11 इतरक्षपणाधिकरणम्

ययोः पुण्यपापयोरश्लेषविनाशावुक्तौ । ताभ्यामितरे आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने? उत तच्छरीरावसाने? शरीरान्तरावसाने वेत्यनियमः? इति संशये, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये” इति तच्छरीरविमोक्षावसानत्वश्रवणात्तदवसाने इति प्राप्त उच्यते- भोगेन तु इति । तुशब्दः पक्षव्यावृत्त्यर्थः, इतरे आरब्धकायर्े पुण्यपापे स्वारब्धफलभोगेन क्षपयित्वा तत्फलभोगसमाप्त्यनन्तरं ब्रह्म सम्पद्यते । ते च पुण्यपापे एकशरीरोपभोग्यफल चेत् , तच्छरीरावसाने सम्पद्यते, अनेकशरीरोपभोग्यफले चेत् तदवसाने सम्पद्यते, भोगेनैव च क्षपयितव्यत्वादारब्धफलयोः

कर्मणोः । “तस्य तावदेव चिरं यावन्न विमोक्ष्ये” इति च भोगेन तयोः कर्मणोर्विमोक्ष उच्यते, देहावधिनियमाश्रवणात् । तदेवं ब्रह्मविद्यायाः प्रागनुष्ठितमभुक्तफलमनारब्धफलं पुण्यपापरूपं कर्मानादिकालसञ्चितमनन्तं विद्यामाहात्म्याद्विनश्यति । विद्यारम्भोत्तरकालमनुष्ठितञ्च न श्लिष्यति । तत्र पुण्यरूपं सर्वं विदुषः सुहृदो गृह्यन्ति, पापं च द्विषन्त इति निरवद्यम् ॥ 19 ॥

॥ इतरक्षपणाधिकरणं समाप्तम् ॥

॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य प्रथमः पादः ॥