकाण्डे कर्मणामेवाक्षय्यत्वादिफलश्रवणात् तदनिश्च ब्रह्मज्ञानप्रवृत्त्यनुपपत्तेः । विचारादेव हि " अक्षय्यं ह वै " इत्यादिश्रुतेरर्थवाद- त्वनिश्चयः । पूर्वकाण्डन्यायोपयोगाच्च तदपेक्षा । न च तन्न्यायानां सगुणविद्यास्वे- वोपयोगात् तासां कर्मान्तर्गतत्वान्न विद्यायास्तदपेक्षेति वाच्यम्, सर्वासां सगुण- विद्यात्वात् । तच्चोत्तरत्र वक्ष्यते । किंच वस्तुतस्तासां कर्मान्तर्भावेऽपि ब्रह्मविचारान्त- विचारितत्वात् तन्निश्चयायापि तन्न्यायापेक्षा । उत्तरमीमांसा सोपाधिकब्रह्मविषयतयेष्टा, ज्ञप्तिमात्रस्य शास्त्रविषयत्वात् । अत एव हि शास्त्रादौ युष्माभिरध्यासोपपादनम्, शास्त्रस्य " तद्व्यावृत्तिपरतया प्रामाण्याङ्गीकारात् । वेदान्तशास्त्रस्य कृत्स्नस्य सगुणविषयत्वमेवेति भवद्भिरेव पूर्वकाण्डापेक्षार्थादुक्ता, सकलभेदव्यावृत्तवाक्यार्थज्ञानस्य तदुपयोगाभावेऽपि विचारस्य तदपेक्षत्वात् । तत्त्वत्वादेन परवाक्यविचारे सर्वशाखाप्रत्ययन्यायादेरुपयोगः क्रियते । चत्वारिंशत्संस्काराणामावश्यकत्वात् विविदिषोत्पत्त्यर्थत्वेनाप्यनुष्ठेयत्वात् कर्मविचारापेक्षा । न च भवान्तरीयतत्कर्मभिरपि पापक्षयसंभवान्न नियमेन तद्विचारस्य हेतुत्वमिति वाच्यम्, विविदिषोत्पत्त्यर्थत्वस्य निराकृतत्वात् ; चत्वारिंशत्संस्कारात्मक गुणाष्टकयुक्तस्य मोक्षफलत्व -

( १ – १ – १) नयप्रकाशिका ६३९. वचनाच्च । यद्यपि केवलसंस्कारादेर्न मोक्षहेतुत्वं, तथापि स्वातिविद्याद्वारा मोक्षहेतुत्वात् मोक्ष हेतुत्वोक्तिरप्युपपन्ना । विद्याङ्गत्वेन कर्मणामहरहरनुष्ठेयत्वप्रसाधनाद्धेतुत्वेन नियतिश्च सिद्धा । किंच शमादेः पूर्ववृत्तत्वे न किंचन प्रमाणम् । न च तदभावे जिज्ञासानुपपत्तिः प्रमाणमिति वाच्यम्, जिज्ञासाप्रवृत्तेः पूर्वमेव मुमुक्षोः शमादियोगित्वे विद्याङ्गत्वेन तदभि- घानानुपपत्तेः, तद्विषयविचारानुपपत्तेश्च । विचार्यते हि " शमदमाद्युपेतः स्यात् " इत्यत्र । न च कर्मणां विद्याङ्गत्वेन विचार्यत्वसिद्धौ तदङ्गत्वविधेस्तद्विचारस्यानुपपत्तिः समेति वाच्यम्, कर्मस्वरूपज्ञानमात्रस्यात्रोपयुक्तत्वात् अङ्गत्वेनात्र विधेयत्वात् । न हि कर्माज्ञाने तदनुष्ठानोपपत्तिः । शमादिसिद्धावेव तु जिज्ञासाप्रवृत्त्युपपत्तिरिति कथं ज्ञानाङ्गत्वविध्युपपत्तिः शमादेः । न चास्माकमिव कर्मणोऽङ्गत्वोपयोगापेक्षया कर्मविचार - वत् शमादिविचरस्तदपेक्षा च ब्रह्मविचारस्याङ्गीकृतः । किंच नित्यानित्यवस्तुविवेकस्य मीमांसाश्रवणात् पूर्वमेव सिद्धौ शास्त्रश्रवणवैयर्थ्यम् । शास्त्रे नित्यानित्यप्रसाधनवैयर्थ्यं च । प्रसाध्यते हि तत् " न वियदश्रुतेः " इत्यादौ । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्यात्वेना- भिमतत्वात् ब्रह्मण एव नित्यत्वाभिधानाच्च तदुभयस्य ज्ञातत्वे किमर्थं शास्त्रश्रवणम् ? न चाभासमात्रतद्विवेकस्य पूर्ववृत्तत्वमिति वाच्यम्, आभासज्ञानस्याविवेकत्वात् । तात्त्वि – कज्ञान एव हि तद्विवेकः । शास्त्रस्य ब्रह्मतद्व्यतिरिक्तयोः सत्यत्वमिथ्यात्वयोरेव प्रामाण्य-: मङ्गीकृतम् । एवं च हेतुहेतुमतोरविशिष्टता च, उभयोरेकस्वरूपत्वात् । न च कर्मत- त्फलानां स्वरूपज्ञानमात्रमेव नित्यानित्यवस्तुविवेक इति वाच्यम् ब्रह्मण एतत्फ- लव्यतिरिक्तत्वात् तदतिरिक्तनित्यवस्त्वनङ्गीकारात्तयोश्च ज्ञातत्वात् । न च व्यावहारिकनित्यानित्यवस्तुनोर्विवेकस्य विचारहेतुत्वमिति वाच्यम्, तादृशज्ञानस्य वस्तुतोऽ- विवेकत्वस्योक्तत्वात् । तादृशानित्यत्वादिज्ञानस्यापि पूर्वकाण्डावसेयत्वात् तस्य पूर्ववृत्तता सिद्धा । स्वर्गादिफलयागादिकरणे प्रयाजादीतिकर्तव्यतानां कर्तृत्वज्ञानस्वरूपस्य स्थिरत्व - विवेक इति तस्य च श्रुतिलिङ्गादिप्रमाणावसेयत्वात् तस्य च पूर्वकाण्डस्थत्वात् । न च परीक्ष्य लोकान् ” इत्यादिश्रुत्यैवानित्यादिज्ञानमिति वाच्यम्, कर्मपरीक्षणस्यापि मीमांसा- वसेयत्वादित्युक्तत्वात् । न च ब्रह्मव्यतिरिक्तस्य परिच्छिन्नत्वेन कार्यत्वात् ब्रह्मणोऽपरि- च्छिन्नत्वेनाकार्यत्वमित्यनुमानाभ्यां नित्यादिवस्तुविवेक इति वाच्यम्, परिच्छिन्नत्वहेतोः कालात्ययापदिष्टत्वात् ; जीवानां परिच्छिन्नवेऽपि “न जायते म्रियते” इत्यादिश्रुत्या नित्य-

६४० श्रीभाष्यम् 1 (जिज्ञासाधिकरणम्) त्वप्रतीतेः । न च तेषां ब्रह्माव्यतिरेकान्नित्यत्वमिति वाच्यम्, तद्व्यतिरिक्तत्वस्यासिद्धत्वात् । " तदधिकं तु भेदनिर्देशात् " इत्यत्र च भेदः साधितः । तादृशजीवस्य नाशाङ्गीकारे चाकृताभ्यागमादिदोषश्च । अजामेकाम् ” इत्यादिश्रुतेरव्याकृतस्य परिच्छिन्नस्यापि कारणावस्थस्याकार्यत्वाच्च कारणावस्थस्य निरन्वयाविनाशेन नामरूपविभागानर्हतया ब्रह्मणि संकोचेनावस्थितिरेव नाश इत्युत्तरत्र प्रसाधितम् । सर्वं कार्यं कार्त्स्न्येन विनश्यति ’ इत्यनुमानस्यापि निरन्वयविनाशपरत्वे कालात्ययापदिष्टता । संकोचमात्रपरत्वे सिद्धसाधन- त्वम् । सुषुप्तावात्मसुखविनाशाभावाद्दृष्टान्तश्च साध्यविकलः । तदभावश्च ‘सुखमहमस्वाप्सम् ’ इति स्वापकालीनसुखपरामर्शात् । न ह्यननुभूतार्थपरामर्शः । अनुमानान्नित्यानित्यवस्तुविवेक- सिद्धौ शास्त्रस्यानुवादकस्य न प्रामाण्यम् | अनन्यप्रमाणविषयत्वं हि शास्त्रस्य । शास्त्रश्रव- णस्य विधेयत्वोक्तिरपि व्यर्था, रागादेव तत्र प्रवृत्तेरुक्तत्वात् । ज्ञानमेव विधेयमिति चोक्तम् । न च प्रत्यक्षादिना घटादिज्ञानस्येव यथाप्रमाणं ज्ञानस्य स्वयमेव जायमानत्वेन न विधेयत्वमिति वाच्यम्, वाक्यजन्यज्ञानान्यस्यैव ध्यानरूपज्ञानशब्दवाच्यत्वेन विधेयत्वा- दित्युक्तत्वात् । अतः कर्मणां शमादीनां च विधेयज्ञानाङ्गत्वमेव । एवं च " शान्तो दान्त उपरतस्तितिक्षुरात्मन्येवात्मानं पश्येत्” इति श्रुतेर्मुख्यार्थतालाभश्च । अन्यथा श्रवणादि- लक्षणा । अथ " तपसा ब्रह्म विजिज्ञासस्व इति विचारस्यैव विधेयत्वप्रतीते: श्रवणस्यैव विधेयत्वमिति चेत् — न ; तत्रापि ज्ञानप्राधान्यात् तस्यैव विधेयत्वात् । “ स तपस्तप्त्वा । अन्नं ब्रह्मेति व्यजानात्" इत्यादि श्रवणात् ज्ञानस्यैव लब्ध- स्वप्रतीतेश्च । श्रवणविधिपरत्वे तु ’ ब्रह्मेत्यशृणोत्’ इत्यादि वाक्यं स्यात् । अतः "" तपसा ब्रह्म इत्यादिवाक्यैरपि कर्मणो विद्याङ्गत्वमेवोच्यते । ध्यानमननयोर्वाक्यार्थज्ञानोत्पादकत्वेनाङ्गत्वम्, न्यायसहितवाक्यमात्रादेव तदर्थज्ञानोत्पत्तेः प्रत्युत ज्ञानस्याभावे ध्यानानुष्ठानायोगात् ज्ञानस्यैव ध्यानाङ्गत्वम् । अतः कर्मज्ञानस्यैव पूर्ववृत्तत्वम्, न साधनचतुष्टयस्येति सिद्धम् । ननु ब्रह्मव्यतिरिक्तस्य न कथं मिथ्यात्व- मिति चेत् — बाध्यत्वादर्शनादिति ब्रूमः । वाक्यार्थज्ञानसद्भावेऽपि न हि जगद्रमनिवृत्तिः । ननु वाक्यार्थज्ञानं न कस्यापि तत्पूर्वं जातमिति चेत्, तर्हि तत्परमपि न कस्यापि जायेत । यदि पूर्वं जातं स्यात् ब्रह्माज्ञानस्य विनष्टत्वेन भ्रमानुवृत्तिर्न स्यात् । जीवाज्ञानपक्षानुपप- त्तिस्तु आरम्भणाधिकरणे प्रपञ्चिता । अथ भेदवासनाया ज्ञानोदयविरोधित्वेन तत्सद्भावे 99 ।


न च श्रवणद्वारा

((१–१–१) तत्त्वटीका ६४१. -न ज्ञानोत्पत्तिः । न च व्युत्पन्नस्य वाक्यश्रवणमात्रात् ज्ञानं जायत इति वाच्यम्, तस्यानिवर्त- कत्वात् । पश्चात्तदसंनिधान एव श्रवणादिपरं परयोपपद्यत इति चेत् —न ; ज्ञानोत्पत्तिसह- - कारिसंपत्तौ तदनुत्पत्त्यनुपपत्तेः । वाक्यस्य स्वार्थबोधकत्वव्युत्पत्तेश्च व्यतिरिक्तसहकार्यन्तरे प्रमाणाभावात् । न च सामग्रीसद्भावेऽपि मन्त्रादिप्रतिबन्धकसद्भावे वर्दहनकार्याजनक कत्व- वत् वाक्यं न ज्ञानजनकमिति वाच्यम्, तद्वासनाया अपि मिथ्यात्वेन ज्ञानवाध्यतया -बाधकज्ञानोत्पत्तिप्रतिबन्धकत्वानुपपत्तेः । रज्जुसर्पादौ वासनासद्भावेऽपि निश्चष्टत्वादि- लिङ्गेन वा आप्तवाक्याद्वा भ्रमबाधकज्ञानोत्पत्तिदर्शनाच्च । तद्वासनायाश्च तदुत्पत्तिनिरोध- कत्वे कदाचिदपि ज्ञानोत्पत्तिर्न स्यात् । अथ केनचित् कारणेन तद्विनाशे तज्जनन- संभव इति चेत्, तर्हि वाक्यार्थज्ञानार्थप्रवृत्तेर्व्यर्थता स्यात् । . मिथ्यारूपवासनायाः कारणान्तरेण विनाशवदितरभ्रमस्यापि तज्ज्ञानव्यतिरेकेण विनाशसंभवात् । न च चन्द्रै- -कत्वादिज्ञानेऽपि द्विचन्द्रत्वाद्यनुवृत्तिवत् ज्ञानाच्छिन्नमूलं भेदमात्रमनुवर्तत इति बाधकमिति वाच्यम्, वासनाकारणस्यापि मिथ्यात्वेन ज्ञानवाधितत्वात् बाधितानुवृत्त्यनुपपत्तेः । न हि क्षणिकस्य ज्ञानस्य कारणव्यतिरेकेणानुवृत्त्युपपत्तिः । न चावृत्त्युपयोग्यंशव्यतिरेकेण तज्ज्ञानबाध्यत्वमिति वाच्यम्, तदङ्गस्य मिथ्यारूपत्वेऽपि तज्ज्ञानावाध्यत्वे कदाचिदप्यविना- शापत्तेः । छिन्नमूलस्यानुवृत्त्युक्तिरप्यनुपपन्ना, छिन्नमूलस्य प्रबन्धेन वृत्त्ययोगात् । द्विचन्द्रज्ञानादेस्तु स्वकारणदोषतिमिरादेः परमार्थत्वेन ज्ञानाचाध्यत्वादनुवृत्तिः । किंच युष्मद्गुरुपरंपराया निर्विशेषाद्वितीयज्ञानसद्भावे स्वनिश्चयानुरूपज्ञानोपदेशो नोपपन्नः, ज्ञप्ति- मात्रव्यतिरिक्तशिष्यादीनां मिथ्यात्वावगतेः । न ह्यसत्त्वेन ज्ञातेभ्य उपदेशोपपत्तिः । प्रति- चिम् इति तेभ्यो ह्युपदेशे सुतरां भ्रान्तिर्गुरुपरंपराया इत्यनादेयं वाक्यम्, अज्ञता च । युष्मदीयगुरुज्ञानादेव ब्रह्माज्ञानविनाशादुपदेशादिव्यर्थश्च । न च काल्पनिकत्वेन प्रवृत्त्यु- पपत्तिः, गुरोः काल्पनिकत्वनिश्चयादुपदेशादिप्रवृत्त्यनुपपत्तेः । तवटीका अथानूदितनानार्थदोषजालमहोदधेः । संक्षिप्त प्रतिपत्त्यर्थं तदित्यादि निबध्यते ॥ ३६० ॥ प्रकाशयति तत्कारः परैरुक्तमनेकधा । अनेकग्रन्थसन्दर्भसाधितं तदुदीर्यते ॥ ३६१ ॥ 81

