तृतीयेऽध्याये साधनैः सह विद्या चिन्तिता अथेदानीं विद्यास्वरूपविशोधनपूर्वकं विद्याफलं चिन्त्यते । तत्र “ब्रह्मविदापनोति परम्” “तमेवं विदित्वाऽतिमृत्युमेति” “ब्रह्म वेद ब्रह्मैव भवति” “यदा पश्यः पश्यते रुक्मवर्णम्” इत्यादिवेदान्तवाक्येषु ब्रह्मप्राप्तिसाधनतया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः? उत असकृदावृत्तमिति संशयः । किं युक्तम्? सकृत्कृतमिति “ब्रह्म वेद ब्रह्मैव भवति” इति वेदनमात्रस्यैव विधानादसकृदावृत्तौ प्रमाणाभावात् । न चावधातादिवेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वात् यावत्कार्यमावृत्तिरिति शक्यं वक्तुम्, वेदनस्य दृष्टोपायत्वाभावात् । ज्योतिष्टोमादिकर्माणि वेदान्तविहितं च वेदनं परमपरुषाराधनरूपम्, आराधिताच्च परमपुरुषाद् धर्मार्थकामोक्षाख्यपुरुषार्थावाप्तिरिति हि “फलमत उपपत्तेः” इत्यत्र प्रतिपादितम् । अतो ज्यातिष्योमादिवद्यथाशब्दं सकृत्कृतमेव शास्त्रार्थः -
इति प्राप्ते प्रचक्ष्महे- आवृत्तिरसकृदिति । असकृदावृत्तमेव वेदनं शास्त्रार्थः, कुतः? उपदेशात्- ध्यानोपासनपर्यायेण वेदनोपदेशात्, तत्पर्य्यायत्वं च विद्युपास्तिध्यायतीनामेकस्मिन् विषये वेदनोपदेशपरवाक्येषु प्रयोगादवगम्यते । तथा हि “माने ब्रह्मेत्युपासीत” इत्युपासिनोपक्रान्तोऽर्थः “भाति ना तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद” इति विदिनोपसंह्रियते, तथा “यस्तद्वेद यत्स वेद स मयैतदुक्तः” इत्युपक्रमेविदिनोक्तं रैक्कस्य ज्ञानम् “अनु म एताम्भगवोदेवतां शाधि यां देवतामुपास्से” इत्युपासिनोपसंह्रियते; तथा “ब्रह्मविदाप्नोति परम्” सत्यादिवाक्यसमानार्थेषु वाक्येषु “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इत्यादिषु ध्यायतिना वेदनमभिधीयते । ध्यानं च चिन्तनम्; तच्च स्मृतिसन्ततिरूपम्ः न स्मृतिमात्रम्; उपा
स्तिरिप तदेकार्थः, एकाग्रचित्तवृत्तिनैरर्न्त्ये प्रयोगदर्शनात्; तदुभयैकार्थ्यादसकृदावृत्तसन्ततस्मृतिरिह “ब्रह्म वेद ब्रह्मैव भवति” “ज्ञात्वा देवं मुच्यते सर्वपाशैः” इत्यादिषु वेदनादिशब्दैरभिधीयत इति निश्चीयते ॥ 1 ॥
लिङ्गं- स्मृतिः । स्मृतेश्चायमर्थोऽवगम्यते । समर्थ्यते हि मोक्षसाधनभूतं वेदनं स्मृतिसन्ततिरूपम् । “तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्स्पृहा । तध्द्यानं प्रथमैः षड्भिरङ्गैर्निष्पाद्यते तथा” इति । तस्मादसकृदावृत्तमेव वेदनं शास्त्रार्थः ॥
॥ आवृत्त्यधिकरणं समाप्तम् ॥