गुणोपसंहारानुपसंहारफला विद्यैकत्वानात्वचिन्ता कृता । इदानीं विद्यातः पुरुषार्थः? उत विद्याङ्गकात्कर्मणः? इति चिन्त्यते । किं युक्तम्? अतः- विद्यातः पुरुषार्थ इति भगवान्वादरायणो मन्यते, कुतः? शब्दात्, दृश्यते ह्यौपनिषदः शब्दो विद्यातः पुरुषार्थं ब्रुवन् “ब्रह्मविदाप्नोति परम्” “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय” “यथा नद्यः स्यन्दमानाः समुद्र्रेस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्मरं पुरुष
मुपैति दिव्यम्” इत्यादि । अत्र पूवपक्षी प्रत्यवतिष्ठते - ॥ 1 ॥
नैतदेवम्- यद्विद्यातः पुरुषार्थावाप्तिः शब्दावगम्यते इति । न ह्येषः “ब्रह्मविदाप्नोति परम्” इत्यादिशब्दो वेदनात्पुरुषार्थावाप्तिमवगमयति, कर्मसुकर्तृभूतस्याऽऽत्मनो याथात्म्यवेदनप्रतिपादनपरत्वात्, अतः कर्तुः
संस्कारद्वारेण विद्यायाः क्रतुशेषत्वात् तत्र फलश्रुतिरर्थवादमात्रम्, यथाऽन्येषु द्रव्यादिष्विति जैमिनिराचार्यो मन्यते । तदुक्तं “द्रव्यगुणसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्” इति । ननु च कर्मसु कर्तुर्जीवादन्यो मुमुक्षभिः प्राप्यतया वेदान्तेषु वेद्य उपदिश्यते इति प्रागेवोपपादितया वेदान्तेषु वेद्य उपदिश्यते इति प्रागेवोपपादितम् “नेतरोऽनुपपत्तेः” “भेदव्यपदेशाच्च” “अनुपपत्तेस्तु न शारीरः” इतरपरामर्शात्स इति चेन्नासम्भवात्" इत्येवमादिभिः
सूत्रैः । तदेव ब्रह्म तत्त्वमस्यादिसामानाधिकरण्येन जीवादनतिरिक्तमित्येतदपि “अधिकं तु भेदनिर्देशात्” इत्येवमादिभिर्निरस्तम् । सामानाधिकरण्यनिर्देशश्च “ऐतदात्म्यमिदं सर्वं” “सर्वं खल्विदं ब्रह्म” इति चेतनाचेतनसाधारणः, “यः पृथिव्यां तिष्ठन्” “य आत्मनि तिष्ठन्” इत्यादिनाऽवगततत्तदात्मतयाऽवस्थितिनिबन्धन इति “अवस्थितेरिति काशकृत्स्नः” इत्यादिभिरुपपादितम्, तत्कथं कर्मसु कर्त्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दा इति विद्यायाः कर्माङ्गत्वं प्रतिपाद्यते । उच्यते- वेदान्तवाक्यष्वेव विद्यायाः कर्मप्राधान्यं सूचयद्भिर्लिङ्गैस्तदुपवृहितसामानाधिकरण्यनिर्देशेन च वेदान्तशब्दा देहातिरिक्तजीवस्वरूपयाथात्म्योपदेशपरा इति वलादभ्युपगमनीयमिति पूर्वपक्षिणोऽभिप्रायः । ननु च कर्त्तृसंस्कारमुखेन
विद्यायाः क्रत्वनुप्रवेशो न शक्यते वक्तुम्, कर्त्तुर्लौकिकवैदिकसाधारणत्वेनाव्यभिचरितक्रतुसाम्बन्धित्वाभावात् । नैवम्, लौकिकस्य कर्मणः कर्त्तुर्देहादव्यतिरिक्तत्वेऽप्युपपत्तेर्देहातिरिक्तनियत्यात्मस्वरूपस्य
क्रतावेवोपयोगात्तत्त्स्वरूपप्रतिपादनमुखेन क्रत्वनुप्रवेशो न विरुद्धयते । अतो विद्यायाः क्रतुशेषत्वान्नातः पुरुषार्थः ॥ 2 ॥ कानि पुनस्तानि लिङ्गानि; यदुपवृंहितसमानाधिकरण्यनिर्देशेन वेदान्तशब्दा जीवस्वरूपपरा इति निर्णीयन्ते । तत्राह -