६४२ 66 श्रीभाष्यम् दृष्यकास्यमिदं वक्ति प्रस्फुरद्दोषतामपि । आभासत्वमतो वक्तुमिदंशब्दः प्रयुज्यते || ३६२ ॥ किं चासारमिदं सर्वं सति सारे हि कुत्रचित् । सारासारौ विवेक्तव्यौ मल्लिकादिसमैरपि ॥ ३६३ ॥ यदि नोदप्रियते न्यायैः श्रुतिशल्यमिदं मतम् । उपप्लेयेत सन्मार्गस्तदाहुर्यादूषणे ॥ ३६४ ॥ “ प्रमाणत्वाप्रमाणत्वे पुण्यपापादि तत्फलम् । विध्यर्थवाद मन्त्रार्थनामधेयादिकल्पना || सर्वेषु लक्षणेष्वेव स्वप्रमाणगतैः स्थितिः । वचनव्यक्तिभेदेन पूर्वसिद्धान्तपक्षता || कर्मभ्यः फलसंबन्धः पारलौक्यैहलौकिकः । सर्वमित्याद्ययुक्तं स्यादर्थशून्यासु बुद्धिषु ॥ तस्माद्धर्मार्थिभिः पूर्वं प्रमाणैर्लोकसंमतैः । अर्थस्य सदसद्भावे यत्नः कार्यः क्रियां प्रति ॥ (जिज्ञासाधिकरणम्) इति । अत्र व्यावहारिकव्यवस्थया समाधिस्तु सांप्रतव्यवस्थावदपाकरिष्यते । अत्र तदिदं परोक्तमुपायादित्रयमनादरणीयमिति साध्यम् ; औपनिषदेत्यादिना तद्धेतूक्तिः । स्वपक्षे प्राप्यादयस्त्रय इह परमपुरुषतद्भक्तितदपराधाः सूच्यन्ते । औपनिषद शब्देन " तं त्वौप- निषदं पुरुषम् ” इत्यादि वाक्यं स्मारयता स्वपरपक्षयोः साधनदूषणोक्तिः । परेषां तु ब्रह्मणो वेद्यत्वानभ्युपगमात्तदिष्टविपरीत सगुणत्वादिश्रुत्या च बाधप्रदर्शनम् । परमपुरुष- “त्वोक्तिरीश्वरोत्तीर्णतान्युदासाय ; अर्थात् त्रिमूर्तिसाम्योत्तीर्णता दिपक्षापोहः । सम्यग्ज्ञानानुप- पत्त्यै भक्तिविरहाद्युक्तिः । भक्तिर्हि सम्यग्धीहेतुतया " यस्य देवे परा भक्तिः शुद्ध- 99 99 66 भावं गतो भक्त्या ” इत्यादिषु ख्याता । पापस्य वासना ; तत्त्वज्ञाननिवृत्तिमिथ्याज्ञानादे सजातीयारम्भस्योत्पादनशक्तिः । तस्यास्तत्त्वधीनाशकत्वं " पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः " इयादिषु प्रसिद्धम् । बीजाङ्कुरन्यायसूचनाय अनादिशब्दः । अशेषशब्देन मानतर्कप्राप्योपायादिसर्वसंग्रहः । पापस्य भक्त्या निवर्त्यत्वं भक्त्यभावे यथार्हं हेतुसाध्यभावो भक्तिनिरोधद्वारं चात्र सूच्यम् । भक्त्यभावादिनोक्तार्थाभ्यां मानतद्वितिकर्तव्यतादौ सर्वत्र CC-0 No Rights Reserved. Digitized by eGangotri( १ – १ – १ ) मूलभावप्रकाशिका ० ६४३ प्रमितिसामग्रीशैथिल्येन बहुविदामपि भ्रमादिसंभवमाह – अनधिगतेति । ‘सम्यक्’ इत्यु- पस्कार्यम् । पदस्वरूपम् ; प्रकृतिप्रत्ययसमुदायात्मकम् । वाक्यस्वरूपं तु ताहंशां संघातः । तदर्थः ; मुख्यामुख्यरूपः पदार्थो वाक्यार्थश्च । तद्याथात्म्यम् ; दुस्त्यजभेदगर्भत्वं वाक्यार्थस्य यथार्हतात्पर्यगोचरत्वं च । भेदभूयस्तथा विरोधे सति प्रबलतया परेष्टत्वाच्च प्रत्यक्षादेः पूर्वं वाक्यस्योक्तिः । आदिशब्देन स्वपराभ्युपेतग्रहः । सकलशब्दः सावान्तर- भेदपरः, परेष्टमानान्तरपरो वा । वृत्तम् ; स्वरसतः स्वार्थसाधनमुपजीव्यानुविधानं च । तच्छब्देन प्रमाणपरामर्शः । न्याय: ; तर्कः । समीचीनत्वं साङ्गपञ्चकत्वम् | मार्गः ; -तत्तत्प्रतिपादकविद्यास्थानम् । यद्वा विरुद्ध जिज्ञासावारणरूपोऽनुग्रहः । संबन्धसामान्ये षष्ठी । कुतस्तर्हि मानशून्यस्योत्थानमित्यत्र बाह्यमतवदित्यभिप्रायेणाह - विकल्पेति । विकल्पासहत्वम् ; विकल्पमात्रे स्पष्टदोषत्वम् । वेद्यत्वावेद्यत्वादिविरुद्ध गोचरत्वाभिप्रायेण विविधशब्दः । तर्केषु सारो बाघैरात्तः, वेदप्रामाण्याद्यनादरेणोत्थानात् । इदं तु तहजीषैः कल्पितम् । स्वमतस्य सत्तर्कान्वितमानसिद्धतां बोधायनटङ्कदमिडादिमहत्तरपरिग्रहप्राचुर्यं च सूचयति – न्यायेति । अनादरणीयम्; आदरानर्हम्; उन्मत्त जल्पितवदुपेक्षणीय- मित्यर्थः । एतेन दृष्टाप होतॄणां वादानधिकारः सूच्यते । उक्तं हि वेदार्थसंग्रहे- शून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश्च स्वपक्षसाधकप्रमाणपारमार्थ्यानभ्युप- गमात् अभियुक्तैर्वादानधिकार एव प्रतिपादितः " इति । तथा चाहु:– “ अधिकारोऽनु- - पायत्वान्न वादे शून्यवादिनः " इति । तत्प्रतिक्षेपस्त्वन्वारोहेण; शिक्षणीयान् शिष्यादी प्रति वा । 46 99 मूलभावप्रकाशिका 66 सर्व- सिद्धान्तमारभते - तदिदमिति । परमपुरुषवरणीयता हेतुर्गुणविशेषो भगवद्भक्तिः, “ यमेवैषः इति श्रुतिव्याख्यानावसरे तथा प्रतिपादितत्वात् । पदवाक्यस्वरूपम् प्रकृतिप्रत्ययसंघातः पदस्य स्वरूपम्, पदसंघातो वाक्यस्वरूपमित्यर्थः । प्रमाणवृत्तम् ; प्रमाणप्रवृत्तिः । श्रीभाष्यम् । तथाहि — निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनि ’ इदं प्रमा- णम्’ इति न शक्यते वक्तुम्, सविशेषवस्तुविषयत्वात्सर्वप्रमाणा-

६४४ श्रीभाष्यम् (जिज्ञासाधिकरणम् नाम् । यस्तु ‘स्वानुभवसिद्धम्’ इति स्वगोष्ठीनिष्ठः समयः सोऽप्या- त्मसाक्षिकसविशेषानुभवादेव निरस्त:, ’ इदमहमदर्शम् ’ इति केनचि- द्विशेषेण विशिष्टविषयत्वात्सर्वेषामनुभवानाम् । सविशेषोऽप्यनुभूय- मानोऽनुभवः केनचिद्युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणः सत्तातिरेकिभिः स्वासाधारणैः स्वभावविशेषैर्निष्क्रष्टव्य इति निष्कर्ष - हेतुभूतैः सत्तातिरेकिभिः स्वासाधारणैः स्वभावविशेषैः सविशेष एवा- वतिष्ठते । अतः कैश्विद्विशेषैर्विशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति न क्वचिन्निर्विशेषवस्तुसिद्धिः । धियो हि धीत्वं स्वप्रकाशता च, ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेः । स्वापमदमूच्र्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरमुपपादयिष्यामः । स्वाभ्युपगताश्च नित्यत्वादयो नेके विशेषाः सन्त्येव । ते च न वस्तुमात्रमिति शक्योपपादनाः, वस्तुमात्राभ्युपगमे सत्यपि विधाभेदविवाद दर्शनात् ; स्वाभिमततद्विधाभेदैव स्वमतोपपादनात् । अतः प्रामाणिकविशेषैर्वि- शिष्टमेव वस्त्विति वक्तव्यम् | श्रुतप्रकाशिका . एवं संक्षेपेण प्रतिज्ञातमर्थमुपपादयितुमुपक्रमते - तथाहीति । ननु पूर्वपक्षिणा प्रथमं वेदान्तवाक्यविशेषानुदाहृत्य तत्र निरूपणीयं सर्वं निरूप्य ततश्च तद्व्यतिरिक्तप्रमा- तर्काः प्रदर्शिताः ; अतः सिद्धान्ते च तेन क्रमेण तत्प्रतिक्षेपो युक्तः ; तत्कथं प्रथमं सकलप्रमाणाविषयत्वनिरूपणं संगच्छते । उत्तरत्र च कथं प्रत्यक्षादिनिर्विशेषविषयत्वनि- रासपूर्वं वेदान्तवाक्ययोजना क्रियते ? उच्यते - प्रत्यक्षविरोधे शास्त्रप्राबल्याभ्युपगमात् परेण वेदान्तवाक्यानि प्रथममुदाहृत्य पश्चात्तदन्यद्वक्तव्यं सर्वमुक्तम् ; प्रबलतयाभिमतप्रमाण- पुरस्कारो ह्युचितः । सिद्धान्तिना तु प्रत्यक्षविरोवे शास्त्रप्राबल्यानभ्युपगमात् प्रत्यक्षादे- निर्विशेषविषयत्वव्युदसनपूर्वकं तदविरोधेन वेदान्तवाक्यानि स्वरसतो व्याख्या स्यन्ते । तंत्र निर्विशेषचिन्मात्रपारमार्थ्यस्य परेण प्रथमप्रतिज्ञातस्य सामान्येन सकलप्रमाणबहिष्कृ-

( १ – १ – १ ) श्रुतप्रकाशिका ६४५ ; तत्वरूपं दूषणं प्रथमं प्रतिजानीते - निर्विशेष इति । अर्थात्प्रमाणस्वभावश्च स्वपक्षानु- गुणो निरूपितो भवति । खपुष्पमपि स्वानुभवसिद्धमिति वक्तुं शक्यमिति तद्व्यावृत्त्यर्थमिदं - शब्दः । परसंप्रतिपत्तिपदं प्रमाणं न किंचिदपीति भावः । यद्वा न कदाचिदपि प्रमाण- व्यक्तिर्निर्विशेषगोचरेत्येकवचनाभिप्रायः । कुत इत्यत्राह - सविशेषेति । ननु विशेषा हि निर्विशेषाः ; तत् कथं निर्विशेषवस्तुनोऽप्रामाणिकत्वम् ? उच्यते - धर्मेण धर्मी सविशेषः धर्मिणा च धर्मः सविशेषः ; कस्यचिद्धर्मभूतं धर्मि वा यन्न भवति तत्प्रमाणशून्यमिति हि ग्रन्थार्थः । विशेषो व्यावर्तकः । धर्मी च स्वगतधर्मस्याश्रयान्तरगतधर्माद्व्यवच्छेदक इति विशेषशब्दवाच्यः । किंच विशेषो निर्विशेष इति शब्दौ किं पर्यायौ, न वा ? आद्ये सहप्रयोगानुपपत्तिः । द्वितीये तु न निर्विशेषत्वम्, बोध्यभेदमन्तरेणापर्यायत्वायो- गात् । ननु कथं सर्वप्रमाणानां सविशेषविषयत्वम् ? न हि गन्धादिग्राहि प्रमाणं गन्धा- दिकं साश्रयमावेदयति—नैवम् ; आश्रय एव विशेष इति नियमाभावात् ; संविदोऽपि सर्वविशेषणतया सर्वार्थवैशिष्ट्यमुपपद्यते ; ’ अयं गन्धोऽनुभूयते ’ इति कालादिविशेषाव- च्छिन्नतयैव गन्धादिप्रतीतेश्च सविशेषविषयतोपपत्तिः । तथा प्रतीतिश्च वक्ष्यते । तर्हि न वयं प्रमाणान्तरेण निर्विशेषवस्तुसिद्धिमभ्युपगच्छामः ; स्वानुभवसिद्धं हि तदित्यत आह- यस्त्विति । तुशब्देन समयं विशिषन् समयवैशिष्ट्यमूलं स्वानुभवलक्षणप्रमाणबैषम्यम- भिप्रैति । स्वगोष्ठीनिष्ठ इति ; परवाद्यसंगतत्वं दर्शयति । आत्मसाक्षिकानुभवस्य सवि- शेषत्वं दर्शयति- इदमहमिति । विशिष्टविषयत्वादिति ; विशिष्टो विषयः स्वयमनु- भव एव ; ’ शिलापुत्रकस्य शरीरम्’ इतिवदयं निर्देशः, अन्यथा स्वानुभवनिर्विशेषत्व- निरासे घटादिसविशेषत्वसाधनस्यानुपयोगात् । ’ अनुभूयमानोऽप्यनुभवः’ इत्युपरितन- ग्रन्थस्याप्येवमेवार्थः, स्वानुभवसिद्धमित्यनेनैकार्थ्यात् । न चानुभवशब्दोऽनुव्यवसायपरः; न ह्यनुव्यवसायरूपं प्रत्यक्षमिष्टम्, अतीतविषयतया प्रत्यक्षत्वानुपपत्तेः । परज्ञानं प्रमुषितसंस्कारं स्वज्ञानं चानुमेयम् । अन्यत्तु स्मृतिविषयम् । न च स्मृतिविषयत्वमिह विवक्षितम्, अनु- भवशब्दस्यातदर्थत्वात् । अतोऽनुभूयत्वमवभासमानत्वम् । इदमहंशब्दाभ्यां सकर्मकर्तृक- एवानुभव इत्युक्तम् । अदर्शमित्यनेनापरोक्षत्वविशेषान्वयोऽभिप्रेतः । अतीतत्वं त्वविव- क्षितं, तदा स्वतः सिद्धत्वायोगात् । केनचिद्विशेषेणेति ; उक्तेष्वप्यन्यतमविशेषणमन्ततो, गत्वाप्यवर्जनीयमिति भावः । यद्वा अदर्शमित्यत्रेतिशब्दः प्रकारवचनः प्रकृतसजातीय-

