25 वरुणाधिकरणम्

कौषितकिनां “स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्” इत्यत्राग्निलोकशब्दस्याचिर्ः- पर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूध्वर्ं निवेश उक्तः । आदित्यस्याप्यत्र प्राप्तपाठकमवाधेन “देवलोकादादित्यमादित्याच्चन्द्रमसम्” इति वाजसनेयकोक्तश्रुतिक्रमाद्देवंलोकशब्दाभिहिताद्वायोरुपरि निवेशः सिद्धः । इदानीं वरुणेन्द्रादिषु चिन्ता । किमेते वरुणादयो यथापाठं वायोरूर्ध्वं निवेशयितव्याः? आहोस्विद्विद्युतोऽधीति विशये, अर्चिः प्रभृतिषु सर्वेषु “अर्चिषोऽहः” इत्यादि श्रुतिक्रमोपरोधाद्विद्युतः परस्ताच्च “तत्पुरुष्रोमानवः स एनान् ब्रह्म गमयति” इति विद्युत्पुरुषस्य ब्रह्मगमयितृत्वश्रवणाच्च सर्वत्रावकाशभावेनाप्राप्तौ चोपदेशावैयर्थ्यायावश्यं कस्यचिद्वाधायत्वे पाठक्रमानुरोधेन वायोरनन्तरं वरुणो निवेशयितव्यः । वाय्वादित्ययोः क्रमस्य बाधितत्वेन इन्द्रप्रजापती अपि ह्यत्रैव निवेशयितव्यौ

इति प्राप्ते उच्यते- तडित्रोधिवरुणः इति । वरुणस्तावद्विद्युत उपरिष्टान्निवेशयितव्यः? कुतः सम्बन्धात् मेधादरविर्तित्वाद्विद्युतो वरुणेन सम्बन्धो लोकवेदयोः प्रसिद्धः । एतदुक्तं भवति- वरुणा; दीनामुपदेशावैयर्थ्याय क्कचिन्निविशयितव्यत्ये सति पाठक्रमादर्थक्रमस्य बलीयस्त्वाद्विद्युत्रोधिवरुणो निवेशयितव्यः । ततश्चामानचस्य गमवितृत्वं व्यवदानसहमित्यवगम्यते । तस्य च च्यवधानसहत्वादिन्द्रयादेश्वोपदिष्टस्यावश्यनिवेशयितव्यस्य वरुणादुपर्युपदिष्टत्वादागन्धूनामन्ते निवेशयितव्यत्वाच्च वरुणादुपरीन्द्रादिर्निवेशयितव्य इति ॥ 3 ॥

॥ वरुणाधिकरणं समाप्तम् ॥