विदुष उत्क्रान्तस्य नाडीविशेषण हार्दानुग्रहाद्गत्युपक्रम उक्तः । तस्य गच्छतो मार्ग इदानीं निर्णीयते । तत्र श्रुतिषउ मागर्प्रकारा बहुधा आम्नायन्ते; छान्दोग्ये तावत् “यता पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते” इत्युपक्रम्य ब्रह्मविद्यामुपदिश्याम्नायते “अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान षडुदङ्ङेति मासांस्तान् मासेभ्यः संवत्सरं संसत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवपतो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते” इति । तथाऽत्रैवाष्टमे “अथैतैरेव रश्मिभिरूध्वर्माक्रमते” इति । कौषीतकिनश्च देवयानर्मागमन्यथाऽधीयते “स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्” इति । तथा बृहदारण्यके “य एवमेतद्विदुयर्े चेमेऽरण्ये श्रद्धां सत्यमुपासते ते अर्चिषमभिसम्भवन्ति अर्चिषोऽह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् पण्मासानुदङ्ङादित्य एति मासान्मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्मलोकान् गमयति” इति । तत्रैव पुनरन्यथा “यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स सत्र विजिहीते, यथा आडम्बरस्य खं तेन स ऊध्वर्माक्रमते स आदित्यमागच्छति तस्मै चन्द्रमसमागच्छति तस्मै स तत्र विजिहीयते, यथा आडम्बरस्य खं तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम्” इत्यादि । तत्र संशयः- किमर्चिरादिरेक एव मार्ग आभिः श्रुतिपाद्यत इति तेनैव ब्रह्म गच्छति विद्वान्?
उत तस्मादन्येऽन्यत्र मार्गा इति तैर्वाऽनेन वेत्यनियमः इति । किं युक्तम्? अनियम इति । कुतः? अनेकरूपत्वान्नैरपेक्ष्याच्चेति ॥
एवं प्राप्ते अभिधीयते- अर्चिरादिनेति । अर्चिरादिरेक एव मार्गः सर्वत्र प्रतिपाद्यते, अतोऽर्चिरादिनैव गच्छति । कुतः? तत्प्रथितेः- तस्यैव सर्वत्र प्रथितेः । प्रथितिः- प्रसिद्धिः, तस्यैव सर्वत्र प्रत्यभिज्ञानादित्यर्थः । प्रत्यभिज्ञानात्स एव मार्गः सर्वत्र न्यूनाधिकभावेन प्रतिपाद्यत इति विद्यागुणोपसंहारवदन्यत्र उक्तानामन्यत्रोपसंहारः क्रियेत । छान्दोग्ये तावदुपकोशलविद्यायां पञ्चाग्निविद्यायां चैकरूप एवाम्नायते; वाजसनेयके च पञ्चाग्निविद्यायां तथैवार्चिरादिरल्पान्तर आम्नायते, अतस्तत्रापि स एवेति प्रतीयते । अन्यत्रापि सर्वत्राग्न्यादित्यादयः प्रत्यभिज्ञायन्ते ॥ 1 ॥
॥ अर्चिराद्यधिकरणं समाप्तम् ॥