६४६ श्रीभाष्यम् (जिज्ञासाधिकरणम्) रूपं विशेषं यावत्संभवं गृह्णाति । तेन परोक्षत्व वर्तमानत्वादिकं केनचिदिति विवक्षितं स्यात् । परोक्षत्वं विषयद्वारा । ननु न हि वयम् ’ इदमहमदशम् ’ इति प्रतीतिमपल- पामः ; सा तु तर्कव्यवस्थापितविषया निर्विशेषे प्रमाणमित्यत्राह - सविशेषोऽपीति । स्वव्याघातस्य दर्शयिष्यमाणत्वात् युक्त्याभासेनेत्युक्तम् । निर्विशेष इति निष्कृष्यमाण इति ; यदा निर्विशेष इति निष्कृप्यते तदानीमेवं हि निष्क्रष्टव्य इत्यर्थः । कथं निष्क्र- ष्टव्य इत्यत्राह — सत्तातिरेकिभिः स्वासाधारणैरिति ; सत्तानतिरेकी चेत्, पक्षावि- शिष्टो हेतुः स्यात् ; तदयुक्तम् ; पक्षव्यापको हि हेतुः । किंचान्यस्य द्रव्यान्तराद्व्यावर्त- कधर्मस्यैव स्वव्यावृत्तिरूपत्वसंभवः । स्वरूपे प्रतिपन्ने स्वस्यान्यतादात्म्यभ्रमविरोधिनश्च स्वरूपमेव व्यावृत्तिः, यथा शुक्तित्वादेः । ब्रह्मणस्तु वस्त्वन्तरस्यान्यस्मात् व्यावृत्तिरूपधर्म- त्वाभावात् स्वरूपे भासमाने भ्रमसहत्वाच्च न स्वरूपमेव व्यावृत्तिरिति वक्ष्यमाणशौक्ल्या- दिदृष्टान्तवैषम्याभिप्रायेण सत्तातिरेकिभिरित्युक्तम् । साधारणश्चेत् हेतुरनैकान्तिको भ्रमाविरोधी च स्यात्, यथा शौक्ल्यादि । असाधारण शुक्तित्वमेव हि रजतभ्रमविरोधि I अतः स्वासाधारणैरित्युक्तम् । स्वशब्देन व्यधिकरणासिद्धिपरिहारः । स्वभावविशेषः ; धर्मविशेषैः । एवं सामान्येनार्थशरीरमुक्तम् अतस्त्वयापि निरासकहेतुतयाभिमताना- सत्तातिरेकित्वस्वासाधारणधर्मत्वे अवर्जनीये इत्यभिप्रायेण सत्तातिरेकिभिः स्वासाधारणै- रिति पुनः कथनम् । ये ये हेतवः सविशेषघटादिवस्तुव्यावृत्ताः सामान्येन सकलवि षाभावसाधकाः, तेऽर्थसामर्थ्यात् सामान्यान्तर्गत स्वात्मानमपि निवर्तयेयुरेवेत्यत्राह अतः कैश्चिदिति । अतः ; तेषां सत्तातिरेकित्वस्वासाधारणत्वयोरवश्याभ्युपगन्तव्यत्वादि- त्यर्थः । कैश्चिदिति ; स्वासाधारणैः प्रामाणिकैरित्यर्थः । विशिष्टस्यैवेति ; निर्विशेषत्व- साधकनिवृत्तौ निर्विशेषत्वासिद्धेः, तदनिवृत्तौ तैरेव सविशेषत्वप्रसङ्गाच्चेत्यभिप्रायः “अन्य इति ; निर्विशेषत्वसाधक हेतवो येभ्यो घटादिभ्यो व्यावृत्ताः, तद्गता इहाप्रामाणिका रूपादयो विशेषा अस्मिन्निरस्यन्ते, न तु सर्वविशेषाः । अनग्निमन्वव्यावृत्तो धूमः पक्षेऽनग्निमत्त्वमेव निवर्तयति, न त्वाकारान्तरमित्यर्थः । न क्वचिदिति ; स्वानुभवे प्रत्यक्षादिप्रमाणान्तरेष्वपीत्यर्थः । स्वव्याघातप्रसङ्गेन सकलविशेषनिवृत्तेः साधयितुमशक्य- त्वान्न निर्विशेषवस्तुसिद्धिरित्युक्तं भवति । एवं कर्मकर्तृव्युदासमभ्युपगम्य सविशेषत्वमापा- दिनम् ; अथ कर्मकर्तृनिरास एवं दुःशक इत्याह-धियो हीति । धीत्वम् ; विषय- ;

(१–१– १) श्रुतप्रकाशिका ६४७ प्रकाशकत्वम् । स्वप्रकाशता ; अनन्याधीनप्रकाशत्वम् । एतदुभयं स्वप्रकाशवादे साधन- तया साध्यतया च परेणोपन्यस्तम् । ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेरिति ; निय- मेन स्वाश्रयं प्रति विषय प्रकाशकतयावभासमानत्वाद् धीत्वस्वप्रकाशत्वे - सिध्यत इत्यर्थः । धीत्वं विषयसाधनत्वं, तथावभासमानत्वादिति न साध्याविशिष्टता । यद्युपलब्धिसिद्धं सकर्मकर्तृत्वं नाङ्गीकुरुपे, ततः सकर्मकर्तृत्व हेतुकं स्वप्रकाशत्वमपि न सिध्येदिति भावः । यद्वा धीत्वं धीस्वरूपमात्रम् । हिशब्द उपलब्धेः सर्वसंप्रतिपत्तिं दर्शयति । ननु न कर्म- कर्त्रवच्छिन्नं ज्ञानमात्मभूतम् ; अन्यदेव तु स्वापाद्यवस्थानुभूतं निर्विशेषं साध्यत इत्यत्राह – स्वापेति । अनुभवः आत्मस्फुरणम् । न हि तदा धर्मभूतज्ञानस्फुरणम् । स्वावसरे ; अहमर्थस्यैवात्मत्वसमर्थने । निपुणतरम् ; परप्रयुक्तयुक्त्यैवेति भावः ; ‘सुख- महमस्वाप्सम्, मामप्यहं न ज्ञातवान् ’ इत्यादिना परोक्तपरामर्शेनैवेति यावत् । यद्वा निपु- णतरम् ; समर्थतरम् । एतदुक्तं भवति – किं त्वया स्वानुभवाधीनं निर्विशेषत्वं कर्मकर्त्रव- च्छिन्नस्य ज्ञानस्योच्यते ? उत ’ अहम्’ इति भासमानस्यात्मस्वरूप भूतज्ञानस्य ? उत तदुत्तीर्णस्य ? आधे कर्मकर्त्रवच्छेदनियमादेव न निर्विशेषत्वम् । द्वितीये प्रत्यक्त्वानु- कूलत्वादिभिः सविशेषत्वमवर्जनीयमिति वक्ष्यते । तृतीये शून्यत्वादेव न निर्विशेषत्वं साध्यमिति । मुखान्तरेण सविशेषत्वमाह – स्वाभ्युपगताश्चेति ; आदिशब्देन स्वप्रका- शत्वैकत्वानन्दत्वादयोऽपि विवक्षिताः । ते वस्तुमात्रमिति युक्तमित्यत्राह — ते चेति । उपपादयति — वस्त्विति । बौद्धैः क्षणिकत्वमुक्तम्, अनेन तु नित्यत्वम् ; वैशेषिका- दिभिश्च जडत्वबहुत्वे, अनेन तु स्वप्रकाशत्वैकत्वे ; स्वरूपं तु तैः सर्वैरभ्युपगतम् । अतो विप्रतिपत्तिविषयः संप्रतिपत्तिविषयश्चैक एवेति वक्तुमयुक्तमित्यर्थः । विमत्यनन्तरभाविना तदुपपादनेन च स्वरूपातिरिक्ततां द्रढयति - स्वाभिमतेति । क्षणिकत्ववादिनं प्रति वस्तुनित्यत्वं साधयता त्वया स्वरूपमात्रातिरेकेण किंचित्साधितमस्ति वा? नवा ? अस्ति चेत्, सघर्मत्वम् । नो चेत्, सिद्धसाधनत्वम् ; स्वरूपमात्रस्याभिमतत्वात् । ‘संविन्नित्या’ इति प्रतिज्ञावाक्यगतौ धर्मधर्मिशब्दौ किं पर्यायौ ? न वा ? आद्ये साधनायासो निष्फलः । द्वितीये स्वरूपातिरिक्तधर्मान्तराङ्गीकार इति भावः । I ’ स्वमतोपपादनान्न वस्तुमात्रमिति शक्योपपादनाः’ इत्यन्वयः । पूर्वं सविशेष- स्त्वनिरासकहेतुभिः सविशेषत्वमुक्तम् ; अनन्तरं साध्यधर्मैः ; ततः कतिपयविशेषसाधक- CC-0 No Rights Reserved. Digitized by eGangotri६४८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) हेतुभिः । एते निरासकसाध्यसाधनधर्मा अपरमार्था इत्यत्राह - अत इति । अतः ; विशेषव्युदासकत्वेन साध्यत्वेन साधकत्वेन च केषांचिद्धर्माणां त्वयोक्तत्वात् । परमार्थ- भूतैस्तैस्तैर्विशिष्टमित्यर्थः । प्रामाणिकैरित्यनेन कैश्चिदिति पूर्वोक्तस्यार्थस्यापि विशेषो दर्शितः । विशिष्टमेवेति ; पूर्वोक्तसत्तातिरेकित्वस्वासाधारणत्वाभावे भ्रमोच्छेदो न स्यात् ; निरासकधर्मापारमा शुक्तित्वापारमा रजतसत्यत्ववन्निरसनीयाकार सत्यत्वं प्रसजेत् ; साध्यधर्मापारमार्थे च नित्यत्वादिविपरीताकारस्य सत्यत्वप्रसङ्गः; साधकापारमा च साध्य नित्यत्वादिविपरीताकारस्य सत्यत्वमापद्येतेति भावः । 4 भावप्रकाशिका तद्व्यावृत्त्यर्थमिदं शब्द इति ; शृङ्गग्राहिकया संप्रतिपन्नं किंचिन्निर्दिश्य इदं प्रमाणमिति न शक्यते दर्शयितुमिति भावः । एकवचनानुसारेणान्यथा व्याचष्टे – यद्वा न कदाचिदपीति; अत्र केचित् – यद्वेति पदं लेखकस्खलनकृतम्, तद्रा- हित्येनैव ग्रन्थस्वारस्यमस्तीति मन्यन्ते । गन्धोऽनुभूयत इति अनुभूतेर्विशेषणत्वेन भानात् सर्वस्याप्यर्थस्यानुभूतिरूपविशेषणविशिष्टत्वमेव, न निर्विशेषत्वमित्यर्थः । न यस्तु स्वानुभवः प्रमाणत्वेनोपन्यस्तः’ इत्येवं तुशब्देन स्वानुभवलक्षणप्रमाणविशेषे प्रदर्शनीये तुशब्देन समयविशेषप्रदर्शनमसंगतमित्याशङ्कय समयवैषम्यप्रदर्शनस्यापि मूलभू- तस्वानुभवलक्षणप्रमाणवैषम्यप्रदर्शनपर्यवसन्नत्वान्न दोष इत्याह- तुशब्देन समयं विशि- पन्निति । ननु विशिष्टो विषयः स्वयमेव चेत्, विशिष्टो विषयो यस्येति बहुव्रीहिनिर्देशः कथमित्याशङ्कयाह–शिलापुत्रस्य शरीरमितिवदयं निर्देश इति । स्वानुभवसिद्ध- मित्यनेनैकार्थ्यादिति अनुभवान्तरव्युदासपरग्रन्थैकार्थ्यादौपचारिकत्वस्यैव वक्तुं युक्त- त्वादित्यर्थः । ननु स्वानुभवशब्दस्याप्यनुव्यवसायरूप ज्ञानान्तरपरत्वसंभवात् कथं तदैका- नोक्तार्थपरत्वनिश्चय इत्यत्राह न चानुभवशब्दोऽनुव्यवसायपर इत्यादिना । अतीतविषयतयेति ; वर्तमान ज्ञानस्य स्वप्रकाशतयानुव्यवसायस्य वर्तमानविषयत्वा संभ- ‘वेनातीतविषयत्वनियमादतीतत्वस्य प्रत्यक्षत्वानुपपत्तेरित्यर्थः । प्रमुषितसंस्कारमिति ; अनुद्बुद्धसंस्कारमित्यर्थः । अन्यदिति ; उद्बुद्धसंस्कारमित्यर्थः । न च घटानुभवसंस्कारात् घटस्यैव स्मृतिविषयत्वम्, न घटज्ञानस्येति वाच्यम्, तस्य स्वप्रकाशतया तज्जन्यस्मृते- रेवानुभवस्मृतित्वोपपत्तेः । नन्वनुमितिसामग्री स्मृतिसामग्रयपेक्षया बलवती ; अनुमित्सा-


