12 वागधिकरणम्

इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमन्तावदुत्क्रान्तिश्रिन्त्यते; तत्रेदमाम्नायते “अस्य सोभ्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्” इति । अत्र “वाङ्मनसि संपद्यते” इति वाचो मनसि संपत्तिश्रुतिः किं वाग्वृत्तिमात्रविषया? उत वाग्विषयेति विशये वृत्तिमात्रविषयेति युक्तम् । कुतः? मनसो वाक्प्रकृतित्येभावात्, तत्र वाक्स्वरूपसम्पत्त्यसम्भवात् । वागादिवृत्तिनां मनोधीनत्वेन वृत्तिसम्पत्तिश्रुतिः कथंचिदुपपद्यत इति ।

एवं प्राप्तेऽभिधीयते- वाङ्मनसि इति वाक्स्वरूपमेव मनसि संपद्यते । कुतः? दर्शनात् । दृश्यते हि वागिन्द्रिये उपस्तेऽपि मनःप्रवृत्तिः । वृत्तिमात्रसम्पत्त्य्ापि तदुपपद्यत इति चेत्तत्राह- शब्दाच्च इति । “वाङ्मनसि सम्पद्यते” इति वाक्स्वरूपसंदत्तावेव हि शब्दो न वृत्तिमात्रसम्पत्तौ । न हि तदानीं वृत्त्युपरमे वागिन्द्रियं प्रमाणा4न्तरेणोपलभ्यते, येन वृत्तिमात्रं संपद्यत इत्युच्येत । यदुक्तं मनसो वाक्प्रकृतित्वाभावाद्वाचो मनसि संपत्तिर्नोपपद्यत इति; तत् “वाङ्मनसि सम्पद्यते” इति वचनान्मनसा वाक् संयुज्यते न तु तत्र लीयत इति परिहर्तव्यम् ॥ 1 ॥

यतो वाचो मनसा संयोगमात्रं सम्पत्तिर्न तु लयः; अत एव वाचमनु सर्वेषामिन्द्रियाणां मनसि सम्पत्तिश्रुति

रुपपद्यते, “तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः” इति ॥ 2 ॥

॥ वागधिकरणं समाप्तम् ॥