05 आसीनाधिकरणम्

मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं सन्ततस्मृतिरूपमित्युक्तम्, तदनुतिष्ठन्नासीनः शयानः तिष्ठन् गच्छंश्च विशेषाभावादनियमेनानुतिष्ठेन् इति प्राप्त उच्यते -आसीनः इति । आसीन उपासनमनुतिष्टेत्; कुतः? सम्भवात् आसीनस्यैवह्येकाग्रचित्त

तासम्भवः; स्थितिगत्योः प्रयत्नसापेक्षत्वात्, शयाने च निद्रासम्भवात् । पश्चार्धधारणप्रयत्ननिवृत्तये सापाश्रये आसीनः कुर्यात् ॥ 7 ।

“निदिध्यासितव्यः” इति ध्यानरूपत्वादुपासनस्यैकाग्रचित्तताऽवश्यम्भाविनी, ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितमेकचिन्तनमित्युक्तम् ॥ 8 ॥

निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्षादिषु ध्यानवाचोयुक्तिर्दृश्यते “ध्यायातीव पृथिवी, ध्यायतीवान्तरिक्षं, ध्यायतीव द्यौः, ध्यायन्तीवापो, ध्यायन्तीवपर्वताः” इति । अतः पृथिवीपर्वतादिवदेकाग्रचित्ततयानिश्चलत्वमुपासकस्यासीनस्यैव सम्भवात् ॥ 9 ॥

स्मरन्ति चासीनस्यैव ध्यानं “शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युछ्रिच्तं नातिनीचं चेलाजिनकुशोत्तरम् । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये” इति ॥ 10 ॥

एकाग्रतातिरिक्तदेशकालविोषाश्रवणादेकाग्रतानुकूलो यो देशः कालश्च, स एवोपासनस्य देशः कालश्च ।

“समे शुचौ शर्करावन्हिवालुकाविवर्जिते” इति वचनमेकाग्रतैकान्तदोमाह, न तु देशं नियच्छति, “मनोऽनुकूले” इति वाक्यशेषात् ॥ 11 ॥

॥ आसीनाधिकरणं समाप्तम् ॥