(१ – १ – १) श्रुतप्रदीपिका ६४९ सत्त्वे तु ततस्तराम् ; ततश्चाप्रमुषितसंस्कारस्यापि ज्ञानस्यानुमितिविषयत्वं संभवत्येवेति चेत्–न ; — स्वानुभवप्रत्यक्षसिद्धम्’ इति तङ्गोष्ठीसमयस्य तथाप्यनिर्वाहादित्याशयात् । परोक्षत्वं विषयद्वारेति; अनुमित्यादिज्ञानस्यापि स्ववृत्तिवर्तमानस्य सर्वस्यापरोक्षत्वादिति भावः । पक्षाविशिष्टो हेतुः स्यादिति; पक्षाभिन्नो हेतुः स्यादित्यर्थः । ततश्च स्वरूपासिद्धो हेतुः स्यादिति भावः । पक्षव्यापको हि हेतुरिति; पक्षवृत्तिर्हेतुरित्यर्थः । किंचान्यस्येति ; स्वसंबन्धादर्थान्तरे तद्व्यवहार हेतोरेव स्वव्यावृत्तिरूपत्वादिति भावः । व्यधिकरणा- सिद्धीति ; स्वरूपासिद्धीत्यर्थः । ततश्च ’ स्वासाधारणैः’ इत्यनेन स्ववृत्तित्वे सति व्याप्यत्वमिति सिध्यति । ततश्च सत्तातिरेकित्वं स्वासाधारणत्वोपयुक्तमित्यत्र तात्पर्यम् । अतो न ’ सत्तातिरेकिभि:’ इत्यस्य वैयर्थ्यं शङ्कनीयम् । धत्विस्वप्रकाशत्वे सिध्यत । इत्यर्थइति धीत्वे साधिते तेन स्वप्रकाशत्वं सिध्यतीत्यर्थः । ननु धीत्वं स्वप्रकाशता च, ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धोरीत भाष्ये धीत्वस्वप्रकाशत्वयोः साधिका स्वविषय- प्रकाशनतयोपलब्धिरिति प्रतीयते ; तस्या धीत्वसाधकत्वं धीत्वस्य च स्वप्रकाशतासाधक- त्वमिति व्याख्याने भाष्यस्वारस्यं नास्तीत्यपरितोषादन्यथा व्याचष्टे – यद्वा धीत्वं धीस्व- रूपमात्रमिति । धीस्वरूपं तस्य स्वप्रकाशत्वं च विषयप्रकाशनस्वभावतयोपलब्धेः सिद्ध- मिति भाष्यार्थ इत्युक्तं भवति । आत्मस्फुरणमिति ; आत्मस्वरूपस्फुरणमित्यर्थः । भाष्ये - स्वाभिमततद्विधाभेदैश्चेति ; ’ अनुत्पन्नत्वान्नित्यत्वम्, नित्यत्वादात्मनो नानात्व- मपि न संगच्छते ’ इत्येवं परेण साधनादिति भावः । पूर्वं सविशेषत्वनिरास कहेतुभिः सविशेषत्वमुक्तमिति ; ’ अतः कैश्चिद्विशेषैर्विशिष्टस्य ’ इति भाष्येणेत्यर्थः । अनन्तरं साध्यधर्मैरिति ; ’ धियो हि श्रीत्वं स्वप्रकाशता च’ इति भाष्येणेत्यर्थः । ततः कति- पयेति ; ‘ ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेः ’ इति भाष्येणेत्यर्थः । केचित्तु –“स्वाभि- मततद्विधाभेदैः’ इति भाष्येणेत्यर्थ इति व्याचक्षते । श्रुतप्रदीपिका एवं संक्षेपतः प्रतिज्ञातमर्थमुपपादयितुमारभते – तथाहीति । अत्र प्रबलतया- भिमतमानान्तरपुरस्कारेणोपन्यस्य ततः श्रुत्या तद्विरुद्धार्थप्रतिपादनायोगात् मानान्तराणां सविशेषपरत्वं दर्शयितुं निर्विशेषे मानाभावं प्रतिजानीते —– निर्विशेषेति । इदम् ; प्रमाण- त्वेन लोकप्रसिद्धं, परसंमतं वा । हेतुमाह – सविशेषेति । विशेषो न निर्विशेषः ; कस्य- 82


६५० श्रीभाष्यम् (जिज्ञासाधिकरणम्)


C भावः । अथ स चिद्धि सः । धर्मतया धर्मितया वान्याननुबन्धि वस्तु नेत्यर्थः । निर्विशेषं न मानगम्यम्, किंतु स्वसिद्धीत्यत्राह – यस्त्विति । स्वगोष्ठीनिष्ठः ; सर्वलोकसर्व परीक्षका संमतः । अनुभवं दर्शयति. – इदमिति । सविषयत्वसाश्रयत्वापरोक्षत्वादिर्विशेषः । विशिष्टविषय- शब्द औपचारिकः ; विशिष्टविषयतया भासमानत्वं विवक्षितम् । अनुभूयमान इत्य- त्रापि तथा । प्रतीतत्वेऽपि युक्तिवाधितं सविशेषत्वमित्यत्राह - सविशेषोऽपीति । निष्कृ- ष्यमाणः ; निष्कर्षदशायाम् । पक्षानतिरेक प्रसङ्गात् स्वरूपस्य धर्मेतरत्वभ्रमस हत्वाभ्यां शौक्ल्यादिवैधर्म्याच्च सत्तातिरेकिभिरित्युक्तम् । अनैकान्त्यभ्रमविरोधव्यधिकरणासिद्धि- व्युदासाय स्वासाधारणशब्दः । सामान्येन शिक्षितोऽर्थस्तवाप्यवर्जनीय इति पुनः कीर्तनम् । विशेषव्युदासकत्वात् स्वयं च निवर्तन्त इत्यत्राह – अत इति । अत; उक्तलक्षणविशेषावश्यंभावात् निरासकासिद्धौ निरासासिद्धेरिति ; कैश्चित् ; प्रामाणिकैः । अन्ये; घटादिगतरूपाद्याः । क्वचित् ; प्रत्यक्षादौ । स्वानुभवे च कर्मकर्तृव्युदासमभ्युपगम्य निरासकैः सविशेषत्वमुक्तम् ; एव नेत्याह – धियो हीति । धीत्वम् ; विषयप्रकाशकत्वम् । स्वप्रकाशता ; अनन्या- धीनप्रकाशत्वम् ; साधनं च साध्यं चेत्यर्थः । ज्ञातृज्ञेयसंबन्धनियमोपलब्धेरिति हेत्वर्थः । न विषयभासनं स्वभावः, स्वापादावदृष्टेरित्यत्राह – स्वापेति । अनुभवः ; आत्मस्फुर- णम् । स्वावसरे ; अहमर्थात्मत्वसमर्थनावसरे । निपुणतरम् ; परोक्तयुक्तयैवेति भावः । परसाध्यैः सविशेषत्वमाह – स्वेति । ते स्वरूपमित्यत्राह – ते चेति । परं प्रति स्वरूपं साध्यं चेत् सिद्धसाध्यता । अतो विगीतमविगीतं च नैकमित्यर्थः । उपपादयति- वस्त्विति । बौद्धैः क्षणिकत्वमुक्तम् अनेन तु नित्यत्वम् ; वैशेषिकादिभिश्च जडत्व- बहुत्वे, अनेन तु स्वप्रकाशत्वैकत्वे ; स्वरूपं तु सर्वैरभ्युपेतम् ; अतो विप्रतिपत्तिविषयः संप्रतिपत्तिविषयश्चैक एवेति वक्तुमयुक्तमित्यर्थः । विमतिफलभूतादुपपादनाच्चातिरेक- माह – स्वाभिमतेति । साधकैश्च सविशेषत्वं फलितम् । स्वाभिमतशब्दः साधनविशेष - णम्। न च सिद्धं साध्यं चैकमित्यर्थः । साध्यसाधनधर्मा मिथ्येत्यत्राह - अत इति ; उक्तैर्हेतुभिः । साध्याद्यप्रामाणिकत्वे प्रमाणोपन्यासवैयर्थ्यं विपरीताकारप्रसङ्गश्चेति प्रामा- णिकपदस्याभिप्रायः ।


११ – १ – १) तत्वटीका ६५१ ; अतो लोकतः स्वमत्या संक्षिप्तं परनिरसनं प्रपञ्चयितुमुपक्रमते – तथाहीति । तत्र प्राप्यस्य निर्विशेषत्वं - मानशून्यतया क्षिपति – निर्विशेष इति । निर्विशेषे वस्तुनीति विशेषणात् स्ववचन- विरोधोऽप्यत्र सूच्यते । तस्मिन्मानमस्तीति सामान्योक्तिरयुक्ता । चा सिद्धस्य विशेषतो वक्तव्यत्वाय इदंशब्दः । परैरुच्यमाने वक्तुं शक्यत्वं कथं क्षेप्यम् ? विशेषे च निर्विशेष एव त्वयापि मानं वाच्यमित्यत्राह - सविशेषेति । कस्याप्यत्र प्रमाणीकर्तुं शक्यत्वं निषिध्यते ; न तु तद्वचनमात्रम् । विशेषप्रमाणमपि न निर्विशेषविष- यम्, तत्तदाश्रयादिभिर्विशेषशब्दवाच्यत्वादिभिश्च तद्वैशिष्ट्यात् । अस्ति हि कचिदाश्रितैः क्वचिदाश्रयादिभिश्च भिन्नधीः । गुणादिरूपे च विशेषे स्वपरनिर्वाहकत्वं वक्ष्यत इति नानवस्था । खतः सिद्धे माननैरपेक्ष्यवादमनूद्य क्षिपति – यस्त्विति । स्वानुभवसिद्धम् ; स्वप्रकाशप्रत्यक्षसिद्धमित्यर्थः । स्वगोष्ठीनिष्ठः ; लौकिकपरीक्षकसंनिधौ दुर्वच इत्यर्थः । समयः ; परिभाषाप्राय इति भावः । सर्वहृदयाविसंवादाद्भाधानर्हत्वाभिप्रायेणात्मसाक्षि- त्वोक्तिः । उक्तं व्यनक्ति – इदमिति । अत्र पदत्रयेण विषयाश्रयस्वगतविशेषप्रदर्शनम् । केनचिदिति तदवान्तरविशेषप्रदर्शनार्थम् । विशिष्टविषयत्वात् विशिष्टस्वरूपप्रकाश- रूपत्वात् । यद्वा अनुभवपरामर्शरूपाणां ज्ञानानां विशिष्टपूर्वानुभवगोचरत्वादित्यर्थः तथा च ’ अदर्शम् ’ इत्यपि स्वरसम् । सर्वशब्दः पुरुषान् अनुभवान्वा ब्रूते । सर्वदृष्टेऽपि युक्तिबाधं क्षिपति - सविशेष इति । अनुभूयमान इति ; अत्रापि प्रकाशमान इति वा परामृश्यमान इति वार्थः । केनचित् ; धीत्वादिना व्यतिरेकिणा । युक्तिशब्द इहानु- मानार्थः । निश्चितदोषप्रत्यक्षसिद्धज्वालैक्यबाधकाद् व्यावृत्त्यर्थं स्वनिष्कर्षेणाभासतोक्ता । निष्कृष्यमाण इत्यन्तोऽनुवादः । तदैव सविशेषत्वधीसूचनाय वर्तमाननिर्देशः । यदि पक्षस्वरूपमेव हेतुः, तदा दृष्टौ साध्यसंदेहः साधनाकाङ्क्षा च न स्यात् । न च स्वयं स्वधर्मः ; नापीदं स्वपरनिर्वाहस्थानम् ; तस्मादन्यत्वाभिप्रायेण सत्तातिरेकित्वोक्तिः } स्वरूपातिरिक्तं सत्तामात्रं भासमानत्वादिकं वा व्यभिचारान्न हेतुरिति भावः । अत एव स्वासाधारणत्वमुक्तम् । तेन स्वरूपासिद्धिव्यधिकरणासिद्धिविरोधानैकान्त्यानां भ्रमहत्वस्य साध्यसंदेहार्हधर्मिस्वरूपैक्यस्य च निरासः । सत्तातिरेकित्वादेः पक्षे युक्त्या स्थापनाय पुनर्ब्रहणम् । निष्कर्षहेतुभूतैरिति हि तत्स्थापनम् । न हि धर्मस्वरूपासावारणं सत्तादि-

६५२ श्रीभाष्यम् ; (जिज्ञासाधिकरणम्) धर्ममात्रं वा सविशेषात् व्यावृत्तिं साधयेदिति भावः । साधनकाले हेतुस्तिष्ठति, साध्यकाले तु स्वयमपि गलतीति धर्मवादवादिना त्वया न वक्तुं युक्तम् । अनुभूतित्वनिवृत्तौ च कथ- मनुभूतिः स्यादित्यभिप्रायेण सविशेष एवावतिष्ठत इत्युक्तम् । अन्यथा स्वरूपासिद्धिः स्या- दित्यभिप्रायेणैवकारः । सर्वविशेषनिषेधको हेतुः स्वपरनिर्वाहकनीत्या कतकरजोवत्स्वात्म- नोऽपि निवर्तकः स्यादित्यत्राह - अत इति स्वस्मिन्निषिद्धे सविशेषत्वव्यापकाननुभूति- त्वनिवृत्त्ययोगात्साधकाभावेन साध्यासिद्धिप्रसङ्गादित्यर्थः । कैश्चित् ; हेतुतया प्रमितैस्त- त्समानयोगक्षेमैश्च । यद्येतद्धेतुराहित्यमेतद्धेतुमत्त्वेन साध्यते, तदा प्रतिज्ञाहेत्वोर्विरोधश्च स्यादिति भावः । अन्ये ; प्रमितिसिद्धस्वधर्मव्यतिरिक्ताः । न क्वचित् ; न हि स्वाभ स्वस्य निर्विशेषत्वं सिध्यति । एवं तत्परामर्शेऽनुमानादौ चेत्यर्थः । हेतुरूपस्वगतविशेषः स्थापितः ; अथ ‘इदमहम् ’ इत्युक्तविषयाश्रयाभ्यामपि वैशिष्ट्यं स्थापयति – धिय इति । हिः प्रसिद्धौ । धीत्वम् ; कस्यचित्प्रकाशात्मता ; स्वैः स्वस्येति विशेषतः स्वप्रकाशता । प्रकाशश्च कस्मैचित् " इति वक्ष्यति । पूर्वं त्वदुक्तो हेतुस्तत्साध्यं चेत्यर्थः । " निष्कृष्टा विषयधीरेव ब्रह्म इति वदन्तं प्रत्यत्र ज्ञातुरित्यादिकमुच्यते । स हि " स्वसंबन्धाद- र्थान्तरे " इत्यादिकमप्याह । स्वमते त्वहमर्थस्यात्मनः प्रसिद्धधीव्यतिरिक्ततया विषयाश्रया- वच्छिन्नप्रकाशत्वाभावेऽपि श्रुतिबलेन स्वप्रकाशत्वात्तद्गुणसारत्वाच्च ज्ञानत्वव्यपदेशः सूत्रितः । यथोपलम्भं वस्तुस्वभावः स्थाप्यः, अन्यथातिप्रसङ्गादित्यभिप्रायेण उपलब्धेरित्युक्तम् । विषयरहितोऽप्युपलम्भः कदाचिदस्ति; अतो न तद्भासनखभावतेत्यत्राह – स्वापेति । अनुभवः ; आत्मभावनम् । स्वावसरे; तदुपपादनोचिते अहमर्थात्मत्वस्थापनकाले । निपुणतरम् ; उपपन्नतरमित्यर्थः ; परोक्तयुक्त्यैव साधनात्तैरपि संमन्तव्यमिति भावः । निर्विशेषत्वसाधकैर्विषयाश्रयाभ्यां च सविशेषत्वमुक्तम् । अथ परोक्तैः साध्यैश्च तदाह- स्वाभ्युपगता इति । तेषु मानसिद्धांशस्य स्वमतेऽपि सिद्धिद्योतनार्थ एवकारः । ते धियोऽनतिरिक्ता इत्यत्राह- -त इति । संमतिविमतिभ्यां भेदमाह – वस्त्विति । 66


