अर्चिरादिनैव गच्छति विद्वान्; अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसे ब्रह्म गमयतीत्युक्तम् । इदमिदानीं चिन्त्यते- किमयमर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति? उप परमेव ब्रह्मोपासीनान्, अथ परब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्चेति विषये
कार्यमुपासीनानेव गमयतीति वादरिराचार्यो मन्यते । कुतः? अस्य हिरण्यगर्भमुपासीनस्यैव गत्युपपत्तेः, न हि परिपूर्णं सर्वज्ञं सर्वगतं सर्वात्मभूतं परं ब्रह्मोपासीनस्य तत्प्राप्तये देशान्तरगतिरुपपद्यते, प्राप्तत्वादेव; नित्यप्राप्तपरब्रह्मविषयाविद्यानिवृत्तिमात्रमेव हि परविद्याकार्यम् । कार्यं तु हिरण्यगर्भरूपं ब्रह्मोपासीनस्य परिच्छिन्नदेशवर्तिप्राप्यप्राप्त्यर्थं गमनमुपपद्यते । अतोऽर्चिरादिरातिवाहिकगणस्तमेव नयति ॥ 6 ॥
“पुरुषोऽमानवः स एत्य ब्रह्मलोकान् गमयति” इति लोकशब्देन बहुवचनेन च लोकविशेषवर्तिनं हिरण्यगर्भमुपासीनमेवामानवो गमयतीति विशेष्यते । किञ्च “प्रजापतेः सभां वेश्य प्रपद्यते” इति कार्यस्य हिरण्यगर्भस्य समीपगमनमर्चिरादिना गतः प्रत्यभिसन्धत्ते । नन्वेवं “तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति”
इत्ययं निर्देशो नोपपद्यते; हिरण्यगर्भनयने हि “स एनान्ब्रह्माणं गमयति” इति निर्देष्टव्यं स्यात्, अत आह - ॥ 7 ॥
“यो ब्रह्माणं विदधाति” इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यात्तस्य ब्रह्मशब्देन व्यपदेश इति गत्यनुपपत्ति विशेषणादिभिरुक्तैर्हेतुभिर्निश्चीयत इत्यर्थः ॥ 8 ॥
अथ स्यात्- अर्चिरादिना हिरण्यगर्भप्राप्तौ “एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते” “तयोर्ध्वमायन्नमृतत्वमेति” इत्यमृतत्वप्राप्त्यपुनरावृत्तिव्यपदेशो नोपपद्यते, हिरण्यगर्भस्य कार्यभूतस्य द्विपरार्द्धकालावसाने विनाशशास्त्रात् “आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽजर्ुन” इति वचनाद्धिरण्यगर्भ प्राप्तस्य पुनरावृत्तेरवर्जनीयत्वादिति; अत्राह -
कार्यस्य ब्रह्मलोकस्यात्यये तदध्यक्षेण हिरण्यगर्भेणाधिकारिकेणावसिताधिकारेण विदुषा सह स्वयमपि तत्राधिगतविद्यः; अतः- कार्याद्व्रह्मलोकात्परं ब्रह्म प्राप्नोतीत्यर्चिरादिना गतस्यामृतत्वप्राप्त्यपुनरावृत्त्यभिधानात् “ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे” इति वचनाच्चावगम्यते ॥ 9 ॥
स्मृतेश्चायमर्थोऽवगम्यते “ब्रह्मणा स ह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” इति । अतः कार्यमुपासीनमेवार्चिरादिको गणो नयतीति बादरेर्मतम् । अत्र जैमिनिः पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठते ॥ 10 ॥
परं ब्रह्मोपासीनमेवार्चिरादिर्नयतीति जैमिनिराचार्यो मन्यते, कुतः? मुक्यत्वात् “तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति” इति ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात् । प्रमाणान्तरेण कार्यत्वनिश्चये सत्येव हि लाक्षणिकत्वं युक्तम् । न च गमनानुपपत्तिः प्रमाणं, परस्य ब्रह्मणः सर्वगतत्वेऽपि विदुषो विशिष्टदेशगतस्यैवाविद्यानिवृत्तिशास्त्रात्, यथा हि विद्योत्पत्तिर्वणाश्रमधर्मशौचाचारदेशकालाद्यपेक्षा “तमेतं वेदानुवचनेन” इत्यादिशास्त्रादवगम्यते, तथा निश्शेषाविद्यानिवर्तनरूपविद्यानिष्पविरपि विशिष्टदेशगतिसापेक्षेति गतिशास्त्रादवगम्यते । विदुष उत्क्रान्तिप्रतिषेधादि तु पूर्वमेव परिहृतम् । यत्तु ब्रह्मलोकानिति लोकशब्दबहुवचनाभ्यां विशेषणात्कार्यभूतहिरण्यगर्भप्रतीतिरिति; तदयुक्तं, निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारस्यैव युक्तत्वात्, अर्थस्य चैकत्वे निश्चिते बहुवचनस्य “अदितिः पाशानिति वदुपपत्तेः. परस्य ब्रह्मणः परिपूर्णस्य सर्वगतस्य सत्यसङ्कल्पस्य स्वेच्छापरिकल्पिताः स्वासाधारणा अप्रापृताश्च लोका नात्यन्ताय न सन्ति, श्रुतिस्मृतीतिहासपुराणप्रामाण्यात् ॥ 11 ॥
