निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्तः, तत एव हेतोर्दक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिः सिद्धा । अधिकाशङ्का तु “अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्य गच्छति” इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणाच्चन्द्रमस प्राप्तानां च तेषां यदा तत्पर्यवैत्यथैतमेवाध्वानं पुनर्निवर्तन्तेः" इति पुनरावृत्तिश्रवणात्, भीष्मादीनां च ब्रह्मविद्यानिष्ठानाम् उत्तरायणप्रतीक्षादर्शनात् दक्षिणायने मृतस्य ब्रह्मप्राप्तिः न सम्भवति इति ।
परिहारस्तु- अविदुषां पितृयाणेन पथा चन्द्रमसं प्राप्तानामेव पुनरावृत्तिः, विदुषस्तु चन्द्रं प्राप्तस्यापि, “तस्माद्वह्मणो महिमानमाप्नोति” इति वाक्यशेषात्तस्य दक्षिणायनमृतस्य चन्द्रप्राप्तिः ब्रह्म प्रपित्सतो विश्रामहेतुमात्रमिति गम्यते । वाक्यशेषाभावेऽपि पूर्वोक्तादेव बन्धहेत्वभावाद्विदुषश्चन्द्रं प्राप्तस्यापि ब्रह्मप्राप्तिरनिवार्या । भीष्मादीनां योगप्रभावात् स्वच्छन्दमरणानां धर्मप्रवर्तनायोत्तरायणप्राशस्त्यप्रदशर्नार्थस्तथाविधाचारः । ननु च विदुषो मुमुर्षून्प्रति पुनरावृत्त्यपुनरावृत्तिहेतुत्वेन कालविशेषविधिर्दृश्यते “यत्र कालेत्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतषर्भ । अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य अनिवर्तते । शुक्लकृष्णे गती ह्येतेः जगतः शाश्वते मते एकया यात्मनावृत्तिमन्ययाऽऽवर्तते पुनः” इति तत्राह ॥ 19 ॥
नात्र मुमुर्षून्प्रति मरणकालविशेषोपादानं स्मर्यते; अपि तु योगिनः-योगनिष्ठान्प्रति, स्मार्ते-स्मृतिविषयभूते स्मर्तव्ये देवयानपितृयाणाख्ये गतीस्मर्येते योगाङ्गतया अनुदिनं स्मर्तुम् । तथा ह्युप संहारः “नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन” इति । “अग्निर्ज्योतिः” “धूमो रात्रिः” इति च देवयानपितृयाणे प्रत्यभिज्ञायेते । उपक्रमे च “यत्र काले"त्विति कालशब्दः कालाभिमानिदेवतातिवाहिकपरः, अग्न्यादेः कालत्वासम्भवात् । अतः “तेऽर्चिषमभिसम्भवन्ति” इति विहितदेवयानानुस्मृतिरत्र विद्यानिष्ठान्प्रति विधीयते, न मुमुर्षून्प्रति मरणकालविशेषः ॥ 20 ॥
॥ दक्षिणायनाधिकरणं समाप्तम् ॥
॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य द्वितीयः पादः ॥