इयमुत्क्रान्तिः किं विद्वदविदुषोः समाना? उताविदुष एवेति चिन्तायाम्, अविदुष एवेति प्राप्तम् । कुतः? विदुषोऽत्रैवामृतत्ववचनादुत्क्रान्त्यभावात् । विदुषो ह्यत्रैवामृतत्वं श्राव्यते “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते” इति । एवं प्राप्तेऽभिधीयते- समाना चासृत्युपक्रमात् इति, विदुषोऽप्यासृत्युपक्रमादुत्क्रान्तिः समाना । आसृत्युपक्रमात्- आगत्युपक्रमात्, नाडीप्रवेशात् प्रागित्यर्थः । विदुषोऽपि हि नाडीविशेषेणोत्क्रम्य गतिः श्रुयते “शतं चैका च हृदस्य नाड्यस्तासां मृर्द्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति” इति । एवं नाडीविशेषेण गतिश्रवणाद्विदुषोऽप्युत्क्रान्तिरवर्जनीया । सा च नाडीप्रवेशात् प्राग्विशेषाश्रवणात्समाना । तत्प्रवेशदशायां च विशेषः श्रूयते “तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः” इति । “शतं चैका च हृदयस्य” इत्यनया श्रुत्यैकार्थ्यात् भूर्ध्नो निष्क्रमणं विद्वद्विषयम्, इतरदविद्वद्विषयम्, यदुक्तं विदुषोऽत्रैवामृतत्वं श्राव्यते इति, तत्रोच्यते- अमृतत्वं चानुपोष्य इति । चशब्दोऽवधारणे । अनुपोष्य शरीरेन्द्रियादिसंबन्धमदग्ध्वैव, यदमृतत्वम् - उत्तरपूर्वाधयोरश्लेषविनाशरूपं प्राप्यते, तदुच्यते “यदा सर्वे प्रमुच्यन्ते” इति चोपासनवेलायां यो ब्रह्मानुभवस्तद्विषयमित्यभिप्रायः ॥ 7 ॥
अवश्यं च तत् अमृतत्वमदग्धदेहसम्बधस्यैवेति विमेयम्, कुतः? आऽपीतेः संसारव्यपदेशात्, अपीतिरप्ययो ब्रह्मप्राप्तिः । सा चार्चिरादिना मार्गेणदेशविशेषं गत्वेति वक्ष्यते,आतदवस्थाप्राप्तेः संसारोदेहसम्बन्धलक्षणो हि व्यपदिश्यते, “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये” इति । “अश्व इव रोमाणि विधूय पापं चन्द्र इव
राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि” इति च ॥ 8 ॥
इतश्च विदुषोऽपि बन्धो नात्र विदग्धः, यतः सूक्ष्मं शरीरमनुवर्तते । कुत इदमवगम्यते । प्रमाणतस्तथोपलब्धेः । उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः, “तं प्रतिव्रूयात् सत्यं व्रूयात्” इति चन्द्रमसा संवादवचनेन शरीरसद्भावः । अतः सूक्ष्मशरीरमनुवर्तते । अतश्च बन्धो न दग्धः ॥ 9 ॥
अतः “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते” इति वचनं न बन्धोपमर्देनामृतत्वं वदति ॥ 10 ॥
अस्य सूक्ष्मशरीरस्य क्कचिद्विद्यमानत्वोपपत्तेर्विदुषः प्रक्रान्तमरणस्य मरणात्प्रागूष्मा स्थूलशरीरेक्काचित्क उपलभ्यते । न च स्थूलस्यैव शरीरस्यायमूष्मा अन्यत्रानुपलब्धेः, ततश्चोष्मणः क्कचिदुपलब्धिर्विदुषः सूक्ष्मशरीरस्योत्क्रन्तिनिबन्धनेति गम्यते, तस्माद्विदुषोऽप्यासृत्युपक्रमात्समानोत्क्रान्तिरिति सुष्ठूक्तम् । पुनरपि विदुष उत्क्रन्तिर्न सम्भवतीत्याशङ्क्य परिह्रियते ॥ 11 ॥
यदुक्तं विदुषोऽप्युत्क्रान्तिः समानेति तन्नोपपद्यते, विदुष उत्क्रान्तिप्रतिषेधात्, तथा हि “स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्वपक्रामति” तमुत्क्रामन्तं प्राणोऽनूत्क्रामति" इत्यविदुष उत्क्रान्तिप्रकारमभिधाय “अन्यन्नवतरं कल्याणतरं रूपं कुरुते” इति । देहान्तरपरिग्रहं चाभिधाय “प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह
