कर्माङ्गश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्त्तृकाणि? उतर्त्विक्कर्तृकाणीति चिन्तायां यजमानकर्त्तृकाणक्षत्यात्रेयो मन्यते, कुतः? फलश्रुतेः- वेदान्तविहितेषु तहराद्युपासनेषु फलोपासनयोरेकाश्रयत्वदर्शनादिह च क्रतुफलाप्रतिबन्धरूपस्योद्गीथोपासनफलस्य यजमानाश्रयत्वश्रवणादित्यर्थः । न च गोदोहनाधिवदङ्गाश्रयत्वेन यजमानकर्तृकत्वासम्भवः, गोदोहनादिषु ह्यध्वर्युकर्तृकप्रणयनाश्रयगोदोहनोपादानमन्येनाशक्यम्, इह तूद्गातअकर्तृकेऽप्युद्गीथे तस्योद्गीथादेः रसतमत्वानुसन्धानं यजमानेनैव कर्त्तुं शक्यते ॥ 44 ॥ इति प्राप्तेऽभिधीयते-
आर्त्विज्यम्- ॠत्विजः कर्मोद्गीथाद्युपासनमित्यौडुलोमिराचार्यो मन्येत; कुतः तस्मै हि प्रयोजनायर्त्विक्
परिक्रियते, फलसाधनभूतस्य साङ्गस्य क्रतोरुपादानायेत्यथर्ः । कर्मविधिषु “ॠत्विजोवृणीते” “ॠत्विग्भ्यो दक्षिणां ददाति” इति ॠत्विक्कर्तृकत्वशास्त्रेण फलसाधनभूतं साङ्गं कमर् ॠत्विग्भिरनुष्ठेयमित्यवगम्यते; तदन्तर्गतानि कायिकानि मानसानि च कर्माणि ॠत्विक्कर्तृकाण्येव । न च शकत्यशक्ती तस्य निबन्धनम् । यद्यप्युद्गीथाद्युपासनं पुरुषार्थः, तथाऽपि क्रत्वधिकृताधिकारत्वात् क्रतोश्च साङ्गस्य ॠत्विक्कर्तृकत्वात् “यदेव विद्ययाकरोति तदेव वीर्य्यवत्तरम्” इति ॠत्क्कितर्ृकक्रियोपयोगित्वेन विद्यायास्तदेककर्तृकत्वश्रवणादृत्वि
क्कर्तृकाण्येतानि; दहरादिषूपासनेषु ॠत्विक्कर्तृकत्वाश्रवणात् “शास्त्रफलं प्रयोक्तरि” इति न्यायाच्च फलिकर्तृकत्वमेव ॥ 45 ॥
॥ स्वाम्यधिकरणं समाप्तम् ॥