उत्तरपूर्वार्धयोर्विद्ययाऽश्रलेषविनाशावुक्तौ, इतरस्य पुण्यस्यापि, एवम् उक्तेन न्यायेनाश्लेषविनाशौ विद्यया स्याताम्, विद्याफलविरोधित्वसामान्याद्वयपदेशाच्च । भवति च व्यपदेशः- उभे सुकृतदुष्कृते निर्दिश्य “सर्वे पाप्मानोऽतो निवत्तर्न्ते” इति, “तत्सुकृतदुष्कृते धूनुते” इति च मुमुक्षोरनिष्टफलत्वात्सुकृतस्यापि पाष्मशब्देन व्यपदेशः । सुकृतस्यापि शास्त्रीयत्वात्तत्फलस्य केषांचिदिेयत्वदर्शनाच्च विद्याया अविरोधशङ्कां निवर्तयितुमतिदेशः । ननु विदुषोऽपि सेतिकतर्व्यताकोपासननिर्वृत्तये वृष्टयन्नादिफलानीष्टान्येव; कथं तेषां विरोधाद्विनाश उच्यते; तत्राह- पाते तु इति । शरीरपाते तु तेषां विनाशः, शरीपाताद्वर्ध्वं तु विद्यानुगुणदृष्टफलानि सुकृतानिनश्यन्तीत्यर्थः ॥ 14 ॥
॥ इतराधिकरणं समाप्तम् ॥