49 विधुराधिकरणम्

चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारोस्ति; विद्यासहकारिण आश्रमधर्मा इति चोक्तम् । ये पुनराश्रमानन्तरा चर्तन्ते विधुरादयः; तेषां ब्रह्मविद्यायामधिकार्रोस्ति नवेति विषये आश्रमधर्मेतिकर्त्तव्यताकत्वाद्विद्यायाः, अनाश्रमिणां चाश्रमधर्माभावान्नास्त्यधिकारः इति प्राप्त उच्यते- अन्तरा चापि तु इति । तु शब्दः पक्षव्यावृत्त्यर्थ।, चशब्दोऽवधारणे । अन्तरावर्त्तमानानाम्- अनाश्रमिणामपि विद्यायामधिकारोऽस्त्येव। कुतः? तद्दृष्टेः- दृश्यते हि रैक्वभीष्मसंवर्तादीनामनाश्रमिणामपि ब्रह्मविद्यानिष्ठत्वम् । न चाश्रमधर्मैरेव विद्यानुग्रह इति शक्यं वक्तुम् “यज्ञेन दानेन तपसानाशकेन” इति दानादीनामाश्रमेष्वनैकान्तिकानामप्यनुग्राहकत्वदर्शनात् । यथोध्वर्रेतस्सु विद्यानिष्ठत्वदशॅनादग्निहोत्रादिव्यतिरिक्तैरेव विद्यानुग्रहः क्रियते, तथाऽनाश्रमिष्वपि विद्यादर्शनादाश्रमानियतैजर्पोषवासदानदेवताराधनादिभिर्विद्यानुग्रहः शक्यते कर्त्तुम् ॥ 36 ॥

अपि चानाश्रमिणामपि जषादिभिरेव विद्यानुग्रहः स्मर्यते “जष्येनापि च संसिद्धयेद्व्राह्मणो नात्र संशयः ।

कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते” इति; संसिद्ध्येत्- जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः ॥ 37

न केवलं न्यायस्मृतिभ्यामयमर्थः साधनीयः । नूयते चानाश्रमनियतैधर्मर्म्मविशेषैर्विद्यानुग्रहः “तपसा ब्रह्मचर्येण श्रद्धया विद्यवाऽऽत्मानमन्विष्येत्” इति ॥ 38 ॥

तुशब्दोऽवधारणे । अतः- अनाश्रमित्वात्, इतरत् आश्रमित्वमेव ज्यायः; अनाश्रमित्वमापद्विषयम्; शक्तस्य चाश्रमित्वमेवोपादेयमित्यर्थः । भूयोधर्म्मकाल्पधर्म्मकयोरतुल्यकार्य्यत्वात्, लिङ्गाच्च- स्मृतेरित्यर्थः । स्मर्थ्यते च शक्तं प्रत्याश्रमस्योपादेयत्वम् “अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः” इत्यादिना । निवृत्तब्रह्मचर्यस्य मृतभार्य्यस्य चावैराग्ये सति दारालाभ आपत् ॥ 39 ॥

॥ विधुराधिकरणं समाप्तम् ॥