इदमिदानीं चिन्त्यते- विदुषो निशि मृतस्यब्रह्मप्राप्तिरस्ति, नेति । यद्यपि निशायां सूर्यरश्मिसम्भवाद्रश्म्यनुसारेण गतिर्निशायामपि सम्भवति, तथाऽपि निशामरणस्य शास्त्रेषु गर्हितत्वात् परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तं, विपरीतं निशामरणं, “दिवा च शुक्लपक्षश्च उत्तरायणमेव च । मुमूर्षतां
प्रशस्तानि विपतीतं तु गर्हितम्” इति । दिवामरणनिशामर
णयोः प्रशस्तत्वविपरीतत्वे चोत्तमाधमगतिहेतुत्वेन स्याताम् । अतो निशि मरणमधोगतिहेतुत्वान्न ब्रह्मप्राप्तिहेतुरिति चेत् तन्न विदुषः कर्मसम्बन्धस्य यावद्देहभावित्वात् । एतदुक्तं भवति- अनारब्धकार्याणामधोगतिहेतुभूतानां कर्मणां विद्यासम्बन्धेनैव विनाशादुत्तरेषां चाश्लेषात्प्रारब्धकार्यस्य च चरमदेहावधित्वाद्वन्धहेत्वभावाद्विदुषो निशामृतस्यापि ब्रह्मप्राप्तिः सिद्धैव । दर्शयति च श्रुतिः “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति । “दिवा च शुक्लपक्षश्च” सत्यादिवचनमविद्वद्विषयम् ॥ 18 ॥
॥ निशाधिकरणं समाप्तम् ॥