“प्राणस्तेजसि” इति जीवसंयुक्तस्य प्राणस्य तेजसि संपत्तिरुक्ता; सा सम्पत्तिः किं तेजोमात्रे? उत संहतेषु सर्वेषु भूतेष्विति विशये तेजोमात्रश्रवणात्तेजसि
इति प्राप्त उच्यते- भूतेषु इति । भूतेषु संपद्यते, कुतः? तच्छ्रुतेः “पृथिवीमय आपोमयः तेजोमयः” इति जीवस्य सञ्चरतः सर्वभूतमयत्वश्रुतेः । ननु तेजःप्रभृतिष्वेकैकस्मिन् क्रमेण संपत्तावपि “पृथिवीमयः” इत्यादिका श्रुतिरुपपद्यते, अत आह - । 5 ॥
नैकस्मिन्, एकैकस्य कार्याक्षमत्वात् । दर्शयतो ह्यक्षमत्वं श्रुतिस्मृती “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” इति नामरूपव्याकरणयोग्यत्वाय त्रिवृत्करणमुपदिश्यते । “नानावीर्याः पृथग्भूतास्ततस्यते संहति विना नाशक्नुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महादाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति तै” इति । अतः “प्राणस्तेजसि” इति तेजश्शब्देन भूतान्तरसंसृष्टमेव तेजज्रभिधीयते । अतो भूतेष्वेव सम्पत्तिः ॥ 6 ॥
॥ भूताधिकरणं समाप्तम् ॥