वाजिनां छन्दोगानां च प्राणविद्यायाम् “न ह वा अस्यानन्नं जग्धं भवति नानन्नं परिगृहितं भवति” “न ह वा एवंविदि किञ्चनानन्नं भवति” इति प्राणविदः सर्वान्नानुमतिः सङ्कीत्यर्ते । किमियं प्राणविद्यानिष्ठस्य सर्वान्नानुमतिः सर्वदा, उत प्राणात्ययापत्ताविति विशये विशेषानुपादानात्सर्वदा इति प्राप्त उच्यते- प्राणात्यये इति । चशब्दोऽवधारणे, प्राणात्ययापत्तावेवेत्यर्थः । कुतः? तद्दर्शनात् दृश्यते ह्यन्यत्र ब्रह्मविदामपि प्राणात्ययापत्तावेव सर्वान्नाभ्यनुज्ञा, किं पुनः प्राणविदः । उषस्तः किल चाक्रायणो ब्रह्मविदग्रेसरो मटचीहतेषु कुरुषु दुर्भिक्षदूषितेष्विभ्यग्रामे वसन्ननशनेन प्राणसंशयमाषन्नो ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादमाकाङ्क्षमाण सभ्यं कुल्माषान् स्वादन्तं भिक्षमाणस्तेन चोच्छिष्टेभ्योऽन्ये न विद्यन्त
“आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” इति ब्रह्मविद्योत्पत्तावाहारशुद्धिविधानाबाधादपि ब्रह्मविदां सर्वान्नीनत्वमापद्विषयमवगम्यते । एवं ब्रह्मविदामतिशयितशक्तीनामपि सर्वान्नीनत्वस्यापद्विषयत्वात् प्राणविदोऽलपशक्तेः सर्वान्नानुमतिरापद्विषयैव ॥ 29 ॥
अपि चापद्विषयमेव सर्वान्नीनत्वं ब्रह्मविदामन्यषां च स्मयर्ते “प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा” इति ॥ 30 ॥
यतो ब्रह्मविदामन्येषां च सर्वान्नीनत्वमापद्विषयमेव; अत एव सर्वेषामकामकारे शब्दः कामकारस्य प्रतिषेधकः शब्दो वर्तते, अस्ति हि कठानां संहितायां कामकारस्य प्रतिषेधकः शब्दः, “तस्माद्व्राह्मणः सुरां न पिबति पाष्मना नोत्सृजा इति” इति । पाप्मना संम्पृष्टो न भवानीति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः ॥ 31 ॥
॥ सर्वान्नानुमत्याधिकरणं समाप्तम् ॥