17 परसंपत्त्यधिकरणम्

सकरणग्रामः सप्राणः करणाध्यक्षः प्रत्यगात्मोत्क्रान्तिवेलायां तेजःप्रभृतिभूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्; सैषा सम्पत्तिर्विदुषो न विद्यत इत्याशङ्कय परिहृतम्, तानि पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्यं च स्वकार्याय गच्छन्ति? उत परमात्मनि सम्पद्यन्त इति विशये मध्ये परमात्मसम्पत्तौ सुखदुःखोपभोगरूपकार्यादर्शनात्, तदुपभोगानुगुण्येन यथाकर्म यथाविद्यं च गच्छन्ति । इति प्राप्त उच्यत तानि परे इति । तानि परस्मिन्नात्मनि सम्पद्यते; कुतः? तथा ह्याह श्रुतिः तेजः परस्यां देवतायाम्" इति । यथाह श्रुतिस्तदनुगुणं कार्यं कल्प्यमित्यर्थः । सुषुप्तिप्रलययोर्यथा परमात्मसम्पत्त्या सुखदुःखोपभोगायासविश्रमः; तद्वदिहापि ॥ 14 ॥

॥ परसम्पत्त्यधिकरणं समाप्तम् ॥