स्तुतिप्रसङ्गादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिणः सन्तीत्युक्तम् “ऊर्ध्वरेतस्सु च शब्दे हि” इत्यादिभिः सूत्रैः । इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदङ्गिका विद्या न सम्भवतीत्याशङ्क्याह- अत एव चाग्नीन्धनाद्यनपेक्षा इति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते “ब्रह्मसंस्थोऽमृतत्वमेति” “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते” “एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति” “यदिच्छन्तो ब्रह्मचर्यं चरन्ति” इत्यादिकया । अत एवोर्ध्वरेतस्तु विद्याऽग्नीन्धनाद्यनपेक्षा, अग्नीन्धनम्-
अग्न्याधानम्, आधानपूर्विकाग्निहोत्रदर्शपूर्णमासादिकर्मानपेक्षा तेषु विद्या । केवलस्वाश्रमविहितकर्मापेक्षेत्यर्थः ॥ 25 ॥
॥ अग्नीन्धनाद्यधिकरणं समाप्तम् ॥