“तस्माद्व्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इत्यत्र विदुषां बाल्यमुपादेयतया श्रुतम् । बालस्य भावः, कम्मर् वा बाल्यम् । बालभावस्य वयोवस्थाविशेषस्यानुपादेयत्वात् कम्मैवेह गृह्यते । तत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्? उत दम्भादिरहितत्वमेवेति विषये विशेषाभावात्सर्वमुपादेयम्; नियमशास्त्राणि च विशेषविधिनाऽनेन बाध्यन्त इति । एवं प्राप्तेऽभिधीयते- अनाविष्कुवर्न् इति । बालस्य यत्स्वभावानाविष्काररूपं कर्म्म तदुपाददानो वर्त्तेत विद्वान्; कुतः? अन्वयात्- तस्यैवान्वयात्, “बाल्येन तिष्ठासेत्” इत्यस्मिन् विधौ तस्यैव ह्यन्वयसम्भवः, इतरेषशं विद्याविरोधित्वश्रवणात्, “नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्” । “आहारशुद्धौ सत्त्वशुद्धिः” इत्यादिषु ॥ 49 ॥
॥ अनाविष्काराधिकरणं समाप्तम् ॥