द्विविधा विद्या- अभ्युदयफला मुक्तिफला च । तत्राभ्युदयफला स्वसाधनभूतैः पुण्यकर्मभिः पुण्यकर्मानन्तरमेवोत्पद्यते? उतानन्तरं? कालान्तरे वेत्यनियम इति संशयः । पूर्वकृतैः पुण्यकर्मभिर्हि विद्वान् जायते; यथोक्तं भगवता “चतुविर्धा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन” इति । साधने निर्वृत्ते विलम्बहेत्वभावात् अनन्तरमेव इति प्राप्त उच्यते- ऐहिकमप्रस्तुतप्रतिबन्धे इति । ऐहिकम्- अभ्युदयफलमुपासनम्, ्रतिबन्धे सत्यनन्तरम्, प्रतिबन्धे सति तदुत्तरकालमित्यनियमः । कुतः? तद्दर्शनात्- दृश्यते हि प्रबलकर्मान्तरेण कर्मफलप्रतिबन्धाभ्युपगमः श्रुतौ “यदेव विद्यया करोति श्रुद्धयोपनिषदा तदेव वीर्यवत्तरम्” इत्युद्गीथविद्यायुक्तस्य कर्मणः फलाप्रतिबन्धश्रवणात् ॥ 50 ॥
॥ ऐहिकाधिकरणं समाप्तम् ॥