19 तदोकोधिकरणम्

एवं गत्युपक्रमावधि विद्वदविदुषोः समानाकार उत्क्रानितप्रकार उक्तः, इदानीं विदुषो विशेष उच्यते । तत्रेदमाम्नायते- “शतं चैका च हृदस्य नाड्यस्तासां मूर्द्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति” इति । अनया नाडीनां शताधिकया मूर्द्धन्यनाड्येव विदुषो गमनमन्याभिरेव चाविदुषो गमनमित्ययं नियम उपपद्यते, नेति संशयः । किं युक्तम्? नियमो नोपपद्यत इति । कुतः? नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् । “तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्य उत्क्रमणे भवन्ति” इति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमिति- एवं प्राप्त प्रचक्ष्महे- शताधिकया इति । विद्वान् शताधिकया मूर्द्धन्ययैव नाङ्योत्क्रामति । न चास्याविदुषो दुर्विवेचत्वं विद्वान् हि परमपुरुषाराधनभूतात्यर्थप्रियगत्यनुस्मरणयोगाच्च प्रसन्नेन हादेन परमपुरुषेणानुगृहीतो भवति । ततश्च तदोकः तस्य जीवस्य स्थानं हृदयम्, अग्रज्वलनं भवति, अग्रेज्वलनं प्रकाशनं यस्य तदितमग्रज्वलनम् । परमपुरुषप्रसादात्प्रकाशितद्वारो विद्वांस्तां नाडी विजानातीति तया विदुषो गतिरुपपद्यते ॥ 16 ॥

॥ तदोकोऽधिकरणं समाप्तम् ॥