43 पारिप्लवाधिकरणम्

“प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम”, “श्वेतकेतुर्हारुणेय आस” इत्येवमादीनि वेदान्तेष्वाख्यानानि किं पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थनीति चिन्तायाम्

“आख्यानानि शंसन्ति” इत्याख्यानानां पारिप्लवे विनियोगान्न विद्याप्रधानत्वं न्याय्यमिति चेत्- न सवाण्याख्यानानि पारिप्लवप्रयोगे विनियोगमर्हन्ति । कुतः? विशेषितत्वात् विनियोगस्य । “आख्यानानि शंसन्ति” इत्युकत्वा तत्रैव “मनुर्वैवस्वतो राजा” इत्यादिना मन्वादीनामाख्यानानि विशेष्यन्ते । अतस्तेषामेव तत्र विनियोग इति गम्यते । तस्मान्न सर्वा वेदान्तेष्वाख्याननुतयः पारिप्लवप्रयोगार्थाः, अपि तु विद्याविध्यर्थाः ॥ 23 ॥

“आत्मा वा अरे द्रष्टव्यः” इत्यादिविधिनैकवाक्यतयोपबन्धाच्चाख्यानानां विद्याविध्यर्थान्येव तानीति गम्यते; यथा “सोऽरोदीत्” इत्येवमादेः कर्मविध्यर्थत्वम्; न पारिप्लवार्थत्वम् ॥ 24 ॥

॥ पारिप्लवार्थाधिकरणं समाप्तम् ॥