07 तदधिगमाधिकरणम्

एवं विद्यास्वरूपं विशोध्य विद्याफलं चिन्तयितुमारभते; ब्रह्मविद्याप्राप्तौ पुरुषस्योत्तरपूर्वाधयोरश्लेपविनाशौ श्रूयेते “तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते” “तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन” इत्युत्तराघाश्लेषः, “तद्यथेषीकतूलमग्नौ

प्रोतं प्रदूयेतैवं हास्य सर्वे पाष्मानः प्रदूयन्ते” “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” इति पूर्वाधविनाशः । एतावश्लेषविनाशौ विद्याफलभूतावुपपद्येते, नेति संशयः । किं युक्तम्? नोपपद्येते इति । कुतः “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इत्यादिशास्त्रविरोधात् । अश्लेषविनाशव्यपदेशस्तु मोक्षसाधनभूतविद्याविधायिवाक्यशेषगतः कथञ्चिद्विद्यास्तुतिप्रतिपादनेनाप्युपपद्यते । न च विद्या पूर्वोत्तराधयोः प्रायश्चित्ततया विधीयते; येन प्रायश्चित्तेनाधविनाश उच्यते । विद्या हि “ब्रह्मविदाप्नोति परम्” “ब्रह्म वेद ब्रह्मैव भवति” इति ब्रह्मप्राप्त्युपायतया विधीयते । अतो विद्यार्थवादोऽयमधविनाशाश्लेषव्यपदेश इति । एवं प्राप्तेऽभिधीयते- तदधिगमे इति । विद्याप्राप्तौ पुरुषस्य विद्यामाहात्म्यादुत्तरपूर्वाधयोरश्लेषविनाशावुपपद्यते; कुतः? एवंविधं हि विद्यामाहात्म्यवगम्यते “एवंविदि पापं कर्म न श्लिष्यते” “एवं हास्य सर्वे पाष्मानः प्रदूयन्ते” इत्यादिव्यपदेशात् । न च “नाभुक्तं क्षीयते कर्म” इत्यनेन शास्त्रेणास्य विरोधः, भिन्नविषयत्वात् । तद्धि कर्मणां फलजननसामथ्यर्द्गढिमविषयम्; एतत्तूत्पन्नाया विद्यायाः प्राक्कृतानां पाष्मनां फलजननशक्तिविनाशसामर्थ्यम् उत्पत्स्यमानानां च फलजननशक्तयुत्पत्तिप्रबन्धकरणसामर्थ्यं च प्रतिपादयतीति द्वयोर्विषयो भिद्यते । यथाऽग्निजलयोरौष्ण्यतन्निवारणप्तामर्थ्यविषययोर्द्वयोः प्रमाणयोरपि विषयभेदात्प्रामाण्यम्, एवमात्रापीति न कश्चिद्विरोधः । अधस्याश्लेषकरणं- वैदिककर्मायोग्यतावासनाप्रत्यवायहेतुशक्त्युत्पत्तिप्रतिबन्धकरणम् । अधानि हि कृतानिपुरुषस्य वैदिककर्मायोग्यतां, सजातीयकर्मान्तरारम्भरुचिं, प्रत्यवायं च कुर्वन्ति । अधस्य

विनाशकरणम्- उत्पन्नायास्तच्छक्तेर्विनाशकरणम् । शक्तिरपि परमपुरुषाप्रीतिरेव । तदेवं विद्या वेदितुर्वेद्यात्यथप्रियत्वेन स्वयमपि निरतिशयप्रिया सती वेद्यभूतपरमपुरुषाराधनस्वरूपा पूर्वकृताधसञ्चयजनितपरमपुरुषाप्रीतिं विनाशयति; सैव विद्या स्वोत्पत्त्युत्तरकालभाव्यधनिमिवपरमपुरुषाप्रीत्युत्पत्तिं च प्रतिबध्नाति । तद्विदमश्लेषवचनं प्रामादिकविषयं मन्तव्यम्, “नाविरतो दुश्चरितात्” इत्यादिभिः शास्त्रैराप्रायणादहरहरुत्पद्यमानाया उत्तरोत्तरातिशयभागिन्याः विद्यायाः दुश्चरितविरतिनिष्पाद्यत्वावगमात् ॥ 13 ॥

॥ तदधिगमाधिकरणं समाप्तम् ॥