धीस्वरूपस्य सत्यत्वं बौद्धादेरपि संमतम् । अतो धीमान्रसाध्यत्वे दुस्त्यजा सिद्धसाध्यता ॥ ३६५ ॥ तद्धर्मसाधने तु स्यात् स्वसिद्धान्तविरुद्धता | स्वसाध्यानां मृषात्वोक्तिर्वृषलोद्वाहमन्त्रवत् ॥ ३६६ ॥


CC-0 No Rights Reserved. Digitized by eGangotri(१ – १ – १) मूलभावप्रकाशिका ६५३ विमतिमूलस्वेष्टसमर्थनेन च सिद्धात् साध्यानामन्यत्वमाह – स्वाभिमतेति । हेतुतया स्वाभिमतैर्धीधर्मभेदैरित्यर्थः । तेन धीस्वरूपात्साध्येभ्यश्च व्यावृत्तैः साधकैरपि सविशेषत्वसिद्धिः । तेषां हेतूनां साध्यानां च कल्पितत्वपक्षोऽपि स्वाभिमत शब्देन स्वमतोपपादनादित्यनेन च निरस्तः । यदि क्षणिकत्वादिकमिव नित्यत्वादिकमपि कल्पितं, कुतस्तदा ते क्वचित्पक्षपातः ? तादृशनित्यत्वादिसाधने च न कथं परः सिद्ध- साध्यतां ब्रूयात् ? रज्जुसर्पनयात्तद्विरुद्धं च सत्यं स्यात् । हेतूनां च तथात्वे बाप्पारोपि- तधूमवदसाधकत्वम् । यदि ब्रूयात् — आरोपितधूमादेरसाधकत्वं न कल्पितत्वात्, किंतु व्याप्तिशून्यत्वात् ; सत्यां तु तस्यामसत्यस्यापि साधकत्वं दृष्टमिति ; तदसत्, व्याप्तेरप्यत्र कल्पितत्वाङ्गीकारात् ; तादृशी च बाप्पधूमे सिद्धेति । यथा च माध्यमिकोक्तबाधक- प्रामाण्य मिथ्यात्वेन वाध्यस्य ब्रह्मणः सत्यत्वम् एवं विशेषबाधकप्रामाण्य मिथ्यात्वेऽपि तत्सत्यत्वं दुस्त्यजम् । अत्र सत्यमसत्यं वा साधनं दूषणं च वः । सत्यत्वे सद्वितीयत्वमसत्यत्वे त्वर्थता ॥ ३६७ ॥ पारिशेष्याद्विशेषसत्यत्वपक्षमभ्युपगमयति – अत इति । वस्तुमात्रकल्पितत्वयो- दुर्वचत्वादित्यर्थः । प्रामाणिक विशेषैः ; हेतुभिः साध्यैः सविशेषैर्विषयाश्रयैश्चेति यावत् । अन्यथा तुच्छत्वद्योतनार्थ एवकारः । सामान्यतो हि धीस्थेऽर्थे विशेषस्याग्रहे सति । स्यादध्यासस्त्वदिष्टे तु द्वयाभावाद्भवेन्न सः || ३६८ ॥ मूलभावप्रकाशिका । सविशेषानुभवमेव दर्शयति - इदमहमिति । सर्वेषामनुभवानामिति ; सर्वेषां ज्ञानविषयकानुभवानां कर्तृकर्मविशिष्टज्ञानविषयत्वादित्यर्थः । ननु च कर्मकर्तृत्वादिविशेषण- विशिष्टाया अनुभूतेः ’ अनुभूतिर्धर्मरहिता अनुभूतित्वात्’ इत्यादिहेतुभिर्निर्विशेषत्वं प्रसाध्यत इत्याशङ्कघ, अनुभूतित्वादिहेतुभिः सविशेषत्वमवर्जनीयमिति न कथंचिन्निर्विशेष- सिद्धिरित्याह— सविशेषोऽपीत्यादिना । ज्ञातुर्विषयप्रकाशनस्वभावतयोपलभ्यमानत्वेन हेतुना अहंज्ञानस्य विषयप्रकाशकत्वलक्षणं ज्ञानत्वमनन्याधीनप्रकाशत्वलक्षणं स्वप्रकाशत्वं च परेण साधनीयम्; कर्मकर्तृवैशिष्टयनिरा से पराभिमतयोस्तयोरप्यसिद्धिः स्यादित्याह –धियो हीति । ननु स्वापमदमूर्छासु ’ अयमहम्’ इति इदंत्वाहंत्वादिविशेषानुपलम्भात् तत्का-

६५४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) लीनानुभव एव निर्विशेषानुभवे प्रमाणमित्याशङ्कय निराकरोति — स्वापेति । स्वावसर इति ; अहमर्थात्मत्वसमर्थनावसर इत्यर्थः । स्वाभ्युपगमविरोधमाह – स्वाभ्युपगताश्चेति । नित्यत्वादय इति ; आदिपदेन सत्यत्वज्ञानात्वादयो विवक्षिताः । ननु परैरानन्दो विषया- नुभवो नित्यत्वं चेति सन्ति धर्माः, ते चापृथक्त्वेऽपि पृथगिवावभासन्त इत्युक्तत्वान्नित्य- त्वादिधर्माणां न ब्रह्मात्मत्वमित्याशङ्कयाह - न वस्तुमात्रमिति । विधाभेदेति ; नित्य- त्वादीनां वस्तुमात्रत्वे ’ इदं नित्यम्, अनित्यम्’ इत्यादिविवादा न स्युः । वस्तुस्वरूपस्य नित्यत्वादेरप्यसंभवादविवादत्वादिति भावः । स्वाभिमतेति ; ‘स्वतः सिद्धत्वादनुभूतेरनु- त्पन्नत्वम् ; अनुत्पन्नत्वादेव नानात्वाभावः’ इत्येवं साधयता त्वया साधनस्य साध्यस्य च धर्मस्य भेदोऽभ्युपगन्तव्यः, अभेदे साध्यसाधनभावासंभवादिति भावः । श्रीभाष्यम् शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम्, पदवाक्यरूपेण प्रवृत्तेः । प्रकृतिप्रत्यययोगेन हि पदत्वम् । प्रकृति- प्रत्यययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् । पदमेव– श्रार्थभेदनिबन्धनः । पदसंघातरूपस्य वाक्यस्यानेकपदार्थ संसर्गविशे- षाभिधायित्वेन निर्विशेषवस्तुप्रतिपादनासामर्थ्यान्न निर्विशेषवस्तुनि शब्दः प्रमाणम् । श्रुतप्रकाशिका इत्थं स्वानुभवप्रसङ्गात्तत्रापि सविशेषत्वमुपपादितम् । अथ प्रथमप्रतिज्ञातं सर्वप्र- माणानां सविशेषविषयत्वं वक्तुमारभते । तत्र परेण प्रत्यक्षाइलीयस्त्वेनोक्तत्वात् सविशे- बोधकत्वातिशयस्य स्वाभिमतत्वाच्च प्रथमं शब्दस्य सविशेषविषयत्वमाह – शब्दस्य त्विति । तुशब्दः परोक्तबलीयस्त्वसूचकः । विशेषेणेतिपदेन सविशेषवस्तुबोधकत्वातिशय उच्यते । यद्वा सर्वप्रमाणानां सविशेषगोचरत्वे प्रतिज्ञाते चिद्वस्तुन्यन्तरङ्गतया स्वप्रकाश- वृत्तिं निरूप्य तदनन्तरमात्मनि प्रत्यक्षादिभ्योऽन्तरङ्गत्वेनोभयवादिसंमतस्य शास्त्रस्य सवि- शेषविषयत्वमाह – शब्दस्य त्विति । सविशेषगोचरत्वे प्रमाणान्तरेभ्योऽतिशयो विशेषणे- त्युच्यते । तुशब्देन तदौपयिकं शब्दस्य सविशेषगोचरप्रत्यक्षादिपूर्वकत्वं विशेष उच्यते

({ – १ – १) भावप्रकाशिका ६५'१ प्रतिज्ञातस्य हेतुमाह – पदवाक्यरूपेणेति । ततः किं सविशेषविषयत्वस्येति शङ्कायां पदरूपेण प्रवृत्तिं विवृणोति — प्रकृतीति । ततः किमित्यत्राह - प्रकृतिप्रत्यययोरिति । पदस्यैवेति ; वाक्यं तावदास्ताम्, पदमेव सविशेषपरमिति भावः । वाक्यरूपेण प्रवृत्तिं विवृणोति — पदभेदश्चेति । पदभेदः ; पदानां परस्परभेदः । न केवलं प्रकृतिप्रत्ययभेद एवार्थभेदहेतुः, पदभेदोऽपीति चार्थः ; अन्यथा पदान्तरवैयर्थ्यादिति भावः । पदभेद- स्यार्थभेदनिबन्धनत्वेऽपि वाक्यैकत्वान्निर्विशेषत्वसिद्धिरिति शङ्कायां वाक्यस्य सविशेषविष- यत्वं वदन् निर्विशेषे प्रामाण्याभावमुपसंहरति– पदसंघातेति । तत्तत्पदाभिधेयानां संसर्ग- विशेष एव वाक्यप्रतिपाद्यः, न तु तत्तत्पदार्थप्रहाणेनार्थान्तरमित्यर्थः । ननु निर्विशेष- शब्देन निर्विशेषं वस्तु किं प्रतिपन्नम ? उताप्रतिपन्नम् ? उत सविशेषं वस्तु प्रतिपन्नम् ? आद्ये निर्विशेषवस्तुनः शब्देन प्रतिपादनान्निषेधोऽनुपपन्नः । द्वितीये तु निषेध्याप्रति- पत्तेर्निषेधोऽनुपपन्नः । तृतीये तु सविशेषनिरासः कृतः स्यात् – नैवम् ; भ्रान्तिप्रमिति- विभागात् निर्विशेषे वस्तुनि शब्दस्य प्रमाणभावो हि निषिध्यते, न तु भ्रमहेतुत्वम् । निर्विशेषशब्दजनिता मिथोऽन्वयानहर्थिगोचरा भ्रान्तिः प्रमितिजनकैः शब्दैर्बाध्यत इत्युक्तम् । अधिकरणतदसाधारणनिपेध्यप्रतिपक्षधर्मतो विशेषशब्दस्य संकोचानभ्युपगमे धिकरणाला - भान्निषेधकशब्दस्यानन्वय एव स्यात् ; न हि निर्विभक्तिकः पदान्तरानन्वितो निर्विशेषशब्दो- ऽर्थाभिधायी । अतः संकोचाभावे व्याघातः । यद्यपि कथंचिद्विभक्त्यर्थो न विवक्षितः, तथापि निर्विशेषपदस्य बहुव्रीहित्वादन्यपदार्थाभिधानमवर्जनीयम् । तत्पुरुषपद प्रयोगे चाधिकरणाभिधानमवर्जनीयम् । अतो यदि निर्विशेषशब्दः प्रमाणभूतवाक्यस्थस्तदा विषयविभागो द्रष्टव्यः सकलविशेषशून्यप्रतिपादनासामर्थ्यात् । नगरे को विशेषः ? ’ इत्युक्ते ’ न कश्चिदपि ’ इत्यादिषु विशेषनिषेधः संकुचितविषयो दृष्टः ; तथा शास्त्रे - प्वपि " अविशेषास्ततो हि ते " इति गन्धादिगुणान्वितानामपि पृथिव्यादीनां शान्तत्वघोर- त्वमूढत्वरूपकतिपयविशेषविरहविवक्षया अविशेषशब्दः प्रयुज्यते । , भावप्रकाशिका ; स्वप्रकाशवृत्तिं निरूप्येति पूर्वस्मिन् पक्षे स्वप्रकाशवृत्तिः प्रतिज्ञातसर्वप्रमाण- सविशेषविषयत्वाननुप्रविष्टा; द्वितीयपक्षे तु सापिं तत्र निवेशितेति विवेकः । अन्तरङ्गत्वे- नोभयवादिसमतस्येति ; पूर्वस्मिन् पक्षे परोक्तं बलीयस्त्वं न सिद्धान्तिसंमतम् । सिद्धा-

