“य एवासौ तपति तमुद्गीथमुपासीत” इत्यादिषु कर्माङ्गाश्रयेषूपासनेषु संशयः- किमुद्गीथदौ कर्माङ्गे आदित्यादिदृष्टिः कतर्व्या? उतादित्यादिषूद्गीथादिदृष्टिरिति, उत्कृष्टदृष्टिर्निकृष्टे कतर्व्येति न्यायात् उद्गीथादीनां च फलसाधनभूतकर्माङ्गत्वेनाफलेभ्य आदित्यादिभ्य उत्कृष्टत्वादादित्यादिषूद्गीथादिदृष्टिः- इति प्राप्तेऽभिधीयते- आदित्यादिमतयश्चाङ्गे इति चशब्दोऽवधारणे, क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कायाः, कुतः? उपपत्तेः- आदित्यादीनामेवोत्कृष्टत्वोपपत्तेः, आदित्यादिदेवताराधनद्वारेण हि कमर्णामपि फलसाधनत्वम्, अतस्तद्दृष्टिरुद्गीथाद्यङ्गे ॥ 6 ॥
॥ आदित्यादिमत्यधिकरणं समाप्तम् ॥