46 शमदमाद्यधिकरणम्

गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि? उत नेति चिन्तायाम् - आन्तरवाह्यकरणव्यापाररूपत्वात्कर्मानुष्ठानस्य शमदमादीनां तद्विपरीतरूपत्वाच्चाननुष्ठेयानि इति प्राप्ते उच्यते - यद्यपि गृहस्थः करणव्यापाररूपकर्मसु प्रवृतः, तथाऽपि स विद्वान् शमदमाद्युपेतः स्यात्; कुतः? तदङ्गतया तद्विधेः- विद्याङ्गतया तेषां विधेः, “तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्” इति । विद्योत्पत्तेश्चित्तसमाधानरूपत्वेन दृष्टपरिकरत्वाच्छमादीनाम्, विद्यानिर्वृत्तये तेषां शमादीनामवश्यानुष्ठेयत्वाच्च तान्यप्यनुष्ठेयानि । न च करणव्यापारतद्विपर्ययरूपत्वेन कर्मणां शमदमादीनां च परस्परविरोधः, भिन्नविषयत्वात्- विहितेषु करणव्यापारः, अविहितेषु प्रयोजनशून्येषु च तदुपशम् इति । न च करणव्यापाररूपकर्मसु वर्त्तमानस्य वासनावशात् शमादीनामुपादेयत्वासम्भवः, विहितानां कर्मणां परमपुरुषाराधनतया तत्प्रसादद्वारेण निखिलविपरीतवासनोच्छेदहेतुत्वात् । अतो गृहस्थस्य शमदमादयोऽप्यनुष्ठेयाः ॥ 27 ॥ ॥ समदामाद्यधिकरणं समाप्तम् ॥