करोत्ययं तस्माल्लोकात्पनरेत्यस्मै लोकाय कर्मण इति तु कामयमानः” इत्यर्विद्वद्विषयं परिसमाप्य “अथाकामयमानो योऽकामोनिष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्व्रह्माष्येति” इति विदुष उत्क्रान्तिः प्रतिषिध्यते, तथा पूर्वत्रार्तभागप्रश्नेऽपि विदुष उत्क्रान्तिप्रतिषेधो दृश्यते “अपपुनर्मृत्युं जयति”
इति विद्वांसं प्रस्तुत्य “याज्ञवल्क्य इति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणा उत्क्रामन्त्याहो” इति पृष्टे “नेति होवाच याज्ञवल्क्योऽत्रैव समवलीयन्ते स उच्छकयत्याध्मातो मृतः शेतः” इति । अतो विद्वानिहैवामृतत्वं प्राप्नोतीति चेत् तन्न, शारीरात् प्रत्यगात्मनः प्राणानामुत्क्रान्तिर्ह्यत्र प्रतिषिध्यते, न शरीरात्, “न तस्य प्राणा उत्क्रामन्ती"त्यत्र तच्छब्देन “अथाकामयमानः” इति प्रकृतः शारीर एव परामृश्यते नाश्रुतं शरीरम् । तस्येति षष्ठया प्राणानां सम्बन्धित्वेन शारीरो निर्दिष्टः न तूक्रान्त्यपादनत्वेन, उत्क्रान्त्यपादानन्तु शरीरमेवेति चेन्न अपादानापेक्षायामश्रुताच्छरीरात् सम्बन्धितया श्रुतस्यात्मन एव सन्निहितत्वेनापादानतयाऽपि ग्राह्यत्वात् । किञ्च प्राणानां जीवसम्बन्धितयैव प्रज्ञातानां तत्सम्बन्धकथने प्रयोजनाभावात् सम्बन्धमात्रवाचिन्या षष्ठ्या अपादनमेव विशेष इति निश्चीयते, यथा नटस्य शृणोतीति, न चात्र विवदितव्यं स्पष्टो ह्येकेषां माध्यन्दिनानामाम्नाये शारीरो जीव एवापादानमिति, योऽकामो निष्काम आप्तकाम आत्मकामो
न तस्मात्प्राणा उत्क्रामन्तीति । शारीरात्प्राणानामुत्क्रान्तिप्रसङ्गाभावात्प्रतिषेधो नोपपद्यते इति चेन्न तस्य तावदेव चिरमिति विदुषः शरीरवियोगकाले ब्रह्मसम्पत्तिवचनेन प्राणानामपि तस्मिन् काले शारीराद् विदुषो वियोगः प्रसज्यते, ततश्च देवयानेन पथा ब्रह्मसम्पत्तिनोपपद्यत इति न तस्य प्राणश उत्क्रामन्ति देवयानेन पथा ब्रह्मप्राप्तेः प्राग् जीवाद्विदुषोऽपि प्राणा न विश्लष्यन्तीत्युच्यते । आर्तभागप्रश्नोऽपि यदा विद्वद्विषयः तदाऽयमेव परिहारः, स त्वविद्वद्विषयस्तत्र प्रश्नप्रतिवचनयोर्ब्रह्मविद्याप्रसङ्गादर्शनात्, तत्र हि ग्रहादिग्रहरूपेणेन्द्रियोन्द्रियार्थस्वभावोऽपामग्न्यन्नत्वं मि्रयमाणस्य जीवस्य प्राणापरित्यागो मृतस्य नामवाच्यकीत्यर्नुवृत्तिस्तस्य च पुण्यपापानुगुणगतिप्राप्तिरित्येतेऽथर्ाः प्रश्नपूर्वपं प्रत्युक्ताः, तत्र चापपनर्मृत्युं जयतीत्यपानग्न्यन्नत्वज्ञानादग्निजय एव मृत्युञ्जय उच्यते अतो नात्र विदुषः प्रसङ्गः, अविदुषस्तु प्राणाऽनुत्क्रान्तिवचनं स्थूलदेहवत्प्राणा न मुचन्ति, अपि तु भूतसुक्ष्मवज्जीवं परिष्वज्य गच्छन्तीति प्रतिपादयतीति निरवद्यम् ॥ 12 ॥
स्मर्यते च विदुषोऽपि मूद्धन्यनाड्योत्क्रन्तिः । “ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम्” इति ॥
॥ आसृत्युपक्रमाधिकरणं समाप्तम् ॥