10 अग्निहोत्राद्यधिकरणम्

“इतरस्याऽप्येवमसंश्लेषः” इति विद्यावलात्सुकृतस्याप्यसंश्लेष उक्तः, अग्निहोत्रादीनां नित्यनैमिविकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादनिच्छतोऽननुष्ठाने प्राप्ते उच्यते- अग्निहोत्रादि तु इति । तुशब्दः सुकृतान्तरेभ्यो विशेषणार्थः, अग्निहोत्राद्याश्रमधर्माः फलाश्लेषासम्भवादनुष्ठेया एव, तदसम्भवश्च तत्कार्यार्थत्वात्तेषाम्, विद्याख्यकार्यायैव हि विदुषोऽग्निहोत्राद्यनुष्ठानम्, कथमिदमवगम्यते? तद्दर्शनात्, दृश्यते हि “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इत्यादिनाऽग्निहोत्रादीनां विद्यासाधनत्वं विद्यायाश्चाप्रयाणादभ्यासाधेयातिशयाया अहरहरुत्पाद्यत्वात्तदुत्पत्त्यर्थमाश्रमकर्माप्यहरहरनुष्ठेयमेव, अन्यथाऽऽश्रमकर्मलोपे दूषितान्तःकरणस्य विद्योत्पत्तिरेव न स्यात् । यदि अग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्थाः, विद्योत्पत्तेः प्राचीनं च सुकृतं “यावत्सम्पातमुषित्वा” “प्राप्यान्तं कर्मणः” इत्यनुभवेन विनष्टम्; भुक्तशिष्टं च प्रारब्धफलं “सुहृदः साधुकृत्याम्” इत्यस्य को विषयः? तत्राह- ॥ 16 ॥

अतोऽग्निहोत्रादिसाधुकृत्याया विद्योत्पत्त्यर्थाया अन्यापि विद्याधिगमात् पूर्वोत्तरयोरुभयोरपि पुण्यकर्मणोः प्रबलकमर्प्रतिबद्धफला साधुकृत्याऽनन्ता सम्भवत्येव, तद्विषयमिदमेकेषां शाखिनां वचनम् “तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्या” मिति । विद्याऽश्लेषविनाशुश्रुतिश्च तद्विषया । अनुषिंतस्यापि कर्मणः फलप्रतिबन्धसम्भवं पूर्वोक्तं स्मारयति - ॥ 17 ॥

“यदेव विद्यया करोति तदेव वीर्यवत्तरम्” इत्युद्गीथविद्यायाः क्रतुफलाप्रतिबन्धफलत्ववचनेनानुष्ठितस्यापि कर्मणः ढफलप्रतिबन्धः सूच्यते हि । अतो विदुषोऽनुष्ठितप्रतिबद्धफलविषयं “सुहृदः साधुकृत्याम्” इति शाट्यायनिम् ॥ 18 ॥

॥ अग्निहोत्राद्यधिकरणं समाप्तम् ॥