24 वाय्वधिकरणम्

अर्चिरादिनैव गच्छन्ति विद्वांस इत्युक्तम्, तत्रार्चिरादिके मार्गे छन्दोगा मासादित्ययोरन्तराले संवत्संरमधीयते मासेभ्यः संवत्सर संवत्सरादादित्यम्3 इति । वाजसनेयिनस्तु तयोरेवान्तराले देवलोकम् “मासेभ्या देवलोकं देवलोकादादित्यम्” इति । उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोपसंहार्यौ । तत्र मासादूर्ध्वमभिहितयोः संवत्सरदेवलोकयोः पञ्चम्याऽभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि “अर्चिषोऽहरह्न आपूयर्माणपक्षमापूर्यमाणपक्षाद्यान्षडुदङेति मासांस्तान्” इत्यधिककालानां न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशदर्शनात् संवत्सरस्यैव मासादनन्तरं बुद्धौ विपरिवृत्तेः संवत्सर एव मासादूर्ध्वं निवेशयितव्य इति तत ऊर्ध्वं देवलोक इति निश्चीयते । अन्यत्र वाजसनेयिनः “यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति” इत्यादित्यात्पूर्वं वायुमधीयते । कौषीतकिनस्तु “स एतं देवयानं पन्थानमापद्ाग्निलोकमागच्छति स वायुलोकम्” इत्यग्निलोकशब्दनिर्दिष्टादर्चिषः परं वायुमधीयते । तत्र कौषीतकिनां पाठक्रमेणार्चिषः परत्वेन प्राप्तस्य वायोर्वाजसनेयिनां “तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति”

इत्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्वलीयसा आदित्यात्पूवर्ं प्रवेशो निश्चीयते । अत आदित्यात्पूर्वं संवत्सरादूर्ध्वं देवलोको वायुश्च प्राप्तौ यथेष्टक्रमेण विद्वानभिगच्छेत्? उतानर्थान्तरत्वेन संवत्सरादूर्ध्वं देवलोकं सन्तं वायुमभिगच्छेदिति ।

किं युक्तं, भिन्नार्थत्वं, प्रसिद्धेः । भिन्नार्थत्वेचोर्ध्वशब्देन पञ्चम्या चोभयोः संवत्सरादित्यान्तराले श्रुतिक्रमेण प्राप्तत्वाद्विशेषाभावाच्च यथेष्टम्

इति प्राप्त उच्यते- वायुमब्दात् इति । वायुं संवत्सरादूध्वर्मभिगच्छेत् । कुतः? अविशेषविशेषाभ्यां वायोरेव निर्दिष्टत्वात् । देवलोकशब्दो ह्यविशेषेण सामान्येन देवानां लोक इत्यनेन रूपेण वायुमभिधत्ते । “स वायुमागच्छति तस्मै स तत्र” इति वायुशब्दो विशेषेण वायुमभिधत्ते । अतो देवलोकवायुशब्दाभ्यामविशेषविोषाभ्यां वायुरेवाभिधीयत इति संवत्सरादूर्ध्वं वायुमेवाभिगच्छेत् । कौषीतकिनां वायुलोकशब्दश्चाग्निलोकशब्दवत् वायुश्चासौ लोकश्चेति व्युत्पत्त्या वायुमेवाभिधत्ते। वायुश्च देवानामावासभूत इत्यन्यत्र श्रूयते “योऽयं पवत एष देवानां गृहा” इति ॥ 2 ॥

॥ वाय्वधिकरणं समाप्तम् ॥