45 सर्वापेक्षाधिकरणम्

यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति; तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हति, यज्ञादिश्रुतिरपि “विविदिषन्ति” इति शब्दात् कर्मणो वेदनाङ्गतां न प्रतिपादयतीति अत आह- सर्वापेक्षा इति । यज्ञादिसर्वकर्मापेक्षैव विद्या कमर्वत्सुगृहस्थेषु, कुतः? यज्ञादिश्रुतेः, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” सत्यादिना यज्ञादयो हि विद्याङ्गत्वेन श्रूयन्त । यज्ञादिना विविदिषन्ति वेदितुमिच्छन्ति, यज्ञादिभिर्वेदनं प्राप्तुमिच्छन्तीत्यर्थः । यज्ञादीनां ज्ञानसाधनत्वे सत्येव यमादिभिर्ज्ञानं प्राप्तुमिच्छन्तीति व्यपदेश

उपपद्यते; यथाऽसेर्हननसाधनत्वे सत्यसिना जिधांसतीति व्यपदेशः । अतो यज्ञादीनां ज्ञानसाधनत्वमवगम्यते । ज्ञानं च वाक्यार्थज्ञानादर्थान्तरभूतं ध्यानोपासनादिशब्दवाच्यं विशदतमप्रत्यक्षतापन्नस्मृतिरूपं निरतिशयप्रियमहरहरभ्यासोधयातिशयमाप्रयाणादनुवर्त्तमानं मोक्षसाध

नमित्युक्तस्माभिः पूर्वमेव; वक्ष्यति च “आवृविरसकृदुपदेशात्” इत्यादिना । एवंरूपध्यानमहरहरनुष्ठीयमानैर्नित्यैर्नैमित्तिकैः कर्मभिः परमपुरुषाराधनरूपैः परमपुरुषप्रसादद्वारेण जायते इति यज्ञादिना विविधिषन्तीति शास्त्रेण प्रतिपाद्यते । अतः कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिकसर्वकर्मापेक्षा विद्या । अश्ववत्- यथा पुरुषगमनसाधनभूतोऽश्वः स्वपरिकरबन्धपरिकर्मापेक्षः, एवं मोक्षसाधनभूत्रापि विद्या नित्यनैमित्तिककर्मपरिकरापेक्षा । तदिदमाह स्वयमेव भगवान् “यज्ञ दानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दादं तपश्चैव पावनानि मनीषिणाम्” “यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः” इति ॥ 26 ॥

॥ सर्वापेक्षाधिकरणं समाप्तम् ॥