14 अध्यक्षाधिकरणम्

यथा “वाङ्मनसि संपद्यते मनः प्राण” इति वचनानुरोधेन मनःप्राणयोरेव वाङ्मनसयोः संपत्तिः तथा प्राणस्तेजसीति वचनात्तेजस्येव प्राणः सम्पद्यते इति प्राप्त उच्यते सोऽध्यक्षे इति । स प्राणोऽध्यक्षे करणाधिषे जीवे सम्पद्यते । कुतः? तदुपगमादिभ्यः, प्राणस्य जीवोपगमस्तावच्छ्रूयते “एवमेवेममात्मानमन्तकाले सर्वोप्राणा अभिसमायन्ति” इति, तथा जीवेन सहप्राणस्योत्क्रान्तिः श्रूयते “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इति, प्रतिष्ठा च जीवेन सह श्रूयते “कस्मिन्नुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि” इति । एवं जीवेन संयुज्य तेन सह तेजस्सम्पत्तिरिह प्राणस्तेजसीत्युच्यते, यथा यमुनाया गङ्गया संयुज्य सागरगमनेऽपि यमुना सागरं गच्छतीति वचो न विरुद्धयते, तद्वत् ॥ 4 ॥

॥ अध्यक्षाधिकरणं समाप्तम् ॥