नैष्ठिक-वैखानस-परिव्राजकाश्रमेभ्यः प्रच्युतानाम् अपि
ब्रह्मविद्यायाम् अधिकारोऽस्ति, नेति चिन्तायां
विधुरादिवद् अनाश्रमैकान्तैर् दानादिभिर् विद्यानुग्रह-सम्भवाद्
अस्त्य् अधिकारः - इति प्राप्त उच्यते
तद्भूतस्य तु नातद्भावः इति ।
तु-शब्दः पक्ष-व्यावृत्यर्थः ।
तद्भूतस्य नैष्ठिकाद्य्-आश्रम-निष्ठस्य,
नातद्भावः- अतथाभावः,
अनाश्रमित्वेनावस्थानं न सम्भवति।
कुतः?
तद्रूपाभावेभ्यो नियमात् तद्रूपाणि-
तेषां नैष्ठिकादीनां रूपाणि, वेषाः धर्मा इत्यर्थः।
तेषामभावाः- तद्रूपाभावाः; तेभ्यः शास्त्रैर् नियमात् ।
नैष्ठिकाद्य्-आश्रम-प्रविष्टान्
स्वाश्रम-धर्म-निवृत्तिभ्यो
नियच्छन्ति हि शास्त्राणि
“ब्रह्मचार्याचार्य-कुलवासी तृतीयो
ऽत्यन्तम् आत्मानम् आचार्य-कुले ऽवसादयन्”
इति,
“अरण्यम् इयात् - ततो न पुनरेयात्” इति
“संन्यस्याग्निं न पुनर् आवर्त्तयेत्”
इति च ।
अतो विधुरादिवन् नैष्ठिकादीनाम् अनाश्रमित्वेनाऽवस्थानासम्भवान्
न तान् अधिकरोति ब्रह्मविद्या ।
जैमिनेर् अपीत्य् अविगानं दशर्यन्न् उक्तं स्वाभिमतं द्रढयति ।
अथ स्यात् नैष्ठिकादीनां ब्रह्मचर्य्यात् प्रच्युतानां
प्रायश्चित्ताद् अधिकारः सम्भवति,
अस्ति च प्रायश्चित्तम् अधिकार-लक्षणे निरूपितम्
“अवकीर्णिपशुश् च तद्-वत” इति ।
अतः प्रच्युत-ब्रह्मचर्य्यस्य प्रायश्चित्त-सम्भवात्
कृतप्रायश्चित्तो ब्रह्म-विद्यायाम् अधिकरिष्यति इति; तत्राह - ॥ 40 ॥
अधिकारलक्षणोक्तमपि प्रायश्चित्तं नैषिंकादीनां ततो भ्रष्टानां न सम्भवति; कुतः? पतनानुमानात् तदयोगात् - नैष्ठिकादीनां प्रच्युतानां पतनानुमानात् तदयोगात् नैषिंकादीनां प्रच्युतानां पतनस्मृतेस्तस्य प्राश्चित्तस्यासम्भवात् “आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विजः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा” इति । अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्मचारिविषयम् ॥ 41 ॥
नैष्ठिकादीनां ब्रह्मचर्य्यप्रच्यवनमुपपूर्वम्- उपपातकम्, महापातकेष्वपरिगणितत्वादिति तत्र प्रायश्चित्तस्य भावं विद्यमानतामष्येके आचार्या मन्यन्ते; अशनवत् - यथा मध्वशनादिनिषेधस्तत्प्रायश्चित्तं चोपकुर्वा
णस्य नैष्ठिकादीनां च समानम्; तदक्तं स्मृतिकारैः “उत्तरेषां चैतदविरोधि” इति । गुरुकुलवासिना यदुक्तम्, तत्स्वाश्रमाविरोध्युत्तरेषामप्याश्रमिणां सम्भवतीत्यर्थः तद्वदिहापि । ब्रह्मचर्य्यप्रच्यवने प्रायश्चित्तसम्भवाद्व्रह्मविद्यायोग्यताऽप्यस्ति ॥ 42 ॥
तुशब्दो मतान्तरव्यावृत्त्यर्थः । उपपातकत्वे महापातकत्वेऽप्येते वहिर्भूता एव ब्रह्मविद्यादिकारिभ्यः; ब्रह्मविद्यायामनधिकृता इत्यर्थः । कुतः? स्मृतेः- पूर्वोक्तात् पतनस्मरणात् । यद्यपि कलुषनिर्हरणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारो विद्यते, तथाऽपि कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवति, “प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा” इति स्मृतेरित्यर्थः । आचाराच्च- शिष्टा हि नैष्ठिकादीन्भ्रष्टान् कृतप्रायश्चित्तानपि वर्ज्जयन्ति, तेभ्यो ब्रह्मविद्यादिकं नोपदिशन्ति; अतस्तेषां नास्ति ब्रह्मविद्यायामधिकारः ॥ 43 ॥
॥ तद्भूताधिकरणं समाप्तम् ॥