इदमिदानीं चिन्त्यते- किमर्चिरादयो मार्गचिह्नभूताः? उत भोगभूमयः? अथवा विदुषां ब्रह्म प्रेष्सतामतिवोढारः- इति । किं तावद् युक्तम्? मार्गचिह्नभूता इति । कुतः? उपदेशस्य तथाविध
त्वात्; दृश्यते हिलोके ग्रामादीन्प्रति गन्तृणामेवं विधो देशिकैरुपदेशः इतो निष्क्रम्यामुकं वृक्षममुकां नदीममुकं च पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ" इति । अथवा भोगभूमय एताः स्युः, कालविशेषतया प्रसिद्धानामहारदीनां मार्गचिह्नत्वानुपपत्तेरन्यस्य च मार्गचिह्नभूतस्यैतेषामनभिधायकत्वात् । भोगभूमित्वं च “एत एव लोका यदहोरात्राण्यर्धमासा मासा ॠतवः संवत्सराः” इत्यरादीनां लोकत्ववचनादुपपद्यते । अत एव कौपीतकिनः “अग्निलोकमागच्छति” इत्यादिना लोकशब्दानुविधानेनार्चिरादीन् पठन्तीति । एवं प्राप्ते व्रूमः- आतिवाहिकाः इति । विदुषामतिवाहे परमपुरुषेण नियुक्ता आतिवाहिकादेवताविशेषा एतेऽर्चिरादयः । कुतः? तल्लिङ्गात्- अतिवहनलिङ्गात् । अतिवहनं हि गन्तृणां गमयितृत्वम्; गमयितृत्वं च “तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति” इत्युपसंहारे श्रूयमाणं पूर्वेषामप्यविशेषश्रुतानां स एव सम्बन्ध इति गमयति । वदन्ति चार्चिरादयः शब्दाः अर्चिराद्यात्मभूतानभिमानिदेवताविशेषान् । “तं पृथिव्यव्रवीत्” इतिवत् ॥ 4 ॥
यद्येवं “तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति” इति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयितृत्वश्रुतेः, विद्युतः परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत्राह -
ततः- विद्युत उपरि, वैद्युतेन- अमानवेनैवातिवाहिकेन विदुषामाब्रह्मप्राप्तेः गमनम् । कुतः? तच्छ्रुतेः “स एनान् ब्रह्म गमयति” इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु अनुग्राहका इति तेषामप्यातिवाहिकत्वेनान्वयो विद्यत एव ॥ 5 ॥
॥ आतिवाहिकाधिकरणं समाप्तम् ॥