६५६ श्रीभाष्यम् ( जिज्ञासाधिकरणम्) न्तिसंमतः सविशेषवस्तुबोधकत्वातिशयो न परसंमतः । अस्मिन् पक्षे अन्तरङ्गत्वाकार उभयसंमत इति विवेकः । ननु निर्विशेषशब्देनेति ; ‘निर्विशेषं वस्तु नास्ति’ इत्यत्र निर्वि- शेषशब्देनेत्यर्थः । निषेधोऽनुपपन्न इति ; प्रतीतेः सर्वस्या अपि प्रमारूपत्वादित्यभि- मानः । भ्रान्तिप्रमितिविभागादिति ; प्रमितिविषयनिषेधे हि दोषः, न भ्रान्तिविषयनिषेध इति भावः । निर्विशेषशब्दजनितेति ; प्रमाणाभासप्रसक्ता भ्रान्तिः ’ निर्विशेषं नास्ति ’ इति प्रमाणेन बाध्यत इत्यर्थः । भ्रान्तित्वे हेतुमाह – मिथोऽन्वयानहर्थिगोचरेति ; पर- स्परानन्वितार्थान्वयविषयत्वमेव भ्रान्तित्वमिति भावः । केचित्तु – ननु निर्विशेषशब्देन निर्विशेषं वस्त्विति ग्रन्थमन्यथा व्याचक्षते - ’ न निर्विशेषवस्तुति शब्दः प्रमाणम्’ इति भाष्यवाक्यस्थनिर्विशेषशब्देनेत्यर्थ इति । अस्मिन् पक्षे निर्विशेषवस्तुनः शब्देन प्रतिपादने निषेधोऽनुपपन्न इति ग्रन्थः स्वरसः । तथा नैवं, भ्रान्तिप्रमितिविभागान्निर्विशेषवस्तुनि शब्दप्रमाणाभावो निषिध्यते इति च स्वरसः । अत्र पक्षे निर्विशेषशब्दजनिता मिथोऽन्वयानर्हार्थगोचरा भ्रान्तिः प्रमितिजनकैः शब्दैः इत्यस्यायमर्थः — निर्वि शेषशब्दजनिता परस्परान्वयायोग्यधर्मधर्मिविषयकनिर्विशेषशब्दत्वभ्रान्तिः ’ निर्विशेषं न शाब्दम्’ इति शब्दप्रमाणकत्वाभावप्रमितिजनकैः शब्दैर्बाध्यते, भ्रान्तित्वेन ज्ञाप्यते भ्रमत्वबुद्धिर्हि बाध इति । अधिकरण तदसाधारणेति ; अधिकरणत्वतः अधिकरणासा- धारणनिषेध्यप्रतिपक्षधर्मतश्चेत्यर्थः । विशेषाभावाधिकरणस्य निर्विशेषशव्दार्थस्य ब्रह्मण: परेणाप्यङ्गीकृतत्वादधिकरणशब्दो भावप्रधान एव । तदसाधारणभूतो निषेध्यप्रतिपक्ष- धर्मः । अधिकरणालाभान्निषेधकशब्दस्यानन्वय एव स्यादिति ; विशेषाभावाधिकर- णत्वरूपनिर्विशेषशब्दप्रवृत्तिनिमित्ताभावे निर्विशेषशब्दस्यानर्थकत्वमेव स्यादित्यर्थः । दूषणा- न्तरमाह – न ; 66 ; न हि निर्विभक्तिक इति । ततश्च विभक्त्यर्थसंख्यान्वयोऽपि स्यादिति - भावः । पदान्तरानन्वित इति ततश्च ’ निर्विशेषं वस्त्वस्ति’ इत्युक्ते वस्तुत्वा- स्तित्वान्वयावश्यंभाव इति भावः । अन्यपदार्थाभिधानमिति ; अनेकमन्यपदार्थे " इत्यनुशासनादन्यत्वरूपार्थाभिधानमवर्जनीयमिति भावः । इदमुपलक्षणम् । मत्वर्थे बहु- व्रीहेरनुशिष्टत्वान्मत्वर्थात्मकसंबन्धरूपविशेषाभिधानमवर्जनीयमित्यपि द्रष्टव्यम् । तत्पुरु- षपदप्रयोगे चेति ; ‘निर्गतो विशेषात् ’ इत्येवं " निरादयः क्रान्ताद्यर्थे पञ्चम्या इति समासेन निर्गमनक्रियाश्रयत्वस्य प्रतीत्यवश्यंभावादिति भावः ।

(१ – १ – १ ) तत्त्वटीका श्रुतप्रदीपिका ६५७ प्रसक्तानुप्रसक्त्या स्वानुभवस्य सविशेषसाधकत्वमुक्तम् । अथ प्राक् सामान्येन प्रतिज्ञातं सर्वमानसविशेषविषयत्वं तत्तद्विशेषप्रदर्शनेन विवृण्वन् परपक्षे प्रत्यक्षात् ब स्वपक्षे सुतरां सविशेषपरं च शब्दं निरूपयति-शदस्य त्विति । पदरूपेण प्रवृत्तिं विवृणोति — प्रकृतीति । ततः किमित्यत्राह – प्रकृतिप्रत्यययोरिति । पदस्यैवेति ; वाक्यं तावदास्ताम्, पदमेव सविशेषपरमिति भावः । वाक्यरूपेण प्रवृत्तिं विवृणोति – पदभेद । वाक्यार्थैक्यान्निर्विशेषसिद्धिशङ्कां परिहरन्निगमयति - पद संघातेति ; पदार्थसंसर्गविशेषो वाक्यार्थः । निर्विशेषशब्दात्प्रतीतिमात्रं, न तु प्रमितिः, विभक्तीतरप- दयोगावश्यंभावात् व्याहतेरित्यभिप्रायवान् प्रमाणशब्दः । इत्थं विभागाभावे पूर्वपक्षसिद्धा- न्तरूपेण न सकलशास्त्रप्रवृत्तिः । तस्मादयं भ्रान्तिप्रयुक्तश्चेत्संकोचः कार्यः, ‘नगरे को विशेष ?’ इति पृष्टे ’ न कश्चिद्विशेषः अविशेषास्ततो हि ते " इत्यादिवत् । "” तत्त्वटीका एवं स्वानुभवसिद्धिप्रसक्तानुप्रसक्तमुपसंहृत्य प्रागुक्तं सर्वप्रमाणानां सविशेषविषयत्वं विवृण्वन् प्रत्यक्षात् प्रबलतया पराभिमतं शब्दं तावद्विशिष्टपरमाह – शब्दस्येति । तुशब्दो विशिष्टविषयप्रत्यक्षाद्युपजीवित्वं परकल्पितशास्त्रप्राबल्यं वा द्योतयति । वाक्यात्मना सविशेषबोधनेन प्रत्यक्षात् समधिकत्वव्यञ्जनाय विशेषेणेत्युक्तम् । एवकारेण यत्किंचिन्नि- मित्ताभावे शब्दस्य प्रवृत्तिरेव न स्यादिति व्यज्यते । सत्यनित्यत्ववेद्यत्ववाच्यत्वादौ तु साश्रये । तत्तच्छब्दप्रवृत्तिः स्यात् स्वान्यनिर्वाहकत्वतः ॥ ३६९ ॥ निदानमाह — पदेति । 46


सुप्तिङन्तं पदम् " तत्र " अभिधानसामर्थ्यम् – कयाचिद् वृत्त्या बोधनार्हत्वमित्यर्थः । विशिष्टार्थत्वातिरेके पदेऽपि वाचकांशभेदमाह - प्रकृतीति । हिशब्दः “ विभक्त्तयन्ताः पदम् " इत्यादिशास्त्रान्तरप्रसिद्धि हेतुमवधारणं वा व्यनक्ति । ततः किमित्यत्राह – प्रकृतिप्रत्यययोरिति । यद्यपि स्वार्थे केचित्प्रत्यया विहिताः, तथापि प्रत्ययान्तरेण संख्यादिवैशिष्टयं प्रायशस्तत्रापि स्यादिति भावः । एवं गोलादिपदेष्वपि द्रष्टव्यम् । पदस्यैव ; वाक्यस्थस्य तदंशमात्रस्यापीत्यर्थः । अवर्जनीय- मित्यनेनाभिहितान्वयवादिभिरपि पदांश योरन्वितार्थत्वं स्वीकृतमिति सूच्यते । वाक्यस्यापि 83 CC-0 No Rights Reserved. Digitized by eGangotri६५८ श्रीभाष्यम् (जिज्ञासाधिकरणम्) सर्वविशिष्टपरत्वं वक्तुं तदुपयुक्तमाह – पदभेदेति । प्रमाणभूतैकवाक्यस्थविषयमिदम् । वीप्सादौ च तात्पर्यभेदादर्थभेदोऽस्त्येव । उक्तार्थेन वाक्ये फलितमाह – पदसंघातेति । अभिहितान्वयमतेन संसर्गोक्तिः । विशेषशब्दोऽपूर्वार्थि: । मतान्तरे तु संसर्गविशिष्टे तात्पर्यम् । यद्यपि " अर्थैकत्वादेकं वाक्यम् " इति न्यायादेक एव वाक्यार्थः, तथापि लिङ्गसंख्याकारकाद्यनेकांशगर्भोऽसौ ; न तु क्वचिदपि निर्धूतनिखिलांश किंचित् शब्द- बोध्यम् । अखण्डवाक्यार्थादिकॢप्तिस्तु निरक्षिप्यते । निर्विशेषशब्दोऽप्याप्तप्रयुक्तश्चेद्वि- शिष्टतया प्रमितमन्यपदार्थं विवक्षितविशेषरहितं लिङ्गसंख्यादियुक्तमेव ब्रूते । न चैकं पदं प्रमाणम् । अध्याहारादिना पदान्तरयोगे तु ’ नगरं निर्विशेषम् ’ " तन्मात्राण्यविशेषाणि " इतिवत्तात्पर्यवशेन संकुचितवृत्तिः स्यात् । भ्रान्तोक्तश्चन्न प्रमितिहेतुत्वम् । शब्दस्यातोऽनुमानत्वमप्रमाणत्वमेव वा । वदद्भिरपि दुर्वारं विशिष्टार्थावबोधनम् ॥ ३७० ॥ अविनाभावतोऽन्येन संबन्धेन विशिष्टधीः । शब्दात्स्यान्नानुमानत्वं ततोऽस्येत्यपि सुग्रहम् || ३७१ ॥ प्रत्यक्षवद्विशिष्टार्थे बुद्धेर्बाधाद्यभावतः । मानत्वादिह चार्वाक जल्पश्च वितथोद्यमः || ३७२ ॥ मनोजन्यतयात्रापि प्रत्यक्षत्वे विवक्षिते । न नः काचित् क्षतिस्तत्तु न प्रत्यक्षस्य लक्षणम् ॥ ३७३ ॥ एतत्सर्वं मत्वोक्तम् – न निर्विशेषवस्तुनि शब्दः प्रमाणमिति । मूलभावप्रकाशिका न निर्विशेषवस्तुनीति; अखण्डार्थस्य सत्यज्ञानादिवाक्यस्य निर्विशेषवस्तुनि श्रामाण्यमुत्तरत्र निषिध्यत इति भावः । श्रीभाष्यम् प्रत्यक्षस्य निर्विकल्पक सविकल्पकभेदभिन्नस्य न निर्विशेष- वस्तुनि प्रमाणभाव: । सविकल्पकं जात्याद्यनेकपदार्थविशिष्टविषयत्वा- देव सविशेषविषयम् । निर्विकल्पकमपि सविशेषविषयमेव, सविकल्पके

(१ – १ – १) श्रुतप्रकाशिका ६५९ स्वस्मिन्ननुभूतपदार्थविशिष्टप्रतिसंधानहेतुत्वात् । निर्विकल्पकं नाम केनचिद्विशेषेण वियुक्तस्य ग्रहणं, न सर्वविशेषरहितस्य ; तथाभूतस्य कदाचिदपि ग्रहणादर्शनात्, अनुपपत्तेश्च । केनचिद्विशेषेण ‘इद- मित्थम् ’ इति हि सर्वा प्रतीतिरुपजायते ; त्रिकोणसास्नादिसंस्थानवि- [; शेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात् । अतो निर्विकल्प- कमेकजातीयद्रव्येषु प्रथमपिण्डग्रहणम् । द्वितीयादिपिण्डग्रहणं सवि- कल्पकमित्युच्यते । तत्र प्रथमपिण्डग्रहे गोत्वादेरनुवृत्ताकारता न प्रती- यते । द्वितीयादिपिण्डग्रहणेष्वेवानुवृत्तिप्रतीतिः । प्रथमप्रतीत्यनुसंहित- वस्तुसंस्थानरूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसे- यमिति द्वितीयादिग्रहणस्य सविकल्पकत्वम् । सास्नादिवस्तु संस्थान रूप- गोत्वादेरनुवृत्तिर्न प्रथमपिण्डग्रहणे गृह्यत इति प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम् ; न पुनः संस्थानरूपजात्यादेरग्रहणात् । संस्थानरू- पजात्यादेरप्यैन्द्रियकत्वाविशेषात् संस्थानेन विना संस्थानिनः प्रतीत्य- नुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि ससंस्थानमेव वस्तु ’ इत्थम्’ इति गृह्यते । अतो द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत् संस्थानवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव । अतः प्रत्यक्षस्य कदाचिदपि न निर्विशेषविषयत्वम् । श्रुतप्रकाशिका एवं ज्ञानस्वरूप आत्मन्यन्तरङ्गतया स्वानुभवशब्दौ निरूपितौ । अथ व्यतिरिक्तप्र- माणेषु मूलभूतस्य प्रत्यक्षस्य सविशेषविषयत्वमुपपादयति– प्रत्यक्षस्येत्यादिना । निर्वि- कल्पकानुभूतार्थस्य सविकल्पके प्रतिसंधानस्य वक्ष्यमाणत्वात्तदुपयोगित्वेन च सविकल्पक- स्वरूपं प्रदर्शितम् । अथ निर्विकल्पकस्य सविशेषविषयत्वं प्रतिजानीते - निर्विकल्पक- मपीति । एकजातीयपिण्डेषु द्वितीयादिपिण्डग्रहणस्य सविकल्पकत्वं प्रथमपिण्डग्रहणस्य

६६० श्रीभाष्यम् ; (जिज्ञासाधिकरणम्)


