02 आत्मत्वोपासनाधिकरणम्

इदमिदानीं चिन्त्यते- किमुपास्यं ब्रह्मोपादितुरन्यत्वेनोपास्यम्? उतोपासितुरात्मत्वेनेति । किं युक्तम्? अन्यत्वेनेति । कुतः? उपासितुः प्रत्यगात्मनोऽर्थान्तरत्वात् ब्रह्मणः । अर्थान्तरत्वं च “अधिकन्तु भेदनिर्देशात्” “अधिकोपदेशात्” “नेतराऽनुपपत्तेः” इत्यादिषूपपादितम् । यथावस्थितञ्च ब्रह्मोपास्यम्, अयथोपासने हि ब्रह्मप्राप्तिरप्ययथाभूता स्यात् । “यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति” इति न्यायात् । अतोऽन्यत्वेनोपास्यमिति ॥

एवं प्राप्तेऽभिधीयते- आत्मेति तु इति । तुशब्दोऽवधारणे, उपासितुरात्मेत्येवोपास्यम्; उपासिता प्रत्यगात्मा स्वशरीरस्य स्वयं यथाऽऽत्मा; तथास्वात्मन्रोपि परं ब्रह्मात्मेत्येवोपासीतेत्यर्थः । कुत? एवं ह्युपगच्छन्ति पूर्वे उपासितारः “त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि” इति । उपासितुरर्थान्तरभूतं ब्रह्मोपासितारोऽहमिति कथमभ्युपगच्छन्तीत्यत्राह- “ग्राहयन्ति शास्त्राणि तान्प्रत्युपपादयन्तीत्यर्थः । “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरे यमयति स त आत्म्म्रन्तर्याम्यमृतः” इति; तथा “सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः एतदात्म्यमिदं सर्वम्” “सर्वं खल्विदं ब्रह्म तज्जलानिति” इति च सर्वस्य चिदचिद्वस्तुनः तज्जत्वात्तल्लत्वात्तदनत्वात्तन्नियाम्यत्वात्तच्छरीरत्वाच्च सर्वस्यायमात्मा; अतः स त आत्मा; अतो यथा प्रत्यगात्मनः स्वशरीरं प्रत्यात्मत्वाद्देवोऽहं मनुष्योऽहमित्यनुसन्धानम्; तथा प्रत्यगात्मनोऽप्यात्मत्वात्परमात्मनस्तस्याप्यहमित्येवानुसन्धानं युक्तमिति । एवं शास्त्रैरुपपादितं सर्वबुद्धीनां ब्रह्मैकनिष्ठत्वेन सर्वशब्दानां ब्रह्मैकनिष्ठत्वमभ्युपगच्छन्तः “त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते” इति व्यतिकरेणोक्तवन्तः । एवं च “अथ यो ऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद अकृत्स्नो ह्येप आत्मेत्येवोपासीत” “सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं

वेद” इत्यन्यत्वानुसन्धाननिषेधः “पृथगात्मानं प्रेरितारं च मत्वा” इति पृथकत्वानुसन्धानविधानं चाविरुद्धम्, अहमिति स्वात्मतयाऽनुसन्धानादन्यत्वानुसन्धानविषेधो रक्षितः, स्वशरीरात् स्वात्मनोऽधिकत्वानुसन्धानवत्स्वात्मनोऽपि परमात्मनोऽधिकत्वानुसन्धानवत्स्वात्मन्रोपि परमात्मनोऽधिकत्वानुसन्धानात्पृथकत्वानुसन्धानविधानं च रक्षितम् । अधिकस्य ब्रह्मणः प्रत्यगात्मन आत्मत्वात्तस्य च ब्रह्मशरीरत्वान्निषेधवाक्येऽकृत्स्नो ह्येष इत्युक्तम् । अत उपासितुरात्मत्वेन ब्रह्मोपास्यमिति स्थितम् ॥ 3 ॥

॥ आत्मत्वोपासनाधिकरणं समाप्तम् ॥