48 विहितत्वाधिकरणम्

यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम्, तानि च यज्ञादीनि कमर्ाण्यमुमुक्षुण केवलाश्र

मिणाऽप्यनुष्ठेयानि, उत नेति चिन्तायां, विद्याङ्गानां सतां केवलाश्रमिशेषत्वे नित्यानित्यसंयोगविरोधः प्रसज्यत इति यज्ञादीनां केवलाश्रमधर्मत्वं न सम्भवति इति प्राप्त उच्यते- “आश्रमकर्मापि इति । आश्रमस्यकर्मापि भवति; केलाश्रमिणामप्यनुष्ठेयानीत्यर्थः । कुतः? “यावज्जीवप्रग्निहोत्रं जुहोति” इत्यादिना विहिवत्वात्- जीवननिमित्ततया नित्यवद्विहितत्वादित्यर्थः । तथा विद्याङ्गतया च “तमेतं वेदानुवचनेत” इत्यादिना विहितत्वाद्विद्याशेषतयाऽप्यनुष्ठेयानीत्याह- ॥ 32 ॥

विद्योत्पत्तिद्वारेण विद्यासहकारितयाऽप्यनुष्ठेयानिः अग्निहोत्रादीनामिव जीवनाधिकारस्वार्गाधिकारवद्वि

नियोगपृथक्त्वेनोभयार्थत्वं न विरुद्ध्यत इत्यर्थः । तद्वदेव कर्मान्तरत्वमपि नास्तीत्याह - ॥ 33 ॥

सर्वथा विद्यार्थत्वे आश्रमार्थत्वेऽपि त एव यज्ञादय इति प्रतिपत्तव्यम्, न कर्मस्वरूपभेद इत्यर्थः । कुतः? उभयलिङ्गात्- उभयत्र श्रुतौ यज्ञादिशब्दैः प्रत्यभिज्ञाष्य विनियोगात्, कर्मस्वरूपभेदे प्रमाणभावाच्च ॥ 34 ॥

“धर्म्मेण पापमपनुदतिं” इत्यदिभिश्च तानेव यज्ञादिधर्म्मान्निर्द्दिश्य तैर्विद्याया अनभिभवं पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति । अहरहरनष्ठीयमानैर्हि यज्ञादिभिर्विशुद्धेऽन्तःकरणे प्रत्यहं प्रकृष्यमाणा विद्योत्पद्यते, अतस्ते एवोभयत्र यज्ञादयः ।

॥ विहितत्वाधिकरणम् समाप्तम्॥