ब्रह्मविदां प्राधान्येन कर्मस्वेवाचारो दृश्यते । अश्वषतिः केकयः किलात्मवित्तमस्तद्विज्ञानायोपगतांस्तानृषीन् प्रत्याह - “यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि” इति । तथा च जनकादयो ब्रह्मविदग्रेसराः कर्मनिष्ठाः स्मृतिषु दृश्यन्ते “कर्मणैव हि संसिद्धिमास्थिता जनकादयः” “इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रायः” इति । अतो ब्रह्मविदां कर्मप्रधानत्वदर्शनाद्विद्यायाः कर्तृस्वरूपवेदनरूपत्वेन कर्माङ्गत्वमेवेति न विद्यातः पुरुषार्थः । लिङ्गमिदम्; प्राप्तिरुच्यतामित्यत्राह - ॥ 3 ॥
श्रुतिरेव हि विद्यायाः कर्माङ्गत्वमाह - “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति” इति । नेयं श्रुतिः प्रकरणादुद्गीथमात्रविषयेति व्यवस्थापयितुं शख्या, यतः प्रकरणाच्छ्रुतिर्वलीयसी, “यदेव विद्यया करोति” इति विद्यामात्रविषया हीयं श्रुतिः ॥ 4 ॥
“तं विद्याकर्मणी समन्वारभेते” इति विद्याकर्मणोः साहित्यं च दृश्यते । साहित्यं चोक्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति ॥ 5 ॥
विद्यावतः कर्मविधानात् विद्या कर्माङ्गमित्यवगम्यते “आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे” इत्यादौ । “वेदमधीत्य” इत्यध्ययनवतः कर्माणि विदधदर्थावबोधपर्यन्ताध्यनवत एव विदधाति । अर्थावबोधपर्यन्तं ह्यध्ययनमिति स्थापितम् । अतो ब्रह्मविद्य्रापि कर्मसु
विनियुक्तेति न पृथक्फलायावकल्पते ॥ 6 ॥
इतश्च न विद्यातः पुरुषार्थः । “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः” इत्यात्मविदः पुरुषायुपस्य सर्वस्य कर्मसु नियमेन विनियोगात् कर्मण एव फलमित्यवगम्यते, विद्या तु कर्माङ्गम् । एवं प्राप्ते प्रचक्ष्महे - ॥ 7 ॥
तुशब्दात्पक्षो व्यावृत्तः; विद्यात एव पुरुषार्थः, कुतः? अधिकरोपदेशात्- कर्मासु कर्त्तुर्जीवाद्वेयप्रत्यनीकानवधिकातिशयासङ्खयेकल्याणगुणाकरत्वेनाधिकस्यार्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात् भगवतो वादरायणस्य विद्यातः फलमित्येवमेव मतम् । लिङ्गानि तिष्ठन्तु, वेद्यतयोपदेशशस्तु तावत्कर्त्तुः प्रत्यगात्मनोऽधिकसैव । कथं? तद्दर्शनात् - प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य वेद्यस्य निरस्तनि
खिलहयगन्धस्य स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्तेर्वाङ्गेनसापरिच्छेद्यानन्दस्य जीवाधिपस्य कृत्स्नस्य प्रशासितुः परस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् । “अपहतपाष्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” “तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत” “यः सर्वज्ञः सर्ववित्” “पराऽस्य शक्तिविर्विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” " स एको ब्रह्मण आनन्दः" “यतो वाचो निवर्तन्ते -अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चनेति” “एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एप सेतुर्विधरणः” “स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः” “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” “एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः” “भीषाऽस्माद्वातः पवते । भेषोदेति सूयर्ः । भीषाऽस्मादग्निश्चेन्द्रश्च । नृत्युर्धावति पञ्चमः” इत्यादिषुः । तस्माद्वेदनोपदेशशब्देषु कर्त्तुः प्रत्यगात्मनः खद्यातकल्पस्याविद्यादिहेयसम्बनतधयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषविषयाया विद्यायास्तत्प्राप्तिरूपममृतत्वं तत्र तत्र श्रूयमाणं पलमिति विद्यातः पुरुषार्थ इति सुष्ठूक्तम् । लिङ्गान्यपि निरस्यन्ते -। 8 ॥
