55 मुक्तिफलाधिकरणम्

मुक्तिफलस्याप्युपासनस्य स्वासाधनभूतैरतिशयितकर्मभिरुत्पत्तावेवमेव कालानियमः; तस्याऽपि पूर्ववत्प्रतिबन्धाभावप्रतिबन्धसमाप्तिरूपावस्थावगतेः- अत्रापि तस्य हेतोः समानत्वादित्यर्थः । सर्वेभ्यः कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मणः प्रबलत्वात्प्रतिबन्धासम्भव इत्यधिकाशङ्का । तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां सम्भवात् प्रबिन्धसम्भव इति परिहारः । द्विरुक्तिरध्यायपरिसमाप्ति द्योतयति ॥ 51 ॥

॥ मुक्तिफलाधिकरणं समाप्तम् ॥

॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यास्य चतुर्थः पादः ॥