ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोः सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ; ततः पूर्वभाविनोः सूकृतदूुष्कृतयोः किमविशेषेण विनाशः? उतानारब्धकार्ययोरेवेति विशये “सर्वे पाष्मानः प्रदूयन्ते” इति विद्याफलस्याविशषश्रवराद्विद्योत्पत्त्युत्तरकालभावन्याश्च शरीरस्थितेः कुलालचक्रभ्रमणादिवत्संस्कारवशादप्युपपत्तेरविशेषेण
इति प्राप्ते उच्यते- अनारब्धकार्ये एव तु पूर्वे इति । विद्योत्पत्तेः पूर्वे सुकृतदुष्कृते अनारब्धकार्ये अप्रवृत्तफले