तत्सर्वेन्द्रियसयुक्तं मनः प्राणे सम्पद्यते प्राणेन संयुज्यते न मनोवृत्तिमात्रम् । कुतः? उत्तरात् मनः प्राणे" इति वाक्यात् । अधिकाशङ्का तु, “अन्नमयं हि सोम्य मनः” इति वचनान्मनसोऽन्नप्रकृतिकत्वमवगम्यते, अन्नस्य च “ता अन्नमसृजन्त” इत्यम्मयत्वं सिद्धम् । आपोमयः प्राणः" इति चाष्प्रकृतित्वं प्राणस्यावगम्यते । अतो मनः प्राणे संपद्यते" इत्यत्र प्राणशब्देन प्राणप्रकृतिभूता अपो निर्दिश्य तासु मनःसम्पत्तिप्रतिपादने परम्परया स्वकारणे लय इति सम्पत्तिवचनमुपपन्नं भवति इति ।परिहारस्तु “अन्नमयं हि सोम्य मनः, आपोमयः प्राणः” इति मनःप्राणयोरन्नेनाद्भिश्चाप्यायनमुच्यते, न तत्प्रकृतित्वम्, आहङ्कारिकत्वान्मनसः, आकाशविकारत्वाच्च प्राणस्य । प्राणशब्देनापां लक्षणा च स्यादिति ॥ 3 ॥
॥ मनोधिकरणं समाप्तम् ॥