निर्विकल्पकत्वं च हृदि निधाय हेतुमाह – सविकल्पक इति । विशिष्टप्रतिसंधानमिति षष्ठी - समासः, कर्मधारयो वा । स्वस्मिन् ; निर्विकल्पके, अनुभूतजात्यादिपदार्थविशिष्टवस्तुविष- यस्य प्रतिसंधानख्य सविकल्प के हेतुत्वादित्यर्थः । प्रथमपिण्डस्य विशिष्टतयावगतत्वमर्थल- व्धम्, प्रथमपिण्डे जातिविशिष्टतया प्रतीते हि द्वितीयादिषु जात्यनुवृत्तिबुद्धिलक्षणं प्रति- संघानं घटते । कथं प्रतिसंधानम् ? सकलविशेषशून्यविषयं हि निर्विकल्पकमिति हेत्वसि - द्धिमाशङ्कयाह – निर्विकल्पकं नामेति । सकलविशेषवैधुर्याभावमुपपादयति - तथाभूत- स्येति । सकलविशेषशून्यग्रहणं किं दर्शनादभ्युपगम्यते, किंवा अनुपपत्त्या कल्प्यत इति विकल्पे न तावद्दर्शनमित्याह - कदाचिदपीति । कल्पनं व्युदस्यति — अनुप - पत्तेरिति । निर्विशेषज्ञानवाधिकैवानुपपत्तिर्दृश्यते ; तत्कल्पिका तु दूरतो निरस्तेति भावः । अदर्शनं विवृणोति – केनचिदिति प्रकारविशेषनियमो नेति भावः । उत्तरत्र ‘ग्रहणायोगात्’ इति पञ्चम्या हेतुत्वं स्फुटम् । अत्र पञ्चमीस्थाने हिशब्दः । ’ इद- मित्थम्’ इति प्रतीतिमेव विवृण्वन्नर्थात् सकलविशेषशून्य ग्रहण कल्पनामपि व्युदस्यति — त्रिकोणेति । अनुपपत्तिं विवृणोति – ग्रहणायोगादिति । अध्याहृतशङ्कावाक्येन ग्रह- णायोगादिति पञ्चम्या अन्वयः । त्रिकोणम् ; गोमुखम् । ग्रहणायोगात् ; दृष्टव्याप्तिवि- रोधेन सकलविशेषशून्यग्रहण कल्पनस्यानुपपन्नत्वादित्यर्थः । अनुपपत्तेरित्यनेन विपक्षे बाधकस्तर्कोऽप्यभिप्रेतः सविशेषविषयत्वाभावे प्रत्ययत्वमेव हीयेतेति । अस्य तर्कस्यानु- ग्राह्यं प्रमाणं प्रत्यक्षं योग्यानुपलम्भश्च । यद्वा अनुपपत्तेरित्यनेन सविशेषविष- यत् साधकप्रमाणं विवक्षितम् –’ प्रथमाक्षसंनिपातजं ज्ञानं सविशेषविषयं, ज्ञानत्वात् प्रतिपन्नवत्’ इति । एवं साधकप्रमाणाभावबाधकप्रमाणसद्भावाभ्यां विवक्षितक- तिपयविशेषशून्यग्रहणं निर्विकल्पकमिति सिद्धम् । अनेन निर्विकल्पकशब्दस्य “संकुचितवृत्तित्वं फलितम् ; स च संकोचः कस्मिन्विषय इत्यत्राह – अत इति । अतः उक्तादर्शनानुपपत्तिभ्यामित्यर्थः । प्रथमद्वितीयपिण्डयोर्निर्विकल्पक सविकल्प- कशब्दौ न संकेतितौ; अतस्तयोः पिण्डयोर्वैषम्यं वक्तव्यमिति शङ्कायां ग्राह्या- कारभेदं दर्शयति– तत्रेत्यादिना वाक्यद्वयेन । गोत्वानुवृत्तिप्रतीत्यप्रतीत्योः सविकल्पक- निर्विकल्पक शब्दयोः प्रवृत्तिनिमित्ततां दर्शयति– प्रथमप्रतीतीत्यादिना वाक्यद्वयेन । पूर्वग्रन्थोक्तं गोत्वं संस्थानशब्देन विशेषितम् । तेन पराभिमतविलीनाज्यगतघृतत्वादेखि

( १ – १ – १ ) श्रुतप्रकाशिका ६६१ प्रत्यक्षत्वे व्यञ्जकापेक्षया विलम्बो नास्तीति दर्शितम् । तदेव संस्थानमनन्तरग्रन्थे सास्ना- दिशब्देन निर्दिश्यते । एवमनुवृत्तिग्रहाग्रहाभ्यां सविकल्पकत्वं निर्विकल्पकत्वं चोक्तम् । नानुवृत्तिमात्राग्रहणान्निर्विकल्पकत्वं, किंतु जात्यग्रहणाच्च ; अनुवृत्त्यग्रहणे हि जातिरेवा- गृहीता स्यादिति शङ्कायामाह - - न पुनः संस्थानेति । अत्राग्रहणानुपपत्तिद्योतकः संस्थान रूपशब्दः । गोत्वादेरसाधारणधर्म भूतानुवृत्त्यग्रहणात् गोत्वादिर्न गृहीत इति शङ्कायामग्रहणानुपपत्तिमेव विवृणोति – संस्थानरूपजात्यादेरपीति । ग्रहणकारण- भूतेन्द्रिययोग्यतायामपि स एव हेतुरिति द्योतनाय पुनः संस्थानशब्दोक्तिः । निर्विकल्प- कस्य सविशेषविषयत्वे प्रमाणत्वेन सविकल्पके निर्विकल्पकानुभूतार्थविशिष्टप्रत्यभिज्ञानं पूर्व- मुक्तम् । पराभिमतनिर्विकल्पकाभावे योग्यानुपलम्भः प्रत्यक्षं च प्रमाणम् । तयोरनु- ग्राहकस्तर्कश्यानेनोक्तो भवति । किं प्रमाणानुपपत्त्या प्रमेयानुपपत्त्या वा वस्तुमात्रग्रहणा- भ्युपगम इति विकल्पमभिप्रेत्य प्रमाणानुपपत्तिं प्रथमं व्युदस्यति – ऐन्द्रियकत्वाविशे- पादिति । अनेन पृथिव्यपृथक्सिद्धगन्धादिव्यावृत्तिः । कथमैन्द्रियकत्वम् ? समवायस्या- नैन्द्रियकत्वात्तदयुक्तमिति चेत्, तर्हि सविकल्पकेऽपि विशिष्टग्रहणमनुपपन्नम् । अतो न भिन्नेन्द्रियग्राह्यत्वमिति न प्रमाणानुपपत्तिः । असंनिहितत्वं प्रमेयानुपपत्तिः ; अपृथक्सि- द्वत्वेन तन्नास्तीति परिहरति — संस्थानेनेति । अनेन चाक्षुषत्वेऽपि पृथक्सिद्धदण्डादि- व्यावृत्तिः । एकेन्द्रियग्राह्यत्वे सत्यपृथक्सिद्धत्वात् प्रमाणप्रमेयानुपपत्तिर्नास्तीति ससंस्थान- मेव वस्तु गृहीतमित्यर्थः । एवं पूर्वं संस्थानरूपशब्देनाभिप्रेतोऽर्थो विवृतो भवति । इत्थमिति ; अनुवृत्त्यग्रहणान्न संस्थानरूप जात्यग्रहः शङ्कनीयः, प्रकारप्रकारिभावेन ग्रहणो- पपत्तेरिति भावः । प्रथमपिण्डग्रहणेऽनुवृत्त्यग्रहणात् गोत्वं न गृहीतं चेत् द्वितीये पिण्डेऽपि गोत्वं दुर्ग्रहम्, अनुवृत्त्यग्रहणात् । अनेकव्यत्त्यन्वयरूपा ह्यनुवृत्तिः । सा चान्वयिनः पदार्थस्य पूर्वव्यक्तिनिष्ठतापरामर्शेनैव द्वितीयादिषु गृह्यते । अतः प्रथमपिण्डे गोत्वाग्रहात्तदन्वयापरामर्शेन द्वितीयव्यत्त्यन्वयरूपानुवृत्तिर्द्वितीयेऽपि दुर्ग्रहेति तत्रापि गोत्वमगृहीतम् । एवं प्रथमद्वितीयव्यत्तयन्वयापरामर्शाच्च तृतीयेऽप्यनुवृत्तिरगृहीतेति गोत्वमगृहीतम् । एवं व्यक्त्यन्तरेष्वपि गोत्वं दुग्रह स्यात् । अतः प्रथमपिण्डग्रहण एव गोत्वग्रहणमभ्युपेत्यम् । एवं सकलविशेषशून्यवस्तुग्रहणं व्युदस्तम् । जात्यादयो विशेष्यं च पृथक् पृथक् निर्विकल्पके गृहीतम् ; सविकल्पक एव विशिष्टतया ग्रहणमिति पक्षश्चार्थान्नि-


६६२ श्रीभाष्यम् (जिज्ञासाधिकरणम् ) रस्तो भवति । विशेषणं विशेष्यं च पृथक् पृथक् गृहीतमिति कथमवगतम् ? दण्डकुण्डला- दिषु विशेषणविशेष्ययोः पृथक् पृथक् ग्रहणपूर्वकत्वदर्शनादिति चेत्, तत्र क्रिमपृथक्स्थि- तिवेलायां पृथक् ग्रह : ? उत पृथक् स्थितिवेलायाम् ? न प्रथमः ; विशिष्टत्वेनैव ग्रहणात् । पृथक् स्थितिवेलायां तु विशिष्टग्रहणमेव नास्तीति न तत्प्रति हेतुत्वम् । अतः पृथक् ग्रहणस्य विशिष्टग्रहणहेतुत्वाभावान्न गोत्वादौ पृथक् ग्रहणप्रसङ्गः । ननु विशेषणविशेष्य- भावस्य सप्रतियोगिकत्वात् तज्ज्ञानस्य प्रतियोगिस्वरूपज्ञानमपेक्षितमिति विशिष्टप्रतिपत्ते- जौत्यादिपदार्थस्वरूपमात्रग्रहणपूर्वकत्वं स्वीकार्यम् ; उच्यते - प्रतियोगिज्ञानापेक्षा नाम किं विशिष्टज्ञाने प्रतियोग्यवभासनियमः ? उत तत्तज्ज्ञानस्य विशिष्ट ज्ञानहेतुत्वम् ? प्रथम- मभ्युपगच्छामः । द्वितीये च जात्यादयः पदार्थाः प्रथमं मिथो व्यावृत्ततया गृहीताः, न वा ? न चेत्, अव्यावृत्ततया गृहीतानां पूर्वोत्तरज्वालानामिव विशेषणविशेष्यभावे प्रति- योगिताप्रतीतिर्नोपपद्येत । यदि व्यावृत्ततया गृहीताः, तदा व्यावृत्तिश्च विशेषणविशेष्य- भावेन पारतन्त्र्यादिलक्षणेन तदौपयिकाकारान्तरेण वा यदि न स्यात् विशेषणविशेष्य- भावव्यत्यासप्रतीतिः प्रसज्येत । वस्तुसामर्थ्याद्वास्तव एव विशेषणविशेष्यभावः प्रतीयत इति चेत्, तर्हि वस्तुसामर्थ्यं नाप विशेषणविशेष्यभावरूपं तदौपयिकाकारान्तररूपं वा स्यात् । वस्तुस्वभावस्य सत्तयोपकारकत्वे वस्तुस्वभावादेव विशिष्टप्रतीतिसंभवात् स्वरूपमात्रग्रहणकल्पनमयुक्तम् । ज्ञाततयोपकारकत्वे तेन स्वभावेन व्यावृत्ततया विशेषणस्य प्रागवगतिरस्तीति प्रथमत एव विशिष्टप्रतीतिरभ्युपगता स्यात् । ततो वरं द्रव्यस्यैव प्रथमं विशिष्टतया प्रतीत्यभ्युपगमः । तस्यापि स्वभावस्य स्वविशेष्यभूतं विशेषणं प्रति विशेष- णत्वं न प्रथममवगतं, किंतु स्वरूपमात्रमिति चेत् — तर्हि विशेषणतत्स्वभावयोर्विशेषण- विशेष्यभावव्यत्यासः प्रतीयेत । तत्परिहाराय तस्य वस्तुस्वभावस्याकारान्तराभ्युपगमेऽन- वस्या | यदि व्यत्यास विशिष्टप्रतीतिप्राथम्यप्रसङ्गपरिहाराय जात्यादीनां स्वरूपमेव विशेषण- भावो विशेष्यभावश्च न त्वाकारान्तरमित्यभ्युपगम्येत, तदा प्रथमप्रतिपत्तिर्विशेषणतया विशेष्यतया च स्यात् ; तदप्रतिपत्तौ स्वरूपस्यागृहीतत्वप्रसङ्गात् । तथैव प्रतीतौ प्रथमत एव विशिष्टप्रतीतिः स्यात् ; एकस्यां प्रतीतौ विशेषणतयां विशेष्यतया च जात्यादीनां प्रतिपन्नत्वात् । अतः प्रथमत एव परस्परप्रतियोगि कविशेषणविशेष्यभावप्रतिपत्तिः संभव- तीत्यभ्युपगन्तव्यम् । एवं सति विशिष्टग्रहणस्य पृथग्ग्रहणपूर्वकत्वे भिन्नसामग्रीवेद्यवस्तु- CC-0 No Rights Reserved. Digitized by eGangotri(९ – १ – १) भावप्रकाशिका ६६३ गोचरत्वमुपाधिः स्यात् । पक्षव्यतिरिक्तव्यवच्छेद्याभावेऽप्युक्ततर्क बलात् पक्षव्यवच्छेद्यत्व- सिद्धेरुपाधित्वं युक्तम् ; यथा प्रध्वंसाभावस्यादिमत्त्वादन्तवत्त्वे भावरूपादिमत्त्वमुपाधिर्भ- वति, भावोन्मज्जनप्रसङ्गरूपतर्कवलात् ; यथा चाग्निमत्त्वाद्धूमानुमाने आर्द्रेन्धनवत्त्वमुपाधिः सर्वत्राग्निमति धूमोपलम्भप्रसङ्गतर्कबलाद्भवति तद्वत् । अतः प्रथमपिण्डग्रहण एव गोवं गृह्यते ; द्वितीयादिष्वनुवृत्तिग्रहणमित्यभ्युपेत्यम् । अतो यथोक्तस्वरूपे एव निर्विकल्पक- सविकल्पके । अनुवृत्तिग्रहाग्रहौ हि सविकल्पकनिर्विकल्पकयोः प्रयोजकौ कथितौ, तत्कथं द्वितीयादिग्रहणस्य सविकल्पकत्वमित्यत्राह – अत इति । अतः ; प्रथम ग्रहण एव ससंस्थानवस्तुग्रहणात् । अनुवृत्तिग्रहणविधुरप्रथमेतरग्रहणेषु कथं सविकल्पकत्वभि- त्यत्राह — द्वितीयादीति । द्वितीयादिपिण्डग्रहणेषु ; द्वितीयादित्वेन पिण्डग्रहणेषु । अनेन संस्कारसचिवग्रहणं सविकल्पकम् ; इतरन्निर्विकल्पकमिति सिद्धम् । एतेन न केवलं जात्यनुवृत्त्यैव सविकल्पकत्वम् जातिगुणादिष्वन्यतमानुवृत्तिविशिष्टग्रहणमपि सवि- कल्पकमिति सिद्धम् । सर्वविधानुवृत्तिविकलग्रहणमेव निर्विकल्पकम् ; यथा एकव्यक्तौ प्रथमाक्षसंनिपातजं ज्ञानम् । नन्वेकव्यक्तावपि संस्कारजन्यं देशकालाद्यनुवृत्तिविशिष्टग्रहणं सविकल्पकं स्यात् ; स्यादेव ; संस्कारजन्यत्वानुवृत्तिगोचरत्वाविशेषात् । एकजातीयद्रव्येषु प्रथमपिण्डग्रहणमित्युक्तिस्तु जात्यननुवृत्तिप्रदर्शनार्था । संस्थानिवत् संस्थानवदिति ; दृष्टान्तद्वयप्रदर्शनं स्पष्टीकरणार्थम् । पिण्डधर्मः संस्थानं, तद्धर्मोऽनुवृत्तिरिति धर्मधर्मिभाव- रूपसाम्यनिबन्धनं च दृष्टान्तद्वयोपादानम् । एवं सविकल्पकनिर्विकल्पकयोः संस्कारसचि- यत्वतद्विरहौ सामग्रीवैषम्य, गोत्वाद्यनुवृत्तितद्विरहौ ग्राद्याकारवैषम्यमित्युक्तं भवति । द्विविध- स्यापि प्रत्यक्षस्य सविशेषेण विषयत्वं निगमयति – अत इति । भावप्रकाशिका निर्विकल्पकानुभूतार्थस्येति ; सविकल्पकानुभूयमानत्वप्रतिसंधान हेतुत्वस्य निर्वि- कल्पके निरूपणीयतया तस्य सविकल्पक ज्ञानसाध्यत्वात् सविकल्पकं प्रथमं निरूपितमिति भावः । पश्चादुद्दिष्टस्य बुद्धिस्थत्वं चकारात् समुच्चीयत इत्यपि द्रष्टव्यम् । सविकल्पक स्वरूपं प्रदर्शितमिति ; पश्चादुद्दिष्टमपि प्रागिति शेषः । कल्पनामपि व्युदस्यति - त्रिकोणेति इति ग्रन्थानन्तरं ’ यद्वा अनुपपत्तिं व्युदस्यति - त्रिकोणेति’ इति पाठः सुगमः । अध्या- हृतशङ्कावाक्येन ग्रहणायोगादिति पञ्चम्या अन्वय इति ; सर्वविशेषवियुक्तस्य ग्रहणं

