विदुषो हृदयाच्छताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्यादित्यमण्डलगतिः श्रूयते । “अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते” इति । तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमः सम्भवति,
नेति चिन्तायां निशि मृतस्य विदुषो रश्म्यनुसारासम्भवादनियमः । वचनं तु पक्षप्राप्तविषयम्-
इति प्राप्ते उच्यते- रश्म्यनुसारी इति । रश्म्यनुसार्येव विद्वानूर्ध्वं गच्छति । कुतः? “अथैतैरेव रश्मिभिः” इत्यवधारणात्; पाक्षिकत्वे ह्येवकारोऽनर्थकः स्यात् । यदुक्तं निशि मृतस्य रश्म्यसम्भवात् रश्मीननुसृत्य गमनं नोपपद्यत इति, तन्न, निश्यपि सूर्यरश्म्युनुसारः सम्भवति, लक्ष्यते हि निश्यपि निदाधसमये ऊष्मोपलब्ध्या रश्मिसद्भावः, हेमन्तादौ तु हिमाभिभवाद्दुर्दिन इवोष्मानुपलम्भः, श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वयः, “तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च एवमेवैत आदित्यस्य रश्मय उभौ लाकौ गच्छन्तीमं चामुञ्च अमुष्मादादित्यात्प्रतायन्ते त आसु नाडीषु सृप्ता आभ्या नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः” इति । तस्मान्निश्यपि रश्मिसम्भवान्निशि मृतानामपि विदुषां रश्म्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव ॥ 17 ॥
॥ रश्म्यनुसाराधिकरणं समाप्तम् ॥