यदुक्तम्- ब्रह्मविदां कर्मानुष्ठानदर्शनाद्विद्याकर्माङ्गमिति, तन्न विद्याया अनङ्गत्वेऽपि तुल्यं दर्शनम्, ब्रह्मविदां कर्मानुष्ठानदर्शनमनैकान्तिकमित्यर्थः । अननुष्ठानस्यापि दर्शनात् । दृश्यते हि ब्रह्मविदां कर्मत्यागः “ॠषयः कावषेयाः किमथर्ा वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे” इत्यादौ । अतो ब्रह्मविदां कर्मत्यागदर्शनान्न विद्या कर्माङ्गम् । कथमिदमुपपद्यते- ब्रह्मविदां कर्मानुष्ठानमननुष्ठानञ्च; फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात् । तथाविधस्य कर्मणोऽनुष्ठानदर्शनमुपपद्यते । वक्ष्यति च “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्”
इति, फलार्थस्य तस्यैव यज्ञादेः कर्मणो मोक्षैवफलब्रह्मविद्याविरोधित्वात्तस्याननुषांनदर्शनमुपपन्नतरम् । विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते ॥ 9 ॥
यदुक्तम्- श्रुत्यैव विद्यायाः कर्माङ्गत्वमवगम्यत इति; तत्राह-
न सर्वविद्याविषयेयं श्रुतिः, अपि तूद्गीथविद्याविषयैव “यदेव विद्यया करोति” इति यच्छब्दस्यानिर्धारितविशेषस्य “उद्गीथमुपासीत” इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात् । न हि यत्करोति, तद्विद्ययेति सम्बध्यते, यदेव विद्यया करोति तदेव वीर्यवत्तरमिति विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीय्यर्वत्तरत्वमुच्यते । यच्चेदमुक्तं “तं विद्याकर्मणी समन्वारभेते” इति विद्याकर्मणोः साहित्यदर्शनाद्विद्या कर्माङ्गम् इति; तत्राह - ॥ 10 ॥
“तं विद्याकर्मणी समन्वारभेते” इत्यत्रोक्तेन न्यायेन विद्याकमर्णोर्भिन्नफलत्वाद्विद्या स्वस्मै फलाय समन्वारभते, कर्म च स्वस्मै फलायेति विभागो द्रष्टव्यः । शतवत्- थया क्षेत्ररत्रविक्रयिणं शदद्वयमन्वेतीत्युक्ते क्षेत्रार्थं शतम्, रत्नार्थं शतमिति विभागः प्रतीयते; तथेहापि ॥ 11 ॥
यदुक्तं- विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमिति, नैतद्युक्तम्, “वेदमधीत्य” इति अध्ययनमात्रवतो विधानात् । न चाध्ययनविधिरेवार्थावबोधे प्रवर्त्तयति, आधानवदध्ययनस्याक्षरराशिग्रहणमात्रे पर्य्यवसानात् । गृहीतस्य च स्वाध्यायस्य फलवत्कर्मावबोधीत्वदर्शनात्तन्निर्णयफले तदर्थविचारे पुरुषः स्वयमेव प्रवर्त्तते ।
ततः कर्मार्थी कर्मज्ञाने प्रवर्त्तते, मोक्षार्थी च ब्रह्मज्ञाने इति न विद्या कर्माङ्गम् । यद्यष्यध्ययनविधिरेवार्थावबोधे प्रवर्त्तयति, तथाऽपि न विद्या कर्माङ्गम्, अर्थज्ञानादर्थान्तरत्वाद्विद्यायाः । यधा जयोतिष्टोमादिकर्मस्वरूपविज्ञानात्फलसाधनभूतं कर्मानुष्ठानमर्थान्तरम्, तथाऽर्थज्ञानरूपाद्व्रह्यस्वरूपविज्ञानादर्थान्तरमेव ध्यानोपासनादिशब्दवाच्या पुरुषाथर्साधनभूता विद्येति न तस्याः कर्मसम्भबन्धगन्धो विद्यते ॥ 12 ॥