६६४ श्रीभाष्यम् (जिज्ञासाधिकरणम्) कल्प्यमिति शङ्कावाक्यप्राप्तप्रतिक्षेपकत्वेनेत्यर्थः । कस्यचिदपि पदार्थस्य ग्रहणायोगान सर्वविशेषवियुक्तस्य ग्रहणं कल्प्यमित्यध्याहृतकल्प्यपदेनान्वय इति भावः । तमेवान्वयं दर्शयति-दृष्टव्याप्तीत्यादिना । प्रथमद्वितीयपिण्डयोरिति ; प्रथमद्वितीयपिण्डग्रहणमित्यर्थः । गोवानुवृत्तिप्रतीत्यप्रतीत्योरिति ; गोत्वानुवृत्तिविषयकत्वतदभावयोरित्यर्थः । पृथिव्य पृथ- क्सिद्धगन्धादिव्यावृत्तिरिति ; चक्षुषा पृथिवीग्रहणेऽपि न गन्धग्रहणं, गन्धस्य चक्षुरयोग्य- त्वात् ; इह तु न तथेति भावः । अपृथक्सिद्धत्वेन तन्नास्तीति परिहरतीति; ‘संस्थानेन विना संस्थानिनः प्रतीत्यभावात्* ’ इत्यस्य भाष्यस्य संस्थानेन विना संस्थानिनोऽभावादित्ये वार्थः । प्रतीत्यभावकथनं तदुपपादनायेति भाव: । संस्थानरूप देनाभिप्रेतोऽर्थ इति ; अपृथक्सिद्धत्वमेव संस्थानशब्देनाभिप्रेतमिति भावः । यद्वा ’ इत्थम् ’ इत्यनेन विवृतो भव- तीति योजना | प्रकारप्रकारिभावेन ग्रहणोपपत्तेरिति ; जातिव्यक्तिमात्र योरिति शेषः । जात्यादयो विशेष्यं चेति ; अत्र विशेषणमात्रमेव गृह्यते, न विशेष्यमिति कश्चित्पक्षः । विशेषणवद्विशेष्यं च गृह्यत एव ; वैशिष्ट्यमात्रं न गृह्यत इत्यपरः । ननु विशेषणवि- शेष्यभावस्य सप्रतियोगिकत्वादिति ; दण्डविशिष्टज्ञाने दण्डे पुरुषप्रतियोगिकविशेष- णत्वं भासते; पुरुषे च दण्डप्रतियोगिकविशेष्यत्वम् । ततश्च विशिष्टज्ञानविषयीभूतस्य विशे- षणविशेष्यभावस्य संप्रतियोगिकत्वात् तज्ज्ञानं पूर्वमपेक्षितमिति भावः । न च निर्विकल्प- कवादिना विशेषणज्ञानस्यैव हेतुत्वमभिप्रेतं, न विशेष्यज्ञानस्येति वाच्यम्; अस्य मतान्त- रत्वेनादोषात् । तस्यापि स्वभावस्य स्वविशेष्यभूतमिति ; जात्यादेर्विशेषणत्वस्वभावल- क्षणविशेषणत्ववैशिष्ट्यं न प्रथमतोऽवगतम्, येन प्रथमतो विशिष्टप्रतीत्यभ्युपगमः स्यादिति भावः । विशेषणत्वं न प्रथममिति ; विशेषणत्ववैशिष्ट्यमित्यर्थः । किंतु स्वरूपमात्र - मिति चेदिति ; परस्पराविशिष्टानि व्यक्तिजातितद्विशेषणत्वानि प्रतिपन्नानीत्यर्थः । ताव- तापि विशेषणविशेष्यभावाव्यत्यास संभवादिति भावः । विशेषणतत्स्वभावयोरिति ; परस्परानन्विततया गृहीतयोर्विशेषणतत्स्वभावयोर्विशिष्टप्रतीतिदशायां व्यत्यासः प्रसज्येत । अतस्तस्यापि धर्मान्तरभानेऽनवस्थेति भावः । यदि व्यत्यास विशिष्टप्रतीतिप्राथम्यप्रस- ङ्गपरिहारतयेति ; जात्यादिस्वरूपस्यैव विशेषणत्वरूपतया वस्तुस्वभावादेव न व्यत्यास- प्रसक्तिः । धर्मान्तरस्याभावेन वैशिष्ट्याप्रसक्तेर्न विशिष्टप्रतीतिप्राथम्य प्रसङ्गः, नाप्यनवस्थेति

  • अनेन ‘प्रतीत्यभावात् ’ इति भावप्रकाश काकृतां पाठ इति गम्यते ।

(१ – १ – १) १ भावप्रकाशिका ६६५ भावः । विशेषणतया विशेष्यतया च स्यादिति ; न च विशेषणत्वस्य स्वरूपस्य प्राग्गृहीतत्वेऽपि विशेषणता वैशिष्ट्यस्यामानान्न विशेषणतया प्रतीतिप्रसङ्ग इति वाच्यम्, तद्वैशिष्टघस्यापि स्वरूपरूपतया तस्यापि भानावश्यंभावादित्यत्र तात्पर्यात् । भिन्नसामग्री- वेद्यवस्तु गोचरत्वमुपाधिः स्यादिति ; ननु निर्विकल्पकवादिमते विशिष्टज्ञाने विशेष- णज्ञानघटिता सामग्री ; विशेषणज्ञाने तु न तथेति भिन्नसामग्रीवेद्यत्वस्योपाधेः पक्षनि- ष्ठत्वात् कथमस्य साधनाव्यापकत्वमिति चेत् — न ; विशेषणज्ञानहेतुत्वस्य दूषितत्वादि- त्यभिमानात् । पक्षव्यवच्छेद्यत्वसिद्धेरिति ; पक्षव्यवच्छेद्यत्वस्य सिद्धिर्येन स पक्षव्यवच्छे- द्यत्वसिद्धिः ; पक्षमात्रव्यावर्तकस्येत्यर्थः । यद्वा पक्षे साध्यव्यवच्छेदस्य सिद्धेरित्यर्थः । बाधो- नीत पक्षेतरत्वस्यैवानुकूलतर्फे सत्युपाधित्वसंभवादिति भावः । तर्कबलादुपाधित्वस्वीकारे दृष्टा- न्तद्वयमाह —- यथा प्रध्वंसाभावेत्यादिना । अयं भावः - यथा साधनावच्छिन्नसाध्यव्यापके भावरूपत्ये सत्यादिमत्त्वरूपे आर्द्रेन्धनसंयोगरूपोपाधौ च भावत्वार्द्रत्वरूपविशेषणयोः साध्य- व्यापकत्वानुपयुक्तयोरप्यनुकूलतर्कवशादुपाधिकोटिप्रवेशः, एवं भिन्नसामग्रीवेद्यत्वमित्यत्र साध्यव्यापकत्वानुपयुक्तस्यापि भिन्नेत्यस्योपाधिविशेषणत्वं संभवतीत्यपि द्रष्टव्यम् । सर्व- त्राग्निमतीति ; आर्द्रेन्धनशून्यस्थलेऽपीत्यर्थः । ननु जन्यविशिष्टज्ञानत्वस्य बाधकं विना कार्यमात्रवृत्तिधर्मत्वेन कार्यतावच्छेदकत्वात् तदवच्छिन्नेऽनुगत कारणत्वस्य वक्तव्यत्वात् जन्यविशेषणज्ञानस्य हेतुत्वसिद्धौ जागराद्यविकल्प कज्ञानहेतुतया कारणभूत विशेषणज्ञानं सिध्यन्निर्विकल्पकमेव सिध्यतीति चेत्–न; विशिष्टज्ञानत्वं हि विशेषणविशेष्यसंबन्ध- विषयकज्ञानत्वम् ; तच्च विशेषणविशेष्यतत्संबन्धभानसामग्रयैवोपपन्नम् ; न तु कार्यताव- च्छेदकं, नीलघटत्ववदर्थवशसंपन्नत्वात् । ननु विशिष्टज्ञाने विशेषणज्ञानहेतुत्वमवश्याश्रय- णीयम् ; इतरथा जातिव्यक्तयोरिन्द्रियसंनिकर्षेऽविशिष्टेऽपि कदाचिज्जातिविशेषणिका व्यक्ति- विशेष्यका प्रतीतिर्जायते, कदाचिच्च तद्वैपरीत्येनेति सर्वसिद्धव्यवस्था भज्येत । विशेषण – ज्ञानकारणत्वेऽभ्युपगते तु यस्य प्रागवगतिस्तद्विशेषणकं विशिष्टज्ञानमुत्पद्यत इति व्यवस्था सुवचेति चेत्–न ; यत्रोभयविषयकं निर्विकल्पकं तत्र द्वयोरपि प्रागवगतत्वाविशेषाद्विशेष- णविशेष्यभावव्यवस्थापकस्य कस्याप्यभावादव्यवस्थाप्रसक्तिस्तदवस्थैव स्यात् । यदि च तत्रादृष्टं व्यवस्थापकं, तदेव सर्वत्र व्यवस्थापकमस्तु ; किं विशेषणज्ञानकारणत्वाभ्युपगमेन ? ननु गोत्वप्रत्यासत्तिजन्यं ज्ञानं गोत्वप्रकारकमेव, न व्यक्तिप्रकारकमिति सिद्धम् । तत्र यदि 84

६६६ 9 श्रीभाष्यम् (जिज्ञासाधिकरणम्) विशेषणज्ञानं विशिष्टज्ञाने कारणं न भवेत् तदा सामान्यप्रत्यासत्तिजन्यं ज्ञानं पूर्वानवगत- व्यक्तिविशेषणकमपि कदाचित् स्यात् पूर्वावगतमेव विशेषणमिति नियमाभावादिति चेत्- न; सामान्यप्रत्यासत्तिजन्यसकलव्यक्तिविषयक ज्ञानस्यैवाभावात् । तस्माद्विशिष्टज्ञानस्य विशेषणविशेष्यतद्वैशिष्ट्यभानसामग्रयैवोपपन्नत्वान्न विशेषणज्ञानत्वं कारणतावच्छेदकम् । यदि ह्यनुमित्यननुमितिरूपज्ञानद्वयवन्निर्विकल्पकस विकल्पकरूपज्ञानद्वयं प्रामाणिकं स्यात् तदा सामान्यसामग्रीत एव विशिष्टज्ञानोत्पत्तौ सर्वमपि ज्ञानं विशिष्टज्ञानं स्यादिति भयेन विशेषसामग्री कल्प्येत ; न च तदस्ति, निर्विकल्पकस्याद्याप्यसिद्धेः ; सर्वस्यापि ज्ञानस्य सविकल्पकत्वात् ; ’ इदमित्थम् ’ इति हि सर्वापि धीः; अन्यथा निष्प्रकार कधीवन्निर्वि- घयापि धीः स्यात् । इच्छा काचिन्निर्विषयातीन्द्रिया च स्यात् । एवं द्वेषादयोऽपीत्यलम- तिचर्चया । तदेतत्सर्वमभिसंधायोपसंहरति — अतो यथोक्तस्वरूपे एव निर्विकल्पक सवि- कल्पके इति । द्वितीयादित्वेन पिण्डग्रहणेष्विति ; अयं भावः – अनुवृत्तिग्रहण- रहितेषु प्रथमेतरग्रहणेषु सविकल्पकत्वाभावापादनमिष्टमेव ; अनुवृत्तिग्रहणरहितेषु प्रथमे- तरत्वेन ग्रहणेषु सविकल्पकत्वाभावापादनं तु न संभवति, प्रथमेतरत्वेन ग्रहणेऽनुवृत्ति ग्रहणनैयत्यादिति । श्रुतप्रदीपिका अथ प्रत्यक्षस्यापि तथात्वं प्रतिजानीते - प्रत्यक्षस्येति । दृष्टान्ततया वक्ष्यमाण- प्रतिसंबन्ध्युपयोगितया च सविकल्पकोपादानम् । तदर्थं तत्स्वरूपमाह —— सर्विकल्प- कमिति । इतरस्यापि तथात्वमाह – निर्विकल्पकमिति । स्वस्मिन् ; निर्विकल्पकेऽनु- भूतजात्यादिविशिष्टविषयस्य सविकल्पक प्रतिसंधानस्य हेतुत्वादित्यर्थः । सकलविशेष- शून्यवस्तुभानं हि निर्विकल्पकम् ; अतो हेत्वसिद्धिरित्यत्राह – निर्विकल्पकं नामेति । कथमित्यत्राह — तथेति । अदर्शनं विवृणोति – केनचिदिति । खस्माद्गगनाद्वा व्यावृत्तं हि प्रतीयते सर्वम् । पञ्चमीस्थाने हिशब्दः । अनुपपत्ति विवृणोति — त्रिको- णेति । अयोगः; दृष्टव्याप्तिविरोधेन क्लृप्त्यनुपपत्तिः । निर्विशेषविषयत्वं चेत्, प्रत्ययत्व- हानिरिति बाधकतर्कः प्रत्ययत्वादिति हेतुश्चाभिप्रेतः । निर्विकल्पकं नामेति ; प्रतिज्ञात- स्वमतपरमतुसिद्ध्यसिद्ध्योः प्रमाणं प्रत्यक्षं योग्यानुपलब्धिवत्युक्तं भवति । एवं कतिपय-