इदमिदानीं चिन्त्यते, “स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः” इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि आहोस्विदुद्गीथादिषु रसतमादिदृष्टिविधानार्थानि इति । अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्तः । किं युक्तं? स्तुतिमात्रपराणीति । कुतः? उद्गीथाद्युपादानात् । क्रत्वङ्गभूतानि ह्युद्गीथादीन्युपादाय तेषां रसतमादित्वं प्रतिपादितम्, यथा जुह्वादीनां पृथिव्यादित्वं प्रतिपादयतो वचनस्य ‘इयमेव जुहूः स्वर्गो लोक आहवनीयः’ इत्यादिकस्य तत्स्तुतिमात्रपरत्वम्, तथेहापि । तदिदमाशङ्कते - स्तुतिमात्रमुपादानादिति चेत् - इति । उद्गीथाद्युपादानात्तत्स्तुतिमात्रमेवैषां वाक्यानां विवक्षितमिति चेत् – अत्रोत्तरं - नापूर्वत्वादिति । न स्तुतिमात्रत्वमुपपद्यते; कुतः अपूर्वत्वात् - अप्राप्तत्वात् । न ह्युद्गीथादयो रसतमादितया प्रमाणान्तरेण प्रतिपन्नाः, येन तत्प्राशस्त्यबुद्ध्युत्पत्त्यर्थं रसतमादित्वेनानूद्येरन् । न चोद्गीथादिविधिरत्र सन्निहितः, येन ‘इयमेव जुहूः स्वर्गो लोक आहवनीयः’ इत्यादिवत्तदेकवाक्यत्वेन यया कयाचन विधया तत्स्तुतिपरत्वमाश्रीयेत । अतः क्रतुवीर्यवत्त्वादिफलसिद्ध्यर्थमुद्गीथादिषु रसतमादिदृष्टिविधानमेव न्याय्यम् ॥ २१ ॥

उपासीतेत्यादिभावशब्दाच्च विधिपरत्वमेव न्याय्यम्, विधिप्रत्यययुक्तो हि क्रियाशब्दो विधेयमेव स्वार्थमवगमयति । तस्मादुपासनविधानार्था एताः श्रुतयः ॥22॥
॥ स्तुतिमात्राधिकरणं समाप्तम् ॥