तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव सम्पाद्यम्, उताऽऽप्रयाणात्प्रत्यहमनुवर्तनीयमिति विशय - एकस्मिन्नवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम् इति प्राप्त उच्यते - आप्रयाणात् इति ।
आमरणादनुवर्तनीयम्, कुतः? तत्रापि हि दृष्टम्- उपासनोद्योगप्रभृत्याप्रयाणान्मध्ये यः कालस्तत्र सर्वत्रापि दृष्टमुपासनम् “स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते” इति ॥ 12 ॥
॥ आप्रयाणाधिकरणं समाप्तम् ॥