यच्चोक्तं “कुर्वन्नेवेह कर्माणि” इत्यात्मविदं ज्ञानाद्वयावृत्य यावज्जीवं कर्मानुष्ठाने नियमयतीति; तन्नोपपद्यते, अविशेषात् न ह्यं नियमः फलसाधनभूतस्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति, विद्याङ्गभूतकर्मविषयतयाऽप्युपपत्तेः । “कर्मणैव हि संसिद्धिमास्थिता जनकादयः” इति च विदुषस्त्वाप्रयाणादुपासनस्यानुवर्त्तमानत्वात् । एवमर्थस्वाभाव्येन चोद्यं परिहृत्य “कुर्वन्नेवेह कर्माणि” इत्यस्यार्थमाह - ॥ 13 ॥
वाशब्दोऽवधारणार्थः, “ईशावास्यमिदं सर्वम्” इति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् । विद्यामाहात्म्यात् सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वाक्यशेषश्चैवमेव दर्शयति “एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे” इति । अतो न कमाङ्गं विद्या ॥ 14 ॥
अपि चैवमेके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते “किं प्रजया करिष्यामो येषां नोयमामाऽयं लोकः” इति विदुषो विरक्तस्य कामकारेण गार्हस्थ्यकर्मत्यागं ब्रुव्रदिदं वचनं ब्रह्मविद्यायाः कर्मानङ्गत्वं दर्शयति । यज्ञादिकर्माङ्गत्वे हि विद्याया विद्यानिष्ठस्य कामकारेण गार्हस्थ्यत्यागो न सम्भवति । अतो न विद्या कर्माङ्गम् ॥ 15 ॥
पुण्यापुण्यरूपस्य समस्तसांसारिकदुःखमूलस्य कर्मणो ब्रह्मविद्ययोपमर्दां च प्रतिवेदान्तमधीयते “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” इत्यादिकम् । तद्विद्यायाः कर्माङ्गत्वे न सङ्गच्छते ॥ 16 ॥
ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात्तेष्वग्निहोत्रदर्शपूणमासादिकर्माभावाच्च न विद्या कर्माङ्गम् । ननूर्ध्वरेतस आश्रमा न सन्त्येव “यवज्जीवमग्निहोत्रं जुहोति” इत्यादिनाऽग्निहोत्रदशर्पूर्णमासादीनां यावज्जीवाधिकारश्रुतेः । श्रुतिविरुद्धानां स्मृतीनां चाप्रामाण्यात् । अत आह- शब्द हि इति । वैदिके एव हि शब्दे ते दृश्यन्ते “त्रयो धर्मस्कन्धाः” ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" “एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति” इत्यादौ । यावज्जीवश्रुतिस्त्वविरक्तविषया ॥ 17 ॥
यदिदम् “त्रयो धर्मस्कन्धाः” इत्यादौ वैदिके शब्दे ऊर्ध्वरेत आश्रमा दृश्यन्ते, अतस्ते सन्त्येवेति, नैतदुपपद्यते, यतः “त्रयो धर्मस्कन्धाः” इत्यादिषु वाक्येषु तेषामाश्रमाणां परामर्शमात्रं क्रियते, अनुवादमात्रमित्यर्थः । कुत एतत? चोदनात्- अविदानादित्यर्थः । न ह्यत्र विधिशब्दः श्रूयते; “त्रयो धमर्स्कन्धाः” इत्यादिेना हि प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते, “ब्रह्मसंस्थोऽमृतत्वमेति” इत्युपसंहारात् । अतोऽन्यार्थमनुवादमात्रमत्र क्रियते तेषामाश्रमाणाम् । “ये चेमेऽरण्ये श्रद्धा तप इत्यपासदे” इति च देवयानविधिपरत्वात्तत्रापि नाश्रमान्तरविधिसम्भवः । अपि चापवदति हि श्रुति राश्रमान्तरं “वीरहा वा एष देवानां योऽग्निमुद्वासयेत” इत्यादिेका । अत ऊर्ध्वरेतस आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ॥ 18 ॥