दर्शयति च श्रुतिः मृर्द्धन्यनाड्या निष्क्रम्य देवयानेन गतस्य परब्रह्मप्राप्तिम् “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इति । यदुक्तं “प्रजापतेः सभां वेश्म प्रपद्ये” सत्यर्चिरादिना गतस्य कार्ये प्रत्यभिसंधिर्दृश्यत इति, तत्रोत्तरम्- ॥ 12 ॥
न चायं प्रत्यभिसन्धिः कार्ये हिरण्यगर्भे; अपि तु परस्मिन्नेव ब्रह्मणि, वाक्यशेषे “यशेऽहं भवामि ब्राह्मणानाम्” इति तस्याभिसन्धातुः सर्वाविद्यादिमोकपूर्वकसर्वात्मभावाभिसन्धानात्, “अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोमर्ुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसन्भवामि” इत्यभिसंभाव्यस्य ब्रह्मलोकस्याकृतत्वश्रवणात् सर्वब्धविनिर्मोकस्य च साक्षात्छ्रवणात् । अतः परमेव ब्रह्मोपासीनमर्चिरादिरातिवाहिको गणो नयतीति जैमिनेर्मतम् । इदानीं वादरायणस्तु भगवान्स्वमतेन सिद्धान्तमाह- ॥ 13 ॥
अप्रतीकालम्बनान् प्रतीकालम्बनव्यतिरिक्तान्नयत्यर्चिरादिरातिवाहिको गण इति भगवान्वादरायणो मन्यते ।
एतदुक्तं भवतिकार्यमुपासीनान्नयतीति नायं पक्षः सम्भवति, परमेवोपासीनानित्ययमपि नियमो नास्ति, न च प्रतीकालम्बनानपि नयति । अपि तु ये परं ब्रह्मोपासते, ये चात्मानं प्रकृतिवियुक्तं ब्रह्मात्मकमुपासते; तानुभयविदान्नयति, ये तु ब्रह्मकार्यान्तर्भूतं नामादिकं वस्तु देवदत्तादिषु सिंहादिदृष्टिवद्व्रह्मदृष्टया केवलं वा
तत्तद्वस्तूपासते, न तान्नयति । अतः परं ब्रह्मोपासीनानात्मानञ्च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनान्नयति इति । कुतः? उभयथा च दोषात्, कार्यमुपासीनान्नयतीति पक्षे “अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य” इत्यादिकाः श्रुतयः प्रकृष्येयुः, परमेव ब्रह्मोपासीनानिति च नियमे “तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति” इति प्चाग्निविदोऽर्चिरादिगणो नयतीति श्रुतिः प्रकृष्येत् । अत उभयस्मिन्नपि पक्षे दोषः स्यात्, तस्मादुभयविधान्नयतीति । तदेतदाह- तत्क्रतुश्चेति । तत्क्रतुः- तथोपासीनस्तथैव प्राप्तोतीत्यर्थः, “यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्ये भवति” “तं यथा यथोपासते” इति न्यायात् पञ्चाग्निविदोऽप्यर्चिरादिना गतिश्रवणात् अर्चिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च । अत एव तत्क्रतुन्यायात् प्रकृतिविनिर्मुक्तब्रह्मात्मकात्मानुसन्धानं सिद्धम् । नामादिप्राणपर्यन्तप्रतीकालम्बनानां तूभयविधश्रुतिसिद्धोपासनाभावादचिन्मिश्रोपासनं तत्क्रतुन्यायाच्चार्चिरादिना गतिर्ब्रह्मप्राप्तिश्च न विद्यते । तमिमं विशेषं श्रुतिरेवं दर्शयतीत्याह - ॥ 14 ॥
“यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति” इत्यादिका श्रुतिर्नामादिप्राणपर्यन्तप्रतीकमुपासीनानां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति, तस्मादचिन्मिश्रं केवलं वा चिद्वस्तु ब्रह्मदृष्टया तद्वियोगेन च य उपासते न तान्नयति, अपि तु परं ब्रह्मोपासीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकं चोपासीनानातिवाहिको गणो नयतीति सिद्धम् ॥ 15 ॥
॥ कार्याधिकरणं समाप्तम् ॥
॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य तृतीयः पादः ॥