सेयं परमात्मनि सम्पत्तिः किं प्राकृतलयवत् कारणापत्तिरूपा? उत “वाङ्मनसि” इत्यादिवदविभागरूपेति चिन्तायां परमात्मनः सर्वेषां योनिभूतत्वात्कारणापत्तिरूपा इति प्राप्त उच्यते- अविभागः इति । अपृथग्भावः- पृथग्व्यवहारानर्हसंसर्ग इत्यर्थः । कुतः? वचनात् “तेजः परस्यां देवताया"मित्यत्रापि “वाङ्मनसि सम्पद्यते” इत्यतः सम्पद्यत इति वचनस्यानुषङ्गात्, तस्य च संसर्गविशेषवाचित्वात्; अनुषक्तस्याभिधानवैरूप्ये प्रमाणाभावादुत्क्रान्तिवेलायां कारणापत्तिप्रयोजनाभावात् । पुनस्तत्राव्यक्तादिसृष्टयवचनाच्च ॥ 15 ॥
॥ अविभागाधिकरणं समाप्तम् ॥