03 प्रतीकाधिकरणम्

“मनो ब्रह्मेत्युपासीत” “स यो नाम ब्रह्मेत्युपास्ते” इत्यादिप्रतीकोपासनेष्वप्यात्मत्वानुसन्धानं कार्यम्? उत नेति चिन्तायां “मनो ब्रहामेत्युपासीत” इति ब्रह्मोपासनत्वसाम्यात् ब्रह्मणश्चोपासितुरात्मत्वादात्मेत्येवोपासीतेति । एवं प्राप्तेऽभिधीयते - न प्रतीके - इति । प्रतीके नात्मत्वानुसन्धानं कार्यं, न हि सः - न ह्युपासितुरात्मा प्रतीकः । प्रतीकोपासनेषु प्रतीक एवोपास्यः, न ब्रह्म, ब्रह्म तु तत्र दृष्टिविशेषणमात्रं, प्रतीकोपासनं हि नाम अब्रह्मणि ब्रह्मदृष्टयाऽनुसन्धानम्, तत्रोपास्यस्य प्रतीकस्योपासित्रात्मत्वाभावान्न तताऽनुसन्धेयम् । नन्वत्रापि ब्रह्मैबोपास्यम् - ब्रह्मण उपास्यत्वसम्भवे मन आदीनामचेतनानामल्पशक्तीनां चोपस्यत्वाश्रयणस्यान्याय्यत्वात्, अतो मन

आदिदृष्टया ब्रह्मैवोपास्यमिति तत्राह- ॥ 4 ॥

मन आदिषु ब्रह्मदृष्टिरेव युक्ता, न ब्रह्मणि मन आदिदृष्टिः, ब्रह्मणो मन आदिभ्य उत्कर्षात्, तेषाञ्च विपर्ययात्, उत्कृष्टे हि राजनि भृत्यदृष्टिः प्रत्यवायकरी, भृत्ये तु राजदृष्टिरभ्युदयाय ॥ 5 ॥

॥ प्रतीकाधिकरणं समाप्तम् ॥