गृहस्थाश्रयमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् वादरायणो मन्यते । कुतः? साम्यश्रुतेः- उपादेयतयाऽभिमत
गृहस्थाश्रमसाम्यं हि तेषामप्याश्रमाणां श्रूयते “त्रयो धर्मस्कन्धाः” इत्यारभ्य ब्रह्मसंस्थस्तुत्यर्थतया स्कीर्त्तनं गृहस्थाश्रमस्येतरेषां च समानम् । अथ गृहस्थाश्रमस्यानुवादः प्राप्तो सत्यामेव सम्भवतीति तस्य प्रप्तिरवश्याभ्युपेत्येति मतम्, तदितरेषामपि समानम्, अन्यत्राऽभिनिवेशात् । न च गार्हस्थ्यधर्म एव “यज्ञोऽध्ययनं दानं तपो ब्रह्मचर्य” मिति सर्वैः शब्दैरभिधीयते, ब्रह्मचर्यतपसोर्गृहस्थस्यैव सम्भवादिति युक्तम्, “त्रयो धर्मस्कन्धाः”
इति त्रित्वेन संगृह्य “प्रथमो द्वितीयस्तृतीयः” इति विभागवचनानुपपत्तेः । अतो “यज्ञोऽध्ययनं दान"मिति गृहस्थाश्रम उच्यते । अध्ययनशब्दो वेदाभ्यासपरः । तपःशशब्देन वैस्वानसपारिव्राज्ययोगर्रहणम्, उभयोस्तपःप्रधानत्वात् । तपः शब्दो हि कायक्लेशे रूढः, स चं द्वयोरपि समानः । ब्रह्मचारिधर्म एव ब्रह्मचयर्शब्देनाभिधीयते, “ब्रह्मसंस्थशब्दो यौगिकः सर्वाश्रमसाधारण।, सर्वेषामाश्रमिणां ब्रह्मसंस्थासम्भवात् । ब्रह्मणि संस्थासंस्थितिर्ब्रह्मसंस्थत्वं, तच्च सर्वेषां सम्भवत्येव । ब्रह्मनिष्ठाविकलाः केवलाश्रमिणः पुण्यलोकभाजः; तेष्वेव ब्रह्मनिष्ठोऽमृतत्वभाग्भवति । तदेतद्विस्पष्टमुक्तं भगवता पराशरेण “प्राजापत्यं ब्राह्मणाना"मित्यारभ्य “ब्राह्मं संन्यासिनां स्मृत” मित्यन्तेन वर्णानामाश्रमाणां च केवलानां ब्रह्मलोक
प्राप्त्यन्तं फलमभिधाय “एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परमठ स्थानं यद्वै पश्यन्ति सूरयः” इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्मप्राप्तिमभिदधाता । अतो गृहस्थाश्रमतुल्या ऊर्ध्वरेतस आश्रमा अपि दृश्यन्त इति तेऽप्यनुष्ठेयाः । “ये चेमेऽरण्ये श्रुद्धा तपः इत्युपासते” इति च अरण्ये इति तपःप्रधानाश्रमप्राप्त्यपेक्षत्वाद् देवयानविधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया । परामर्शपक्षे विधानपक्षे च गृहस्थाश्रमतुल्यमेषामप्यनुष्ठेयत्वमित्युपपाद्य विधिरेवायमाश्रमाणां सर्वेषां नानुवाद इत्युपपादयितुमाह -। 19 ॥
वाशब्दोऽवधारणार्थः । विधिरेवायमाश्रमाणाम्; धारणवत्; यथा दिष्टाग्निहोत्रे “अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति” इत्यत्रानुवादसरूपादपि वाक्यादुपरि धारणस्याप्राप्तत्वद्विधिराश्रीयते; तदुक्तं शेषलक्षणे “विधिस्तु धारणेऽपूर्वत्वात्” इति; तथा अत्राप्यप्राप्तत्वाद्विधिरेवाश्रयणीयः “ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव प्रव्रजेत्” इति जावालानामाश्रमविधिमसन्तमिव कृत्वा एतेष्वन्यपरेष्वपि वाक्येष्वाश्रयमप्राप्तिरवश्याश्रयणीयेत्युपपादितम् । एवमाश्रमान्तरविधानादृणश्रुतिर्यावज्जीवश्रुतिरपवादश्रुतिश्चाविरक्तविषया एवेति वेदितव्याः । अन्याश्च ब्रह्मविदः कर्मणामाप्रयाणादवश्यकर्तव्यताविधायिन्यः श्रुतयः स्मृतयश्च स्वस्वाश्रमधर्मविषयाः । अत ऊध्वर्रेतस्सु च ब्रह्मविद्याविधानाद्विद्यात पुरुषार्थ इति सिद्धम् ॥ 20 ॥
॥ पुरुषार्थाधिकरणं समाप्तम् ॥